सुश्रुतसंहिता/निदानस्थानम्

विकिस्रोतः तः
Jump to navigation Jump to search
प्रथमोऽध्यायः
अथातो वातव्याधिनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम्
चरणावुपसंगृह्य सुश्रुतः परिपृच्छति ३
वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः
स्थानं कर्म च रोगांश्च वद मे वदतां वर ४
तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः
स्वयंभूरेष भगवान् वायुरित्यभिशब्दितः ५
स्वातन्त्र्! यान्नित्यभावाच्च सर्वगत्वात्तथैव च
सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ६
स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम्
अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ७
तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च
अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ८
आशुकारी मुहुश्चारी पक्वाधानगुदालयः
देहे विचरतस्तस्य लक्षणानि निबोध मे ९
दोषधात्वग्निसमतां संप्राप्तिं विषयेषु च
क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः १०
इ!इन्द्रि यार्थोपसंप्राप्तिं दोषधात्वग्न्यवैकृतम्
क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः १०
यथाऽग्नि पञ्चधा भिन्नो नामस्थानक्रियामयैः
भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ११
प्राणोदानौ समानश्च व्यानश्चापान एव च
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् १२
यो वायुर्वक्त्रसंचारी स प्राणो नाम देहधृक्
सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते १३
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः १४
तेन भाषितगीतादिविशेषोऽभिप्रवर्तते
ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः १५
आमपक्वाशयचरः समानो वह्निसङ्गतः
सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि १६
गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान्
कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः १७
स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् १८
पक्वाधानालयोऽपानः काले कर्षति चाप्यधः
समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च १९
क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान्
शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः २०
युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम्
अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः २१
बहुशः कुपितो वायुर्विकारान् कुरुते हि यान्
वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् २२
मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम्
पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च २३
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्
श्रोत्रादिष्विन्द्रि यवधं कुर्यात् क्रुद्धः समीरणः २४
वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम्
त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् २५
व्रणांश्च रक्तगो ग्रन्थीन् सशूलान् मांससंश्रितः
तथा मेदःश्रितः कुर्याद्ग्रन्थीन्मन्दरुजोऽव्रणान् २६
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम्
स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा २७
हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च
अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः २८
तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति
अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगेऽनिले २९
हस्तपादशिरोधातूंस्तथा संचरति क्रमात्
व्याप्नुयाद्वाखिलं देहं वायुः सर्वगतो नृणाम् ३०
स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः
स्थानेषूक्तेषु संमिश्रः संमिश्राः कुरुते रुजः ३१
कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान्
दाहसंतापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ३२
शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते
सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ३३
शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ३४
दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते
उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ३५
अस्वेदहर्षौ मन्दोऽग्नि शीतस्तम्भौ कफावृते
समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ३६
कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते
अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः ३७
अधःकायगुरुत्वं च तस्मिन्नेव कफावृते
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ३८
गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम्
लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ३९
प्रिआ!यशः सुकुमाराणां मिथ्याऽहारविहारिणाम्
रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात् ४०
ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात्
अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ४१
हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणैः सेवितैः स्वैः
तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः संतापाद्यैर्भूयसा सेवितैश्च ४२
क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्य्शाउ! यातः
क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रि क्तं दूषयेद्र क्तमाशु ४३
तत् संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम्
तद्वत् पित्तं दूषितेनासृजाऽक्त श्लेष्मा दुष्टो दूषितेनासृजाऽक्त ४४
स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ
पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ४५
कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते
सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ४६
प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ
वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ ४७
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ४८
आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ४९
शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम्
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ५०
तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः
मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ५१
सोऽपतानकसंज्ञो यः पातयत्यन्तराऽन्तरा
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ५२
स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः
हनुग्रहस्तदाऽत्यर्थं सोऽन्न कृच्छ्रान्निषेवते ५३
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ५४
स्नायुप्रतानमनिलो यदाऽक्षिपति वेगवान्
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ५५
अभ्यन्तरं धनुरिव यदा नमति मानवः
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली ५६
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ५७
कफपित्तान्वितो वायुर्वायुरेव च केवलः
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ५८
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः
अभिघातनिमित्तश्च न सिध्यत्यपतानकः ५९
अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः
यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते ६०
तदाऽन्यतरपक्षस्य सन्धिवन्धान् विमोक्षयन्
हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ६१
यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम्
ततः पतत्यसून् वाऽपि त्यजत्यनिलपीडितः ६२
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ६३
वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः
शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ६४
निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कूजति
निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ६५
स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति
कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः ६६
दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः ६७
गिर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा
हसतो जृम्भतो भाराद्विषमाच्छयनादपि ६८
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयित्वाऽनिलो वक्त्रमर्दितं जनयत्यतः ६९
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ७०
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना
यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ७१
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ७२
क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः
न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ७३
पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्दिता
सन्क्थः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ७४
तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ७५
वातशोणितजः शोफो जानुमध्ये महारुजः
शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ७६
वायुः कट्यां स्थितः सन्क्थः कण्डरामाक्षिपेद्यदा
खञ्जस्तदा भवेज्जन्तुः पङ्गुः सन्क्थोर्द्वयोर्वधात् ७७
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ७८
न्यस्ते तु विषमं पादे रुजः कुर्यात् समीरणः
वातकण्टक इत्येष विज्ञेयः खुडकाश्रितः ७९
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ८०
हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत्
पादहर्षः स विज्ञेयः कफवातप्रकोपजः ८१
अंसदेशस्थितो वायुः शोषयित्वांऽसबन्धनम्
सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ८२
यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ८३
हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः
कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ८४
आवृत्य सकफो वायुर्धमनीः शब्दवाहिनी
नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान् ८५
अधो या वेदनां याति वर्चोमूत्राशयोत्थिता
भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ८६
गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी
वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ८७
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्
आध्मानमिति जानीयाद्धोरं वातनिरोधजम् ८८
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ८९
अष्ठीलावद्धनं ग्रन्थिमूर्ध्वमायतमुन्नतम्
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ९०
एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ९१
इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमोऽध्यायः १


द्वितीयोऽध्यायः
अथातोऽशसां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति ३
तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठया-नवेग विधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनी रनुप्रपद्याधो गत्वा गुदमागम्य प्रदूष्य गुदवली र्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः तथातृणकाष्ठोपल-लोष्ठवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्तितान्यर्शांसीत्याचक्षते ४
तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः तस्मिन् वलयस्तिस्रोऽध्या-ङ्गुलान्तर संभूतां प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः सर्वास्तिर्यगेकाङ्गुलोच्छ्रिताः ५
शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः
गजतालुनिभाश्चापि वर्णतः संप्रकीर्तिताः
रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः ६
प्रथमा तु गुदौष्ठादङ्गुलमात्रे ७
तेषां तु भविष्यतां पूर्वरूपाणिअन्नेऽश्रद्धा कृच्छ्रात् पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुर-न्त्रकूजनं गुदपरिकर्तनमाशङ्का पाणडुरोगग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्भ्रमस्तन्द्रा निद्रे न्द्रि यदौर्बल्यं च ८
जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति ९
तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरी-नाडीमुकुलशूचीमुखाकृतीनि च भवन्ति तैरुपद्रुतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्वमेढ्रगुदनाभिप्रदेशेषु चास्य वेदना भवन्ति गुल्माष्ठीलाप्लीहोद-राणि चास्य तन्निमित्तान्येव भवन्ति कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च
पुरुषो भवति १०
पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजि-ह्वासंस्थानानि यवमध्यानि जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते ज्वरदाहपिपासामूर्च्छाश्चास्यो पद्र वा भवन्ति पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ११
श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि क-रीरपनसास्थिगोस्तनाकाराणि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भव-न्ति तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते शोफशीत-ज्वरारोचकाविपाकशिरोगौरवाणि चास्य तय्निनमित्तान्येव भवन्ति शुक्लत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति १२
रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि पित्तलक्षणानि च यदाऽवगाढपुरीषपीडितानि भवन्ति तदाऽत्यर्थं दुष्टमनल्पमसृक् सहसा
विसृजन्ति तस्य चातिप्रवृत्तौ शोणितातियोगोपद्र वा भवन्ति १३
सन्निपातजानि सर्वदोषलक्षणयुक्तानि १४
सहजानि दुष्टशोणितशुक्रनिमित्तानि तेषां दोषत एव प्रसाधनं कर्तव्यं वि-शेषतश्चैतानि दुर्दर्शनानि परुषाणि पांसूनि दारुणान्यन्तर्मुखानि तैरुपद्रुतः कृ-शोऽल्पभुक् सिरासन्ततगात्रोल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्नि-प्राणः परमलसश्च तथा घ्राणशिरोऽक्षिनासाश्रवणरोगी सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते १५
भवति चात्रबाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः
अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम् १६
प्रकुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति ततः कण्डूयनात् क्षतं समुपजायते तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः पिच्छिल-रुधिरस्राविणो जायन्ते कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा ते तु शेफो विनाशय-न्त्युपघ्नन्ति च पुंस्त्वां योनिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलरुधि-रस्राविणश्छत्राकारान् करीराञ्जनयन्ति ते तु योम्पघ्नन्त्यार्तवं च नाभिमभिप्र-पन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनय-न्ति त एवोर्ध्वमागताः श्रोत्रा क्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति तत्र कर्णजेषु बाधिर्यं शूलं पूतिकर्णता च नेत्रजेषु वर्त्मावरोधो वेदना स्रावो दर्शननाशश्च घ्राणजेषु प्रतिश्यायोऽतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं सानुना-सिकवाक्यत्वं शिरोदुःखं च वक्त्रजेषु कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गदवाक्यता रसाज्ञानं मुखरोगाश्च भवन्ति १७
व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिः स्थिराणि कीलवदर्शांसि निर्वर्तयति तानि चर्मकीलान्यर्शांसीत्याचक्षते १८
भवन्ति चात्रतेषु कीलेषु निस्तोदो मारुतेनोपजायते
श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत् १९
पित्तशोणितजं रौक्ष्यं कृष्णत्वं श्लक्ष्णता तथा
समुदीर्णखरत्वं च चर्मकीलस्य लक्षणम् २०
अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु यत्
तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः २१
अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य तु
संसर्गं तं विजानीयात् संसर्गः स च षड्विधः २२
त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत्
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च २३
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च
सन्निपातसमुत्थानि सहजानि तु वर्जयेत् २४
सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः
तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते २५
ततो व्यानेन सङ्गम्य ज्योतिर्मृद्गाति देहिनाम् २६
इति सुश्रुतसंहितायां निदानस्थानेऽशोनिदानं नाम द्वितीयोऽध्यायः २


तृतीयोऽध्यायः
अथातोऽश्मरीणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतस्रोऽश्मर्यो भवन्ति श्लेष्माधिष्ठानाः तद्यथा
श्लेष्मणा वातेन पित्तेन शुक्रेण चेति ३
तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्रसंपृक्तोऽनुप्रविश्य
बस्तिमश्मरीं जनयति ४
तासां पूर्वरूपाणिज्वरो बस्तिपीडारोचकौ मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां
वेदना कृच्छ्रावसादो बस्तगन्धित्वं मूत्रस्येति ५
यथास्ववेदनावर्णं दुष्टं सान्द्र मथाविलम्
पूर्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः ६
अथ जातासु नाभिबस्तिसेवनीमेहनेष्वन्यतमस्मिन् मेहतो वेदना मूत्रधारा-सङ्गः सरुधिरमूत्रता मूत्रविकिरणं गोमेदकप्रकाशमत्याविलं ससिकतं विसृजतिधनवनलङ्घनप्लवन पृष्ठयानोष्णाध्व गमनैश्चास्य वेदना भवन्ति ७
तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यते नि-स्तुद्यत इव च बस्तिर्गुरुः शीतश्च भवति अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्णा वा भवति तां श्लैष्मिकीमिति विद्यात्
पित्तयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधि-ष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतीघातादूष्यते चूष्यते दह्यते पच्यत इव ब-स्तिरुष्णवातश्च भवति अश्मरी चात्र सरक्ता पीतावभासा कृषणा भल्लातकास्थिप्रतिमा मधुवर्णा वा भवति तां पैत्तिकीमिति विद्यात् ९
वातयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधि-ष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति तदाऽत्यर्थं पी-ड्यमानो दन्तान् खादति नाभिं पीडयति मेढ्रं प्रमृद्गाति पायुं स्पृशति विश-र्धते विदहति वातमूत्रपुरीषाणि कृच्छ्रेण चास्य मेहतो निःसरन्ति अश्मरी चात्र श्यावा परुषा विषमा खरा कदम्बपुष्पवत्कण्टकाचिता भवति तां
वातिकीमितिविद्यात् १०
पायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमसनाध्यशनशीतस्निग्धगुरुमधुराहारप्रि-यत्वाद्विशेषेण बालानां भवन्ति तेषामेवाल्प बस्तिकायत्वादनुपचितमांस-त्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति
११
मैथुनविघातादतिमैथुनाद्वा शुक्रं चलितमनि र्गच्छद्विमार्गगमनादनिलोऽभि-तः संगृह्य मेढ्रवृषणयोरन्तरे संहरति संहृत्य चोपशोषयति सा मूत्रमार्गमावृ-णोति मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रविलयमापद्यते तां शुक्राश्मरीमिति विद्यात् १२
भवन्ति चात्रशर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम्
अश्मर्या शर्करा ज्ञेया तुल्यव्यञ्जनवेदना १३
पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः
सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते १४
हृत्पीडा सक्थिसदनं कुक्षिशूलं च वेपथुः
तृष्णोर्ध्वगोऽनिलः कार्ष्ण्यं दौर्बल्यं पाण्डुगात्रता १५
अरोचकाविपाकौ तु शर्करार्ते भवन्ति च
मूत्रमार्गप्रवृत्ता सा सक्ता कुर्यादुपद्र वान् १६
दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमरोचकम्
पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् १७
नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम्
एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः १८
