सुश्रुतसंहिता/शारीरस्थानम्
दिखावट
प्रथमोऽध्यायः
[सम्पाद्यताम्]- अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः संभवहेतुरव्यक्तं नाम तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम् ३
- तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव तल्लिङ्गाच्चमहतस्तल्लक्षणएवा-हङ्कार उत्पद्यते स त्रिविधो वैकारिकस्तैजसो भूतादिरिति तत्र वैकारिका-दहङ्कारात्तैजससहायात्तल्लक्षणान्येवैकादशेन्द्रि याण्युत्पद्यन्ते तद्यथाश्रोत्रत्व-क्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति तत्र पूर्वाणि पञ्च बुद्धीन्द्रि -याणि इतराणि पञ्च कर्मेन्द्रि याणि उभयात्मकं मनः भूतादेरपि तैजससहाया-त्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते शब्दतन्मात्रं स्पर्श तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति तेषां विशेषाःशब्दस्पर्शरूपरसगन्धाः तेभ्यो भूतानिव्योमानिलानलजलोर्व्यः एवमेषातत्त्वचतुर्विंशतिर्व्याख्याता ४
- तत्र बुद्धीन्द्रि याणां शब्दादयो विषयाः कर्मेन्द्रि याणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि ५
- अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयःशेषाः षोडश विकाराः ६
- स्वः स्वश्चैषां विषयोऽधिभूतां स्वयमध्यात्मम् अधिदैवतमथ बुद्धेर्ब्रह्मा अहङ्कारस्येश्वरः मनसश्चन्द्र माः दिशः श्रोत्रस्य त्वचो वायुः सूर्यश्चक्षुषः रसन-स्यापः पृथिवी घ्राणस्य वाचोऽग्नि हस्तयोरिन्द्र ः! पादयोर्विष्णुः पायोर्मित्रः प्रजापतिरुपस्थस्येति ७
- तत्र सर्व एवाचेतन एष वर्गः पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्तश्चेत-यिता भवति सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्ति क्षीरादींश्चात्र हेतूनुदाहरन्ति ८
- अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः तद्यथा उभावप्यनादी उभावप्यनन्तौ उभावप्यलिङ्गौ उभावपि नित्यौ उभावप्यनपरौ उभौ च सर्वगताविति एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति ९
- तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति तदञ्जनत्वात्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते १०
- वैद्यके तु
- स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा
- परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ११
- तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत्
- तैश्च तल्लक्षणः कृत्स्रो भूतग्रामो व्यजन्यत १२
- तस्योपयोगोऽभिहितश्चिकित्सां प्रति सर्वदा
- भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते १३
- यतोऽभिहितंतत्संभवद्र व्यसमूहो भूतादिरुक्तः भौतिकानि चेन्द्रि याण्यायुर्वेदे वर्ण्यन्ते तथेन्द्रि यार्थाः १४
- भवति चात्र
- इन्द्रि येणेन्द्रि यार्थं तु स्वं स्वं गृह्णाति मानवः
- नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः १५
- न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति आयुर्वेदशास्त्रेष्वसर्वगताः क्षेत्रज्ञा नित्याश्च तिर्यग्योनिमानुषदेवेषु संचरन्ति धर्माधर्मनिमित्तं त एतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्निपातेष्वभिव्यज्यन्ते यतोऽभिहितंपञ्चमहाभूतशरीरिसमवायः पुरुषः इति स एष कर्मपुरुषश्चिकित्साधिकृतः १६
- तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेषनिमेषौ बुद्धिर्मनः सङ्कल्पो विचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च गुणाः १७
- सात्त्विकास्तुआनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च राजसास्तु दुःखबहुलताऽटनशीलताऽधृति-रहङ्कार आनृतिकत्वमकारुणयं दम्भो मानो हर्षः कामः क्रोधश्च तामसास्तु विषादित्वंनास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रा लुत्वं चेति १८
- आन्तरिक्षाःशब्दः शब्देन्द्रि यं सर्वच्छिद्र समूहो विविक्तता च वायव्यास्तु स्पर्शः स्पर्शेन्द्रि यं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च तैजसास्तु रूपं रूपेन्द्रि यं वर्णः सन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यं च आप्यास्तु-रसो रसनेन्द्रि यं सर्वद्र वसमूहो गुरुता शैत्यं स्नेहो रेतश्च पार्थिवास्तु गन्धौ गन्धेन्द्रि यं सर्वमूर्तसमूहो गुरुता चेति १९
- तत्र सत्त्वबहुलमाकाशं रजोबहुलो वायुः सत्त्वरजोबहुलोऽग्नि सत्त्वतमोबहुला आपः तमोबहुला पृथिवीति २०
- श्लोकौ चात्र भवत
- अन्योऽन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत्
- स्वे स्वे द्र व्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते २१
- अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु
- क्षेत्रज्ञश्च समासेन स्वतन्त्रपरतन्त्रयोः २२
- इति सुश्रुतसंहितायां शारीरस्थाने सर्वभूतचिन्ताशारीरं नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
[सम्पाद्यताम्]- अथातः शुक्रशोणितशुद्धिशारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- वातपित्तश्लेष्मकुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषरेतसः प्रजोत्पादने न समर्था भवन्ति ३
- तेषु वातवर्णवेदनं वातेन पित्तवर्णवेदनं पित्तेन श्लेष्मवर्णवेदनं श्लेष्मणा कुणपगन्ध्यनल्पं च रक्तेन ग्रन्थिभूतं श्लेष्मवाताभ्यां पूतिपूयनिभं पित्तश्ले-ष्मभ्यां क्षीणं प्रागुक्तं पित्तमारुताभ्यां मूत्रपुरीषगन्धि सन्निपातेनेति तेषुकुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याः मूत्रपुरीषरेतसस्त्वसाध्या इति ४
- आर्त्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यच्चेति ५
- भवन्ति चात्र
- तेष्वाद्याञ् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत्
- क्रियाविशेषैर्मतिमांस्तथा चोत्तरबस्तिभिः ६
- पाययेत नरं सर्पिर्भिषक् कुणपरेतसि
- धातकीपुष्पखदिरदाडिमार्जुनसाधितम् ७
- पाययेदथवा सर्पिः शालसारादिसाधितम्
- ग्रन्थिभूते शटीसिद्धं पालाशे वाऽपि भस्मनि ८
- परूषकवटादिभ्यां पूयप्रख्ये च साधितम्
- प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि ९
- विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः
- स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम् १०
- योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना
- स्फटिकाभं द्र वं स्निग्धं मधुरं मधुगन्धि च ११
- शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभं तथा
- विधिमुत्तरवस्त्यन्तं कुर्यादार्तवशुद्धये १२
- स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु
- कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च १३
- ग्रन्थिभूते पिबेत् पाठां त्र्! यूषणं वृक्षकाणि च
- दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथाऽतवे १४
- पिबेद्भद्र श्रियः क्वाथं चन्दनक्वाथमेव च
- शुक्रदोषहराणां च यथास्वमवचारणम् १५
- योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु
- अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् १६
- शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम्
- तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् १७
- तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि
- असृग्दरं विजानीयादतोऽन्यद्र क्तलक्षणात् १८
- असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः
- तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा १९
- दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः
- तरुण्या हितसेविन्यास्तमल्पोपद्र वं भिषक् २०
- रक्तपित्तविधानेन यथावत् समुपाचरेत्
- दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः २१
- तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः
- पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने २२
- क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम्
- तथाऽप्यत्र विधातव्यं विधानं नष्टरक्तवत् २३
- एवमदुष्टशुक्रः शुद्धार्तवा च २४
- ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेप-नाभ्यङ्गनखच्छेदनप्रधावनहसनकथ नातिशब्दश्रवणावलेखनानिलायासान् परिहरेत् किं कारणं दिवा स्वपन्त्याः स्वापशीलः अञ्जनादन्धः रोदनाद्वि-कृतदृष्टिः स्नानानुलेपनाद्दुःखशीलः तैलाभ्यङ्गात् कुष्ठी नखापकर्तनात् कुन-खी प्रधावनाच्चञ्चलः हसनाच्छ्यावदन्तौष्ठतालुजिह्वःप्रलापी चातिकथनात् अतिशब्दश्रवणाद्बधिरः अवलेखनात् खलतिः मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभो-जिनीं हविष्यं त्र्! यहं च भर्तुः संरक्षेत् ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासः
- समलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारंदर्शयेत् तत् कस्य हेतोः २५
- पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना
- तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः २६
- ततो विधानं पुत्रीयमुपाध्यायः समाचरेत्
- कर्मान्ते च क्रमं ह्येतमारभेत विचक्षणः २७
- ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिः क्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रा त्रौ सामभिरत्रिविश्वास्य विकल्प्यैवं चतुर्थ्यां षष्ठयामष्टम्यां दशम्यां द्वादश्यां
- चोपेयादिति पुत्रकामः २८
- एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च
- प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै २९
- अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च
- स्त्रीकामः त्रयोदशीप्रभृयो निन्द्याः ३०
- तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते द्वितीयेऽप्येवं सूतिकागृहे वा तृतीयेऽप्येवम-संपूर्णाङ्गोल्पायुर्वा भवति चतुर्थे तु संपूर्णाङ्गो दीर्घायुश्च भवति न च प्रवर्त-माने रक्ते बीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्र-क्षिप्तं प्रतिनिवर्तते नोर्ध्वं गच्छति तद्वदेतद्द्र ष्टव्यम् तस्माम्निनयमवतीं त्रिरात्रं
- परिहरेत् अतः परं मासादुपेयात् ३१
- लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्ग सहदेवा विश्वदेवानामन्यतमां क्षीरेणाभिषुत्य त्रींश्चतुरो वा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै न च
- तान्निष्ठीवेत् ३२
- ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकम्
- ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा ३३
- एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः
- भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः ३४
- तत्र तेजोधातुर्वर्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाशघातुप्रायः कृष्णश्यामं तो-याकाशधातुप्रायो गौरश्यामम् यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्ण-प्रसवा भवति इत्येके भाषन्ते तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षमिति ३५
- भवन्ति चात्र
- घृतपिण्डो यथैवग्निमाश्रितः प्रविलीयते
- विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे ३६
- बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ
- यमावित्यभिधीयेते धर्मेतरपुरःसरौ ३७
- पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत्
- स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ३८
- यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः
- स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ३९
- स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते
- कुम्भीकः स तु विज्ञेयः ईर्ष्यकं शृणु चापरम् ४०
- दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते
- ईर्ष्यकः स तु विज्ञेयः षण्ढकं शृणु पञ्चमम् ४१
- यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते
- ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः ४२
- ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि
- तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ४३
- आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा
- सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसंज्ञितः ४४
- अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः
- हर्षात्स्फुटत्वमायान्तिध्वजोच्छ्रायस्ततो भवेत् ४५
- आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
- स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ४६
- यदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन
- मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते ४७
- ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत्
- आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ४८
- मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम्
- कललं जायते तस्या वर्जितं पैतृकैर्गुणैः ४९
- सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये
- गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृतो भृशम् ५०
- गर्भो वातप्रकोपेण दौहृदे वाऽवमानिते
- भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिण एव वा ५१
- मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः
- वातादीनां प्रकोपेण गर्भो वैकृतमाप्नुयात् ५२
- मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च
- वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ५३
- जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते
- वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ५४
- निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति
- मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसंभवान् ५५
- सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ
- तलेष्वसंभवो यश्च रोम्णामेतत् स्वभावतः ५६
- भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः
- भवन्ति सत्वभूयिष्ठाः पूर्वजातिस्मरा नराः ५७
- कर्मणा चोदितो येन तदाप्नोति पुनर्भवे
- अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ५८
- इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणितशुद्धिशारीरं नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
[सम्पाद्यताम्]- अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सौम्यं शुक्रमार्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण
- परस्परोपकारात् पिरस्परानुग्रहात्पिरस्परानुप्रवेशाच्च ३
- तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति ततस्तेजोनिलसन्निपाताच्छुक्रं च्युतंयोनिमभिप्रतिपद्यते संसृज्यते चार्तवेन ततोऽग्नीषोमसंयोगात् सं-सृज्यमानो गर्भाशयमनुप्रतिपद्यते क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता यः कोऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते ४
- तत्र शुक्रबाहुल्यात् पुमान् आर्तवबाहुल्यात् स्त्री साम्यादुभयोर्नपुंसकमिति ५
- ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः अदृष्टार्तवोऽप्यस्तीत्येके भाषन्ते ६
- भवन्ति चात्र
- पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम्
- नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्धजाम् ७
- स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचाम्
- हर्षौत्सुक्यपरां चापि विद्यादृतुमतीमिति ८
- नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा
- ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ९
- मासेनोपचितं काले धमनीभ्यां तदार्तवम्
- ईषत्कृष्णं विवर्णं च वायुर्योनिमुखं नयेत् १०
- तद्वर्षाद्द्वादशात् काले वर्तमानमसृक् पुनः
- जरापक्वशरीराणां याति पञ्चाशतः क्षयम् ११
- युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथाऽबला
- पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् १२
- तत्र सद्योगृहीतगर्भाया लिङ्गानिश्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः १३
- स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा
- अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः १४
- अकामतश्छर्दयति गन्धादुद्विजते शुभात्
- प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते १५
- तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं रात्रिजागरणं
- शोकं यानारोहणं भयमुत्कुटुकासनं चैकान्ततः स्नेहादि क्रियां शोणितमोक्षणं
- चाकाले वेगविधारणं च न सेवेत १६
- दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते
- स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते १७
- तत्र प्रथमे मासि कललं जायते द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां संघातोघनः संजायते यदि पिण्डः पुमान् स्त्री चेत् पेशी नपुंसकं चेदर्बुदमिति तृतीये हस्तपादशिरसां पञ्च पिणडका निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति गर्भहृद-यप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति कस्मात् तत्स्थानत्वात् तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति द्विहृदयां च नारीं दौहृदिनीमाचक्षते दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत् लब्दौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति १८
- भवन्ति चात्र
- इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी
- गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् १९
- सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम्
- अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् २०
- येषु येष्विन्द्रि यार्थेषु दौहृदे वै विमानना
- प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रि ये २१
- राजसंदर्शने यस्या दौर्हृदं जायते स्त्रियाः
- अर्थवन्तं महाभागं कुमारं सा प्रसूयते २२
- दुकूलपट्टकौशेयभूषणादिषु दौहृदात्
- अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते २३
- आश्रमे संयतात्मानं धर्मशीलं प्रसूयते
- देवताप्रतिमायां तु प्रसूते पार्षदोपमम्
- दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते २४
- गोधामांसाशने पुत्रं सुषुप्सुं धारणात्मकम्
- गवां मांसे तु बलिनं सर्वक्लेशसहं तथा २५
- माहिषे दौहृदाच्छूरं रक्ताक्षं लोमसंयुतम्
- वराहमांसात् स्वप्नालुं शूरं संजनयेत् सुतम् २६
- मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम्
- सृमराद्विग्नमनसं नित्यभीतं च तैत्तिरात् २७
- अतोऽनुक्तेषु या नारी समभिध्याति दौर्हृदम्
- शरीराचारशीलैः सा समानं जनयिष्यति २८
- कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत्
- यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि २९
- पञ्चमे मनः प्रतिबुद्धतरं भवति षष्ठे बुद्धिः सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः अष्टमेऽस्थिरीभवत्योजः तत्र जातश्चेन्न जीवेन्निरोजस्त्वात्ननैरृतभागत्वाच्च ततो बलि मांसौदनमस्मै दापयेत्नवमदशमैकादशद्वादशानामन्यतमस्मिञ्जायते अतोऽन्यथा विकारी भवति ३०
- मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडीप्रतिबद्धा साऽस्य मातुराहाररसवीर्यमभिवहति तेनोपस्नेहेनास्याभिवृद्धिर्भवति असंजाताङ्गप्रत्यङ्गप्रविभागमानिषेकात् प्रभृति सर्वशरीरावय वानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति ३१
- गर्भस्य खलु संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूलत्वात् प्रधानेन्द्रियाणां हृदयमिति कृतवीर्यो बुद्धेर्मनसश्च स्थानत्वात् नाभिरिति पाराशर्यः ततो हि वर्धते देहो देहिनः पाणिपादमिति मार्कण्डेयः तन्मूलत्वाच्चेष्टाया गर्भस्य मध्यशरीरमिति सुभूतिर्गौतमः तन्निबद्धत्वात् सर्वगात्रसंभवस्य तत्तु न सम्यक् सर्वाण्यङ्गप्रत्यङ्गानि युगपत् संभवन्तीत्याह धन्वन्तरिः गर्भस्य सूक्ष्मत्वाव्ननोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च तद्यथाचूतफले परिपक्वेकेशरमांसास्थिमज्जानः पृथक् पृथग्दृश्यन्ते कालप्रकर्षात् तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति एतेनैव वंशाङकुरोऽपि व्याख्यातः एवं गर्भस्य तारुण्ये सर्वेष्वङ्ग-प्रत्यङ्गेषु सत्स्वपि सौक्ष्म्यादनुपलब्धिः तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ३२
- तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः गर्भस्य केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतः प्रभृतीनि स्थिराणि पितृजानि मांसशोणितमेदोमज्जहृथ्ननाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि सत्त्वजान्युत्तरत्र
- वक्ष्यामः वीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि ३३
- तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणकुक्षिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्च पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात्पुत्रमियं जनयिष्यतीति तद्विपर्यये कन्यां यस्याः पार्श्वद्वयमवनतं पुरस्तान्निर्गतमुदरं प्रागभिहितं च लक्षणं च तस्या नपुंसकमिति विद्यात् यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति ३४
- भवन्ति चात्र
- देवताब्राह्मणपराः शौचाचारहिते रताः
- महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् ३५
- अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते
- अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः
- ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ३६
- इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
[सम्पाद्यताम्]- अथातो गर्भव्याकरणं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रि याणि भूतात्मेति प्राणाः ३
- तस्य खल्वेवंप्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति तासां प्रथमाऽवभासिनी नाम या सर्वान् वर्णानवभास-यति पञ्चविधां च छायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठाना द्वितीया लोहिता नाम षोडशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठाना तृतीया श्वेता नाम द्वादशभागप्रमाणा चर्मदलाजगल्लीमषकाधिष्ठाना चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविधकिलासकुष्ठाधिष्ठाना पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा कुष्ठविसर्पाधिष्ठाना षष्ठी रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा भगन्दरविद्र ध्यर्शोऽधिष्ठाना यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिषु च यतोवक्ष्यत्युदरेषुव्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत् इति ४
- कलाः खल्वपि सप्त भवन्ति धात्वाशयान्तरमर्यादाः ५
- भवतश्चात्र
- यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते
- तथाहि धातुर्मांसेषु छिद्यमानेषु दृश्यते ६
- स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा
- श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ७
- तासां प्रथमा मांसधरा यस्यां मांसे सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति
- ८
- यथा बिसमृणालानि विवर्धन्ते समन्ततः
- भूमौ पङ्कोदकस्थानि यथा मांसे सिरादयः ९
- द्वितीया रक्तधरा मांसस्याभ्यन्तरतः तस्यां शोणितं
- विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति १०
- वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरिमावहेत्
- मांसादेवं क्षतात् क्षिप्रं शोणितं संप्रसिच्यते ११
- तृतीया मेदोधरा मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च महत्सु च मज्जा
- भवति १२
- स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः
- अथेतरेषु सर्वेषु सरक्तं मेद उच्यते
- शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता १३
- चतुर्थी श्लेष्मधरा सर्वसन्धिषु प्राणभृतां भवति १४
- स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्तते
- सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा १५
- पञ्चमी पुरीषधरा नाम याऽन्तकोष्ठे मलमभिविभजते पक्वाशयस्था १६
- यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता
- उण्डुकस्थं विभजते मलं मलधरा कला १७
- षष्ठी पित्तधरा या चतुर्विधमन्नपानमामाशयात्
- प्रच्युतं पक्वाशयोपस्थितं धारयति १८
- अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम्
- तज्जीर्यति यथाकालं शोषितं पित्ततेजसा १९
- सप्तमी शुक्रधरा या सर्वप्राणिनां सर्वशरीरव्यापिनी २०
- यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा
- शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः २१
- द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः
- मूत्रस्रोतः पथाच्छुक्रं पुरुषस्य प्रवर्तते २२
- कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा
- स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् संप्रवर्तते २३
- गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण तस्माद्गृहीतग-र्भाणामार्तवं न दृश्यतेततस्तदधः प्रतिहतमूर्ध्वमागतमपरं चोपचीयमानमप-रेत्यभिधीयते शेषं चोर्ध्वतरमागतं पयो धरावभिप्रतिपद्यते तस्माद्गर्भिण्यः
- पीनोन्नतपयोधरा भवन्ति २४
- गर्भस्य यकृत्प्लीहानौ शोणितजौ शोणितफेनप्रभवः फुप्फुसः शोणितकिट्टप्रभव उण्डुकः २५
- असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः
- तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति २६
- ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः
- उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् २७
- कफशोणितमांसानां साराज्जिह्वा प्रजायते
- यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् २८
- अनुप्रविश्य पिशितं पेशीर्विभजते तथा
- मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात् २९
- सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः
- आशय्याभ्यासयोगेन करोत्याशयसंभवम् ३०
- रक्तमेदःप्रसादाद्वृक्कौ मांसासृक्कफमेदःप्रसादाद्वृषणौ शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः तस्याधो वामतः प्लीहा फुप्फुसश्च द-क्षिणतो यकृत् क्लोम च तद्विशेषेण चेतनास्थानम् अस्तस्मिंस्तमसाऽवृते
- सर्वप्राणिनः स्वपन्ति ३१
- भवति चात्र
- पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्
- जाग्रतस्तद्विकसति स्वपतश्च निमीलति ३२
- निद्रा ं! तु वैष्णवीं पाप्मानमुपदिशन्ति सा स्वभावत एव सर्वप्राणिनोऽभिस्पृ-शति तत्र यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा संभवत्यनवबोधिनी सा प्रलयकाले तमोभूयिष्ठानामहःसु निशासु च भवति रजोभूयिष्ठानामनिमित्तं सत्त्वभूयिष्ठानामर्धरात्रे क्षीणश्लेष्मणामनिलबहुलानां मनःशरीराभितापवतां च नैव सा वैकारिकीभवति ३३
- भवतश्चात्र
- हृदयं चेतनास्थानमुक्तं सुश्रुत देहिनाम्
- तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम् ३४
- निद्रा हेतुस्तमः सत्त्वं बोधने हेतुरुच्यते
- स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते ३५
- पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः
- रजोयुक्तेन मनसा गृह्णात्यर्थाञ् शुभाशुभान् ३६
- करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते
- अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ३७
- सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् प्रतिषिद्धेष्वपि तु बालवृद्ध-स्त्रीकर्शितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदः-स्वेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्तं दिवास्वपनमप्रतिषिद्धम् रा-त्रावपि जागरितवतां जागरितकालादर्ध मिष्यते दिवास्वपनम् विकृतिर्हि दिवास्वप्नो नाम तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च तत्प्रकोपाच्च कासश्वास प्रतिश्यायशिरोगौरवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि भवन्ति रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्र वा भवन्ति ३८
- भवन्ति चात्र
- तस्मान्न जागृयाद्रा त्रौ दिवास्वप्नं च वर्जयेत्
- ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ३९
- अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः
- नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम् ४०
- निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा
- दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः
- न तेषां स्वपतां दोषो जाग्रतां वाऽपि जायते ४१
- निद्रा नाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि
- संभवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति ४२
- निद्रा नाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम्
- गात्रस्योद्वर्तनं चैव हितं संवाहनानि च ४३
- शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः
- भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ४४
- रसैर्बिलेशयानां च विष्किराणां तथैव च
- द्रा क्षासितेक्षुद्र व्याणामुपयोगो भवेन्निशि ४५
- शयनासनयानानि मनोज्ञानि मृदूनि च
- निद्रा नाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् ४६
- निद्रा तियोगे वमनं हितं संशोधनानि च
- लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ४७
- कफमेदोविषार्तानां रात्रौ जागरणं हितम्
- दिवास्वप्नश्च तृट्शूलहिक्काजीर्णातिसारिणाम् ४८
- इन्द्रियार्थेष्वसंप्राप्तिर्गौरवं जृम्भणं क्लमः
- निद्रा र्तस्येव यस्येहा तस्य तन्द्रा ं! विनिर्दिशेत् ४९
- पीत्वैकमनिलोच्छ्वासमुद्वेष्टन् विवृताननः
- यं मुञ्चति सनेत्रास्रं स जृम्भ इति संज्ञितः ५०
- योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः
- क्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः ५१
- सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता
- शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते ५२
- उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितम्
- हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ५३
- वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः
- न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत् ५४
- आर्द्र चर्मावनद्धं वा यो गात्रं मन्यते नरः
- तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत् ५५
- मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः
- तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ५६
- गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता च परिवृद्धिर्भवति ५७
- भवन्ति चात्र
- तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम्
- तदाधमति वातस्तु देहस्तेनास्य वर्धते ५८
- ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः
- ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा ५९
- दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन
- ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ६०
- शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा
- स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ६१
- सप्त प्रकृतयो भवन्तिदोषैः पृथक् द्विशः समस्तैश्च ६२
- शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः
- प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु ६३
- तत्र वातप्रकृतिः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो गन्धर्वचित्तः स्फुटितकरचरणोऽल्परूक्षश्मश्रुनखकेशः क्राथी दन्तखादी च भवति ६४
- अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापी
- द्रुतगतिरटनोऽनवस्थितात्मा वियति च गच्छति संभ्रमेण सुप्तः ६५
- अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसंचयमित्रः
- किंचिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ६६
- विआ!तिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा
- गृध्रकाकखरादीनामनूकैः कीर्तिता नराः ६७
- पित्तप्रकृतिस्तु स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपा-णिपादतलो दुर्भगोवलीपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो
- मध्यबलो मध्यायुश्च भवति ६८
- मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः सुप्तः सन् कनकपलाशकर्णिकारान् संपश्येदपि च हुताशविद्युदुल्काः ६९
- न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिः
- भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः ७०
- भिउ!जङ्गोलूकगन्धर्वयक्षमार्जारवानरैः
- व्याघ्रर्क्षनकुलानूकैः पैत्तिकास्तु नराः स्मृताः ७१
- श्लेष्मप्रकृतिस्तु दूर्वेन्दीवरनिस्त्रिंशाद्रा र्!रिष्टकशरकाण्डानामन्यतमवर्णः सु-भगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांश्चिरग्राही दृढवैरश्च भवति ७२
- शुक्लाक्षः स्थिरकुटिलालिनीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः सुप्तः सन् सकमलहंसचक्रवाकान् संपश्येदपि च जलाशयान् मनोज्ञान् ७३
- रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः
- क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः ७४
- दिऋ!ढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु
- परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत् स सदा ७५
- ब्रह्मरुद्रे न्द्र वरुणैः सिंहाश्वगजगोवृषैः
- तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः ७६
- द्वयोर्वा तिसृणां वाऽपि प्रकृतीनां तु लक्षणैः
- ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत् ७७
- प्रकोपो वाऽन्यथाभावो क्षयो वा नोपजायते
- प्रकृतीनां स्वभावेन जायते तु गतायुषः ७८
- विषजातो यथा कीटो न विषेण विपद्यते
- तद्वत्प्रकृतयो मर्त्ये शक्नुवन्ति न बाधितुम् ७९
- प्रकृतिमिह नराणां भौतिकीं केचिदाहुः पवनदहनतोयैः कीर्तितास्तास्तु तिस्रः
- स्थिरविपुलशरीरः पार्थिवश्च क्षमावाञ् शुचिरथ चिरजीवी नाभसः खैर्महद्भिः ८०
- शौचमास्तिक्यमध्यासो वेदेषु गुरुपूजनम्
- प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ८१
- माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता
- भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ८२
- शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता
- प्रियवादित्वमित्येतद्वारुणं कायलक्षणम् ८३
- मध्यस्थता सहिष्णुत्वमर्थस्यागमसंचयौ
- महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् ८४
- गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता
- विहारशीलता चैव गान्धर्वं कायलक्षणम् ८५
- प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमाञ्छुचिः
- रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् ८६
- जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम्
- ज्ञानविज्ञानसंपन्नमृषिसत्त्वं नरं विदुः ८७
- सप्तैते सात्त्विकाः काया राजसांस्तु निबोध मे
- ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम् ८८
- एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम्
- तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा ८९
- विहाराचारचपलं सर्पसत्त्वं विदुर्नरम्
- प्रवृद्धकामसेवी चाप्यजस्राहार एव च ९०
- अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम्
- एकान्तग्राहिता रौद्र मसूया धर्मबाह्यता ९१
- भृशमात्रं तमश्चापि राक्षसं कायलक्षणम्
- उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा ९२
- स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम्
- असंविभागमलसं दुःखशीलमसूयकम् ९३
- लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम्
- षडेते राजसाः कायाः तामसांस्तु निबोध मे ९४
- दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता
- निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ९५
- अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता
- परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ९६
- एकस्थानरतिर्नित्यमाहारे केवले रतः
- वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ९७
- इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा
- कायानां प्रकृतीर्ज्ञात्वा त्वनुरूपां क्रियां चरेत् ९८
- महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः
- प्रोक्ता लक्षणतः सम्यग्भिषक् ताश्च विभावयेत् ९९
- इति सुश्रुतसंहितायां शारीरस्थाने गर्भव्याकरणं शारीरं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
