सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय ०१-२०

विकिस्रोतः तः
Jump to navigation Jump to search
प्रथमोऽध्यायः
अथातो द्विव्रणीयं चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वौ व्रणौ भवतःशारीर आगन्तुश्च तयोः शारीरः पवनपित्तकफशोणितसन्नि-पातनिमित्तः आगन्तुरपि पुरुषपशुप क्षि व्यालसरी सृपप्रपतनपीडनप्रहारा-र्निगक्षारविषतीक्ष्णौषधशकलकपाल शृङ्गचक्रेषुपरशुशक्तिकुन्ताद्यायुधाभि-घातनिमित्तः तत्र तुल्ये व्रण सामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद् द्विव्रणीय इत्युच्यते ३
सर्वस्मिन्नेवागन्तुव्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं पित्तवच्छी-तक्रियावचारणविधिविशेषः सन्धानार्थं च मधुघृतप्रयोग इत्येतदिद्वकारणोत्थानप्रयोजनम् उत्तरकालं तु दोषोपप्लव विशेषाच्छारीरवत् प्रतीकारः ४
दोषोपप्लवविशेषः पुनः समासतः पञ्चदशप्रकारः प्रसरणसामर्थ्यात् यथोक्तो व्रणप्रश्नाधिकारा शुद्धत्वात् षोडशप्रकार इत्येके ५
तस्य लक्षणं द्विविधंसामान्यं वैशेषिकं च तत्र सामान्यं रुक् व्रण गात्रविचूर्णने व्रणयतीति व्रणः विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः ६
तत्र श्यावारुणाभस्तनुः शीतः पिच्छिलोऽल्पस्रावी रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुलो निर्मांसश्चेति वातात् क्षिप्रजः पीतनीलाभः किंशुकोदकाभोष्णस्रावी दाहपाकरागविकारकारी पीतपिडकाजुष्टश्चेति पि-त्तात् प्रततचण्डकण्डूबहुलः स्थूलौष्ठः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशीतसान्द्र पिच्छिलास्रावी गुरुश्चेति कफात् प्रवालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजा लोपचितस्तुरङ्गस्थानगन्धिः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात् तोददाहधूमायन-प्रायः पीतारुणाभस्तद्वर्णस्रावी चेति वातपित्ताभ्यां कण्डूयनशीलः सनिस्तो-दो रूक्षो गुरुर्दारुणो मुहुर्मुहुः शीतपिच्छि लाल्पस्रावी चेति वातश्लेष्मभ्यां गुरुः सदाह उष्णः पीतपाण्डुस्रव्! चेति पित्तश्लेष्मभ्यां रूक्षस्तनुस्तोदबहुलः सुप्त इव च रक्तारुणाभस्तद्वर्णास्रावी चेति वातशोणिताभ्यां घृतमण्डाभो मीनधावनतोयगन्धिर्मृदुर्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्यां रक्तो गुरुः स्निग्धः पिच्छिलः कणडूप्रायः स्थिरो सरक्तपाण्डुस्रावी चेति श्लेष्म-शोणिताभ्यां स्फुरणतोददाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वातपित्त-शोणितेभ्यः कण्डूस्फुरणचुमचुमायमानप्रायः पाण्डुघनरक्तास्रावी चेति वा-तश्लेष्म शोणितेभ्यः दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तास्रावी चेति पि-त्तश्लेष्मशोणितेभ्यः त्रिविधवर्णवेदनास्रावविशेषोपेतः पवन पित्तकफेभ्यः निर्दहननिर्मथनस्फुरणतोददाहपाकरागकण्डूस्वापबहुलो नानावर्णवदना-स्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः जिह्वातलाभो मृदुः स्निग्धः
श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति ७
तस्य व्रणस्य षष्टिरुपक्रमा भवन्ति तद्यथा-अपतर्पणमालेपः परिषेकोऽभ्यङ्गः स्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रवाणं सीवनं सन्धानं पीडनं शोणि-तास्थापनं निर्वापणमुत्कारिका कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रिया-ऽवचूर्णनं व्रणधू पनमुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माग्निकर्म कृष्णकर्म पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरब-स्तिकर्म बन्धः पत्रदनां कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधु सर्पिर्यन्त्रमाहारो रक्षाविधानमिति ८
तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनमिति शोधनरोपणा-नि तेष्वष्टौ शस्त्रकृत्याः शोणितास्थापनं क्षारोऽग्निर्यन्त्रमाहारो रक्षाविधानं बन्धविधानं चोक्तानि स्नेहस्वेदनवमन विरेचनबस्त्युत्तरबस्तिशिरोविरेचन-नस्यधूमकवलधा रणान्यन्यत्र वक्ष्यामः यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते ९
षडिवधः प्रागुपदिष्टः शोफः तस्यैकादशोपक्रमा भवन्त्यपतर्पणादयो विरेच-नान्ताः ते च विशेषेण शोथप्रतीकारे वर्तन्ते व्रणभावमापन्नस्य च न विरुध्यन्ते शेषास्तु प्रायेण व्रणप्रतीकारहेतव एव १०
अपतर्पणमाद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च ११
भवन्ति चात्र
दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः
अवेक्ष्य दोषं प्राणं च कार्यं स्यादपतर्पणम् १२
ऊर्ध्वमारुततृष्णाक्षुन्मुखशोषश्रमान्वितैः
न कार्यं गर्भिणीवृद्धबालदुर्बलभीरुभिः १३
शोफेषूत्थितमात्रेषु व्रणेषूग्ररुजेषु च
यथास्वैरौषधैर्लेपं प्रत्येकश्येन कारयेत् १४
यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम्
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः १५
प्रह्लादने शोधने च शोफस्य हरणे तथा
उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् १६
वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातहरौषधनिष्क्वा-थैरशीतैः परिषेकान् कुर्वीत पित्तरक्ताभिघातविषनिमित्तेषु क्षीरघृतमधुशर्क-रोदकेक्षुरसमधुरौषधक्षीरवृक्षनिष्क्वाथैरनुषणैः परिषेकान् कुर्वीत श्लेष्मशो-फे तु तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत १७
यथाऽम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति
दोषाग्निरेवं सहसा परिषेकेण शाम्यति १८
अभ्यङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति १९
स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते
पश्चात् कर्मसु चादिष्टः स च विस्रावणादिषु २०
रुजावतां दारुणानां कठिनानां तथैव च
शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः २१
स्थिराणां रुजतां मन्दं कार्यं विम्लापनं भवेत्
अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः २२
विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा
शोफयोरुपनाहं तु कुर्यादामविदग्धयोः २३
अविदग्धः शमं याति विदग्धः पाकमेति च
निवर्तते न यः शोफो विरेकान्तैरुपक्रमैः २४
तस्य संपाचनं कुर्यात् समाहृत्यौषधानि तु
दधितक्रसुराशुक्तधान्याम्लैर्योजितानि तु २५
स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम्
सैरण्डपत्रया शोफं नाहयेदुष्णया तया २६
हितं सम्भोजनं चापि पाकायाभिमुखो यदि
वेदनोपशमार्थाय तथा पाकशमाय च २७
अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम्
सशोफे कठिने ध्यामे सरक्ते वेदनावति २८
संरब्धे विषमे चापि व्रणे विस्रावणं हितम्
सविषे च विशेषेण जलौकोभिः पदैस्तथा २९
वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा
सोपद्र वाणां रूक्षाणां कृशानां व्रणशोषिणाम् ३०
यथास्वमौषधैः सिद्धं स्नेहपानं विधीयते
उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः ३१
संक्लिष्टश्याध्यिआ!मिरुधिरे व्रणे प्रच्छर्दनं हितम्
वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु ३२
विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः
अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च ३३
स्नायुकोथादिषु तथा च्छेदनं प्राप्तमुच्यते
अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि ३४
गतिमत्सु च रोगेषु भेदनं प्राप्तमुच्यते
बालवृद्धासहक्षीणभीरूणां योषितामपि ३५
मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम्
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ३६
पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता
सुपिष्टैर्दारणद्र व्यैर्युक्तः क्षारेण वा पुनः ३७
कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान् पुनः पुनः
कठिनोत्सन्नमांसांश्च लेखनेनाचरेद्भिषक् ३८
समं लिखेत् सुलिखितं लिखेन्निरवशेषतः
वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् ३९
क्षौमं प्लोतं पिचुं फेनं यावशूकं ससैन्धवम्
कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ४०
नाडीव्रणाञ् शल्यगर्भानुन्मार्ग्युत्सङ्गिनः शनैः
करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक् ४१
नेत्रवर्त्मगुदाभ्यासनाड्योऽवक्त्राः सशोणिताः
चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेत्तु ताः ४२
संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक्
यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् ४३
रोगे व्यधनसाध्ये तु यथोद्देशं प्रमाणतः
शस्त्रं निदध्याद्दोषं च स्रावयेत् कीर्तितं यथा ४४
अपाकोपद्रुता ये च मांसस्था विवृताश्च ये
यथोक्तं सीवनं तेषु कार्यं सन्धानमेव च ४५
पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि
यथोक्तैः पीडनद्र व्यैः समन्तात् परिपीडयेत् ४६
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति
न चाभिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ४७
तैस्तैर्निमित्तैर्बहुधा शोणिते प्रस्रुते भृशम्
कार्यं यथोक्तं वैद्येन शोणितास्थापनं भवेत् ४८
दाहपाकज्वरवतां व्रणानां पित्तकोपतः
रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत् ४९
यथोक्तैः शीतलद्र व्यैः क्षीरपिष्टैर्घृताप्लुतैः
दिह्यादबहलान् सेकान् सुशीतांश्चावचारयेत् ५०
व्रणेषु क्षीणमांसेषु तनुस्राविष्वपाकिषु
तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च ५१
वातघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा
स्नैहिकेषु च बीजेषु पचेदुत्कारिकां शुभाम् ५२
तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम्
दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः ५३
कषायैः शोधनं कार्यं शोधनैः प्रागुदीरितैः
अन्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान्
शोधनद्र व्ययुक्ताभिर्वर्तिभिस्तान् यथाक्रमम् ५४
पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् ५५
कल्कीकृतैर्यथालाभं वर्तिद्र व्यैः पुरोदितैः
पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् ५६
कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा
उत्सन्नमांसानस्निग्धानल्पस्रावान् व्रणांस्तथा ५७
सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत्
तैलेनाशुध्यमानानां शोधनीयां रसक्रियाम् ५८
व्रणानां स्थिरमांसानां कुर्याद्द्र व्यैरुदीरितैः
कषाये विधिवत्तेषां कृते चाधिश्रयेत् पुनः ५९
सुराष्ट्रजां सकासीसां दद्याच्चापि मनःशिलाम्
हरितालं च मतिमांस्ततस्तामवचारयेत् ६०
मातुलुङ्गरसोपेतां सक्षौद्रा मतिमर्दिताम्
व्रणेषु दत्त्वा तां तिष्ठेत्त्रींस्त्रींश्च दिवसान् परम् ६१
मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः
उपाचरेत् भिषक् प्राज्ञः श्लक्ष्णैः शोधनवर्तिजैः ६२
शुद्धलक्षणयुक्तानां कषायं रोपणं हितम्
तत्र कार्यं यथोद्दिष्टैर्द्र व्यैर्वैद्येन जानता ६३
अवेदनानां शुद्धानां गम्भीराणां तथैव च
हिता रोपणवर्त्यङ्गकृता रोपणवर्तयः ६४
अपेतपूतिमांसानां मांसस्थानामरोहताम्
कल्कः संरोहणः कार्यस्तिलजो मधुसंयुतः ६५
स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः
कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत् ६६
औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः
शोधयेद्रो पयेच्चापि युक्तः शोधनरोपणैः ६७
निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः
पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः ६८
तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः
शमयेदविदग्धं च विदग्धमपि पाचयेत् ६९
पक्वं भिनत्ति भिन्नं च शोधयेद्रो पयेत्तथा
पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् ७०
रोपयेद्रो पणीयेन क्षीरसिद्धेन सर्पिषा
कफवाताभिभूतानां व्रणानां मतिमान् भिषक् ७१
कारयेद्रो पणं तैलं भेषजैस्तद्यथोदितैः
अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् ७२
द्विहरिद्रा युतां कुर्याद्रो पणार्थां रसक्रियाम्
समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक् ७३
चूर्णं विदध्यान्मतिमान् प्राक्स्थानोक्तो विधिर्यथा
शोधनो रोपणश्चैव विधिर्योऽय प्रकीर्तितः ७४
सर्वव्रणानां सामान्येनोक्तो दोषाविशेषतः
एष आगमसिद्धत्वात्तथैव फलदर्शनात् ७५
मन्त्रवत् संप्रयोक्तव्यो न मीमांस्यः कथञ्चन
स्वबुद्ध्या चापि विभजेत् कषायादिषु सप्तसु ७६
भेषजानि यथायोगं यान्युक्तानि पुरा मया
आद्ये द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः ७७
स वातदुष्टे दातव्यः कषायादिषु सप्तसु
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः ७८
तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु
आरग्वधादिस्तु गणो यश्चोष्णः परिकीर्तितः ७९
तौ देयौ कफदुष्टे तु संसृष्टे संयुता गणाः
वातात्मकानुग्ररुजान् सास्रावानपि च व्रणान् ८०
सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत्
परिशुष्काल्पमांसानां गम्भीराणां तथैव च ८१
कुर्यादुत्सादनीयानि सर्पींष्यालेपनानि च
मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः ८२
विशुद्धमनसस्तस्य मांसं मांसेन वर्धते
उत्सन्नमृदुमांसानां व्रणानामवसादनम् ८३
कुर्याद्द्र व्यैर्यथोद्दिष्टैश्चूर्णितैर्मधुना सह
कठिनानाममांसानां दुष्टानां मातरिश्वना ८४
मृद्वी क्रिया विधातव्या शोणितं चापि मोक्षयेत्
वातघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च कारयेत् ८५
मृदुत्वमाशुरोहं च गाढो बन्धः करोति हि
व्रणेषु मृदुमांसेषु दारुणीकरणं हितम्
धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा ८६
त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान्
कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् ८७
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्
तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा ८८
स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः
निःशेषच्छिन्नसन्धींश्च साधयेदग्निकर्मणा ८९
दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत्
भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान्
ततो द्विधा च्छेदयित्वा लौहे कुम्भे निधापयेत् ९०
कुम्भेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत्
मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः ९१
यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं शनैर्भिषक्
ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत् ९२
तैलेनानेन संसृष्टं शुक्लमालेपयेद्व्रणम्
भल्लातकविधानेन सारस्नेहांस्तु कारयेत् ९३
ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत्
दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् ९४
सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम्
तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम् ९५
नवं कपालिकाचूर्णं वैदुलं सर्जनाम च
कासीसं मधुकं चैव क्षौद्र युक्तं प्रलेपयेत् ९६
कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत्
कासीसं रोचनां तुत्थं हरितालं मनःशिलाम् ९७
वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम्
अधस्तादर्जुनस्यैतन्मासं भूमौ निधापयेत् ९८
मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम्
कुक्कुटाण्डकपालानि कतकं मधुकं समम् ९९
तथा समुद्र मण्डूकी मणिचूर्णं च दापयेत्
गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम् १००
हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम्
रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि १०१
चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना
तैलाक्ता चूर्णिता भूमिर्भवेद्रो मवती पुनः १०२
कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत्
कपित्थरसपिष्टानि रोमसञ्जननं परम् १०३
रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति
क्षुरकर्तरिसन्दंशैस्तस्य रोमाणि निर्हरेत् १०४
शिङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम्
शुक्तेन सह पिष्टानि लोमशातनमुत्तमम् १०५
तैलं भल्लातकस्याथ स्नुहीक्षीरं तथैव च
प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम् १०६
कदलीदीर्धवृन्ताभ्यां भस्मालं लवणं शमी
बीजं शीतोदपिष्टं वा रोमशातनमाचरेत् १०७
आगारगोधिकापुच्छं रम्भाऽल बीजमैङ्गुदम्
दग्ध्वा तद्भस्मतैलाम्बु सूर्यपक्वं कचान्तकृत् १०८
वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः
अधःकाये विशेषेण तत्र बस्तिर्विधीयते १०९
मूत्राधाते मूत्रदोषे शुक्रदोषेऽश्मरीव्रणे
तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः ११०
यस्माच्छुध्यति बन्धेन व्रणो याति च मार्दवम्
रोहत्यपि च निःशङ्कस्तस्माद्बन्धो विधीयते १११
स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्
पत्रदानं भवेत् कार्यं यथादोषं यथर्तुच ११२
एरण्डभूर्जपूतीकहरिद्रा णां तु वातजे
पत्रमाश्वबलं यच्च काश्मरीपत्रमेव च ११३
पत्राणि क्षीरवृक्षाणामौदकानि तथैव च
दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः ११४
पाठामूर्वागुडूचीनां काकमाचीहरिद्र योः
पत्रं च शुकनासाया योजयेत् कफजे व्रणे ११५
अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम्
अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते ११६
स्रेहमौषधसारं च पट्टः पत्रान्तरीकृतः
नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् ११७
शैत्यौष्ण्यजननार्थाय स्नेहसंग्रहणाय च
दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता ११८
मक्षिका व्रणमागत्य निःक्षिपन्ति यदा कृमीन्
श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः ११९
तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते
सुरसादिर्हितस्तत्र धावने पूरणे तथा १२०
सप्तपर्णकरञ्जार्कनिम्बराजादनत्चचः
हिता गोमूत्रपिष्टाश्च सेकः क्षारोदकेन वा १२१
प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात्
विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः १२२
दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम्
बृंहणीयो विधिः सर्वः कायाग्निं परिरक्षता १२३
विषजुष्टस्य विज्ञानं विषनिश्चयमेव च
चिकित्सितं च वक्ष्यामि कल्पेषु प्रतिभागशः १२४
कण्डूमन्तः सशोफाश्च ये च जत्रूपरि व्रणाः
शिरोविरेचनं तेषु विदध्यात्कुशलो भिषक् १२५
रुजावन्तोऽनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः
व्रणेषु तेषु कर्तव्यं नस्यं वैद्येन जानता १२६
दोषप्रच्यावनार्थाय रुजादाहक्षयाय च
जिह्वादन्तसमुत्थस्य हरणार्थं मलस्य च १२७
शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै
उष्णो वा यदि वा शीतः कवलग्रह इष्यते १२८
ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान्
शोफस्रावरुजायुक्तान् धूमपानैरुपाचरेत् १२९
क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च
सद्योव्रणेष्वायतेषु क्षौद्र सर्पिर्विधीयते १३०
अवगाढास्त्वणुमुखा ये व्रणाः शल्यपीडिताः
निवृत्तहस्तोद्धरणा यन्त्रं तेषु विधीयते १३१
लघुमात्रो लघुश्चैव स्निग्ध उष्णेऽग्निदीपनः
सर्वव्रणिभ्यो देयस्तु सदाऽहारो विजानता १३२
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः
रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्तथा १३३
षण्मूलोऽष्टपरिग्राही पञ्चलक्षणलक्षितः
षष्ट्या विधानैर्निर्दिष्टैश्चतुर्भिः साध्यते व्रणः १३४
योऽल्पौषधकृतो योगो बहुग्रन्थभयान्मया
द्र व्याणां तत्समानानां तत्रावापो न दुष्यति १३५
प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः
यथोपपत्ति तत्रापि कार्यमेव चिकित्सिम् १३६
गणोक्तमपि यद्द्र व्यं भवेद्व्याधावयौगिकम्
तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्तितम् १३७
उपद्र वास्तु विविधा व्रणस्य व्रणितस्य च
तत्र गन्धादयः पञ्च व्रणस्योपद्र वाः स्मृताः १३८
ज्वरातिसारौ मूर्च्छा च हिक्का च्छर्दिररोचकः
श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु १३९
व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम्
भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते १४०
इति सुश्रुतसंहितायां चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम प्रथमोऽध्यायः १


