सूत्रार्थरत्नावली/चतुर्थोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | सूत्रार्थरत्नावली तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
॥ श्रीः ॥
॥ हरिः ॥
॥ अथ तृतीयः पादः ॥
मार्गो गम्यं चास्मिन्पाद उच्यते।
1.अधिकरणं ॥
अत्र ज्ञानिप्राप्यमार्गं साध्यते।
<4-3-1>
(1) ॥ अर्चिरादिना तत्प्रथितेः ॥
ननु द्वावेव मार्गाविति। तत्रैकस्मिन् मार्गेऽर्चिषो लोकः प्रथमः। मार्गांतरे तु वायुलोकः। तेऽर्चिषमभिसंभवंति [छां. 5-10-1.] स वायुमागच्छती[बृ. 7-10-1.]त्युभयविधश्रुतिविरोधः। ततश्च गुरूपदेशात्प्राक् निर्णयाभावात्स्मरणानुपपत्तिरिति प्राप्ते सूत्रमाह ॥
॥ अर्चिरादिना तत्प्रथितेरिति ॥ अस्यार्थः ॥ उत्क्रांतो ज्ञानि अर्चिरादिना मार्गेण गच्छति। कुतः। तत्प्रथितेः। तस्य तेऽर्चिषमभिसंभवंतीति श्रुतौ तस्यार्थस्य प्रसिद्धत्वादित्यर्थः ॥
एवंच द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चितां। धूमादिः कर्मिणां चैवेति [ब्रह्मतर्के.] स्मृतेः। तत्र द्वावग्नेः सुतौ एकस्मिन्पुरे संस्थितौ। तत्रैकोऽग्निनामकोऽपरो ज्योतिर्नामकः। तदुभयाधिष्ठितस्य लोकस्य प्रथमप्राप्तिः। प्रबलैतच्छ्रुतिविरोधेन स वायुमिति श्रुतेरर्चिरनंतरार्थत्वोपपत्तेः। अत एक एव विपश्चितो मार्ग इति विनिर्णयादनुस्मृतिसंभव इति सिद्धं ॥
</4-3-1>
॥ इति अर्चिराद्यधिकरणं ॥
2.अधिकरणं ॥
अत्र वायोर्द्वितीयप्राप्यत्वं साध्यते।
<4-3-2>
(2) ॥ वायुशब्दादविशेषविशेषाभ्यां ॥
नन्वधिकारिविभेदेन मार्गभेदात्। वायुलोकस्येवाहर्लोकस्यापि द्वितीयप्राप्यत्वं। स वायुमागच्छति [बृ. 7-10-1.] अर्चिषोऽहरिति [छां. 5-10-1.] चोभयत्रापि श्रुतिसद्भावात्। न चैकस्य पूर्वत्वं परस्यानंतर्यमिति व्यवस्था। विशेषप्रमाणाभावात्। अतो मार्गनिर्णयाभावादनुस्मृत्ययोग इति प्राप्ते सूत्रितं ॥
॥ वायुशब्दादविशेषविशेषाभ्यामिति ॥ अस्यार्थः ॥ अविशेषविशेषाभ्यां वायोः प्राप्यत्वश्रुतेः उभयपर्यालोचनया वायोः द्वितीय प्राप्यत्वमेवेत्यर्थः ॥
एवंचार्चिष इति वायोः प्रथम प्राप्यत्वश्रुतेः सामान्यश्रुतेश्च मुख्यप्राथम्यबाधेऽमुख्यप्राथम्यपरत्वात्। तद्यथा न हिंस्यादिति निषेधस्य यागीयपशुहिंसानिषेधपरत्वासंभवेन बाह्यहिंसानिषेधपग्त्वं। तथा स इतो गत इति विशेषश्रुतेश्च। अतो मार्गानिर्णयेन युक्ता तदनुस्मृतिरिति सिद्धं ॥
</4-3-2>
॥ इति वायुशब्दाधिकरणं ॥
3.अधिकरणं ॥
अत्र तटिदभिमानिलोकस्य संवत्सराभिमानिलोकानंतरप्राप्यत्वं साध्यते।
<4-3-3>
