सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय ३१-३५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

31

एकत्रिंशत्तमोऽध्यायः
अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्नेहसारोऽय पुरुषः प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति स्नेहो हिपा-नानुवासनमस्तिष्कशिरोबस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः ३
तत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च
तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं स्थावरेभ्यस्तिलतैलं प्रधानमिति ४
अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामःतत्र तिल्व-कैरण्डकोशाम्रदन्तीद्र वन्तीसप्तलाशङ्खिनी पलाशविषाणिकाग वाक्षीकम्पि-ल्लकश म्पाकनीलिनीस्नेहा विरेचयन्ति जीमूतककुटजकृतवेधनेक्षवाकु-धामार्गवमदनस्नेहा वामयन्ति विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसि-द्धार्थकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति करञ्जपूतीककृतमालमातुलुङ्गे-ङ्गुदीकिराततिक्तकस्नेहा दुष्टव्रणेषूपयुज्यन्ते तुवरककपित्थकम्पिल्लकभ-ल्लातकपटोलस्नेहा महाव्याधिषु त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु कपोतवङ्कावल्गुज हरीतकीस्नेहाः शर्कराश्मरीषु कुसुम्भसर्षपात-सीपिचुमर्दातिमुक्त कभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु तालनारिकेल-पनसमोचप्रियाल बिल्वमधूकश्लेषमातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ बिभीतक भल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे श्रवणकङ्गुकटु-ण्टुकस्नेहाः पाण्डूकरणे सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिभेषु
सर्व एव स्नेहा वातमुपघ्नन्ति तैलगुणाश्च समासेन व्याख्याताः ५
अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः तत्र केचिदाहुः त्वक्पत्रफलमू-लादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषा-यपाककल्पः स्नेहप्रसृतेषु षट्सु चतुर्गुणं द्र वमावाप्य चतुरश्चाक्षसमान् भेष-जपिणडानित्येष स्नेहपाककल्पः एतत्तु न सम्यक् कस्मात् आगमासिद्धत्वात् ६
पलकुडवादीनामतो मानं तु व्याख्यास्यामः तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः ते षोडश सुवर्णम् अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं तान्यर्धतृतीयानि कर्षः ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढक-द्रो णा इत्यभिनिष्पद्यन्ते तुला पुनः पलशतं ताः पुनर्विंशतिर्भारः शुष्काणामिदं मानम् आर्द्र द्र वाणां च द्विगुणमिति ७
तत्रान्यतमपरिमाणसंमितानां यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशो-षितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगु-णेन षोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयि-त्वाऽपहरेदित्येष कषायपाककल्पः स्नेहाच्चतुर्गुणो द्र वः स्नेहचतुर्थांशो भेष-जकल्कः तदैकध्यं संसृज्य विपचेदित्येष स्नहेपाककल्पः अथवा तत्रोदक-द्रो णे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्क्वाथ्यापहरे-दित्येष कषायपाककल्पः स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्र वमावाप्य विपचेदित्येष स्नेहपाककल्पः ८
भवतश्चात्र
स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम्
तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु ९
अनुक्ते द्र वकार्ये तु सर्वत्र सलिलं मतम्
कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् १०
अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः स तु त्रिविधः तद्यथामृदुः मध्यमः खर इति तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति मधूच्छिष्टमिव विश-दमविलेपि यत्र भेषजं स मध्यमः कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति अत ऊर्ध्वं दग्धस्नेहो भवति तं पुनः साधुसाधयेत् तत्र पानाभ्यवहारयोर्मृदुः नस्याभ्यङ्गयोर्मध्यमः बस्तिकर्णपूरण योस्तु खर इति
११
भवतश्चात्र
शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा
गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत् १२
घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक्
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् १३
अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामःअथ खलु लघुकोष्ठायातुराय कृतमङ्गल-स्वस्तिवाचनायोदयगिरिशिखरसंस्थितेप्रतप्तकन कनिकरपीत लोहितेसवि-तरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् पीतमात्रे चोषणोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत् १४
रूक्षक्षतविषार्तानां वातपित्तविकारिणाम्
हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते १५
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये १६