बस्तिर्बस्तिशिरश्चैव पौरुषं वृषणौ गुदः
एकसंबन्धिनो ह्येते गुदास्थिविवराश्रिताः १९
अलाब्वा इव रूपेण सिरास्नायुपरिग्रहः
मूत्राशयो मलाधारः प्राणायतनमुत्तमम् २०
पक्वाशयगतास्तत्र नाड्यो मूत्रवहास्तु याः
तर्पयन्ति सदा मूत्रं सरितः सागरं यथा २१
सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः
नाडीभिरुपनीतस्य मूत्रस्यामाशयान्तरात् २२
जाग्रतः स्वपतश्चैव स निः स्यन्देन पूर्यते
आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्यते नवः २३
घटो यथा तथा विद्धि बस्तिर्मूत्रेण पूर्यते
एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा २४
मूत्रयुक्तमुपस्नेहात् प्रविश्य कुरुतेऽश्मरीम्
अप्सु स्वच्छास्थिआ!स्विपि यथा निषिक्तासु नवे घटे २५
कालान्तरेण पङ्कः स्यादश्मरीसंभवस्तथा
संहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैद्युतः २६
तद्वद्बलासं बस्तिस्थमूष्मा संहन्ति सानिलः
मारुते प्रगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते
विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि २७
मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च
मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि २८
इति सुश्रुतसंहितायां निदानस्थानेऽश्मरीनिदानं नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः
अथातो भगन्दराणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूका-वर्तोन्मार्गिणो यथासंख्यं पञ्च भगन्दरा भवन्ति ते तु भगगुदबस्तिप्रदेशदारणाच्च भगन्दरा इत्युच्यन्ते अभिन्नाः पिडकाः भिन्नास्तु भगन्दराः ३
तेषां तु पूर्वरूपाणि कटीकपालवेदना कण्डूर्दाहः शोफश्च गुदस्य भवति ४
तत्रापथ्यसेविनां वायुः प्रकुपितः सन्निवृत्तः स्थिरीभूतो गुदमभितोऽङ्गुले-द्व्यङ्गुले वा मांसशोणित प्रदूष्यारुणवर्णां पिडकां जनयति साऽस्य तोदा-दीन् वेदनाविशेषाञ्जनयति अप्रतिक्रियमाणा च पाकमुपैति मूत्राशयाभ्यास-गतत्वाच्च व्रणः प्रक्लिन्नः शतपोनकवदणुमुखैश्छिद्रै रापूर्यते तानि च छिद्रा -ण्यजस्रमच्छं फेनानुविद्धमधिकमास्रावं स्रवन्ति व्रणश्च ताड्य्ते भिद्यते छिद्यते सूचीभिरिव निस्तुद्यते गुदं चावदीर्यते उपेक्षिते च वातमूत्रपुरीषरेतसामप्यागमश्च तैरेव छिद्रै र्भवति तं भगन्दरं शतपोनकमित्याचक्षते ५
पित्तं तु प्रकुपितमनिलेनाधः प्रेरितं पूर्ववदवस्थित रक्तां तन्वीमुच्छ्रितामुष्ट्र-ग्रीवाकारां पिडकां जनयति साऽस्य चोषादीन् वेदनाविशेषाञ्जनयति अप्र-तिक्रियमाणा च पाकमुपैति व्रणश्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमा-स्रावं स्रवति उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते ६
श्लेष्मा तु प्रकुपितः समीरणेनाधः प्रेरितः पूर्ववदवस्थितः शुक्लावभासां स्थिरां कण्डूमतीं पिडकां जनयति साऽस्य कण्ड्वादीन् वेदनाविशेषाञ्जन-यति अप्रतिक्रियमाणा च पाकमुपैति व्रणश्च कठिनः संरम्भी कण्डूप्रायः पि-च्छिलमजस्रमास्रावं स्रवति उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजतितं
भगन्दरं परिस्राविणमित्याचक्षते ७
वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्याधो गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठाग्रप्रमाणां सर्वलिङ्गां पिडकां जनयति साऽस्य तोददाहकण्ड्वा-दीन् वेदनाविशेषाञ्जनयति अप्रतिक्रियमाणा च पाकमुपैति व्रणश्च नानावि-धवर्णमास्रावं स्रवति पूर्णनदीशम्बूकावर्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः
तं भगन्दरं शम्बूकावर्तमित्याचक्षते ८
मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतंयदाऽव गाढपुरीषोन्मि-श्रमपानेनाधःप्रेरितमसम्यगागतं गुदमपक्षिणोति तदा क्षतनिमित्तः कोथ उ-पजायते तस्मिंश्च क्षते पूयरुधिरावकीर्णमांसकोथे भूमाविव जलप्रक्लिन्नाया-क्रिमयः संजायन्ते ते भक्षयन्तो गुदमनेकधा पार्श्वतो दारयन्ति तस्य तैर्मार्गैः कृमिकृतैर्वातमूत्रपुरीषरेतांस्यभिनिः सरन्ति तं भगन्दरमुन्मार्गिणमित्याचक्षते
भवन्ति चात्र
उत्पद्यतेऽल्परुक् शोफात् क्षिप्रं चाप्युपशाम्यति
पाय्वन्तदेशे पिडका सा ज्ञेयाऽन्या भगन्दरात् १०
पायोः स्याद् द्व्यङ्गुले देशे गूढमूला सरुग्ज्वरा
भागन्दरीति विज्ञेया पिडकाऽतो विपर्ययात् ११
यानयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान्
पायुर्भबेद्रुजः कट्यां पूर्वरूपं भगन्दरे १२
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः १३
इति सुश्रुतसंहितायां निदानस्थाने भगन्दरनिदानं नाम चतुर्थोऽध्यायः ४


पञ्चमोऽध्यायः
अथातः कुष्ठनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदकमांसानि वा पयसा-ऽभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहजा छर्दिर्वा प्रतिहन्ति तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाः सिराः संप्रपद्य स-मुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति एवं समुत्पप्ननस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यतेधातूनभिदूषयन् ३
तस्य पूर्वरूपाणित्वक्पारुष्यमकस्माद्रो महर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं
वाऽङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ४
तत्र सप्त महाकुष्ठानि एकादश क्षुद्र कुष्ठानि एवमष्टादश कुष्ठानि भवन्ति तत्र महाकुष्ठान्यरुणो दुम्बरर्ष्यर्क्षिइ!जिह्वकपाल काकणकपुण्डरीकदद्रुकुष्ठानीति क्षुद्र कुष्ठान्यपि स्थूलारुषकं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं मिंइ! पामा रकसा चेति ५
सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति
उत्सन्नतस्तु दोषग्रहणमभिभवात् ६
तत्र वातेनारुणं पित्तेनोदुम्बरर्ष्यर्क्षिइ!जिह्वकपालकाकणकानि श्लेष्मणा पुण्डरीकं दद्रुकुष्ठं चेति तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति ७
तत्र वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि पित्तेन पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि ऋष्यजिह्वाप्रकाशानि खराणि ऋष्यजिह्वानि कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि काकणन्ति-काफलसदृशान्यतीव रक्तकृष्णानि काकणकानि तेषां चतुर्णामप्योषचोषप-रिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि अतसीपुष्पवर्णा-नि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि तयोर्द्वयोरप्युत्सन्नता
परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि ८
क्षुद्र कुष्ठान्यत ऊर्ध्वं वक्ष्यामःस्थूलानि सन्धिष्वतिदारुणानि स्थूलारुषि स्युः
कठिनान्यरूंषि त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति ९
कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम्
स्युर्येन कण्डूव्यथनौषचोषास्तलेषु तच्चर्मदलं वदन्ति १०
विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम्
मूर्च्छाविदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद्विकारः ११
शनैः शरीरे पिडकाः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः
कण्ड्वन्वितं श्वेतमपायि सिध्म विद्यात्तनु प्रायश ऊर्ध्वकाये १२
राज्योऽतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम्
कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव १३
यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभंमिंविदन्ति
सास्रावकण्डूपरिदाहकाभिः पामाऽणुकाभिः पिडकाभिरूह्या १४
स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या
कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा १५
अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि
वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात् १६
किलासमपि कुष्ठविकल्प एव तत्त्रिविधं वातेन पित्तेनश्लेष्मणा चेति कु-ष्ठकिलासयोरन्तरत्वग्गतमेव किलासमपरिस्रावि च तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च तेषु संबद्धमण्डलमन्तेजातं रक्तरोमचासाध्यमग्निदग्धं च १७
कुष्ठेषु तु त्वक्संकोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन पाकाव-दरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः पित्तेन कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा १८
तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम् १९
भवन्ति चात्र
यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम्
अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः २०
एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः
क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः २१
स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते
वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि समाश्रिते २२
त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम्
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते २३
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते २४
दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा
गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते २५
नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसंभवः
भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते २६
कौण्यं गतिक्षयोऽङ्गानां संभेदः क्षतसर्पणम्
शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च २७
स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् २८
कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम्
मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् २९
ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः
कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य संभवम् ३०
म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति
नातः कष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् ३१
आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम्
औषधीनां विशिष्टानां तपसश्च निषेवणात्
यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् ३२
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात्
सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ३३
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च
औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् ३४
इति सुश्रुतसंहितायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः
अथातः प्रमेहनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्र वान्नपानसेविनं पुरुषं
जानीयात् प्रमेही भविष्यतीति ३
तस्य चैवंप्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्व-मुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा
प्रमेहाञ्जनयन्ति ४
तेषां तु पूर्वरूपाणिहस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशु-क्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम् ५
तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति ६
सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः ७
तत्र कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्र शुक्रफेनमेहा द-शसाध्याः दोषदूष्याणां समक्रिंयत्वात् पित्तान्नीलहरिद्रा म्लक्षार मञ्जिष्ठा शो-णितमेहाः षड् याप्याः दोषदूष्याणां विषमक्रियत्वात् वातात् सर्पिर्वसाक्षौद्र हस्तिमेहाश्चत्वारोऽसाध्यतमाः महात्ययिकत्वात् ८
तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति वातकफशोणित-मेदोभि रन्वितं पित्तं पित्तप्रमेहान् कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वात
प्रमेहान् ९
तत्र श्वेतमवेदनमुदकसदृशमुदकमेही मेहति इक्षुरसतुल्यमि क्षुवालि कामेही सुरातुल्यं सुरामेही सरुजं सिकतानुविद्धं सिकतामेही शनैः सकफं मृत्स्नं शनैर्मेही विशदं लवणतुल्यं लवणमेही हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही आविलं सान्द्रं सान्द्र मेही शुक्रतुल्यं शुक्रमेही स्तोकं स्तोकं सफेनमच्छं फेनमेही मेहति १०
अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामःसफेनमच्छं नीलं नीलमेही मेहति सदाहं हरिद्रा भं दरिद्रा मेही अम्लरसगन्धमम्लमेही स्रुतक्षारप्रतिमं क्षारमेही मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही शोणितप्रकाशं शोणितमेही मेहति ११
अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामःसर्पिःप्रकाशं सर्पिर्मेही मेहति वसाप्रका-शं वसामेही क्षौद्र रसवर्णं क्षौद्र मेही मत्तमातङ्गवदनुप्रबन्धं हस्तिमेही मेहति
१२
मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्रा कासश्वासाश्चेति श्लेष्मजानामुपद्र वाः वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूपनं दाहो मूर्च्छा पिपासा निद्रा नाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्ति-कानां हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति वातजानाम् एवमेते विंशति प्रमेहाः सोपद्र वा व्याख्याताः १३
तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पि-डका जायन्ते तद्यथाशराविका सर्षपिका कच्छपिका जालिनी विनता पुत्रिणी मसूरिका अलजी विदारिका विद्र धिका चेति १४
शरावमात्रा तद्रू पा निम्नमध्या शराविका
गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी १५
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
जालिनी तीव्रदाहा तु मांसजालसमावृता १६
महती पिडका नीला पिडका विनता स्मृता
महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी १७
मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका
रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत् १८
विदारीकन्दवद्वृत्ता कठिना च विदारिका
विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका बुधैः १९
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः
गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः
सोपद्र वा दुर्बलाग्नेः पिडकाः परिवर्जयेत् २०
कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः
अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः २१
प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते
किंचिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत् २२
कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे
प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिशेत् २३
पिडकापीडितं गाढमुपसृष्टमुपद्र वैः
मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः २४
स चापि गमनात् स्थानं स्थानादासनमिच्छति
आसनाद्वृणुते शय्यां शयनात् स्वप्नमिच्छति २५
यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुक-पिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति एवमेव दोषधातुमला-हार विशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति
२६
भवति चात्र
सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि २७
इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्ठोऽध्यायः ६


सप्तमोऽध्यायः
अथात उदराणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्र प्रतिमोऽभवद्यः
ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः ३
पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव
आगन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि ४
सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा
स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ५
गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः
कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ६
त्वचः समुन्नम्य शनैः समन्ताद्विवर्धमानो जठरं करोति
तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः ७
जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोफः
संगृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्धते कृष्णसिरावनद्धम् ८
सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत्
यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः ९
पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धि
यच्छीतलं शुक्लसिरावनद्धं गुरु स्थिरं शुक्लनखाननस्य १०
स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि
स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः ११
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा
तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् १२
तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च
स चातुरो मूर्च्छति संप्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च १३
प्रकीर्तितं दूष्युदरं तु घोरं प्लीहोदरं कीर्तयतो निबोध
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च १४
प्लीहाभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः
वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र १५
मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः
सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव १६
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग्वा
संचीयते तत्र मलः सदोषः क्रमेण नाड्यामिव संकरो हि १७
निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्
हृन्नाभिमध्ये परिवृद्धिमेति तच्चोदरं विट्समगन्धिकं च १८
प्रच्छर्दयन् बद्धगुदी विभाव्यः ततः परिस्राव्युदरं निबोध
शल्यं यदन्नोपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा १९
तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च २०
एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः २१
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि
स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति २२
स्निग्धं महत् संपरिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् २३
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः
दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि २४
अन्ते सलिलभावं हि भजन्ते जठराणि तु
सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत् २५
इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमोऽध्यायः ७


अष्टमोऽध्यायः
अथातो मूढगर्भनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभिघातविषमशयनासनोपवासवेगाभिघातातिरूक्षकटुतिक्तभोजनशोकातिक्षारसेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः फ-लमिव वृन्तबन्धनादभिघातविशेषैः स विमुक्तबन्धनो गर्भाशयम तिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति तस्या जठरसंक्षो-भाद्वायुरपानो मूढःपार्श्वबस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गा नामन्यतममा-पाद्य गर्भं च्यावयति तरुणं शोणितस्रावेण तमेव कदा चिद्विवृद्धमसम्यगा-गतमपत्यपथमनुप्राप्तमनिरस्यमानं विगुणापानसंमोहितं गर्भं मूढगर्भमित्याचक्षते ३
ततः कीलः प्रतिखुरो बीजकः परिघ इति तत्र ऊर्ध्वबाहुशिरःपादो यो यो-निमुखं निरुणद्धि कील इव स कीलः निःसृतहस्तपादशिराः कायसङ्गी प्र-तिखुरः यो निर्गच्छत्येक शिरोभुजः स बीजकःयस्तु परिघ इव योनिमुख-मावृत्य तिष्ठति स परिघः इति चतुर्विधो भवतीत्येके भाषन्ते तत्तु न सम्यक् कस्मात् स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या हीयते ४
तत्र कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते कश्चिदाभुग्नैकसक्थिरेकेन कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः कश्चिदुरः पार्श्वपृष्ठानामन्य-तमेन योनिद्वरां पिधायावतिष्ठते अन्तःपार्श्वपवृत्तशिराः कश्चिदेकेन बाहुना कश्चिदाभुग्नशिरा बाहुद्वयेन कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः कश्चिदेकेन सन्कथा योनिमुखं प्रतिपद्यतेऽपरेण पायुम् इत्यष्टविधा मूढगर्भगतिरुद्दिष्टा
