सुश्रुतसंहिता/सूत्रस्थानम्/अध्याय ०१-१५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
सुश्रुतसंहिता
सूत्रस्थानम्
प्रथमोऽध्यायः
अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य गोपुररक्षितसुश्रुतप्रभृतय
ऊचुः ३
भगवन् शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सना-थानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्यमनसि नः पीडा भवति तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायु-र्वेदं श्रोतुमिच्छाम इहोपदिश्यमानम् अत्रायत्तमैहिकमा मुष्मिकं च श्रेयः तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ४
तानुवाच भगवान्
स्वागतं वः सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ५
इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवप्रजाः श्लोकशत सहस्र-मध्यायसहस्रं च कृतवान् स्वयम्भूः ततोऽल्पायुष्ट्वमल्पमेध स्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ६
यद्यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति ७
अथास्य प्रत्यङ्गलक्षणसमासः तत्र शल्यं नाम विविधतृणकाष्ठपाषाणपांशु-लोहलोष्टास्थिबालनख पूयास्रावदुष्टव्रणान्तर्गर्भ शल्योद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च १
शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् २
कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् ३
भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् ४
कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थंदुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् ५
अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च ६
रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधा वलकरं रोगापहरणसमर्थं च ७
वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजननिमित्तं प्रहर्षजननार्थं च ८
एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते अत्र कस्मै किमुच्यतामिति ९
त ऊचुःअस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति १०
स उवाचैवमस्त्विति ११
त ऊचुर्भूयोऽपि भगवन्तमस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति अस्मै चोपदिश्यमानं वयमप्युपधारयिष्यामः १२
स उवाचैवमस्त्विति १३
वत्स सुश्रुत इह खल्वायुर्वेदप्रयोजनं व्याध्युपसृष्टानां व्याधिपरिमोक्षः स्वस्थस्य रक्षणं च १४
आयुरस्मिन् विद्यते अनेन वाऽयुर्विन्दन्ति इत्यायुर्वेदः १५
तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय १६
एतद्ध्य्ङ्गं प्रथमं प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च श्रूयतेहि यथा रुद्रे ण यज्ञस्य शिरश्छिन्नमिति ततो देवाअश्विनावभिगम्योचुःभगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्यशिरः सन्धा तव्यमिति तावूचतुरे-वमस्त्विति अथतयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् ताभ्यां यज्ञस्य शिरः संहितम् इति १७
अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम् आशुक्रिया करणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च १८
तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति १९
ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मादश्विनौ अश्विभ्या
मिन्द्र ः! इन्द्रा दहं मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः २०
भवति चात्र
अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम्
शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् २१
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् लोको हि द्विविधः स्थावरो जङ्ग-मश्च द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्मको वा तत्र चतु-र्विधो भूतग्रामःसंस्वेदजजरायुजाण्डजोद्भिज्जसंज्ञः तत्र पुरुषः प्रधानं तस्योपकरणमन्यत् तस्मात् पुरुषोऽधिष्ठानम् २२
तद्दुःखसंयोगा व्याधय उच्यन्ते २३
ते चतुर्विधाःआगन्तवः शारीराः मानसाः स्वाभाविकाश्चेति २४
तेषामागन्तवोऽभिघातनिमित्ताः १
शारीरास्त्वन्नपानमूलावातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः २
मानसास्तुक्रोधशोकभयहर्षविषादेर्ष्याभ्यसूया दैन्यमात्सर्यकामलोभप्रभृतयइच्छाद्वेषभेदैर्भवन्ति ३
स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्रा प्रकृभिऋ!तियः ४/२५
त एते मनःशरीराधिष्ठानाः २६
तेषां संशोधनसंशमनाहाराचाराःसम्यक्प्रयुक्ता निग्रहहेतवः २७
प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्र व्याश्रयाःद्र व्याणि पुनरोषधयः तास्तु द्विविधाः स्थावरा जङ्गमाश्च २८
तासां स्थावराश्चतुर्विधाःवनस्पतयो वृक्षा वीरुध ओषधय इति तासु अपुष्पाः फलवन्तो वनस्पतयः पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः फलपाकनिष्ठआ ओषधय इति २९
जङ्गमाः खल्वपि चतुर्विधाःजरायुजाण्डजस्वेदजोद्भिज्जाः
तत्र पशुमनुष्यव्यालादयो जरायुजाः खगसर्पसरीसृपप्रभृतयोऽण्डजाः कृमिकीट पिपीलिकाप्रभृतयः स्वेदजाः इन्द्र गोपमण्डूकप्रभृतय उद्भिज्जाः ३०
तत्रस्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ३१
पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ३२
कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्णवर्षाहोरात्र पक्षमासर्त्वयनादयः संवत्सरविशेषाः ३३
त एते स्वभावत एव दोषाणां संचयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ३४
भवन्ति चात्र
श्लोका शारीराणां विकाराणामेष वर्गश्चतुर्विधः
प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ३५
आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि
मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ३६
शरीरपतितानां तु शारीरवदुपक्रमः
मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ३७
एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् तत्र पुरुषग्रहणात् तत्संभवद्र व्यसमूहो भूतादिरुक्त स्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः व्याधिग्रहणाद्वात पित्तकफशोणितसन्निपा-तवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः औषधग्रहरणाद्द्र व्यरसगु-णवीर्यविपाकानामादेशः क्रियाग्रहरणात् स्नेहादीनि च्छेद्यादीनि च कर्माणि व्याख्यातानि कालग्रहरणात् सर्वक्रियाकालानामादेशः ३८
भवति चात्र
बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम्
सविंशमध्यायशतमस्य व्याख्या भविष्यति ३९
तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु
तत्र सूत्रनिदानशारीरचिकित्सित कल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान्वक्ष्यामः ४०
भवति चात्र
स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम्
स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ४१
इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः १


द्वितीयोऽध्यायः
अथातःशिष्योपनयनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयः शीलशौर्यशौचाचारविनयशक्ति-बल मेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षि नासं प्रसन्न चित्तवाक्चेष्टं क्लेशसहं च भिषक् शिष्यमुपनयेत् अतो विपरीतगुणं नोपनयेत् ३
उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन दर्भैः संस्तीर्य रत्नपुष्पलाजभक्तैर्देवताःपूजयित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाऽग्निमुपसमाधाय खदिरपलाशदेवदारुबि-ल्वानां समिद्भिश्चतुर्णां वा क्षीरिवृक्षाणां न्यग्रोधो दुम्बराश्वत्थमधूकानां द-धिमधुघृताक्ताभिर्दार्वीहौमिकेन विधिनासप्रणवा भिर्महाव्याहृतिभिः स्रुवे-णाज्याहुतीर्जुहुयात् ततः प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात् शिष्यमपि कारयेत् ४
ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वयस्यवैश्यो वैश्यस्यैवेति शूद्रमपि कुलगुणसंपन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ५
ततोऽग्नि त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् कामक्रोधलोभमोहमानाह-ङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणावश्यं भवितव्यं मदनुमत-स्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्तितव्यम् अ-तोऽन्यथा ते वर्तमानस्याधर्मो भवति अफला च विद्या न च प्राकाश्यंप्राप्नोति ६
अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ७
द्विजगुरु दरिद्र मित्रप्रव्रजितोपनत साध्वनाथाभ्युपगतानां चात्मबान्धवाना-मिव स्वभैषजैः प्रतिकर्तव्यम् एवं साधु भवति व्याधशाकुनिकपतितपाप-कारिणां च न प्रतिकर्तव्यम् एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च
प्राप्नोति ८
भवतश्चात्र
कृष्णेऽष्टमी तन्निधनेऽहनी द्वे शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम्
अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ९
श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु
नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् १०
इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयोऽध्यायः २


तृतीयोऽध्यायः
