सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय २६-३०

विकिस्रोतः तः

26

षड्विंशतितमोऽध्यायः
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कल्यस्योदग्रवयसो वाजीकरणसेविनः
सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः ३
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम्
योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम् ४
विलासिनामर्थवतां रूपयौवनशालिनाम्
नृणां च बहुभार्याणां योगा वाजीकरा हिताः ५
सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान्
नारीस्तर्पयते तेन वाजीकरणमुच्यते ६
भोजनानि विचित्राणि पानानि विविधानि च
वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ७
यामिनी सेन्दुतिलका कामिनी नवयौवना
गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ८
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम्
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ९
द्वेष्यस्त्रीसंप्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम्
कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः १०
सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम्
अतिव्यवायशीलो यो न च वाजीर्किंयारतः ११
ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम्
महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः १२
क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम्
जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम् १३
बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः
षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम् १४
असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत्
साध्यानामितरेषां तु कार्यो हेतुविपर्ययः १५
विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम्
तिलमाषविदारीणां शालीनां चूर्णमेव वा १६
पौण्ड्रकेक्षुरसैराद्र रं! मर्दितं सैन्धवान्वितम्
वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत् १७
तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम्
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् १८
शिशुमारवसापक्वाः शष्कुल्यस्तैस्तिलैः कृताः
यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् १९
पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि
साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् २०
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा
चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत् २१
तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः
नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम् २२
विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम्
सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति २३
एवमामलकं चूर्णं स्वरसेनैव भावितम्
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् २४
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति
पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते २५
शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम्
कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् २६
महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः
अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः २७
पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति
विदारिमूलकल्कं तु शृतेन पयसा नरः २८
उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते
माषाणां पलमेकं तु संयुक्तं क्षौद्र सर्पिषा २९
अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः
क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह ३०
शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत्
नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् ३१
पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत्
यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम् ३२
स्वयंगुप्तेक्षुरकयोः फलचूर्णं सशर्करम्
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ३३
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते
शतावर्युच्चटाचूर्णं पेयमेवं बलार्थिना
स्वयंगुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः ३४
गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य
खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम् ३५
माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्र घृतोपपन्नाम्
पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ३६
गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम्
यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु ३७
क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः
वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् ३८
एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः
सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया ३९
इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं नाम षड्विंशोऽध्यायः २६