[सम्पाद्यताम्]- अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं गर्भं इत्युच्यते तं चे-तनावस्थितं वायुर्विभजति तेज एनं पचति आपः क्लेदयन्ति पृथिवी संहन्ति आकाशं विवर्धयति एवं विवर्धितः स यदा हस्तपादजिह्वघ्राणकर्णनितम्बा-दिभिरङ्गैरुपेतस्तदा शरीर इति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो मध्यं
- पञ्चमं षष्ठं शिर इति ३
- अतः परं प्रत्यङ्गानि वक्ष्यन्ते मस्तकोदरपृष्ठनाभिललाटनासाचिबुकबस्ति-ग्रीवा इत्येता एकैकाः कर्णनेत्रभ्रूशङ्खांसगण्ड कक्षस्तनवङ्क्षण वृषणपार्श्व-स्फिग्जानुकूर्परबाहूरुप्रभृतयो द्वे द्वे विंशतिरङ्गुलयः स्रोतांसि वक्ष्यमाणानि
- एष प्रत्यङ्गविभाग उक्तः ४
- तस्य पुनः संख्यानं त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा जालानि कूर्चा र-ज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्माणि
- सिरा धमन्यो योगवहानि स्रोतांसि च ५
- त्वचः सप्त कलाः सप्त आशयाः सप्त धातवः सप्त सप्त सिराशतानि पञ्च पे-शीशतानि नव स्नायुशतानि त्रीण्यस्थिशतानि द्वे दशोत्तरे संधिशते सप्तोत्तरं मर्मशतं चतुर्विंशतिर्धमन्यः त्रयो दोषाः त्रयो मलाः नव स्रोतांसि षोडश कण्डराः षोडश जालानि षट् कूर्चाः चतस्रो रज्जवः सप्त सेवन्यः चतुर्दश सङ्घाताः चतुर्दशसीमन्ताः द्वाविंशतिर्योगवहानि स्रोतांसि द्विकान्यन्त्राणि
- चेति समासः ६
- विस्तारोऽत ऊर्ध्वं त्वचोऽभिहिताः कला धातवोमला दोषा यत्कृत्प्लीहानौ
- फुप्फुस उण्डुको हृदय वृक्कौ च ७
- आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति ८
- सार्धत्रिव्यामान्यन्त्राणि पुंसां स्त्रीणामर्धव्यामहीनानि ९
- श्रवणनयनवदनघ्राणगुदमेढ्राणि नव स्रोतांसिनराणां बहिर्मुखानि एतान्येव
- स्त्रीणामपराणिच त्रीणि द्वे स्तनयोरधस्ताद्र क्तवहं च १०
- षोडश कण्डराः तासां चतस्रः पादयोः तावत्यो हस्तग्रीवापृष्ठेषु तत्र हस्तपादगतानां कण्डराणां नखा अग्रप्ररोहाः ग्रीवाहृदयनिबन्धिनीनामधोभागग-तानां मेढ्रं श्रोणिपृष्ठनिबन्धिनीनामधोभागगतानां बिम्ब मूर्धोरुवक्षॐऽसपिण्डादीनां च ११
- मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि तानि मणिबन्धगुल्फसंश्रितानि
- परस्परनिबद्धानिपरस्परगवाक्षितानि चेति यैर्गवाक्षितमिदं शरीरम् १२
- षट् कूर्चाः ते हस्तपादग्रीवामेढ्रेषु हस्तयोर्द्वौ पादयोर्द्वौ ग्रीवामेढ्रयोरेकैकः १३
- महत्यो मांसरज्जवश्चतस्रःपृष्ठवंशमुभयतः पेशी निबन्धनार्थं द्वे बाह्ये आभ्यन्तरे च द्वे १४
- सप्त सेवन्यः शिरसि विभक्ताः पञ्च जिह्वाशेफसोरेकैका ताः परिहर्त्तव्याः
- शस्त्रेण १५
- चतुर्दशास्थ्नां संघाताः तेषां त्रयो गुल्फजानुवङ्क्षणेषु एतेनेतरसक्थिबाहू च
- व्याख्यातौ त्रिकशिरसोरेकैकः १६
- चतुर्दशैव सीमन्ताः ते चास्थिसङ्घातवद्गणनीयाः यतस्तैर्युक्ता अस्थिसंघाताः
- ये ह्युक्ताः संघातास्तेखल्वष्टादशैकेषाम् १७
- त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते शल्य तन्त्रेषु तु त्रीण्येव श-तानि तेषां सविंशमस्थिशतं शाखासु सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोरःसु
- ग्रीवां प्रत्यूर्ध्वं त्रिषष्टिः एवमन्स्थां त्रीणिशतानि पूर्यन्ते १८
- एकैकस्यां तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश तलकूर्चगुल्फसंश्रितानि दश पार्ष्ण्यामेकं जङ्घायां द्वे जानुन्येकम् एकमूराविति त्रिंशदेवमेकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थिबाहू च व्याख्यातौ श्रोण्यां पञ्च तेषां गुदभग-नितम्बेषु चत्वारि त्रिकसंश्रितमेकं पार्श्वे षट्त्रिंशदेकस्मिन् द्वितीयेऽप्येवं पृष्ठे त्रिंशत् अष्टावुरसि द्वे अंसफलके ग्रीवायां नव कण्ठनाड्यां चत्वारि द्वे ह-न्वोः दन्ता द्वात्रिंशत् नासायां त्रीणि एकं तालुनि गण्डकर्णशङ्खेष्वेकैकं षट्
- शिरसीति १९
- एतानि पञ्चविधानि भवन्ति तद्यथाकपालरुचकतरुणवलयनलकसंज्ञानि तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपालानि दशनास्तु रुचकानि-घ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि पाश्वर्पृष्ठोरःसु वलयानि शेषाणि नलकसंज्ञानि २०
- भवन्ति चात्र
- अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः
- अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् २१
- तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम्
- अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् २२
- मांसान्यत्र निबद्धानि सिराभिः स्रायुभिस्तथा
- अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा २३
- सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च २४
- शाखासु हन्वोः कट्यां च चेष्टावन्तस्तु सन्धयः
- शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः २५
- सङ्ख्यातस्तु दशोत्तरे द्वे शते तेषां शाखास्वष्टषष्टिः एकोनषष्टिः कोष्ठे ग्रीवां-प्रत्यूर्ध्वं त्र्! यशीतिः एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः द्वावङ्गुष्ठे ते चतुर्दश जानुगुल्फवङ्क्षणेष्वेकैकः एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति एतेनेतरसक्थि बाहू च व्याख्यातौ त्रयः कटीकपालेषु चतुर्विंशतिः पृष्ठवंशे तावन्त एव पार्श्वयोः उरस्यष्टौ तावन्त एव ग्रीवायां त्रयः कण्ठे नाडीषु हृदयक्लोमनिब-द्धास्वष्टादश दन्तपरिमाणा दन्तमूलेषु एकः काकलके नासायां च द्वौ व-र्त्ममण्डलयोर्नेत्राश्रयौ गण्डकर्णशङ्खेष्वेकैकः द्वौ हनुसन्धी द्वावुपरिष्टाद्भ्रुवोः
- शङ्खयोश्च पञ्च शिरःकपालेषु एको मूर्ध्नि २६
- त एते सन्धयोऽष्टविधाःकोरोलूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्ड मण्डल शङ्खावर्त्ताः तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परेषु कोराः सन्धयः कक्षावङ्क्ष-णदशनेषूलूखलाः अंसपीठगुदभगनितम्बेषु सामुद्गाः ग्रीवापृष्ठवंशयोः प्रतराः शिरःकटीकपालेषु तुन्नसेवन्यः हन्वोरुभयतस्तु वायस्तुण्डाः कण्ठहृदयनेत्र-क्लोमनाडीषु मण्डलाः श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः तेषां नामभिरेवाकृतयः
- प्रायेण व्याख्याताः २७
- अन्स्थां तु सन्धयो ह्येते केवलाः परिकीर्तिताः
- पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते २८
- नव स्नायुशतानि तासां शाखासु षट्शतानि द्वे शते त्रिंशच्च कोष्ठे ग्रीवां प्रत्यूर्ध्वं सप्ततिः एकैकस्यां तु पादाङ्गुल्यां षण्निचितास्तास्त्रिंशत् तावत्य एव तलकूर्चगुल्फेषु तावत्य एव जङ्घायां दश जानुनि चत्वारिंशदूरौ दश वङ्क्षणे शतमध्यर्धमेवमेकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थि बाहू च व्या-ख्यातौ षष्टिः कट्यां पृष्ठेऽशीतिः पार्श्वयोः षष्टिः उरसित्रिंशत् षट्त्रिंशद्ग्रीवायां मूर्ध्नि चतुस्त्रिंशत् एवं नव स्नायुशतानि व्याख्यातानि भवन्ति २९
- भवन्ति चात्र
- स्नायूश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे
- प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ३०
- प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ
- वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह ३१
- आमपक्वाशयान्तेषु बस्तौ च शुषिराः खलु
- पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ३२
- नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता
- भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ३३
- एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः
- स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ३४
- न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः
- व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणाम् ३५
- यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा
- स गूढं शल्यमाहर्त्तुं देहाच्छक्नोति देहिनाम् ३६
- पञ्च पेशीशतानि भवन्ति तासां चत्वारि शतानि शाखासु कोष्ठे षट्षष्टिः ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत् एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश दश प्रपदे पादोपरि कूर्चसन्निविष्टास्तावत्य एव दश गुल्फतलयोः गुल्फजान्वन्तरे विंशतिः पञ्च जानुनि विंशतिरूरौ दश वङ्क्षणे शतमेवमेकस्मिन् सन्क्थि भवति एतेनेतरसक्थिबाहू च व्याख्यातौ तिस्रः पायौ एका मेढ्रे सेवन्यां चापरा द्वे वृषणयोः स्फिचोः पञ्च पञ्च द्वे बस्तिशिरसि पञ्चोदरे नाभ्यामेका पृष्ठो-र्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः षट् पार्श्वयोः दश वक्षसि अक्षकांसौ प्रति समन्तात् सप्त द्वे हृदयामाशययोः षट् यकृत्प्लीहोण्डुकेषु ग्रीवायां चतस्रः अष्टौ हन्वोः एकैका काकलकगलयोः द्वे तालुनि एका जिह्वायां द्वे ओष्ठयोः द्वे नासायां द्वे नेत्रयोः गण्डयोश्चतस्रः कर्णयोर्द्वे चतस्रो ललाटे एका शिर सीति
- एवमेतानि पञ्च पेशीशतानि ३७
- भवति चात्र
- सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम्
- पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ३८
- स्त्रीणां तु विंशतिरधिका दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति यौवने तासां परिवृद्धिःअपत्यपथे चतस्रःतासां प्रसृते अभ्यन्तरतो द्वे मुखाश्रिते बाह्ये च वृत्ते द्वे गर्भच्छिद्र संश्रितास्तिस्रः शुक्रार्तवप्रवेशिन्यस्तिस्र एव पित्तपक्वाशययोर्मध्ये गर्भशय्या यत्र गर्भस्तिष्ठति ३९
- तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति ४०
- भवति चात्र
- पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः
- स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ४१
- मर्मसिराधमनीस्रोतसामन्यत्र प्रविभागः ४२
- शङ्खनाभ्याकृतिर्योनिस्त्र्! यावर्ता सा प्रकीर्तिता
- तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ४३
- यथा रोहितमत्स्यस्य मुखं भवति रूपतः
- तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ४४
- आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः
- स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ४५
- त्वक्पर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः
- शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ४६
- तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता
- शोधयित्वा मृतं सम्यग्द्र ष्टव्योऽङ्गविनिश्चयः ४७
- प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टं च यद्भवेत्
- समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ४८
- तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिकं निःसृष्टान्त्र-पुरीषं पुरुषमावहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्कलकुशशणादी-नामन्यतमेनावेष्टिताङ्गमप्रकाशे देशे कोथयेत् सम्यक्प्रकुथितं चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुबल्वजकूर्चानामन्यतमेन शनैः शनैरवघर्षयंस्त्व-गादीन् सर्वानेव बाह्याभ्यन्तरानङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा
- ४९
- न शक्यश्चक्षुषा द्र ष्टुं देहे सूक्ष्मतमो विभुः
- दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ५०
- शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः
- दृष्टश्रुताभ्यां संदेहमवापोह्याचरेत् क्रियाः ५१
- इति सुश्रुतसंहितायां शारीरस्थाने शरीरसंख्याव्याकरणशारीरं नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
[सम्पाद्यताम्]- अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सप्तोत्तरं मर्मशतम् तानि मर्माणि पञ्चात्मकानिभवन्ति तद्यथामांसमर्माणि सिरामर्माणि स्नायुमर्माणि अस्थिमर्माणि सन्धिमर्माणि चेति न खलु मां-ससिरास्नय्वास्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति यस्मान्नोपलभ्यन्ते
- ३
- तत्रैकादश मांसमर्माणि एकचत्वारिंशत् सिरामर्माणि सप्तविंशतिः स्नायुम-र्माणि अष्टावस्थिमर्माणि विंशतिः सन्धिमर्माणि चेति तदेतत् सप्तोत्तरं मर्मशतम् ४
- तेषामेकादशैकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थि बाहू च व्याख्यातौ उदरोरसोर्द्वादश चतुर्दश पृष्ठे ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ५
- तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्र बस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं चेति एतेनेतरत्सक्थि व्याख्यातम् उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमू-लस्तनरोहितापलापान्यपस्तम्भौ चेति पृष्ठमर्माणि तु कटीकतरुणकुकुन्दर-नितम्बपाश्वर्सन्धिबृहत्यंसफलकान्यंसौ चेति बाहुमर्माणि तु शिप्रतलहृदय-कूर्चकूर्चशिरोमणिबन्धेन्द्र बस्तिकूर्पराण्युर्वीलोहिताक्षाणि कक्षधरं चेति ए-तेनेतरो बाहुर्व्याख्यातः जत्रुण ऊर्ध्वं चतस्रो धमन्योऽष्टौ मातृका द्वे कृका-टिके द्वे विधुरे द्वए फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थ-पनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ६
- तत्र तलहृदयेन्द्र बस्तिगुदस्तनरोहितानि मांसमर्माणि नीलधमनीमातृकाशृ-ङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिबृहतीलोहिता क्षोर्व्यः सिरामर्माणि आणीइ!णिइ!विटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षि-प्रांसविधुरोत्क्षेपाः स्नायुमर्माणि कटीकतरुण नितम्बांसफलकशङ्खास्त्व-स्थिमर्माण जानु कूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि ७
- तान्येतानि पञ्चविकल्पानि भवन्ति तद्यथासद्यःप्राणहराणि कालान्तरप्राणह-राणि विशल्यघ्नानि वैकल्यकराणि रुजाकराणि चेति तत्र सद्यःप्राणहरा-ण्येकोनविंशतिः कालान्तरप्राणहराणि त्रयस्त्रिंशत् त्रीणि विशल्यघ्नानि चतुश्चत्वारिंशद्वैकल्यकराणि अष्टौ रुजाकराणीति ८
- भवन्ति चात्र
- शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम्
- हृदयं बस्तिनाभी च घ्नन्ति सद्योहतानि तु ९
- वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र बस्तयः
- कटीकतरुणे सन्धी पार्श्वजौ बृहती च या १०
- नितम्बाविति चैतानि कालान्तरहराणि तु
- उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ११
- लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः
- कुकुन्दरे कक्षधरे विधुरे सकृकाटिके १२
- अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा
- वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च १३
- गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च
- रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्
- क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च १४
- मर्माणि मांससिरास्नाय्वस्थिसन्धिसन्निपाताः तेषु स्वभावत एव विशेषेण
- प्राणास्तिष्ठन्ति तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते १५
- तत्र सद्यःप्राणहराण्याग्नेयानि अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति कालान्तरप्रा-णहराणि सौम्याग्नेयानि अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु काला-न्तरेण क्षपयन्ति विशल्यप्राणहराणि वायव्यानि शल्यमुखावरुद्धो यावद-न्तर्वायुस्तिष्ठति तावज्जवीति उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्नि-ष्क्रामति तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते पाकात्पतितशल्यो वा जीवति वैकल्यकराणि सौम्यानि सोमो हि स्थिरत्वाच्छत्याच्च प्राणावल-म्बनं करोति रुजाकराण्यग्निवायुगुण भूयिष्ठानि विशेषतश्च तौ रुजाकरौ पाञ्चभौतिकीं च रुजामाहुरेके १६
- केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां समवायात् सद्यः प्राणहराणि एकहीनानामल्पानां वा कालान्तरप्राणहराणि द्विहीनानां विश-ल्यप्राणहराणि त्रिहीनानां वैकल्यकराणि एकस्मिन्नेव रुजाकराणीति नैवं
- यतोस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति १७
- चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः
- स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतियापयन्ति १८
- ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति
- विवर्धमानस्तु स मातरिश्वारुजः सुतीव्राः प्रतनोति काये १९
- रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा
- अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् २०
- एतेन शेषं व्याख्यातम् २१
- तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यघ्नं वैकल्यकरं च भवति वैकल्यकरं कालान्तरेण
- क्लेशयति रुजां च करोति रुजाकरमतीव्रवेदनं भवति २२
- तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति कालान्तरप्राणहराणि पक्षा-न्मासाद्वा तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति २३
- अत ऊर्ध्वं सक्थिमर्माणि व्याख्यास्यामःतत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म तत्र विद्धस्याक्षेपकेण मरणं मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतल-स्य तलहृदयं नाम तत्र रुजाभिर्मरणं क्षिप्रस्योपरिष्टादुभयतः कूर्चो नाम तत्र पादस्य भ्रमणवेपने भवतः गुल्फसन्धेरध उभयतः कूर्चशिरः तत्र रुजाशोफौ पादजङ्घयोः सन्धाने गुल्फः तत्र रुजः स्तब्धपादता खञ्जता वा पार्ष्णिं प्रति जङ्घामध्ये इन्द्र बस्तिः तत्र शोणितक्षयेण मरणं जङ्घोर्वोः सन्धाने जानु तत्र खञ्जता जानुन ऊर्ध्वमुभयतस्त्र्! यङ्गुलमाणी तत्र शोफाभिवृद्धिः स्तब्धसक्थि-ता च ऊरुमध्ये उर्वी तत्र शोणित् क्षयात् सक्थिशोषःउर्व्या ऊर्ध्वमधो वङ्क्ष-णसंधेरूरुमूले लोहिताक्षं तत्र लोहितक्षयेण मरणं पक्षाघातो वा वङ्क्षणवृष-णयोरन्तरे विटपं तत्र षाण्ढ्यमल्पशुक्रता वा भवति एवमेतान्येकादश स-क्थिमर्माणि व्याख्यातानि एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु यानि सन्क्थि गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूर्परकक्षधराणितथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं तस्मिन् विद्धते ए-वोपद्र वाः विशेषतस्तु मणिबन्धे कुण्ठता कूर्पराख्ये कुणिः कक्षधरे पक्षाघातः एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि २४
- अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यास्यामःतत्र वातवर्चोनिरसनं स्थूलान्त्र-प्रतिबद्धं गुदं नाम मर्म तत्र सद्योमरणं अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिः तत्रापि सद्योमरणमश्मरीव्रणादृते तत्राप्युभयतो भिन्ने न जी-वति एकतो भिन्ने मूत्रस्रावी व्रणो भवति स तु यत्नेनोपक्रान्तो रोहति पक्वा-माशययोर्मध्ये सिराप्रभवा नाभिः तत्रापि सद्यो मरणं स्तनयोर्मध्यमधिष्ठायो-रस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं तत्रापि सद्य एव मरणंस्तन-योरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते स्तनचूचुकयोरूर्ध्वं द्वयङ्गुलमुभयतः स्तनरोहितौ तत्र लोहितपूर्णको-ष्ठतया कासश्वसाभ्यां च म्रियते अंसकूटयोरधस्तात्पार्श्वोपरिभागयोरपलापौ नाम तत्र रक्तेन पूयभावं गतेन मरणं उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम् एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि २५
- अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामःतत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्ड-मस्थिनी कटीकतरुणे तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियते-पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो कुकुन्दरे तत्र स्पर्शाज्ञानमधःकाये चे-ष्टोपघातश्च श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ त-त्राधःकायशोषो दौर्बल्याच्च मरणंअधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययो-स्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी तत्र लोहितपूर्णकोष्ठतयाम्रियतेस्तनमूला-दृजूभयतः पृष्ठवंशस्यबृहती तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्र वैर्म्रियते पृष्ठो-परि पृष्ठवंशमुभयतस्त्रिकसंबद्धे अंसफलके तत्र बाह्वोः स्वापशोषौबाहुमूर्ध-ग्रीवामध्येंऽसपीठस्कन्धबन्धनावंसौ तत्र स्तब्धबाहुता एवमेतानि चतुर्दश
- पृष्ठमर्माणि व्याख्यातानि २६
- अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामःतत्र कण्ठनाडी मुभयतश्चतस्रोधम-न्यो द्वे नीले द्वे च मन्ये व्यत्यासेन तत्र मूकता स्वरवैकृतमरसग्राहिता च ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः तत्र सद्योमरणं शिरोग्रीवयोः सन्धाने कृकाटिके तत्र चलमूर्धता कर्णपृष्ठतोऽधसंश्रिते विधुरे तत्र बाधिर्यं घ्राणमा-र्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे तत्र गन्धाज्ञानां भ्रूपुच्छान्त-योरधोऽक्ष्णो र्बाह्यतोऽपाङ्गौ तत्रान्ध्यं दृष्ट्युपघातो वा भ्रुवोरुपरि निम्नयोराव-र्तौ नाम तत्राप्यान्ध्यं दृष्ट्युपघातो वा भ्रुवोरन्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ तत्र सद्योमरणं शङ्खयोरुपरि केशान्त उत्क्षेपौ तत्र सशल्यो जीवेत् पाकात् पतितशल्यो वा नोद्धृतशल्यः भ्रुवोर्मध्ये स्थपनी तत्रोत्क्षेपवत् पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम तत्रोन्मादभयचित्तनाशैर्मरणंघ्राणश्रोत्रा-क्षिजिह्वसांतर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि तानि चत्वारि मर्माणि तत्रापि सद्योमरणंमस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमा-वर्तोऽधिपतिः तत्रापि सद्य एव एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि
- व्याख्यातानि २७
- भवन्ति चात्र श्लोका
- उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमितं स्तनपूर्वमूलम्
- विद्ध्य्ङ्गुलद्वयमितं मणिबन्धगुल्फं त्रीण्येव जानुसपरं सह कूर्पराभ्याम् २८
- हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे
- तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् २९
- एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम्
- पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ३०
- छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति
- प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्नशाखतरुवन्निधनं न यान्ति ३१
- क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति
- एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधनिपातनिकृत्तमूलाः ३२
- तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे
- मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ३३
- जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि
- संभिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः ३४
- छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मसु कृता विविधाः प्रहाराः
- सोममारुततेजांसि रजःसत्त्वतमांसि च
- मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ३५
- मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः
- इन्द्रि यार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्ययः ३६
- रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते
- हते कालान्तरघ्ने तु ध्रुवं धातुक्षयो नृणाम् ३७
- ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति
- हते वैकल्यजनने केवलं वैद्यनैपुणात् ३८
- शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात्
- विशल्यघ्ने तु विज्ञेयं पूर्वोक्तं यच्च कारणम् ३९
- रुजाकराणि मर्माणि क्षतानि विविधा रुजः
- कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ४०
- छेदभेदाभिघातेभ्यो दहनाद्दारणादपि
- उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् ४१
- मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा
- प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ४२
- मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्
- प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ४३
- इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
[सम्पाद्यताम्]- अथातः सिरावर्णविभक्तिशारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सप्त सिराशतानि भवन्ति याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः द्रुमपत्र-सेवनीनामिव तासां प्रतानाः तासां नाभिर्मूलं ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च
- ३
- भवतश्चात्र श्लोकौ
- यावत्यस्तु सिराः काये संभवन्ति शरीरिणाम्
- नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ४
- नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता
- सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ५