अथातोऽध्ययनसंप्रदानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु तत्र सूत्रस्थानमध्यायाः ष-ट्चत्वारिंशत्षोडश निदानानि दश शारीराणि चत्वारिंशच्चिकित्सितानि
अष्टौ कल्पाः तदुत्तरं षट्षष्टिः ३
वेदोत्पत्तिः शिष्य नयस्तथाऽध्ययनदानिकः
प्रभाषणाग्रहरणा वृतुचर्याऽथ यान्त्रिकः ४
शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम्
अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ५
दोषधातुमलाद्यानां विज्ञानाध्याय एव च
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ६
हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक्
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ७
विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा
शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ८
पञ्चेन्द्रि यं तथा छाया स्वभावाद्वैकृतं तथा
अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ९
मिश्रकाख्यो द्र व्यगणः संशुद्धौ शमने च यः
द्र व्यादीनां च विज्ञानं विशेषो द्र व्यगोऽपरः १०
रसज्ञानं वमनार्थमध्यायो रेचनाय च
द्र वद्र व्यविधिस्तद्वदन्नपानविधिस्तथा ११
सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः
षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते १२
वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः
कुष्ठमेहोदरं मूढो विद्र धिः परिसर्पणम् १३
ग्रन्थिवृद्धिक्षुद्र शूकभग्नाश्च मुखरोगिकम्
हेतुलक्षणनिर्देशान्निदानानीति षोडश १४
भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् १५
प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा १६
निर्दिष्टानि दशैतानि शारीराणि महर्षिणा
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि १७
द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम्
महावातिकमर्शांसि साश्मरिश्च भगन्दरः १८
कुष्ठानां महतां चापि मैहिकं पैडिकं तथा
मधुमेहचिकित्सा च तथा चोदरिणामपि १९
मूढगर्भचिकित्सा च विद्र धीनां विसर्पिणाम्
ग्रन्थिवृद्ध्य्पुदंशानां तथा च क्षुद्र रोगिणाम् २०
शूकदोषचिकित्सा च तथा च मुखरोगिणाम्
शोफस्यानागतानां च निषेधो मिश्रकं तथा २१
वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च
मेधायुष्करणं चापि स्वभावव्याधिवारणम् २२
निवृत्तसंतापकरं कीर्तितं च रसायनम्
स्नेहोपयौगिकः स्वेदो वमने सविरेचने २३
तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः
नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः २४
निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः
धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः २५
प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च
पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते २६
अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् २७
दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् २८
अध्यायानां शतं विंशमेवमेतदुदीरितम्
अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते २९
अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्र वान्
औपद्र विक इत्येष तस्याग्र्यत्वान्निरुच्यते ३०
सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ३१
चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ३२
लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ३३
घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम्
प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ३४
चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते
नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ३५
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक्
पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ३६
नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा
कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ३७
ज्वरातिसारशोषाणां गुल्महृद्रो गिणामपि
पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ३८
तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः
स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ३९
विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः
इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ४०
अमानुषनिषेधश्च तथाऽपस्मारिकोऽपरः
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ४१
रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ४२
श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः
बह्वर्थसंग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ४३
शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या
भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ४४
वाजीकरं चिकित्सासु रसायनविधिस्तथा
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ४५
इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम्
विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ४६
एतद्ध्य्वश्यमध्येयम् अधीत्य च कर्माप्यवश्यमुपा
सितव्यम् उभयज्ञो हि भिषग् राजार्हो भवति ४७
भवन्ति चात्र
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ४८
यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः
स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ४९
उभावेतावनिपुणावसमर्थौ स्वकर्मणि
अर्धवेदधरावेतावेकपक्षाविव द्विजौ ५०
ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ५१
स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु
स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ५२
यस्तूभयज्ञो मतिमान् स समर्थोऽथसाधने
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ५३
अथ वत्स तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं अथ शुचये कृ-तोत्तरासङ्गायाव्याकुलायोपस्थितायाध्यनकाले शिष्याय यथाशक्ति गुरुरुप-दिशेत् पदं पादं श्लोकं वा ते चपदपादश्लोका भूयः क्रमेणानुसंधेयाः एव-मेकैकशो घटयेदात्मना चानुपठेत् अद्रुतमविलम्बितमविशङ्कितमननुना-सिकं सुव्यक्ताक्षरमपीडितवर्ण मक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतंनात्युच्चैर्नातिनीचैश्च स्वरैः पठेत्
न चान्तरेण कश्चिद्व्रजेत् तयारधीयानयोः ५४
भवतश्चात्र
शुचिर्गुरुपरो दक्षस्तन्द्रा निद्रा विवर्जितः
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ५५
वाक्सौष्ठवेऽथविज्ञाने प्रागल्भ्ये कर्मनैपुणे
तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ५६
इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसंप्रदानीयो नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः
अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य
चन्दनभार इव केवलं परिश्रमकरं भवति ३
भवति चात्र
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य
एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ४
तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं चक-स्मात् सूक्ष्मा हि द्र व्यरसगुणवीर्यविपाकदोषधातु मलाशयमर्मसिरास्नायु-सन्ध्यस्थिगर्भसंभवद्र व्यसमूहविभागास्तथा प्रनष्ट शल्योद्धरण व्रणविनिश्च-यभर्नगविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुली-कुर्युः किंपुनरल्पबुद्धेः तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ५
अन्यशास्त्रोपपन्नानांचार्थानामिहोपनीतानामर्थवशात्तेषांतद्विद्येभ्य एव व्या-ख्यानमनुश्रोतव्यं कस्मात् न ह्येकस्मिनशास्त्रे शक्यः सर्वशास्त्राणामवरोधः
कर्तुम् ६
भवन्ति चात्र
एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम्
तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ७
शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत्
यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ८
औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम्
शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ९
इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयोनाम चतुर्थोऽध्यायः ४


पञ्चमोऽध्यायः
अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्रिविधं कर्म पूर्वकर्म प्रधानकर्म पश्चा
त्कर्मेति तद्व्याधिं प्रत्युपदेक्ष्यामः ३
अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैवतावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ४
तच्च शस्त्रकर्माष्टविधं तद्यथाछेद्यं भेद्यं लेख्यं
वेध्यम् एष्यम् आहार्यं विस्राव्यं सीव्यमिति ५
अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि भवन्ति तद्यथा यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्ब वौष्ठपिचुप्रोतसूत्रपत्रपट्टम-धुघृत वसापयस्तैलतर्पणकषायालेपन कल्कव्यजन शीतोषणोदककटाहादीनि परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ६
ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषज-श्चार्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखमातुर मुपवे-श्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च महत्स्वपि
