सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय २१-२५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

21

एकविंशतितमोऽध्यायः
अथातः शूकदोषचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत्
कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ३
अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः
तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ४
स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान्
सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ५
कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत्
तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु ६
ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः
कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ७
बलातैलेन कोष्णेन मृदितं परिषेचयेत्
मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ८
संमूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत्
भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्र सर्पिषा ९
अवमन्थे गते पाकं भिन्ने तैलं विधीयते
धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम् १०
क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत्
जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ११
स्पर्शहान्यां हरेद्र क्तं प्रदिह्यान्मधुरैरपि
क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः १२
पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक्
उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत् १३
रसक्रिया विधातव्या लिखिते शतपोनके
पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् १४
क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत्
रक्तविद्र धिवच्चापि क्रिया शोणितजेऽबुदे १५
कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम्
शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् १६
हितं च सर्पिषः पानं पथ्यं चापि विरेचनम्
हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् १७
अर्बुदं मांसपाकं च विद्र धिं तिलकालकम्
प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् १८
इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशोऽध्यायः २१

22

द्वाविंशतितमोऽध्यायः
अथातो मुखरोगचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विधेन स्नेहेन मधुच्छिष्टयुतेन च
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ३
विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने
मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ४
श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु
यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ५
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत्
पित्तविद्र धिवच्चापि क्रियां कुर्यादशेषतः ६
शिरोविरेचनं धूमः स्वेदः कवल एव च
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ७
त्र्! यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा
क्षौद्र युक्तं विधातव्यमेतच्च प्रतिसारणम् ८
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः
प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ९
एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम्
दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते १०
शीतादे हृतरक्ते तु तोये नागरसर्षपान्
निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ११
प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम्
नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः १२
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम्
सपञ्चलवणः क्षारः सक्षौद्र ः! प्रतिसारणम् १३
हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम्
विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् १४
रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः
गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः १५
काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः
शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः १६
सक्षौद्रै ः! शस्यते लेपो गण्डूषे क्षीरिणो हिताः
सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः १७
क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम्
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः १८
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा
काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक् १९
क्षौद्र युक्तैश्च लवणैः सव्योषैः प्रतिसारयेत्
पिप्पलद्यः सर्षपाञ् श्वेतान्नागरं नैचूलं फलम् २०
सुखोदकेन संसृज्य कवलं चापि धारयेत्
घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः २१
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत्
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः २२
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
कृमिदन्तकवच्चापि विधिः कार्यो विजानता २३
छित्त्वाऽधिमांसं सक्षौद्रै रेभिश्चूर्णैरुपाचरेत्
वचातेजोवतीपाठास्वर्जिकायावशूकजैः २४
क्षौद्र द्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः
पटोलत्रिफलानिम्बकषायश्चात्र धावने
हितः शिरोविरेकश्च धूमो वैरेचनश्च यः २५
सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् २६
यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत्
छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् २७
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा
भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् २८
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम्
उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने २९
रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि
काणः संजायते जन्तुरर्दितं चास्य जायते ३०
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्
धावने जातिमदनस्वादुकण्टकखादिरम् ३१
कषायं जातिमदनकटुकस्वादुकण्टकैः
यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ३२
तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम्
कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ३३
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ३४
स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम्
रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ३५
शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः
अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ३६
लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत्
दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ३७
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ३८
तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः
भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ३९
चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च
ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ४०
तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत्
हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ४१
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ४२
साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम्
जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ४३
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम्
कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ४४
पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते
प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ४५
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ४६
गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः
पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ४७
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ४८
जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते
अङ्गुष्ठाङ्गुलिसंदंशेनाकृष्य गलशुण्डिकाम् ४९
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्
नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ५०
अत्यादानात् स्रवेद्र क्तं तन्निमित्तं म्रियेत च
हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ५१
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् ५२
मरिचातिविषापाठावचाकुष्ठकुटन्नटैः
क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ५३
वचामतिविषां पाठां रास्नां कटुकरोहिणीम्
निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ५४
इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः
पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम् ५५
ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम्
क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ५६
तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ५७
तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ५८
कीर्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते
साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ५९
छर्दनं धूमपानं च गण्डूषो नस्यकर्म च
वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ६०
सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः
पतङ्गशर्कराक्षौद्रै ः! पैत्तिकीं प्रतिसारयेत् ६१
द्रा क्षापरूषकक्वाथो हितश्च कवलग्रहे
अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ६२
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
नस्यकर्मणि योक्तव्यं तथा कवलधारणे ६३
पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ६४
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः
उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ६५
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ६६
अमर्मस्थं सुपक्वं च भेदयेद्गलविद्र धिम्
वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ६७
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः
ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ६८
शालराजादनैरण्डसारैङ्गुदमधूकजाः
मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः
श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ६९
तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः
टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ७०
एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः
कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ७१
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ७२
प्रतिसारणगण्डूषौ धूमः संशोधनानि च
कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ७३
पिबेदतिविषां पाठां मुस्तं च सुरदारु च
रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ७४
गवां मूत्रेण मनुजो भागैर्धरणसंमितैः
एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ७५
क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः
विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ७६
रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम्
असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ७७
ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः
दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ७८
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ७९
स्वरघ्नो वलयो वृन्दो विदार्यलस एव च
गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ८०
असाध्याः कीर्तिता ह्येते रोगा नव दशैव च
तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ८१
इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः २२

23

त्रयोविंशतितमोऽध्यायः
अथातः शोफानां चिकित्सतं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
षडिवधोऽवयवसमुत्थः शोफोऽभिहितो लक्षणतः प्रतीकारतश्च सर्वसरस्तु
पञ्चविधः तद्यथावातपित्तश्लेष्मसन्निपातविषनिमित्तः ३
तत्रापतर्पितस्याध्वगमनातिमात्रमभ्यवहरतो वा पिष्टान्नहरितकशाक लव-णानिक्षीणस्य वाऽतिमात्रमम्लमुपसेवमानस्य मृत्पक्वलोष्टकटशर्करानूपौद-कमांससेवनादजीर्णिनो वा ग्राम्यधर्मसेवनाद्विरुद्धहारसेवनात् वा हस्त्यश्वो-ष्ट्ररथपदातिसङ्क्षोभणादयो सितस्य दोषा धातून् प्रदूष्य श्वयथुमापादयन्त्यखिले शरीरे ४
तत्र वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः पित्तश्वयथुः पीतः सरक्तो वा मृदुः शीघ्रानुसार्यूषादयश्चात्र वेदनाविशेषाः श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी क-ण्ड्वादयश्चात्र वेदनाविशेषाः सन्निपातश्वयथुः सर्ववर्णवेदनः विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसेवनात् प्रकुथितोदकावगाहनात् सविषसत्त्वदिग्धचूर्णे-नावचूर्णनाद्वा सविषमूत्रपुरीषशुक्रस्पृष्टानां वा तृणकाष्ठादीनां संस्पर्शनात् स