द्वितीयोऽध्यायः
अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः
विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ३
नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः
नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ४
आयताश्चतुरस्राश्च त्र्! यस्रा मण्डलिनस्तथा
अर्धचन्द्र प्रतीकाशा विशालाः कुटिलास्तथा ५
शरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे
एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ६
दोषजा वा स्वयं भिन्ना न तु वैद्यनिमित्तजाः
भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ७
भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि
अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ८
समासतो लक्षणतः षड्विधः परिकीर्तितः
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ९
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्
तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् १०
गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते
कुन्तशक्यृष्टिखड्गाग्रविषाणादिभिराशयः ११
हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते
स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च १२
हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते १३
मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति
मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च १४
विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च १५
हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु
आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः १६
आध्मानमतिमात्रं च शूलं च भृशदारुणम्
पक्वाशयगते चापि रुजो गौरवमेव च १७
शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः
अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् १८
पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम्
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना १९
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत्
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् २०
विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत्
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् २१
सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम्
विगतत्वग्यदङ्गं हि संघर्षादन्यथाऽपि वा २२
उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् २३
रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम्
स्नेहपानं हितं तत्र तत्सेको विहितस्तथा २४
वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम्
धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च २५
वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते
पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् २६
अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते
तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः २७
शीतमालेपनं कार्यं परिषेकश्च शीतलः
षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः २८
ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम्
अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् २९
ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः
तान् सीव्येद्विधिनोक्तेन बघ्नीयाद्गाढमेव च ३०
कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम्
सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ३१
कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे
सम्यङिनवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ३२
आजेन सर्पिषा चैवं परिषेकं तु कारयेत्
उत्तानोऽन्न समश्नीयाच्छयीत च सुयन्त्रितः ३३
शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम्
सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ३४
बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत्
चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ३५
पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम्
अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ३६
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान्
बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ३७
चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः
हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ३८
तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम्
चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ३९
हरेणवो मृणालं च त्रिफला पद्मकोत्पले
त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ४०
तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे
अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ४१
भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत्
तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ४२
पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु
ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ४३
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च
जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ४४
सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते
उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ४५
कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित्
अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ४६
बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते
स्नेहपानादृते चापि पयःपानं विधीयते ४७
शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया
चित्रासमन्वितं चैव रुजादाहविनाशनम् ४८
आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया
मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ४९
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्र वान् ५०
तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम्
शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ५१
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते
पक्वाशयस्थे देयं च विरेचनमसंशयम् ५२
आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः
यवकोलकुलत्थानां निःस्नेहेन रसेन च ५३
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम्
अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ५४
स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः
व्युपद्र वः स भिन्नेऽपि कोष्ठे जीवति मानवः ५५
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत्
पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ५६
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः
प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ५७
प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम्
अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ५८
हस्तपादेषु संगृह्य समुत्थाप्य महाबलाः
भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा ५९
तथाऽन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च
व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ६०
तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत्
यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रि तः ६१
स्थानादपेतमादत्ते प्राणान् गुपितमेव वा
वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ६२
घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम्
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ६३
ततस्तैलमिदं कुर्याद्रो पणार्थं चिकित्सकः
त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः ६४
शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा
बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ६५
व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च
पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ६६
प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम्
कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ६७
न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः
कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ६८
शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम्
शिरसोऽपहृते शल्ये बालवर्ति निवेशयेत् ६९
बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत्
हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ७०
व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत्
गात्रादपहृतेऽन्यस्मात् स्नेहवर्ति प्रवेशयेत् ७१
कृते निःशोणिते चापि विधिः सद्यःक्षते हितः
दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ७२
कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्
समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च ७३
बिडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम्
संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ७४
तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम्
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ७५
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्
क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ७६
घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम्
विश्लिष्टदेहं पतितं मथितं हतमेव च ७७
वासयेत्तैलपूर्णायां द्रो ण्यां मांसरसाशनम्
अयमेव विधिः कार्यः क्षीणे मर्महते तथा ७८
रोपणे सपरीषेके पाने च व्रणिनां सदा
तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ७९
घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्र धौ
सद्योव्रणेषु देयानि तानि वैद्येन जानता ८०
सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत्
सर्पिषा नातिशीतेन बलातैलेन वा पुनः ८१
समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम्
पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ८२
तालीशपत्रं नलदं चन्दनं पद्मकेशरम्
मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ८३
प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च
यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ८४
सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम्
कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत् ८५
सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत्
दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ८६
विशोषणं तथाऽहारः शोणितस्य च मोक्षणम्
कषायं राजवृक्षादौ सुरसादौ च धावनम् ८७
तयोरेव कषायेण तैलं शोधनमिष्यते
क्षारकल्पेन वा तैलं क्षारद्र व्येषु साधितम् ८८
द्र वन्ती चिरबिल्वश्च दन्ती चित्रकमेव च
पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ८९
त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः
भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ९०
नैपाली जालिनी चैव मदयन्ती मृगादनी
सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ९१
यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम्
घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ९२
सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके
त्रिवृद्धरिद्रा मधुककल्कः पैत्ते तिलैर्युतः ९३
कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः
दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि ९४
षडिवधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः
नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ९५
उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः
केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ९६
बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते
विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ९७
इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योव्रणचिकित्सितं नाम द्वितीयोऽध्यायः २


तृतीयोऽध्यायः
अथातो भग्नानां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ३
लवणं कटुकं क्षारमम्लं मैथुनमातपम्
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ४
शालिर्मांसरसः क्षीरं सर्पिर्यूषः सतीनजः
बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ५
मधूकोदुम्वराश्वत्थपलाशककुभत्वचः
वंशसर्जवटानां च कुशार्थमुपसंहरेत् ६
आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम्
शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत् ७
सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम्
साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि ८
आग्नेयेषु त्र्! यहात् कुर्याद्भग्नदोषवशेन वा
तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते ९
गाढेनापि त्वगादीनां शोफो रुक् पाक एव च
तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदः १०
न्यग्रोधादिकषायं तु सुशीतं परिषेचने
पञ्चमूलीविपक्वं तु क्षीरं कुर्यात् सवेदने ११
सुखोष्णमवचार्यं वा चक्रतैलं विजानता
विभज्य कालं दोषं च दोषघ्नौषधसंयुतम् १२
परिषेकं प्रदेहं च विदध्याच्छीतमेव च
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् १३
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः १४
प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत्
प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् १५
अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके
प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत् १६
मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः
अवनामितमुन्नह्येदुन्नतं चावपीडयेत् १७
आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत्
आञ्छनैः पीडनैश्चैव सङ्क्षेपैर्बन्धनैस्तथा १८
सन्धीञ्छरीरे सर्वांस्तु चलानप्यचलानपि
एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् १९
उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत्
तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् २०
अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः
घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधिं २१
पट्टोपरि कुशान् दत्त्वा यथावद्बन्धमाचरेत्
प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते २२
नखसन्धिं समुत्पिष्टं रक्तानुगतमारया
अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् २३
भग्नां वा सन्धिमुक्तां वा स्थापयित्वाऽङ्गुलद्यंसमाम्
अणुनाऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् २४
अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरम्
वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत् २५
अभ्यज्यायामयेज्जङ्घामूरुं च सुसमाहितः
दत्त्वा वृक्षत्वचः शीता वस्त्रपट्टेन वेष्टयेत् २६
मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम्
स्फुटितं पिच्चितं चापि बध्नीयात् पूर्ववद्भिषक् २७
आञ्छेदूर्ध्वमधो वाऽपि कटिभग्नं तु मानवम्
ततः स्थानस्थिते संधौ बस्तिभिः समुपाचरेत् २८
पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः
दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः २९
ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः
तैलपूर्णे कटाहे वा द्रो ण्यां वा शाययेन्नरम् ३०
मुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते
स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः ३१
कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत्
अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम् ३२
प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च दापयेत्
एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् ३३
उभे तले समे कृत्वा तलभग्नस्य देहिनः
बध्नीयादामतैलेन परिषेकं च कारयेत् ३४
मृत्पिण्डं धारयेत् पूर्वं लवणं च ततः परम्
हस्ते जातबले चापि कुर्यात् पाषाणधारणम् ३५
सन्नमुन्नमयेत् स्विन्नमक्षकं मुसलेन तु
तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च ३६
ऊरुवच्चापि कर्तव्यं बाहुभग्नचिकित्सितम्
ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा ३७
अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम्
ततं कुशां समं दत्त्वा वस्त्रपट्टेन वेष्टयेत् ३८
उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रि तः
हन्वस्थिनी समानीय हनुसन्धौ विसंहते ३९
स्वेदयित्वा स्थिते सम्यक् पञ्चाङ्गीं वितरेद्भिषक्
वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम् ४०
अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत्
तरुणस्य मनुष्यस्य शीतैरालेपयेद्बहिः ४१
सिक्त्वाऽम्बुभिस्ततः शीतैः सन्धानीयैरुपाचरेत्
उत्पलस्य च नालेन क्षीरपानं विधीयते ४२
जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान्
नासां सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया ४३
पृथङ्नासिकयोर्नाड्यौ द्विमुख्यौ संप्रवेशयेत्
ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत् ४४
भग्नं कर्णं तु बध्नीयात् समं कृत्वा घृतप्लुतम्
सद्यःक्षतविधानं च ततः पश्चात् समाचरेत् ४५
मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी
दत्त्वा ततो निबध्नीयात् सप्ताहं च पिबेद्घृतम् ४६
पतनादभिघाताद्वा शूनमङ्गं यदक्षतम्
शीतान् प्रदेहान्सेकांश्च भिषक् तस्यावचारयेत् ४७
अथ जङ्घोरुभग्नानां कपाटशयनं हितम्
कीलका बन्धनार्थं च पञ्च कार्या विजानता ४८
यथा न चलनं तस्य भग्नस्य क्रियते तथा
सन्धेरुभयतो द्वौ द्वौ तले चैकश्च कीलकः ४९
श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा
भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत् ५०
सन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान्
उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत् ५१
काण्डभग्ने प्ररूढे तु विषमोल्वणसंहिते
आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत् ५२
कल्पयेन्निर्गतं शुष्कं व्रणान्तेऽस्थि समाहितः
सन्ध्यन्ते वा क्रियां कुर्यात् सव्रणे व्रणभग्नवत् ५३
ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम्
घृतपानं हितं नस्यं प्रशाखास्वनुवासनम् ५४
अत ऊर्ध्वं प्रवक्ष्यामि तैलं भग्नप्रसाधकम्
रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ५५
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत्
तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना ५६
ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक्
काकोल्यादिं सयष्ठ्याह्वं मञ्जिष्ठां सारिवां तथा ५७
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्
शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत् ५८
पीडनार्थं च कर्तव्यं सर्वगन्धशृतं पयः
चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ५९
एलामंशुमतीं पत्रं जीवकं तगरं तथा
रोध्रं प्रपौण्डरीकं च तथा कालानुसारिविआ!णिम् ६०
सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम्
पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च ६१
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्निना
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ६२
आक्षेपके पक्षघाते तालुशोषे तथाऽदिते
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ६३
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः
पथ्यं पाने तथाऽभ्यङ्गे नस्ये बस्तिषु भोजने ६४
ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते
मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ६५
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत्
राजार्हमेतत् कर्तव्यं राज्ञामेव विचक्षणैः ६६
त्रपुसाक्षप्रियालानां तैलानि मधुरैः सह
वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत् ६७
स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम्
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने ६८
भग्नं नैति यथापाकं प्रयतेत तथा भिषक्
पक्वमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति ६९
भग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्वणम्
सुखचेष्टाप्रचारं च संहितं सम्यगादिशेत् ७०
इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आमाशयगते वाते च्छर्दयित्वा यथाक्रमम्
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ३
चित्रकेन्द्र यवे पाठा कटुकाऽतिविषाऽभया
वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः ४
पक्वाशयगते चापि देयं स्नेहविरेचनम्
बस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः ५
कार्यो बस्तिगते चापि विधिर्बस्तिविशोधनः
श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ६
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
त्वङ्मांसासृक्सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् ७
स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
स्नायुसन्ध्यस्थिसंप्राप्ते कुर्याद्वायावतन्द्रि तः ८
निरुद्धेऽस्थनि वा वायौ पाणिमन्थेन दारिते
नाडीं दत्त्वाऽस्थनि भिषक् चूषयेत्पवनं बली ९
शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम्
अवगाहकुटीकर्षूप्रस्तराभ्यङ्गबस्तिभिः १०
जयेत् सर्वाङ्गजं वातं सिरामोक्षैश्च बुद्धिमान्
एकाङ्गगं च मतिमाञ्छृङ्गैश्चावस्थितं जयेत् ११
बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः
सुप्तिवाते त्वसृङ्मोक्षं कुर्यात्तु बहुशो भिषक् १२
दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः
पञ्चमूलीशृतं क्षीरं फलाम्लो रस एव च १३
सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम्
काकोल्यादिः सवातघ्नः सर्वाम्लद्र व्यसंयुतः १४
सानूपौदकमांसस्तु सर्वस्नेहसमन्वितः
सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः १५
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम्
कुञ्च्यमानं रुजार्तं वा गात्रं स्तब्धमथापि वा १६
गाढं पट्टैर्निबध्नीयात् क्षौमकार्पासिकौर्णिकैः
बिडालनकुलोन्द्रा णां चर्मगोण्यां मृगस्य वा १७
प्रवेशयेद्वा स्वभ्यक्तं साल्वणेनोपनाहितम्
स्कन्धवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा १८
वमनं हन्ति नस्यं च कुशलेन प्रयोजितम्
शिरोगतं शिरोबस्तिर्हन्ति वाऽसृग्विमोक्षणम् १९
स्नेहं मात्रासहस्रं तु धारयेत्तत्र योगतः
सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् २०
रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः
स्नेहस्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् २१
शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च
सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च २२
रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत्
भोजनानि फलाम्लानि स्निग्धानि लवणानि च २३
सुखोष्णाश्च परीषेकास्तथा संवाहनानि च
कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च २४
कौशेयौर्णिकरौमाणि कार्पासानि गुरूणि च
निवातातपयुक्तानि तथा गर्भगृहाणि च २५
मृद्वी शय्याऽग्निसंतापो ब्रह्मचर्यं तथैव च
समासेनैवमादीनि योज्यान्यनिलरोगिषु २६
त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षसमाः भागाः बि-ल्वमात्रः कल्कस्तिल्वकमूलकम्पिल्लकयोः त्रिफलारसदधिपात्रे द्वे द्वे घृ-तपात्रमेकं तदैकध्यं संसृज्य विपचेत् तिल्वकसर्पिरेतत् स्नहेविरेचनमुपदिशन्ति वातरोगिषु तिल्वकविधिरेवाशोकरम्यकयोर्द्र ष्टव्यः २७
तिलपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीतान्यणूनि खण्डशः कल्पयित्वाऽवक्षुद्य महति कटाहे पानीयेनाभिप्लाव्य क्वाथयेत् ततः स्नेह-मम्बुपृष्ठाद्यदुदेति तत् सरकपाण्योरन्यतरेणादाय वातघ्नौषधप्रतीवापं स्नेहपा-ककल्पेन विपचेत् एतदणुतैलमुपदिशन्ति वातरोगिषु अणुभ्यस्तैलद्र व्येभ्यो
निष्पाद्यत इत्यणुतैलम् २८
अथ महापञ्चमूलकाष्ठैर्बहुभिरवदह्यावनिप्रदेशमसितमुषितमेकरात्रमुप शा-न्तेऽग्नावपोह्य भस्म निवृत्तां मूमिं विदारिगन्धादिसिद्धेन तैलघटशतेन
तुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावती मृत्तिका स्निग्धा स्यात्ता-मादायोष्णोदकेन महति कटाहेऽभ्यासिञ्चेत् तत्र यत्तैलमुत्तिष्ठेत्तत् पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात् ततस्तैलं वातहरौषधक्वाथमांसरसक्षीराम्लभा-गसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगाश्च गन्धा वातघ्नानि च तस्मिन् सिध्यति शङ्खानाध्मा-पयेद्दुन्दुभीनाघातयेच्छत्रं धारयेद्वालव्यजनैश्च वीजयेद्ब्राह्मणसहस्रं भोजयेत् तत् साधु सिद्धमवतार्य सौवर्णे राजते मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात् तदेतत् सहस्रपाकमप्रतिवारवीर्यं राजार्हं तैलम् एवं भागशतविपक्वं शतपाकम् २९
गन्धर्वहस्त मुष्ककनक्तमालाटरूषकपूतीकारग्वधचित्रकादीनां पत्राण्याद्रा र्!-णि लवणेन सहोदूखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत्
एतत्पत्रलवणमुपदिशन्ति वातरोगेषु ३०
एवं स्नूहीकाण्डवार्ताकुशिग्रुलवणानि संक्षुद्य घटंपूरयित्वा सर्पिस्तैलव सामज्जभिः प्रक्षिप्यावलिप्यगोशकृद्भिर्दाहयेत् एतत् स्नेहलवणमुपदिशन्ति
वातरोगेषु इ!इति काण्डलवणमि! ३१
गण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्र कनादेयीकृष्णगन्धानीपनिम्बनिर्दहन्यटरूषकनक्तमालकपूतिकबृहतीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीबाष्पद्वयेक्षुरकेन्द्र वारुणीश्वतेमोक्षकाशोका इत्येवं वर्गं स-मूलपत्रशाखमार्द्र माहृत्य लवणेन सह संसृज्य पूर्ववद्दग्ध्वा क्षारकल्पेन प-रिस्राव्य विपचेत् प्रतिवापश्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा इत्येतत् कल्याणकलवणं वातरोगगुल्मप्लीहाग्निषङ्गाजीर्णार्शोऽरोचकार्तानां कासादिभिः कृमिभिरुपद्रुतानां चोपदिशन्ति पानभोजनेष्वपीति ३२
भवति चात्र
विष्यन्दनादुष्णभावाद्दोषाणां च विपाचनात्
संस्कारपाचनाच्चेदं वातरोगेषु शस्यते ३३