व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः १७
क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः
मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम् १८
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
देयं बहुकफे चापि व्योषक्षारसमायुतम् १९
दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च
युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः २०
स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले
अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् २१
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा २२
वातपित्ताधिकस्योष्णे तृण्मूर्च्छोन्मादकारकः
शीते वातकफार्तस्य गौरवारुचिशूलकृत् २३
स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् २४
दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत्
या मात्रा परिजीर्येत चतुर्भागगतेऽहनि २५
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता
या मात्रा परिजीर्येत तथाऽधदिवसे गते २६
सा वृष्या बृंहणी या च मध्यदोषे च पूजिता
या मात्रा परिजीर्येत चतुर्भागावशेषिते २७
स्नेहनीया च सा मात्रा बहुदोषे च पूजिता
या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि २८
ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत्
अहोरात्रादसंदुष्टा या मात्रा परिजीर्यति २९
सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी
यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः ३०
पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम्
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति ३१
विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत्
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने
जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ३२
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा
स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः ३३
परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम्
यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ३४
देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ
कृतौ वाऽत्यल्पसर्पिष्कौ विलेपी वा विधीयते ३५
पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा
सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः ३६
सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा
तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत् ३७
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः
पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ३८
भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता
प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ३९
सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला
सुखोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते ४०
पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा
वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते ४१
शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम्
दुग्ध्वा क्षीरं पिबेद्रू क्षः सद्यःस्नेहनमुच्यते ४२
यवकोलकुलत्थानां क्वाथो मागधिकान्वितः
पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ४३
सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम्
राज्ञे राजसमेभ्यो वा देयमेतद्घृतोत्तमम् ४४
बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु
अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ४५
विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी
दुर्बलोऽरोचकी स्थूलो मूर्च्छार्तो मदपीडितः ४६
छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ४७
अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ४८
स्नेहपानाद्भवन्त्येषां नृणां नानाविधा गदाः
गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ४९
गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः
स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ५०
दशरात्रात्ततः स्नेहं यथावदवचारयेत्
पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ५१
उरो विदहते वायुः कोष्ठादुपरि धावति
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ५२
सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता
ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम्
सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च ५३
भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका
पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लणक्षम् ५४
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ५५
दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः
दृढेन्द्रि यो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेत्तु ५६
स्नेहो हितो दुर्बलवह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य
बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ५७
इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ३१

32

द्वात्रिंशत्तमोऽध्यायः
अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विधः स्वेदः तद्यथातापस्वेद ऊष्मस्वेद उपनाहस्वेदो द्र वस्वेद इति अत्र
सर्वस्वेदविकल्पावरोधः ३
तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते शयानस्य
चाङ्गतापो बहुशः खादिराङ्गारैरिति ४
ऊष्मस्वेदस्तुकपालपाषाणेष्टकालो हपिण्डानग्निवर्णानद्भिरासिञ्चेदम्ल द्र व्यै-र्वा तैराद्रा र्ल!क्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् मांसरसपयोदधिस्नेहा न्या-म्लवातहरपत्रभङ्गक्वाथपूर्णां वा कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात् पा-र्श्वच्छिद्रे ण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रे हस्तिशुणडाकारां नाडीं प्रणिधाय तं स्वेदयेत् ५
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम्
सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ६
व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः
स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका ७
पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः
काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ८
पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः
पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ९
पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्ट
स्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत् १०
कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके
शयानं प्रावृत्य स्वेदयेतेवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत् ११
उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत् एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीस-र्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः
स्वेदयेत् १२
द्र वस्वेदस्तु वातहरद्र व्यक्वाथपूर्णे कोष्णकटाहे द्रो ण्यां वाऽवगाह्य स्वेदयेत् एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत एतैरेव सुखोष्णैः
कषायैश्च परिषिञ्चेदिति १३
तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ उपनाहस्वेदो वातघ्नः अन्यतरस्मिन्
पित्तसंसृष्टे द्र वस्वेद इति १४
कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः
स्वेदमुत्पादयेदिति १५
भवन्ति चात्र
चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते
सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा १६
येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम्
शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः १७
पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्र वा
सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता १८
स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा
अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे १९
नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविधिः कथञ्चित्
दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम् २०
स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः
सम्यक् स्वेदैर्योजितैस्ते द्र वत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् २१
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्
कुर्यात् स्वेदो हन्ति निद्रा ं! सतन्द्रा ं! सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः २२
स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य
सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव २३
स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः
मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम् २४
पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः
तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योऽतिसारी २५
स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः
स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ २६
एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान्
मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु २७
सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत्
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी २८
स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत्
सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः २९
स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम्
भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत् ३०
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ३२

33

त्रयस्त्रिंशत्तमोऽध्यायः
अथातो वमनविरेचनसाध्योपद्र वचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषाः क्षीणा बृंहयितव्याः कुपिताः प्रशमयितव्याः
वृद्धा निर्हर्तव्याः समाः परिपाल्या इति सिद्धान्तः ३
प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषाणाम् तस्मात्तयोर्विधानमुच्यमानमुपधारय ४
अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययिताऽस्मीतिसंभोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च ५
भवति चात्र
पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः
स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते ६
अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्र व्यकषायकल्कचूर्णस्नेहा नामन्य-तमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य असात्म्यबीभ-त्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात अतो विपरीतानि विरेचनानि तत्र सुकुमारं कृशंबालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्र-यवागूनामन्यतममाकण्ठं पाययेत् पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात् ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनो-पविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीग-न्धर्वहस्तोत्पलनालानामन्यतमेन कणठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति ७
भवतश्चात्र
कफप्रसेकं हृदयाविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः
पित्तातियोगं च विसंज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ८
पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ९
सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनां
धूमानामन्यतमं सामर्थ्यतः पाययित्वाऽचारिकमादिशेत् १०
भवन्ति चात्र
ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम्
कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ११
कासोपलेपस्वरभेदनिद्रा तन्द्रा स्यदौर्गन्ध्यविषोपसर्गाः
कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् १२
छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति
तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति १३
न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान्
स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् १४
स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालान्
ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिनिरूहितांश्च १५
अवम्यवमनाद्रो गाः कृच्छ्रतां यान्ति देहिनाम्
असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः १६
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना १७
वाम्यास्तुविषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामे-दोमे हगरज्वरारुच्यपच्यामातीसारहृद्रो गचित्तविभ्रमविसर्पविद्र ध्यजीर्णमुख-प्रसेकहृ ल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाककर्णस्रवाधिजि-ह्वोपजिह्विका गलशुण्डिकाधः शोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये
च कफव्याधिपरीता इति १८
विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयमवान्तस्य हि सम्यग्विरिक्त-स्यापि सतोऽध स्रस्तः श्लेष्मा ग्रहणीं छादयति गौरवमापादयति प्रवाहिकां
वा जनयति १९
अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत् फलाम्लमुष्णो-दकं चैनमनुपाययेत् अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत् २०
तत्र मृदुः क्रूरो मध्यम इति त्रिविधः कोष्ठ भवति तत्र बहुपित्तो मृदुः स दु-ग्धेनापि विरिच्यते बहुवातश्लेष्मा क्रूरः स दुर्विरेच्यः समदोषो मध्यमः स साधारण इति तत्र मृदौ मात्रा मृद्वी तीक्ष्णा क्रूरे मध्ये मध्या कर्तव्येति पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते २१
विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः
निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् २२
यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण
गच्छन्ति एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति २३
भवन्ति चात्र
हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते
मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् २४
गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ
गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् २५
मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयाम्