च पाकेषु द्व्यङ्गुलान्तरं त्र्! यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ७
तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ८
भवतश्चात्र
आयतश्च विशालश्च सुविभक्तो निराश्रयः
प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ९
शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु
असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते १०
एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुद्ध्याऽवेक्ष्यापरान् व्रणान् कुर्यात् ११
भवति चात्र
यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च
तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति १२
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टककक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद
उक्तः १३
चिन्द्र मण्डलवच्छेदान् पाणिपादेषु कारयेत्
अर्धचन्द्रा कृतींश्चापि गुदे मेढ्रे च बुद्धिमान् १४
अन्यथा तु सिरास्नायुच्छेदनम् अतिमात्रं वेदना
चिराद्व्रणसंरोहो मांसकन्दीप्रादुर्भावश्चेति १५
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत १६
ततः शस्त्रमवचार्यशीताभिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणमभिमृद्यज्यिइ! प्रक्षाल्य कषायेण प्रोतेनोदकमादाय तिलकल्कमधुसर्पिः-प्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात् ततः कल्केना-च्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर्धूपैर्धूपयेत्
रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत १७
ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् आज्यशेषेण चास्य प्राणान् समालभेत १८
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म कुर्यात् तद्वक्ष्यामः १९
कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च
रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् २०
नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः
अभिद्र वन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा २१
पृथिव्यामन्तरिक्षे च ये चरन्ति निशाचराः
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः २२
पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा
पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः २३
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च
सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु २४
उदानं विद्युतः पान्तु समानं स्तनयित्नवः
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा २५
कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रो ऽभिरक्षतु
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् २६
चक्षुः सूर्यो दिशः श्रोत्रे चन्द्र माः पातु ते मनः
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव २७
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा
आकाशं खानि ते पान्तु देहं तव वसुन्धरा २८
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम्
पौरुषं पुरुषश्रेष्ठो ब्रह्माऽत्मानं ध्रुवो भ्रुवौ २९
एता देहे विशेषेण तव नित्या हि देवताः
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ३०
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम्
स्विस्ति ते चन्द्र सूर्यौ च स्वस्ति नारदपर्वतौ
स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्र गाः ३१
पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ३२
इति स्वाहा
एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः
मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ३३
ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ३४
ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्र
पट्टेन न चैनं त्वरमाणोऽपरेद्युर्मोक्षयेत् ३५
द्वितीयदिवसपरिमोक्षणाद्विग्रथितोव्रणश्चिरा
दुपसंरोहति तीव्ररुजश्च भवति ३६
अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषा
यालेपनबन्धाहाराचारान् विदध्यात् ३७
न चैनं त्वरमाणः सान्तर्दोषं रोपयेत्स ह्यल्पेनाप्यप
चारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ३८
भवन्ति चात्र
तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम्
रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत्
हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसंभवात् ३९
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत्
त्र्! यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ४०
अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक्
प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ४१
या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः
धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ४२
इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः
अथात ऋतुचर्यमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कालो हि नामभिगवान्स्वियम्भुरनादिमध्यनिधनः
अत्र रस व्यापत्संपत्ती जीवितमरणे च मनुष्याणामायत्ते
स सूक्ष्मामपि कलां न लीयत इति कालः संकलयति कालयति वा भूतानीति कालः ३
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठा
कलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ४
तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः पञ्चदशाक्षिनिमेषाः काष्ठा त्रिंशत्काष्ठाः कला विंशतिकलो मुहूर्तः कलादशभागश्च त्रिंशन्मुहूर्तमहोरात्रं पञ्चदशाहोरात्राणि पक्षः स च द्विविधः शुक्लः कृष्णश्च तौ मासः ५
तत्र माघादयो द्वादश मासाः द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः
तेषां तपस्तपस्यौ शिशिरः मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः नभोनभस्यौ वर्षाः इषोर्जौ शरत् सहःसहस्यौ हेमन्त इति ६
त एते शीतोष्णवर्षलक्षणाश्चन्द्रा दित्ययोः कालविभागकरत्वादयने द्वे भवतो
दक्षिणमुत्तरं च तयोर्दक्षिणं वर्षाशरद्धेमन्ताः तेषु भगवानाप्यायते सोमः अ-म्ललवणमधुराश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमभि-वर्धते उत्तरं च शिशिर वसन्तग्रीष्माः तेषु भगवानाप्यायतेऽक तिक्तकषा-यकटुकाश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमपहीयते ७
भवति चात्र
शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि
तावुभावपि संश्रित्य वायुः पालयति प्रजाः ८
अथ खल्वयने द्वे युगपत् संवत्सरो भवति
ते तु पञ्च युगमिति संज्ञां लभन्ते
स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत्परिवर्तमानः कालचक्रमित्युच्यत इत्येके ९
इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति
दोषोपचयप्रकोपोपशमनिमित्तं ते तु भाद्र पदाद्येन द्विमासिकेन व्याख्याताः तद्यथा भाद्र पदाश्वयुजौ वर्षाः कार्तिकमार्गशीर्षौ शरत् पौषमाघौ हेमन्तः
फाल्गुनचैत्रौ वसन्तः वैशाखज्येष्ठौ ग्रीष्मः आषाढश्रावणौ प्रावृडिति १०
तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमल प्रायाः ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते विदाहात्पित्तसंचयमापादयन्ति स सं-चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽककिरणप्रविलायितः पैत्ति-कान् व्याधीञ्जनयति ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्यश्च ता
उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिना-मविदग्धाः स्नेहाच्छत्याद्गौरवादुपलेपाच्च श्लेष्मसंचयमापादयन्ति स संचयो वसन्तेऽकरश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधी-ञ्जनयति ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्या-पश्च ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः संचयमापादयन्ति स संचयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ
क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान्
व्याधीञ्जनयति एवमेष दोषाणां संचयप्रकोपहेतुरुक्तः ११
तत्र वर्षाहेमन्तग्रीष्मेषु संचितानां दोषाणां शरद्वसन्त
प्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् १२
तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकाणां निदाघे वातिकानां
शरदि स्वभावत एव त एते संचयप्रकोपोपशमा व्याख्याताः १३
तत्र पूर्वाह्णे वसन्तस्य लिङ्गं मध्याह्ने ग्रीष्मस्य अपराह्णे प्रावृषः प्रदोषे
वार्षिकं शारदमर्धरात्रे प्रत्युषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपि
वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् १४
तत्र अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च
ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति १५
तेषां पुनर्व्यापदोऽदृष्टकारिताः शीतोष्णवातवर्षाणि
खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च १६
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति १७
तत्र अव्यापन्नानामोषधीनामपां चोपयोगः १८
कदाचिदव्यापन्नेष्वपि ऋतुषु कृत्याभिशापरक्षः क्रोधाधर्मैरुपध्व
