सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय ३५-४०
दिखावट
36
- षट्त्रिंशत्तमोऽध्यायः
- अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अथ नेत्रे विचलिते तथा चैव विवर्तिते
- गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ३
- अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा
- विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ४
- तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते
- मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते
- ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ५
- अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति घर्षणात्
- गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् ६
- आसन्नकर्णिके नेत्रे भिन्नेऽणौ वाऽप्यपार्थकः
- अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत् ७
- प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात्
- क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः ८
- ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत्
- प्रत्यागच्छंस्ततः कुर्याद्रो गान् बस्तिविघातजान् ९
- दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत्
- प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् १०
- बस्तावल्पेऽल्पता वाऽपि द्र व्यस्याल्पा गुणा मताः
- दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ११
- अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः
- वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते १२
- तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम्
- शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् १३
- शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति
- न च संपादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् १४
- भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते
- तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र वस्तयः १५
- कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते
- तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत् १६
- गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि
- तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् १७
- हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ
- अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ १८
- मूर्च्छां दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ
- मृदुशीतावुभौ वातविबन्धाध्मानकारकौ १९
- तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः
- गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः २०
- प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः
- तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत् २१
- स्निग्धोऽतिजाड्यकृद्रू क्षः स्तम्भाध्मानकृदुच्यते
- बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् २२
- अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके
- उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् २३
- तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य सुखावहः
- न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः २४
- हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च
- उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते २५
- नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति
- देहे सङ्कुचिते दत्तः सन्क्थोरप्युभयोस्तथा २६
- न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः
- स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः २७
- न चाशयं तर्पयति तस्मान्नार्थकरो हि सः
- नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः २८
- दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः
- न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते २९
- पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत्
- व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ३०
- अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः
- अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः ३१
- विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते
- तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ३२
- सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः
- अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च ३३
- अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः
- तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ३४
- हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम्
- तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ३५
- अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः
- सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम् ३६
- नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः
- पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ३७
- अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते
- दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ३८
- परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे
- पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च ३९
- प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात्
- सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ४०
- पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम्
- सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ४१
- अतितीक्ष्णो निरूहो वा सवाते चानुवासनः
- हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ४२
- दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाऽङ्गगौरवम्
- सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत् ४३
- रूक्षस्य बहुवातस्य तथा दुःशायितस्य च
- बस्तिरङ्गग्रहं कुर्याद्रू क्षो मृद्वल्पभेषजः ४४
- तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः
- पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः ४५
- अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च
- अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ४६
- विरेचनातियोगेन समानं तस्य लक्षणम्
- पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ४७
- अतियोगात् परं यत्र जीवादानं विरिक्तवत्
- देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः ४८
- नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः
- स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ४९
- इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः
- भिषजा च तथा कार्यं यथैता न भवन्ति हि ५०
- पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम्
- सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ५१
- इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ३६
37
- सप्तत्रिंशत्तमोऽध्यायः
- अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- विरेचनात् सप्तरात्रे गते जातबलाय वै
- कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ३
- यथावयो निरूहाणां या मात्राः परिकीर्तिताः
- पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ४
- उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत्
- एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ५
- स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः
- स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ६
- अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम्
- पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ७
- शटीपुष्करकृष्णाह्वामदनामरदारुभिः
- शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ८
- सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम्
- पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ९
- अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम्
- कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् १०
- वचापुष्करकुष्ठैलामदनामरसिन्धुजैः
- काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ११
- पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः
- सरलागुरुबल्वाम्बुवाजिगन्धाग्निवृद्धिभिः १२
- विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः
- पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् १३
- गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम्
- अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् १४
- चित्रकातिविषापाठादन्तीबिल्ववचामिषैः
- सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः १५
- चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः
- जीवकर्षभवर्षाभूवस्तगन्धाशताह्वयैः १६
- रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः
- सक्षीरं विपचेत्तैलं मारुतामयनाशनम् १७
- गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम्
- शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् १८
- भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः
- दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः १९
- बलानागबलामुर्वावाजिगन्धामृताद्वयैः
- सहाचरवरीविश्वाकाकनासाविदारिभिः २०
- यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम्
- जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् २१
- जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान्
- हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् २२
- जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः
- ऋषभातिविषाकृष्णाकाकनासावचामरैः २३
- रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः
- स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः २४
- पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु
- तच्चानुवासने देयं शुक्राग्निबलवर्धनम् २५
- बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम्
- नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् २६
- मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः
- श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः २७
- तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च
- न्यग्रोधादिगणक्वाथयुक्तं वस्तिषु योजितम् २८
- दाहासृग्दरवीसर्पवातशोणितविद्र धीन्
- पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् २९
- मृणालोत्पलशालूकसारिवाद्वयकेशरैः
- चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ३०
- पटोलकटुकारक्तागुन्द्रा पर्पटवासकैः
- पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ३१
- क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम्
- नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ३२
- त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः
- निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ३३
- गुडूचीन्द्र सुराकृष्णाकुष्ठसर्षपनागरैः
- तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ३४
- पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम्
- स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ३५
- पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः
- सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ३६
- मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः
- तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ३७
- वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च
- हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ३८
- विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः
- कट्फलातिविषाभार्गीवचाकुष्ठसुराह्वयैः ३९
- मेदामदनयष्ठ्याह्वश्यामानिचुलनागरैः
- शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ४०
- बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः
- तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ४१
- प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान्
- प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ४२
- अशुद्धमपि वातेन केवलेनातिपीडितम्
- अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ४३
- रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान्
- दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ४४
- अस्निग्धमपि वातेन केवलेनातिपीडितम्
- स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ४५
- अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत्
- बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ४६
- रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः
- स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ४७
- अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते
- स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ४८
- पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते
- नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ४९
- उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः
- संभवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ५०
- शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये
- स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ५१
- अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम्
- तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ५२
- न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन
- शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ५३
- सदाऽनुवासयेच्चापि भोजयित्वाऽद्र पाणिनम्
- ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ५४
- न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत्
- मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ५५
- रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत्
- युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ५६
- यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा
- यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ५७
- अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
- भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ५८
- विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना
- प्रणिधानविधानं तु निरूहे संप्रवक्ष्यते ५९
- ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत्
- प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ६०
- ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः
- स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ६१
- एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक्
- स्वास्तीर्णे शयने काममासीताचारिके रतः ६२
- स तु सैन्धवचूर्णेन शताह्वेन च योजितः
- देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ६३
- यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत्
- अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ६४
- सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः
- तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ६५
- विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने
- दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ६६
- सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
- ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ६७
- जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
- लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ६८
- प्रातरुष्णोदकं देयं धान्यनागरसाधितम्
- तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ६९
- स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः
- अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ७०
- विधेया बस्तयस्तेषामन्तरा तु निरूहणम्
- दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ७१
- सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत्
- जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ७२
- रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा
- षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ७३
- अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम्
- एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ७४
- अष्टादशाष्टादशकान् बस्तीनां यो निषेवते
- यथोक्तेन विधानेन परिहारक्रमेण च ७५
- स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः
- वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ७६
- स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्
- स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ७७
- तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः
- नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ७८
- रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने
- दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ७९
- स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः
- तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ८०
- अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः
- बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ८१
- अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान्
- कुर्वन्त्युपद्र वान् स्नेहः स चापि न निवर्तते ८२
- तत्र वाताभिभूते तु स्नेहे मुखकषायता
- जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ८३
- पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत्
- दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ८४
- श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता
- गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ८५
- तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत्
- यथास्वं दोषशमनान्युपयोज्यानि यानि च ८६
- अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा
- गुरुरामाशयः शूलं वायोश्चाप्रतिसंचरः ८७
- हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः
- तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ८८
- अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
- तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ८९
- पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम्
- तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ९०
- शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम्
- गात्रेषु सर्वेन्द्रि याणामुपलेपोऽवसादनम् ९१
- स्नेहगन्धि मुखं चापि कासश्वासावरोचकः
- अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ९२
- अस्विन्नस्याविशुद्धस्य स्नेहोऽल्प संप्रयोजितः
- शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ९३
- विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति
- तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ९४
- अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा
- दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ९५
- तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना
- इ!अन्वासनं च स्नेहेन शोधनीयेन शस्यतेइ! ९६
- अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति
- कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ९७
- यस्य नोपद्र वं कुर्यात् स्नेहबस्तिरनिःसृतः
- सर्वोऽल्पोवाऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ९८
- अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत्
- स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ९९
- इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः
- वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतः परम् १००
- चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसंमितम्
- मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् १०१
- स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः
- पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् १०२
- निविष्टकर्णिकं मध्ये नारीणां चतुरङ्गुले
- मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् १०३
- मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः
- तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् १०४
- द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम्
- विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा १०५
- स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसंमितम्
- देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् १०६
- औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः
- तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् १०७
- तिस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वाइ!
- अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् १०८
- यवागूं सघृतक्षीरां पीतवन्तं यथाबलम्
- निषण्णमाजानुसमे पीठे सोपाश्रये समम् १०९
- स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम्
- ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ११०
- पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम्
- शनैः शनैर्घृताभ्यक्तं विदध्यादङ्गुलानि षट् १११
- मेढ्रयामसमं केचिदिच्छन्ति प्रणिध्याच
- ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ११२
- ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः
- भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ११३
- अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा
- ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ११४
- सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम्
- त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ११५
- गर्भाशयविशुर्द्ध्य्थं स्नेहेन द्विगुणेन तु
- क्वाथप्रमाणं प्रसृतं स्त्रिया द्विप्रसृतं भवेत् ११६
- कन्येतरस्याः कन्यायास्तद्वद्बस्तिप्रमाणकम्
- अप्रत्यागच्छति भिषग् बस्तावुत्तरसंज्ञिते ११७
- भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः
- गुदे वर्तिं निदध्याद्वा शोधनद्र व्यसंभृताम् ११८
- प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम्
- पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ११९
- आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च
- कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः १२०
- मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु
- बस्तेरागमनार्थाय ता निदध्याच्छलाकया १२१
- आगारधूमबृहतीपिप्पलीफलसैन्धवैः
- कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः १२२
- अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत्
- शर्करामधुमिश्रेण शीतेन मधुकाम्बुना १२३
- दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः
- क्षीरवृक्षकषायेण पयसा शीतलेन च १२४
- शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रे कं तस्य नाशं च कष्टम्
- मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः १२५
- शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च
- घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः १२६
- सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
- बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना १२७
- इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ३७
38
- अष्टत्रिंशत्तमोऽध्यायः
- अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अथानुवासितमास्थापयेत् स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढा-यामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितर प्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठि-कानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं तु विवृता-स्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदम सङ्कुचितमवातमौषधासन्नमुपसंगृह्य पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत् ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वाऽवेष्ट्य बध्नीयात् अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गु-लिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारं पिधाय घृताभ्यक्तग्रानेत्रं घृता-क्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात्
- ३
- बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्
- एकेनैवावपीडेन न द्रुतं न विलम्बितम् ४
- ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् अथातुरमुपवेशयेदुत्कुटुकं बस्त्यागमनार्थम्
- निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति ५
- अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः
- द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ६
- सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत्
- विशेषात् सुकुमाराणां हीन एव क्रमो हितः ७
- अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम्
- यस्य स्याद्बस्तिरल्पोऽल्पवेगो हीनमलानिलः ८
- दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान्
- यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते ९
- तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता
- यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः १०
- लाघवं चोपजायेत सुनिरूढं तमादिशेत्
- सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ११
- पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
- सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः १२
- त्रिभागहीनमर्धं वा हीनमात्रमथापि वा
- यथाग्निदोषं मात्रेयं भोजनस्य विधीयते १३
- अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना
- विविक्ततामनस्तुष्टिः स्निग्धता व्याधिनिग्रहः १४
- आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्
- तदहस्तस्य पवनाद्भयं बलवदिष्यते १५
- रसौदनस्तेन शस्तस्तदहश्चानुवासनम्
- पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् १६
- अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते
- अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् १७
- तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः
- विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् १८
- शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत्
- न तु भुक्तवतो देयमास्थापनमिति स्थितिः १९
- विसूचिकां वा जनयेच्छर्दिं वाऽपि सुदारुणाम्
- कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने २०
- जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः
- निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः २१
- नवाऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति
- तस्मादास्थापनं देयं निराहाराय जानता २२
- आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम्
- मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते २३