(3) ॥ तटितोऽधि वरुणः संबंधात् ॥
ननु वरुणतटितोरुभयोरपि संवत्सरानंतर्यं। मासेभ्यः संवत्सरमिति [कौंडिन्यश्रुतिः.] तथा संवत्सरात्तटितमि[गौपवनश्रुतिः.]त्युभयथाश्रुतेर्मार्गभेदेनोभयोरपि संवत्सरानंतर्योपपत्तौ अन्यतरस्वीकारे कारणाभावात्। अतो मार्गनिर्णयाभावात्तदनुस्मरणानुपपत्तिरिति प्राप्ते सूत्रमाह ॥
॥ तटितोऽधि वरुणः संबंधादिति ॥ अस्यार्थः ॥ तटितोऽधि तटित्प्राप्त्यनंतरं वरुणः प्राप्यः। कुतः। संबंधात् वरुणस्य तटित उपरि संबंधादित्यर्थः ॥
एवंच वरुणतटितोरुभयोरपि संवत्सरानंतर्यं न ग्राह्यं। किंत्वेक एव मार्गः। तत्र संवत्सरानंतरं तटितमेव गच्छति। न च श्रुत्यंतरविरोधः। तटितोऽनंतरं वरुणस्य प्राप्यत्वेन तदर्थत्वोपपत्तेः। तत्र तटित इत्युपरिसंबंधश्रुतेः। अतो मार्गैक्येनानुस्मरणमुपपद्यत इति सिद्धं ॥
</4-3-3>
॥ इति तटिदधिकरणं ॥
4.अधिकरणं ॥
अत्रार्चिरनंतरप्राप्यस्य वायोरातिवाहिकत्वं समर्थ्यते।
<4-3-4>
(4) ॥ आतिवाहिकस्तल्लिंगात् ॥
ननु स वायुमागच्छतीति [बु. 7-10-1.] प्रथमप्राप्ततयोक्तो वायुर्मुख्यः। वायुशब्दस्य तत्रैव मुख्यत्वात्। बाधकं विना मुख्यार्थत्यागायोगात्। मुख्यत्वेऽपि प्राप्यत्वात्। अतो वायोरर्चिषानंतरं प्राप्यत्वान्न तस्याधिक्यमिति प्राप्ते सूत्रं पठति ॥
॥ आतिवाहिकस्तल्लिंगादिति ॥ अस्यार्थः ॥ पूर्वं द्वितीयप्राप्यत्वेनोक्तो वायुरातिवाहिक एव न मुख्यः। कुतः। तल्लिंगात् पूर्वप्राप्यत्ववायुशब्दात्। अर्चिषः स इति रूपतद्धर्मादेरित्यर्थः ॥
एवंच पूर्वगमनलिंगात्। पूर्वगमनमात्रस्यार्चिरादिगतत्वेनातिवाहिकत्वासाधकत्वेऽपि वायुत्वनिश्चयसहकृतस्य तत्साधकत्वमुपपन्नमेव। तद्यथा त्रिवर्णेतरमात्रस्यांत्यजादिगतत्वेन शूद्रत्वासाधकत्वेऽपि वर्णनिश्चयसहकृतस्य शूद्रत्वसाधकत्वमुपपद्यते। तथा चातिवाहिक एवायं वायुः प्रथमप्राप्य इति मुख्यस्य मुख्यत्वमिति सिद्धं ॥
</4-3-4>
<4-3-5>
(5) ॥ उभयव्यामोहात्तत्सिद्धे ॥
नन्वेवमपि नायं पूर्वपक्षोऽनुवर्तते। मुख्यस्य प्रथमप्राप्यत्वानंगीकारे तदप्राप्तिप्रसंगरूपबाधकसद्भावात्। अथ मतं। द्यौर्वव विद्युत्तत्पतिं वायुमुपगम्येति पुनरपि वायुप्राप्तिः श्रूयते। स मुख्यो भविष्यतीति न मुख्यप्राप्तिरदोष इति प्राप्ते सूत्रं पठति ॥
॥ उभयव्यामोहात्तत्सिद्धोरिति ॥ अस्यार्थः ॥ सप्तम्यर्थे पंचमी। उभयव्या मोहात् पूर्वोक्तवायुरातिवाहिको मुख्यो वा उत्तरोक्तवायुरातिवाहिको मुख्यो वेति संदेहे। तत्सिद्धेः तेन दिवस्पतित्वविशेषणेन तस्य उत्तरोक्तस्य वायोर्मुख्यत्वसिद्धेर्नानिर्णय इत्यर्थः ॥