क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च २६
बुद्धेः प्रसादं बलमिन्द्रि याणां धातुस्थिरत्वं बलमग्निदीप्तिम्
चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम् २७
यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः
पित्ते हृते त्वेवमुपद्र वाणां पित्तात्मकानां भवति प्रणाशः २८
मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् २९
नवप्रतिश्यायमदात्ययी च नवज्वरी या च नवप्रसूता
शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ३०
अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम्
विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ३१
विरेच्यास्तुज्वरगरारुच्यर्शोऽबुदोदरग्रन्थिविद्र धिपाण्डुरोगापस्मारहृद्रो ग वा-तरक्तभगन्दरच्छर्दियोनिरोगविसर्पगुल्मपक्वाशयरुग्विबन्धविसूचि कालस-कमूत्रा घातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धि शस्त्र क्षतक्षाराइग्नद-ग्धदुष्टव्रणाक्षिपाक काचतिमिरा भिष्यन्दशिरः कर्णाक्षिनासास्यगुदमेढ्रदा-होर्ध्वरक्तपित्तकृमि कोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति ३२
सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम्
वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा ३३
यात्यधो दोषमादाय पच्यमानं विरेचनम्
गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वं वमनं पुनः ३४
मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम्
न सम्यङ्निर्हरेद्दोषानतिवेगप्रधावितम् ३५
पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे
पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते ३६
दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः
हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ३७
हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा
चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ३८
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैघृतैः
सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत् ३९
स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात्
निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम् ४०
न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम्
दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु ४१
विषाभिघातपिडकाशोफपाण्डुविसर्पिणः
नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः ४२
विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत्
तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः ४३
प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु
ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः ४४
सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम्
व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ४५
स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत्
दारु शुष्कमिवानामे देहस्तस्य विशीर्यते ४६
स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः
दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः ४७
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्र वचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ३३

34

चतुस्त्रिंशत्तमोऽध्यायः
अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते तत्र वमनस्याधो ग-तिरूर्ध्वं विरेचनस्येति पृथक् सामान्यमुभयोःसावशेषौषधत्वं जीर्णौषधत्वं हीनेदोषापहृतत्वं वातशूलम् अयोगो अतियोगो जीवादानम् आध्मानं परिकर्तिका परिस्रावः प्रवाहिका हृदयोपसरणं विबन्ध अङ्गप्रग्रह इति ३
तत्र बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्ठस्य चावतिष्ठमानं दुर्वमस्य वा गु-णसामान्यभावाद्वमनमधो गच्छति तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च तमाशु
स्नेहयित्वा भूयस्तीक्ष्णतरैर्वामयेत् ४
अपरिशुद्धामाशयस्योत्क्लिष्टश्लेष्मणः सशेषान्नस्य वाऽहृद्यमतिप्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति तत्रेप्सितानवाप्तिर्दोषोक्लेशश्च तत्राशुद्धामाशयमु-ल्बणश्लेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरेचयेत् आमान्वये त्वामवत् संविधानम् अहृद्येऽतिप्रभूते च हृद्यं प्रमाणयुक्तं च अत ऊर्ध्वमुत्तिष्ठत्यौषधे न
तृतीयं पाययेत् ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्विरेचयेत् ५
दोषविग्रथितमल्पमौषधमवस्थितमूर्ध्वभागिकमधोभागिकं वा न स्रंसयति दोषान् तत्र तृष्णा पार्श्वशूलं छर्दिर्मूर्च्छा पर्वभेदो हृल्लासोऽरतिरुद्गाराविशु-द्धिश्च भवति तमुष्णाभिरद्भिराशु वामयेदूर्ध्वभागिके अधोभागिकेऽपि च सावशेषौषधमतिप्रधावितदोषमतिबलमसम्यग्विरिक्तलक्षणमप्येवं वामयेत्
