सुश्रुतसंहिता/सूत्रस्थानम्/अध्याय १६-३०

विकिस्रोतः तः
Jump to navigation Jump to search
षोडशोऽध्यायः
अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्! यङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकैःप्रलोभ्याभिसान्त्वयन्
भिषग्वामहस्तेनाकृषय कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनै-र्दक्षिणहस्तेनर्जु विध्येत् प्रतनुकं सूच्या बहलमारया पूर्वं दक्षिणं कुमारस्य वामं कुमार्याः ततः पिचुवर्तिं प्रवेशयेत् ३
शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात् निरुपद्र वतया तद्देशविद्धमिति ४
तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्र वा भवन्ति तत्र कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति तेषु यथास्वं प्रतिकुर्वीत ५
क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदाया प्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधु कैरण्डमूलमञ्जिष्ठा-यवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति सुरूढं चैनं पुनर्विध्येत् विधानं तु पूर्वोक्तमेव ६
तत्र सम्यग्विद्धमामतैलेन परिषेचयेत् त्र्! यहात्त्र्! यहाच्च वर्ति स्थूलतरां दद्यात् परिषेकं च तमेव ७
अथ व्यपगतदोषोपद्र वे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ८
एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम्
दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ९
तत्र समासेन पञ्चदशकर्णबन्धाकृतयः तद्यथानेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटस-न्धिकोऽधकपाटसन्धिकः संक्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौ-ष्ठकः इति तेषु पृथुलायतसमोभयपालिर्नेमिसन्धानकः वृत्तायतसमोभय-पालिरुत्पलभेद्यकः ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः अभ्यन्तरदीर्घैकपालि-रासङ्गिमः बाह्यदीर्घैकपालिर्गण्डकर्णः अपालि रुभयतोऽप्याहार्यः पीठोप-मपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिम् स्थूलाणुसमविषमपालिर्व्यायो-जिमःअभ्यन्तर दीर्घैकपालिरितराल्पपालि कपाटसन्धिकः बाह्यदीर्घैकपालि रितराल्पपालिरर्धकपाटसन्धिकः तत्र दशैते कर्णबन्धविकल्पाः साध्याः ते-षां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः संक्षिप्तादयः पञ्चासाध्याः तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालि संक्षिप्तः अनधिष्ठानपालि पर्यन्त-योः क्षीणमांसो हीनकर्णः तनुविषमाल्पपालिर्वल्लीकर्णः ग्रथितमांसस्तब्ध-सिरातत सूक्ष्मपालिर्यष्टिकर्णः निर्मांससंक्षिप्ताग्राल्पशोणितपालि काकौष्ठक इति बद्धेषवपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति १०
भवन्ति चात्र
यस्य पालिद्वयमपि कर्णस्य न भवेदिह
कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ११
वाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत्
आभ्यन्तरायां दीर्घायां बाह्यसन्घिरुदाहृतः १२
एकैव तु भवेत् पालि स्थूला पृथ्वी स्थिरा च या
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् १३
गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता
कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् १४
अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसंभारं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति ततोऽङ्गनां पुरुषं वा ग्र-थितकेशान्तं लघु भुक्तवन्तमाप्तऐः सुपरिगृहीतं च कृत्वा बन्धमुपधार्य छेद्य-भेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति तत्र वा-तदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुराम-ण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनवलिख्यानुन्नतमहीनमविषमं च कर्ण-सन्धिं सन्निवेश्य स्थितरक्तं संदध्यात् ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोर-न्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णे नावकीर्याचारिकमुपदिशेत् द्विव्रणीयोक्तने च विधानेनोपचरेत् १५
भवति चात्र
विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम्
व्यवायमग्निसंतापं वाक्श्रमं च विवर्जयेत् १६
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा संदध्यात् स हि वातदुष्टे रक्ते रू-ढोऽपि परिपुटनवान् पित्तदुष्टे दाहपाकरागवेदनावान् श्लेष्मदुष्टे स्तब्धः कण्डूमान् अतिप्रवृत्तरक्ते श्यावशोफवान् क्षीणोऽल्पमांसो न वृद्धिमुपैति १७
आमतैलेन त्रिरात्रं परिषेचयेत् त्रिरात्राच्च पिचुं परिवर्तयेत् स यदा सुरूढो निरुपद्र वः सवर्णो भवति तदैनं शनैः शनैरभिवर्धयेत् अतोऽन्यथा संरम्भदाहपाकरागवेदनावान् पुनश्छिद्यते वा १८
अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः तद्यथा गोधाप्रतुदविष्किरानूपौदकव-सामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं संभृत्यार्कालर्कबला-तिबलानन्तापामार्गाश्वगन्धा विदारिगन्धाक्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् १९
स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत्
अथानुपद्र वः सम्यग्बलवांश्च विवर्धते २०
यवाश्वागन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम्
शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः २१
तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम्
ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः २२
तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु
बाह्यच्छेदंन कुर्वीत व्यापदः स्युस्ततो ध्रुवाः २३
बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत्
आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते २४
जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः
सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः २५
अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह
यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् २६
किर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत
कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः १
द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः
विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके २
दाहविस्फोटजननं शोफः पाकश्च पैत्तिके
कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके ३
यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम्
स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ४
मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा
य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति ५
अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्र वान्
उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ६
अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा
स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ७
अपामार्गः सर्जरसः पाटलालकुचत्वचौ
उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत् ८
शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम्
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ९
लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम्
गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् १०
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम्
पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ११
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम्
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता १२
मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम्
गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे १३
प्रलेपनमिदं दद्यादवसिच्यावमन्थके
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च १४
तैलमेभिश्च संपक्वं शृणु कण्डूमतः क्रियाम्
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम्
एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् १५
ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु
ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत् १६
लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले
क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः १७
मधुपर्णी मधूकं च मधुकं मधुना सह
लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् १८
पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः
जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् १९
विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत्
नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य २७
तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम्
विलिख्य चाशु प्रतिसंदधीत तत् साधुबन्धैर्भिषगप्रमत्तः २८
सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा
प्रोन्नम्य चैनामवचूर्णयेत्तुपतङ्गयष्टीमधुकाञ्जनैश्च २९
संछाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम्
घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ३०
रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत्
हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ३१
नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम्
य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ३२
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशोऽध्यायः १६