समासेन ५
तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ शेषानपि विपरीतेन्द्रि यार्थाक्षेपकयोनिभ्रंशसंवरणमक्कल्लश्वासकासभ्रमनिपीडितान् परिहरेत् ६
भवन्ति चात्र
कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम्
प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ७
एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात्
गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ८
कृमिवाताभिघातैस्तु तदेवोपद्रुतं फलम्
पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ९
आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविच्युतिः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः १०
प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा
नीलोद्धतसिरा हन्ति सा गर्भं स च तां तथा ११
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ १२
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः १३
बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि
तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् १४
इति सुश्रुतसंहितायां निदानस्थाने मूढभर्गनिदानं नामाष्टमोऽध्यायः ८


नवमोऽध्यायः
अथातो विद्र धीनां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः
शिष्यायोवाच निखिलमिदं विद्र धिलक्षणम् ३
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः
दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ४
महामूलं रुजावन्तं वृत्तं चाप्यथवाऽऽयतम्
तमाहुर्विद्र धिं धीरा विज्ञेयः स च षडिवधः ५
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते ६
कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः
चित्रोत्थानप्रपाकश्च विद्र धिर्वातसंभवः ७
पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान्
क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसंभवः ८
शरावसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः
चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः ९
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः
नानावर्णरुजास्रावो घाटालो विषमो महान् १०
विषमं पच्यते चापि विद्र धिः सान्निपातिकः
तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ११
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत्
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः १२
एष विद्र धिरागन्तुः पित्तविद्र धिलक्षणः
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः १३
पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते
उक्ता विद्र धयो ह्येते तेष्वसाध्यस्तु सर्वजः १४
आभ्यन्तरानतस्तूर्ध्वं विद्र धीन् परिचक्षते
गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात् १५
अतिव्यवायव्यायामवेगाघातविदाहिभिः
पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणम् १६
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १७
वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा
तेषां लिङ्गानि जानीयाद्बाह्यविद्र धिलक्षणैः १८
आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत्
अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः १९
गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता
नाभ्यां हिक्का तथाऽटोपः कुक्षौ मारुतकोपनम् २०
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् २१
सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः
श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका २२
आमो वा यदि वा पक्वो महान् वा यदि वेतरः
सर्वो मर्मोत्थितश्चापि विद्र धिः कष्ट उच्यते २३
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः
जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति २४
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन २५
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः
दाहज्वरकरो घोरो जायते रक्तविद्र धिः २६
अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम्
रक्तजं विद्र धिं कुर्यात् कुक्षौ मक्कल्लसंज्ञितम् २७
सप्ताहान्नोपशान्तश्चेत्ततोऽसौ संप्रपच्यते
विशेषमथ वक्ष्यामि स्पष्टं विद्र धिगुल्मयोः २८
गुल्मदोषसमुत्थानाद्विद्र धेर्गुल्मकस्य च
कस्मान्न पच्यते गुल्मो विद्र धिः पाकमेति च २९
न निबन्धोऽस्ति गुल्मानां विद्र धिः सनिबन्धनः
गुल्माकाराः स्वयं दोषा विद्र धिर्मांसशोणिते ३०
विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा
एवंप्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति ३१
मांसशोणितबाहुल्यात् पाकं गच्छति विद्र धिः
मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति ३२
गुल्मस्तिष्ठति दोषे स्वे विद्र धिर्मांसशोणिते
विद्र धिः पच्यते तस्माद्गुल्मश्चापि न पच्यते ३३
हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः
अथ मज्जपरीपाको घोरः समुपजायते ३४
सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा
ततः स व्याधिना तेन ज्वलनेनेव दह्यते ३५
अस्थिथिमिज्जोष्मणा तेन शीर्यते दह्यमानवत्
विकारः शल्यभूतोऽय क्लेशयेदातुरं चिरम् ३६
अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा
ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ३७
भिन्नेऽन्स्थि निःस्रवेत् पूयमेतदस्थिगतं विदुः
विद्र धिं शास्त्रकुशलाः सर्वदोषरुजावहम् ३८
इति सुश्रुतसंहितायां निदानस्थाने विद्र धिनिदानं नाम नवमोऽध्यायः ९


दशमोऽध्यायः
अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्वङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम्
कुर्वन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्च विसर्पमाहुः ३
वातात्मकोऽसितमृदुः परुषोऽङ्गमर्दसंभेदतोदपवनज्वरलिङ्गयुक्तः
गण्डैर्यदा तु विषमैरतिदूषितत्वाद्युक्तः स एव कथितः खलु वर्जनीयः ४
पित्तात्मको द्रुतगतिर्ज्वरदाहपाकस्फोटप्रभेदबहुलः क्षतजप्रकाशः
दोषप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् ५
श्लेष्मात्मकः सरति मन्दमशीघ्रपाकः
स्निग्धः सितश्वयथुरल्परुगुग्रकण्डुः
सर्वात्मकस्त्रिविधवर्णरुजोऽवगाढः
पक्वो न सिध्यति च मांससिराप्रशातात् ६
सद्यःक्षतव्रणमुपेत्य नरस्य पित्तं रक्तं च दोषबहुलस्य करोति शोफम्
श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम् ७
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः ८
शोफं न पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः ९
तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या १०
तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम्
तृट्तापतोदसदनज्वरभेदहेतुः पीतं स्रवत्यधिकमुष्णमहःसु पित्तात् ११
ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा रात्रिस्रुतिः स्तिमितरुक्कठिना सकण्डूः
दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् १२
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि
तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालरात्रिम् १३
नष्टं कथंचिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति
सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं स्रवेत सहसा सरुजा च नित्यम् १४
यावत्यो गतयो यैश्च कारणैः संभवन्ति हि
तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः १५
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
दोषाविसरणात्तासां न भवन्ति स्तनामयाः १६
तासामेव प्रजातानां गर्भिणीनां च ताः पुनः
स्वभावादेव विवृता जायन्ते संभवन्त्यतः १७
रसप्रसादो मधुरः पक्वाहारनिमित्तजः
कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते १८
विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते
सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते १९
तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि
शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते २०
सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते
आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः २१
तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि
ग्रहणाच्च शरीरस्य शुक्रवत् संप्रवर्तते २२
स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते
तत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि २३
पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः
कफाद्घनं पिच्छिलं च जले चाप्यवसीदति
सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति २४
यत् क्षीरमुदके क्षिप्तमेकीभवति पाण्डुरम्
मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत् २५
सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः
रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते २६
पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम्
लक्षणानि समानानि बाह्यविद्र धिलक्षणैः २७
इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्तनरोगनिदानं नाम दशमोऽध्यायः १०


एकादशोऽध्यायः
अथातो ग्रन्थपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातादयो मांसमसृक् च दुष्टाः संदूष्य मेदश्च कफानुविद्धम्
वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ३
आयम्यते व्यथ्यत एति तोदं प्रत्यस्यते कृत्यत एति भेदम्
कृष्णोऽमृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ४
दन्दह्यते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ५