एवंचासंशयानुवृत्तिदोषः किं पूर्वोक्तातिवाहिक उतापर। तथा परत्रोक्तातिवाहिक किंवापरः। इति संशयनिरासे कारणाभावात्। ततश्चायमातिवाहिक इति निश्चयो न घटत इति चेन्न। उत्तरे दिवस्पतित्वविशेषणेन मुख्यवायुत्वनिश्चये परत्र परिशेषेण वाऽऽतिवाहिकत्वनिश्चयोपपत्तेः। उत्क्रांतस्त्विति [ब्रह्मतर्क.] स्मृतेश्च। अतः प्रथम प्राप्यस्यातिवाहिकत्वाद्युक्तं मुख्यस्य मुख्यत्वमिति सिद्धं ॥
</4-3-5>
॥ इति आतिवाहिकाधिकरणं ॥
5.अधिकरणं ॥
अत्र मुख्यवायोरंतिमत्वं समर्थ्यते।
<4-3-6>
(6) ॥ वैद्युतेनैव ततस्तच्छ्रुतेः ॥
ननु वायोः परतो ब्रह्मणोऽर्वाग्गंतव्योऽस्ति। तथांऽगीकारे बाधकाभावात्। एवं च न वायोरस्ति ब्रह्मप्रापकत्वरूपं विशिष्टं माहात्म्यमिति प्राप्ते सूत्रमाह ॥
॥ वैद्युतेनैव ततस्तच्छ्रुतेरिति ॥ अस्यार्थः ॥ ज्ञानी वैद्युतेनैव विद्युत्पत्तिना वायुनैव ब्रह्म गच्छति न तु मध्ये। ततः वायोरन्यः प्राप्योऽस्ति। कुतः। तच्छ्रुतेः। तस्य वायोरेव स एनान् ब्रह्मगमयतीति (छां. 4-15-6.) ब्रह्मगमयितृत्वश्रुतेरित्यर्थः ॥
एवंच नास्त्येव वायोरनंतरप्राप्यः। यतो विद्युत्पतिनावायुनैव ब्रह्मप्राप्तिः। न तदन्येन तस्य ब्रह्मप्रापणसामर्थ्याभावात्। वायोः सामर्थ्ये प्रमाणत्वेन स एनानिति श्रुतिसद्भावात्। विद्युत्पतिरिति [बृहत्तंत्र.] स्मृतेश्च। अतो वायोरेवांतिमप्राप्यत्वाद्युक्तं तस्यातिशयेन प्राधान्यमिति सिद्धं ॥
</4-3-6>
॥ इति वैद्युताधिकरणं ॥
6.अधिकरणं ॥
अत्र पूर्वं विचारितेनार्चिरादिना मार्गेण गतानामल्पाधिकारिणां देवानां च गम्यं निरूप्यते।
<4-3-7>
(7) ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥
नन्वर्चिरादिमार्गेण गतानां सर्वेषां कार्यब्रह्मप्राप्तिरेव न परप्राप्तिः। तत्प्राप्तेरेवोपपन्नत्वात्। देवव्यतिरिक्तानां परप्राप्त्ययोग्यत्वस्य ऋते देवानिति [अध्यात्म.] वचनात्सिद्धत्वादिति प्राप्ते सूत्रमाह ॥
॥ कार्यं बादरिरस्य गत्युपपतेरिति ॥ अस्यार्थः ॥ कार्यं उत्पत्तिमच्चतुर्मुखाख्यं। ब्रह्म। वायुर्गमयतीति स इति श्रुत्यर्थ इति वादरिराचार्यो मन्यते। कुतः। अस्य चतुर्मुखस्यैव। गत्युपपत्तेः प्राप्यत्वोपपत्तिरित्यर्थः ॥
एवंचोत्क्रांतानां परप्राप्त्यनुपपत्तौ देवभिन्नत्वे सति बद्धत्वादिति युक्तिबलेन ब्रह्मश्रुतेरमुख्यार्थत्वांगीकारात्। देवानां साक्षाद्ब्रह्मप्राप्तेर्देहलयानंतरं मुक्तिदशायां वा ततः पूर्वं मानुषत्वेन जातानां देवानामुत्क्रांत्यनंतरं बंधदशायामेवेत्यभ्युपगमात्। चतुर्मुखमुक्तेरर्वागर्चिरादिमार्गेण गतानां कार्यं ब्रह्म गमयतीति बादिरिर्मन्यत इति सिद्धं ॥
