सुश्रुतसंहिता/कल्पस्थानम्

विकिस्रोतः तः
Jump to navigation Jump to search
प्रथमोऽध्यायः
अथातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः
सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः ३
रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ४
विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः
स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ५
विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः
तस्माद्वैद्येन सततं विषाद्र क्ष्यो नराधिपः ६
यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम्
न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् ७
कुलीनं धार्मिकं स्निग्धं सुभृतं संततोत्थितम्
अलुब्धमशठं भक्तं कृतज्ञं प्रिंयदर्शनम् ८
क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम्
जितेन्द्रि यं क्षमावन्तं शुचिं शीलदयान्वितम् ९
मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम्
पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम् १०
पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम्
महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ११
प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि
सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम् १२
विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम्
परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् १३
तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम्
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः १४
संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः १५
तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः
आहारस्थितयश्चापि भवन्ति प्राणिनो यतः १६
तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्
माहानसिकवोढारः सौपौदनिकपौपिकाः १७
भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन
इङ्गितज्ञो मनुष्याणां चाक्चेष्टामुखवैकृतैः १८
विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान्
न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च १९
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत्
स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् २०
वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते
क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि २१
आलभेतासकृद्दीनः करेण च शिरोरुहान्
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः २२
वर्तते विपरीतं तु विषदाता विचेतनः
केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया २३
असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः
तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः २४
अन्ने पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने
उत्सादने कषाये च परिषेकेऽनुलेपने २५
स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च
पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् २६
विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु
लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् २७
नृपभक्ताद्बलि न्यस्तं सविषं भक्षयन्ति ये
तत्रैव ते विनश्यन्ति मक्षिकावायसादयः २८
हुतभुक् तेन चान्नेन भृशं चटचटायते
मयूरकण्ठप्रतिमो जायते चापि दुःसहः २९
भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति
चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ३०
दृष्ट्वाऽन्न विषसंसृष्टं म्रियन्ते जीवजीवकाः
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ३१
हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके
हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ३२
पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः
सन्निकृष्टांस्ततः कुर्याद्रा ज्ञस्तान् मृगपक्षिणः ३३
वेश्मनोऽथ विभूषार्थं रक्षार्थं चात्मनः सदा
उपक्षिप्तस्य चान्नस्य वाष्पेणोर्ध्वं प्रसर्पता ३४
हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते
तत्र नस्याञ्जते कुष्ठं लामज्जं नलदं मधु ३५
कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम्
हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ३६
पाणिप्राप्तं पाणिदाहं नखशातं करोति च
अत्र प्रलेपः श्यामेन्द्र गोपासोमोत्पलानि च ३७
स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते
अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ३८
तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते
तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम् ३९
मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू
इन्द्रि याणां च वैकृत्यं कुर्यादामाशयं गतम् ४०
तत्राशु मदनालाबुबिम्बीकोशातकीफलैः
छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना ४१
दाहं मूर्च्छामतीसारं तृष्णामिन्द्रि यवैकृतम्
आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम् ४२
विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम्
दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः ४३
द्र वद्र व्येषु सर्वेषु क्षीरमद्योदकादिषु
भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ४४
छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः
भवन्ति यमलाश्छिद्रा स्तन्व्यो वा विकृतास्तथा ४५
शाकसूपान्नमांसानि क्लिन्नानि विरसानि च
सद्यः पर्युषितानीव विगन्धानि भवन्ति च ४६
गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च
पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च ४७
विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे
जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ४८
अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः
सक्षौद्रै ः! प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ४९
अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा
शिरीषमाषकावाऽपि सक्षौद्रा ः! प्रतिसारणम् ५०
जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत्
पिच्छिलो बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ५१
स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः
दरणं चापि मांसानामभ्यङ्गे विषसंयुते ५२
तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम्
चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ५३
सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम्
कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ५४
उत्सादने परीषेके कषाये चानुलेपने
शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ५५
केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः
ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ५६
प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः
ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ५७
गोमयस्वरसो वाऽपि हितो वा मालतीरसः
रसो मूषिकपर्ण्या वा धूमो वाऽगारसंभवः ५८
शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च
स्रजश्च विषसंसृष्टाः साधयेदवलेखनात् ५९
मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः
पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ६०
तत्र क्षौद्र घृतं पानं प्रलेपश्चन्दनं घृतम्
पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा ६१
अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता
स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसंभवः ६२
तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया
शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ६३
नस्यधूमगते लिङ्गमिन्द्रि याणां च वैकृतम्
तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ६४
पाने नस्ये च सश्वेतं हितं समदयन्तिकम्
गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ६५
जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने
तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ६६
कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने
कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम् ६७
स्वरसो बहुपुत्रायाः सघृतः क्षौद्र संयुतः
सोमवल्करसश्चापि सुशीतो हित इष्यते ६८
अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः
अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च ६९
तत्र सद्यो घृतं पेयं तर्पणं च समागधम्
अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च ७०
मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः
कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा ७१
एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि
शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ७२
भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम्
उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ७३
भूषणानि हतार्चींषि न विभान्ति यथा पुरा
स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ७४
पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत्
विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः ७५
समीक्ष्योपद्र वांस्तस्य विदधीत चिकित्सितम्
महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ७६
पानालेपननस्येषु विदधीताञ्जनेषु च
विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ७७
सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि
मूषिकाऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ७८
करोति निर्विषं सर्वमन्नं विषसमायुतम्
हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ७९
पिबेद्घृतमजेयाख्यममृताख्यं च बुद्धिमान्
सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम् ८०
मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि
सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि ८१
गोधानकुलमांसेषु हरिणस्य च बुद्धिमान्
दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा ८२
शर्करातिविषे देये मायूरे समहौषधे
पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ८३
सक्षौद्र ः! सघृतश्चैव शिम्बीयूषो हितः सदा
विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ८४
पिप्पलीमधुकक्षौद्र शर्करेक्षुरसाम्बुभिः
छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम् ८५
इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरक्षाकल्पो नाम प्रथमोऽध्यायः १


द्वितीयोऽध्यायः
अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्थाबरं जङ्गमं चैव द्विविधं विषमुच्यते
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ३
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च
निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ४
तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणिविषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुक खद्योतक चर्मरीभगन्धासर्प-घातिनन्दनसारपाकानीति द्वादश फलविषाणि वेत्रकादम्बवल्लीजकरम्भम-हाकरम्भाणि पञ्च पुष्पविषाणि अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भन-न्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि फेनाश्मभिस्महिरितालं च द्वे धातुविषे कालकूटवत्स-नाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूल कहालाह-लमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ५
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ६
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च
जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ७
मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च
भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ८
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि
आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ९
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि १०
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्
कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ११
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च
ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता १२
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च
ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह १३
प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते १४
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु
शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः १५
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे
वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः १६
चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् १७
कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि
कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश १८
सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च १९
विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम्
तद्रौ क्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् २०
मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च २१
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत्
क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि २२
वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात्
दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् २३
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम्
सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् २४
यत् स्थावरं जङ्गममकृत्रिंमं वा देहादशेषं यदनिर्गतं तत्
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा २५
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति
वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि २६
तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी
मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः २७
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः २८
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान्
कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम् २९
निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दः
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ३०
धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम्
वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ३१
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम्
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ३२
दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः
यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ३३
स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम्
श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ३४
द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा
विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ३५
तालुशोषं तृतीये तु शूलं चामाशये भृशम्
दुर्वर्णे हरिते शूने जायेते चास्य लोचने ३६
पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम्
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ३७
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ३८
षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ३९
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्
अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ४०
द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम्
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ४१
चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक्
पञ्चमे क्षौद्र मधुकक्वाथयुक्तं प्रदापयेत् ४२
षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ४३
वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम्
यवागूं सघृतक्षौद्रा मिमां दद्याद्विषापहाम् ४४
कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः
शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ४५
पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला
एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ४६
मधुकं तगरं कुष्ठं भद्र दारु हरेणवः
पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ४७
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ४८
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम्
विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ४९
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्
पाययेतागदं नित्यमिमं दूषीविषापहम् ५०
पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम्
सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ५१
क्षौद्र युक्तोऽगदो ह्येष दूषीविषमपोहति
नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ५२
ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये
शोफेऽतिसारे मूर्च्छायां हृद्रो गे जठरेऽपि च ५३
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्र वाः
यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ५४
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ५५
इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो
नाम द्वितीयोऽध्यायः २


तृतीयोऽध्यायः
अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश
समासेन मया यानि विस्तरस्तेषु वक्ष्यते ३
तत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंशविशर्धिततुण्डास्थिपित्तशूकशवानीति ४
तत्र दृष्टिनिःश्वासविषा दिव्याः सर्पाः भौमास्तुदंष्ट्राविषाः मार्जारश्ववा नरम-करमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटा स्त-थाऽन्ये दंष्ट्रानखविषाः चिपिटपिच्चिटककषायवा सिकसर्षपकतोटकवर्चः कीटकौण्डिन्यकाः शकृन्मूत्रविषाः मूषिकाः शुक्रविषाः लूता लालामूत्रपु-रीषमुखसन्दंशनखशुक्रार्तवविषाः वृश्चिकविश्वम्भरवरटीराजीवमत्स्योच्चि-टिङ्गाः समुद्र वृश्चिकाश्चालरिइ! विषाः चित्रशिरः सरावकुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्दंश विशार्धितमूत्रपुरीषविषाः मक्षिकाकणभजला-युका मुखसन्दंश विषाः विषहतास्थिसर्पकण्टकवरटीमत्स्यास्थि चेत्य-स्थिविषाणि शकुलीमत्स्यरक्तराजिवरकीटिई!मित्स्याश्च पित्तविषाः सूक्ष्मतु-ण्डोच्चिटिङ्गवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमराः शूतुण्डविषाःकीटसर्प-देहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः
भवन्ति चात्र
राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण
संदूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेत्तान् ६
दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च
मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ७
मज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान्
ऋगिच्छिन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत ८
धवाश्वकर्णासनपारिभद्रा न् सपाटलान् सिद्धकमोक्षकौ च
दग्ध्वा सराजद्रुमसोमवल्कांस्तद्भस्म शीतं वितरेत् सरःसु ९
भस्माञ्जलि चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः
क्षितिप्रदेशं विषदूषितं तु शिलातलं तीर्थमथेरिणं वा १०
स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा
तच्छूनतां यात्यथ दह्यते च विशीर्यते रोमनखं तथैव ११
तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम्
सिञ्चेत् पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकटभीजलैर्वा १२
तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये
विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम् १३
विषापहैर्वाऽप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत
तारः सुतारः ससुरेन्द्र गोपः सर्वैश्च तुल्यः कुरुविन्दभागः १४
पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः
वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति १५
धूमेऽनिले वा विषसंप्रयुक्ते खगाः श्रमार्ताः प्रपतन्ति भूमौ
कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च १६
लाक्षाहरिद्रा तिविषाभयाब्दहरेणकैलादलवक्रकुष्ठम्
प्रियङ्गुकां चाप्यनले निधाय धूमानिलौ चापि विशोधयेत १७
प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल
अकरोदसुरो विघ्नं कैटभो नाम दर्पितः १८
तस्य क्रुद्धस्य वै वक्त्राद्ब्रह्मणस्तेजसो निधेः
क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः १९
स तं ददाह गर्जन्तमन्तकाभं महाबलम्
ततोऽसुरं घातयित्वा तत्तेजोऽवर्धताद्भुतम् २०
ततो विषादो देवानामभवत्तं निरीक्ष्य वै
विषादजननत्वाच्च विषमित्यभिधीयते २१
ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः
विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च २२
यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम्
तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति २३
एवमेव विषं यद्यद्द्र व्यं व्याप्यावतिष्ठते
स्वभावादेव तं तस्य रसं समनुवर्तते २४
विषे यस्माद्गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि
विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम् २५
ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः
नोपयाति विषं पाकमतः प्राणान् रुणद्धि च २६
श्लेष्मणाऽवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते
विसंज्ञः सति जीवेऽपि तस्मात्तिष्ठति मानवः २७
शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम्
क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव २८