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत् संहननोपपन्नः
चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् ६
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजोऽतिकण्डूः
मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ७
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि सिराप्रतानम्
संपीड्य सङ्कोच्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ८
ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च
अरुक् स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ९
हन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः
ग्रन्थिं स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति १०
तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्स्याण्डजालप्रतिमैस्तथाऽन्यै
अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति ११
कण्डूयुतास्तेऽल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये
मेदःकफाभ्यां खलु रोग एष सुदुस्तरो वर्षगणानुबन्धी १२
गात्रप्रदेशे क्वचिदेव दोषाः संमूर्च्छिता मांसमभिप्रदूष्य
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्य्पाकम् १३
कुर्वन्ति मांसोपचयं तु शोफं तमर्बुदं शास्त्रविदो वदन्ति
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च १४
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति
दोषः प्रदुष्टो रुधिरं सिरास्तु संपीड्य सङ्कोच्य गतस्त्वपाकम् १५
सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धिम्
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात् १६
रक्तक्षयोपद्र वपीडितत्वात् पाण्डुर्भवेत् सोऽबुदपीडितस्तु
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् १७
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम्
प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसपरायणस्य १८
मांसार्बुदं त्वेतदसाध्यमुक्तं साध्येष्वपीमानि विवर्जयेत्तु
संप्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् १९
यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २०
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु २१
वातः कफश्चैव गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः
कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः २२
तोदान्वितः कृष्णसिरावनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु
मेदोन्वितश्चोपचितश्च कालाद्भवेदतिस्निग्धतरोऽरुजश्च २३
पारुष्ययुक्तश्चिरवृद्धयपाको यदृच्छया पाकमियात् कदाचित्
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः २४
स्थिरः सवर्णोऽल्परुगुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु
चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित् २५
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डूः २६
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् २७
कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम्
क्षीणं च वैद्यो गलगण्डिनं तु भिन्नस्वरं चैव विवर्जयेत्तु २८
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् २९
इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालापच्यर्बुदनिदानं नामैकादशोऽध्यायः ११


द्वादशोऽध्यायः
अथातो वृद्ध्य्पुदंशश्लीपदानां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताः सप्तवृद्धयो भवन्ति तासां मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः ३
अधः प्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोषयोर्वृद्धिं जनयति तांवृद्धिमित्याचक्षते ४
तासां भविष्यतीनां पूर्वरूपाणि बस्तिकटीमुष्कमेढ्रेषु वेदना मारुतनिग्रहः
फलकोशशोफश्चेति ५
तत्रानिलपरिपूर्णां बस्तिमिवाततां परुषामनिमित्तानिलरुजां वातवृद्धिमाच-क्षते पक्वोदुम्बरसङ्काशांज्वरदाहोष्मवतीं चाशुसमुत्थानपाकां पित्तवृद्धिंकठिनामल्पवेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिं कृष्णस्फोटावृतां पित्तवृद्धि-लिङ्गां रक्तवृद्धिं मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफलप्रकाशां मेदोवृ-द्धिं मूत्रसंधारणशीलस्य मूत्रवृद्धिर्भवति सा गच्छतोम्बुपूर्णा दृतिरिव क्षुभ्य-ति मूत्रकृच्छ्रवेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति तां मूत्रवृद्धिं विद्यात् भारहरणबलवद्विग्रहवृक्षप्रपतनादिभिरायास विशेषैर्वायुरभिप्रवृद्ध प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं विगुणमादायाधो गत्वा वङ्क्षणसन्धिमुपेत्य ग्र-न्थिरूपेण स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेणफलकोशं प्रविश्य मुष्क-शोफमापादयति आध्मातो बस्तिरिवाततः प्रदीर्घः स शोफो भवति सशब्द-मवपीडितश्चोर्ध्वमुपैति विमुक्तश्चपुनराध्मायते तामन्त्रवृद्धिमसाध्यामित्याचक्षते ६
तत्रातिमैथुनादतिब्रह्मचर्याद्वा तथाऽतिब्रह्मचारिणीं चिरोत्सृष्टां रजस्वलां दी-र्घरोमां कर्कशरोमांसङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वारामप्रिंयामका-मामचौक्षसलिलप्रक्षालितयोनिमप्रक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करजद शनवि-षशूकनिपातनाद्बन्धनाद्धस्ताभिघाताच्चतुष्पदीगमनादचौक्षसलिलप्रक्षालनादवपीडनाच्छुक्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्मेढ्र मागम्य प्रकुपितादोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्याचक्षते ७
स पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा चेति ८
तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तब्धमेढ्रता परुषशोफता विविधाश्चवा-तवेदनाः पैत्तिके ज्वरः श्वयथुः पक्वोदुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकः पि-त्तवेदनाश्च श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च र-क्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थमसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैव कदाचित् सर्वजे सर्वलिङ्गदर्शनमवदरणं च शेफसः कृमि
प्रादुर्भावो मरणं चेति ९
कुपितास्तु दोषा वातपित्तश्लेष्माणोऽधप्रपन्नावङ्क्षणोरुजानुजङ्घास्ववतिष्ठमा-नाः कालान्तरेण पादमाश्रित्य शनैः शोफं जनयन्ति तं श्लीपदमित्याचक्षते
तत्त्रिविधंवातपित्तकफनिमित्तमिति १०
तत्र वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं परिस्फुटति च बहुशः पित्तजं तु पीतावभासमीषन्मृदु ज्वरदाहप्रायं च श्लेष्मजं तु श्वेतं स्निग्धावभासं मन्दवेदनं भारिकं महाग्रन्थिकं कण्टकैरुपचितं च ११
तत्र संवत्सरातीतमतिमहद्वल्मीकजातं प्रसृतमिति वर्जनीयानि १२
भवन्ति चात्र
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
गुरुत्वं च महत्त्वं च यस्मान्नास्ति विना कफात् १३
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः १४
पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम्
कर्णाक्षिनासिकौष्ठेषु केचिदिच्छन्ति तद्विदः १५
इति सुश्रुतसंहितायां निदानस्थाने वृद्ध्य्पुदंशश्लीपदनिदानं नाम द्वादशोऽध्यायः १२


त्रयोदशोऽध्यायः
अथातः क्षुद्र रोगाणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
समासेन चतुश्चत्वारिंशत् क्षुद्र रोगा भवन्ति तद्यथा अजगल्लिका यवप्रख्या अन्धालजी विवृता कच्छपिका वल्मीकं इन्द्र वृद्धा पनसिका पाषाणगर्दभः जालगर्दभः कक्षा विस्फोरकः अग्निरोहिणी चिप्पं कुनखः अनुशयी विदा-रिका शर्करार्बुदं पामा विचर्चिका रकसा पाददारिका कदरं अलसेन्द्र लुप्तौ दारुणकः अरुंषिका पलितं मसूरिका यौवनपिडका पद्मिनीकण्टकः जतुम-णिः मशकः चर्मकीलः तिलकालकः न्यच्छं व्यङ्गः परिवर्तिका अवपाटिका निरुद्धप्रकश् संनिरुद्ध गुदः अहिपूतनं वृषणकच्छ्रः गुदभ्रंशश्चेति ३
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका ४
यवाकारा सुकठिना ग्रथिता मांससंश्रिता
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ५
घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम्
अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ६
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्
विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ७
ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः
कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः ८
पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि
ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ९
तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः
व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः १०
पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम्
इन्द्र वृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ११
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम्
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्
कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक्
शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् १२
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम्
पाषाणगर्दभं विद्याद्बलासपवनात्मकम् १३
विसर्पवत् सर्पति योदाहज्वरकरस्तनुः
अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः १४
पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् १५
बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम्
पित्तप्रकोपसंभूतां कक्षामिति विनिर्दिशेत् १६
एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम्
त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते १७
अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः
क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति १८
कक्षाभागेषु ये स्फोटा जायन्ते मांसदारुरिणिआः!