</4-3-7>
<4-3-8>
(8) ॥ विशेषितत्वाच्च ॥
कार्यस्यैव प्राप्तौ न केवलं युक्तिर्नापि स्मृतिः साधिका किंतु विशेषश्रुतिरपीत्याह सूत्रकृत् ॥
॥ विशेषितत्वाच्चेति ॥ अस्यार्थः ॥ यदीति (कौषारव.) श्रुतौ प्राप्तव्यब्रह्मणश्चतुर्मुखपदेन विशेषितत्वाच्चोक्तं युक्तमित्यर्थः ॥
एवंच यदि हवावेति श्रुत्या परमात्मानमभिपश्यन्नपि देवभिन्नज्ञानिनो बंधकाले चतुर्मुखाख्यमेव ब्रह्मप्राप्यत्वार्थकत्वेन प्रमाणबलादन्यज्ञानादन्यप्राप्तेरुक्तत्वाच्च। निर्दिष्टविशेषणसद्भावात्। अत उक्तं युक्तमिति सिद्धं ॥
</4-3-8>
<4-3-9>
(9) ॥ सामीप्यात्तु तद्व्यपदेशः ॥
ननु ब्रह्मविदाप्नोति परमिति [तै. 2-1.] साक्षाद्ब्रह्मप्रप्त्युक्तिविरोधो भवेत्। तस्याः कार्यब्रह्मप्राप्त्यनंतरं समीप एव परप्राप्त्यर्थकत्वादिति प्राप्ते पराकुर्वत्सूत्रमाह ॥
॥ सामीप्यात्तु तद्व्यपदेश इति ॥ अस्यार्थः ॥ यतस्तद्व्यपदेशः ब्रह्मविदिति परब्रह्मप्राप्तिश्रुतिः। सामीप्यात् चतुर्मुखं प्राप्याचिरेण परं प्राप्नोतीति कालसामीप्यादेव। तदनुसृत्यैव प्रवर्तते। अतो न तद्विरोध इत्यर्थः ॥
एवंच निर्दिष्टश्रुतेः कार्यपरप्राप्त्योः कालसामीप्यान्निमित्तादेव प्रवृत्तत्वेन ज्ञानिनः समीपकाल एव कार्यं प्राप्याचिरेणैव परस्यापि प्राप्तेरित्यर्थकत्वात्। अवधारणशून्यत्वेन कार्यप्राप्तेर्निषेधाभावात्। सामान्यश्रुतेश्च विशेषश्रुत्या बाधोपपत्तेः। अतो ज्ञानिनां प्रलये पूर्वप्राप्तिसद्भावेन तस्य कार्यप्राप्तिरिति सिद्धं ॥
</4-3-9>
<4-3-10>
(10) ॥ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥
ननु समीपत एव परं ब्रह्म प्राप्नोतीति कोऽर्थः। प्रलयादर्वाक् उत प्रलय एव। नाद्यः। प्रथमं परप्राप्तौ बाधकत्वेनोक्तस्य बद्धत्वस्यात्रापि बाधकत्वसाम्यात्। तथात्वे वा प्रथममेव परप्राप्त्युपपत्तेः। न द्वितीयः। विशेषप्रमाणाभावादिति प्राप्ते परिहरत्सूत्रमुपन्यस्यति ॥
॥ कार्यात्ययेतदध्यक्षेण सहातः परमभिधानादिति ॥ अस्यार्थः ॥ कार्यात्यये महाप्रलये। तदध्यक्षेण सह कार्यस्वामिना चतुर्मुखेन सह। अतः चतुर्मुखात्। परं उत्तमं ब्रह्म। ज्ञानी गच्छति। कुतः। अभिधानात् तथा श्रुतेरित्यर्थः ॥
एवंच सकलकार्यविलयानंतरं कार्याधिपतिना चतुर्मुखेन सह तत्प्रसादान्मुमुक्षोः परप्राप्तेरभ्युपगमात्। प्रलये ज्ञानिनां लिंगशरीरान्मुक्तत्वेन तदभावेन बद्धत्वाविरोधात्। तत्र प्रमाणत्वेन ते हेति [सौपर्ण.] श्रुतिसद्भावात्। अतश्चतुर्मुखस्य कार्यप्रपंचाधिकृतत्वात्तद्ब्रह्मजिगमिषूणां तेनैव सह गमनं युक्तमिति सिद्धं ॥