स्यन्ते जनपदाः विषौषधिपुष्पगन्धेन वा वायुनोपनीतेनाक्रम्यते
यो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरो
रुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयनासनयान
वाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा १९
तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्का-रतपोनियमदयादानदीक्षाभ्युपगम देवताब्राह्मणगुरु परैर्भवितव्यम् एवं साधु भवति २०
अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः २१
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः
छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः २२
दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः
रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये २३
शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः २४
सिद्धविद्याधरवधूचरणालक्तकाङ्किते
मलये चन्दनलतापरिष्वङ्गाधिवासिते २५
वाति कामिजनानन्दजननोऽनङ्गदीपनः
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः २६
दिशो वसन्ते विमलाः काननैरुपशोभिताः
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः २७
कोकिलाषट्पदगणैरुपगीता मनोहराः
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः २८
ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव २९
भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ३०
प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः
अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ३१
कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही
कदम्बनीपकुटजसर्जकेतकिभूषिता ३२
तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ३३
भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ३४
बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ३५
पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः
वाणसप्ताह्वबन्धूककाशासनविराजिता ३६
स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः
विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ३७
हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत्
वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ३८
इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षष्ठोऽध्यायः ६


सप्तमोऽध्यायः
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यन्त्रशतमेकोत्तरम् अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ किं कारणं
यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्मणाम् ३
तत्र मनः शरीराबाधकराणि शल्यानि
तेषामाहरणोपायो यन्त्राणि ४
तानि षट्प्रकाराणि तद्यथा-स्वस्तिकयन्त्राणि संदंशयन्त्राणि तालयन्त्राणि
नाडीयन्त्राणि शलाका यन्त्राणि उपयन्त्राणि चेति ५
तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि द्वे संदंशयन्त्रे द्वे एव तालयन्त्रे
विंशतिर्नाड्यः अष्टाविंशतिः शलाकाः पञ्चविंशतिरुपयन्त्राणि ६
तानि प्रायशो लौहानि भवन्ति
तत्प्रतिरूपकाणि वा तदलाभे ७
तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शना द्युक्तितश्च कारयेत् ८
समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च
सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ९
तत्र स्वस्तिकयन्त्राणिअष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकत रक्ष्वृक्षद्वी-पिमार्जारशृगालमृगैर्वारुककाककङ्ककुररचास भासशशघात्युलूक चिल्लि-श्येनगृघ्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जन नन्दीमुख मुखानि मसूराकृतिभिः कीलैरवबद्धानि मूलेऽङकुशवदावृत्त वारङ्गाणि अस्थि विदष्टशल्योद्धरणार्थमुपदिश्यन्ते १०
सनिग्रहोऽनिग्रहश्च संदंशौ षोडशाङ्गुलौ भवतः
त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ११
तालयन्त्रे द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके कर्णनासानाडीशल्यानामाहरणार्थम् १२
नाडीयन्त्राणिअनेकप्रकाराणि अनेकप्रयोजनानि एकतोमुखान्युभयतोमुखानि
च तानि स्रोतोगतशल्योद्धरणार्थं रोगदर्शनार्थम् आचूषणार्थं क्रियासौकर्यार्थं चेति तानि स्रोतोद्वरापरिणाहानि यथायोगदीर्घाणि च तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकश सन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः १३
शलाकायन्त्राण्यपि नानाप्रकाराणि नानाप्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे एषणव्यूहनचालनाहर-णार्थमुपदिश्येते मसूरदलमात्रमुखे द्वए किंचिदानताग्रे स्रोतोगतशल्योद्धर-णार्थं षट् कार्पासकृतोष्णीषाणि प्रमार्जनक्रियासु त्रीणि दर्व्याकृतीनि खल्लमुखानि क्षारौषधप्रणि
धानार्थां त्रीण्यन्यानि जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडेवाग्निकर्म-स्वभिप्रेतानि नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णौष्ठं अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं मूत्रमार्गविशोधनार्थमेकं
मालतीपुष्पवृन्ताग्रप्रमाणपरिमणडलमिति १४
उपयन्त्राण्यपि रज्जुवेणिकापट्टचर्मान्तवल्कललता वस्त्राष्ठीलाश्ममुद्गरपाणि पादतलाङ्गुलिजिह्वादन्तनख मुखबालाश्वकटकशाखा ष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति १५
एतानि देहे सर्वस्मिन् देहस्यावयवे तथा
संधौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् १६
यन्त्रकर्माणितु निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरण पीडन-मार्गविशोधनविकर्षणाहरणाञ्छनोन्नमनविनमन भञ्जनोन्मथना चूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानिचतुर्विंशतिः १७
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान्
असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः १८
तत्र अतिस्थूलम् असारम् अतिदीर्घम् अतिह्रस्वम् अग्राहि विषमग्राहि वक्रं
शिथिलम् अत्युन्नतम् मृदुकीलं मृदुमुखं मृदुपाशम् इति द्वादश यन्त्रदोषाः १९
एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम्
प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् २०
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः
निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया २१
निवर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात्
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि चैव २२
इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ७


अष्टमोऽध्यायः
अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विंशतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रि कोत्पलपत्रकार्ध धारसूचिकुशपत्राटी मुखशरारिमुखान्त र्मुखत्रि कूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिशदन्तशङ्क्वेषण्य इति ३
तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च वृद्धिपत्रनखशस्त्र
मुद्रि कोत्पलपत्रकार्धधाराणि छेदने भेदने च सूचीकुशपत्राटी
टिआ!मिउ!खशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे कुठारिका
व्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च बडिशं दन्तशङ्कुश्चा
हरणे एषण्येषणे आनुलोम्ये च सूच्यः सीवने इत्यष्टविधे
कर्मण्युपयोगः शस्त्राणां व्याख्यातः ४
तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसुवक्ष्यतेतत्र वृद्धिपत्रं
वृन्तफलसाधारणे भागे गृह्णीयात् भेदनान्येवं सर्वाणि वृद्धिपत्रं
मण्डलाग्रं च किंचिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यं
वृन्ताग्रे विस्रावणानि विशेषेण तु बालवृद्धसुकुमारभीरुनारीणां
राज्ञां राजमापिउ!त्रिआ!णां च त्रिकूर्चकेन विस्रावयेत् तलप्रच्छा
दितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं कुठारिकां वामहस्तन्य
स्तामितरहस्तमध्यमाङ्गुल्याऽङगुष्ठविष्टब्धयाऽभिहन्यात् आरा
करपत्रैषण्यो मूले शेषाणि तु यथायोगं गृह्णीयात् ५
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ६
तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते प्रिदेशिन्यग्रपर्व
प्रदेशप्रमाणा मुद्रि का दशाङ्गुला शरारिमुखी सा च
कर्तरीति कथ्यते शेषाणि तु षडङ्गुलानि ७
तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखाग्राणि अकरालानि चेतिशस्त्रसंपत् ८
तत्र वक्रं कुण्ठं खण्डं खरधारम् अतिस्थूलम् अत्यल्पम् अति
दीर्घम् अतिह्रस्वम् इत्यष्टौ शस्त्रदोषाः अतो विपरीतगुण
माददीत अन्यत्र करपत्रात् तद्धि खरधारमस्थिच्छेदनार्थम् ९
तत्र धारा भेदनानां मासूरी लेखनानामर्धमासूरी व्यधनानां
विस्रावणानां च कैशिकी छेदनानामर्धकैशिकीति १०
वडिशं दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथम
यवपत्रमुख्येषणी गिण्डूपदाकारमुखी च ११
तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितं शर
शल्यास्थिच्छेदनेषु उदकपायितं मांसच्छेदनभेदनपाटनेषु तैल
पायितं सिराव्यधनस्नायुच्छेदनेषु १२
तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा
धारासंस्थापनार्थं शाल्मलीफलकमिति १३
भवति चात्र
यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम्
सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् १४
अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षा
रनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति १५
शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्
त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान् १६
आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत्
विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् १७
ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये
गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् १८
एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः
शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु
कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् १९
प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः
तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा २०
इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः ८


नवमोऽध्यायः
अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत्
स्नेहादिषु छेद्यादिषु च कर्मपथमुपदिशेत्
सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्वयोग्यो भवति ३
तत्र पुष्पफलालाबूकालिन्दकत्रपुसैर्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत् उत्कर्तनापकर्तनानि चोपदिशेत् दृतिबस्ति प्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां सरोम्णि चर्मण्यातते लेख्यस्य मृतपशुसिरासूत्पलनालेषु च वेध्यस्य घुणोपहत काष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य पनसबिम्बी-बिल्व फलमज्जमृतपशुदन्तेष्वाहार्यस्य मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य पुस्तमयपुरुषाङ्ग-प्रत्यङ्गविशेषेषु बन्धनयोग्यां मृदुषु मांसखण्डेष्वग्नि क्षारयोग्यां मृदुचर्म-मांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् उदकपूर्णघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानवस्तिव्रणबस्तिपीडनयोग्यामिति ४
भवतश्चात्र
एवमादिषु मेधावी योग्यार्हेषु यथाविधि
द्र व्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ५
तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु
यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ६
इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ९


दशमोऽध्यायः
अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता रा-जानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन
भूतानां सुसहायवता वैद्येनविशिखाऽनुप्रवेष्टव्या ३
ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य उपविश्य
आतुरमभिपश्येत् स्पृशेत् पृच्छेच्च त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशो
वेदितव्या इत्येके तत्तु न सम्यक् षड्विधो हि रोगाणां
विज्ञानोपायः तद्यथापञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ४
तत्र श्रोत्रेन्द्रि यविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिषु वक्ष्यन्तेतत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति इत्येवमादयः स्पर्शनेन्द्रि यवि-ज्ञेयाः शीतोष्णश्लक्ष्ण कर्कशमृदुकठिनत्वादयःस्पिर्शविशेषाज्विरशोफा-दिषु चक्षुरि न्द्रि यविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्ण विकारादयः
रसनेन्द्रि यविज्ञेयाः प्रमेहादिषु रसविशेषाः घ्राणेन्द्रि यविज्ञेया
अरिष्टलिङ्गादिषु व्रणानामव्रणानां च गन्धविशेषाः प्रश्नेन च
विजानीयाद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्तिमप्रवृत्तिं कालप्रकर्षादींश्च विशेषान् आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ५
एवमभिसमीक्ष्य साध्यान् साधयेत् याप्यान् यापयेत् असाध्या
न्नैवोपक्रमेत परिसंवत्सरोत्थितांश्च विकारान्प्रायशो वर्जयेत् ६
भवति चात्र
मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च
तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ७
तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति
तद्यथा श्रोत्रियनृपतिस्त्रीबालवृद्ध भीरुराजसेवककितवदुर्बलवैद्यविदग्ध-व्याधिगोपकदरिद्र कृपणक्रोधनानामनात्मवतामनाथानां च एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ८
भवति चात्र
स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत्
दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ९
इति सुश्रुतसंहितायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम दशमोऽध्यायः १०


एकादशोऽध्यायः
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः छेद्यभेद्यलेख्यकरणात्त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च ३
तत्र क्षरणात् क्षणनाद्वा क्षारः ४
नानौषधिसमवायात्त्रिदोषघ्नः शुक्लत्वात् सौम्यः तस्य सौम्यस्यापि सतो द-हनपचनदारणादिशक्तिरविरुद्धा आग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्ण-स्तीक्ष्णः पाचनओ विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्तापुंस्त्वस्य चातिसेवितः ५
स द्विविधः प्रतिसारणीयः पानीयश्च ६
तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्ट व्रण-नाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्र धिकृमिविषादिषूपदि-श्यते सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्त वैदर्भेषु तिसृषु च रोहि-णीषु एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ७
पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाहशर्कराश्मर्याभ्यन्तरविद्र धिकृमिविषार्शःसूपयुज्यते ८
अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्र ममदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ९
तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत् तस्य विस्तरोऽन्यत्र १०
अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च तं चिकीर्षुः शरदि गिरिसानुजं शुचि-रुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमु-ष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेत् अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च अथानेनैवविधानेन कुटजपलाशाश्व क-र्णपारिभद्र कबिभीतकारग्वधतिल्वकार्कस्नुह्य पामार्गपाटलानक्त मालवृष-कदलीचित्रकपूतीकेन्द्र वृक्षास्फोताश्वमारक सप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् ततः क्षारद्रो णमुदकद्रो णैः षड्भिरा-लोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य महति कटाहे शनैर्दर्व्या-ऽवघट्टयन् विपचेत् स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् तत एव क्षारोदकात्
कुडवमध्यर्धंवाऽपनयेत् ततः कटशर्कराभस्मशर्कराक्षीरपाक शङ्खनाभीर-ग्निवर्णाः कृत्वाऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रो -णेऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य सततमप्रमत्तश्चैनमवघट्ट-यन् विपचेत् स यथा नातिसान्द्रो नातिद्र वश्च भवति तथा प्रयतेत अथैन-मागतपाकमवतार्यानु गुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ११
एष चैवाप्रतीवापः पक्वः संव्यूहिमो मृदुः १२
प्रतीवापे यथालाभं दन्तीद्र वन्तीचित्रकलाङ्गलीपूतिकप्रवालतालप
त्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाःश्लक्ष्णचूर्णाः
शुक्तिप्रमाणाः प्रतीवापः स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः १३
तेषां यथाव्याधिबलमुपयोगः १४
क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् १५
भवतश्चात्र
नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथपिच्छिलः
अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः १६
अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः
सान्द्र ताऽपक्वता हीनद्र व्यता दोष उच्यते १७
तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपेदेशेऽसबाधेऽग्रोपहरणीयो-क्तेन विधानेनोपसंभृतसंभारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य
प्रच्छयित्वा शलाकया क्षारं प्रतिसारयेत् दत्त्वा वाक्शतमात्रमुपेक्षेत १८
तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम्
तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः १९
अथ चेत् स्थिरमूलत्वात् क्षारदग्धं न शीर्यते
इदमालेपनं तत्र समग्रमवचारयेत् २०
अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च
प्रपेष्य समभागानि तेनैनमनुलेपयेत् २१
तिलकल्कः समधुको घृताक्तो व्रणरोपणः
रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः २२
आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति
एवं चेन्मन्यसे वत्स प्रोच्यमानं निबोध मे २३
अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत्
कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा
अम्लेन सह संयुक्तः स तीक्ष्णलवणो रसे २४
माधुर्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति
माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः २५
तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च
हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च
अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लम
पिपासामूर्च्छाः स्युर्मरणं वा २६
क्षारदग्धव्रणं तु यथादोषं यथाव्याधि चोपक्रमेत् २७
अथ नैते क्षारकृत्याः तद्यथा दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदरिरक्तपित्ति-गर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहिरूक्षक्षतक्षीणतृष्णा मूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः २८
तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तः शेफः स्रोतः स्वल्पमांसेषु च देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् २९
तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपी-डोपद्रुतं च क्षारो न साधयति दिउ!र्बलबालस्थविरादीन् प्रतिसारणीय इति ३०
भवति चात्र
विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः
स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ३१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविघिर्नामैकादशोऽध्यायः ११


द्वादशोऽध्यायः
अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः तद्दग्धानां रोगा
णामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां तत्साध्यत्वाच्च ३
अथेमानि दहनोपकरणानि भवन्तितद्यथा पिप्पल्यजाशकृद्गो दन्तशरशला-काजाम्बवौष्ठेतरलौहाः क्षौद्र गुडस्नेहाश्च तत्र पिप्पल्य जाशकृद्गोदन्तशरश-लाकास्त्वग्गतानां जाम्बवौष्ठेतरलौहामांसगतानां क्षौद्र गुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ४
तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां तत्राप्यात्य
यिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ५
सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः मूढगर्भा
श्मरीभगन्दरोदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ६
तत्र द्विविधमग्निकर्माहुरेके त्वग्दग्धं मांसदग्धं च
इहतु सिरास्नायुसन्ध्यस्थिष्वपि न प्रतिषिद्धोऽग्नि ७
तत्र शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश्च त्वग्दग्धे कपोत वर्णताऽल्पश्वय-थुवेदना शुष्कसंकुचितव्रणता च मांसदग्धे कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे रुक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ८
तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत्वर्त्मरोगेष्वाद्रा र्ल!क्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ९
त्वङ्मांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिन सुप्तमांसे व्रणे ग्रन्थ्यर्शोऽबुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषुचाइग्नकर्म कुर्यात् १०
तत्र वलयबिन्दुविलेखाप्रतिसारणानीति दहनविशेषाः ११
भवति चात्र
रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च
व्याधिं तथर्तुं च समीक्ष्य सम्यक्ततोऽव्यवस्येद्भिषगग्निकर्म १२
तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः १३
अथेमानग्निना परिहरेत्पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृत शल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति १४
अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः तत्र स्निग्धं रूक्षं वाचिआ!इ!श्रित्य द्र -व्यमग्निर्दहति अग्निसंतप्तो हि स्नेहः सूक्ष्म सिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति १५
तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटा स्तीव्राश्चोषदाहरागपाकवेद-नाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धं सम्यग्दग्धमनवगाढं तालवर्णं सुसंस्थितं पू-र्वलक्षणयुक्तं च अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्य-स्थिव्यापादनमतिमात्रं ज्वरदाह पिपासा मूर्च्छाश्चोपद्र वा भवन्ति व्रणश्चास्य चिरेण रोहति रूढश्च विवर्णो भवति तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति १६
भवन्ति चात्र
अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति
ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते १७
तुल्यवीर्ये उभे ह्येते रसतो द्र व्यतस्तथा
तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते १८
स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते
दग्धस्योपशमार्थाय चिकित्सा संप्रवक्ष्यते १९
प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम्
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् २०
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम्
तस्मात् सुखयति ह्युष्णं ननु शीतं कथंचन २१
शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः
घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् २२
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् २३
ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत्
पित्तविद्र धिवच्चैनं संततोष्माणमाचरेत् २४
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः २५
तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत्
व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः २६
क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत्
मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा २७
मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत्
सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् २८
स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत्
अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् २९
श्वसिति क्षौति चात्यर्थमप्याधमति कासते
चक्षुषोः परिदाहश्च रागश्चैवोपजायते ३०
सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च
तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ३१
तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति
धूमोपहत इत्येषः शृणु तस्य चिकित्सितम् ३२
सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराम्बु वा
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ३३
वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति
विधिनाऽनेन शाम्यन्ति सदनक्षवथुज्वराः ३४
दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः
मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ३५
सम्यग्गृह्णातीन्द्रि यार्थान् मनश्चास्य प्रसीदति
शिरोविरेचनं चास्मै दद्याद्योगेनशास्त्रवित् ३६
दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः
अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ३७
उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा
शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ३८
तथाऽतितेजसा दग्धे सिद्धिर्नास्ति कथंचन
इन्द्र वज्राग्निदग्धेऽपि जीवति प्रतिकारयेत्
स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ३९
इति श्रीसुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्मविधिर्नाम द्वादशोऽध्यायः १२


त्रयोदशोऽध्यायः
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नृपाढ्यबालस्थविरभीरुदुर्बल नारी सुकुमाराणा मनुग्रहार्थं
परमसुकुमारोऽय शोणितावसेचनोपायोऽभिहितो जलौकसः ३
तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकाला बुभिरवसेचयेत् सर्वाणि सर्वैर्वा विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात् ४
भवन्ति चात्र श्लोकाः
उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम्
तस्माद्वातोपसृष्टे तु हितं तदवसेचने ५
शीताधिवासा मधुरा जलौका वारिसंभवा
तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ६
अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम्
तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ७
तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदा
चूषणात् सान्तर्दीपयाऽलाब्वा जिलायुका वक्ष्यन्तेइ! ८
जलमासामायुरिति जलायुकाः जलमासामोक इति जलौकसः ९
ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः १०
तत्र सविषाःकृष्णा कर्बुरा अलगर्दा इन्द्रा युधा सामुद्रि का गोचन्दना चेति तासु अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा रोमशा महापार्श्वा कृष्णमुखी अलगर्दा इन्द्रा युधवदूर्ध्वराजिभिश्चित्रा इन्द्रा युधा ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रि काः गोवृषणव-दधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति ताभिर्दष्टे पुरुषे दंशे श्वयथुर-तिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः इन्द्रा युधादष्टमसाध्यम् इत्येताः सविषाः
सचिकित्सिता व्याख्याताः ११
अथ निर्विषाःकपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीक मुखी साव-रिका चेति तत्र मनः शिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला किंचिद्र क्ता वृत्तकाया पिङ्गाऽशुगा च पिङ्गला यकृद्वर्णा शीघ्रपायि-नी दीर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी स्निग्धा पद्म पत्रवर्णाऽष्टादशाङ्गुल प्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः १२