27

सप्तविंशतितमोऽध्यायः
अथातः सर्वोपघातशमनीयं रसायनं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम्
प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ३
नाविशुद्धशरीरस्य युक्तो रासायनो विधिः
न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः ४
शरीरस्योपघाता ये दोषजा मानसास्तथा
उपदिष्टाः प्रदेशेषु तेषां वक्ष्यामि वारणम् ५
शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः ६
तत्र विडङ्गतण्डूलचूर्णमाहृत्य यष्टीमधुकमधुयुक्तं यथाबलं शीततोयेनोपयु-ञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातकक्वाथेन वा मधुद्रा क्षाक्वाथयुक्तं वा मध्वामलकरसाभ्यां वा गुडूचीक्वाथेन वा एवमेते पञ्च प्रयोगा भवन्ति जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतवन्तमोदन-मश्नीयात् एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारणशक्तिं जनयन्ति मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति ७
विडङ्गतण्डुलानां द्रो णं पिष्टपचने पिष्टवदुपस्वेद्य विगतकषायं स्विन्नमवतार्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तरं प्रावृषि भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात् वर्षाविगमे चोद्धत्य्पसंस्कृतशरीरः सहस्रसंपाताभिहुतं कृत्वा प्रातःप्रातर्यथाबलमुपयुञ्जीत जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदन मश्नीयात् पांशुशय्यायां शयीत तस्य मासादूर्ध्वं सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति तानणुतैलेनाभ्यक्तस्य वंशविदलेनापहरेत् द्वितीये पिपीलिका-स्तृतीये यूकास्तथैवापहरेत् चतुर्थे दन्तनखरोमाण्यवशीर्यन्ते पञ्चमे प्रशस्त-गुण लक्षणानि जायन्ते अमानुषं चादित्यप्रकाशं वपुरधिगच्छति दूराच्छ्रव-णानि दर्शनानिचास्य भवन्ति रजस्तमसी चापोह्य सत्त्वमधितिष्ठति श्रुतनि-गाद्यपूर्वोत्पादी गजबलोऽश्वजवः पुनर्युवाऽष्टौ वर्षशतान्यायुरवाप्नोतितस्या-णुतैलमभ्यङ्गार्थे अजकर्णकषायमुत्सादनार्थे सोशीरं कूपोदकं स्नानार्थे चन्दनमुपलेपनार्थे भल्लातकविधानवदाहारः परिहारश्च ८
काश्मर्याणां निष्कुलीकृतानामेष एव कल्पः पांशुशय्याभोजनवर्जां अत्र हि पयसा शृतेन भोक्तव्यं समानमन्यत् पूर्वेणाशिषश्च शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः ९
यथोक्तमागारं प्रविश्य बलामूलार्धपलं पलं वा पयसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः एवं द्वादशरात्रमुपयुज्य द्वादश वर्षाणि वयस्ति-ष्ठति एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति एवमेवातिबलानागब-लाविदारीशतावरीणामुपयोगः विशेषतस्त्वति बलामुदकेन नागबलाचूर्णं मधुना विदारीचूर्णं क्षीरेण शतावरीमप्येवं पूर्वेणान्यत् समानमाशिषश्च समाः एतास्त्वौषधयो बलकामानां शोषिणां रक्तपित्तपोसृष्टानां शोणितं छर्दयतां
विरिच्यमानानां चोपदिश्यन्ते १०
वाराहीमूलतुलाचूर्णं कृत्वा ततो मात्रां मधुयुक्तांपयसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः प्रतिषेधोऽत्र पूर्ववत् प्रयोगमिममुपसेवमानो वर्ष-शतमायुरवाप्नोति स्त्रीषु चाक्षयताम् एतेनैव चूर्णेन पयोऽवचूर्ण्य शृतशीतम-भिमथ्याज्यमुत्पाद्य मधुयुतमुपयुञ्जीत सायंप्रातरेककालं वा जीर्णे पयः सर्पिरोदन इत्याहारः एवं मासमुपयुज्य वर्षशतायुर्भवति ११
चक्षुःकामः प्राणकामो वा बीजकसाराग्निमन्थमूलं निष्क्वाथ्य माषप्रस्थं साधयेत् तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामलकरस चतुर्थभागं ततः स्विन्नमवतार्य सहस्रसंपाताभिहुतं कृत्वा शीतीभूतं मधुस र्पिर्भ्यां संसृज्योपयुञ्जीत यथाबलं यथासात्म्यं च लवणं परिहरन् भक्षयेत् जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्र-यम् एवमाभ्यां प्रयोगाभ्यां चक्षुः सौपर्णं भवत्यनल्पबलः स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति १२
भवति चात्र
पयसा सह सिद्धानि नरः शणफलानि यः
भक्षयेत् पयसा सार्धं वयस्तस्य न शीर्यते १३
इति सुश्रुतसंहितायां चिकित्सास्थाने सर्वोपघातशमनीयं रसायनचिकित्सतं नाम सप्तविंशोऽध्यायः २७