</4-3-10>
<4-3-11>
(11) ॥ स्मृतेश्च ॥
स्मृत्याप्येतमर्थं साधयत्सूत्रमुपन्यस्यतां स्मृतिमुदाहरति ॥
॥ स्मृतेश्चेति ॥ अस्यार्थः ॥ ब्रह्मणेति स्मृतेर्विद्यमानत्वाच्च ज्ञानी चतुर्मुखेन सह परं प्राप्नोतीति सिध्यतीत्यर्थः ॥
एवंच निर्दिष्टश्रुत्या परात्मानो ज्ञानिनो ब्रह्मणां संवत्सरशतानंतरं प्रलये संप्राप्ते सति चतुर्मुखेन सह ब्रह्म प्रविशंतीति कार्यब्रह्मणा सहगमनं युक्तमिति सिद्धं ॥
</4-3-11>
<4-3-12>
(12) ॥ परं जैमिनिर्मुख्यत्वात् ॥
पूर्वपक्षांतरं सूचयत्सूत्रमुपन्यस्यति ॥
॥ परं जैमिनिर्मुख्यत्वादिति ॥ अस्यार्थः ॥ ज्ञानी परं ब्रह्मैव प्राप्नोति। न तु कार्यब्रह्म। कुतः। मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वादिति जैमिनिराचार्यो मन्यत इत्यर्थः ॥
एवंच स एनानिति [छां. 4-15-6.] श्रुतिवाक्ये ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वेन वायुरेनान् परं ब्रह्मगमयति न कार्यमिति जैमिन्याचार्यो मन्यत इति स्थितं ॥
</4-3-12>
<4-3-13>
(13) ॥ दर्शनाच्च ॥
ननु ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि प्रागुक्तोपपत्तिश्रुतिस्मृतिविरोधात्तद्ग्रहणानुपपत्तेरमुख्यार्थकल्पना युक्तेत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ दर्शनाच्चेति ॥ अस्यार्थः ॥ ज्ञानी परं ब्रह्मैव गच्छति। कुतः। तेन श्रवणादिभिः परब्रह्मण एव दृष्टत्वादित्यर्थः ॥
एवंच ज्ञानिभिः श्रवणादिसाधनैरपरोक्षतया परब्रह्मण एव ज्ञातत्वेनान्यस्यादृष्टत्वेन वायुस्तान् परं गमयतीत्युपपन्नमिति सिद्धं ॥
</4-3-13>
<4-3-14>
(14) ॥ न च कार्ये प्रतिपत्यभिसंधिः ॥
हेत्वंतरेण परप्राप्तिरेवोपपन्नेत्येतमर्थं प्रतिपादयत्सूत्रमुपन्यस्यति ॥
॥ न च कार्ये प्रतिपत्त्यभिसंधिरिति ॥ अस्यार्थः ॥ इतोऽपि ज्ञानिनः कार्यब्रह्मप्राप्तिरनुपपन्ना। कुतः। चो यतः। कार्ये ब्रह्मणि विषये। ज्ञानिनः प्रतिपत्त्यभिसंधिः। प्रतिपत्तिः उपास्तिः। अभिसंधिः प्राप्नुवानीतीच्छा। नास्ति। अत इत्यर्थः ॥
एवंच ज्ञानिनां कार्य एव प्रतिपत्त्यभिसंध्योरभावात्। परविषये तु तयोरभावाभावात्। यदुपास्ते पुमानिति [पाद्मे.] स्मृतेः। ततश्च वायुः परमेव तान् गमयति न कार्यमिति सिद्धं ॥
</4-3-14>
<4-3-15>
(15) ॥ अप्रतीकालंबनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ॥