इति श्रीसुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम चतुर्थोऽध्यायः ४


पञ्चमोऽध्यायः
अथातो महावातव्याधिचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते तत्तु न सम्यक् तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति तस्मान्न द्विविधम् ३
तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य प्रदुष्टं शो-णितं मार्गमावृत्य वातेन सहैकीभूतं युगपद्वातरक्तनिमित्तां वेदनां जनयतीति वातरक्तम् तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति तस्य पू-र्वरूपाणितोददाहकणडूशोफस्तम्भत्वक्पारुष्यसिरास्नायुधमनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात् पाणिपादतलांगुलिगुल्फमणि बन्धप्रभृतिषु तत्राप्रतिकारिणोऽपचारिणश्च रोगो व्यक्ततरः तस्य लक्षणमुक्तं
तत्राप्रतिकारिणो वैकल्यं भवति ४
भवति चात्र
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति ५
तत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचकाविपाकविसरण-
संकोचनैरनुपद्रुतंबलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत् ६
तत्र आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणादृष्टशोणित मसकृदल्पा ल्पमवसिञ्चेद्वातकोपभयात् ततो वमनादिभिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत् अजाक्षीरं वाऽधतैलं मधुकाक्षययुक्तं शृगाल-विन्नासिद्धअं वा शर्करामधुमधुरं शुण्ठीशृङ्गाटककशेरुकसिद्धं वा श्यामा-रास्नासुषवीशृगालविन्ना पीलु शतावरीश्वदंष्ट्राद्विपञ्चमूलीसिद्धं वा द्विपञ्चमू-लीक्वाथाष्टगुणसिद्धेन पयसा मधुकमेषशृङ्गीश्वदंष्ट्रासरलभद्र दारुवचासुरभि-कल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत शतावरी मयूरककिणिह्य-जमोदामधुक क्षीरविदारीबला तिबलातृणपञ्चमूली क्वाथसिद्धं वा काको-ल्यादिप्रतिवापं बलातैलं शतपाकं वेति वातहरमूलसिद्धेन च पयसा परि-षेचनमम्लैर्वा कुर्वीत यवमधुकैरणडतिलवर्षाभूभिर्वा प्रदेहः कार्यः तत्र चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु प्रत्येकशः काकोलीक्षीरकाकोलीजीव कर्षभकबलातिबलाबि समृणालशृगाल विन्नामेषशृङ्गीप्रियाल शर्कराकशे-रुकसुर भिवचाकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः स्नऐहिकफलसारोत्कारिका वा चूर्णितेषु यवगोधूमति-लमुद्गमाषेषु मत्स्यपिशितवेशवारो वा बिल्वपेशिकातगरदेवदारुसरलारा-स्नाहरेणुकुष्ठशतपुष्पैलासुरादधिमस्तुयुक्त उपनाहः मातुलुङ्गाम्लसैन्धवघृतमिश्रअं मधुशिग्रुमूलमालेपस्तिलकल्को वेति वातप्रबले ७
पित्तप्रबलेद्रा क्षारेवतकट्फलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधु मधुरं पाययेत् शतावरीमधुकपटोलत्रिफलाकटुरोहिणीकषायं गुडूचीकषायं वा पित्तज्वरहरं वा चन्दनादिकषायं शर्करामधुमधुरं मधुरतिक्तकषायसिद्धं वा सर्पिः बिसमृणालभद्र श्रियपद्मककषायेणार्धक्षीरेण परिषेकः क्षीरेक्षुरसैर्म-धुरिकशर्करातण्डुलोदकैर्वा द्रा क्षेक्षुकषायमिश्रैर्वा मस्तुमद्यधान्याम्लैःजीव-नीयसिद्धेन वा सर्पिषाऽभ्यङ्गः शतधौतघृतेन वा काकोल्यादिकल्ककषाय-विपक्वेन वा सर्पिषा शालिषष्टिकनल वञ्जुलतालीसशृङ्गाटकगलोड्यगौ-रीगैरि कशैवलपद्म कपद्मपत्रप्रभृतिभिधा र्न्याम्ल पिष्टैः प्रदेहो घृतमिश्रः वातप्रबलेऽप्येष सुखोष्णः प्रदेहः कार्यः ८
रक्तप्रबलेऽप्येवं बहुशश्च शोणितमवसेचयेत् शीततमाश्च प्रदेहाः कार्या इति ९
श्लेष्मप्रबले त्वामलकहरिद्रा कषायं मधुमधुरं पाययेत् त्रिफलाकषायं वा मधुकशृङ्गवेरहरीतकीतिक्तरोहिणीकल्कं वा सक्षौद्रं मूत्रतोययोरन्यतरेण गुड-हरीतकीं वा भक्षयेता तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिःक्वाथैश्च परि-षेकः आरग्वधादिकषायैर्वोष्णैः मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः तिलसर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमधुशिग्रुमिश्राणि क्षारमूत्रपिष्टानि प्रदेहः श्वेतसर्षपकल्कः तिलाश्वगन्धाकल्कः प्रियालसेलु-कपित्थकल्कः मधुशिग्रुपुनर्नवाकल्कः व्योषतिक्तापृथक् पर्णीवृहतीकल्क इत्येतेषां पञ्च प्रदेहाः सुखोष्णाः क्षारोदकपिष्टाः शालिपर्णी पृश्निपर्णी
बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः १०
संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात् ११
सर्वेषु च गुडहरीतकीमासेवेत पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभि-वृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं भूयश्चापकर्षयेत् एवं यावत् पञ्च दश वेति तदेतत् पिप्पलीवर्धमानकं वातशोणितविषमज्व-रारोचकपाण्डुरोगप्लीहोदरार्शःकासश्वासशोफशोषाग्निसादहृद्रो गोदराण्यप-हन्ति जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वाऽभ्यज्यात् सहासहदेवा-चन्दनमूर्वामुस्ताप्रियालशतावरीकशेरु पद्मकमधुकशतपुष्पाविदारी कुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः सैरेयकाटरूषकबलातिबलाजीवन्तीसुषवी-कल्को वा च्छागक्षीरपिष्टः गोक्षीरपिष्टः काश्मर्यमधुकतर्पणकल्को वा म-धूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डतैलमभ्यङ्गः सर्वेषु च पुराण-घृतमामलकरसविपक्वं वा पानार्थे जीवनीयसिद्धं परिषेकार्थे काकोल्या-दिक्वाथकल्कसिद्धं वा सुषवीक्वाथकल्कसिद्धं वा कारवेल्लकक्वाथमा-त्रसिद्धं वा बलातैलं वा परिषेकावगाहबस्तिभोजनेषु शालिषष्टिकयवगो-धूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वाऽनम्लेन शोणित-मोक्षं चाभीक्ष्णं कुर्वीत उच्छ्रितदोषे च वमनविरेचना स्थापनानुवासनकर्म
कर्तव्यम् १२
पिटोलत्रिफलाभीरुगुडूचीकटुकाकृतम्
क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम् १३
भवन्ति चात्र
एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम्
वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम् १४
उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च
शरणान्यप्रवातानि मनोज्ञानि महान्ति च १५
मृदुगण्डोपधानानि शयनानि सुखानि च
वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च १६
व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम्
दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत् १७
अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वा पातिनमबहिरायामिनं चोपक्रमेत् तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरम-वपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुर्द्ध्य्थं अनन्तरं विदारिगन्धादिक्वाथमां-सरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत् तथा हि नातिमात्रं वायुः प्रसरति ततो भद्र दार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमे-कतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य सर्पिस्तैलवसामज्ज-भिः सह विपचेन्मधुरकप्रतीवापं तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहा-भ्यङ्गपान भोजनानुवासननस्येषु विदध्यात् यथोक्तैश्च स्वेदविधानैः स्वेदयेत् बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात् तप्तयां वा रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत् कृशरावेशवारपायसैर्वा स्वेदयेत् मूलकोरुबूस्फूर्जार्जकार्कसप्त-लाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति तैलसर्पिर्वसाक्षौद्रा णि वा एतच्छुद्धवातापतानकविधानमुक्तं संसृष्टे संसृष्टं कर्तव्यम् वेगान्तरेषु चाव-पीडं दद्यात् ताम्रचूडकर्कटकृष्ण मत्स्यशिशुमारवराहवसाश्चासेवेत क्षीराणि वा वातहरसिद्धानि यवकोलकुलत्थमूलकदधिघृततैलसिद्धआ वा यवागूः स्नेहविरेचना स्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेतवातव्याधिचिकित्सितं चावेक्षेत रक्षाकर्म च कुर्यादिति १८
पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमुपकरणवन्तं चोपक्रमेत् तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवास्यास्थाप्य च यथाका लमाक्षेपकविधानेनोपचरेत् वैशेषिकश्चात्र मस्तिष्क्यः शिरोबस्तिः अणुतैल-मभ्यङ्गार्थे साल्वणमुपनाहार्थे बलातैलमनुवासनार्थे एवमतन्द्रि तस्त्रींश्चतुरो
वा मासान् क्रियापथमुपसेवेत १९
मन्यास्तम्भेऽप्येतदेव विधानं विशेषतो वातश्लेष्महरैर्नस्यै रूक्षस्वेदैश्चोपचरेत् २०
अपतन्त्रकातुरं नापतर्पयेत् वमनानुवासनास्थापनानि न निषेवेत वातश्लेष्मोपरुद्धोच्छ्वासं तीक्ष्णैः प्रध्मापनैर्मोक्षयेत् तुम्बरुपुष्कराह्वहिङ्ग्वम्लवेत-सपथ्यालवणत्रयं यवक्वाथेन पातुं प्रयच्छेत् पथ्याशतार्धे सौवर्चलद्विपले
चतुर्गुणे पयसि सर्पिः प्रस्थं सिद्धं वातश्लेष्मापनुच्च कर्म कुर्यात् २१
अर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च वातव्याधिविधानेनोपचरेत् वैशेषिकैश्च मस्तिष्क्यशिरोबस्तिनस्यधूमोपनाहस्नेहनाडीस्वेदादिभिः ततः सतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादिमौदकानूपमांसं तथैवौदक-कन्दांश्चाहृत्य द्विगुणोदके क्षीरद्रो णे निःक्वाथ्य क्षीरावशिष्टमवतार्य परिस्रा-व्य तैलप्रस्थेनोन्मिश्र्य पुनरग्नावधिश्रयेत् ततस्तैलं क्षीरानुगतमव तार्य शी-तीभूतमभिमथ्नीयात् तत्र यः स्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेत् एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यं तैलहीनं वा
क्षीरसर्पिरक्षितर्पणमिति २२
गृध्रसीविश्वाची क्रोष्टुकशिरःखञ्जपङ्गुल वातकण्टकपाददाहपादहर्षावबाहु-कबा धिर्य धमनीगतवातरोगेषु यथोक्तं यथोद्देशं च सिराव्यधं कुर्यात्
अन्यत्रावबाहुकात् वातव्याधिचिकित्सितं चावेक्षेत २३
कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धवोपहितं सुखोष्णं कर्णे दद्यात् अजामूत्रमधुतैलानि वा मातुलुङ्गदाडिमतिन्तिडीकस्वरसमूत्रसिद्धं तैलं शु-क्तसुरातक्रमूत्रलवणसिद्धं वा नाडीस्वेदैश्च स्वेदयेत् वातव्याधिचिकित्सां
चावेक्षेत भूयश्चोत्तरे वक्ष्यामः २४
तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत् पिप्पल्यादिचूर्णं वा हिङ्गुयवक्षारप्रगाढं वा सर्पिः बस्तिभिश्चैनमुपक्रमेत् २५
आध्माने त्वपतर्पणपाणिताप दीपनचूर्ण फलवर्तिक्रियापाचनीयदीपनीय बस्तिभिरुपाचरेत् लङ्घनानन्तरं चान्नकाले धान्यकजीरकादिदीपन सिद्धान्यन्नानि प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात् २६
अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्र धिवत् क्रियाविभाग इति २७
हिङ्गुत्रिकटुवचाजमोदाधान्याजगन्धादाडिमतिन्तिडीकपाठाचित्रकयवक्षार सैन्वविडसौर्वचलस्वर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपुषाच
व्याजाजीपथ्याश्चूर्णयित्वा मातुलुङ्गाम्लेन बहुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत् ततः प्रातरेकैकां वातविकारी भक्षयेत् एष योगः कासश्वासगुल्मोदरारोचकहृद्रो गाध्मानपार्श्वोदरबस्तिशूलानाहमूत्रकृच्छ्र प्लीहा र्शस्तूनीप्रतूनीरपहन्ति २८
भवन्ति चात्र
केवलो दोषयुक्तो वा धातुभिर्वाऽवृतोनिलः
विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः २९
रुजावन्तं घनं शीतं शोफं मेदोयुतोऽनिलः
करोति यस्य तं वैद्यः शोथवत् समुपाचरेत् ३०
कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते
तदाऽङ्गमर्दस्तैमित्यरोमहर्षरुजाज्वरैः ३१
निद्र या चार्दितौ स्तब्धौ शीतलावप्रचेतनौ
गुरुकावस्थिरावूरू न स्वाविव च मन्यते ३२
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे
स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः ३३
हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम्
लिह्याद्वा त्रैफलं चूर्णं क्षौद्रे ण कटुकान्वितम् ३४
मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु
ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम् ३५
हृद्रो गमरुचिं गुल्मं तथाऽभ्यन्तरविद्र धिम्
सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च ३६
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः
भोज्याः पुराणश्यामाककोद्र वोद्दालशालयः ३७
शुष्कमूलकयूषेण पटोलस्य रसेन वा
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः ३८
यदा स्यातां परिक्षीणे भूयिष्ठे कफमेदसी
तदा स्नेहादिकं कर्म पुनरत्रावचारयेत् ३९
सुगन्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे
कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः ४०
स नवो बृंहणो वृष्यः पुराणस्त्वपकर्षणः
तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत् ४१
सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः
तं प्रातस्त्रिफलादार्वीपटोलकुशवारिभिः ४२
पिबेदावाप्य वा मूत्रैः क्षारैरुष्णोदकेन वा
जीर्णे यूषरसैः क्षीरैर्भुञ्जानो हन्ति मासतः ४३
गुल्मं मेहमुदावर्तमुदरं सभगन्दरम्
कृमिकण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च ४४
नाड्याढ्यवातश्वयथून् कुष्ठदुष्टव्रणांश्च सः
कोष्ठसन्ध्यस्थिगं वायुं वृक्षमिन्द्रा शनिर्यथा ४५
इति सुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं नाम पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः
अथातोऽशसां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विधोऽशसां साधनोपायः तद्यथाभेषजं क्षारोऽग्नि शस्त्रमिति तत्र
अचिरकालजातान्यल्पदोषलिङ्गोपद्र वाणि भेषजसाध्यानि मृदुप्रसृतावगाढा-न्युच्छ्रितानि क्षारेण कर्कशस्थिरपृथुकठिनान्यइग्नना तनुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति
क्षाराग्निशस्त्रसाध्यानां तु विधानमुच्यमानमुपधारय ३
तत्र बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं परिस्विन्नमनिलवेदनाभि वृद्धि-प्रशमार्थं सिद्ध मुष्णमल्पमन्नं द्र वप्रायं भुक्तवन्तमुपवेश्य संवृभिऋ!तिए! शुचौ देशे साधारणे व्यभ्रे काले समे फलके शय्यायां वआ प्रत्यादित्यगुदमन्यस्योत्स-ङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्नतकटिकं वस्त्रकम्बलकोपविष्टं यन्त्रण-शाटकेन परिक्षिप्तग्रीवासक्थिं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा ततोऽस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुमुखं पायौ शनैः शनैः प्रवा-हमाणस्य प्रणिधाय प्रविष्टे चार्शो वीक्ष्य शलाकयोत्पीड्य पिचुवस्त्रयोर-न्यतरेण प्रमृज्यक्षारं पातयेत् पातयित्वा च पाणिना यन्त्रद्वारं पिधाय वा-क्च्छतमात्रमुपेक्षेत ततः प्रमृज्य क्षारबलं व्याधिबलं चावेक्ष्य पुनरालेपयेत् अथार्शः पक्वजाम्बवप्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्तयेत् क्षारं प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा ततो यष्टीमधुकमिश्रेण सर्पि-षा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत् अशीताभिरित्येके ततो निर्वातमागारं प्रवेश्याचारिकमादिशेत् सावशेषं पु-नर्दहेत् एवं सप्तरात्रात् सप्तरात्रादेकैकमुपक्रमेत तत्र बहुषु पूर्वं दक्षिणं साधयेत् दक्षिणाद्वामं वामात् पृष्ठजं ततोऽग्रजमिति ४
तत्र वातश्लेष्मनिमित्तान्यग्निक्षाराभ्यां साधयेत् क्षारेणैव मृदुना पित्तरक्तनिमित्तानि ५
तत्र वातानुलोम्यमन्नरुचिरग्निदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मनस्तुष्टिरिति सम्य-ग्दग्धलिङ्गानि अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणि-तातिप्रवृत्तिस्तन्निमित्ता श्चोपद्र वा भवन्ति ध्यामाल्पव्रणता कण्डूर निलवैगुण्यमिन्द्रि याणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे ६
महान्ति च प्राणवतश्छित्त्वा दहेत् निर्गतानिचात्यर्थं दोषपूर्णानि यन्त्राद्विना स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणाले पक्षाराग्निशस्त्रैरुपाचरेत् प्रवृत्तर-क्तानि च रक्तपित्तविधानेन भिन्नपुरीषाणि चातीसारविधानेन बद्धवर्चांसि स्नेहपानविधानेनोदावर्तविधानेन वा एष सर्वस्थानगतानामर्शसां दहनकल्पः ७
आसाद्य च दर्वीकूर्चकशलाकानामन्यतमेन क्षारं पातयेत् भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत सर्वेषु च शालिषष्टिकयवगोधू मान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूषेण पटोलयूषेण वा यथादोषं शाकैर्वा-स्तूकतण्डुलीयकजीवन्त्युपोदिकाश्वबला बालमूलकपालङ्क्यसन चिल्ली-चुच्चूकलायवल्लीभिरन्यैर्वा यच्चान्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत ८
दग्धेषु चार्शःस्वभ्यक्तोऽनलसन्धुक्षणार्थमनिलप्रकोपसंरक्षणार्थं च स्नेहादीनां सामान्यतः क्रियापथमुपसेवेत विशेषतस्तु वातार्शःसु सर्पींषि च वातहर-दीपनीयसिद्धानि हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य पिबेत् पित्तार्शःसु पृथक्प-र्ण्यादीनां कषायेण दीपनीयप्रतीवापं सर्पिः शोणितार्शःसु मञ्जिष्ठामुरुङ्ग्या-दीनां कषाये पाचयेत् श्लेष्मार्शःसु सुरसादीनां कषाये उपद्र वांश्च यथास्वमुपाचरेत् ९
परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत् तद्विभ्रमाद्धि षाण्ढ्यशोफदाहमदमूर्च्छाटोपानाहातीसारप्रवाहणानि भवन्ति मरणं वा १०
अत ऊर्ध्वं यन्त्रप्रमाणमुपदेक्ष्यामःतत्र यन्त्रं लौहं दान्तं शार्ङ्गं वार्क्षं वा गो-स्तनाकारं चतुरङ्गुलायतं पञ्चाङ्गुलपरिणाहं पुंसां षडङ्गुलपरिणाहं नारीणां तलायतं तद् द्विच्छिद्रं दर्शनार्थम् एकछिद्रं तु कर्मणि एकद्वारे हि शस्त्रक्षा-राग्नीनामतिक्रमो न भवति छिद्र प्रमाणं तु त्र्! यङ्गुलायतमङ्गुष्ठोदरपरिणाहं यद-ङ्गुलमवशिष्टं तस्यार्धाङ्गुलादधस्तादर्धाङ्गुलोच्छ्रितोपरिवृत्तकर्णिकम् एष यन्त्राकृतिसमासः ११
अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामःस्नुहीक्षीरयुक्तं हरिद्रा चूर्णमालेपः प्रथमः कुक्कुटपुरीषगुञ्जाहरिद्रा पिप्पलीचूर्णमिति गोमूत्रपित्तपिष्टो द्वितीयः दन्तीचि-त्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः पिप्पलीसैन्धवकुष्ठ-शिरीषफलकल्कः स्नह्क्षीरपिष्टोऽकक्षीरपिष्टो वा चतुर्थः कासीसहरिताल-सैन्धवाश्वमारकविडङ्गपूतीककृतवेधनजम्ब्वर्कोत्त मारणी दन्तीचित्रकालर्कस्नुहीपयःसु तैलं विपक्वमभ्यञ्जनेनार्शः शातयति १२
अत ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामःप्रातः प्रा-तर्गुडहरीतकीमासेवेत ब्रह्मचारी गोमूत्रद्रो णसिद्धं वा हरीतकीशतं प्रातः प्रा-तर्यथाबलं क्षौद्रे ण अपामार्गमूलं वा तण्डुलोदकेन सक्षौद्र महरहः शताव-रीमूलकल्कं वा क्षीरेण चित्रकचूर्णयुक्तं वा सीधुं परार्ध्यं भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण कलशे वाऽन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा पानभोजनेषूपयुञ्जीत एष एव भार्ग्यास्फोतायवान्यामल-कगुडूचीषु तक्रकल्पः पिप्पलीपिप्पली मूलचव्यचित्रकविडङ्गशुण्ठीहरीत-कीषु च पूर्ववदेव निरन्नो वा तक्रमहरहर्मासमुपसेवेत शृङ्गवेरपुनर्नवाचित्र-ककषायसिद्धं वा पयः कुटजमूलत्वक् फाणितं वा पिप्पल्यादिप्रतीवापं क्षौद्रे ण महावातव्याध्युक्तं हिङग्वादिचूर्णमुपसेवेत तक्राहारः क्षीराहारो वा क्षारलवणांश्चित्रकमूलक्षारोदकसिद्धान् वा कुल्माषान् भक्षयेत् चित्रकमूल-क्षारोदकसिद्धं वा पयः पलाशतरुक्षारसिद्धं वा पलाशतरुक्षारसिद्धान् वा कुल्माषान् पाटलापामार्ग वृहतीपलाशक्षारं वा परिस्रतुमहरहर्घृतसंसृष्टं कु-टजबन्दाकमूलकल्कं वा तक्रेण चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण क्षारोदकसिद्धं वा सर्पिःपिप्पल्यादिप्रतीवापं कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः
प्रातरुपसेवेत शीतोदकानुपानम् एभिरभिवर्धतेऽग्निरर्शांसि चोपशाम्यन्ति १३
द्विपञ्चमूलीदन्तीचित्रकपथ्यानां तुलामाहृत्य जलचतुद्रो र्णे! विपाचयेत् ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहोन्मिश्र्य घृतभाजने निः-क्षिप्य मासमुपेक्षेत यवपल्ले ततः प्रातः प्रातर्मात्रां पाययेत तेनार्शोग्रहणीदोषपाण्डुरोगोदावर्तारोचका न भवन्ति दीप्तश्चाग्निर्भवति १४
पिप्पलीमरिचविडङ्गैलवालुकलोध्राणां द्वे द्वे पले इन्द्र वारुण्याः पञ्च पलानि कपित्थमध्यस्य दश पथ्याफलानामर्धप्रस्थः प्रस्थो धात्रीफलानां एतदैकध्यं जलचतुद्रो र्णे! विपाच्य पादावशेषं परिस्राव्य सुशीतं गुडतुलाद्वयेनोन्मिश्र्य घृतभाजने निःक्षिप्य पक्षमुपेक्षेत यवपल्ले ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत एष खल्वरिष्टः प्लीहाग्निषङ्गा र्शोग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृमिहरो बलवर्णकरश्चेति १५
तत्र वातप्रायेषु स्नेहस्वेदवमनविरेचनास्थापनानुवासनमप्रतिषिद्धं पित्तजेषु विरेचनम् एवं रक्तजेषु संशमनं कफजेषु शृङ्गवेरकुलत्थोपयोगः सर्वदोषहरं
यथोक्तं सर्वजेषु यथास्वौषधिसिद्धं च पयः सर्वेष्विति १६
अत ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः भल्लातकानि परिपक्वान्यनुपह-तान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्धा वा छेदयित्वा कषायकल्पे-नविपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वष्ठौः प्रातः प्रात-रुपसेवेत ततोऽपराह्णे क्षीरं सर्पिरोदन इत्याहारः एवमेकैकं वर्धयेद्यावत्पञ्चति ततः पञ्च पञ्चाभिवर्धयेद्यावत् सप्ततिरिति प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत् पञ्चेति पञ्चभ्यस्त्वेकैकं यावदेकमिति एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलवानरोगः शतायुर्भवति १७
द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शु-क्तिमात्रमुपयुञ्जीत जीर्णे पूर्ववदाहारः फलप्रकर्षश्च भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्र-सृतिं प्रकुञ्चं वोपयुञ्जीत तस्मिञ्जीर्णे क्षीरं सर्पिरोदन इत्याहारः एवं मासमुप-युज्य मासत्रयमादिष्टाहारो रक्षेदात्मानं ततः सर्वोपतापानपहृत्य वर्णवान् ब-लवाञ् श्रवणग्रहणधारणशइक्तसंपन्नो वर्षशतायुर्भवति मासे मासे च प्रयोगे वर्षशतं वर्षमायुषोऽभिवृद्धिर्भवति एवं दशमासानुपयुज्य वर्षसहस्रायुर्भवति
१८
भवन्ति चात्र
यथा सर्वाणि कुष्ठानि हतः खदिरबीजकौ
तथैवार्शांसि सर्वाणि वृक्षकारुष्करौ हतः १९
हरिद्रा याः प्रयोगेण प्रमेहा इव षोडश
क्षाराग्नी नातिवर्तन्ते तथा दृश्या गुदोद्भवाः २०
घृतानि दीपनीयानि लेहायस्कृतयः सुराः
आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितिम् २१
वेगावरोधस्त्रीपृष्ठयानान्युत्कुटुकासनम्
यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत् २२
इति सुश्रुतसंहितायां चिकित्सास्थानेऽशश्चिकित्सितं नाम षष्ठोऽध्यायः ६