28

अष्टाविंशतितमोऽध्यायः
अथातो मेधायुष्कामीयं रसायनचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मेधायुः कामः श्वेतावल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृ-त्वा गुडेन सहालोड्य स्नेहकुम्भे सप्तरात्रं धान्यराशौ निदध्यात् सप्तरात्रादु-द्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्ये उष्णोदकं चानुपिबेत् भल्लातकविधानवच्चागारप्रवेशः जीर्णौषधश्चापराह्णे हिमाभिरद्भिः परिषिक्त-गात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणौदनमश्नीयात् एवं षण-मासानुपयुज्य विगतपाप्मा बलवर्णोपेतः श्रुतनिगादी स्मृतिमानरोगो वर्षश-तायुर्भवति कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्धप-लिकं पिण्डं विगतलौहित्ये सवितरि पाययेत् पराह्णे चालवणेनामलकयूषेण सर्पिष्मन्तमोदनमश्नीयात् एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति एष एवोपयोगश्चित्रकमूलानां रजन्याश्च चित्रकमूले विशेषो द्विपलिकं पिण्डं
परं प्रमाणं शेषं पूर्ववत् ३
हृतदोष एव प्रतिसंसृष्टभक्तो यथाक्रममागारं प्रविश्य मण्डूकपर्णीस्वरसमा-दाय सहस्रसंपाताभिहुतं कृत्वा यथाबलं पयसाऽलोड्य पिबेत् पयोऽनुपानं वा तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयेत्त्रीन् मासान् पयोऽनुपानं जीर्णे पयः सर्पिरोदन इत्याहारः एवमुपयुञ्जानो ब्रह्मवर्चसी श्रुत-निगादी भवति वर्षशत मायुर वाप्नोति त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्-त्रिरात्रादूर्ध्वं पयः सर्पिरिति चोपयुञ्जीत बिल्वमात्रं पिण्डं वा पयसाऽलोड्य पिबेत् एवं द्वादशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति ४
हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो ब्राह्मीस्वरसमादाय सहस्रसंपाता भिहुतं कृत्वा यथा बलमुपयुञ्जीत जीर्णौषधश्चापराह्णे यवागूमलवणां पिबेत् क्षीरसात्म्यो वा पयसा भुञ्जीत एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भ-वति द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति नष्टं चास्य प्रादुर्भवति तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमप्यवधारयति एवमेकविंशतिरात्रमु-पयुज्यालक्ष्मीरपक्रामति मूर्तिमती चैनं वाग्देव्यनुप्रविशति सर्वाश्चैनं श्रुतय
उपतिष्ठन्ति श्रतुधरः पञ्चवर्षशतायुर्भवति ५
ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचामृत-योर्द्वादश हरीतक्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयि-त्वास्वनुगुप्तं निदध्यात् ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत जीर्णे प-यः सर्पिरोदन इत्याहारः पूर्ववच्चात्र परीहारः एतेनोर्ध्वमधस्तिर्यक् कृमयो निष्क्रमन्ति अलक्ष्मीरपक्रामति पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्ष-शतायुर्भवति एतदेवकुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमादिशन्ति ६
हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं प-यसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः एवं द्वादशरात्र मुपयु-ञ्जीत ततोऽस्य श्रोत्रं विव्रियते द्विरभ्यासात् स्मृतिमान् भवति त्रिरभ्यासा-च्छरुतमादत्ते चतुर्द्वादशरात्रमुपयुज्य सर्वं तरति किल्बिषं तार्क्ष्यदर्शनमुत्प-द्यते शतायुश्च भवति द्वे द्वे पले इत रस्या वचाया निष्क्वाथ्य पिबेत् पयसा
समानं भोजनं समाः पूर्वेणाशिषश्च ७
वचाशतपाकं वा सर्पिद्रो र्ण!मुपयुज्य पञ्चवर्षशतायुर्भवति गलगण्डापचीश्लीपदस्वरमेदांश्चापहन्तीति ८
अत ऊर्ध्वं प्रवक्ष्यामि आयुष्कामरसायनम्
मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम् ९
बिल्वस्य चूर्णं पुष्ये तु हुतं वारान् सहस्रशः
श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने १०
सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम्
त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने ११
प्राश्नीयात् पयसा सार्धं स्नात्वा हुत्वा समाहितः
दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् १२
हुत्वा बिसानां क्वाथं तु मधुलाजैश्च संयुतम्
अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम् १३
सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः
गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् १४
नीलोत्पलदलक्वाथो गव्येन पयसा शृतः
ससुवर्णस्तिलैः सार्धमलक्ष्मीनाशनः स्मृतः १५
गव्यं पयः सुवर्णं च मधूच्छिष्टं च माक्षिकम्
पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् १६
वचाघृतसुवर्णं च बिल्वचूर्णमिति त्रयम्
मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम् १७
वासामूलतुलाक्वाथे तैलमावाप्य साधितम्
हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते १८
यावकांस्तावकान् खादेदभिभूय यवांस्तथा
पिप्पलीमधुसंयुक्तान् शिक्षा चरणवद्भवेत् १९
मध्वामलकचूर्णानि सुवर्णमिति च त्रयम्
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् २०
शतावरीघृतं सम्यगुपयुक्तं दिने दिने
सक्षौद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे २१
गोचन्दना मोहनिका मधुकं माक्षिकं मधु
सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता २२
पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते
सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् २३
पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे
अलक्ष्मीघ्नं सदाऽयुष्यं राज्याय सुभगाय च २४
यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने
शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् २५
पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम्
कुर्युर्नागबलं चापि मनुष्यममरोपमम् २६
सतताध्ययनं वादः परतन्त्रावलोकनम्
तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गुगिणिः २७
आयुष्यं भोजनं जीर्णे वेगानां चाविधारणम्
ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम् २८
इति सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कामीयं रसायनं नामाष्टाविंशोऽध्यायः २८