तासा यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति १३
तत्र सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भसु च सविषाः प-द्मोत्पलनलिनकुमुदसौगन्धिककुवलय पुण्डरीकशैवलकोथजाता विलेष्वम्भः सु च निर्विषाः १४
भवति चात्र
क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु
न च संकीर्णचारिण्यो न च पङ्केशयाः सुखाः १५
तासां ग्रहणमार्द्र चर्मणा अन्यैर्वा प्रयोगैर्गृह्णीयात् १६
अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्
भक्ष्यार्थे चासामुपहरेच्छवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य
शय्यार्थं तृणमौदकानि च पत्राणि त्र्! यहात्त्र्यहाच्चाभ्योऽन्यज्जलं
भक्ष्यं च दद्यात् सप्तरात्रात् सप्तरात्राच्च घटमन्यं संक्रामयेत् १७
भवति चात्र
स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः
अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः १८
अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य सवेश्य वा विरूक्ष्य चास्य त-मवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् गृहीताश्च ताः सर्षपरजनीकल्कोदक-प्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् श्लक्ष्णशुक्लार्द्र पिचु प्रोतावच्छन्नां कृत्वा मुखमपावृणुयात् अगृह्ण-न्त्यै क्षीरबिन्दुं शोणितबिन्दुं वादद्यात् शस्त्रपदानि वा कुर्वीत यद्येवमपि न
गृह्णीयात्तदान्यां ग्राहयेत् १९
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्णन्तीं चार्द्र वस्त्रावच्छन्नां कृत्वा धारयेत् २०
दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति शुद्ध माददानामपनयेत् अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् २१
अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ता-ङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात् वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति सम्य-ग्वान्ता सलिलसरकेन्यस्ता भोक्तुकामा सती चरेत् या सीदती न चेष्टतेसा दुर्वान्ता तां पुनः सम्यग्वामयेत् दुर्वान्ताया व्याधिरसाध्य इन्द्र मदो नाम भवति
अथ सुवान्तां पूर्ववत् सन्निदध्यात् २२
शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः तत्पिचुधारणं वा जलौको-व्रणान् मधुनाऽवघट्टयेत् शीताभिरद्भिः परिषेचयेद्बध्नीत वा कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति २३
भवति चात्र
क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम्
जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् २४
इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः १३


चतुर्दशोऽध्यायः
अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्ट विधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परम-सूक्ष्मः स रसः इत्युच्यते तस्य हृदयं स्थानं स हृदयाच्चतुर्विंशतिधमनीरनुप्र-विश्योर्ध्वगा दश दशा धोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्त-र्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा तस्य शरीरमनु
सरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः तस्मिन् सर्वशरीरावय-वदोषधातुमलाशयानुसारिणि रसे जिज्ञासाकिमयं सौम्यस्तैजस इति
अत्रोच्यतेस खलु द्र वानुसारी स्नेहनजीवनत
र्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ३
स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ४
श्लोकौ चात्र भवतः
रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ५
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्तते
तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ६
आर्तवं शोणितं त्वाग्नेयम् अग्नीषोमीयत्वाद्गर्भस्य ७
पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ८
विस्रता द्र वता रागः स्पन्दनं लघुता तथा
भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ९
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते १०
तत्रैतेषां धातूनामन्नपानरसः प्रीणयिता ११
रसजं पुरुषं विद्याद्र सं रक्षेत् प्रयत्नतः
अन्नात्पानाच्च मतिमानाचाराच्चाप्यतन्द्रि तः १२
तत्र रसगतौ धातुः अहरहर्गच्छतीत्यतो रसः १३
स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन्
धाताववतिष्ठते एवं मासेन रसः शुक्रं स्त्रीणां चार्तवं भवति १४
भवति चात्र
अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये
कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः १५
स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् १६
वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं शीघ्रं
विरेचयन्ति १७
यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं नैव नास्तीति अथ चास्ति सतां भावानामभिव्यक्तिरिति ज्ञात्वा केवलं सौक्ष्म्यान्नाभिव्यज्यते स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति एवं बालानामपि
वयःपरिणामा च्छुक्रप्रादुर्भावो भवति रोमराज्यादयश्च विशेषा नारीणाम् १८
स एवान्नरसो वृद्धानांजिरापिरिपक्वशरीरत्वादप्रीणनो भवति १९
त एते शरीरधारणाद्धातव इत्युच्यन्ते २०
तेषां क्षयवृद्धी शोणितनिमित्ते तस्मात्तदधिकृत्य वक्ष्यामः
तत्र फेनिलमरुणं कृष्णं परुषं तनुशीघ्रगमस्कन्दि च वातेन
दुष्टं नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकाम
क्षिकाणामस्कन्दि च पित्तेन दुष्टं गैरिकोदकप्रतीकाशं स्निग्धं
शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं
सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं
द्विदोषलिङ्गं संसृष्टम् २१
इन्द्र गोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् २२
विस्राव्याण्यन्यत्र वक्ष्यामः २३
अथाविस्राव्याःसर्वाङ्गशोफः क्षीणस्य चाम्लभोजननिमित्तः
पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः २४
शस्त्रविस्रावणं द्विविधंप्रच्छानं सिराव्यधनं च २५
तत्र ऋज्वसंकीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च
शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति २६
तत्र दुर्दिने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे
स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति २७
मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसंगिनाम्
निद्रा भिभूतभीतानां नृणां नासृक् प्रवर्तते २८
तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत् २९
अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञैर्विस्रावितमतिप्रवर्तते तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ३०
तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते
यवागूं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् ३१
सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते
शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ३२
लाघवं वेदनाशान्तिर्व्याधेर्वेगपरिक्षयः
सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ३३
त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये
रक्तमोक्षणशीलानां न भवन्ति कदाचन ३४
अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्र दारुवि डङ्गचित्र-कत्रिकटुकागारधूमहरिद्रा र्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः स-मस्तैर्वा चूर्णीकृतैर्लवण तैलप्रगाढैर्व्रण मुखमवघर्षयेत् एवं सम्यक् प्रवर्तते
३५
अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्म लीपुष्प-शङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैः शनैर्व्रणमुखमवचूर्ण्या ङ्गुल्यग्रेणाव-पीडयेत् सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भिर्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्र फेनलाक्षाचूणैर्वा यथोक्तैर्व्रणबन्धनद्र व्यैर्गाढं बध्नीयात् शीताच्छादनभोजनागारैः शीतैः प्रदेहपरिषेकैश्चोपचरेत् क्षारेणाग्निना वा दहे-द्यथोक्तं व्यधादनन्तरं तामेवातिप्रवृत्तां सिरां विध्येत् काकोल्यादिक्वाथं वा शर्करा मधुमधुरं पाययेत् एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयात् उपद्र वांश्च यथास्वमुपचरेत् ३६
भवन्ति चात्र
धातुक्षयात् स्रुते रक्ते मन्दः संजायतेऽनलः
पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ३७
तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः
ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ३८
चतुर्विधं यदेतद्धि रुधिरस्य निवारणम्
संधानं स्कन्दनं चैव पाचनं दहनं तथा ३९
व्रणं कषायः संधत्ते रक्तं स्कन्दयते हिमम्
तथा संपाचयेद्भस्म दाहः संकोचयेत् सिराः ४०
अस्कन्दमाने रुधिरे संधानानि प्रयोजयेत्
संधाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ४१
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ४२
शेषदोषे यतो रक्ते न व्याधिरतिवर्तते
सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ४३