सप्तमोऽध्यायः
अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः
औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ३
तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते
तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ४
पाषाणभेदो वसुको वशिराश्मन्तकौ तथा
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ५
कपोतवङ्काऽतगलः कच्चकोशीरकुब्जकाः
वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ६
यवाः कुलत्थाः कोलानि कतकस्य फलानि च
ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ७
भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव तु
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ८
भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने
कुशः काशः सरो गुन्द्रा इत्कटो मोरटोऽश्मभित् ९
वरी विदारी वाराही शालिमूलत्रिकण्टकम्
भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुण्टिका १०
पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम्
घृतं शिलाजमधुकबीजैरिन्दीवरस्य च ११
त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव तु १२
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने १३
गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः
कुष्ठभद्रा दिमरिचचित्रकैः ससुराह्वयैः १४
एतैः सिद्धमजासर्पिरूषकादिगणेन च
भिनत्ति कफसंभूतामश्मरीं क्षिप्रमेव तु १५
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने १६
पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः
चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत् १७
क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका
अजमोदा कदम्बस्य मूलं नागरमेव च १८
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् १९
अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत्
द्र व्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः २०
ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः
तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः २१
एष क्षारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि
तिलापामार्गकदलीपलाशयवकल्कजः २२
क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः
पाटलाकरवीराणां क्षारमेवं समाचरेत् २३
श्वदंष्ट्रायष्टिकाब्राह्मीकल्कं वाऽक्षसमं पिबेत्
सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ २४
कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः
तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः २५
हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा
सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः २६
घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः
यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः २७
कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा
उपक्रमो जघन्योऽयमतः संपरिकीर्तितः २८
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्
तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा २९
अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पि तसम्भार-माश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुष-स्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधा रकोपविष्टं सङ्कु-चितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा ततः स्वभ्यक्तनाभिप्रदे-शस्य वामपार्श्वं विमृद्य मुष्टिनाऽवपीडयेदधो नाभेर्यावदश्मर्यधः प्रपन्नेति त-तः स्नेहाभ्यक्ते कॢप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधा-यानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय निर्व्यलीकमनायतम-विषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ३०
स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः
हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः ३१
न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः
विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत वै ३२
ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरीप्रमाणं द-क्षिणतो वा क्रियासौकर्यहेतोरित्येके यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति तस्मात् समस्तामग्रव-क्रेणाददीत स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः तस्मात्तासामुत्सङ्ग वच्छस्त्रं पातयेत् अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत् पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम् अश्मरीव्रणादृते भिन्नबस्तिरेकधापि न भवति द्विधा भिन्नबस्तिराश्मरिको न सिध्यति अश्मरीव्रणनिमित्तमेकधाभिन्नबस्ति-र्जीवति क्रियाभ्या साच्छास्त्र विहितच्छेदान्निः स्यन्दपरिवृद्धत्वाच्च शल्य-स्येति उद्धृतशल्यं तूष्णोदकद्रो ण्यामवगाह्य स्वेदयेत् तथा हि बस्ति सृजा
न पूर्यते पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ३३
भवति चात्र
क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः
निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत् ३४
मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत् उद्धृत्य चैनं मधुघृताभ्यक्त-व्रणं मूत्रविशोधनद्र व्यसिद्धामुषणां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रां त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं मिऊ!त्रासृग्विशु-र्द्ध्य्थं व्रणक्लेदनार्थं चइ! दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत् ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्र वस्वेदेन वा क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत् रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत् एतेष्वेव हरिद्रा युतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति स्त्यानशोणितं चोत्तरब-स्तिभिरुपाचरेत् सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषा-यैरिति यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत् एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत् रूढव्र-णश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं नाप्सु प्लवेत भुञ्जीत वा गुरु ३५
मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत् तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः शुक्रवहच्छेदान्मरणं क्लैब्यं वा मुष्कस्रोत-उपघाताद् ध्वजभङ्गः मूत्रप्रसेकक्षणनान्मूत्रप्रक्षरणं सेवनीयोनिच्छेदाद्रुजः प्रादुभार्वः बस्तिगुदविद्धलक्षणं प्रागुक्तमिति ३६
भवति चात्र
मर्माण्यष्टावसंबुध्य स्रोतोजानि शरीरिणाम्
व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक् ३७
सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम्
मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ३८
इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ७


अष्टमोऽध्यायः
अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पञ्च भगन्दरा व्याख्याताः तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च शेषाः कृच्छ्रसाध्याः ३
तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनोपक्रमे-णोपक्रमेतापक्वपिडकं पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवे-श्यार्शसमिव यन्त्रयित्वा भगन्दरं समीक्ष्य पराचीनमवाचीनं वा ततः प्रणि-धायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्र-वाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत् आसाद्य वाऽग्नि
क्षारं चेति एतत् सामान्यं सर्वेषु ४
विशेषतस्तु नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके ततस्तेषूपरूढेषु
शेषा नाडीरुपाचरेत् ५
गतयोऽन्योन्यसंबद्धा बाह्याश्छेद्यास्त्वनेकधा
नाडीरनभिसंबद्धा यश्छिनत्त्येकधा भिषक् ६
स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम्
तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ७
आटोपं गुदशूलं च करोति पवनो भृशम्
तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ८
तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके
व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ९
अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलकोऽपि वा
सर्वतोभद्र कोवाऽपि कार्यो गोतीर्थकोऽपि वा १०
सर्वतः स्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना
सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ११
रुजास्रावापहं तत्र स्वेदमाशु प्रयोजयेत्
स्वेदद्र व्यैर्यथोद्दिष्टैः कृशरापायसादिभिः १२
ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वाऽपि विष्किरैः
वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा १३
कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत्
नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक् १४
तिलैरण्डातसीमाषयवगोधूमसर्षपान्
लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत् १५
आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः
स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च १६
वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा
मार्द्वीकेनाथवाऽम्लेन सुरासौवीरकेण वा १७
ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्व्रणम्
परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः १८
विधिनाऽनेन विण्मूत्रं स्वमार्गमधिगच्छति
अन्येचोपद्र वास्तीव्राः सिध्यन्त्यत्र न संशयः १९
शतपोनक आख्यात उष्ट्रग्रीवे क्रियां शृणु
अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् २०
पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः
अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् २१
बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा
तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् २२
ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम्
उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान् २३
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा
सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् २४
उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः
वामनीयौषधैः कार्याः परिषेकाश्च मात्रया २५
मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम्
गतिमन्विष्य शस्त्रेण छिन्द्यात् खर्जूरपत्रकम् २६
चन्द्रा र्धं चन्द्र चक्रं च सूचीमुखमवाङ्मुखम्
छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः २७
ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत्
बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः २८
तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम्
यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत् २९
आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम्
अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम् ३०
योगोऽय नाशयत्याशु गतिं मेघमिवानिलः
आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः ३१
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ३२
कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च
प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः ३३
एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः
एषां तु शस्त्रपतनाद्वेदना यत्र जायते ३४
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते
वातघ्नौषधसंपूर्णां स्थालद्यं छिद्र शराविकाम् ३५
स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम्
नाड्या वाऽस्याहरेत् स्वेदं शयानस्य रुजापहम्
उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना ३६
कदलीमृगलोपाकप्रियकाजिनसंभृतान्
कारयेदुपनाहांश्च साल्वणादीन् विचक्षणः ३७
कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम्
पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः ३८
ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका ३९
कासीसं काञ्चनक्षीर्यौ वर्गः शोधन इष्यते
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयसा सह ४०
उत्सादनं भवेदेतत् सैन्धवक्षौद्र संयुतम्
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ४१
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः
कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु ४२
रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम्
मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः ४३
समङ्गा धातकी चैव सारिवा रजनीद्वयम्
प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ४४
सुधा वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम्
एतत् संभृत्य संभारं तैलं धीरो विपाचयेत् ४५
एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु
रोपणार्थं हितं तैलं भगन्दरविनाशनम् ४६
न्यग्रोधादिगणश्चैव हितः शोधनरोपणे
तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ४७
त्रिवृद्दन्तीहरिद्रा र्कमूलं लोहाश्वमारकौ
विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु ४८
मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत्
भगन्दरविनाशार्थमेतद्योज्यं विशेषतः ४९
चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम्
सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम् ५०
ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत्
एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे ५१
शोधनं रोपणं चैव सवर्णकरणं तथा
द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान् ५२
छिद्रा दूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित्
ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम् ५३
व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च
संवत्सरं परिहरेदुपरूढव्रणो नरः ५४
इति सुश्रुतसंहितायां चिकित्सास्थाने भगन्दरचिकित्सितं नामाष्टमोऽध्यायः ८