29

एकोनत्रिंशत्तमोऽध्यायः
अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ब्रह्मादयोऽसृजन् पूर्वममृतं सोमसंज्ञितम्
जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ३
एक एव खलु भगवान् सोमः स्थान नामाकृतिवीर्यविशेषैश्चतुर्विंशतिधा
भिद्यते ४
तद्यथा
अंशुमान् मुञ्जवांश्चैव चन्द्र मा रजतप्रभः
दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ५
प्रतानवांस्तालवृन्तः करवीरॐऽशवानपि
स्वयंप्रभो महासोमो यश्चापि गरुडाहृतः ६
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा
अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ७
गायत्र्! या त्रिपदा युक्तो यश्चोडुपतिरुच्यते
एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ८
सर्वेषामेव चैतेषामेको विधिरुपासने
सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ९
अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशस्ते देशे त्रिवृत-मागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमु हूर्तनक्ष-त्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरागारे कृतमङ्गल-स्वस्तिवाचनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृह्णीयात् सौवर्णे राजते वा पात्रेऽञ्जलिमात्रं ततः सकृदेवोपयुञ्जीत नास्वादयन् तत उपस्पृश्य शेष-मप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् १०
रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः
आसीत तिष्ठेत् क्रामेच्च न कथंचन संविशेत् ११
सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरु-पास्यमानः शयीत तृषितो वा शीतोदकमात्रां पिबेत् अशनायितो वा क्षीरं ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत तस्य जीर्णे सोमे छर्दिरुत्पद्यते ततः शोणिताक्तं कृमिव्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत् ततस्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्यते स तेनानिष्टप्रतिग्रह-भुक्तप्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत् क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत् ततश्चतुर्थेहनितस्य श्वयथुरुत्पद्यते ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति तदहश्च शय्यायां पांशु-भिरवकीर्यमाणः शयीत ततः सायं पूर्ववदेव क्षीरं वितरेत् एवं पञ्चमषष्ठयो-र्दिवसयोर्वर्तेत केवलमुभयकालमस्मै क्षीरं वितरेत् ततः सप्तमेऽहनि निर्मां-सस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति तदहश्च क्षीरेण सुखो-ष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं पयः पाययेत् ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तअं चन्दनप्रदिग्धगात्रं पयः पाययित्वा पांशुशय्यां समु-त्सृज्य क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् ततोऽस्य मांसमाप्याय्यते त्वक् चावदलति दन्तनखरोमाणि चास्य पतन्ति तस्य नवमदिवसात् प्रभृत्यणुतै-लाभ्यङ्गः सोमवल्ककषायपरिषेकः ततोदशमेऽहन्येतदेव वितरेत् ततोऽस्य त्वक् स्थिरतामुपैति एवमेकादशद्वादशयोर्वर्तेत ततस्त्रयोदशात् प्रभृति सो-मवल्ककषायपरिषेकः एवमाषोडशाद्वर्तेत ततः सप्तदशाष्टादशयो र्दिवस-योर्दशना जायन्ते शिखरिणः स्निग्धवज्रवैदूर्यस्फटिकप्रकाशाः समाः स्थि-राः सहिष्णवः तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत या-वत् पञ्चविंशतिरिति ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा ततोऽस्य नखा जायन्ते विद्रुमेन्द्र गोपकतरुणादित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसं-पन्नाः केशाश्च सूक्ष्मा जायन्ते त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा ऊ-र्ध्वं च मासात् केशान् वापयेत् वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत् ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुञ्चिताः स्थिराः स्निग्धाः ततस्त्रिरात्रात् प्रथमावसथपरिस-रान्निष्क्रम्य मुहूर्तं स्थित्वा पुनरेवान्तः प्रविशेत् ततोऽस्य बलातैलमभ्यङ्गार्थे-ऽवचार्यं यवपिष्टमुद्वर्तनार्थे सुखोष्णं च पयः परिषेकार्थे अजकर्णकषायमु-त्सादनार्थेसोशीरं कूपोदकं स्नानार्थे चन्दनमनुलेपार्थे आमलकरसविमिश्रा-श्चास्य यूषसूपविकल्पाः क्षीरमधुकसिद्धं च कृष्णतिलमवचारणार्थे एवं द-शरात्रां ततोऽन्यद्दशरात्रं द्वितीये परिसरे वर्तेत ततस्तृतीये परिसरेस्थिरीकुर्व-न्नात्मा नमन्यद्दशरात्रमासीत किञ्चिदातपपवनान् वा सेवेत पुनश्चान्तः प्रवि-शेत् न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात् ततोऽन्यद्दशरात्रं
क्रोधादीन् परिहरेत् एवं सर्वेषामुपयोगविकल्पः विशेषतस्तु वल्लीप्रतान-क्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भक्षयितव्याः तेषां तु प्रमाणमर्धचतुष्कमुष्टयः १२
अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात् चन्द्र मसं राजते तावुपयुज्याष्टगुणमैश्वर्यम-वाप्येशानं देवमनुप्रविशति शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते शूद्र वर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः ततश्चतुर्थे मासे पौर्णमास्यां
शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति १३
ओषधीनां पतिं सोममुपयुज्य विचक्षणः
दशवर्षसहस्राणि नवां धारयते तनुम् १४
नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च
तस्यालमायुःक्षपणे समर्थानि भवन्ति हि १५
भद्रा णां षष्टिवर्षाणां प्रस्रुतानामनेकधा
कुञ्जराणां सहस्रस्य बलं समधिगच्छति १६
क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि
यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः १७
कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः
प्रह्लादयति भूतानां मनांसि स महाद्युतिः १८
साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः
चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् १९
सर्वेषामेव सोमानां पत्राणि दश पञ्च च
तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च २०
एकैकं जायते पत्रं सोमस्याहरहस्तदा
शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः २१
शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः
कृष्णपक्षक्षये चापि लता भवति केवला २२
अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः
कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः २३
चन्द्र माः कनकाभासो जले चरति सर्वदा
गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ २४
सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ
तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते २५
सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः
क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः २६
हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा
श्रीपर्वते देवगिरौ गिरौ देवसहे तथा २७
पारियात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा
उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः २८
पञ्च तेषामधो मध्ये सिन्धुनामा महानदः
हठवत् प्लवते तत्र चन्द्र माः सोमसत्तमः २९
तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्र कमानसम् ३०
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा
अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ३१
यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः
न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः ३२
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायनचिकित्सितं नामैकोनत्रिंशोऽध्यायः २९