सप्तदशोऽध्यायः
अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शोफसमुत्थाना ग्रन्थिविद्र ध्यलजीप्रभृतयः प्रायेण व्याधयोऽभिहिता अने-काकृतयः तैर्विलक्षणः पृथुर्ग्रथितः समो विषमो वा त्वङ्मांसस्थायी दोषसंघातः शरीरैकदेशोत्थितः शोफ इत्युच्यते ३
स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः तस्य दोषरूपव्यञ्ज-नैर्लक्षणानि व्याख्यास्यामः तत्र वातशोफः कृष्णोऽरुणो वा परुषो मृदुरन-वस्थितास्तोदादयश्चात्र वेदना विशेषा भवन्ति पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चत्रा वेदनाविशेषा भवन्ति श्लेष्मश्वयथुः पाण्डुः क-ठिनः स्निग्धः शीतो स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदना विशेषा भवन्ति सर्ववर्णवेदनः सन्निपातश्वयथ्! पित्तवच्छोणितजोऽतिकृष्णश्चा पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ४
स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न संभावितः प्रशमयितुं क्रियाविपर्यया-द्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति तस्यामस्य पच्यमानस्य पक्व-स्य च लक्षणमुच्यमानमुपधारय तत्र मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं सूचिभिरिव निस्तुद्यते द-श्यत इव पिपीलिकाभिः ताभिश्चसंसर्प्यत इव छिद्यत इव शस्त्रेणभिद्यत इव शक्तिभिः ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चा-ङ्गुल्या दह्यते पच्यत इव चाग्निक्षाराभ्याम् ओषचोषपरीदाहाश्च भवन्ति वृ-श्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति आध्मातबस्तिरिवातत-श्चशोफो भवति त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च प-च्यमानलिङ्गं वेदनोपशान्तिः पाण्डुताऽल्पशोफता वलीप्रादुर्भावस्त्वक्परि-पुटनं निम्नदर्शनमङ्गुल्याऽवपीडिते प्रत्युन्नमनं बस्ताविवोदकसंचरणं पूयस्य प्रपीडयत्येकमन्तमन्ते चावपीडिते मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्र व-शान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् कफजेषु तु रोगेषु गम्भीरगतित्वादभि-घातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्मोहमुपैति तत्र हि त्वक्सवर्णता शीतशोफता स्थैर्यमल्परुजताऽश्मवच्च
घनता न मोहमुपेयादिति ५
भवन्ति चात्र
आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक्
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ६
वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः
तस्मात् समस्तान् परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः ७
कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य
पचत्यतः शोणितमेव पाकोमतोऽपरेषां विदुषां द्वितीयः ८
तत्र आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं
शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावोऽवदरणमनेकोपद्र व दर्शनं क्षतविद्र धिर्वा भवति स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्या-धिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ९
भवति चात्र
यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ १०
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक्
मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसहः ११
न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते
तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि १२
प्राणो ह्याभ्यन्तरो नॄणां बाह्यप्राणगुणान्वितः
धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् १३
अल्पो महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः
विशालमूलो विषमं विदग्धः स कृच्छ्रतां यात्यवगाढदोषः १४
आलेपविस्रावणाशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत्
पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् १५
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः संदहति प्रसह्य
तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह १६
आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम्
तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् १७
पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् १८
इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो नाम सप्तदशोऽध्यायः १७


अष्टादशोऽध्यायः
अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आलेप आद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च तं च प्रतिरोगं वक्ष्यामः ततो बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसंधिस्थैर्यं च ३
तत्र प्रतिलोममालिम्पेत् प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनु प्रविशति च
रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ४
न च शुष्यमाणमुपेक्षेत अन्यत्र पीडयितव्यात्
शुष्को ह्यपार्थको रुक्करश्च ५
स त्रिविधः प्रलेपः प्रदेह आलेपश्च प्रलेपप्रदेहयोरन्तरंतत्र प्रलेपः शीतस्तनुर-विशोषी विशोषी वा प्रदेहस्तूष्णः शीतो वा बहलोऽबहुरविशोषी च मध्य-मोऽत्रालेपः तत्र रक्तपित्त प्रसादकृदालेपः प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च तस्योपयोगः क्षताक्षतेषु यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते निरुद्धालेपनसंज्ञः तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ६
अविदग्धेषु शोफेषु हितमालेपनं भवेत्
यथास्वं दोषशमनं दाहकण्डूरुजापहम् ७
त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम्
दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ८
मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम्
संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ९
षिड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके
अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत् १०
तस्य प्रमाणं महिषार्द्र चर्मोत्सेधमुपदिशन्ति ११
न चालेपं रात्रौ प्रयुञ्जीत मा भूच्छत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति
१२
प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा
पित्तरक्ताभिघातोत्थे सविषे च विशेषतः १३
न च पर्युषितं लेपं कदाचिदवचारयेत्
उपर्युपरि लेपं च न कदाचित् प्रदापयेत् १४
ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि
न च तेनैव लेपेन प्रदेहं दापयेत् पुनः
शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः १५
अत ऊर्ध्वं व्रणबन्धनद्र व्याण्युपदेक्ष्यामः
तद्यथाक्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कलालाबुश-कललताविदलरज्जुतूलफलसन्तानिकालौहानीति तेषां व्याधिं कालं चावेक्ष्योपयोगः प्रकरणतश्चैषामादेशः १६
तत्र कोशदामस्वस्तिकानुवेल्लितमुप्रितिओ!लीमण्डलस्थगिकायमकखट्वा-चीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दशबन्धविशेषाः तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः १७
तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात् दाम संबाधेऽङ्गे सन्धिकूर्चकभ्रू-स्तनान्तरतलकर्णेषु स्वस्तिकम् अनुवेल्लितं शाखासु ग्रीवामेढ्रयोः प्रतोलीं वृत्तेऽङ्गे मण्डलम् अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां यमलव्रणयोर्यमकं हनुशङ्खगण्डेषु खट्वाम् अपाङ्गयोश्चीनं पृष्ठोदरोरःसु विबन्धं मूर्धनि वितानं चिबुकनासौष्ठांसबस्तिषु गोफणां जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति यो वा
यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् १८
यन्त्रणमूर्ध्वमधस्तिर्यक् च १९
तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसंकुचितं मृदु पट्टं निवेश्य बध्नीयात् न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च २०
न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीता यस्मादतिस्नेहात् क्लेदो रौक्ष्याच्छेदोदुर्न्यासाद्व्रणवर्त्मावघर्षणमिति २१
तत्र व्रणायतनविशेषाद्बन्धविशेषस्त्रिविधो भवतिगाढः समःशिथिल इति २२
पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः
नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः २३
तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः शाखावदनकर्ण कण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः अक्ष्णोः सन्धिषु च शिथिल इति २४
तत्र पैत्तिकं गाढस्थाने समं बध्नीयात् समस्थाने शिथिलं शिथिलस्थाने नै-वा एवं शोणितदुष्टं च श्लैष्मिकं शिथिलस्थाने समं समस्थाने गाढं गाढस्थाने गाढतरं एवं वातदुष्टं च २५
तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात् रक्तोपद्रुतमप्येवां श्लैष्मिकं हेमन्तवसन्तयोस्त्र्! यहात् वातोपद्रुतमप्येवम्
एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् २६
तत्र समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादु-र्भावश्च गाढसमस्थानेषु शिथिलं बद्धे विके शिकौषधपतनं पट्टसंचाराद्द्र णवर्त्मावघर्षणमिति गाढशिथिलस्थानेषु समं बद्धे गुणाभाव इति २७
अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च २८
अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिह-न्यते व्रणः विविधवेदनोपद्रुतश्च दुष्टतामुपैति आलेपनादीनि चास्य विशोषमुपयान्ति २९
चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम्
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ३०
सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति
सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ३१
अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ३२
कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम्
कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणाः ३३
मांसपाके न बध्यन्ते गुदपाके च दारुणे
स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ३४
देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः
ऋतूंश्च परिसंख्याय ततो बन्धान्निवेशयेत् ३५
ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता
यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ३६
घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम्
विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ३७
प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च
युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ३८
विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा
यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ३९
पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत्
असकृत् कफजे वाऽपि वातजे च विचक्षणः ४०
तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः
सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ४१
ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः
बुद्ध्य्त्प्रोए!क्ष्याभियुक्तेन तथा चास्थिषु जानता ४२
उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छतः
गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ४३
ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः
सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरास्नायुगतास्तथा ४४
तथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः
नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ४५
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्यायः १८