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः १९
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्
तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः २०
नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम्
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् २१
तदेवाक्षतरोगाख्यं तथोपनखमित्यपि
अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः २२
भवेत्तं कुनखं विद्यात् कुलीनमिति संज्ञितम्
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् २३
कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक्
विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु २४
रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम्
प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथाऽनिलः २५
ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम्
स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः २६
मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः २७
स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम्
पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता २८
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं सरुजां तलसंश्रितः २९
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ३०
सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा
कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ३१
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत् ३२
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ३३
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसंभवः
तदिन्द्र लुप्तं खालित्यं रुज्येति च विभाव्यते ३४
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते
कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ३५
अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि
कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् ३६
क्रोधशोकश्रमकृतं शरीरोष्मा शिरोगतः
पित्तं च केशान् पचति पलितं तेन जायते ३७
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः
गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ३८
शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः
जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ३९
कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम्
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ४०
नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम्
सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः ४१
अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत् ४२
कृष्णानि तिलमात्राणि नीरुजानि समानि च
वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ४३
मण्डलं महदल्पं वा श्यामं वा यदि वा सितम्
सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते ४४
समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम्
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ४५
सहसा मुखमागत्य मण्डलं विसृजत्यतः
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ४६
कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः
मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः ४७
तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते
मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ४८
सवेदनः सदाहश्चपाकं च व्रजति क्वचित्
मारुतागन्तुसंभूतां विद्यात्तां परिवर्तिकाम् ४९
सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता
अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियंनरः ५०
हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात्
मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः ५१
यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम्
वातोपसृष्टमेवं तु चर्म संश्रयते मणिम् ५२
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ५३
मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते
निरुद्धप्रकशं विद्याद्दुरूढां चावपाटिकाम् ५४
वेगसंधारणाद्वायुर्विहतो गुदमाश्रितः
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ५५
मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् ५६
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ५७
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ५८
स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः
यदा प्रक्लिद्यते स्वेदात् कण्डूं संजनयेत्तदा ५९
तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ६०
प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् ६१
इति सुश्रुतसंहितायां निदानस्थाने क्षुद्र रोगनिदानं नाम त्रयोदशोऽध्यायः १३


चतुर्दशोऽध्यायः
अथातः शूकदोषनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते तद्यथासर्षपिका अष्ठीलिका ग्रथितं कुम्भीका अलजी मृदितं संमू-ढपिडका अवमन्थः पुष्करिका स्पर्शहानिः उत्तमा शतपोनकः त्वक्पाकः
शोणितार्बुदं मांसार्बुदं मांसपाकः विद्र धिः तिलकालकश्चेति ३
गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका
पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः ४
कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः
शूकैस्तु विषसंभुग्नैः पिडकाऽष्ठीलिका भवेत् ५
शूकैर्यत् पूरितं शश्वद्र् गथितं तत् कफोत्थितम्
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा ६
अलजीलक्षणैर्युक्तामलजीं च वितर्कयेत्
मृदितं पीडितं यत्तु संरब्धं वायुकोपतः ७
पाणिभ्यां भृशसंमूढे संमूढपिडका भवेत्
दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः ८
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत्
पित्तशोणितसंभूता पिडका पिडकाचिता ९
पद्मपुष्करसंस्थाना ज्ञेया पुष्करिकेति सा
जनयेत् स्पर्शहानिं तु शोणितं शूकदूषितम् १०
मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा
उत्तमैषा तु विज्ञेया शूकाजीर्णनिमित्तजा ११
छिद्रै रणुमुखैर्वस्तु चितं यस्य समन्ततः
वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः १२
पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान्
कृष्णैः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम्
यस्य वस्तु रुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १३
मांसदोषेण जानीयादर्बुदं मांससंभवम्
शीर्यन्ते यस्य मांसानि यत्र सर्वाश्च वेदनाः १४
विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक्
विद्र धिं सन्निपातेन यथोक्तमभिनिर्दिशेत् १५
कृष्णानि चित्राण्यथवा शूकानि सविषाणि च
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १६
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
सन्निपातसमुत्थानं तं विद्यात्तिलकालकम् १७
तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः
विद्र धिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः १८
इति सुश्रुतसंहितायां निदानस्थाने शूकदोषनिदानं नाम चतुर्दशोऽध्यायः १४


पञ्चदशोऽध्यायः
अथातो भग्नानां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषैरनेकविधमन्स्थां भङ्गमुपदिशन्ति ३
तत्र भङ्गजातमनुसार्यमाणं द्विविधमेवोपपद्यते सन्धिमुक्तं काण्डभग्नं च तत्र षड्विधं सन्धिमुक्तं द्वादशविधं काण्डभग्नं भवति ४
तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्तितम् अवक्षिप्तम् अतिक्षिप्तं तिर्यक्क्षिप्तमिति षड्विधम् ५
तत्र प्रसारणाकुञ्चनविवर्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् ६
वैशेषिकं तूत्पिष्टे सन्धावुभयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति विश्लिष्टेऽल्प शोफो वेदनासातत्यं सन्धिवि-क्रिया च विवर्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च अतिक्षिप्ते द्वयोः सन्ध्यन्स्थोरतिक्रान्तता वेदना
चतिर्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति ७
काण्डभग्नमत ऊर्ध्वं वक्ष्यामःकर्कटकम् अश्वकर्णं चूर्णितं पिच्चितम् अस्थि-च्छल्लितं काण्डभग्नं मज्जानुगतम् अतिपातितं वक्रं छिन्नं पाटितं स्फुटितमिति द्वादशविधम् ८
श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ता-ङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेन
काण्डभग्नलक्षणमुक्तम् ९
विशेषस्तु संमूढमुभयतोऽस्थि मध्ये भलिग्निं ग्रन्थिरिवोन्नतं कर्कटकम् अश्व-कर्णवदुद्गतमश्वकर्णकं स्पृश्यमानं शब्दवच्चूर्णितमवगच्छेत् पिच्चितं पृथुतां गतमनल्पशोफं पार्श्वयोरस्थि हीनोद्गतमस्थिच्छलितं वेल्लते प्रकम्पमानं काण्डभग्नम् अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यतीति मज्जानुग-तम् अस्थि निःशेषतश्छिन्नमतिपातितम् आभुग्नमविमुक्तास्थि वक्रम् अन्य-तरपार्श्वावशिष्टं छिन्नं पाटितमणुबहुविदारितं वेदनावच्च शूपूर्णमिवाध्मातं
विपुलं विस्फुटितं स्फुटितमिति १०
तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि कृशवृद्धबालानां
क्षतक्षीणकुष्ठिश्वासिनां सन्ध्युपगतं चेति ११