नवमोऽध्यायः
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनां चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति ३
तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत् ४
ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मु-द्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण मण्डूकपर्ण्य-वल्गुजाटरूषकरूपिकापुष्पैः सर्पिःसिद्धैःसर्षपतैलसिद्धैर्वा तिक्तवर्गेण वा-ऽभिहितेन मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत् तैलं वज्रकम-भ्यङ्गार्थे आरग्वधादिकषायमुत्सादनार्थे पानपरिषे कावगाहादिषु च खदिरकषायम् इत्येष आहाराचारविभागः ५
तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत तत्र त्वक्संप्राप्ते शोधनालेपनानि शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि मांसप्राप्ते शोध-नालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः चतुर्थकर्मगुणप्राप्तं या-प्यमात्मवतः संविधानवतश्च तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्ला-तशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधा नमासे
वेत पञ्चमं नैवोपक्रमेत् ६
तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत् मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागु-डूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्ठिनां पानाभ्यङ्गयोर्विदध्यात् ध-वाश्वकर्णककुभपलाशपिचुमर्दपर्पटक मधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकु-ष्ठिनां प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धंश्लेष्मकु-ष्ठिनां भल्लातकाभया विडङ्गसिद्धं वा सर्वेषां तुवरकतैलं भल्लातकतैलं
वेति ७
सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफला पटोलपिचुमर्दपर्पट-कदुरालभात्रायमाणामुस्ताचन्दनपद्मकहरिद्रो पकुल्या विशालामूर्वाशतावरी-सारिवेन्द्र यवाटरूषकषड्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कः स्यात् कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्दिवगुणो धात्रीफलरसस्तच्चतुर्गुणा आपस्तदैकध्यं समालोड्य विपचेत् एतन्महातिक्तकं नाम सर्पिः कुष्ठविष-मज्वररक्तपित्तहृद्रो गोन्मादापस्मार गुल्मपिडकासृग्दरगलगण्डगण्डमालाश्लीपदपाण्डुरोगविसर्पार्शः षाण्ढ्यकण्डूपामादीञ्छमयेदिति ८
त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रो णे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्या-णीमानि भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्र यवचन्दन किराततिक्तानि पिप्पल्य श्चैतानि घृतप्रस्थे समावाप्य विपचेत् एतत्तिक्तकं नाम सर्पिः कुष्ठ-विषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुगतरोगघ्नं चेति ९
अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत् मण्डलानि चोत्सन्नान्यवलिखेदभीक्ष्णं प्रच्छयेद्वा समुद्र फेनशाकगोजीका-कोदुम्बरिकापत्रैर्वाऽवघृष्यलेपयेल्ला क्षासर्जरसर साञ्जनप्रपुर्ननाडा वल्गु-जतेजोत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा स्वर्जिकातु-त्थकासीस विडङ्गागारधूमचित्रककटुकसुधाहरिद्रा सैन्धवकल्कैर्वा एतान्ये-वावाप्य क्षारकल्पेन निःस्नुते पालाशे क्षारे ततो विपाच्य फाणीतमिव सं-जातमवतार्य लेपयेत् ज्योतिषकफललाक्षामरिचपिप्पलीसुमनः पत्रैर्वा हरि-तालमनः शिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वास्वर्जिकाकुष्ठतुत्थकुटजचि-त्रकविडङ्गमरिच रोध्रमनः शिलाकल्कैर्वा हरीतकीकरञ्जिकाविडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्रा कल्कैर्वा १०
सर्वे कुष्टापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः
वैशेषिकानतस्तूर्ध्वं दद्रू श्वित्रेषु मे शृणु ११
लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्योषं चक्रमर्दस्य बीजम्
कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रू षूक्तो मूलकाद्बीजयुक्तः १२
सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम्
पिष्टो लेपोऽय कपित्थाद्र सेन दद्रू स्तूर्णं नाशयत्येष योगः १३
हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः
शीघ्रं तीव्रा नाशयन्तीह दद्रू ः! स्नानालेपोद्घर्षणेषूपयुक्ताः १४
भद्रा संज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः
सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात् १५
द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः
पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति १६
कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम्
एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि सर्वाण्यपहन्ति शीघ्रम् १७
अध्यर्धतोये सुमतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः
तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम् १८
घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं चपिष्ट्वा
श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय ब्भुक्षिताय १९
तस्योपसंगृह्य च तत् पुरीषमुत्पाचितं सर्वत एव लिम्पेत्
अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति २०
क्षारे सुदग्धे जलगण्डजे तु गजस्य मूत्रेण बहुस्रुते च
द्रो णप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य २१
एतद्यदा चिक्कणतामुपैति तदा समस्तं गुटिका विदध्यात्
श्वित्रं प्रलिम्पेदथ संप्रघृष्य तया व्रजेदाशु सवर्णभावम् २२
कषायकल्पेन सुभावितां तु जलं त्वचा चूतहरीतकीनाम्
तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु २३
आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भावयित्वा
संप्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति २४
आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा
लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च २५
वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी
लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम् २६
तुत्थालकटुकाव्योषसिंहार्कहयमारकाः
कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्नुही २७
तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च
बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् २८
आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः
वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् २९
द्वे लोहरजसः प्रस्थे त्रिफलात्र्! याढकं तथा
त्रिद्रो णेऽपा पचेद्यावद्भागौ द्वावसनादपि ३०
शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः
कल्कैरिन्द्र यवव्योषत्वग्दारुचतुरङ्गुलैः ३१
पारावतपदीदन्तीबाकुचीकेशराह्वयैः
कण्टकार्या च तत्पक्वं घृतं कुष्ठिषु योजयेत् ३२
दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा
अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ३३
त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका
वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक् ३४
काकमाच्यर्कवरुणदन्तीकुटजचित्रकात्
दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ३५
त्रिद्रो णेऽपा पचेद्यावत् षट्प्रस्थं परिशेषितम्
शकृद्र सदधिक्षीरमूत्राणां पृथगाढकम् ३६
तद्वद्घृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः
करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः ३७
नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम्
म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम्
भगन्दरं कृमीनर्शो महानीलं नियच्छति ३८
मूत्रं गब्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्र युक्तं स्थितं हि
पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम् ३९
पूतीकार्कस्रुङ्नरेन्द्र द्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च
लेपः श्वित्रं हन्ति दद्रू र्व्रणांश्च दुष्टान्यर्शांस्येष नाडीव्रणांश्च ४०
अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा
तीक्ष्णैर्योगैश्छर्दयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ४१
दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः
निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान् ४२
पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम्
स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात् ४३
पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात्
धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्रा ज्याभ्यामेकतो वाऽवलिह्यात् ४४
पीत्वा मासं वा पलांशां हरिद्रा ं! मूत्रेणान्तं पापरोगस्य गच्छेत्
एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ४५
तद्वत्तार्क्ष्यं मासमात्रं च पेयं तेनाजस्रं देहमालेपयेच्च
आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे ४६
मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः
सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ४७
कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिद्रो र्णं! व्योषयुक्तं च युञ्जन्
गोमूत्राम्बुद्रो णसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ४८
आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे
जीर्णं पक्वं तद्धरिद्रा द्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ४९
रोध्रारिष्टं पद्मकं रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च
योज्याः स्नआने दह्यमानस्य जन्तोः पेया वा स्यात् क्षौद्र युक्ता त्रिभण्डी ५०
खादेत् कुष्ठी मांसशापिआ!तिए! पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान्
निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वाऽकालर्कसप्तच्छदानाम् ५१
जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः
मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् संप्रयुक्तान् विडङ्गैः ५२
कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा
पक्वं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद्दुष्टवत् संविधानम् ५३
सप्तपर्णकरञ्जार्कमालतीकरवीरजम्
स्नुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि ५४
विषलाङ्गलवज्राख्यकासीसालमनःशिलाः
करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ५५
सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत्
मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ५६
एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम्
सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ५७
कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी
लाक्षा सर्जरसोऽकश्च सास्फोतारग्वधौ स्नुही ५८
शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा
कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ५९
मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा
सैन्धवं करवीरश्च गृहधूमं विषं तथा ६०
कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये
समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ६१
गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम्
कारञ्जं या महावीर्यं सार्षपं वा महागुणम् ६२
अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान्
नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ६३
महावज्रकमित्येतन्नाम्ना तैलं महागुणम्
पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ६४
सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः
पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम् ६५
शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः
स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा ६६
यवागूं पाययेदेनं साधितां खदिराम्बुना
एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च ६७
कुर्यात्तैलानि सर्पींषि प्रदेहोद्धर्षणानि च
प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान्
पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ६८
कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम्
जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ६९
दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः
सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ७०
यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा
तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ७१
नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः
योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ७२
इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ९


दशमोऽध्यायः
अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कुष्ठेषु मेहेषु कफामयेषु सर्वाङ्गशोफेषु च दारुणेषु
कृशत्वमिच्छत्सु च मेदुरेषु योगानिमानग्र्यमतिर्विदध्यात् ३
क्षुण्णान् यवान्निष्पूतान् रात्रौ गोमूत्रपर्युषितान् महति किलिञ्जे शोषयेत् एवं सप्तरात्रं भावयेच्छोषयेच्च ततस्तान् कपालभृष्टान् शक्तून् कारयित्वा प्रातः प्रातरेव कुष्ठिनं प्रमेहिणं वा सालसारादिकषायेण कण्टकिवृक्षकषायेण वा पाययेद्भल्लातकप्रपुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्त चूर्णचतुर्भाग युक्तान् एव मेव सालसारादिकषायपरिपीतानामारग्वधादिकषायपरिपीतानां वा गवाश्वा शकृद्भूतानां वा यवानां शक्तून् कारयित्वाभल्लातकादीनां चूर्णा-न्यावाप्य खदिराशननिम्बराजवृक्षरोहीतकगुडूचीनामन्यतमस्य कषायेण शर्करामधुमधुरेण द्रा क्षायुक्तेन दाडिमामलकवेतसाम्लेन सैन्धवलवणान्वितेन पाययेत् एष सर्वमन्थकल्पः ४
यावकांश्च भक्ष्यान् धानोलुम्बककुल्माषापूपपूर्णकोशोत्कारिकाशष्कुलिका
कुणावीप्रभृतीन् सेवेत यवविधानेन गोधूमवेणुयवानुपयुञ्जीत ५
अरिष्टानतो वक्ष्यामःपूतीकचव्यचित्रकसुरदारुसारिवादन्तीत्रिवृत्त्रिकटुकानां प्रत्येकं षट्पलिका भागा बदरकुडवस्त्रिफलाकुडव इत्येतेषां चूर्णानि ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभाजने प्राक्कृतसंस्कारे सप्तोदककुडवानयोर-जोर्धकुडवमर्धतुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्वनुगुप्तं कृत्वा य-वपल्ले सप्तरात्रं वासयेत् ततो यथाबलमुपयुञ्जीत एषोऽरिष्टः कुष्ठमेहमेदः पाण्डुरोगश्वयथूनपहन्ति एवं शालसारादौ न्यग्रोधादावारग्वधादौ चारिष्टान्
कुर्वीत ६
आसवानतो वक्ष्यामःपलाशभस्मपरिस्रुतस्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणितस्यैकध्यमरिष्टकल्पेन विदध्यात् एवं तिलादीनां क्षारेषु
शालसारादौ न्यग्रोधादावारग्वधादौ मूत्रेषु चासवान् विदध्यात् ७
अथ सुरा वक्ष्यामःशिंशपाखदिरयोः सारमादायोत्पाट्य चोत्तमारणीब्राह्मी-कोशवतीस्तत्सर्वमेकतः कषायकल्पेन विपाच्योदकमाददीत मण्डोदकार्थं किण्वपिष्टमभिषुणुयाच्च यथोक्तम् एवं सुराः शालसारादौ न्यग्रोधादावारग्वधादौ च विदध्यात् ८
अतोऽवलेहान् वक्ष्यामःखदिरासननिम्बराजवृक्षशालसारक्वाथे तत्सारपि-ण्डाञ्छ्लक्ष्णपिष्टान् प्रक्षिप्य विपचेत् ततो नातिद्र वं नातिसान्द्र मवतार्य त-स्य पाणितलं पूर्णमप्रातराशो मधुमिश्रं लिह्यात् एवं शालसारादौ न्यग्रोधादावारग्वधादौ च लेहान् कारयेत् ९
अतश्चूर्णक्रियां वक्ष्यामःशालसारादीनां सारचूर्णप्रस्थमाहृत्यारग्वधादिकषा-यपरिपीतमनेकशः शालसारादिकषायेणैव पाययेत् एवं न्यग्रोधादीनां फलेषु
पुष्पेष्वारग्वधादीनां चूर्णक्रियां कारयेत् १०
अत ऊर्ध्वमयस्कृतीर्वक्ष्यामःतीक्ष्मलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतप्तानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोडशवारान् ततः खदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्धनतान्तवपरि-स्रावितानि ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत जीर्णे यथा-व्याध्यनम्लमलवणमाहारं कुर्वीत एवं तुलामुपयुज्य कुष्ठमेहमेदःश्वयथुपा-ण्डुरोगोन्मादापस्मारानपहत्य वर्षशतं जीवति तुलायां तुलायां वर्षशतमुत्कर्षः एतेन सर्वलौहेष्वयस्कृतयो व्याख्याताः ११
त्रिवृच्छ्यामाग्निमन्थसप्तलाकेवुकशङ्खिनीतिल्वक त्रिफलापलाशशिंशपानां स्वरसमादाय पालाश्यां द्रो ण्यामभ्यासिच्य खदिराङ्गारतप्तमयः पिण्डं त्रि-सप्तकृत्वो निर्वाप्य तमादाय पुनरासिच्य स्थाल्यां गोमयाग्निना विपचेत् त-तश्चतुर्थभागावशिष्टमवतार्य परिस्राव्य भूयोऽइग्नतप्तान्ययः पत्राणि प्रक्षिपेत् सिध्यति चास्मिन् पिप्पल्यादिचूर्णभागं द्वौ मधुनस्तावद्घृतस्येति दद्यात् त-तः प्रशान्तमायसे पात्रे स्वनुगुप्तं निदध्यात् ततो यथायोगं शुक्तिं प्रकुञ्चं वो-पयुञ्जीत जीर्णे यथाव्याध्याहारमुपसेवेत एषौषधायस्कृतिरसाध्यं कुष्ठं प्रमेहं वा साधयति स्थूलमपकर्षति शोफमुपहन्ति सन्नमग्निमुद्धरति विशेषेण चो-पदिश्यते राजयक्ष्मिणां वर्षशतायुश्चानया पुरुषो भवति शालसारादिक्वा-थमासिच्य पालाश्यां द्रो ण्यामयोघनांस्तप्तात्निनर्वाप्य कृतसंस्कारे कलशे-ऽभ्यासिच्य पिप्पल्यादिचूर्णभागं क्षौद्रं गुडमिति च दत्त्वास्वनुगुप्तं निदध्यात् एतां महौषधायस्कृतिं मासमर्धमासं वा स्थितां यथाबलमुपयुञ्जीत एवं
न्यग्रोधादावारेवतादिषु च विदध्यात् १२
अतः खदिरविधानमुपदेक्ष्यामःप्रशस्तदेशजातमनुपहतं मध्यमवयसं खदिरं परितः खानयित्वा तस्य मध्यमं मूलं छित्त्वाऽयोमयं कुम्भं तस्मिन्नन्तरे निद-ध्याद्यथा रसग्रहणसमर्थो भवति ततस्तं गोमयमृदाऽवलिप्तमवकीर्येन्धनैर्गो-मयमिश्रैरादीपयेद्यथाऽस्य दह्यमानस्य रसः स्रवत्यधस्तात् तद्यदा जानीयात् पूर्णं भाजनमिति अथैनमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात् ततो यथायोगं मात्रामामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत जीर्णे भल्लातकविधानवदाहारः परिहारश्च प्रस्थे चोपयुक्तए शतं वर्षाणामा-युषोऽभिवृद्धिर्भवति खदिरसारतुलामुदकद्रो णे विपाच्य षोडशांशावशिष्ट-मवतार्यानुगुप्तं निदध्यात् तमामलकरसमधु सर्पिर्भिः संसृज्योपयुञ्जीत एष एव सर्ववृक्षसारेषु कल्पः खदिरसारचूर्णतुलां खदिरसारक्वाथमात्रां वा
प्रातः प्रातरुपसेवेत खदिरसारक्वाथसिद्धमाविकं वा सर्पिः १३
अमृतवल्लीस्वरसं क्वाथं वा प्रातः प्रातरुपसेवेत तत्सिद्धं वा सर्पिः अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जीत एवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत इति १४
कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रो णं शालसारादिकषायस्य च त्रिफलात्रिकटुकपरूषफलमज्जविडङ्गफलसारचित्रार्कावल्गुजहरिद्रा द्वयत्रि-वृद्दन्तीद्र वन्तीन्द्र यवयष्टीमधुकातिविषारसाञ्जनप्रियङ्गूणां पालिका भागा-स्तानैकध्यं स्नेहपाकविधानेन पचेत् तत् साधुसिद्धमवतार्य परिस्राव्यानुगुप्तं निदध्यात् तत उपसंस्कृतशरीरः प्रातः प्रातरुत्थाय पाणिशुक्तिमात्रं क्षौद्रे ण प्रतिसंसृज्योपयुञ्जीत जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदकसिद्धं मृद्वोदनमश्नीयात् खदिरोदकसेवी इत्येवं द्रो णमुपयुज्य सर्वकुष्ठै-र्विमुक्तः शुद्धतनुः स्मृतिमान् वर्षशतायुररोगो भवति १५
भवति चात्र
सुरामन्थासवारिष्टांल्लेहांश्चूर्णान्ययस्कृतीः
सहस्रशोऽपि कुर्वीत बीजेनानेन बुद्धिमान् १६
इति सुश्रुतसंहितायां चिकित्सास्थाने महाकुष्ठचिकित्सितं नाम दशमोऽध्यायः १०