एकोनविंशोऽध्यायः
अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
व्रणितस्य प्रथममेवागारमन्विच्छेत्
तच्चागारं प्रशस्तवास्त्वादिकं कार्यम् ३
प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते
निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ४
तस्मिञ् शयनमसंबाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत ५
सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी
प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ६
तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ७
सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः
आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ८
न च दिवानिद्रा वशगः स्यात् ९
दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा
श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् १०
उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणं
संरक्षेत् ११
स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च
व्रणितो न निषेवेत शक्तिमानपि मानवः १२
उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता
प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् १३
गम्यानां च स्त्रीणां संदर्शनसंभाषणसंस्पर्शनानि दूरत एव परिहरेत् १४
स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत्
ग्राम्यधर्मकृतान्दोषान् सोऽससर्गेऽप्यवाप्नुयात् १५
नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौदकमांसवसाशीतोदककृशरापायसदधिदुग्धतक्रप्रभृतीनि परिहरेत् १६
तक्रान्तो नवधान्यादिर्योऽय वर्ग उदाहृतः
दोषसंजननो ह्येष विज्ञेयः पूयवर्धनः १७
मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् १८
मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः
आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् १९
वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शने र्ष्यामर्ष-भयशोकध्यानरात्रिजागरणविषमाशनशयनो पवासवाग्व्यायाम स्थानचङ्क्रमणशीत वातविरुद्धाध्यशनाजीर्णमक्षिकाद्याबाधाः परिहरेत् २०
व्रणिनः संप्रतप्तस्य कारणैरेवमादिभिः
क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति २१
अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्
ततः शोफरुजास्रावदाहपाकानवाप्नुयात् २२
सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुप-रेण भवितव्यमिति तत् कस्य हेतोः हिंसाविहाराणि हिमहावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति सत्कारार्थंजिघांसूनि वा कदाचित् २३
भवति चात्र
तेषां सत्कारकामानां प्रयतेतान्तरात्मना
धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् २४
ते तु संतर्पिता आत्मवन्तं न हिंस्युः तस्मात् सततमतन्द्रि तो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि संपन्मङ्गलमनोऽनुकूलाः
कथाः शृण्वन्नासीत २५
संपदाद्यनुकूलाभिः कथाभिः प्रीतमानसः
आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् २६
ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपा
ध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः २७
सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च
द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रि तः २८
छत्रामतिच्छत्रां लाङ्गूङ्गिलिद्यं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां
वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् २९
व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत्
न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ३०
अनेन विधिना युक्तमादावेव निशाचराः
वनं केशरिणाऽक्रान्तं वर्जयन्ति मृगा इव ३१
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वोत्तरम्
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ३२
तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः
बालमूलकवार्ताकपटोलैः कारवेल्लकैः ३३
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
अन्यैरेवंगुणैर्वाऽपि मुद्गादीनां रसेन वा
शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् ३४
दिवा न निद्रा वशगो निवातगृहगोचरः
व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ३५
व्रिणे श्वयथुरायासात् स च रागश्च जागरात्
तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात् ३६
एवंवृत्तसमाचारो व्रणी संपद्यते सुखी
आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ३७
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयोनामैकोनविंशोऽध्यायः १९


विंशतितमोऽध्यायः
अथातो हिताहितीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यद्वायोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किंचिद्द्र व्यमेकान्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते तत्तु न सम्यक् इह खलु यस्मा-द्द्र व्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च
भवन्ति ३
तत्र एकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि
एकान्ताहितानि तु दहनपचनमारणादिषुप्रवृत्तान्यनलक्षारविषादीनि संयो-गादपराणि विषतुल्यानि भवन्ति हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ४
अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते तद्यथारक्तशालिषष्टिकक-ङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदक कालकासनपुष्पककर्दमकशकुना-हृतसुगन्धककलमनीवारकोद्र वोद्दालक श्यामाकगोधूमयववैणवैणहरिण-कुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्ति-कामुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाश्चिल्लिवा-स्तुकसुनिषण्णक जीवन्ती तण्डुलीयकमण्डूकपर्ण्यः गव्यं घृतं सैन्धवं दाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः ५
तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः ६
एकान्तहितान्येकान्ताहितानि तु प्रागुपदिष्टानि हिताहितानि तु यद्वायोः पथ्यं
तत् पित्तस्यापथ्यमिति ७
संयोगतस्त्वपराणि विषतुल्यानि भवन्ति तद्यथावल्लीफलकवककरीरा-म्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्कशाकाजाविकमांसम
द्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्र्नीयात् पयसा ८
रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान्
अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ९
अवस्थान्तरबाहुल्याद्रो गादीनां व्यवस्थितम्
द्र व्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे १०
द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः
दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् ११
एवं युक्तरसेष्वेषु द्र व्येषु सलिलादिषु
एकान्तहिततां विद्धि वत्स सुश्रुत नान्यथा १२
अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामःनवविरूढधान्यैर्वसामधुपयगुड-माषैर्वा ग्राम्यानूपौदकपिशितादीनि नाभ्यवहरेत् न पयोमधुभ्यां रोहिणी-शाकं जातुकशाकंवाऽश्र्नीयात् बलाकां वारुणीकुल्माषाभ्यां काकमाचीं पिप्पलीमरिचाभ्यां नाडीभङ्गशककुक्कुटदधीनि च नैकध्यां मधु चोष्णोदका-नुपानां पित्तेन चाममांसानि सुराकृशरापायसांश्च नैकध्यं सव्रकेण सहति-लशष्कुल्ममत्स्यैः सहेक्षुविकाराना गुडेन काकमाचीं मधुना मूलकं गुडेन
वाराहं मधुना च सह विरुद्धं क्षीरेण मूलकम्
आम्रजाम्बवश्वाविच्छूकरगोधाश्चा सर्वांश्च मत्स्यान् पयसा विशेषेण चिलि-चिमं कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा लकुचफलं पयसा दध्ना माषसूपेन वा प्राक्पयसः पयसोऽन्ते वा १३
अतः कर्मविरुद्धान् वक्ष्यामःकपोतान् सर्षपतैलभृष्टान्नाद्याता कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्
कांस्यभाजने दशरात्रपर्युषितं सर्पिः मधु चोष्णैरुष्णे वा मत्स्यपरिपचने शृङ्ग-वेरपरिपचने वा सिद्धां काकमाचीं । तिलकल्कसिद्धमुपोदिकाशाकं नारि-केलेन वराहवसापरिभृष्टां बलाकां भासमङ्गारशूल्यं नाश्नीयादिति १४
अतो मानविरुद्धान् वक्ष्यामःमध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात्
स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ १५
अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानिवक्ष्यामःतत्र म-धुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च मधुरकटुकौ च सर्वतः मधुर तिक्तौ रसविपाकाभ्यां मधुरकषायऔ च अम्ललवणौ रसतः अम्लकटुकौ रसवि-पाकाभ्याम् अम्लतिक्तावम्लकषायौ च सर्वतः लवणकटुकौ रसविपाका-भ्यां लवणतिक्तौ लवणकषायौ च सर्वतः कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च तिक्तकषायौ रसतः १६
तरतमयोगयुक्तांश्च भावानतिस्निग्धानतिरूक्षानत्यु ष्णानतिशीतानित्येवमादीन् विवर्जयेत् १७
भवन्ति चात्र
विरुद्धान्येवमादीनि वीर्यतो यानि कानिचित्
तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् १८
व्याधिमिन्द्रि यदौर्बल्यं मरणं चाधिगच्छति
विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः १९
यत्किंचिंद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्
रसादिष्वयथार्थं वा तद्विकाराय कल्पते २०
विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम्
वमनं शमनं वाऽपि पूर्वं वा हितसेवनम् २१
सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् २२
अथ वातगुणान् वक्ष्याम पूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः २३
क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये
तैषामेव विशेषेण सदा रोगविवर्धनः २४
वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम्
मधुरश्चाविदाही च कषायानुरसो लघुः
दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः २५
रक्तपित्तप्रशमनो न च वातप्रकोपणः
विशदो रूक्षपरुषः खरः स्नेहबलापहः २६
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः
सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् २७
उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च
कषायानुरसः शीतो दोषाणां चाप्रकोपणः २८
तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः
क्षीणक्षयविषार्तानां विशेषेण तु पूजितः २९
इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्यायः २०