अधिकारिभेदेनोभयप्राप्तिरिति सिद्धांतयत्सूत्रमुपन्यस्यति ॥
॥ अप्रतीकालंबनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्चेति ॥अस्यार्थः ॥ वायुरप्रतीकालंबनान् व्याप्तोपासकानधिकारिणः नयति परं ब्रह्म गमयति। अन्यान् प्रतीकालंबनान् प्रतिकशब्दितदेहांत उपासकान् कार्यब्रह्म नयतीति। स एनान् इति (छां. 4-15-6.) श्रुत्यर्थ इति बादरायणाचार्यो मन्यते। कुतः। उभयथा च दोषात्। एनां व्यवस्थामनंगीकृत्य सर्वेषां एकैकप्राप्त्यंगीकारे कार्यब्रह्मपरब्रह्मपाप्त्यंगीकारे कार्यपरब्रह्मप्राप्तिपक्षद्वयोक्तदोषत्वप्राप्तेः। ननु यत्प्राप्तुमभिवांछंति तत्प्राप्नोतीति (पाद्म.) वचनात्तत्तदिच्छामात्रेण तत्तत्प्राप्तिसंभवान्नोक्तव्यवस्थांगीकार्येत्यत आह। तत्क्रतुश्चेति। अनेन स यथा कामो भवति तत्क्रतुर्भवतीत्यादि (बृ. 6-4-5.) श्रुतिर्गृह्यते। च शब्दो यत इत्यर्थे। यतः स यथेति श्रुतिस्तत्तत्प्राप्तीच्छामात्रेण तत्तत्प्राप्तिं प्रतिषिध्य तत्ज्ञानोपासनापरोक्षैरेव तत्प्राप्तिं वक्ति। अतस्तत्तदिच्छामात्रेणैव न तत्प्राप्तिर्युज्यत इत्यर्थः ॥
एवंच वायुः प्रतीकालंबनान्मनुष्यांश्च कार्यं नयति। अप्रतीकालंबनेषु ऋषीणां शतं राज्ञां शतं च परं न्यतीति श्रुत्यर्थत्वात्। सर्वान्कार्यं नयतीत्यर्थत्वे सर्वान्परमेव नयतीत्यर्थत्वे च दोषसद्भावात्। न चेच्छावशेनैव कार्यपरप्राप्त्योरसंभवेनाप्रतीकालंबनत्वादिविशेषांगीकारो व्यर्थ इति वाच्यं। स यथा काम इति श्रुतौ तत्प्राप्तीच्छूनामिच्छानुसारेण तत्प्राप्तिप्रतिषेधात्। प्रतीकालंबनत्वादिविभागे प्रतीकमिति [गारुड.] स्मृतेः प्रमाणत्वेन सद्भावात्। अतो ज्ञानिनामधिकारिभेदेनोभयप्राप्तिरिति भगवान्बादरायणो मन्यत इति सिद्धं ॥
</4-3-15>
<4-3-16>
(16) ॥ विशेषं च दर्शयति ॥
यदुक्तं नेच्छानुसारेण प्राप्तिरपि तु प्रतीकालंबनादिक्रमेणैवेति न तद्युक्तं। केचिदप्रतीकालंबनाः केचित्प्रतीकालंबना इति नियमे प्रमाणाभावेन यथेष्टमप्रतीकालंबनत्वापादनस्यापि संभवादित्याशंकां परिहरत्सूत्रं पठति ॥
॥ विशेषं च दर्शयतीति ॥ अस्यार्थः ॥ चो यतः। अंतः प्रकाशा इति (चतुर्वेदशिखायां) श्रुतिः केचनाप्रतीकालंबनाः केचनप्रतीकालंबनाः इति विशेषं भेदं दर्शयति प्रतिपादयति। तस्माच्चोक्तं युक्तमिर्त्यथः ॥
एवंचांतः प्रकाशा इति श्रुत्या प्रतीकाप्रतीकलंबनयोर्विशेषभेदस्य प्रतिपादित्वात्। अतोऽप्रतीकालंबनानित्याद्युक्तं युक्तमिति सिद्धं ॥
</4-3-16>
॥ इति कार्याधिकरणं ॥
॥ इति चतुर्थाध्यायस्य तृतीयः पादः ॥