क्रूरकोष्ठस्यातितीक्ष्णाग्नेरल्पमौषधमल्पगुणं वा भक्तवत् पाकमुपैति तत्र स-मुदीर्णा दोषा यथाकालमनिर्ह्रीयमाणा व्याधिविभ्रमं बलविभ्रंशं चापादयन्ति तमनल्पममन्दमौषधं च पाययेत् ७
अस्निग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान् दोषान् हन्ति तत्र वमने दोषशेषो गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधिवृद्धिं च करोति तत्र तं यथा-योगं पाययित्वा वामयेद्दृढतरां विरेचने तु गुदपरिकर्तनमाध्मानं गिरोगौरव-मनिः सरणं वा वायोर्व्याधिवृद्धिअं च करोति तमुपपाद्य भूयः स्नेहस्वेदाभ्यां
विरेचयेद्दृढतरं दृढं बहुप्रचलितदोषं वा तृतीये दिवसेऽल्पगुणं चेति ८
अस्निग्धस्व्न्नेन रूक्षौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोपयति तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्यामर्मशूलं मूर्च्छां भ्रमं मदं संज्ञानाशं च करोति तं वातशूलमित्याचक्षते तमभ्यज्य धान्यस्वेदेन स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत् ९
स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीतमूर्ध्वमधो वा नाभ्येति दोषांश्चोत्क्लेश्य तैः सह बलक्षयमापादयति तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति तमयोगमित्याचक्षते तमाशुवामयेन्मदनफल-लवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषायैश्च दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति तत-स्तानशेषान्महौषधेनापहरेत् अस्निग्धस्विन्नस्य दुर्विरिक्तस्याधोनाभेः स्तब्ध-पूर्णोदरता शूलं वातपुरीषसङ्गः कण्डूमण्डलप्रादुर्भावो वा भवति तमास्था-प्य पुनः संस्नेह्य विरेचयेत्तीक्ष्णेन नातिप्रवर्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणितापैश्च पार्श्वोदरमुपस्वेदयेत् ततः प्रव-र्तन्ते दोषाः अनुप्रवृत्ते चाल्पदोषे जीर्णौषधं बहुदोषमहः शेषं बलं चावेक्ष्य भूयो मात्रां विदध्यात् अप्रवृत्तदोषं दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नहेस्वेदा-भ्यां भूयः शोधयेत् दुर्विरेच्यमास्थाप्य पुनः संस्नेह्य विरेचयेत् ह्रीभयलो-भैर्वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति तस्मादेते दुर्विरेच्याः बहुवातत्वात् अत एव तानतिस्निग्धान् स्वेदोपपन्नाञ्
शोधयेत् १०
स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्ठस्य वाऽतितीक्ष्णमधिकं वा दत्तमौषधम-तियोगं कुर्यात् तत्र वमनातियोगे पित्तातिप्रवृत्तिर्बलविस्रंसो वातकोपश्च बलवान् भवति तं घृतेनाभ्यज्यावगाह्य शीतास्वप्सु शर्करामधुमिश्रैर्लेहैरुप-चरेद्यथास्वां विरेचनातियोगे कफस्यातिप्रवृत्तिरुत्तरकालं च सरक्तस्य तत्रापि बलविस्रंसो वातकोपश्च बलवान् भवति तमतिशीताम्बुभिः परिषिच्याव-गाह्य वा शीतैस्तण्डुलाम्बुभिर्मधुमिश्रैश्छर्दयेत् पिच्छाबस्तिं चास्मै दद्यात् क्षीरसर्पिषा चैनमनुवासयेत् प्रियङ्ग्वादिं चास्मै तण्डुलाम्बुना पातुं प्रयच्छेत् क्षीररसयोश्चान्यतरेण भोजयेत् ११
तस्मिन्नेव वमनातियोगे प्रवृद्धे शोणितंष्ठीवतिछर्दयति वा तत्र जिह्वानिः स-रणमपसरणमक्ष्णोर्व्यावृत्तिर्हनुसंहननं तृष्णा हिक्का ज्वरो वैसंज्ञ्यमित्युपद्र वा भवन्ति तमजासृक्चन्दनोशीराञ्जलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत् फ-लरसैर्वासघृतक्षौद्र शर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रा ं! वर्चो-ग्राहिभिर्वा पयसा जाङ्गलरसेन वा भोजयेत् अतिस्रुतशोणितविधानेनोपचरेत् जिह्वामतिसर्पितां कटुकलवणचूर्णप्रघृष्टां तिलद्रा क्षाप्रलिप्तां वाऽन्त पीडयेत् अन्तः प्रविष्टायामम्लमन्ये तस्य पुरस्तात् खादयेयुः व्यावृत्ते चाक्षिणी घृता-भ्यक्ते पीडयेत् हनुसंहनने वातश्लेष्महरं नस्यं स्वेदांश्च विदध्यात् तृष्णादिषु
च यथास्वं प्रतिकुर्वीत विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत् १२
विरेचनातियोगे च सचन्द्र कं सलिलमधः स्रवति ततो मांसधावनप्रकाश-मुत्तरकालं जीवशोणितं च ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्र वाश्चास्य भवन्ति तमपि निःस्रुतशोणितविधानेनोपचरेत् निःसर्पितगुदस्य गुदमभ्यज्य परिस्वेद्यान्तः पीडयेत् क्षुद्र रोगचिकित्सितं वा वीक्षेत वेपथौ वातव्याधि-विधानं कुर्वीत जिह्वानिःसरणादिषूक्तः प्रतीकारः अतिप्रवृत्ते वा जीवशोणिते काश्मरीफलबदरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जनयुक्तेन सुशीतेना-स्थापयेत् न्यग्रोधादिकषायेक्षुरसघृतशोणितसंसृष्टैश्चैनं बस्तभिरुपाचरेत् शो-णितष्ठीवने रक्तपित्तरक्तातीसारक्रियाश्चास्य विदध्यात् न्यग्रोधादिं चास्य
विदध्यात् पानभोजनेषु १३
जीवशोणितरक्तपित्तयोश्च जिज्ञासार्थं तस्मिन् पिचुं प्लोतं वा क्षिपेत् यद्यु-ष्णोदकप्रक्षालितमपि वस्त्रं रञ्जयति तज्जीवशोणितमवगन्तव्यं सभक्तं च शुने दद्याच्छक्तुसंमिश्रं वा स यद्युपभुञ्जीत तज्जीवशोणितमवगन्तव्यम् अन्यथा