एकविंशतितमोऽध्यायः
अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्माण एव देहसंभवहेतवः तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिः अतश्च त्रिस्थूणमाहुरेके त एव च व्यापय्ननाः प्रलयहेतवः तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ३
भवति चात्र
नर्ते देहः कफादस्ति न पित्तान्न च मारुतात्
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ४
तत्र वा गतिगन्धनयोः इति धातुः तप संतापे श्लिष आलिङ्गने एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ५
दोषस्थानान्यत ऊर्ध्वं वक्ष्यामःतत्र समासेन वातः श्रोणिगुदसंश्रयःतदुपर्यधो
नाभेः पक्वाशयः पक्वामाशयमध्यं पित्तस्य आमाशयः श्लेष्मणः ६
अतः परं पञ्चधा विभज्यन्ते तत्र वातस्य वातव्याधौ वक्ष्यामः पित्तस्य य-कृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च श्लेष्मण उरः शिरः कण्ठो जि-ह्वामूलं सन्धय इति पूर्वोक्तं च एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम्७
भवति चात्र
विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा
धारयन्ति जगद्देहं कफपित्तानिलास्तथा ८
तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्नि आहोस्वित् पित्तमेवाग्निरिति
अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते आग्नेयत्वात् पित्ते दह-नपचनादिष्वभिप्रवर्तमानेऽर्निगवदुपचारः क्रियतेऽन्तरग्निरिति क्षीणे ह्यग्निगुणे तत्समानद्र व्योपयोगात् अतिवृद्धे शीतक्रियोपयोगात् आगमाच्च पश्यामो न
खलु पित्तव्यतिरेकादन्योऽग्निरिति ९
तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति विवेचयति च दोषरसमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्त-स्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा स रसस्य राग-कृदुक्ताः यत् पित्तं हृदयस्थं तस्मिन् साधकोऽग्निरिति संज्ञा सोऽभिप्रार्थित-मनोरथसाधनकृदुक्तः यदृष्ट्यां पित्तं तस्मिन्नालोचकोऽन्निगरिति संज्ञा स रू-पग्रहणाधिकृताः यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा सोऽभ्यङ्ग-परिषेकावगाहालेपनादीनां क्रियाद्र व्याणां पक्ता छायानां च प्रकाशकः १०
भवति चात्र
पित्तं तीक्ष्णं द्र वं पूति नीलं पीतं तथैव च
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ११
अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः
तत्र आमाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसः चन्द्र इव आदित्यस्य चतुर्विधस्याहारस्याधाराः स च तत्रौदकैर्गुणैराहारः
प्रक्लिन्नो भिन्नसंघातः सुखजरो भवति १२
माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च
आमाशये संभवति श्लेष्मा मधुरशीतलः १३
स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणा-ऽनुग्रहं करोति उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावल-म्बनं करोति जिह्वामूलकण्ठस्थो जिह्वेन्द्रि यस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते शिरःस्थः स्नेहसंतर्पणाधिकृतत्वादिन्द्रि याणामात्मवीर्येणानुग्रहं करोति सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति १४
भवति चात्र
श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च
मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः १५
शोणितस्य स्थानं यकृत्प्लीहानौ तच्च प्रागभिहितं
तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति १६
भवति चात्र
अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः
शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् १७
एतानि खलु दोषस्थानानि एषु संचीयन्ते दोषाः प्राक् संचयहेतुरुक्तः तत्र संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गा-नां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गआनि भवन्ति तत्र प्रथमः क्रियाकालः १८
अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः तत्र बलवद्विग्रहातिव्यायामव्यवायाध्य-यनप्रपतनप्रधावनप्रपीडनाभिघात लङ्घनप्लवनप्रतरण रात्रिजागरणभारहरण-गजतुरगरथपदातिचर्या कटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकवल्लूर-वरकोद्दलाक कोरदूषश्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पावान-शनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गार बाष्पवेग विघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते १९
स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः
प्रत्यूषस्यपराह्णे च जीर्णेऽन्ने च प्रकुप्यति २०
क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवणतीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाकगोधामत्स्याजावि-कमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः
पित्तं प्रकोपमापद्यते २१
तदुष्णैरुष्णकाले च घनान्ते च विशेषतः
मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति २२
दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिला भिष्यन्दि-हायनकयवकनैषधेत्कटमाषमहामाषगोधूमतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपौदकमांसवसाबि समृणालकसेरुकशृङ्गटाकमधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते २३
स शीतैः शीतकाले च वसन्ते च विशेषतः
पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति २४
पित्तप्रकोपणैरेव चाभीक्ष्णं द्र वस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते २५
यस्माद्र क्तं विना दोषैर्न कदाचित् प्रकुप्यति
तस्मात्तस्य यथादोषं कालं विद्यात् प्रकोपणे २६
तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च
जायन्ते तत्र द्वितीयः क्रियाकालः २७
अत ऊर्ध्वं प्रसरं वक्ष्यामःतेषामेभिरातङ्कविशेषैः प्रकुपितानां किण्वोकपिष्ट-समवाय इवोद्रि क्तानां प्रसरो भवति तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये स हि रजोभूयिष्ठाः रजश्च प्रवर्तकं सर्वभावानाम् यथामहानुदकसंचयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वाऽने-क्रधा प्रसरन्ति तद्यथावातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लेष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तक
फशोणितानीति एवं पश्चदशधा प्रसरन्ति २८
कृत्स्नेऽधेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम्
दोषो विकारं नभसि मेघवत्तत्र वर्षति २९
नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति
निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ३०
तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः पित्तस्य च कफस्थानगतस्य
कफवत् कफस्य च वातस्थानगतस्य वातवता एष क्रियाविभागः ३१
एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ ओषचोषपरिदाहधूमायना-नि पित्तस्य अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति
तत्र तृतीयः क्रियाकालः ३२
अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म विद्र -ध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति वस्तिगताः प्रमेहाश्मरी-मूत्राघातमूत्रदोषप्रभृतीना मेढ्रगता निरुद्ध प्रकशोपदंशशूकदोष प्रभृतीन् गुद-गता भगन्दरार्शः प्रभृतीना वृषणगता वृद्ध् ऊर्ध्वजत्रुगतास्तूर्ध्वजाना त्वङ्मां-सशोणितस्थाः क्षुद्र रोगान् कुष्ठानि विसर्पांश्चा मेदोगताग्रन्थ्यपच्यर्बुदगलग-ण्डालजीप्रभृतीना अस्थिगताविद्र ध्यनुशयी प्रभृतीना पादगताः श्लीपदवा-तशोणितवातकण्टकप्रभृतीना सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन् तेषामेव-मभिसंनिविष्टानां पूर्वरूपप्रादुर्भावाः तं प्रतिरोगं वक्ष्यामः तत्र पूर्वरूपगतेषु
चतुर्थः क्रियाकालः ३३
अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामःशोफार्बुदग्रन्थिविद्र धिविसर्प प्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च तत्र पञ्चमः क्रियाकालः ३४
अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः ज्वराति-सारप्रभृतीनां च दीर्घकालानुबन्धः तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ३५
भवति चात्र
संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम्
व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ३६
संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ३७
सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः
संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ३८
संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत्
शेषदोषाविरोधेन सन्निपाते तथैव च ३९
वृणोति यस्माद्रू ढेऽपि व्रणवस्तु न नश्यति
आदेहधारणात्तस्माद्ब्रण इत्युच्यते बुधैः ४०
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायोनामैकविंशोध्यायः २१