एकादशोऽध्यायः
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वौ प्रमेहौ भवतःसहजोऽपथ्यनिमित्तश्च तत्र सहजो मातृपितृबीजदोषकृतः अहिताहारजोऽपथ्यनिमित्तः तयोः पूर्वेणोपद्रुतः कृशो रूक्षोऽल्पाशी पिपा-सुर्भृशं परिसरणशीलश्च भवति उत्तरेण स्थूलो बह्वाशी स्निग्धः शय्यासनस्वप्नशीलः प्रायेणेति ३
तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सेत स्थूलमपतर्पणयुक्ताभिः
सर्व एव च परिहरेयुः सौवीरकतुषोदकशुक्तमैरेयसुरासवतोयपयस्तैल घृतेक्षुविकारदधिपिष्टान्नाम्लयवागूपानकानि ग्राम्यानूपौदकमांसानि चेति ५
ततः शालिषष्टिकयवगोधूमकोद्र वोद्दालकाननवान् भुञ्जीत चणकाढकीकु-लत्थमुद्गविकल्पेन तिक्तकषायाभ्यां च शाकगणाभ्यां निकुम्भेङ्गुदीसर्षपात सीतैलसिद्धाभ्यां बद्धमूत्रैर्वा जाङ्गलैर्मांसैरपहृतमेदोभिरनम्लैरघृतैश्चेति ६
तत्रादित एव प्रमेहिणं स्निग्धमन्यतमेन तैलेन प्रियङ्ग्वादिसिद्धेन वा घृतेन वामयेत् प्रगाढं विरेचयेच्च विरेचनादनन्तरं सुरसादि कषायेणास्थापयेन्म-हौषधभद्र दारुमुस्तावापेन मधु सैन्धवयुक्तेन दह्यमानं च न्यग्रोधादिकषायेण
निस्तैलेन ७
ततः शुद्धदेहमामलकरसेन हरिद्रा ं! मधुसंयुक्तां पाययेत् त्रिफलाविशाला दे-वदारुमुस्तकषायं वा शालकम्पिल्लकमुष्कककल्कमक्षमात्रं वा मधुमधुर-मामलकरसेन हरिद्रा युतं कुटजकपित्थरोहीतकबिभीतक सप्तपर्ण पुष्प क-ल्कं वा निम्बारग्वधसप्तपर्णमूर्वाकुटजसोमवृक्षपलाशानां वा त्वक्पत्र मूलफलपुष्पकषायाणि एते पञ्च योगाः सर्वमेहानामपहन्तारो व्याख्याताः ८
विशेषश्चात ऊर्ध्वंतत्रोदकमेहिनं पारिजातकषायं पाययेत् इक्षुमेहिनं वैजय-न्तीकषायं सुरामेहिनं निम्बकषायं सिकतामेहिनं चित्रककषायं शनैर्मेहिनं खदिरकषायं लवणमेहिनं पाठाऽगुरुहरिद्रा कषायं पिष्टमेहिनं हरिद्रा दारुह-रिद्रा कषायं सान्द्र मेहिनं सप्तपर्णकषायं शुक्रमेहिनं दूर्वाशैवलप्लवहठकर-ञ्जकसेरुककषायं ककुभचन्दनकषायं वा फेनमेहिनं त्रिफलारग्वधमृद्वीका-कषायं मधुमधुरमिति पैत्तिकेषु नीलमेहिनं शालसारादिकषायमश्वत्थकषायं वा पाययेत् हरिद्रा मेहिनं राजवृक्षकषायं अम्लमेहिनं न्यग्रोधादिकषायं क्षा-रमेहिनं त्रिफलाकषायं मञ्जिष्ठमोहिनं मञ्जिष्ठाचन्दनकषायं शोणितमेहिनं गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूरकषायं मधुमिश्रं अत ऊर्ध्वमसाध्येष्वपि योगान् यापनार्थं वक्ष्यामः तद्यथा सर्पिर्मेहिनं कुष्ठकुटजपाठाहिङ्गुकटुरोहि-णीकल्कं गुडूचीचित्रककषायेण पाययेत् वसामेहिनमग्निमन्थकषायं शिंश-पाकषायं वा क्षौद्र मेहिनं कदरक्रमुककषायं हस्तिमेहिनं तिन्दुककपित्थशि-रीषपला शपाठामूर्वा दुःस्पर्शाकषायं मधुमधुरंहस्त्यश्वशूकरखरोष्ट्रास्थिक्षारं
चेति दह्यमानमौदककन्दक्वाथसिद्धां यवागूं क्षीरेक्षुरसमधुरां पाययेत् ९
ततः प्रियङ्ग्वनन्तायूथिकापद्मात्रायन्तिकालोहितिकाम्बष्ठादाडिमत्वक् शा-लपर्णीपद्मतुङ्गकेशरधातकीबकुलशाल्मली श्रीवेष्टकमोचर सेष्वरिष्टानय-स्कृतीर्लेहानासवांश्च कुर्वीता शृङ्गाटकगिलोड्यबि समृणालकाशकसेरुक-मधुकाम्रजम्ब्वसनतिनिशककुभकट्वङ्गरोध्रभल्लातकपलाश चर्म वृक्षगि-रिकर्णिकाशीतशिवनिचुल दाडिमाजकर्ण हरिवृक्षराजादनगोपघोण्टाविक-ङ्कतेषु वा यवान्नविकारांश्च सेवेत यथोक्तकषायसिद्धां यवागूं चास्मै प्रयच्छेत्कषायाणि वा पातुम् १०
महाधनमहिताहारमौषधद्वेषिणमीश्वरं वा पाठाभयाचित्रकप्रगाढमनल्पमा-क्षिकमन्यतममासवं पाययेत् अङ्गारशूल्योपदंशं वा माध्वीकमभीक्ष्णं क्षौ-द्र कपित्थमरिचानुविद्धानि चास्मै पानभोजनान्युपहरेत् उष्ट्राश्वतरखरपुरीषचू-र्णानि चास्मै दद्यादशनेषु हिङगुसैन्धवयुक्तैर्यूषैः सार्षपैश्च रागैर्भोजयेत् अ-विरुद्धानि चास्मै पानभोजनान्युपहरेद्र सगन्धवन्ति च प्रवृद्धमेहास्तु व्यायामनियुद्धक्रीडागजतुरगरथपदातिचर्यापरिक्रमणान्यस्त्रोपास्त्रे वा सेवेरन् ११
अधनस्त्वबान्धवो वा पादत्राणातपत्र विरहितो भैक्ष्याशी ग्रामैकरात्रवासी मुनि रिव संयतात्मा योजनशतमधिकं वा गच्छेत् महाधनो वा श्यामाक-नीवार वृत्तिरामलककपित्थतिन्दुकाश्मन्तकफलाहारो मृगैः सह वसेत् त-न्मूत्रशकृद्भक्षः सततमनुव्रजेद्गाः ब्राह्मणो वा शिलोञ्छवृत्तिर्भूत्वा ब्रह्मरथमुद्धरेत् कृषेत् सततमितरः खनेद्वा कूपं कृशं तु सततं रक्षेत् १२
भवति चात्र
अधनो वैद्यसन्देशादेवं कुर्वन्नतन्द्रि तः
संवत्सरादन्तराद्वा प्रमेहात् प्रतिमुच्यते १३
इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहचिकित्सितं नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः
अथातः प्रमेहपिडकाचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शराविकाद्या नव पिडकाः प्रागुक्ताःताःप्राणवतोऽल्पास्त्वङ्मांसप्राप्ता मृद्व्योऽल्परुजः क्षिप्रपाकभेदिन्यश्च साध्याः ३
ताभिरुपद्रुतं प्रमेहिणमुपचरेत् तत्र पूर्वरूपेष्वपतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत् एवमकुर्वतस्तस्य मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभ-वति प्रमेहश्चाभिव्यक्तो भवति तत्रोभयतः संशोधनमासेवेत एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोफं जनयन्त्युपद्र वान् वा कांश्चित् तत्रो-क्तः प्रतीकारः सिरामोक्षश्च एवमकुर्वतस्तस्य शोफो वृद्धोऽतिमात्रं रुजो वि-दाहमापद्यते तत्र शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च एवमकुर्वतस्तस्य पूयोऽभ्यन्तरमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्यः तस्मादादित एव प्रमेहिणमुपक्रमेत् ४
भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपुनर्नवाचित्रकशटीस्नुही वरु-णकपुष्करदन्तीपथ्या दशपलोन्मिता यवकोलकुलत्थांश्च प्रास्थिकान् सलि-लद्रो णे निष्क्वाथ्य चतुर्भागावशिष्टेऽवतार्य वचात्रिवृत्क म्पिल्लकभार्गीनि-चुलशुण्ठीगजपिप्पलीविडङ्गरोध्रशिरीषाणां भागैरर्धपलिकैर्घृतप्रस्थं विपा-चयेन्मेहश्वयथुकुष्ठगुल्मो दरार्शःप्लीहविद्र धिपिडकानां नाशनं नाम्ना धान्वन्तरम् ५
दुर्विरेच्या हि मधुमेहिनो भवन्ति मेदोऽभिव्याप्तशरीरत्वात् तस्मात्तीक्ष्णमेतेषां
शोधनं कुर्वीत पिडकापीडिताः सोपद्र वाः सर्व एव प्रमेहामूत्रादिमाधुर्येमधुगन्धसामान्यात् पारिभाषिकीं मधुमेहाख्यां लभन्ते ६
न चैतान् कथंचिदपि स्वेदयेत् मेदोबहुत्वादेतेषां विशीर्यते देहः स्वेदेन ७
रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः ततो मधुमेहिनामधः
काये पिडकाः प्रादुर्भवन्ति ८
अपक्वानां तु पिडकानां शोफवत् प्रतीकारः पक्वानां व्रणवदिति तैलं तु व्र-णरोपणमेवादौ कुर्वीत आरग्वधादिकषायमुत्सादनार्थे शालसारादिकषायं परिषेचने पिप्पल्यादिकषायं पानभोजनेषु पाठाचित्रकशार्ङ्गेष्टाक्षुद्रा बृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णानि मधुमिश्राणि प्राश्नीयात् ९
शालसारादिवर्गकषायं चतुर्भागावशिष्टमवतार्य परिस्राव्य पुनरुपनीय सा-धयेत् सिध्यति चामलकरोध्रप्रियङ्गुन्दन्तीकृष्णायस्ताम्रचूर्णान्यावपेत् एतदनु-पदग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात् ततो यथायोगमुपयुञ्जीत एष लेहः
सर्वमेहानां हन्ता १०
त्रिफलाचित्रकत्रिकटुकविडङ्गमुस्तानां नव भागास्तावन्त एव कृष्णायश्चूर्ण-स्य तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत एत-न्नवायसम् एतेन जाठर्यं न भवति सन्नोऽग्निराप्या यते दुर्नामशोफपाण्डुकुष्ठ-रोगाविपाककासश्वसाप्रमेहाश्च न भवन्ति ११
शालसारादिनिर्यूहे चतुर्थांशावशेषिते
परिस्रुते ततः शीते मधु माक्षिकमावपेत् १२
फाणितीभावमापन्नं गुडं शोधितमेव च
श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च १३
एकध्यमावपेत् कुम्भे संस्कृते घृतभाविते
पिप्पलीचूर्णमधुभिः प्रलिप्तेऽन्तशुचौ दृढे १४
श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान्
खदिराङ्गारतप्तानि बहुशः सन्निपातयेत् १५
सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत्
मासांस्त्रींश्चतुरो वाऽपि यावदालोहसंक्षयात् १६
ततो जातरसं तं तु प्रातः प्रातर्यथाबलम्
निषेवेत यथायोगमाहारं चास्य कल्पयेत् १७
कार्श्यकृद्बलिनामेष सन्नस्याग्नेः प्रसाधकः
शोफनुद्गुल्महृत् कुष्ठमेहपाण्ड्वामयापहः १८
प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः
अभिष्यन्दापहरणो लोहारिष्टो महागुणः १९
प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम्
विशदं तिक्तकटुकं तदाऽरोग्यं प्रचक्षते २०
इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहपिडकाचिकित्सितं
नाम द्वादशोऽध्यायः १२


त्रयोदशोऽध्यायः
अथातो मधुमेहचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम्
योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् ३
मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ४
शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम्
त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम् ५
ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ
लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ६
तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत्
त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ७
यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः
तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ८
कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा
तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ९
गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते
तद्भावितं सारगणैर्हृतदोषो दिनोदये १०
पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्
जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् ११
उपयुज्य तुलामेवं गिरिजादमृतोपमात्
वपुर्वर्णबलोपेतो मधुमेहविवर्जितः १२
जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः
शतं शतं तुलायां तु सहस्रं दशतौलिके १३
भल्लातकविधानेन परिहारविधिः स्मृतः
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् १४
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्
अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् १५
न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु
शर्करां चिरसंभूतां भिनत्ति च तथाऽश्मरीम् १६
भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः
एवं च माक्षिकं धातुं तापीजममृतोपमम् १७
मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्
पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् १८
तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत्
पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् १९
योगेनानेन मतिमान् साधयेदपि कुष्ठिनम्
वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु २०
वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः
तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे २१
मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च
तिलवत् पीडयेद्द्रो ण्यां स्रावयेद्वा कुसुम्भवत् २२
तत्तैलं संहृतं भूयः पचेदातोयसंक्षयात्
अवतार्य करीषे च पक्षमात्रं निधापयेत् २३
स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान्
चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे २४
मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम्
तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्! यते २५
मज्जसार महावीर्य सर्वान् धातून् विशोधय
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः २६
तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः
अस्नेहलवणां सायं यवागूं शीतलां पिबेत् २७
पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः
पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः २८
पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् २९
निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रि तः
तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ३०
भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम्
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ३१
सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना
पक्षिमांसरसाहारं करोति द्विशतायुषम् ३२
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्
वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ३३
शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया
महावीर्यस्तुवरकः कुष्ठमेहापहः परः ३४
सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च
पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ३५
इति सुश्रुतसंहितायां चिकित्सास्थाने
मधुमेहचिकित्सितं नाम त्रयोदशोऽध्यायः १३