देहस्य रुधिरं मूलं रुधिरेणैव धार्यते
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ४४
स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले
शोफं सतोदं कोष्णेन सर्पिषा परिषेचयेत् ४५
इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्यायः १४


पञ्चदशोऽध्यायः
अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषधातुमलमूलं हि शरीरं तस्मादेतेषां लक्षणमुच्यमानमुपधारय ३
तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो
वायुः पञ्चधा प्रविभक्तः शरीरं धारयति १
रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा
प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति २
सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ४
रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति रक्तं वर्णप्रसादं मांसपुष्टिं
जीवयति च मांसं शरीरपुष्टिं मेदसश्च मेदः स्नेहस्वेदौ दृढत्वं
पुष्टिमस्थ्नां च अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च मज्जा
स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति शुक्रं धैर्यं च्यवनं
प्रीतिं देहबलं हर्षं बीजार्थं च १
पुरीषमुपस्तम्भं वाय्वग्निधारणं च बस्तिपूरणविक्ले
दकृन्मूत्रं स्वेदः क्लेदत्वक्सौकुमार्यकृत् २
रक्तलक्षणमार्तवं गर्भकृच्च गर्भो गर्भलक्षणं
स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ५
तत्र विधिवत् परिरक्षणं कुर्वीत ६
अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः तत्र वातक्षये मन्दचेष्टताऽल्पवाक्त्व-मप्रहर्षो मूढसंज्ञता च पित्तक्षये मन्दोष्माग्निता निष्प्रभता च श्लेष्मक्षये रू-क्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं तिऋ!ष्णा दौर्बल्यं
प्रजागरणं च ७
तत्र स्वयोनिवर्धनान्येव प्रतीकारः ८
रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च शोणितक्षये त्वक्पारुष्यमम्लशीत-प्रार्थना सिराशैथिल्यं च मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षः कक्षापिण्डि-कोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च अस्थिक्षयेऽस्थि-शूलं दन्तनखभङ्गो रौक्ष्यं च मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदो-ऽस्थिशून्यता च शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् ९
तत्रापि स्वयोनिवर्धनद्र व्योपयोगः प्रितीकारः १०
पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ
संचरणं च मूत्रक्षये बस्तितोदोऽल्पमूत्रता च अत्रापि स्वयो
निवर्धनद्र व्योपयोगः स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः
स्पर्शवैगुण्यं स्वेदनाशश्च तत्राभ्यङ्गः स्वेदोपयोगश्च ११
आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च तत्र
संशोधनमाग्नेयानां च द्र व्याणां विधिवदुपयोगः स्तनक्षये
स्तनयोर्म्लानता स्तन्यासंभवोऽल्पता वा तत्र श्लेष्मवर्धनद्र व्यो
पयोगः गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च तत्र प्राप्तबस्ति
कालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति १२
अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः वृद्धिः पुनरेषां स्व-योनिवर्धनात्युपसेवनाद्भवति तत्र वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामिता निद्रा नाशोऽल्पबलत्वं गाढवर्चस्त्वं च पित्तवृद्धौ पीतावभासता संतापः शीतकामित्वमल्पनिद्र ता मूर्च्छा बलहानिरि-न्द्रि यदौर्बल्यं पीत विण्मूत्रनेत्रत्वं च श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च १३
रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च मेदः स्निग्धा-ङ्गतामुदरपाश्वर्वृद्धिं कासश्वासादीन् दौर्गन्ध्यं च अस्थ्यध्यस्थीन्यधिदन्तांश्चा
मज्जा सर्वाङ्गनेत्रगौरवं च शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च १४
पुरीषमाटोपं कुक्षौ शूलं च मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं
बस्तितोदमाध्मानं च स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च १५
आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च स्तन्यं स्तनयोरापीनत्वं
मुहुर्मुहुः प्रवृत्तिं तोदं च गर्भो जठराभिवृद्धिं स्वेदं च १६
तेषां यथास्वं संशोधनं क्षपणं च क्षयाद
विरुद्धैः क्रियाविशेषैः प्रकुर्वीत १७
पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम्
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् १८
बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात् १९
तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो
बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति २०
भवन्ति चात्र
ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम्
विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् २१
देहः सावयवस्तेन व्याप्तो भवति देहिनः
तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् २२
अभिघातात्क्षयात्कोपाच्छोकाद्ध्य्नाआ!च्छ्रमात्क्षुधः
ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम्
तेजः समीरितं तस्माद्विस्रंसयति देहिनः २३
तस्य विस्रंसो व्यापत् क्षय इति त्रियो दोषाःइ! लिङ्गानि भवन्ति संन्धिवि-श्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने मूर्च्छा मांसक्षयो मोहः प्रलापोमरणमिति च क्षये २४
भवन्ति चात्र
त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः
विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः २५
अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम्
गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् २६
तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम्
मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च २७
पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये तत्र विस्रंसेव्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत्
इतरं तु मूढसंज्ञं वर्जयेत् २८
दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः
स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति २९
यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः
तस्य तस्य स लाभे तु तं तं क्षयमपोहति ३०
यस्य धातुक्षयाद्वायुः संज्ञां कर्म च नाशयेत्
प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ३१
रसनिमित्तमेव स्थौल्यं कार्श्यं च तत्र श्लेष्मलाहारसेविनोऽध्यशनशील-स्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमुनक्राम-न्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापादयति तमतिस्थूलं क्षुद्र श्वासपिपा-साक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्य-वायो भवति आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति प्रमेहपिडकाज्वरभगन्दरविद्र धिवातविकाराणामन्यतमं प्राप्य पञ्चत्व-मुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसाम् अतस्तस्योत्पत्तिहेतुं परिहरेत् उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफला लो-हरजोरसाञ्जन मधु यवमुद्गकोरदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां च द्र व्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ३२
तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजा-गरणपिपासाक्षुत्कषायाल्पाशनप्रभृतिभिरुपशोषितोरसधातुः शरीरमननुक्रा-मन्नल्पत्वान्न प्रीणाति तस्मादतिकार्श्यं भवति सोऽतिकृशः क्षुत्पिपासाशी-तोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्ता नामन्यतममासाद्य मरणमु-पयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात् अतस्तस्योत्प-त्तिहेतुं परिहरेत् उत्पन्ने तु पयस्याश्वगन्धा विदारिगन्धा शतावरीबलातिब-लानागबलानां मधुराणामन्यासां चौषधी नामुपयोगः क्षीरदधिघृतमांसशा-लिषष्टिकयवगोधूमानां च दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ३३
यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातू-नुपचिनोति समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च स सततमनुपालयितव्य इति ३४
भवन्ति चात्र
अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ
श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ३५
दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा
इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ३६
वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च
दोषधातुमलानां तु परिमाणं न विद्यते ३७
एषां समत्वं यच्चापि भिषग्भिरवधार्यते
न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ३८
दोषादीनां त्वसमतामनुमानेन लक्षयेत्
अप्रसन्नेन्द्रि यं वीक्ष्य पुरुषं कुशलो भिषक् ३९
स्विस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्
क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक्
तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ४०
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते ४१
इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्यायः १५