द्वाविंशतितमोऽध्यायः
अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि
अत्र सर्वव्रणसन्निवेशः ३
तत्र आद्यैकवस्तुसन्निवेशी त्वग्भेदी व्रणः सूपचरः शेषाः स्वयमवदीर्यमाणा
दुरुपचाराः ४
तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः शेषास्तु विकृताकृतयो
दुरुपक्रमा भवन्ति ५
सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति प्रवृद्धत्वाद्दोषाणाम् ६
तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्ना-युप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेद-नावान् दाहपाकरागकण्डूशोफपिडकोपद्रुतोऽत्यर्थं दुष्टशोणितास्रावी दीर्घ-कालानुबन्धी चेति दुष्टव्रणलिङ्गानि तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत ७
अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामःतत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा सलिलप्रकाशो भवत्यास्रावः किंचिद्विस्रः पीतावभासश्चा मांसगतः सर्पिःप्रकाशः सान्द्र ः! श्वेतः पिच्छिलश्चा सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्य आ-स्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च स्नायु-गतः स्निग्धो घनः सिंघाणकप्रतिमः सरक्तश्चा अस्थिगतोऽस्थन्यभिहते स्फु-टिते भिन्ने दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौत मिवा-भाति आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च संधिगतः पीड्यमानो न प्रवर्तते आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति आस्रावश्चात्र पिच्छिलोऽवलम्बी सरुधिरोन्मथितश्चा कोष्ठगतोऽसृङ्मूत्रपुरीषपू-योदकानि स्रवति मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते तत्र त्वगादिगता-नामास्रा वाणां यथाक्रमं पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांस धा-वनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति पित्ताद्गोमेदकगोमूत्रभस्मशङ्खक-षायोदकमाध्वीकतैलसन्निभत्वानि पित्तवद्र क्तादति विस्रत्वं चा कफान्नव-नीतकासीसमज्जपिष्टतिलनालिकेरोदकव राहवसासन्निभत्वानि सन्निपाता-न्नालिकेरोदकैर्वारुकरसकाञ्जिक प्रसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति ८
श्लेकौ चात्र भवत
पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः
क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ९
आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः
स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् १०
अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामःतोदनभेदनताडनच्छेदनाया मनमन्थन-विक्षेपणचुमुचुमायननिर्दहनावभञ्जनस्फोटनविदारणोत्पाटनकम्पनविविधशूलविश्लेषण विकिरणस्तम्भनपूरणस्वप्नाकुञ्चनाङ् कुशिकाः संभवन्ति अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्याता
ओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यते
यत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदना विशेषास्तं पैत्तिकमिति विद्याता पित्तवद्र क्तसमुत्थं जानीयाता कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेद-नत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्याता यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ११
अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामःभस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्या नीलः पीतो हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल इति रक्तपित्तसमुत्थय्! श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्या सर्ववर्णोपेतः सान्निपातिक इति १२
भवति चात्र
न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः
सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् १३
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविज्ञानीयो नाम द्वाविंशतितमोऽध्यायः २२


त्रयोविंशतितमोऽध्यायः
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र वयःस्थानां दृढानां प्राणवतां सत्त्ववतां आत्मवतां च सुचिकित्स्या व्र-णाः एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः तत्र वयः स्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति दृढानां स्थिरबहुमांसत्वाच्छस्त्रम-वचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति प्राणवतां वेदनाभिघाताहार
यन्त्रणादिभिर्न ग्लानिरुत्पद्यते सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति तस्मादेतेषां सुखसाधनीयतमाः ३
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषुद्र ष्टव्याः ४
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषो
दरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ५
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षः कक्षास्तन-सन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्त शल्याश्च दुश्चिकित्स्याः अधो भागाश्चौर्ध्वभागनिर्वाहिणो रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च भगन्दरमपि
चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ६
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ७
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि ग्रन्थिक्षतक्रिमयः प्ररिश्याय-जाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते शर्करा सि-कतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्क रोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पा स्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ८
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ९
यापनीयं विजानीयात् क्रिया धारयते तु यम्
क्रियायां तु निवृत्तायां सद्य एव विनश्यति १०
प्राप्ता क्रिया धारयति याप्यव्याधितमातुरम्
प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ११
अत ऊर्ध्वमसाध्यान् वक्ष्यामःमांसपिण्डवदुद्गताः प्रसेकिनोऽन्त पूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छि लास्राविणो वा मध्योन्नताः केचि-दवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः वसामेदोमज्ज-मस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः क्षीणमांसानां च सर्वतोगत-यश्चाणुमुखा मांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्थाः क्षीणमां-सानां च पूयरक्तनिर्वाहिणोऽरोचका विपाककासश्वासोपद्र वयुक्ताः भिन्ने वा शिरः कपाले यत्र मस्तु लुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति १२
भवति चात्र
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत्
आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसंभवः १३
अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते
विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् १४
क्रमेणोपचयं प्राप्य धातूननुगतः शनैः
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः १५
स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा १६
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः १७
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते १८
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् १९
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम्
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् २०
दोषप्रकोपाद्व्यामादभिघातादजीर्णतः
हर्षात् क्रोघाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते २१
इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः २३