- क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा
- लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा २४
- एला त्रिकटुकं रास्ना सरलो देवदारु च
- रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च २५
- कटुका शर्करा मुस्तमुशीरं चन्दनं शटी
- मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् २६
- बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः
- काकोली क्षीरकाकोली जीवकर्षभकावुभौ २७
- तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका
- निरूहेषु यथालाभमेष वर्गो विधीयते २८
- स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः
- क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः २९
- सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः
- क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ३०
- युक्त्या प्रकल्पयेद्धीमान् निरूहेकल्पना त्वियम् ३१
- कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः
- बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत् ३२
- दत्त्वाऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्
- पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं शनैः शनैः ३३
- सम्यक् सुमथिते दद्यात् फलकल्कमतः परम्
- ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ३४
- गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च
- यथा वा साधु मन्येत न सान्द्रो न तनुः समः ३५
- रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु
- कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ३६
- अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः
- दत्त्वाऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
- विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ३७
- एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
- संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम् ३८
- वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्
- एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ३९
- ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम्
- अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम् ४०
- यथावयो निरूहाणां कल्पनेयमुदाहृता
- सैन्धवादिद्र वान्तानां सिद्धिकामैर्भिषग्वरैः ४१
- अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः
- यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ४२
- शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः
- पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः ४३
- क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः
- कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः ४४
- वत्साह्वयप्रिंयङूग्रायष्ट्याह्वयरसाञ्जनैः
- दद्यादास्थापनं कोष्णं क्षौद्रा द्यैरभिसंस्कृतम् ४५
- पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम्
- ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ४६
- गुडूचीत्रिफलारास्नादशमूलबलापलैः
- क्वथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ४७
- शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः
- सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः ४८
- क्षौद्र तैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः
- समालोड्य च मूत्रेण दद्यादास्थापनं परम् ४९
- तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम्
- सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ५०
- कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः
- सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः ५१
- पालिकैः क्वथितैः सम्यग् द्र व्यैरेभिश्च पेषितैः
- शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः ५२
- विदारीमिसिमञ्जिष्ठाश्यामेन्द्र यवसिन्धुजैः
- फलपद्मकयष्ट्याह्वैः क्षौद्र क्षीरघृताप्लुतैः ५३
- दत्तमास्थापनं शीतमम्लहीनैस्तथा द्र वैः
- दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत् ५४
- रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः
- सारिवावृषकाश्मर्यमेदामधुकपद्मकैः ५५
- स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः
- पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः ५६
- प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः
- अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः ५७
- कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः
- द्र वैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः ५८
- गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान्
- असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान् ५९
- भद्रा निम्बकुलत्थार्ककोशातक्यमृतामरैः
- सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः ६०
- क्वाथः कल्कस्तु कर्तव्यो वचामदनसर्षपैः
- सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ६१
- कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः
- कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ६२
- मेदस्विनामनग्नीनां कफरोगाशनद्विषाम्
- गलगण्डागरग्लानिश्लीपदोदररोगिणाम् ६३
- दशमूलीनिशाबिल्वपटोलत्रिफलामरैः
- क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ६४
- पाठामागधिकेन्द्रा ह्वैस्तैलक्षारमधुप्लुतैः
- कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः ६५
- कफपाण्डुगदालस्यमूत्रमारुतसंगिनाम्
- आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् ६६
- वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः
- दशमूलबलामूर्वायवकोलनिशाच्छदैः ६७
- कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसंमितैः
- कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः ६८
- पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः
- क्षौद्रे क्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः ६९
- तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम्
- गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् ७०
- रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः
- त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः ७१
- सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः
- यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्र यवाह्वयैः ७२
- रसाञ्जनरसक्षौद्र द्रा क्षासौवीरसंयुतैः
- युक्तो बस्तिः सुखोष्णोऽय मांसशुक्रबलौजसाम् ७३
- आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान्
- गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ७४
- विषमज्वरमर्शांसि ग्रहणीं वातकुण्डलीम्
- जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान् ७५
- वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः
- रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ७६
- वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः
- साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ७७
- न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः
- विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ७८
- आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः
- सक्षौद्र मूत्रा देयाः स्युर्बस्तयः कुपिते कफे ७९
- शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः
- क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः ८०
- शोधनद्र व्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः
- युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः ८१
- त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुताः
- ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः ८२
- बृंहणद्र व्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः
- सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः ८३
- चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः
- आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ८४
- बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः
- क्षीरसिद्धाः क्षौद्र युताः सास्राः पिच्छिलसंज्ञिताः ८५
- वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम्
- सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ८६
- प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः
- सक्षौद्रा ः! सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ८७
- एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक्
- समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ८८
- वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम्
- बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च ८९
- नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत्
- मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ९०
- एवं कालं बलं दोषं विकारं च विकारवित्
- बस्तिद्र व्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ९१
- दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः
- पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः ९२
- एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
- हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ९३
- शताह्वा मधुकं बीजं कौटजं फलमेव च
- सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ९४
- प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
- सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ९५
- नृपाणां तत्समानानां तथा सुमहतामपि
- नारीणां सुकुमाराणां शिशुस्थविरयोरपि ९६
- दोषनिर्हणार्थाय बलवर्णोदयाय च
- समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ९७
- यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते
- फलं च विपुलं दृष्टं व्यापदां चाप्यसंभवः ९८
- योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता
- यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ९९
- मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः
- पलार्धं शतपुष्पायास्ततोऽध सैन्धवस्य च १००
- फलेनैकेन संयुक्तः खजेन च विलोडितः
- देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः १०१
- वचामधुकतैलं च क्वाथः सरससैन्धवः
- पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः १०२
- सुरदारु वरा रास्ना शतपुष्पा वचा मधु
- हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः १०३
- पञ्चमूलीकषायं च तैलं मागधिका मधु
- बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः १०४
- यवकोलकुलत्थानां क्वाथो मागधिका मधु
- ससैन्धवः सयष्ठ्याह्वः सिद्धबस्तिरिति स्मृतः १०५
- मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः
- मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान् १०६
- पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम्
- जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् १०७
- क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम्
- पादेन जाङ्गलरसस्तथा मधुघृतं समम् १०८
- शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः
- कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः १०९
- वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत्
- विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ११०
- बल्यः संजीवनो वृष्यश्चक्षुष्यः शूलनाशनः
- यापनानामयं राजा बस्तिर्मुस्तादिको मतः १११
- अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित्
- बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि ११२
- अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत्
- आहाराचारिकं शेषमन्यत् कामं समाचरेत् ११३
- यस्मान्मधु च तैलं च प्राधान्येन प्रदीयते
- माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ११४
- रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते
- यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ११५
- बलोपचयवर्णानां यस्माद् व्याधिशतस्य च
- भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ११६
- सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः
- मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः ११७
- मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात्
- एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ११८
- इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं नामाष्टत्रिंशोऽध्यायः ३८
39
- एकोनचत्वारिंशत्तमोऽध्यायः
- अथात आतुरोपद्र वचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः
- निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ३
- सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति
- अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ४
- स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते
- काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः ५
- हृतदोषप्रमाणेन सदाऽहारविधिः स्मृतः
- त्रीणि चात्र प्रमाणानि प्रस्थोऽधाढकमाढकम् ६
- तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे
- प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ७
- द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते
- विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ८
- दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्
- अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ९
- अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम्
- ततस्तु कृतसंज्ञेन हृद्येनेन्द्रि यबोधिना १०
- त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु
- ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः ११
- लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः
- हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः १२
- एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम्
- कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् १३
- पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः
- वेदनालाभनियमशोकवैचित्त्यहेतुभिः १४
- नरानुपोषितांश्चापि विरिक्तवदुपाचरेत्
- आढकार्धाढकप्रस्थसंख्या ह्येषा विरेचने १५
- श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः
- एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन १६
- बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा
- तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् १७
- द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा
- केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु १८
- संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत्
- प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः १९
- स्वाद्वम्ललणान् भूयः स्वादुतिक्तावतः परम्
- स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः २०
- केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम्
- स सप्तरात्रं मनुजो भुज्जीत लघु भोजनम् २१
- कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम्
- स ना परिहरेन्मासं यावद्वा बलवान् भवेत् २२
- त्र्! यहं त्र्! यहं परिहरेदेकैकं बस्तिमातुरः
- तृतीये तु परीहारे यथायोगं समाचरेत् २३
- तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः
- स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये २४
- क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्र वान्
- आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति २५
- मैथुनोपगमाद्घोरान् व्याधीनाप्नोति दुर्मतिः
- आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च २६
- गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ
- रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते २७
- लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान्
- प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् २८
- मोहं सदनमङ्गानामविपाकं तथाऽरुचिम्
- तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति २९
- उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम्
- आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा ३०
- हनुमोक्षमधीमन्थमर्दितं च सुदारुणम्
- नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ३१
- लभते दन्तचालं च तांस्तांश्चान्यानुपद्र वान्
- यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान् ३२
- तथैवाङ्गग्रहं घोरमिन्द्रि याणां च विभ्रमम्
- चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना ३३
- अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः
- सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ३४
- शीतसंभोगतोयानां सेवा मारुतवृद्धये
- ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ३५
- वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात्
- विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ३६
- असात्म्यभोजनं हन्याद्बलवर्णमसंशयम्
- अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
- रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ३७
- व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्
- प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ३८
- विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः
- सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम् ३९
- इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्र वचिकित्सितं नामैकोनचत्वारिंशोऽध्यायः ३९
40
- चत्वारिंशत्तमोऽध्यायः
- अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- धूमः पञ्चविधो भवति तद्यथाप्रायोगिकः स्नैहिको वैरेचनिकः कासघ्नो वामनीयश्चेति ३
- तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डमङ्गुलिप-रिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके स्नेहफलसा-रमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नहेमिश्रैः स्नैहिके शिरोविरेचनद्र व्यैर्वै-रेचने बृहतीकण्टकारिकात्रि कटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छिन्न-रुहाकर्कट शृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये ४