भवन्ति चात्र
भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम्
जघनं प्रति पिष्टं च वर्जयेत्तच्चिकित्सकः १२
असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत्
भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् १३
आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् १४
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत्
मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्तिताः १५
तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता
तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु १६
कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च
इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशोध्यायः १५


षोडशोऽध्यायः
अथातो मुखरोगाणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु तत्रायतनानिओष्ठौ दन्तमूलानि दन्ताः जिह्वा तालुकण्ठः सर्वाणि चेति तत्राष्टावोष्ठयोः पञ्चदशदन्तमूलेषु
अष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनिसप्तदश कण्ठे त्रयः सर्वेष्वायतनेषु ३
तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघातनिमित्ताः ४
कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ
दाल्येते परिपाट्येते ह्योष्ठौ मारुतकोपतः ५
आचितौ पिडकाभिस्तु सर्षपाकृतिभिर्भृशम्
सदाहपाकसंस्रावौ नीलौ पीतौ च पित्ततः ६
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ
कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू ७
सकृत् कृष्णौ सकृत् पीतौ सकृच्छ्वेतौ तथैव च
सन्निपातेन विज्ञेयावनेकपिडिकाचितौ ८
खर्जूरफलवर्णाभिः पिडकाभिः समाचितौ
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ९
मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ
जन्तवश्चात्र मूर्च्छन्ति सृक्कस्योभयतो मुखात् १०
मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू
अच्छं स्फटिकसङ्काशमास्रावं स्रवतो गुरू ११
क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः
ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ १२
दन्तमूलगतास्तु-शीतादो दन्तपुप्पुटको दन्तवेष्टकः
शौषिरो महाशौषिरः परिदर उपकुशो दन्तवैदर्भो
वर्धनः अधिमांसो नाड्यः पञ्चेति १३
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च १४
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
शीतादो नाम स व्याधिः कफशोणितसंभवः १५
दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान्
दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः १६
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः १७
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः
लालास्रावी स विज्ञेयः कण्डूमाञ् शौषिरो गदः १८
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
दन्तमांसानि पच्यन्ते मुखं च परिपीड्यते १९
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् २०
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः
वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च २१
आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः
आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते २२
यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतो गदः
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् २३
भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः
मारुतेनाधिको दन्तो जायते तीव्रवेदनः २४
वर्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति
हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः २५
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः २६
दन्तगतास्तु-दालनः क्रिमिदन्तको दन्तहर्षो भञ्जनकः
दन्तशर्करा कपालिका श्यावदन्तको हनुमोक्षश्चेति २७
दाल्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः
दालनः स इति ज्ञेयः सदागतिनिमित्तजः २८
कृष्णश्छिद्री चलः स्रावी ससंरम्भो महारुजः
अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः २९
शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च
यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात् ३०
वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक्
कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ३१
शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै
सा दन्तानां गुणहरी विज्ञेया दन्तशर्करा ३२
दलन्ति दन्तवल्कानि यदा शर्करया सह
ज्ञेया कपालिका सैव दशनानां विनाशिनी ३३
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ३४
वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विसंहतः
हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः ३५
जिह्वागतास्तुकण्टकास्त्रिविधास्त्रिभिर्दोषैः
अलास उपजिह्विका चेति ३६
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा
पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च
कफेन गुर्वी बहला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः ३७
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्तिः
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम् ३८
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः
प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्विकेति ३९
तालुगतास्तु-गलशुण्डिका तुण्डिकेरी अध्रुषः कच्छपः
अर्बुदं मांससङ्घातः तालुपुप्पुटः तालुशोषः तालुपाकइति ४०
श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातबस्तिप्रकाशः
तृष्णाकासश्वासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना ४१
शोफः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु
शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः ४२
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात्
पद्माकारं तालुमध्ये तु शोफं विद्याद्र क्तादर्बुदं प्रोक्तलिङ्गम् ४३
दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः
नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे४४
शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात्
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ४५
कण्ठगतास्तुरोहिण्यः पञ्च कण्ठशालूकम् अधिजिह्वो बलयो बलास एक-वृन्दो वृन्दः शतघ्नी गिलायुः गलविद्र धिः गलौघः स्वरघ्नो मांसतानो विदारी चेति ४६
गलेऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समस्ताश्च तथैव शोणितम्
प्रदूष्य मांसं गलरोधिनोऽङकुरान् सृजन्ति यान् साऽसुहरा हि रोहिणी ४७
जिह्वां समन्ताद्भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः
तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्र वगाढयुक्ताम् ४८
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात्
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसंभवा वै ४९
गम्भीरपाकाऽप्रतिवारवीर्या त्रिदोषलिङ्गा त्रयसंभवा स्यात्
स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या प्रदिष्टा रुधिरात्मिकेयम् ५०
कोलास्थिमात्रः कफसंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ५१
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात्
ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ५२
बलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य
तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति ५३
गले तु शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
मर्मच्छिदं दुस्तरमेतदाहुर्बलाससंज्ञं निपुणा विकारम् ५४
वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ५५
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु ५६
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः
नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया शतघ्नीव शतघ्न्यसाध्या ५७
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्तिः
संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ५८
सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः
स सर्वदोषो गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य ५९
शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ ६०
योऽतिप्रताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ६१
प्रतानवान् यः श्वयथुं सुकष्टो गलोपरोधं कुरुते क्रमेण
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ६२
सदाहतोदं श्वयथुः सरक्तमन्तर्गले पूतिविशीर्णमांसम्
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ६३
सर्वसरास्तु वातपित्तकफशोणितनिमित्ताः ६४
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात्
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् ६५
कण्डूयुतैरल्परुजैः सवर्णैर्यस्याचितं चापि स वै कफेन
रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकसंज्ञः ६६
इति सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशोऽध्यायः १६
इति भगवता श्री धन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुत संहितायां द्वितीये निदान स्थानम् २