चतुर्दशोऽध्यायः
अथात उदराणां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अष्टावुदराणि पूर्वमुद्दिष्टानि तेष्वसाध्यं बद्धगुदं परिस्रावि च अवशिष्टानि कृच्छ्रसाध्यानिसर्वाण्येव प्रत्याख्यायोपक्रमेत तेष्वाद्यश्चतुर्वर्गो भेषजसाध्यः उत्तरः शस्त्रसाध्यः कालप्रकर्षात् सर्वाण्येव शस्त्रसाध्यानि वर्जयितव्यानि
वा ३
उदरी तु गुर्वभिष्यन्दिरूक्षविदाहिस्निग्धपिशितपरिषेकावगाहान् परिहरेत् शालिषष्टिकयवगोधूमनीवारान् नित्यमश्नीयात् ४
तत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषास्नेहयित्वा तिल्वकवि पक्वेना नुलोम्य चित्राफलतैलप्रगाढेन विदारिगन्धादिकषायेणास्थापयेदनुवासयेच्च साल्वणेन चोपनाहयेदुदरं भोजयेच्चैनं विदारिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन च स्वेदयेच्चाभीक्ष्णम् ५
पित्तोदरिणं तु मधुरगणविपक्वेन सर्पिषा स्नेहयित्वा श्यामात्रिफलात्रिवृद्वि-पक्वेनानुलोम्य शर्करामधुघृतप्रगाढेन न्यग्रोधादिकषायेणास्थापयेदनुवासयेच्च पायसेनोपनाहयेदुदरं भोजयेच्चनैं विदारिगन्धादिसिद्धेन पयसा ६
श्लेष्मोदरिणं तु पिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीरविपक्वे-नानुलोम्य त्रिकटुकमूत्रक्षारतैलप्रगाढेन मुष्ककादिकषायेण स्थापयेदनुवा-सयेच्च शणातसीधातकीकिण्वसर्षपमूलकबीजकल्कैश्चो पनाहयेदुदरं भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेण पायसेन वा स्वेदयेच्चाभीक्ष्णम् ७
दूष्योदरिणं तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरससिद्धेन सर्पिषा विरेचये-न्मासमर्धमासं वा महावृक्षक्षीरसुरागोमूत्रसिद्धेन वा शुद्धकोष्ठं तु मद्येनाश्व-मारकगुञ्जाकाकादनीमूलकल्कं पाययेत् इक्षुकाण्डानि वा कृष्णसर्पेण दंश-यित्वा भक्षयेद्वल्लीफलानि वा मूलजं कन्दजं वा विषमासेवयेत् तेनागदो
भवत्यन्यं वा भावमापद्यते ८
भवति चात्र
कुपितानिलमूलत्वात् संचितत्वान्मलस्य च
सर्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम् ९
अत ऊर्ध्वं सामान्ययोगान् वक्ष्यामः तद्यथाएरण्डतैलमहरहर्मासं द्वौ वा केवलं मूत्रयुक्तं क्षीरयुक्तं वा सेवेतोदकवर्जी माहिषं वा मूत्रं क्षीरेण निरा-हारः सप्तरात्रम् उष्ट्रीक्षीराहारो वान्नवारिवर्जी पक्षं पिप्पलद्यं वा मासं पूर्वो-क्तेन विधानेनासेवेत सैन्धवाजमोदायुक्तं वा निकुम्भतैलम् आर्द्र शृङ्गवेररस-पात्रशतसिद्धं वा वातशूलेऽवचार्यं शृङ्गवेररसविपक्वं क्षीरमासेवेत चव्यशृ-ङ्गवेरकल्कं वा पयसा सरलदेवदारुचित्रकमेव वा मुरङ्गश्लपर्णीश्यामापुन-र्नवाकल्कं वा ज्योतिष्कफलतैलं वा क्षीरेण स्वर्जिकाहिङ्गुमिश्रं पिबेत् गुड-द्वितीयां वा हरीतकीं भक्षयेत् स्नुहीक्षीरभावितानां वा पिप्पलीनां सहस्रं कालेन पथ्याकृष्णाचूर्णं वा स्नुहीक्षीरभावितमुत्कारिकां पक्वां दापयेत् ह-रीतकीचूर्णं प्रस्थमाढके घृतस्यावाप्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्या-नुगुप्तं कृत्वाऽधमासं यवपल्ले वासयेत् ततश्चोद्धृत्य परिस्राव्य हरीतकी-क्वाथाम्लदधीन्यावाप्य विपचेत् तद्यथायोगं मासमर्धमासं वा पायेयत् गव्ये पयसि महावृक्षक्षीरमावाप्य विपचेत् विपक्वं चावतार्य शीतीभूतं मन्थाने-नाभिमथ्य नवनीतमादाय भूयो महावृक्षक्षीरेणैव विपचेत् तद्यथायोगं मासं मासार्धं वा पाययेत् चव्यचित्रकदन्त्यतिविषाकुष्ठसारिवात्रिफलाजमोदहरिद्रा शङ्खिनीत्रिवृत्त्रिकटुकानामर्धकार्षिका भागा राजवृक्ष फलमज्ज्ञामष्टौ कर्षाः महावृक्षक्षीरपले द्वे गवांक्षीरमूत्रयोरष्टावष्टौ पलानि एतत् सर्वं घृत-प्रस्थे समावाप्य विपचेत् तद्यथायोगं मासमर्धमासं वा पाययेत् एतानि ति-ल्वकघृतचतुर्थानिसर्पीष्युदरगुल्म विद्र ध्यष्ठीलानाहकुष्ठन्म्दापस्मारेषूपयो-ज्यानि विरेचनार्थं मूत्रासवारिष्टसुराश्चाभीक्ष्णं महावृक्षक्षीरसंभृताः सवेत विरेचनद्र व्यकषायं वा शृङ्गवेरदेवदारुप्रगाढम् १०
वमनविरेचनशिरोविरेचनद्र व्याणां पालिका भागाः पिप्पल्यादिवचादिहरि-द्रा दिपरिपठितानां च द्र व्याणां श्लक्ष्णपिष्टानां यथोक्तानां च लवणानां त-त्सर्वं मूत्रगणे प्रक्षिप्य महावृक्षक्षीरप्रस्थं च मृद्वग्निनाऽवघट्टयन् विपचेदप्र-दग्धकल्कं तत्साधुसिद्धमवतार्य शीतीभूतमक्षमात्रा गुटिका वर्तयेत् तासा-मेकां द्वे तिस्रो वा गुटिका बलापेक्षया मासांस्त्रींश्चतुरो वा सेवेत एषाऽना-हंवर्तिक्रिया विशेषेण महाव्याधिषूपयुज्यते इ!विशेषेणइ! कोष्ठजांश्च कृमीनपहन्ति कासश्वसाकृमिकुष्ठप्रतिश्यायारोचकाविपाकोदावर्तांश्च नाशयति ११
मदनफलमज्जकुटजजीमूतकेक्ष्वाकुधामार्गवत्रिवृत्त्रिकटुकसर्षपलवणानि महावृक्षक्षीरमूत्रयोरन्यतरेण पिष्ट्वाऽङ्गुष्ठमात्रां वर्तिं कृत्वोदरिण आनाहे तैल-लवणाभ्यक्तगुदस्यैकां द्वे तिस्रो वा पायौ निदध्यात् एषाऽना हवर्तिक्रिया
वातमूत्रपुरीषोदावर्ताध्मानानाहेषु विधेया १२
प्लीहोदरिणः स्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ कूर्पराभ्यन्तरतः सिरां विध्येत् विमर्दयेच्च पाणिना प्लीहानं रुधिरस्यन्दनार्थां ततः संशुद्धदेहं समु-द्र शुक्तिकाक्षारं पयसा पाययेत हिङ्गुसौवर्चिके वा क्षीरेण स्रुतेन पलाशक्षा-रेण वा यवक्षारं किंशुकक्षारोदकेन वा बहुशः स्रुतेन यवक्षारं पारिजातके-क्षुरकापामार्गक्षारं वा तैलसंसृष्टं शोभाञ्जनकयूषं पिप्पलीसैन्धवचित्रकयुक्तं
पूतिकरञ्जक्षारंवाऽम्लस्रुतं विड्लवणपिप्पलीप्रगाढम् १३
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरयवक्षारसैन्धवानां पालिका भागाः घृतप्रस्थं तत्तुल्यं च क्षीरं तदैकध्यं विपाचयेत् एतत् षट्पलकं नाम सर्पिः प्लीहाग्निसङ्गगुल्मोदरोदावर्तश्वयथुपाण्डुरोगकासश्वासप्रतिश्यायोर्ध्ववातविषमज्वरानपहन्ति मन्दाग्निर्वा हिङग्वादिकं चूर्णमुपयुञ्जीत १४
यकृद्दाल्येऽप्येष एव क्रियाविभागः
विशेषतस्तु दक्षिणबाहौ सिराव्यधः १५
मणिबन्धं सकृन्नाम्य वामाङ्गुष्ठसमीरिताम्
दहेत् सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये १६
बद्धगुदे परिस्राविणि च स्निग्धस्विन्नस्याभ्यक्तस्याधो नाभेर्वामतश्चतुरङ्गुल-मपहाय रोमराज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाणमन्त्राणि निष्कृष्यनिरी-क्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं बालं वाऽपोह्य मलजातं वा ततो म-धुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत् परिस्राविण्यप्येवमेव शल्यमुद्धृत्यान्त्रस्रावान् संशोध्य तच्छिद्र मान्त्रं समा-धाय कालपिपीलिकाभिर्दंशयेत् दष्टे च तासां कायानपहरेन्न शिरांसि ततः पूर्ववत् सीव्येत् संधानं च यथोक्तं कारयेत् यष्टीमधुकमिश्रया च कृष्णमृदा-ऽवलिप्य बन्धेनोपचरेत् ततो निवातमागारं प्रवेश्याचारिकमुपदिशेत् वासयेच्चैनं तैलद्रो ण्यां सर्पिद्रो र्ण्यां! वा पयोवृत्तिमिति १७
दकोदरिणस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थितस्याप्तैः सुपरिगृ-हीतस्याकक्षात् परिवेष्टितस्याधोनाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या व्री-हिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत् तत्र त्रप्वादीनामन्यतमस्य नाडीं द्विद्वरां पक्षनाडीं वा संयोज्य दोषोदकमवसिञ्चेत् ततो नाडीमपहृत्य तैलल-वणेनाभ्यज्य व्रणं बन्धेनोपचरेत् न चैकस्मिन्नेव दिवसे सर्वं दोषोदकमपह-रेत् सहसा ह्यपहृते तृष्णाज्वराङ्गमर्दातीसारश्वासकासपाददाहा उत्पद्येरन्नापू-र्यते वा भृशतरमुदरमसञ्जताप्राणस्यतस्मात्तृतीयचतुर्थपञ्च मषष्ठाष्टमदशमद्वा-दशषोडशरात्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पम वसिञ्चेत् निःसृते च दोषे गाढतरमाविककौशेयचर्मणामन्यतमेन परिवेष्टयेदुदरं तथा नाध्मापयति वायुः षण्मासांश्च पयसा भोजयेज्जाङ्गलरसेन वा ततस्त्रीन्मासानर्धोदकेन पयसा फलाम्लेन जाङ्गलरसेन वा अवशिष्टं मासत्रयमन्नं लघु हितं वा सेवेत
एवंसंवत्सरेणागदो भवति १८
भवति चात्र
आस्थापने चैव विरेचने च पाने तथाऽहारविधिक्रियासु
सर्वोदरिभ्यः कुशलैः प्रयोज्यं क्षीरं शृतं जाङ्गलजो रसो वा १९
इति सुश्रुतसंहितायां चिकित्सास्थाने उदरचिकित्सितं नाम चतुर्दशोऽध्यायः १४


पञ्चदशोऽध्यायः
अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम् अत्र हि योनियकृत्प्ली हान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन उत्कर्षणापकर्षणस्थाना-पवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं
चाहिंसता तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत ३
तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा स्वभावगता अपि त्रयः सङ्गाभवन्तिशिरसो वैगुण्यादंसयोर्जघनस्य वा ४
जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात् तान् वक्ष्यामः ५
इहामृतं च सोमश्च चित्रभानुश्च भामिनि
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ६
इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ७
मुक्ताः पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः
मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः ८
औषधानि च विदध्याद्यथोक्तानि मृते चोत्तानाया आभुग्नसक्थ्यावस्त्रा
धार कोन्नमितकट्या धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत् तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत् ए-कसन्क्था प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत् स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत् तिर्यगागतस्य परिघस्येव तिर-श्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत् पा-र्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीयापहरेत् बाहु-द्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत् द्वावन्त्यावसाध्यौ
मुढगर्भौ एवमशक्ये शस्त्रमवचारयेत् ९
सचेतनं च शस्त्रेण न कथञ्चन दारयेत्
दार्यमाणो हि जननीमात्मानं चैव घातयेत् १०
अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम्
न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत् ११
ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य शिरःकपा-लान्याहृत्य शङ्कुना गृहीत्वोरसि कक्षायां वाऽपहरेत् अभिन्नशिरसमक्षिकूटे गण्डे वा अंससंसक्तस्यांसदेशे बाहू छित्त्वा दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत् जघनसक्तस्य वा जघनकपालानीति १२
किंबहुना
यद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक्
सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः १३
गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः
तत्रानल्पमतिर्वैर्द्यो वर्तेत विधिपूर्वकम् १४
नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः
स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा १५
मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता
वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन १६
अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक्
हस्तेनापहरेद्वाऽपि पार्श्वभ्यां परिपीड्य वा १७
धुनुयाच्च मुहुर्नारीं पीडयेद्वांऽसपिण्डिकाम्
तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक् १८
एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् १९
एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति
कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः २०
वचामतिविषां रास्नां चव्यं संचूर्ण्य पाययेत्
स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च २१
क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम्
शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः २२
तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक्
त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत् २३
पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम्
शिरीषककुभाभ्यां च तोयमाचमने हितम् २४
उपद्र वाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्
सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना २५
स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता
पयो वातहरैः सिद्धं दशाहं भोजने हितम् २६
रसं दशाहं शेषे तु यथायोगमुपाचरेत्
व्युपद्र वां विशुद्धां च ज्ञात्वा च वरवर्णिनीम् २७
ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः
योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने २८
बलातैलमिदं चास्यै दद्यादनिलवारणम्
बलामूलकषायस्य दशमूलीशृतस्य च २९
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा
अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ३०
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्
तथाऽगुरुं सर्जरसं सरलं देवदारु च ३१
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम्
मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ३२
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम्
तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा ३३
प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत्
बलातैलमिदं ख्यातं सर्ववातविकारनुत् ३४
यथाबलमतो मात्रां सूतिकायै प्रदापयेत्
याच गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ३५
वातक्षीणे मर्महते मथितेऽभिहते तथा
भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ३६
एतदाक्षेपकादीन् वै वातव्याधीनपोहति
हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम् ३७
षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति
प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ३८
राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः
सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः ३९
बलाकषायपीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः
तैलमुत्पाद्य तत्क्वाथशतपाकं कृतं शुभम् ४०
निवाते निभृतागारे प्रयुञ्जीत यथाबलम्
जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात्षष्टिकौदनम् ४१
अनेन विधिना द्रो णमुपयुज्यान्नमीरितम्
भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः ४२
सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत्
शतं शतं तथोत्कर्षो द्रो णे द्रो णे प्रकीर्तितः ४३
बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु
सैरेयके वीरतरौ शतावर्यां त्रिकण्टके ४४
तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान्
नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् ४५
शतपाकं ततस्तेन तिलतैलं पचेद्भिषक्
बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् ४६
सर्वेषामेव जानीयादुपयोगं चिकित्सकः
बलातैलवदेतेषां गुणांश्चैव विशेषतः ४७
इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भचिकित्सितं नाम पञ्चदशोऽध्यायः १५


षोडशोऽध्यायः
अथातो विद्र धीनां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उक्ता विद्र धयः षड्ये तेष्वसाध्यस्तु सर्वजः
शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया ३
वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्र धौ ४
सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः
स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने ५
वेशवारैः सकृशरैः पयोभिः पायसैस्तथा
स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् ६
स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि
तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत् ७
पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः
तैलैर्भद्रा दिमधुकसंयुक्तैः प्रतिपूरयेत् ८
वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च
पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत् ९
पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः
प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः १०
पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा
जीवनीयघृतैर्वाऽपि सेचयेच्छर्करायुतैः ११
त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्र वम्
जलौकोभिर्हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् १२
क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा
तिलैः सयष्टीमधुकैः सक्षौद्रै ः! सर्पिषा युतैः १३
उपदिह्य प्रतनुना वाससा वेष्टयेद्व्रणम्
प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः १४
सहरिद्रै ः! कृतं सर्पिः सक्षीरं व्रणरोपणम्
क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः १५
न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम्
नक्तमालस्य पत्राणि तरुणानि फलानि च १६
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी १७
प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च
मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत् १८
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्
दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम् १९
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम्
दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः २०
नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च
अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि २१
करञ्जाद्येन हविषा प्रशाम्यन्ति न संशयः
इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः २२
मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्र धिम्
कषायपानेर्वमनैरालेपैरुपनाहनैः २३
हरेद्दोषानभीक्ष्णं चाप्यलाब्वाऽसृक् तथैव च
आरग्वधकषायेण पक्वं चापाट्य धावयेत् २४
हरिद्रा त्रिवृताशक्तुतिलैर्मधुसमायुतैः
पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा २५
ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः
कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम् २६
पित्तविद्र धिवत् सर्वाः क्रिया निरवशेषतः
विद्र ध्योः कुशलः कुर्याद्र क्तागन्तुनिमित्तयोः २७
वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते
ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः २८
अनयोर्वर्गयोः सिद्धं सर्पिर्वैरेचनेन च
अचिराद्विद्र धिं हन्ति प्रातः प्रातर्निषेवितम् २९
एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम्
कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ३०
पानालेपनभोज्येषु मधुशिग्रुद्रुमोऽपि वा
दत्तावापो यथादोषमपक्वं हन्ति विद्र धिम् ३१
तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः
यथादोषगणक्वाथैः पिबेद्वाऽपि शिलाजतु ३२
प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च
स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम् ३३
यथोद्दिष्टां सिरां विध्येत् कफजे विद्र धौ भिषक्
रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु ३४
पक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत्
स्रुतेषूर्ध्वमधो वाऽपि मैरेयाम्लसुरासवैः ३५
पेयो वरुणकादिस्तु मधुशिग्रुद्रुमोऽपि वा
शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम् ३६
यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः
प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम् ३७
त्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये
नोपगच्छेद्यथापाकं प्रयतेत तथा भिषक् ३८
पर्यागते विद्र धौ तु सिद्धिर्नैकान्तिकी स्मृता
प्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्र धौ ३९
स्नेहस्वेदोपपन्नानां कुर्याद्र क्तावसेचनम्
विद्र ध्युक्तां क्रियां कुर्यात् पक्वे वाऽस्थि तु भेदयेत् ४०
निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम्
धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ४१
यदि मज्जपरिस्रावो न निवर्तेत देहिनः
कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ४२
प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम्
एतैस्तैलं विपक्तव्यं विद्र धिव्रणरोपणम् ४३
इति सुश्रुतसंहितायां चिकित्सास्थाने विद्र धिचिकित्सितं नाम षोडशोऽध्यायः १६


सप्तदशोऽध्यायः
अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ
साध्येषु तत्पथ्यगणैर्विदध्याद्धृतानि सेकांश्च तथोपदेहान् ३
मुस्ताशताह्वासुरदारूकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः
वातात्मके चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा शृतेषु ४
यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च
तच्चोपयोज्यं भिषजा प्रदेहे सेके घृते चापि तथैव तैले ५
कसेरुशृङ्गाटकपद्मगुन्द्रा ः! सशैवलाः सोत्पलकर्दमाश्च
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ६
ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च
क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यस्तनवः सुखाय ७
प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च
सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः ८
न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य
शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान् ९
घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु
तथर्षभे पद्मकसारिवासु काकोलिमेदाकुमुदोत्पलेषु १०
सचन्दनायां मधुशर्करायां द्रा क्षास्थिरापृश्निशताह्वयासु
कल्कीकृतासूदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः ११
गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत्
प्रस्थं विपक्वं परिषेचनेन पैत्तीर्निहन्यात्तु विसर्पनाडीः १२
विस्फोटदुष्टव्रणशीर्षरोगान् पाकं तथाऽस्यस्य निहन्ति पानात्
ग्रहार्दिते शोषिणि चापि बाले घृतं हि गौर्यादिकमेतदिष्टम् १३
अजाऽश्वगन्धा सरला सकाला सैकैषिका चाप्यथवाऽजशृङ्गी
गोमूत्रपिष्टो विहितः प्रदेहो हन्याद्विसर्पं कफजं स शीघ्रम् १४
कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेन्द्र पर्ण्यः
पालिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु १५
गणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन
संशोधनं शोणितमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि १६
सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तम्
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः १७
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य
तिलैरपामार्गफलैश्च पिष्ट्वा ससैन्धवैर्बन्धनमत्र कुर्यात् १८
प्रक्षालने चापि सदा व्रणस्य योज्यं महद्यत् खलु पञ्चमूलम्
हिंस्रां हरिद्रा ं! कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम् १९
संहृत्य तैलं विपचेद्व्रणस्य संशोधनं पूरणरोपणं च
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः २०
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम्
प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम् २१
श्यामात्रिभण्डीत्रिफलासु सिद्धं हरिद्र यो रोध्रकवृक्षयोश्च
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् २२
नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः
मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी २३
दद्याद्व्रणे निम्बतिलान् सदन्तीन् सुराष्ट्रजासैन्धवसंप्रयुक्तान्
प्रक्षालने चापि करञ्जनिम्बजात्यक्षपीलुस्वरसाः प्रयोज्याः २४
सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु
फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम् २५
नाडीं तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम्
संशोधयेत् क्षौद्र घृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात् २६
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः २७
सुगन्धिकामोचरसाहिपुष्पं रोध्रं विदध्यादपि धातकीं च
एतेन शल्यप्रभवा तु नाडी रोहेद्व्रणो वा सुखमाशु चैव २८
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या
क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान् २९
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्
सूचीं निदध्याद्गत्यन्ते तथोन्नम्याशु निर्हरेत् ३०
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत्
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ३१
क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः
भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता ३२
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्
सूचीभिर्यववक्त्राभिराचितान् वा समन्ततः
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ३३
या द्विव्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात्
घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम् ३४
स्नुह्यर्कदुग्धेन तु कल्क एष वर्तीकृतो हन्त्यचिरेण नाडीः
बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः ३५
वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा ३६
धत्तूरजं मदनकोद्र वजं च बीजं कोशातकी शुकनसा मृगभोजिनी च
अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ३७
तथा च गोमांसमसीं हिताय कोष्ठाश्रितस्यादरतो दिशन्ति
वर्तीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ३८
दुष्टव्रणे यद्विहितं च तैलं तत् सर्वनाडीषु भिषग्विदध्यात्
चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति ३९
एष्वेव मूत्रसहितेषु विधाय तैलं तत् साधितं गतिमपोहति सप्तरात्रात्
पिण्डीतकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौवहेषु ४०
तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चामरवरायुधसाह्वयेषु
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ४१
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च
स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं पीतां घृतं परिणतेऽहनि वामयेत्तु ४२
निम्बोदकेन मधुमागधिकायुतेन वान्तागतेऽहनि च मुद्गरसाशना स्यात्
एवं त्र्! यहं चतुरहं षडहं वमेद्वा सर्पिः पिबेत्त्रिफलया सह संयुतं वा ४३
भार्गीं वचामतिविषां सुरदारु पाठां मुस्तादिकं मधुरसां कटुरोहिणीं च
धात्री पिबेत्तु पयसः परिशोधनार्थमारग्वधादिषु वरं मधुना कषायम् ४४
सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम्
रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुशो विधानम् ४५
संपच्यमानमपि तं तु विनोपनाहैः संभोजनेन खलु पाचयितुं यतेत
शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोथमुपयात्यवदीर्यते च ४६
पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम्
आमे विदाहिनि तथैव गते च पाकं धात्र्! याः स्तनौ सततमेव च निर्दुहीत ४७
इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्पनाडीस्तनरोगचिकित्सितं
नाम सप्तदशोऽध्यायः १७