रक्तपित्तमिति १४
सशेषान्नेन बहुदोषेण रूक्षेणानिलप्रायकोष्ठेनानुष्णमस्निग्धं वा पीतमौषध-माध्मापयति तत्रानिलमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्गो गुदबस्तिनि-स्तोदनं भक्तारुचिश्च भवति तं चाध्मानमित्याचक्षत्! तमुपस्वेद्यानाहवर्तिदीपनबस्तिक्रियाभिरुपचरेत् १५
क्षामेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वाऽतितीक्ष्णोष्णातिलवणमतिरूक्षं वा पीतमौषधं पित्तानिलौ प्रदूष्य परिकर्तिकामापादयति तत्र गुदनाभिमेढ्र-बस्तिशिरःसु सदाहं परिकर्तनमनिलसङ्गो वायुविष्टम्भो भक्तारुचिश्च भवति तत्र पिच्छाबस्तिर्यष्टीमधुककृष्णतिलकल्कमधुघृतयुक्तः शीताम्बुपरिषिक्तं
चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वाऽनुवासयेत् १६
क्रूरकोष्ठस्यातिप्रभूतदोषस्य मृद्वौषधमवचारितं समुत्क्लिश्य दोषान्न निःशे-षानपहरति ततस्ते दोषाः परिस्रावमापादयन्ति तत्र दौर्बल्योदरविष्टम्भारु-चिगात्रसदनानि भवन्ति सवेदनौ चास्य पित्तश्लेष्माणौ परिस्रवतः तं परि-स्रावमित्याचक्षते तमजकर्णधवतिनिशपलाशबलाकषायैर्मधुसंयुक्तैरास्थापयेत् उपशान्तदोषं स्निग्धं च भूयः संशोधयेत् १७
अतिरूक्षेऽतिस्निग्धे वा भेषजमवचारितमप्राप्तं वातवर्च उदीरयति वेगाघा-तेन वा तदा प्रवाहिका भवति तत्र सवातं सदाहं सशूलं गुरु पिच्छिलं श्वेतं कृष्णं सरक्तअं वा भृशं प्रवाहमाणः कफमुपविशति तां परिस्रावविधानेनोपचरेत् १८
यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्योपसरणं हृदि कुर्वन्ति दोषाः तत्र प्रधानमर्मसन्तापाद्वेदनाभिरत्यर्थं पीड्यमानो दन्तान् किटकिटा-यते उद्गताक्षो जिह्वां खादति प्रताम्यत्यचेताश्च भवति तं परिवर्जयन्ति मूर्खाः तमभ्यज्य धान्यस्वेदेन स्वेदयेत् यष्टिमधु कसिद्धेन च तैलेनानुवासयेत् शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात् ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना
छर्दयेत् यथादोषोच्छ्रायेण चैनं बस्तिभिरुपाचरेत् १९
यस्तूर्ध्वमधो वा प्रवृत्तदोषः शीतागारमुदकमनिलमन्यद्वा सेवेत तस्य दोषाः स्रोतःस्ववलीयमाना घनीभावमापन्ना वातमूत्रशकृद्ग्रहमापाद्य विबध्यन्ते तस्याटोपो दाहो ज्वरो वेदनाश्च तीव्रा भवन्ति तमाशु वामयित्वा प्राप्तकालां क्रियां कुर्वीत अधोभागे त्वधोभागदोषहरद्र व्यं सैन्धवाम्लमूत्रसंसृष्टं विरेच-नाय पाययेत् आस्थापनमनुवासनं च यथादोषं विदध्यात् यथादोषमाहारक्रमं च उभयतोभागे तूपद्र वविशेषान् यथास्वं प्रतिकुर्वीत २०
या तु विरेचने गुदपरिकर्तिका तद्वमने कण्ठक्षणनं यदधः परिस्रवणं स ऊर्ध्वभागे श्लेष्मप्रसेकः या त्वधः प्रवाहिका सा तूर्ध्वं शुष्कोद्गारा इति २१
भवति चात्र
यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः
एता विरेकातियोगदुर्योगायोगजाः स्मृताः २२
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनव्याप च्चिकित्सितं नाम चतुस्त्रिंशोऽध्यायः ३४

35

पञ्चत्रिंशत्तमोऽध्यायः
अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः कस्मात् अनेक-कर्मकरत्वाद्बस्तेः इह खलु बस्तिर्नानाविधद्र व्यसंयोगाद्दष्णां संशोधनसंश-मनसंग्रहणानि करोति क्षीणशुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्शयति
चक्षुः प्रीणयति वलीपलितमपहन्ति वयः स्थापयति ३
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ४
तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैका-ङ्गसर्वाङ्गरोगाध्मानोदरयोनिशूलशर्कराशूलवृद्ध्य्पुदंशानाहमूत्रकृच्छ्रगुल्म-वातशोणितवातमूत्रपुरीषोदावर्तशुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्म-रीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ५
भवति चात्र
बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते
संसर्गे सन्निपाते च बस्तिरेव हितः सदा ६
तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामि-कामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टक-र्णिकानि कङ्कशयेनबर्हिणपक्षनाडीतुल्यप्रवेशानिमुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि तेषु चास्थापनद्र व्यप्रमाणमातुरहस्तसंमितेन प्रसृतेन संमितौ
प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः ७
वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि
वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ८
पश्चविंशतेरूर्ध्वं द्वादशाङ्गुलं मूलेऽङ्गुष्ठोदरपरीणाहम् अग्रेकनिष्ठिकोदर परी-णाहम् अग्रे त्र्! यङ्गुलसन्निविष्टकर्णिकं गृध्रपक्षनाडींतुल्यप्रवेशं कोलास्थिमा-त्रछिद्रं इक्लन्नकलायमात्रछिद्र मित्येके सर्वाणि मूले बस्तिनिबन्धनार्थं द्विक-र्णिकानि आस्थापनद्र व्यप्रमाणं तु विहितं द्वादशप्रसृताः सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव द्र व्यप्रमाणं तु द्विरष्टवर्षवत् ९
मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः
तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी १०
व्रिणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत
११
तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि
दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च १२
बस्तयश्च बन्ध्या मृदवो नातिवहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् १३
नेत्रालाभे हिता नाडी नलवंशास्थिसंभवा
बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् १४
बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम्
मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् १५
नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम्
बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् १६
परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत्
आस्थापनं च तैलं च यथावत्तेन दापयेत् १७
तत्र द्विविधो बस्तिःनैरूहिकः स्नैहिकश्च आस्थापनं निरूह इत्यनर्थान्तरं त-स्य विकल्पोमाधुतैलिकः तस्य पर्यायशब्दो यापनो युक्तरथः सिद्धबस्तिरि-ति स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः वयः स्थापनादायुःस्थापनाद्वा
आस्थापनम् माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादावपिकिऋ!ष्टः
अनुवसन्नपिन दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः
तस्यापि विकल्पोऽधार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति १८
निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः
निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति १९
अपेतसर्वदोषासु नाडीष्विव वहज्जलम्
सर्वदोषहरश्चासौ शरीरस्य च जीवनः
तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते २०
तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शः पाण्डुरोगभ्रममदमूर्च्छाच्छर्दि कु-ष्ठमेहोदरस्थौल्यश्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः २१
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः
अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन २२
असाध्यता विकाराणां स्यादेषामनुवासनात्
असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् २३
पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः
सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति २४
पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति
वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् २५
स चापि सहसा बस्तिः केवलः समलोऽपि वा
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते २६
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्
पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव २७
स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य संचयान्
उत्खातमूलान् हरति दोषाणां साधुयोजितः २८
दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः
तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः २९
वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया
पवनाविद्धतोयस्य वेला वेगमिवोदधेः ३०
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ३१
अत ऊर्ध्वं व्यापदो वक्ष्यामः तत्र नेत्रं विचलितं विवर्तितं पार्श्वावपीडितम् अत्युत्क्षिप्तम् अवसन्नं तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः अतिस्थूलं क-र्कशम् अवनतं अणुभिन्नं सन्निकृष्टविप्रकृष्टकर्णिकं सूक्ष्मातिच्छिद्र म् अति-दीर्घम् अतिह्रस्वम् अस्रिमदित्येकादश नेत्रदोषाः बहलता अल्पता सच्छि-द्र ता प्रस्तीर्णता दुर्बद्धतेति पञ्च बस्तिदोषाः अतिपीडितता शिथिलपीडितता भूयो भूयोऽवपीडनं कालातिक्रम इति चत्वारः पीडनदोषाः आमता हीनता अतिमात्रता अतिशीतता अत्युष्णता अतितीक्ष्णता अतिमृदुता अतिस्निग्धता अतिरूक्षता अतिसान्द्र ता अतिद्र वता इत्येकादश द्र व्यदोषाः अवाक्शीर्षो-च्छीर्षन्युब्जोत्तान सङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः आतुरनिमित्ताः प-ञ्चदश आतुरोपद्र वचिकित्सिते वक्ष्यन्ते स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः अशनाभिभूतो मलव्यामिश्रो दूरानुप्रविष्टो अस्वि-न्नस्य अनुष्णो अल्पम्भुक्तवतो अल्पश्चेति वैद्यातुरनिमित्तआ भवन्ति अयोग-स्तूभयोः आध्मानं परिकर्तिका परिस्रावः प्रवाहिका हृदयोपसरणम् अङ्गप्रग्रहो अतियोगो जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ३२
भवति चात्र
षट्सप्ततिः समासेन व्यापदः परिकीर्तिता
तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ३३
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभाग चिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ३५