- तासां मूलसिराश्चत्वारिंशत् तासां वातवाहिन्यो दश पित्तवाहिन्यो दश कफ वाहिन्यो दश दशरक्तवाहिन्यः तासां तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिशतं भवति तावत्य एव पित्तवाहिन्यः पित्तस्थाने कफवाहिन्यश्च
- कफस्थाने रक्तवाहिन्यश्च यकृत्प्लीह्नोः एवमेतानि सप्त सिराशतानि ६
- तत्र वातवाहिन्यः सिरा एकस्मिन् सन्क्थि पञ्चविंशतिः एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु कोष्ठे चतुस्त्रिंशत् तासां गुदमेढ्राश्रिताः श्रोण्या-मष्टौ द्वे द्वे पार्श्वयोः षट् पृष्ठे तावत्य एवोदरे दश वक्षसि एकचत्वारिंशज्ज-त्रुण ऊर्ध्वंतासां चतुर्दश ग्रीवायां कर्णयोश्चतस्रः नव जिह्वायां षण् नासि-कायां अष्टौ नेत्रयोः एवमेतत् पञ्चसप्ततिशतं वातवाहिनीनां सिराणां व्या-ख्यातं भवति एष एव विभागः शेषाणामपि विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश कर्णयोर्द्वे एवं रक्तवहाः कफवहाश्च एवमेतानि सप्त सिराशतानि सविभागानि
- व्याख्यातानि ७
- भवन्ति चात्र
- क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्
- करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ८
- यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते
- तदाऽस्य विविधा रोगा जायन्ते वातसंभवाः ९
- भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्
- संसर्पत् स्वाः सिराः पित्तं कुर्याच्चान्यान् गुणानपि १०
- यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः
- तदाऽस्य विविधा रोगा जायन्ते पित्तसंभवाः ११
- स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम्
- करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिराश्चरन् १२
- यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते
- तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसंभवाः १३
- धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम्
- स्वाः सिराः संचरद्र क्तं कुर्याच्चान्यान् गुणानपि १४
- यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः
- तदाऽस्य विविधा रोगा जायन्ते रक्तसंभवाः १५
- न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा
- श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः १६
- प्रदुष्टानां हि दोषाणां मूर्च्छितानां प्रधावताम्
- ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः १७
- तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः
- पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात्
- असृग्वहास्तु रोहिण्यः सिरा नात्युष्ण शीतलाः १८
- अत ऊर्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा भिषक्
- वैकल्यं मरणं चापि व्यधात्तासां ध्रुवं भवेत् १९
- सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान्
- षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टं च मूर्धनि २०
- शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु
- पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीर्तिताः २१
- तत्र सिराशतमेकस्मिन् सन्क्थि भवति तासां जालधरा त्वेका तिस्रश्चाभ्य-न्तराःतत्रोर्वीसंज्ञे द्वे लोहिताक्षसंज्ञा चैका तास्त्वव्यध्याः एतेनेतरसक्थि बाहू च व्याख्यातौ एवमशस्त्रकृत्याः षोडश शाखासु द्वात्रिंशच्छ्रोण्यां तासाम-ष्टावशस्त्रकृत्याःद्वे द्वे विटपयोः कटीकतरुणयोश्च अष्टावष्टावेकैकस्मिन् पार्श्वे तासामेकैकामूर्ध्वगां परिहरेत् पार्श्वसन्धिगते च द्वे चतस्रो विंशतिश्च पृष्ठे पृ-ष्ठवंशमुभयतः तासामूर्ध्वगामिन्यौ द्वे द्वे परिरेद्बृहतीसिरे तावत्य एवोदरे ता-सां मेढ्रोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत् चत्वारिंशद्वक्षसि तासां चतुर्द-शाशस्त्रकृत्याःहृदये द्वे द्वे द्वे स्तनमूले स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति चतुःषष्टं सिराशतं जत्रुण ऊर्ध्वं भवति तत्र षट्पञ्चाशच्छिरोधरायां तासामष्टौ चतस्रश्च मर्मसंज्ञाः परि-हरेत् द्वे कृकाटिकयोः द्वे विधुरयोः एवं ग्रीवायां षोडशाव्यध्याः हन्वोरुभ-यतोऽष्टावष्टौ तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत्षट्त्रिंशज्जिह्वायां तासामधः षोडशाशस्त्रकृत्याः रसवहे द्वे वाग्वहे च द्वे द्विर्द्वादश नासायां तासामौप-नासिक्यश्चतस्रः परिहरेत् तासा मेवच तालुन्येकां मृदावुद्देशे अष्टत्रिंशदुभ-योर्नेत्रयोः तासामे कैकामपाङ्गयोः परिहरेत्कर्णयोर्दश तासां शब्दवाहिनी मेकैकां परिहरेत् नासानेत्रगतास्तु ललाटे षष्टिः तासां केशान्तानुगताश्चतस्रः आवर्तयोरेकैका स्थपन्यां चैका परिहर्तव्या शङ्खयोर्दश तासां शङ्खसन्धिग-तामेकैकां परिहरेत् द्वादश मूर्ध्नि तासामुत्क्षेपयोर्द्वे परिहरेत् सीमन्तेष्वेकैकाम्
- एकामधिपताविति एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति २२
- भवति चात्र
- व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः
- प्रतानाः पद्मिनीकन्दाद्बिसादीनां यथा जलम् २३
- इति सुश्रुतसंहितायां शारीरस्थाने सिरावर्णविभक्तिशारीरं नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
[सम्पाद्यताम्]- अथातः सिराव्यधविधिं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तमद्यपाध्वस्त्रीकर्शितवमितविरिक्ता-स्थापितानुवासितजागरितक्लीबकृशगर्भिणीनां कासश्वासशोष प्रवृद्धज्वरा-क्षेपकपक्षा घातोपवासपिपासामूर्च्छाप्रपीडितानां च सिरां न विध्येत् याश्चव्याध्याः व्यध्याश्चादृष्टाः दृष्टाश्चायन्त्रिताः यन्त्रिताश्चानुत्थिता इति ३
- शोणितावसेकसाध्याश्च ये विकाराः प्रागभिहितास्तेषु चाप क्वेष्वन्येषु चा-नुक्तेषु यथाभ्यासं यथान्यायं च सिरां विध्येत् ४
- प्रतिषिद्धानामपि च विषोपसर्गे आत्ययिके च सिराव्यधनमप्रतिषिद्धम् ५
- तत्र स्निग्धस्विन्नमातुरं यथादोषप्रत्यनीकं द्र वप्रायमन्नं भुक्तवन्तं यवागूं पीत-वन्तं वा यथाकालमुपस्थाप्यासीनं स्थितं वा प्राणानबाधमानो वस्त्रपट्टच-र्मान्तर्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं शस्त्रमादाय सिरां विध्येत् ६
- नैवातिशीते नात्युष्णे न प्रवाते न चाभ्रिते
- सिराणां व्यधनं कार्यमरोगे वा कदाचन ७
- तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवेश्यासने सन्क्थो-राकुञ्चितयोर्निवेश्य कूर्परे सन्धिद्वयस्योपरि हस्तावन्तर्गूढाङ्गुष्ठकृतमुष्टी म-न्ययोःस्थापयित्वा यन्त्रणशाटकं ग्रीवामुष्टयोरुपरि परिक्षिप्यान्येन पुरुषेण पश्चात्स्थितेन वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो ब्रूयात् दक्षि-णहस्तेन सिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्टयेति असृक्स्रावणार्थं च यन्त्रं पृष्ठमध्ये पीडयेति कर्मपुरुषं च वायुपूर्णमुखं स्थापयेत् एष उत्तमा-ङ्गगतानामन्तर्मुखवर्जानां सिराणां व्यधने यन्त्रणविधिः पादव्यध्यसिरस्य पादं समे स्थाने सुस्थितं स्थापयित्वाऽन्य पादमीषत्संकुचितमुच्चैः कृत्वा व्यध्यसिरं पादं जानुसन्धेरधः शाटकेनावेष्ट्य हस्ताभ्यां प्रपीड्य गुल्फं व्य-ध्यप्रदेशस्योपरि चतुरङ्गुले प्लोतादीनामन्यतमेन बद्ध्वा वा पादसिरां वि-ध्येत् अथोपरिष्ठाद्धस्तौ गूढाङ्गुष्ठकृत मुष्टी सम्यगासने स्थायिपत्वा सुखो-पविष्टस्य पूर्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् गृध्रसी विश्वाच्योः सङ्कु-चित जानु कूर्परस्य श्रण्पृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्योपविष्टस्य विस्फूर्जितपृष्ठस्य विध्येत् उदरोरसोः प्रसारितोरस्कस्योन्ना मितशिरस्कस्य विस्फूर्जितदेहस्य बाहुभ्यामवलम्बमानदेहस्य पार्श्वयोः अनामितमेढ्रस्य मेढ्रे उन्नमितविदष्टजिह्वाग्रस्याधोजिह्वायाम् अतिव्यात्ताननस्य तालुनि दन्तमूलेषु च एवं यन्त्रोपायानन्यांश्च सिरोत्थापनहेतून् बुद्ध्याऽवेक्षय शरीरवशेन व्याधिवशेन च विदध्यात् ८
- मांसलेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यात् अतोऽन्यथाऽधयवमात्रं व्रीहिमात्रं वा व्रीहिमुखेन अन्स्थामुपरि कुठारिकया विध्येदर्धयवमात्रम् ९
- व्यभ्रे वर्षासु विध्येत्तु ग्रीष्मकाले तु शीतले
- हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः १०
- सम्यक्शस्त्रनिपातेन धारया या स्रवेदसृक्
- मुहूर्तं रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत् ११
- यथा कुसुम्भपुष्पेभ्यः पूर्वं स्रवति पीतिका
- तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्तते १२
- मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च
- न वहन्ति सिरा विद्धास्तथाऽनुत्थितयन्त्रिताः १३
- क्षीणस्य बहुदोषस्य मूर्च्छयाऽभिहतस्य च
- भूयोऽपराह्णे विस्राव्या साऽपरेद्युस्त्र्! यहेऽपि वा १४
- रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः
- न चातिनिःस्रुतं कुर्याच्छेषं संशमनैर्जयेत् १५
- बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः
- परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे १६
- तत्र पाददाहपादहर्षचिप्पविसर्पवातशोणितवातकण्टकविचर्चिकापाददारी-प्रभृतिषु क्षिप्रमर्मण उपरिष्ठाद् द्व्यङ्गुले व्रीहिमुखेन सिरां विध्येत् श्लीपदे तच्चिकित्सिते यथा वक्ष्यते क्रोष्टुकशिरःखञ्जपङ्गलुवातवेदनासु जङ्घायां गु-ल्फस्योपरि चतुरङ्गुले अपच्यामिन्द्र बस्तेरधस्ताद् द्व्यङ्गुले जानुसन्धेरुप-र्यधो वा चतुरङ्गुले गृध्रस्यां ऊरुमूलसंश्रितां गलगण्डे एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु वामबाहौ कूर्परसन्धेरभ्यन्तरतो बाहुमध्ये प्लीह्निक-निष्ठिकानामिकयोर्मध्ये वा एवं दक्षिणबाहौ यकृद्दाल्ये किफोदरे च एता-मेव च कासश्वासयोरप्यादिशन्ति गृध्रस्यामिव विश्वाच्यां श्रोणिं प्रति सम-न्ताद् द्व्यङ्गुले प्रवाहिकायां शूलिन्यां परिवर्तिकोपदंशशूकदोषशुक्रव्याप-त्सु मेढ्रमध्ये विऋ!षणयोः पार्श्वे मूत्रवृद्ध्यां नाभेरधश्चतुरङ्गुले सेवन्या वामपार्श्वे दकोदरे वामपार्श्वे कक्षास्तनयोरन्तरेऽन्तर्विद्र धौ पार्श्वशूले च बाहुशोषाव-बाहुकयोरप्येके वदन्त्यंसयोरन्तरे त्रिकसन्धिमध्यगतां तृतीयके अधःस्कन्ध-सन्धिगतामन्यतरपार्श्वसंस्थितां चतुर्थके हनुसन्धिमध्यगतामपस्मारे शङ्खके-शान्तसन्धिगतामुरोऽपाङ्गललाटेषु चोन्मादे जिह्वारोगेष्वधोजिह्वायांदन्त व्याधिषु च तालुनि तालव्येषु कर्णयोरुपरि समन्तात् कर्णशूले तद्रो गेषु च गन्धाग्रहणे नासारोगेषु च नासाग्रे तिमिराक्षिपाकप्रभृतिष्वक्ष्यामयेषूपना-सिके लालाट्यामपाङ्ग्यां वा एता एव शिरोरोगाधिमन्थप्रभृतिषु रोगेष्विति
- १७
- दुष्टव्यधा विंशतिःदुर्विद्धाऽतिविद्धा कुञ्चितापिच्चिता कुट्टिताऽप्रस्रुताऽत्युद्दी र्णाऽन्ते विद्धा परिशुष्का कूणिता वेपिताऽनुत्थितविद्धा शस्त्रहता तिर्यग्वि-द्धावि द्धाऽव्यध्या विद्रुता धेनुका पुनः पुनर्विद्धा सिरास्नय्वास्थिसन्धिमर्मसु चेति १८
- तत्र या सूक्ष्मशस्त्रविद्धाऽव्यक्तमसृक् स्रवति रुजाशोफवती च सा दुर्विद्धा प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं शोणितातिप्रवृत्तिर्वा साऽति-विद्धा कुञ्चितायामप्येवं कुण्ठशस्त्रप्रमथिता पृथुलीभावमापन्ना पिच्चिता अ-नासादिता पुनः पुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता शीतभय मूच्छा-र्!भिरप्रवृत्तशोणिता अप्रस्रुता तीक्ष्णमहा मुखशस्त्र विद्धा ऽत्युदीर्णा अल्पर-क्तस्राविण्यन्तेविद्धा क्षीणशोणितस्यानिलपूर्णा परिशुष्का चतुर्भागा सादिता किंचित्प्रवृत्तशोणिता कूणिता दुःस्थानबन्धनाद्वेपमानायाः शोणितसंमोहो भवति सा वेपिता अनुत्थितविद्धायामप्येवं छिन्नाऽतिप्रवृत्तशोणिता क्रिया-सङ्गकरी शस्त्रहता तिर्यक्प्रणिहितशस्त्रा किंचिच्छेषा तिर्यग्विद्धा बहुशः क्षता हीनशस्त्रप्रणिधा नेनाविद्धा अशस्त्रकृत्या अव्यध्या अनवस्थितविद्धा विद्रुता प्रदेशस्य बहुशोऽवघट्टनादारोहद्व्यधा मुहुर्मुहुः शोणितस्रावा धेनुका सूक्ष्मशस्त्रव्यधनाद्बहुशो भिन्ना पुनः पुनर्विद्धा स्नाय्वस्थिसिरासन्धिमर्मसु विद्धा रुजां शोफं वैकल्यं मरणं चापादयति १९
- भवन्ति चात्र
- सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः
- मत्स्यवत् परिवर्तन्ते तस्माद्यत्नेन ताडयेत् २०
- अजानता गृहीते तु शस्त्रे कायनिपातिते
- भवन्ति व्यापदश्चैता बहवश्चाप्युपद्र वाः २१
- स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि
- यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात् २२
- सिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः
- यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सिते २३
- तत्र स्निग्धस्विन्नवान्तविरिक्तास्थापितानुवसितसिराविद्धैः परिहर्तर्व्यानिक्रो-धायासमैथुनदिवास्वप्नवाग्व्यायामयानाध्ययनस्थानासन चङ्क्रमणशीत-वातातपविरुद्धासात्म्याजीर्णान्याबललाभात् मासमेके मन्यन्ते एतेषां विस्तरमुपरिष्ठाद्वक्ष्यामः २४
- सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा
- अवगाढं यथापूर्वं निर्हरेद्दुष्टशोणितम् २५
- अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम्
- सिराऽङ्गव्यापके रक्ते शृङ्गालाबू त्वचि स्थिते २६
- इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं नामाष्टमोऽध्यायः८
नवमोऽध्यायः
[सम्पाद्यताम्]- अथातो धमनीव्याकरणं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- चतुर्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः तत्र केचिहाहुःसिरा धमनीस्रो-तसामविभागः सिराविकारा एव हि धमन्यः स्रोतांसि चेति तत्तु न सम्यक् अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः कस्मात् व्यञ्जनान्यत्वान् मू-लसन्नियमात् कर्मवैशेष्यात् आगमाच्च केवलं तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति ३
- तासां तु खलु नाभिप्रभवाणां धमनीनामूर्ध्वगा दश दश चाधोगामिन्यः चतस्रस्तिर्यग्गाः ४
- ऊर्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भि तक्षुद्धसितकथित रु-दितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश शब्दरूपरसगन्धानष्टाभिर्गृह्णीते द्वाभ्यां भाषते द्वाभ्यां घोषं करोति द्वाभ्यां स्वपिति द्वाभ्यां प्रतिबुध्यते द्वे चाश्रुवाहिन्यौ द्वे स्तन्यं स्त्रिया वहतः स्तन-संश्रिते ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः एताभिरूर्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते
- याप्यन्ते च ५
- भवति चात्र
- ऊर्ध्वंगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः
- अधोगमास्तु वक्ष्यामि कर्म चासां यथायथम् ६
- अधोगमास्तु वातमूत्रपुरीषशुक्रार्तवादीन्यधो वहन्ति तास्तु पित्ताशयमभिप्र-पन्नास्तत्रस्थमेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्ति अर्पयन्ति चोर्ध्वगानां तिर्यग्गाणां च रसस्थानं चाभिपूरयन्ति मूत्र-पुरीषस्वेदांश्च विवेचयन्ति आमपक्वाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश द्वे अन्नवाहिन्याव-न्त्राश्रिते तोयवहे द्वे मूत्रबस्तिमभिप्रपन्ने मूत्रवहे द्वे शुक्रवहे द्वे शुक्रप्रादुर्भा-वाय द्वे विसर्गाय ते एव रक्तमभिवहतो विसृजतश्च नारीणामार्तवसंज्ञं द्वे व-र्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे अष्टावन्यास्तिर्यग्गामिनीनां धमनीनां स्वेद-मर्पयन्ति तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः एताभिरधोनाभेः पक्वा-शयकटीमूत्रपुरीषगुदबस्तिमेढ्रसक्थीनि धार्यन्ते याप्यन्ते च ७
- भवति चात्र
- अधोगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः
- तिर्यग्गाः संप्रवक्ष्यामि कर्म चासां यथायथम् ८
- तिर्यग्गाणां तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभ-ज्यन्ते तास्त्वसङ्ख्येयाः ताभिरिदं शरीरं गवाक्षितं विबद्धमाततं च तासां मु-खानि रोमकूपप्रतिबद्धानि यैः स्वेदमभिवहन्ति रसं चाभितर्पयन्त्यन्तर्बहिश्च तैरेव चाभ्यङ्गपरिषेकावगाहालेपन वीर्याण्यन्तः शरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि तैरेव च स्पर्शं सुखमसुखं वा गृह्णीते तास्त्वेताश्चतस्रोधमन्यः
- सर्वाङ्गगताः सविभागा व्याख्याताः ९
- यथा स्वभावतः खानि मृणालेषु बिसेषु च
- धमनीनां तथा खानि रसो यैरुपचीयते १०
- पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भावयन्ति
- पञ्चेन्द्रि यं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ११
- अत ऊर्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः तानि तु प्राणान्नोदकरसर-क्तमांसमेदोमूत्रपुरीषशुक्रार्तववहानि येष्वधिकारः एकेषां बहूनि एतेषां वि-शेषा बहवः तत्र प्राणवहे द्वे तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः तत्र वि-द्धस्याक्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवतिअन्नवहे द्वे तयोर्मू-लमामाशयोऽन्नवाहिन्यश्चधमन्यः तत्र विद्धस्याध्मानं शूलोऽन्नद्वेषश्छर्दिः पिपासाऽन्ध्य मरणं चउदकवहे द्वे तयोर्मूलं तालु क्लोम च तत्र विद्धस्य पिपासा सद्योमरणं च रस वहे द्वे तयोर्मूलं हृदयं रस वाहिन्यश्च धमन्यः तत्र विद्धस्य शोषःप्राणवहविद्धवच्च मरणं तल्लिङ्गानि च रक्तवहे द्वे तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यः तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणितागमनं रक्तनेत्रता च मांसवहे द्वे तयोर्मूलं स्नायुत्वचं रक्तवहाश्च धमन्यः तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणं च मेदोवहे द्वे तयोर्मूलं कटी वृक्कौ च तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशो फता पिपासा च मूत्रवहे द्वे तयोर्मूलं बस्तिर्मेढ्रं च तत्र विद्धस्यानद्धबस्तिता मूत्रनिरोधः स्तब्धमेढ्रता च पुरीषवहे द्वे तयोर्मूलं पक्वाशयो गुदं च तत्र विद्धस्यानाहो दुर्गन्धता ग्रथितान्त्रता चशुक्रवहे द्वे तयोर्मूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीबता चिरात् प्रसेको रक्तशुक्रता च आर्तवहे द्वे तयोर्मूलं गर्भाशय आर्तववाहिन्यश्च धमन्यः तत्र विद्धाया वन्ध्यात्वं मैथु-नासहिष्णुत्वमार्तवनाशश्च सेवनीच्छेदाद्रुजाप्रादुर्भावः बस्तिगुदविद्धलक्षणं प्रागुक्तमिति स्रोतोविद्धं तु प्रत्याख्यायोपचरेत् उद्धृतशल्यं तु क्षतविधानेनोपचरेत् १२
- भवति चात्र
- मूलात् खादन्तरं देहे प्रसृतं त्वभिवाहि यत्
- स्रोतस्तदिति विज्ञेयं सिराधमनिवर्जितम् १३
- इति सुश्रुतसंहितायां शारीरस्थाने धमनीव्याकरणशारीरं नाम नवमोऽध्यायः ९
दशमोऽध्यायः
[सम्पाद्यताम्]- अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत् मलिनविकृतहीनगात्राणि न स्पृ-शेत् दुर्गन्धदुर्दर्शनानि परिहरेत् उद्वेजनीयाश्च कथाः शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत बहिर्निष्क्रमणं शून्यागारचैत्यश्म शानवृक्षाश्रयान् क्रोधमयशस्करांश्च भावानुच्चैर्भाष्यादिकं च परिहरेद्यानि च गर्भं व्यापादयन्ति न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि सेवेत न चायासयेच्छरीरं पूर्वोक्तानि च परिहरेत् शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं च विदध्यात् हृद्यं द्र वमधुरप्रायं स्निग्धं दीपनीयसंस्कृतं च भोजनं भोजयेत् सामान्यमेतदप्रसवात् ३
- विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्र वप्रायमाहारमुसेवेत विशेषतस्तु तृतीये षष्टिकौदनं पयसा भोजयेत् चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषेत्येके चतुर्थे पयोनवनीतसं सृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं च भोजयेत् पञ्चमे क्षीरसर्पिःसंसृष्टं षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धम् एवमाप्यायते गर्भः अष्टमे ब-दरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधु-घृतमिश्रेणा स्थापयेत् पुराणपुरीषशुर्द्ध्य्थमनुलोमनार्थं च वायोः ततः पयो-मधर कषायसिद्धेन तैलेनानुवासयेत् अनुलोमे हि वायौ सुखं प्रसूयते निरु-पद्र वा च भवति अत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवका लातेवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्र वा प्रसूयते ४
- नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ते तिथ्यादौ तत्रारिष्टंब्राह्मण-क्षत्रियवैश्यशूद्रा णां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोध तिन्दुकभ-ल्लातकनिर्मितसर्वागारं यथासङ्ख्यं तन्मयपर्यङ्कं समुपलिप्तभित्तिं सुविभक्त-परिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसंपन्नं विधेयम् ५
- जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने
- सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ६
- तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखाच्छ्लेष्मा च ७
- प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमाकण्ठात् पाययेत् ततः कृतोपधाने मृदुनि विस्तीर्णे शयने स्थितामाभुग्नसक्थी मुत्तनामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्तितनखाः परिचरेयुरिति ८
- अथास्या विशिखान्तरमनुलोममनुसुखमभ्यज्यानुब्रूयाच्चैतामेकासुभगे प्रवा-हस्वेति नचाप्राप्तावी प्रवाहस्व ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रो-णिवङ्क्षणबस्तिशिरःसु च प्रवाहेथाः शनैः शनैः ततो गर्भनिर्गमे प्रगाढं ततो गर्भे योनिमुखं प्रपर्नने गाढतरमाविशल्यभावात् अकालप्रवाहणाद्बधिरं मूकं
- कुब्जं व्यस्तहनुमूर्ध्वाभिघातिनं कासश्वासशोषोपद्रुतं विकटं वा जनयति ९
- तत्र प्रतिलोममनुलोमयेत् प्राञ्जलमाकर्षेत् १०
- गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेण पिण्डीतकेन वा बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोः धारयेत् सुवर्चलां विशल्यां वा ११
- अथ जातस्योल्बं मुखं च सैन्धवसर्पिषा विशोध्य घृताक्तं मूर्ध्नि पिचुं दद्यात् ततो नाभिनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत् तत्सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात् १२
- अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिरनन्तचूर्णमङ्गु-ल्याऽनामिकया लेहयेत् ततो बलातैलेनाभ्यज्य क्षीरवृक्षकषायेण सर्वग-न्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वा
- कोष्णेन यथाकालं यथादोषं यथाविभवं च १३
- धमनीनां हृदिस्थानां विवृतत्वादनन्तरम्
- चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते १४
- तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तमिश्रं मन्त्रपूतं त्रिकालं पाययेत् द्वितीये ल-क्ष्मणासिद्धं सर्पिः तृतीये च ततः प्राङिनवारितस्तन्यं मधुसर्पिः स्वपाणितलसंमितं द्विकालं पाययेत् १५
- अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिष्क्वाथेनोपचरेत् सशेषदोषां तु तदहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्णं गुडोदके नोष्णेन पाययेत् एवं द्विरात्रं त्रिरात्रं वा कुर्यादादुष्टशोणितात् विशुद्धे ततो विदारि-गन्धादिसिद्धां स्नेहयवागूं क्षीरयवागूं वा पाययेत्त्रिरात्रम् ततो यवकोल-कुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं भोजयेद्बलमग्निबलं चावेक्ष्य अनेन विधिनाऽध्यर्धमासमुपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाभिधाना
- स्यात् पुनरार्तवदर्शनादित्येके १६
- धन्वभूमिजातां तु सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिपल्यादिक-षायानुपानां स्नेहनित्या च स्यात्त्रिरात्रं पञ्चरात्रं वा बलवती अबलां यवागूं
- पाययेत्त्रिरात्रं पञ्चरात्रं वा अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत् १७
- प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिञ्चेत् क्रोधायासमैथुनादींश्च परिहरेत् १८
- मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते
- स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्यपतर्पणात् १९
- तस्मात्तां देशकालौ च व्याधिसात्म्येन कर्मणा
- परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात् २०
- अथापराऽपतन्त्यानाहाध्मानौ कुरुते तस्मात् कण्ठमस्याः केशवेष्टितयाऽङ्ग-ल्युआ! प्रमृजेत् कटुकालाबुकृतवेधनसर्षपसर्पनिर्मोकैर्वा कटुतैलविमिश्रैर्योनि-मुखं धूपयेत् लाङ्गलीमूलकल्केन वाऽस्या पाणिपादतलमालिम्पेत् मूर्ध्नि वाऽस्या महावृक्षक्षीरमनुसेचयेत् कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोरन्य-तरेण पाययेत् शालमूलकल्कं वा पिप्पल्यादिं वा मद्येनसिद्धार्थककुष्ठला-ङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वाऽस्थापयेत् एतैरेव सिद्धेन सिद्धार्थकतैलेनोत्तरबस्तिं दद्यात् स्निग्धेन वा कृत्तनखेन हस्तेनापहरेत् २१