अष्टादशोऽध्यायः
अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः
रक्षेद्बलं चापि नरस्य नित्यं तद्र क्षितं व्याधिबलं निहन्ति ३
तैलं पिबेत् सर्पिरथो द्वयं वा दत्त्वा वसां वा त्रिवृतं विदध्यात्
अपेहिवातादशमूलसिद्धं वैद्यश्चतुःस्नेहमथो द्वयं वा ४
हिंस्राऽथ रोहिण्यमृताऽथ भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः
गोजी च पिष्टा सह तालपत्र्! या ग्रन्थौ विधेयोऽनिलजे प्रलेपः ५
स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान्
विदार्य वा पक्वमपोह्य पूयं प्रक्षाल्य बिल्वार्कनरेन्द्र तोयैः ६
तिलैः सपञ्चाङ्गुलपत्रमिश्रैः संशोधयेत् सैन्धवसंप्रयुक्तैः
शुद्धं व्रणं वाऽप्युपरोपयेत्तु तैलेन रास्नासरलान्वितेन ७
विडङ्गयष्टीमधुकामृताभिः सिद्धेन वा क्षीरसमन्वितेन
जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनं च ८
काकोलिवर्गस्य च शीतलानि पिबेत् कषायाणि सशर्कराणि
द्रा क्षारसेनेक्षुरसेन वाऽपि चूर्णं पिबेच्चापि हरीतकीनाम् ९
मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रदेहानवचारयेत
सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा १०
विदार्य वा पक्वमपोह्य पूयं धावेत् कषायेण वनस्पतीनाम्
तिलैः सयष्टीमधुकैर्विशोध्य सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ११
हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु
स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः १२
विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः
आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान् १३
अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य
दहेत् स्थिते चासृजि सिद्धकर्मा सद्यःक्षतोक्तं च विधिं विदध्यात् १४
या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः
शस्त्रेण वाऽपाठ्य सुपक्वमाशु प्रक्षालयेत् पथ्यतमैः कषायैः १५
संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरैः क्षौद्र गुडप्रगाढैः
शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम् १६
मेदःसमुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्टाद्द्विगुणं पटान्तम्
हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय १७
प्रलिप्य दार्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्यम्
निपात्य वा शस्त्रमपोह्य मेदो दहेत् सुपक्वं त्वथवा विदार्य १८
प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाद्यैर्हरितालमिश्रैः
ससैन्धवैः क्षौद्र घृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य १९
तैलं विदद्यादिद्वकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम्
जीमूतकैः कोशवतीफलैश्च दन्तीद्र वन्तीत्रिवृतासु चैव २०
सर्पिः कृतं हन्त्यपचीं प्रवृद्धां द्विधा प्रवृत्तं तदुदारवीर्यम्
निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाढ्यम् २१
अभिप्रतप्तं वमनं प्रगाढं दुष्टापचीषूत्तममादिशन्ति
कैडर्यबिम्बीकरवीरसिद्धं तैलं हितं मूर्धविरेचनं च २२
शाखोटकस्य स्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु
मधूकसारश्च हितोऽवपीडे फलानि शिग्रोः खरमञ्जरेर्वा २३
ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात्
क्षारेण वाऽपि प्रतिसारयेत्तु संलिख्य शस्त्रेण यथोपदेशम् २४
पार्ष्णि प्रति द्वे दश चाङ्गुलानि मित्वेन्द्र बस्तिं परिवर्ज्य धीमान्
विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृष्य जालान्यनलं विदध्यात् २५
आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य
घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वपरे वदन्ति २६
मणिबन्धोपरिष्टाद्वा कुर्याद्रे खात्रयं भिषक्
अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये २७
चूर्णस्य काले प्रचलाककाकगोधाहिकूर्मप्रभवां मसीं तु
दद्याच्च तैलेन सहेङ्गुदीनां यद्वक्ष्यते श्लीपदिनां च तैलम् २८
विरेचनं धूममुपाददीत भवेच्च नित्यं यवमुद्गभोजी
कर्कारुकैर्वारुकनारिकेलप्रियालपञ्चाङ्गुलबीजचूर्णैः २९
वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु
कुर्याच्च मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारैः ३०
खेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च
वातघ्ननिर्यूहपयोम्लभागैः सिद्धं शताख्यं त्रिवृतं पिबेद्वा ३१
स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च
विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्र युतैः प्रलिम्पेत् ३२
श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः
विस्राव्य चारग्वधगोजिसोमाः श्यामा च योज्या कुशलेन लेपे ३३
श्यामागिरिह्वाञ्जनकीरसेषु द्रा क्षारसे सप्तलिकारसे च
घृतं पिबेत् क्लीतकसंप्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः ३४
शुद्धस्य जन्तोः कफजेऽबुदे तु रक्तेऽवसिक्ते तु ततोऽबुदं तत्
द्र व्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात् ३५
कपोतपारावतविडिवमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः
मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात् ३६
निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः
लेपं विदध्यात् कृमयो यथाऽत्र मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च ३७
अल्पावशिष्टे कृमिभक्षिते च लिखेत्ततोऽग्नि विदधीत पश्चात्
यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा ३८
क्षाराग्निशस्त्राण्यसकृद्विदध्यात् प्राणानहिंसन् भिषगप्रमत्तः
आस्फोतजातीकरवीरपत्रैः कषायमिष्टं व्रणशोधनार्थम् ३९
शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम्
यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः ४०
मदोर्बुदं स्विन्नमथो विदार्य विशोध्य सीव्येद्गतरक्तमाशु
ततो हरिद्रा गृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः ४१
व्रणं प्रतिग्राह्य मधुप्रगाढैः करञ्जतैलं विदधीत शुद्धे
सशेषदोषाणि हि योऽबुदानि करोति तस्याशु पुनर्भवन्ति ४२
तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा हि वह्निः
संस्वेद्य गण्डं पवनोत्थमादौ नाड्याऽनिलघ्नौषधपत्रभङ्गैः ४३
अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान्
विस्रावयेत् स्विन्नमतन्द्रि तश्च शुद्धं व्रणं चाप्युपनाहयेत्तु ४४
शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु
कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः ४५
एकैषिकावृक्षकतिल्वकैश्च सुराम्लपिष्टैरसकृत् प्रदिह्यात् ४६
तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ४७
खेदोपनाहैः कफसंभवं तु संस्वेद्य विस्रावणमेव कुर्यात्
ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः ४८
पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः
दशार्धसङ्ख्यैर्लवणैश्च युक्तं तैलं पिबेन्मागधिकादिसिद्धम् ४९
प्रच्छर्दनं मूर्धविरेचनं च धूमश्च वैरेचनिको हितस्तु
पाकक्रमो वाऽपि सदा विधेयो वैद्येन पाकङ्गतयोः कथञ्चित् ५०
कटुत्रिकक्षौद्र युताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः
सशृङ्गवेराः सपटोलनिम्बा हिताय देया गलगण्डरोगे ५१
मेदःसमुत्थे तु यथोपदिष्टां विध्येत् सिरां स्निग्धतनोर्नरस्य
श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः ५२
मूत्रेण वाऽलोड्य हिताय सारं प्रातः पिबेत् सालमहीरुहाणाम्
शस्त्रेण वाऽपाट्य विदार्य चैनं मेदः समुद्धृत्य हिताय सीव्येत् ५३
मज्जाज्यमेदोमधुभिर्दहेद्वा दग्धे च सर्पिर्मधु चावचार्यम्
कासीसतुत्थे च ततोऽत्र देये चूर्णीकृते रोचनया समेते ५४
तैलेन चाभ्यज्य हिताय दद्यात् सारोद्भवं गोमयजं च भस्म
हितश्च नित्यं त्रिफलाकषायो गाढश्च बन्धो यवभोजनं च ५५
इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशोऽध्यायः १८


एकोनविंशोऽध्यायः
अथातो वृद्ध्य्पुदंशश्लीपदचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत्
अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ३
अत्यासनं चङ्क्रमणमुपवासं गुरूणि च
तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ४
स्विन्नं चैनं यथान्यायं पाययेत विरेचनम्
कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ५
सक्षीरं वा पिबेन्मासं तैलमेरण्डसंभवम्
ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् ६
निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम्
यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ७
स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान्
विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत् ८
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत्
पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ९
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्र सर्पिषा
शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् १०
रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक्
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्र संयुतम् ११
पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा
वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् १२
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम्
विम्लापनादृते वाऽपि श्लेष्मग्रन्थिक्रमो हितः १३
पक्वायां च विभिन्नायां तैलं शोधनमिष्यते
सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् १४
मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना
शिरोविरेकद्र व्यैर्वा सुखोष्णैर्मूत्रसंयुतैः १५
स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम्
रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत् १६
मेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे
बघ्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् १७
मनःशिलाललवणैः सिद्धमारुष्करेषु च
मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् १८
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु
अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् १९
मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत्
शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् २०
अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः
तत्र या वङ्क्षणस्था तां दहेदर्धेन्दुवक्त्रया २१
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत्
त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात् २२
अनेनैव विधानेन वृद्धी वातकफात्मिके
प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः २३
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम्
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये २४
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः
सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः २५
हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान्
सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः २६
यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम्
निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् २७
प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः
सरलागुरुरास्नाभिर्वातजं संप्रलेपयेत् २८
निचुलैरण्डबीजानि यवगोधूमसक्तवः
एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत् २९
प्रपौण्डरीकपूर्वैश्च द्र व्यैः सेकः प्रशस्यते
गैरिकाञ्जनयष्ट्याह्वसारिवोशीरपद्मकैः ३०
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत्
पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः ३१
सर्पिःस्निग्धैः समधुकैः पैत्तिकं संप्रलेपयेत्
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ३२
अथवाऽपि सुशीतेन कषायेण वटादिना
सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ३३
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्
रजन्यतिविषामुस्तासुरसासुरदारुभिः ३४
सपत्रपाठापत्तूरैरथवा संप्रलेपयेत्
सुरसारग्वधाद्योश्च क्वाथाभ्यां परिषेचयेत् ३५
एवं संशोधनालेपसेकशोणितमोक्षणैः
प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि ३६
न याति च यथा पाकं प्रयतेत तथा भिषक्
विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः ३७
शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै
तदाऽपोह्य तिलैः सर्पिःक्षौद्र युक्तैः प्रलेपयेत् ३८
करवीरस्य पत्राणि जात्यारग्वधयोस्तथा
प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ३९
सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम्
रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम् ४०
हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत्
तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् ४१
जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः
शल्लकीबदरीबिल्वपलाशतिनिशत्वचः ४२
क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह
तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ४३
अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत्
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ४४
एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते
स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ४५
मनःशिलासमैश्चूर्णं व्रणवीसर्पनाशनम्
गुन्द्रा ं! दग्ध्वा कृतं भस्म हरितालं मनःशिला ४६
उपदंशविसर्पाणामेतच्छान्तिकरं परम्
मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः ४७
उपदंशं निहन्त्येष वृक्षमिन्द्रा शनिर्यथा
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ४८
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम्
उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ४९
दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत्
जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ५०
सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत्
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ५१
स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक्
कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ५२
समाप्यायितदेहं च वस्तिभिः समुपाचरेत्
मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ५३
पयसौदनमश्नीयान्नागरक्वथितेन च
त्रैवृतं चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ५४
गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसंभवे
पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ५५
सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक्
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ५६
पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च
कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ५७
हितं वा लेपने नित्यं भद्र दारु सचित्रकम्
विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ५८
भद्र दार्वेलुकाख्ये च सर्वेषु लवणेषु च
तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ५९
पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये
पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ६०
अनेनैव विधानेन पुत्रञ्जीवकजं रसम्
प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् ६१
केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम्
रसं दत्त्वाऽथ पूर्वोक्तं पेयमेतद्भिषग्जितम् ६२
काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम्
कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा ६३
दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत्
तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ६४
मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा
एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ६५
अपचीं गलगण्डं च ग्रहणीदोषमेव च
भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ६६
एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम्
एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम् ६७
द्र वन्तीं त्रिवृतां दन्तीं नीलद्यं श्यामां तथैव च
सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ६८
दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः
अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः ६९
इति सुश्रुतसंहितायां चिकित्सास्थाने वृद्ध्य्पुदंशश्लीपदचिकित्सितं नामैकोनविंशोऽध्यायः १९


विंशतितमोऽध्यायः
अथातः क्षुद्र रोगचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्राजगल्लिकामामां जलौकोभिरुपाचरेत्
शुक्तिश्रघ्न्यवक्षारकल्कैश्चालेपयेद्भिषक् ३
श्यामालाङ्गलकिपाठाकल्कैर्वाऽपि विचक्षणः
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ४
अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा
पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ५
मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत्
परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ६
विवृतामिन्द्र वृद्धां च गर्दभीं जालगर्दभम्
इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ७
पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक्
रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ८
चिप्यप्पिमिउ!ष्णाम्बुनासिक्तमुत्कृत्य स्रावयेद्भिषक्
चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ९
बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत्
मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् १०
कुनखे विधिरप्येष कार्यो हि भिषजा भवेत्
उपाचरेदनुशयीं श्लेष्मविद्र धिवद्भिषक् ११
विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत्
नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः १२
व्रणभावगतायां वा कृत्वा संशोधनक्रियाम्
रोपणार्थं हितं तैलं कषायमधुरैः शृतम् १३
प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्वा विदारिका
अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् १४
पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः
कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत् १५
बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च
व्रंणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः १६
मेदोऽबुदविधानेन साधयेच्छर्करार्बुदम्
कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् १७
लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः
वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् १८
सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम्
पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् १९
मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः
यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते २०
पादौ सिक्त्वाऽरनालेन लेपनं ह्यलसे हितम्
कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः २१
लाक्षारसोऽभया वाऽपि कार्यं स्याद्र क्तमोक्षणम्
सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम् २२
कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम्
उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसंज्ञकम् २३
इन्द्र लुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत्
कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः २४
कुटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते
प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः २५
लेपयेदुपशान्त्यर्थं कुर्याद्वाऽपि रसायनम्
मालतीकरवीराग्निनक्तमालविपाचितम् २६
तैलमभ्यञ्जने शस्तमिन्द्र लुप्तापहं परम्
अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा २७
दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु
हरितालनिशानिम्बकल्कैर्वा सपटोलजैः २८
यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत्
इन्द्र लुप्तापहं तैलमभ्यङ्गे च प्रशस्यते
सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि २९
अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत्
क्षालने कोद्र वतृणक्षारतोयं प्रशस्यते ३०
उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम्
मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ३१
पित्तश्लेष्मविसर्पोक्ता क्रिया वा संप्रशस्यते
जतुमणिं समुत्कृत्य मषकं तिलकालकम् ३२
क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः
न्यच्छे व्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ३३
यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः
घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ३४
बलातिबलयष्ट्याह्वरजनीर्वा प्रलेपनम्
पयस्यागुरुकालीयलेपनं वा सगैरिकम् ३५
क्षौद्रा ज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च
कपित्थराजादनयोः कल्कं वा हितमुच्यते ३६
यौवने पिडकास्वेष विशेषाच्छर्दनं हितम्
लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः ३७
कुस्तुम्बुरुवचालोध्रकुष्ठैर्वा लेपनं हितम्
पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ३८
तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत्
निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ३९
परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्
ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ४०
प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः
त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः ४१
दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत्
वपाटिकां जयेदेवं यथादोषं चिकित्सकः ४२
निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्
दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ४३
परिषेके वसामज्जशिशुमारवराहयोः
चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम् ४४
त्र्! यहात्त्र्यहात् स्थूलतरां सम्यङ्नाडीं प्रवेशयेत्
स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत् ४५
भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत्
सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ४६
प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत्
विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ४७
सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ४८
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत्
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम् ४९
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक्
कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ५०
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च
श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ५१
सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत्
पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम् ५२
अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक्
संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ५३
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक्
सुमना ग्रन्थयश्चैव भल्लातकमनःशिले ५४
कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा
एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ५५
पाणिपादोपरिष्टात्तु छिद्रै र्बहुभिरावृतम्
वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता ५६
धात्र्! याः स्तन्यं शोधयित्वा बाले साध्याऽहिपूतना
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ५७
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम्
त्रिफलाकोलखदिरकषायं व्रणरोपणम् ५८
कासीसरोचनातुत्थहरितालरसाञ्जनैः
लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ५९
कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत्
चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत् ६०
गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत्
कारयेद्गोफणाबन्धं मध्यच्छिद्रे ण चर्मणा ६१
विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः
क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ६२
पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम्
गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ६३
इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्र रोगचिकित्सितं नाम विंशोऽध्यायः २०