चतुर्विंशतितमोऽध्यायः
अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्विविधास्तु व्याधयःशस्त्रसाध्याः स्नेहादिक्रियासाध्याश्च
तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ३
अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते प्रागभिहितं तद्दुःखसंयोगा व्याधय इति तच्च दुःखं त्रिविधम् आ-ध्यात्मिकम् आघिभौतिकम् आधिदैविकमिति तत्तु सप्तविधे व्याधावुपनि-पतति ते पुनः सप्तविधा व्याधयः तद्यथाआदिबलप्रवृत्ताः जन्मबलप्रवृत्ताः दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति ४
तत्र आदिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः तेऽपि द्वि-विधाःमातृजाः पितृजाश्च जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्ध-बधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते तेऽपि द्विविधा रसकृताः दौहृदाप-चारकृताश्च दोषबलप्रवृत्ता ये आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च तेऽपि द्विविधाःआमाशयसमुत्थाः पक्वाशयसमुत्थाश्च पुनश्च द्विविधाः शारीरा
मानसाश्च त एते आध्यात्मिकाः ५
संघातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात् तेऽपि द्विविध शःस्त्रकृता व्यालकृताश्च एते आधिभौतिकाः ६
कालबलप्रवृत्ता ये शीतोष्णवातवर्षातपप्रभृतिनिमित्ताः तेऽपि द्विविधा व्या-पन्नर्तुकृता अव्यापन्नर्तुकृताश्च दैवबलप्रवृता ये देवद्रो हादभिशप्तका अथव-र्ण!कृताउपसर्गजाश्च तेऽपि द्विविधाःविद्युदशनिकृताः पिशाचादिकृताश्च पुनश्च द्विविधाःसंसर्गजा आकस्मिकाश्च स्वभावबलप्रवृत्ता ये क्षुत्पिपासाजरामृ-त्युनिद्रा प्रभृतयाः तेऽपि द्विविधाःकालजा अकालजाश्च तत्र परिरक्षणकृताः कालजाः अपरिरक्षणकृता अकालजाः एते आधिदैविकाः अत्र सर्वव्याध्यवरोधः ७
सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गत्वाद्दृष्टफलत्वा-दागमाच्च यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेषमाणो वर्तन्ते दोषधातुमल संसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः दोष दूषितेष्वत्यर्थं धातुषु संज्ञारसजोऽय शोणितजोऽय मांसजोऽय मेदोजोऽय अस्थिजोऽयमज्जजोऽय शुक्रजोऽय व्याधिरिति ८
तत्र अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गो-परोधकार्श्यवैरस्याङ्गसादाकालजवलीपलितदर्शनप्रभृतयो रसदोषजा वि-काराः कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गन्द्रे लुप्तप्ली-हविद्र धिगुल्मवातशोणितार्शोऽबुदाङ्गमर्दासृग्दर रक्तपित्तप्रभृतयो रक्तदोषजाः गुदमुखमेढ्रपाकाश्चा अघिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिका-लजीमांससंघातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः ग्रन्थिवृ-द्धिगल गण्डार्बुदमेदोजौष्ठप्रकोपम धुमे हातिस्थौल्यातिस्वेदप्रभृतयो मेदो-दोषजाः अध्यस्थ्यधिदन्तास्थितोदशूलकुनख प्रभृतयोऽस्थिदोषजाः तमोद-र्शनमूर्च्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिष्यन्दप्रभृतयो मज्जदोषजाः क्लैब्या-प्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश्च तद्दोषाः त्वग्दोषाः सङ्गोऽतिप्रवृत्तिर-यथाप्रवृत्तिर्वा मलायतनदोषाः इन्द्रि याणामप्रवृत्तिरयथाप्रवृत्तिर्वेन्द्रि यायतनदोषाः इत्येष समास उक्त् विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ९
भवति चात्र
कुपितानां हि दोषाणां शरीरे परिधावताम्
यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते १०
भूयोऽत्र जिज्ञास्यं किं वातादीनां ज्वरादीनां च
नित्यः संश्लेषः परिच्छेदो वा इति यदि नित्यः
संश्लेषः स्यात्तर्हि नित्यातुराःसर्व एव प्राणिनः
स्युः अथाप्यन्यथा वातादीनां ज्वरादीना च अन्यत्र
वर्तमानानामन्यत्र लिङ्गं न भवति इति कृत्वा यदुच्यते
वातादयो ज्वरादीनां मूलानीति तन्न अत्रोच्यते
दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति अथ च न
नित्यःसिंबन्धः यथाहि विद्युद्वाताशनिवर्षाण्याकाशं
प्रत्याख्याय न भवन्ति सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्तत-स्तत एवोत्पत्तिरिति तरङ्गबुद्बुदादयश्चोदकविशेषा एव वातादीनां ज्वरादीनां च नाप्येवं संश्लेषो न परिच्छेदः शाश्वतिकः अथ च निमित्तत एवोत्पत्तिरिति ११
भवति चात्र
विकारपरिमाणं च संख्या चैषां पृथक् पृथक्
विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते १२
इति सुश्रुतसंहितायां सूत्रस्थाने व्याधिसमुद्देशीयो नाम चतुर्विंशोऽध्यायः २४


पञ्चविंशतितमोऽध्यायः
अथातोऽष्टविधशस्त्रकर्मीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः
व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलोऽस्थिमांसगम् ३
शल्यं जतुमणिर्मांससंघातो गलशुण्डिका
स्नायुमांससिराकोथो वल्मीकं शतपोनकः ४
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः
भेद्या विद्र धयोऽन्यत्र सर्वजाद्ग्रन्थयस्त्रयः ५
आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः
प्रमेहपिडकाः शोफः स्तनरोगोऽवमन्थकः ६
कुम्भीकाऽनुशयी नाड्यो वृन्दौ पुष्करिकाऽलजी
प्रायशः क्षुद्र रोगाश्च पुप्पुटौ तालुदन्तजौ ७
तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिणः
बस्तिस्तथाऽश्मरीहेतोर्मेदोजा ये च केचन ८
लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका
मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ९
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा
वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् १०
एष्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये
आहार्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ११
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे
स्राव्या विद्र धयः पञ्च भवेयुः सर्वजादृते १२
कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः
पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् १३
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितश्च ते
त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका १४
सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः
देन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः १५
पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्र रोगाश्च भूयशः
सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः १६
सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिताः
न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिनः १७
नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम्
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् १८
अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम्
रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् १९
ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम्
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा २०
शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः
मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः २१
सीव्येद्गोफणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम्
ऋजुग्रन्थिमथो वाऽपि यथायोगमथापि वा २२
देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङगुलद्वयम्
आयता त्र्! यङ्गुला त्र्! यस्रा मांसले चाऽपि पूजिता २३
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि
इतयेतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः २४
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः
नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् २५
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम् २६
अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत्
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णैः समन्ततः २७
शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुनः
ततो व्रणं यथायोगं बद्ध्वाऽचारिकमादिशेत् २८
एतदष्टविधं कर्म समासेन प्रकीर्तितम्
चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते २९
हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः
एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः ३०
अज्ञानलोभाहितवाक्ययोग भयप्रमोहैरपरैश्च भावैः
यदा प्रयुञ्जीत भिषक् कुशस्त्रं
तदा स शेषान् कुरुते विकारान् ३१
तं क्षारशस्त्राग्निभिरौषधैश्च भूयोऽभियुञ्जानमयुक्तियुक्तम्
जिजीविषुर्दूरत एव वैद्यंविवर्जयेदुग्रविषाहितुल्यम् ३२
तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव
मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा कदाचित् ३३
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च
स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः ३४
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रि यार्थोपरमस्तथैव
दशार्धसंख्येष्वपि विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ३५
सुरेन्द्र गोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायुः
करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ३६
कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च
चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ३७
शोफातिवृद्धिस्तुमुला रुजश्चबलक्षयः पर्वसु भेदशोफौ
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ३८
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति
तृष्णाऽङ्गसादौ श्वयथुश्च रुक् च तमस्थिविद्धं मनुजं व्यवस्येत् ३९
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु
स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ४०
आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन्
तमात्मवानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ४१
तिर्यक्प्रणिहिते शस्त्रे दोषाः पूर्वमुदाहृताः
तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ४२
मातरं पितरं पुत्रान् बान्धवानपि चातुरः
अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ४३
विसृजत्यात्मनाऽत्मानं न चैनं परिशङ्कते
तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ४४
धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम्
प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ४५
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा
विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ४६
इति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्रकर्मीयो नाम पञ्चविंशोऽध्यायः २५