तु मृदुः क्षिप्रोत्थानोऽवलम्बी चलोऽचलो वा दाहपाकरागप्रायश्च भवति ५
भवन्ति चात्र
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः
पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः ६
कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा
श्वयथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः ७
अर्धाङ्गेऽरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति
श्वासः पिपासा दौर्बल्यं ज्वरश्च्छर्दिररोचकः ८
हिक्कातीसारकासाश्च शूनं सङ्क्षपयन्ति हि
सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम् ९
शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुड
वसापयस्तैलघृतपिष्टमयगुरूणि १०
तत्र वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्ध मासं वा पाययेत् न्यग्रोधादि-ककषायसिद्धं सर्पिः पित्तश्वयथौ आरग्वधादिसिद्धं सर्पिः श्लेष्मश्वयथौ स-न्निपातश्वयथौ स्नुहीक्षीरपात्रं द्वादशभिरम्लपात्रैः प्रतिसंसृज्य दन्तीद्र वन्तीप्रतीवापं सर्पिः पाचयित्वा पाययेत् विषनिमित्तेषु कल्पेषु प्रतीकारः ११
अत ऊर्ध्वं सामान्यचिकित्सितमुपदेक्ष्यामः तिल्वकघृतचतुर्थानि यान्युक्ता-न्युदरेषु ततोऽन्यतममुपयुज्यमानं श्वयथुमपहन्ति मूत्रवर्तिक्रियां वा सेवेत न-वायसं वाऽहरहर्मधुना विडङ्गातिविषाकुटजफलभद्र दारुनागरमरिचचूर्णं वा धरणमुष्णाम्बुना त्रिकटुक्षारायश्चूर्णानि वा त्रिफलाकषायेण मूत्रं वा तुल्यक्षीरं हरीतकीं वा तुल्यगुडामुपयुञ्जीत देवदारुशुण्ठीं वा गुग्गुलुं वा मूत्रेण वर्षा-भूकषायानुपानं वा तुल्यगुडं शृङ्गवेरं वा वर्षाभूकषायं मूलकल्कं वा सशृ-ङ्गवेरं पयोऽनुपानमहरहर्मासं व्योषवर्षाभूकषायसिद्धेन वा सर्पिषामुद्गोलु-म्बान् भक्षयेत् पिप्पलीपिप्पलीमूलचव्य चित्रकमयूरकवर्षाभूसिद्धं वा क्षीरं पिबेत् सहौषधमुरङ्गीमूलसिद्धं वा त्रिकटुकैरण्डश्यामामूलसिद्धं वा वषा-र्भू!शृङ्गवेरसहादेवदारुसिद्धं वा तथाऽलाबूबिभीतकफलकल्कं वा तण्डुला-म्बुना क्षारपिप्पलीमरि चशृङ्गवेरानुसिद्धेन च मुद्गयूषेणालवणेनाल्पस्नेहेन भोजयेद्यवान्नं गोधूमान्नं वा वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथैश्च परिषेकः सर्षपसुवर्चलासैन्धवशार्ङ्गेष्टाभिश्च प्रदेहः कार्यःयथादोषं च वमनविरेचना-स्थापनानि तीक्ष्णान्यजस्रमुपसेवेत स्नेहस्वेदोपनाहांश्च सिराभिश्चाभीक्षणं
शोणितमवसेचयेदन्यत्रोपद्र वशोफादिति १२
भवति चात्र
पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च
स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु १३
इति सुश्रुतसंहितायां चिकित्सास्थाने शोथचिकित्सितं नाम त्रयोविंशोऽध्यायः २३

24

चतुर्विंशतितमोऽध्यायः
अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छा
धीमता यदनुष्ठेयं तत् सर्वं संप्रवक्ष्यते ३
तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्
कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम् ४
अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्
अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत् ५
कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः
निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ६
मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा
क्षौद्र व्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ७
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ८
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्
तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ९
वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च
न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे १०
अथास्यपाके श्वासे च कासहिक्कावमीषु च
दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीडितः ११
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः
अर्दिती कर्णशूली च दन्तरोगी च मानवः १२
जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च
तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् १३
मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्
दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् १४
क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः
भिल्लोटककषायेण तथैवामलकस्य वा १५
प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा
नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च १६
रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत्
सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा १७
मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसंभवम्
दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् १८
तेजोरूपावहं चैव सहते मारुतातपौ
न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् १९
भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः
रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च २०
कर्पूरजातीकक्कोललवङ्गकटुकाह्वयैः
सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् २१
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्
हनुदन्तस्वरमलजिह्वेन्द्रि यविशोधनम् २२
प्रसेकशमनं हृद्यं गलामयविनाशनम्
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे २३
रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्
रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् २४
शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति
केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम् २५
करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम्
सन्तर्पणं चेन्द्रि याणां शिरसः प्रतिपूरणम् २६
मधुकं क्षीरशुक्ला च सरलं देवदारु च
क्षुद्र कं पञ्चनामानं समभागानि संहरेत् २७
तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत्
सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् २८
केशप्रसाधनी केश्या रजोजन्तुमलापहा
हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम् २९
अभ्यङ्गो मार्दवकरः कफवातनिरोधनः
धातूनां पुष्टिजननो मृजावर्णबलप्रदः ३०
सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः
क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ३१
जलसिक्तस्य वर्धन्ते यथा मूलेऽङकुरास्तरोः
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ३२
सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन्
शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ३३
तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित्
तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः ३४
केवलं सामदोषेषु न कथञ्चन योजयेत्
तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ३५
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ३६
शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः
सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ३७
शरीरायासजननं कर्म व्यायामसंज्ञितम्
तत् कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ३८
शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ३९
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता
आरोग्यं चापि परमं व्यायामादुपजायते ४०
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ४१
न चैनं सहसाऽक्रम्य जरा समधिरोहति
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ४२
व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च
व्याधयो नोपसर्पन्ति सिंहं क्षुद्र मृगा इव ४३
वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम्
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ४४
विदग्धमविदग्धं वा निर्दोषं परिपच्यते
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ४५
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः
सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ४६
वलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा
हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ४७
व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्
वयोबलशरीराणि देशकालाशनानि च ४८
समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात्
क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ४९
कासशोषज्वरश्वासा अतिव्यायामसंभवाः
रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः ५०
भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत्
उद्वर्तनं वातहरं कफमेदोविलापनम् ५१
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्
सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ५२
उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम्
उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः ५३
प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्
उद्घर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ५४
ऊर्वोः संजनयत्याशु फेनकः स्थैर्यलाघवे
कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ५५
तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम्
उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ५६
निद्रा दाहश्रमहरं स्वेदकण्डूतृषापहम्
हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रि यविबोधनम् ५७
तन्द्रा पाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम्
रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ५८
उष्णेन शिरसः स्नानमहितं चक्षुषः सदा
शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ५९
श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्
काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ६०
अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम्
अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् ६१
तच्चातिसारज्वरितकर्णशूलानिलार्तिषु
आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ६२
सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम्
स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् ६३
स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम्
रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ६४
सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम्
मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाऽननम् ६५
अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्
पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ६६
नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्
यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् ६७
देवतातिथिविप्राणां पूजनं गोत्रवर्धनम्
आहारः प्रीणनः सद्यो बलकृद्देहधारकः ६८
आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः
पादप्रक्षालनं पादमलरोगश्रमापहम् ६९
चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम्
निद्रा करो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ७०
पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः
पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ७१
सुखप्रचारमोजस्यं सदा पादत्रधारणम्
अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ७२
पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्
पाप्मोपशमनं केशनखरोमापमार्जनम् ७३
हर्षलाघवसौभाग्यकरमुत्साहवर्धनम्
बाणवारं मृजावर्णतेजोबलविवर्धनम् ७४
पवित्रं केश्यमुष्णीषं वातातपरजोपहम्
वर्षानिलरजोघर्महिमादीनां निवारणम् ७५
वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्
शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ७६
श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते
सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम् ७७
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्
आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा ७८
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः
अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ७९
यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्
तदायुर्बलमेधाग्निप्रदमिन्द्रि यबोधनम् ८०
श्रमानिलहरं वृष्यं पुष्टिनिद्रा धृतिप्रदम्
सुखं शय्यासनं दुःखं पिपरीतगुणं मतम् ८१
बालव्यजनमौजस्यं मक्षिकादीनपोहति
शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः ८२
प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम्
संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम् ८३
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ८४
सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः
निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ८५
आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्
दाहवैवर्ण्यकारी च छाया चैतानपोहति ८६
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ८७
पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रि ताम्
करोति धातुसाम्यं च निद्रा काले निषेविता ८८
तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृ-द्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं तदपि न रात्रौ न केशा-स्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलि भूमिषु न विषमेन्द्र कीलचतुष्पथश्वभ्राणामुपरिष्टात् ८९
न राजद्विष्टपरुषपैशुन्यानृतानि वदेत् न देवब्राह्मणपितृपरिवादांश्च न नरेन्द्र द्विष्टोन्मत्तपतितक्षुद्र नीचानुपासीत ९०
वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत् पूर्णनदीसमुद्रा विदितपल्वलश्वभ्रकूपावतरणानि भिन्नशून्या गारश्मशान विजना-रण्यवासाग्निसंभ्रमव्यालभुजङ्गकीटसेवाश्च ग्रामाघातकल हशस्त्रसन्नि पातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च ९१
नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात् न शवमनुयायात् देवगोब्राह्म-णचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत नास्तं गच्छन्तमुद्यन्तं वाऽदित्यं वीक्षेत गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मै चि-दाचक्षीत न चोल्कापातोत्पातेन्द्र धनूंषि नाग्निंमुखेनोपधमेत् नापो भूमिं वा
पाणिपादेनाभिहन्यात् ९२
न वेगान् धारयेद् वातमूत्रपुरीषादीनाम् न बहिर्वेगान् ग्रामनगरदेवतायतन-श्मशानचतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ९३
न भूमिं विलिखेत् नासंवृतमुखः सदसि जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत्
न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् ९४
न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात् न वीजयेत् केशमु-खनखवस्त्रगात्राणि न गात्रनखवक्त्रवादित्रं कुर्यात् न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा ९५
न प्रतिवातातपं सेवेत न भुक्तमात्रोऽग्निमुपासीत नोत्कटकाल्पकाष्ठासनम-ध्यासीत न ग्रीवांविषमं धारयेत् न विषमकायः क्रियां भजेत भुञ्जीत वा न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्षमचलभ्रान्तानि न भारं शिरसां वहेत् न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घ नप्लवन प्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ९६
उचितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेत क्रमशः न चैकान्ततः पादहीनात् ९७
नावाक्शिराः शयीत न भिन्नपात्रे भुञ्जीत न विना पात्रेण नाञ्जलिपुटेनापः पिबेत् काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात् ग्रा-मगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिहरेत् शेषाण्यपि चानि-ष्टरूपरसगन्धस्पर्शशब्दमानसानि अन्यान्येवंगुणान्यपि संभ्रमदत्तानि मक्षि-काबालोपहतानि नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं निओ!द्धृतस्नेहंइ! चेति ९८
न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ९९
नामुद्गयूषं नाक्षौद्रं नोष्णं नामल कैर्विना
अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून्
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् १००
द्यूतमद्यातिसेवाप्रतिभूत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् ब्राह्मणमग्निं गां च
नोच्छिष्टः स्पृशेत् १०१
भवन्ति चात्र
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
तेषु तेषु प्रदातव्या रसास्ते ते विजानता १०२
वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया
वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् १०३
उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम्
हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः १०४
शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत्
यूषं वर्षति तस्यान्ते प्रपिबेच्छीतलं जलम् १०५
स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः
स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् १०६
पिबेदग्निविवृर्द्ध्य्थं न च वेगान् विधारयेत्
अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति १०७
प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्
कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे १०८
शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः
भुक्तं बिरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति १०९
उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः
नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम् ११०
अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः १११
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ११२
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः
त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ११३
सर्वेष्वृतुषु घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः
रजस्वलामकामां च मलिनामप्रियां तथा ११४
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ११५
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः ११६
गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च
लज्जासमावहे देशे विवृतेऽशुद्ध एव च ११७
क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः
वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ११८
तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम्
दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत् ११९
रेतसश्चातिमात्रं तु मूर्धावरणमेव च
स्थितावुत्तानशयने विशेषेणैव गर्हितम् १२०
क्रीडायामपि मेधावी हितार्थी परिवर्जयेत्
रजस्वलां प्राप्तवतो नरस्यानियतात्मनः १२१
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्
लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु १२२
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः
गर्मिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः १२३
हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते
देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् १२४
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति १२५
अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः
व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते १२६
प्रत्यूषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः
तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च १२७
उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः
उच्चारिते मूत्रिते च रेतसश्च विधारणे १२८
उत्ताने च भवेच्छीध्रं शुक्राश्मर्यास्तु संभवः
सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् १२९
शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथंचन
वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् १३०
अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम्
सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः १३१
भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च
स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु १३२
मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्
आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः १३३
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाध चिकित्सितं नाम चतुर्विंशोऽध्यायः २४

25

पञ्चविंशतितमोऽध्यायः
अथातो मिश्रकचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्निबोध तान्
परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः ३
पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः
सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्धिते ४
कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान्
कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ५
गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि
शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः ६
रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः
बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति ७
गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम्
उन्मन्थकः सकण्डूको विकारः कफवातजः ८
वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः
शोफो भवति पाकश्च त्वक्स्थोऽसौदुःखवर्धनः ९
कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः
स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः १०
कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः
लिह्यात् सशष्कुलद्यं पालद्यं परिलेहीति स स्मृतः ११
पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः
मिथ्याहारविहारस्य पालि हिंस्युरुपेक्षिताः १२
तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत्
तथाऽभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम् १३
सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति
खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः १४
सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः
सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत् १५
सक्षीराण्यथ तैः पालि प्रदिह्यात् परिपोटके
मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः १६
सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः
सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् १७
तालपत्र्! यश्वगन्धार्कबाकुचीफलसैन्धवैः
तैलं कुलीरगोधाभ्यां वसया सह पाचितम् १८
सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम्
तथाऽश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम् १९
प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः
चूर्णैरुद्वर्तनैः पालद्यं तैलाक्तामवचूर्णयेत् २०
लाक्षाविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत्
स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके २१
पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः
करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः २२
सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम्
सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् २३
पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च
पुष्ट्यर्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम् २४
लोपाकानूपमज्जानं वसां तैलं नवं घृतम्
पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम् २५
अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम्
तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत् २६
तेनाभ्यञ्ज्यात् सदा पालद्यं सुस्विन्नामतिमर्दिताम्
एनेन पाल्यो वर्धन्ते निरुजो निरुपद्र वाः २७
मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः
नीलीदलं भृङ्गरजोऽजुनत्वक् पिण्डीतकं कृष्णमयोरजश्च
बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य २८
एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन
संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सापिधाने २९
अनेन तैलं विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभवेन
आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च ३०
भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे
कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात् ३१
सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे
पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम् ३२
फलत्रयं लोहरजोऽञ्जनं च यष्ट्याह्वयं नीरजसारिवे च
पिष्ट्वाऽथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसंभवेन ३३
साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य् दशाहगुप्तम्
लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात् ३४
पक्वं च लौहैऽभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः
अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा ३५
मासोपरिष्टाद्घनकुञ्चिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः
केशास्तथाऽन्ये खलतौ भवेयुर्जरा न चैनं सहसाऽभ्युपैति ३६
बलं परं संभवतीन्द्रि याणां भवेच्च वक्त्रं वलिभिर्विमुक्तम्
नाकामिनेऽनर्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम् ३७
लाक्षा रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च
मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च ३८
हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम्
रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः ३९
मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम्
एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम् ४०
हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित्
पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम् ४१
राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च
कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च ४२
हरीतकीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम्
पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः ४३
इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशोऽध्यायः २५