30

त्रिंशत्तमोऽध्यायः
अथातो निवृत्तसन्तापीयं रसायनं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः
तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः ३
अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन् तद्यथा अनात्मवानलसो दरिद्र ः! प्रमादी व्यसनी पापकृद् भेषजापमानी चेति सप्तभिरेव कारणैर्न संपद्यते त-द्यथा अज्ञानादनारम्भा दस्थिर चित्तत्वाद्दारिद्र य्दानायत्तत्वादधर्मादौषधालाभाच्चेति ४
अथौषधीर्व्याख्यास्यामः तत्राजगरी श्वेतकापोती कृष्णकापोती गोनसी वा-राही कन्या छत्रा अतिच्छत्रा करेणु अजा चक्रका आदित्यपर्णी ब्रह्मसुवर्चला श्रावणी महाश्रावणी गोलोमी अजलोमी महावेगवती चेत्यष्टादश सोमस-मवीर्या महौषधयो व्याख्याताः तासां सोमवत् क्रियाशीलस्तुतयः शास्त्रे-ऽभिहिताः तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडवं सकृदे-वोपयुञ्जीत यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणानि त्रीणि काण्डानि प्रमाणमुपयोगे श्वेतकापोती समूलपत्रा भक्षयितव्या गोनस्यजगरीकृषणका-पोतीनां सनखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभि-घारितमभिहुतं च सकृदेवोपयुञ्जीत चक्रकायाः पयः सकृदेव ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यकल्पने शेषाणां पञ्च पञ्च पलानि क्षीराढकक्वथि-तानि प्रस्थेऽवशिष्टेवतार्य परिस्राव्य सकृदेवोपयुञ्जीत सोमवदाहारविहारौ
व्याख्यातौ केवलं नवनीतमभ्यङ्गार्थे शेषं सोमवदानिर्गमादिति ५
भवन्ति चात्र
युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम्
कुर्युरेताः क्रमेणैव द्विसहस्रायुषं नरम् ६
अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः
चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे ७
व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः
गतिः सौषधिसिद्धस्य सोमसिद्धे गतिः परा ८
अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक्
मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी ९
पञ्चारत्निप्रमाणा च विज्ञेयाऽजगरी बुधैः
निष्पत्रा कनकाभासा मूले ह्यङ्गुलसंमिता १०
सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते
द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम् ११
द्व्यरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम्
सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम् १२
एवंरूपरसां चापि कृष्णकापोतिमादिशेत्
कृष्णसर्पस्वरूपेण वाराही कन्दसंभवा १३
एकपात्रा महावीर्या भिन्नाञ्जनसमप्रभा
छत्रातिच्छत्रके विद्याद्र क्षोघ्ने कन्दसंभवे १४
जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते
कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः १५
कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी
करेणुः सुबहुक्षीरा कन्देन गजरूपिणी १६
हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी
अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी १७
अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा
श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम् १८
चक्रकामोषधीं विद्याज्जरामृत्युनिवारिणीम्
मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः १९
आदित्यपर्णिनी ज्ञेया सदाऽदित्यानुवर्तिनी
कनकाभा जलान्तेषु सर्वतः परिसर्पति २०
सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला
अरत्निमात्रक्षुपका पत्रैर्ह्यङ्गुलसंमितैः २१
पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः
श्रावणी महती ज्ञेया कनकाभा पयस्विनी २२
श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा
गोलोमी चाजलोमी च रोमशे कन्दसंभवे २३
हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः
अथवा शङ्खपुष्प्या च समाना सर्वरूपतः २४
वेगेन महताऽविष्टा सर्पनिर्मोकसन्निभा
एषा वेगवती नाम जायते ह्यम्बुदक्षये २५
सप्तादौ सर्परूपिण्यो ह्यौषध्यो याः प्रकीर्तिताः
तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा २६
महेन्द्र रामकृष्णानां ब्राह्मणानां गवामपि
तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै २७
मन्त्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत्
अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः २८
नैवासादयितुं शक्याः सोमाः सोमसमास्तथा
पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः २९
निहितं सोमवीर्यासु सोमे चाप्योषधीपतौ
देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे ३०
दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला
आदित्यपर्णिनी ज्ञेया तथैव हिमसंक्षये ३१
दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदागमे
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्र कमानसम् ३२
करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा
गोलोमी चाजलोमी च महती श्रावणी तथा ३३
वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते
कौशिकीं सरिंत तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः ३४
क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम्
विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु ३५
मलये नलसेतौ च वेगवत्यौषधी ध्रुवा
कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः ३६
सोमवच्चात्र वर्तेत फलं तावच्च कीर्तितम्
सर्वाविचेयास्त्वोषध्यः सोमाश्चाप्यर्बुदे गिरौ ३७
स शृङ्गैर्देवचरितैरम्बुदानीकभेदिभिः
व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः ३८
गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः
गजालोडिततोयाभिरापगाभिः समन्ततः
विविधैर्धातुभिश्चित्रैः सर्वत्रैवोपशोभितः ३९
नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाऽश्रमेषु
सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते ४०
इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसंतापीयं रसायनं नाम त्रिंशोऽध्यायः ३०