षड्विंशतितमोऽध्यायः
अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शल श्वल आशुगमने धातू तयोराद्यस्य शल्यमितिरूपम् ३
तद्द्विविधं शारीरमागन्तुकं च ४
सर्वशरीराबाधकरं शल्यं तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ५
तत्र शारीरं दन्तरोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः
आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ६
अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु तत्रापि विशेषतो लोहेष्वेव विशसनार्थोपपन्नत्वाल्लोहस्य लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोज-नकरत्वाच्च शर एवाधिकृतः स च द्विविधः कर्णी श्लक्ष्णश्च प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः व्यालमृगपक्षिवक्त्रसदृशाश्च ७
सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेषऊर्ध्वमधोऽवाचीनस्तिर्यगृजुरिति ८
तानि वेगक्षयात् प्रतिघाताद्वात्वगादिषु व्रणवस्तुष्ववतिष्ठन्ते
धमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ९
तत्र शल्यलक्षणमुच्यमानमुपधारय तद्द्विविधं सामान्यं वैशेषिकं च श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति सामान्यमेतल्लक्षणमुक्तम् वै-शेषिकं तुत्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च मांसगते शोफाभि-तिविऋ!द्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च पेश्यन्तर-स्थेऽप्येतदेव चोषशोफवर्जं सिरागते सिराध्मानं सिराशूलं सिराशोफश्च स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च स्रोतोगते स्रोतसां स्वकर्म-गुणहानिः धमनीस्थे सफेनं रक्तमीरयन्ननिलः स शब्दो निर्गच्छत्यङ्गमर्दःपि-पासा हृल्लासश्च अस्थिगते विविध वेदनाप्रादुर्भावःशोफश्च अस्थिविवरग-तेऽस्थिपूर्णताऽस्थिनिस्तोदः संहर्षोबलवांश्च सन्धिगतेऽस्थिवच्चेष्टोपरमश्च कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात् मर्मगते मर्मविद्धवच्चेष्टते सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति १०
महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः क-ण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषु दोषप्रको पव्यायामाभिघाताजीर्णेभ्यः
प्रचलितानि पुनर्बाधन्ते ११
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगो धूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् स्त्यानघृतमृच्चन्द नकल्कै-र्वा प्रदिग्धायां शल्योष्मणाऽशु विसरति घृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानीयात् मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरवि रुद्धैरातुर-मुपपादयेत् कर्शितस्य तु शिथिलीभूतम नवबद्धं क्षुभ्यमाणं यत्र संरम्भं वे-दनां वा जनयति तत्र शल्यं विजानीयात् कोष्ठास्थिसन्धिपेशीविव रेष्वव-स्थितमेवमेव परीक्षेत सिराधमनीस्रोतः स्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमेऽध्वनि यायात् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमु पाचरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् सन्धि-प्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपा चरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपप-न्नान् सन्धीन् प्रसरणाकुञ्चन बन्धनपीडनैर्भृशमुपाचरेत् यत्र संरम्भो वेदना वा भवति शल्यं विजानीयात् मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति
१२
सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वत द्रुमारोहणधनुर्व्यायामद्रुतयान नियुद्धाध्वगमनलङ्घनप्लवनप्रतरणव्यायामैर्जृम्भोद्गार कासक्षवथुष्ठीवन ह-सनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र
शल्यं विजानीयात् १३
भवन्ति चात्र
यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च
घट्टते बहुशो यत्र शूयते रुज्यतेऽपि च १४
आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति
संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् १५
अल्पाबाधमशूनं च नीरुजं निरुपद्र वम्
प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् १६
एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः
प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् १७
अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते
प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः १८
वार्क्षवैणवतार्णानि निर्ह्रियन्ते तु नो यदि
पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् १९
कानकं राजतं ताम्रं रैतिकं त्रपुसीसकम्
चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् २०
स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः
द्र वीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुमिः २१
विषाणदन्तकेशास्थिवेणुदारूपलानि तु
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च २२
द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु
यो वेत्ति विष्टितं शल्यं स राज्ञः कर्तुमर्हति २३
इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयोनाम षड्विंशतितमोऽध्यायः २६


सप्तविंशतितमोऽध्यायः
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शल्यं द्विविधमवबद्धमनवबद्धं च ३
तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः तद्यथास्वभावः पाचनं भेदनं दारणं पीडनं प्रमार्जनं निर्ध्मापनं वमनं विरेचनं प्रक्षालनं प्रतिमर्शः प्रवाहणम् आचूषणम् अयस्कान्तो हर्षश्चेति ४
तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य पूयशोणितवेगा-द्गौरवाद्वा पतति पक्वमभिद्यमानं भेदयेद्दारयेद्वआ भिन्नमनिरस्यमानं पीड-नीयैः पीडयेत् पाणिभिर्वा अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्र-पाणिभिः प्रमार्जयेत् आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधम-नैर्निर्धमेत् अन्नशल्यानि वमनाङगुलिप्रतिमर्शप्रभृतिभिः विरेचनैः पक्वाश-यगतानि व्रणदोषाशयगतानि प्रक्षालनैः वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहण-मुक्तम् मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन हृद्यवस्थितमनेककारणोत्पप्ननं शोकशल्यं हर्षेणेति ५
सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः प्रतिलोमोऽनुलोमश्च
तत्र प्रतिलोममर्वाचीनमानयेत् अनुलोमं पराचीनम् ७
उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ८
छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावंक्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ९
हस्तेनैवापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् १०
भवति चात्र
शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत्
संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ११
ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघृतप्रभृतिभिः संस्वेद्या-वदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽचारिकमुपदिशेत् सिरास्नायुविलग्नं श-लाकादिभिर्विमोच्यापनयेत् श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा १२
हृदयमभितो वर्तमानं शल्यं शीतजलादि भिरुद्वेजितस्यापहरेद्यथामार्गं दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् १३
अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत् अशक्य-मेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्य वक्त्रकविके बध्नीयात् अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन शल्यमुद्धरति दृढां वा वृक्ष
शाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् १४
अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणामन्यतमस्य प्रहारेण विचाल्य यथामार्गमेव
यन्त्रेण १५
विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव १६
जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां तयाऽवगृह्य
शीताभिरद्भिः परिषिच्य स्थिरीभूतं शल्यमुद्धरेत् १७
अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके १८
अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकदीर्घसूत्रबद्धं
द्र वभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत् वमतश्चशल्यैकदेश-सक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत् मृदुना वादन्तधावनकूर्चकेनापहरेत् प्र-णुदेद्वाऽन्त क्षतकण्ठाय च मधु सर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्कराविमिश्रम् १९
उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखने-दामुखात् २०
ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे
मुष्टिनाऽभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत् २१
बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि लालास्रावं फेनागमनं संज्ञानाशं चापादयति तमभ्यज्य संस्वेद्य
शिरोविरेचनं तस्मै तीक्ष्णं विदध्याद्र सं च वातघ्नंदद्यादिति २२
भवन्ति चात्र
शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान्
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् २३
कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः २४
एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् २५
शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनाहृतम्
वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् २६
इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयोनाम सप्तविंशतितमोऽध्यायः २७


अष्टाविंशतितमोऽध्यायः
अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
फलाग्निजलवृष्टीनां पुष्पभूमाम्बुदा यथा
ख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् ३
तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात्
गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसंभवात् ४
ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः
रसायनतपोजप्यतत्परैर्वा निवार्यते ५
नक्षत्रपीडा बहुधा यथा कालं विपच्यते
तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ६
असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः
अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ७
गन्धवर्णरसादीनां विशेषाणां स्वभावतः
वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ८
कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः
लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ९
लाजातसीतैलसमाः किंचिद्विस्राश्च गन्धतः
ज्ञेयाः प्रकृतिगन्धाःस्युरतोऽन्यद्गन्धवैकृतम् १०
मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ११
श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः
सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः १२
कुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः
न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् १३
कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः
दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् १४
कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः
स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् १५
क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः
त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये १६
ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः
दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः १७
दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः
शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः १८
येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा
चूर्णावकीर्णा इव ये भान्तिचानवचूर्णिताः १९
प्राणमांसक्षयश्वासकासारोचकपीडिताः
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु २०
क्रियाभिः सम्यगारब्धा न सिद्ध्य्न्ति च ये व्रणाः
वर्जयेत्तानपि प्राज्ञः संरक्षन्नात्मनो यशः २१
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो
नामाष्टाविंशतितमोऽध्यायः २८