- प्रजातायाश्च नार्या रूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगते-नातिसंरुद्धं नाभेरधः पार्श्वयोर्बस्तौ बस्तिशिरसि वा ग्रन्थिं करोतिततश्च ना-भिबस्त्युदरशूलानि भवन्ति सूचीभिरिव निस्तुद्यते भिद्यते दीर्यत इव च प-क्वाशयः समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम् तत्र वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत् यवक्षारचूर्णं वा सुखोदकेन पिप्पल्यादिक्वाथेन वा पिप्पल्यादिचूर्णं वा सुरामण्डेन वरुणादि क्वाथं वा पञ्च कोलैला प्रतीवापं पृथक् पर्ण्यादि क्वाथं वा भद्र दारु मरिच संसृष्टं पु-राण गुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमिश्रं खादेत् अच्छं वा पिबेदरिष्टमिति २२
- अथ बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् पीलुबदरीनिम्बपरूषकशाखाभिश्चैनं परिवीजयेत् मूर्ध्निचास्याहरहस्तैलपिचुमवचारयेत् धूपयेच्चैनं रक्षोघ्नैर्धूपैः रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत् तिलातसीसर्षपकणांश्चात्र प्रकिरेत् अधिष्ठाने चाग्निं प्रज्वालयेत्व्रणितोपासनीयं चावेक्षेत २३
- ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा २४
- ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्कासिआ!मिरोगां शीलवतीमचपलामलोलुपामकृशामस्थूलांप्रसन्नक्षीरामलम्बौष्ठी मलम्बो र्ध्वस्त नीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रद्यं वत्सलामक्षुद्र कर्मिणीं कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्यामामारोग्यबलवृद्धये बालस्य तत्रोर्ध्वस्तनी करालं कुर्यात् लम्बस्तनी नासिकामुखं छादयित्वा मरणमापादयेत् ततः प्रशस्तायां तिथौ शिरःस्नातमहतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीं चोपवेश्य दक्षिणं स्तनं
- धौतमीषत्परिस्रुतमभिमन्त्र्! य मन्त्रेणानेन पाययेत् २५
- चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिनः
- भवन्तु सुभगे नित्यं बालस्य बलवृद्धये २६
- पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने
- दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा २७
- अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधिजन्म भवति २८
- अपरिस्रुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सुहितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः तस्मादेवंविधानां स्तन्यं न पाययेत् २९
- क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्तन्यनाशो भवति अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्य यवगोधूमशालिषष्टिकमांसरस सुरासौवीरकपिण्याकलशुनमत्स्य कशेरुकशृङ्गाटकबिसविदारि कन्द मधुकशतावरीनालि कालाबूकालशाकप्रभृतीनि विदध्यात् ३०
- अथास्याः स्तन्यमप्सु परीक्षेत तच्चेच्छीतलममलं तनु शङ्खावभासमप्सु
- न्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवतेऽवसीदति वा तच्छुद्धमिति विद्यात् तेन कुमारस्यारोग्यं शरीरोपचयो बलवृद्धिश्च भवति न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूल विदग्धभक्तविरुद्धा हारतर्पितायाः स्तन्यं पाययेत् नाजीर्णौषधं च बालं दोषौषधमलानां तीव्रवेगोत्पत्तिभयात् ३१
- भवन्ति चात्र
- धात्र्! यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा
- दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ३२
- मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः
- दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः
- भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् ३३
- अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते
- मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ३४
- निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत्
- बस्तिस्थे मूत्रसङ्गार्तो रुजा तृष्यति मूर्च्छति ३५
- विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः
- कोष्ठेदोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः ३६
- तेषु यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरसर्पिषा संयुक्तं विदध्यात् धात्र्! याश्च केवलं क्षीरान्नादस्यात्मनि धात्र्! याश्च पूर्ववत् अन्नादस्य कषायादीनात्मन्येव न धात्र्! याः ३७
- तत्र मासादूर्ध्वं क्षीरपायाङ्गुलिपर्वद्वयग्रहणसंमितामौषधमात्रां विदध्यात् कोलास्थिसंमितां कल्कमात्रां क्षीरान्नादाय कोलसंमितामन्नादायेति ३८
- येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः
- तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ३९
- एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे
- स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः ४०
- न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ
- विरेकबस्तिवमनान्यृते कुर्याच्च नात्ययात् ४१
- मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत्
- तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ४२
- पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा
- वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम् ४३
- मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः
- गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्
- रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ४४
- क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरी सारिवाब्राह्मीपिप्पलीहरिद्रा कुष्ठसैन्धवसिद्धं क्षीरान्नादाय मधुकवचा
- पिप्पली चित्रकत्रि फलासिद्धम् अन्नादाय द्विपञ्चमूलीक्षीरतगरभद्र दारु मरिचमधुकविडङ्गद्रा क्षर्धिब्राह्मीसिद्धां तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति ४५
- बालं पुनर्गात्रसुखं गृह्णीयात् न चैनं तर्जयेत् सहसा न प्रतिबोधयेद्वित्रासभयात् सहसा नापहरेदुत्क्षिपेद्वा वातादिविघातभयात् नोपवेशयेत् कौब्ज्यभयात् नित्यं चैनमनुवर्तेत प्रियशतैरजिघांसुः एवमविहतमना ह्यभिवर्धते नित्यमुदग्रसत्त्वसंपन्नो नीरोगः सुप्रसन्नमनाश्च भवति वातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्रहच्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं रक्षेत् ४६
- नाशुचौ विसृजेद्बालं नाकाशे विषमे न च
- नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ४७
- क्षीरासात्म्यतया क्षीरमाजं गव्यमथापि वा
- दद्यादास्तन्यपर्याप्तेर्बालानां वीक्ष्य मात्रया ४८
- षण्मासं चैनमन्नं प्राशयेल्लघु हितं च ४९
- नित्यमवरोधरतश्चस्यात् कृतरक्ष उपसर्गभयात्
- प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ५०
- अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंज्ञो भवति नखदशनैर्धात्रीमात्मानं च परिणुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ विक्षिपत्यूर्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठः क्रूरोभिर्ननामवर्चा दीनार्तस्वरो निशि जागर्ति दुर्वलो म्लानाङ्गो मत्स्यच्छुच्छुन्दरि
- मत्कुणगन्धा यथा पुरा धात्र्! याः स्तन्यमभिलषति तथा नाभिलषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं विस्तरेणोत्तरे वक्ष्यामः ५१
- शक्तिमन्तं चैनं ज्ञात्वा यथावर्णं विद्यां ग्राहयेत् ५२
- अथास्मै पञ्चविंशतिवर्षाय षोडशदशवर्षां पत्नी
- मावहेत् पित्र्! यधर्मार्थकामप्रजाः प्राप्स्यतीति ५३
- ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम्
- यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ५४
- जातो वा न चिरं जीवेज्जीवेद्वा दुर्बलेन्द्रि यः
- तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ५५
- अतिवृद्धायां दीर्घरोगिण्यामन्येन व विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत पुरुषस्याप्येवंविधस्य त एव दोषाः संभवन्ति ५६
- तत्र पूर्वोक्तैः कारणैः पतिष्यति गर्भे गर्भाशयकटीवङ्क्षणबस्तिशूलानि रक्तद-र्शनं च तत्र शीतैः परिषेकावगाहप्रदेहादिभिरुपचरेज्जीवनीय शृतक्षीरपानैश्च गर्भस्फुरणे मुहुर्मुहुस्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत् प्रस्रंसमाने सदाहपार्श्वपृष्ठशूलासृग्दरानाहमूत्रसङ्गाः स्थानात् स्थानं भच प्रक्रामति गर्भे कोष्ठे संरम्भः तत्र स्निग्धशीताः क्रियाः वेदनायां महासहाक्षुद्र सहामधुक-श्वदंष्ट्राकण्टकारिकासिद्धं पयः शर्कराक्षौद्र मिश्रं पाययेत् मूत्रसङ्गे दर्भादिसि-द्धमानाहे हिङ्गुसवौर्चललशुनवचासिद्धम् अत्यर्थं स्रवति रक्ते कोष्ठागा-रिकागारमृत्पिण्डसमङ्गाधातकीकुसुमनवमालिकागैरिकसर्जरसरसाञ्जनचूर्णं मध्राऽवलिह्यात् यथालाभंन्यग्रोधा दित्वक्प्रवालकल्कं वा पयसा पाययेत् उत्पलादिकल्कं वा कशेरुशृङ्गटाकशालूककल्कं वा शृते पयसा उदुम्बर-फलौदककन्दक्वाथेन वा शर्करामधुमधुरेण शालिपिष्टां न्यग्रोधादिस्वर स-परिपीतं वा वस्त्रावयवं योन्यां धारयेत् अथादृष्टशोणितवेदनायां मधुकदे-वदारुमञ्जिष्ठापयस्यासिद्धं पयः पाययेत् तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारिगन्धादिसिद्धं वा बृहतीद्वयोत्पलशतावरीसारिवापयस्यामधुकसिद्धं वा एवमुपक्रान्ताया उपावर्तन्ते रुजो गर्भश्चाप्यायते व्यवस्थिते च गर्भे गव्येनोदुम्बरशलाटुसिद्धेन पयसा भोजयेत् अतीते लवणस्नहेवर्ज्याभिर्य वागूभिरुद्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेत यावन्तो मासा गर्भस्य तावन्त्यहानि बस्त्युदरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेदरिष्टं वा वातोपद्र वगृहीतत्वात् स्रोतसां लीयते गर्भः सोऽतिकालमवतिष्ठमानो व्यापद्यते तां मृदुना स्नह्दिक्रमेणोपचरेत् उत्क्रोशरससंसिद्धामनल्पस्नेहां य-वागूं पाययेत् माषतिलबिल्वशलाटुसिद्धान् वा कुल्माषान् भक्षयेन्मधुमा-ध्वीकं चानुपिबेत् सप्तरात्रम् कालातीतस्थायिनि गर्भे विशेषतः सधा न्य-मुदूखल मुसलेनाभिहन्याद्विषमे वा यानासने सेवेत वाताभिपन्न एव शु-ष्यति गर्भः समातुः कुक्षिं न पूरयति मन्दं स्पन्दते च तं बृहणीयैः पयोभि-र्मांसरसैश्चोपचरेत् शुक्रशोणितं वायुनाऽभिप्रपन्नम वक्रान्तजीवमाध्मापय-त्युदरं तं कदाचिद्यदृच्छयोपशान्तं नैगमेषापहृतमिति भाषन्ते तमेव कदाचित्
- प्रलीयमानं नागोदरमित्याहुः तत्रापि लीनवत् प्रतीकारः ५७
- अत ऊर्ध्वं मासानुमासिकं वक्ष्याम ५८
- मधुकं शाकबीजं च पयस्या सुरदारु च
- अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी ५९
- वृक्षादनी पयस्या च लता सोत्पलसारिवा
- अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ६०
- बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्
- पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ६१
- शृङ्गाटकं बिसं द्रा क्षा कशेरु मधुकं सिता
- वत्सैते सप्त योगाः स्युरर्धश्लोकसमापनाः
- यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः ६२
- कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका
- मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे ६३
- नवमे मधुकानन्तापयस्यासारिवाः पिबेत्
- क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम् ६४
- सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च
- एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ६५
- निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्ध्वं
- प्रसवमानाया नार्याः कुमारोऽल्पायुर्भवति ६६
- अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्दयेन्मधुराम्लेनान्नोपहितेनानुलोमयेच्च सं-शमनीयं च मृदु विदध्यादन्नपानयोः अश्नीयाच्च मृदुवीर्यं मधुरप्रायं गर्भाविरुद्धं च गर्भाविरुद्धाश्च क्रिया यथायोगं विदधीत मृदुप्रायाः ६७
- सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा
- मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ६८
- अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा
- हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु ६९
- चत्वारोऽभिहिताः प्राशाः श्लोकार्धेषु चतुर्ष्वपि
- कुमाराणां वपुर्मेधाबलबुद्धिविवर्धनाः ७०
- इति सुश्रुतसंहितायां शारीरस्थाने गर्भिणीव्याकरणं शारीरं नाम दशमोऽध्यायः १०
- इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायांतृतीयं शारीरस्थानं समाप्तम् ३