- तत्र बस्तिनेत्रद्र व्यैर्धूमनेत्रद्र व्याणि व्याख्यातानि भवन्ति धूमनेत्रं तु कनिष्ठि-कापरिणाहमग्रे कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतोऽङ्गु-लान्यष्टचत्वारिंशत् प्रायोगिके द्वात्रिंशत् स्नेहने चतुर्विंशतिर्वैरेचने षोडशा-ङ्गुलं कासर्नघे वामनीये च एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति ५
- अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रि तः स्नेहाक्तदीप्ताग्रां वर्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ६
- मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत्
- मुखपीतं मुखेनैव वमेत् पीतं च नासया ७
- मुखेन धूममादाय नासिकाभ्यां न निर्हरेत्
- तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते ८
- विशेषतस्तु प्रायोगिकं घ्राणेनाददीत स्नैहिकं मुखना
- साभ्यां नासिकया वैरेचनिकं मुखेनैवेतरौ ९
- तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात् एवं स्नेहनं वैरेचनिकं च कुर्या-दिति इतरयोर्व्यपेतधूमाङ्गरो स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं मूलच्छि-द्रे णान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्यधूममासेवेत प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेः एष धूमपानोपायविधिः १०
- तत्रशोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालु-शोषच्छर्दिशिरोऽभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बाल-वृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्क मधु घृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन् ११
- अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम्
- घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् १२
- आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः तद्यथाक्षुतदन्तप्रक्षालननस्य-स्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चारहसितरुषितशस्त्रकर्मान्तेष्विति तत्र विभागोमूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः स्नानच्छर्दनदिवास्व-प्नान्तेषु वैरेचनिकः दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक
- इति १३
- तत्र स्नैहिको वातं शमयति स्नेहादुपलेपाच्च वैरेचनः श्लेष्माणमुत्क्लेश्याप-कर्षति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात पूर्वाभ्यामिति १४
- भवति चात्र
- नरो धूमोपयोगाच्च प्रसन्नेन्द्रि यवाङ्मनाः
- दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः १५
- तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथु क्रथतन्द्रा -निद्रा हनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य
- मुखरोगा न भवन्ति १६
- तस्य योगायोगातियोगा विज्ञातव्याः तत्र योगो रोगप्रशमनः अयोगो रोगा-प्रशमनःतालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णक्ष्वेडदृष्टिनासारोगदौ
- र्बल्यान्यतियोगो जनयति १७
- प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च पर्यायांस्त्रींश्चतुरो वेति स्नैहिकं यावदश्रुप्रवृत्तिः वैरेचनिकमादोषदर्शनात् तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः ग्रासान्तरेषु कासघ्न इति १८
- व्रणधूमं शरावसंपुटोपनीतेन नेत्रेण व्रणमानयेत् धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति १९
- विधिरेष समासेन धूमस्याभिहितो मया
- नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः २०
- औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् तद्द्विविधं शिरोविरेचनं स्नेहनं च तदिद्ववविधमपि पञ्चधा तद्यथानस्यं शिरोविरेचनं प्रतिमर्शो अवपीडः प्रधमनं च तेषु नस्यं प्रधानं शिरोविरेचनं च नस्यवि-कल्पः प्रतिमर्शः शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च ततो नस्यशब्दः
- पञ्चधा नियमितः २१
- तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं दृष्टिप्रसाद-जननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः तत्तु देयं वाता-भिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुण कर्णशूल कर्णक्षवेडतिमिरस्वरोप-घातनासा रोगास्यशोषाव बाहुकाकाल जबलीपलितप्रादुर्भावदारुणप्रबोधेषुवातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्र व्यसिद्धेन स्नेहेनेति २२
- शिरोविरेचनंश्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरवशूलपी-नसार्धावभेदककृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषुचोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्र व्यैस्तत्सिद्धेन वा स्नेहेनेति २३
- तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां मध्याह्ने पित्तरोगिणां अपराह्णे वातरोगिणाम् २४
- अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे काले दन्त-काष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणितापपरिस्विन्न मृदितगलकपोल-ललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिने प्रसारितकर चरणाय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामि-तनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तंरजतसुवर्ण-ताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नओति २५
- स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत्
- न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा २६
- एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते
- ततः कासप्रतिश्यायशिरोऽक्षिगदसंभवः २७
- तस्य प्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा द्वितीया शुक्तिः तृतीयापाणिशुक्तिः इत्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः २८
- स्नेहनस्यं नोपगिलेत्कथंचिदपि बुद्धिमान्
- शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा
- कफोत्क्लेशभयाच्चैनं निष्ठीवेदनिधारयन् ३०
- दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत रजोधूमस्नेहातपमद्यद्र वपानशिरः स्नानातियानक्रोधादीनि च परिहरेत् ३१
- तस्य योगातियोगायोगानामिदं विज्ञानं भवति ३२
- लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम्
- विकारोपशमः शुद्धिरिन्द्रि याणां मनःसुखम् ३३
- कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः
- लक्षणं मूÞर्यतिस्निग्धे रूक्षं तत्रावचारयेत् ३४
- अयोगे वातवैगुण्यमिन्द्रि याणां च रूक्षता
- रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ३५
- चत्वारो बिन्दवः षड् वा तथाऽष्टौ वा यथाबलम्
- शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ३६
- नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः
- शुद्धइ!द्धिहिई!नातिसंज्ञानि विशेषाच्छास्त्रचिन्तकैः ३७
- लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः
- चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ३८
- कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः
- मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् ३९
- मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
- शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ४०
- हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
- सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ४१
- इ!एकान्तरं द्वयन्तरं वा सप्ताहं वा पुनः पुनः
- एकविंशतिरात्रं वा यावद्वा साधु मन्यते ४२
- मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः
- द्विकालं चापि दातव्यं नस्यं तस्य विजानताइ! ४३
- अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरो विरे च-नद्र व्याणामन्यतममवपिष्यावपीड्य च शर्करेक्षुरसक्षीरघृतमांसरसाना मन्यतमं क्षीणानां शोणितपित्ते च विदध्यात् ४४
- कृशदुर्बलभीरूणां सुकुमारस्य योषिताम्
- शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथाहितः ४५
- चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ४६
- नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणीपीतस्नेहो-दकमद्यद्र वोऽजीर्णीदत्तबस्तिः कुद्धो गरार्तस्तृषितः शोकाभिभूतः श्रान्तो बा-लो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चएति अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् ४७
- तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च ४८
- भवतश्चात्र
- नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः
- दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ४९
- दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः
- अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ५०
- प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः तद्यथातल्पोत्थितेन प्रक्षालितदन्तेन मूत्रोच्चारकवलाञ्जनान्ते भुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायं चेति ५१
- तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं मलमुपह-न्ति मनःप्रसादं च करोति प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वदनसौ-गन्ध्यं चापादयति गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिछ्ननतया र-जोधूमो वा न बाधते व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति मू-त्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति कवलाञ्जनान्ते सेवितो दृष्टिं प्रसाद-यति भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति वान्तेनासेवितः स्रतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति दिवास्वप्नोत्थितेनासे-वितो निद्रा शेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यंजनयति सायं चासेवितः
- सुखनिद्रा प्रबोधं चेति ५२
- ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते
- नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ५३
- नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः
- इन्द्रि याणां च वैमल्यं कुर्यादास्यं सुगन्धि च ५४
- हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम्
- वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम् ५५
- तैलं कफे सवाते स्यात् केवले पवने वसाम्
- दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ५६
- चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः
- श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते ५७
- अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम्
- चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ ५८
- स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
- पित्ते कट्वम्ललवणै रूक्षोष्णैः शोधनः कफे ५९
- कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे
- चतुर्विधस्य चैवास्य विशेषोऽय प्रकीर्तितः ६०
- तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूना-मन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत्
- ६१
- सुखं संचार्यते या तु मात्रा ससिआ!किवलः स्मृतः
- असंचार्या तु या मात्रा गण्डूषः स प्रकीर्तितः ६२
- तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्चभवति तदा विमोक्तव्यः पुनश्चान्यो ग्रहीतव्य इति ६३
- एवं स्नेहपयःक्षौद्र रसमूत्राम्लसंभृताः
- कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ६४
- व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
- इन्द्रि याणां प्रसादश्च कवले शुद्धिलक्षणम् ६५
- हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च
- अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ६६
- शोधनीये विशेषेण भवन्त्येव न संशयः
- तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ६७
- सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः
- कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ६८
- विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम्
- कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ६९
- अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम्
- तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् ७०
- तानेव शमयेद् व्याधीन् कवलो यानपोहति
- दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ७१
- इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रह चिकित्सितं नाम चत्वारिंशोऽध्यायः ४०
- इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुत संहितायां चिकित्सास्थानं समाप्तम्