एकोनत्रिंशत्तमोऽध्यायः
अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दूतदर्शनसंभाषा वेषाश्चेष्टितमेव च
ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ३
देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम्
कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ४
पाखण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये
त एव विपरीताः स्युर्दूताः कर्मविपत्तये ५
नपुंसकं स्त्री बहवो नैककार्या असूयकाः
गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
पाशदण्डायुधधराः पाण्डुरेतरवाससः ७
आर्द्र जीर्णापसव्यैकमलिनोद्ध्ववस्तवाससः
न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्र रूपिणः ८
रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः
छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ९
वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः
स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः १०
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये
विलिखन्तो महीं किंचिन्मुञ्चन्तो लोष्टभेदिनः ११
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः
फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् १२
नखैर्नखान्तरं वाऽपि करेण चरणं तथा
उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः १३
वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः
याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः १४
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम्
ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् १५
नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम्
प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव वा १६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
वैद्यस्य पैत्र्! ये दैवे वा कार्ये चोत्पातदर्शने १७
मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च
आद्रा र्श्ले!षामघामूलपूर्वासु भरणीषु च १८
चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः १९
स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः
गर्हिता पित्तरोगेषु दूता वैद्यमुपागताः २०
त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः
एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् २१
रक्तपित्तातिसारेषु प्रमेहेषु तथैव च
प्रशस्तो जलरोधेषु दूतवैद्यसमागमः २२
विज्ञायैव विभागं तु शेषं बुध्येत पण्डितः
शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः २३
स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः
गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः २४
स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान्
अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः २५
स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम्
उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः २६
मांसोदकुम्भातपत्रविप्रवारणगोवृषाः
शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः २७
स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता
कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि २८
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः
अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा २९
ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः
सिंहगोवृषनादाश्च ह्रेषितं गजबृंहितम् ३०
शस्तं हंसरुतं नॄणां कौशिकं चैव वामतः
प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ३१
पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान्
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ३२
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ३३
शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके
वृक्षेऽथवाऽश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ३४
चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः
पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ३५
पुन्नामानः खगा वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः
दक्षिणाद्वामगमनं प्रशस्तं श्वश्रृगालयोः
वामं नकुलचाषाणां नोभयं शशसर्पयोः ३६
भासकौशिकयोश्चैव न प्रशस्तं किलोभयम्
दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ३७
दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम्
कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ३८
पात्रं नेष्टं तथाऽङ्गारतैलकर्दमपूरितम्
प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ३९
शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः
नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ४०
मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः
खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ४१
ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः
विद्र ध्युदरगुल्मेषु भेदशब्दस्तथैव च ४२
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते
एवं व्याधिविशेषेण निमित्तमुपधारयेत् ४३
तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः
छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ४४
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम्
दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ४५
प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽतुरे
प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते ४६
केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः
खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ४७
नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः
प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ४८
भाण्डानां संकरस्थानां स्थानात् संचारणं तथा
निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ४९
वैद्यासनावसादो वा रोगी वा स्यादधोमुखः
वैद्यं संभाषमाणोऽङ्ग कुड्यमास्तरणानि वा ५०
प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा
हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ५१
यो वैद्यमुन्मुखः पश्यन्नुन्मार्ष्टि स्वाङ्गमातुरः
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ५२
भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति
शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ५३
आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक्
स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ५४
सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा
स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ५५
वराहैर्महिषैर्वाऽपि यो यायाद्दक्षिणामुखः
रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ५६
यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम्
अन्तावसायिभिर्यो वाऽकृष्यते दक्षिणामुखः ५७
परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजितानिस्तिथा
मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ५८
पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति
पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ५९
निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम्
यस्य वंशो नलो वाऽपि तालो वोरसि जायते ६०
यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः
पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसाऽवृते ६१
ह्रियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात्
पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते ६२
पतनं तारकादीनां प्रणाशं दीपचक्षुषोः
यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ६३
यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा
शाल्मलद्यं किंशुकं यूपं वल्मीकं पारिभद्र कम् ६४
पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति
कार्पासतैलपिण्याकलोहानि लवणं तिलान् ६५
लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम्
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ६६
यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा
चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ६७
ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम्
उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ६८
मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम्
गुल्मेषु स्थावरोत्पत्तिः कोष्ठे मूर्ध्नि शिरोरुजि ६९
शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः
हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः ७०
रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति
स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ७१
दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा
जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ७२
दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम्
जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः ७३
न चाचक्षीत कस्मैचिद्दृष्ट्वा स्वप्नमशोभनम्
देवतायतने चैव वसेद्रा त्रित्रयं तथा
विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ७४
अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम्
देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ७५
समिद्धमग्निं साधूंश्च निर्मलानि जलानि च
पश्येत् कल्याणलाभाय व्याधेरपगमाय च ७६
मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च
लभेत धनलाभाय व्याधेरपगमाय च ७७
महाप्रासादसफलवृक्षवारणपर्वतान्
आरोहेद्दुव्यलाभाय व्याधेरपगमाय च ७८
नदीनदसमुद्रा श्चं! क्षुभितान् कलुषोदकान्
तरेत् कल्याणलाभाय व्याधेरपगमाय च ७९
उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत्
आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ८०
एवं रूपाञ् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः
स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ८१
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो
नामैकोनत्रिंशत्तमोऽध्यायः २९


त्रिंशत्तमोऽध्यायः
अथातः पञ्चेन्द्रि यार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत्
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ३
शृणोति विविधाञ् शब्दान् यो दिव्यानामभावतः
समुद्र पुरमेघानामसंपत्तौ च निःस्वनान् ४
तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत्
ग्राम्यारण्यस्वनांश्चापि विपरीताञ् शृणोति च ५
द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति
न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ६
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत्
संजातशीतपिडको यश्च दाहेन पीड्यते ७
उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते
प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ८
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते
वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ९
स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः
सुगन्धिर्वाऽति योऽकस्मात्तं ब्रुवन्ति गतायुषम् १०
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान्
उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ११
यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः
यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते १२
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम्
गृह्णीते वाऽन्यथा गन्धं शान्ते दीपे च नीरुजः १३
यो वा गन्धं न जानाति गतासुं तं विनिर्दिशेत्
द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा १४
विपरीतेन गृह्णाति भावानन्यांश्च यो नरः
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति १५
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम्
अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् १६
तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान्
विमानयानप्रासादैर्यश्च संकुलमम्बरम् १७
यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति
धूमनीहारवासोभिरावृतामिव मेदिनीम् १८
प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति १९
न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम्
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् २०
ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् २१
श्वकाकङ्कगृध्राणां प्रेतानां यक्षरक्षसाम्
पिशाचोरगनागानां भूतानां विकृतामपि २२
यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते
आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् २३
इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रि यार्थविप्रतिपत्तिर्नाम त्रिंशोऽध्यायः ३०