तेषां बडिशवद्दंष्ट्रास्तासु सज्जति चागतम्
अनुद्धत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः २९
यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम्
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः ३०
मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम्
अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ३१
कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्
स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् ३२
व्याप्य सावयवं देहं दिग्धविद्धाहिदष्टयोः
लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः ३३
यथाविषं स रोगेण क्लिश्यते म्रियतेऽपि वा
अतश्चाप्यनयोर्मांसमभक्ष्य मृतमात्रयोः ३४
मुहूर्तात्तदुपादेयं प्रहारादंशबर्जितम्
सवातं गृहधूमाभं पुरीषं योऽतिसार्यते ३५
आध्मातोऽत्यर्थमुष्णास्रो विवर्णः सादपीडितः
उद्वमत्यथ फेनं च विषपीतं तमादिशेत् ३६
न चास्य हृदयं वह्निर्विषजुष्टं दहत्यपि
तद्धि स्थानं चेतनायाः स्वभावाह्याप्य तिष्ठति ३७
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
याम्ये सपित्र्! ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः ३८
दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति
अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु ३९
वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न संभवन्ति ४०
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्
जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः ४१
कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च स वर्जनीयः
वर्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य ४२
दंष्ट्रानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् ४३
सारिष्टमत्यर्थमवेगिनं च जह्यान्नरं तत्र न कर्म कुर्यात् ४४
इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयो नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः
अथातः सर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम्
पादयोरुपसंगृह्य सुश्रुतः परिपृच्छति ३
सर्पसंख्यां विभागं च दष्टलक्षणमेव च
ज्ञानं च विषवेगानां भगवन् वक्तुमर्हसि ४
तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः
असंख्या वासुकिश्रेष्ठा विख्यातास्तक्षकादयः ५
महीधराश्च नागेन्द्रा हुताग्निसमतेजसः
ये चाप्यजस्रं गर्जन्ति वर्षन्ति च तपन्ति च ६
ससागरगिरिद्वीपा यैरियं धार्यते मही
क्रुद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ७
नमस्तेभ्योऽस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया
ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान् ८
तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः
अशीतिस्त्वेव सर्पाणां भिद्यते पञ्चधा तु सा ९
दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च
निर्विषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः १०
दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः
तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ११
द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश
निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा १२
वैकरञ्जोद्भवाः सप्त चित्रा मण्डलिराजिलाः
पादाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा १३
ते दशन्ति महाक्रोधास्त्रिविधं भीमदर्शनाः
सर्पितं रदितं चापि तृतीयमथ निर्विषम्
सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः १४
पदानि यत्र दन्तानामेकं द्वे वा बहूनि वा
निमग्नान्यल्परक्तानि यान्युद्वृत्य करोति हि १५
चञ्चुमालकयुक्तानि वैकृत्यकरणानि च
सङ्क्षिप्तानि सशोफानि विद्यात्तत् सर्पितं भिषक् १६
राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथा
विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषं च तत् १७
अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः
पदं पदानि वा विद्यादविषं तच्चिकित्सकः १८
सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितोऽनिलः
कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् १९
व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु
तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् २०
सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते
विषघ्नौषधियुक्ते च देशे न क्रमते विषम् २१
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः
ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः २२
मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः
ज्ञेया मण्डलिनः सर्पा ज्वलनर्कसमप्रभाः २३
स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वं च राजिभिः
चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः २४
मुक्तारूप्यप्रभा ये च कपिला ये च पन्नगाः
सुगन्धयः सुवर्णांभास्ते जात्या ब्राह्मणाः स्मृताः २५
क्षत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः
सूर्यचन्द्रा कृतिच्छत्रलक्ष्म तेषां तथाऽम्बुजम् २६
कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा
धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः २७
महिषद्वीपिवर्णाभास्तथैव परुषत्वचः
भिन्नवर्णाश्च ये केचिच्छूद्रा स्ते परिकीर्तिताः २८
कोपयन्त्यनिलं जन्तोः फणिनः सर्व एव तु
पित्तं मण्डलिनश्चापि कफं चानेकराजयः २९
अपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम्
ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते ३०
रजन्याः पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि
शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः ३१
दर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा
राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः ३२
नकुलाकुलिता बाला वारिविप्रहताः कृशाः
वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ३३
तत्र दर्वीकराःकृष्णसर्पो महाकृष्णः कृष्णोदरः श्वेतकपोतो महाकपोतो बला-हको महासर्पः शङ्खकपालो लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः क-कुदः पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्डरीको भ्रूकुटीमुखो विष्किरः पुष्पाभिकीर्णो गिरिसर्पः ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द आशीविष इति इ!१मिण्डलिनस्तु आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलः चित्रमण्डलः पृषतो रोध्रपुष्पो मिलिन्दको गोनसो वृद्धगोनसः पनसो महापनसो वेणुपत्र-कः शिशुको मदनः पालिन्दिरः पिङ्गलः तन्तुकः पुष्पपाण्डुः षडङ्गो अग्निको बभ्रुः
कषायः कलुषः पारावतो हस्ताभरणः चित्रकः एणीपद इति
२ राजिमन्तस्तुपुण्डरीको राजिचित्रो अङ्गुलराजिः बिन्दुराजिः कर्दमकः तृणशोषकः सर्षपकः श्वेतहनुः दर्भपुष्पश्चक्रको गोधूमकः किक्किसाद इति
३ निर्विषास्तु गलगोली शूकपत्रो अजगरो दिव्यको वर्षाहिकः पुष्पशकली
ज्योतीरथः क्षीरिकापुष्पको अहिपताको अन्धाहिको गौराहिको वृक्षेशय इति ४ वैकरञ्जस्त्! त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः तद्यथामाकुलि पोटग-लः स्निग्धराजिरिति तत्र कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलि राजिलेन गोनस्यां वैपरीत्येन वाजातः पोटगलः कृषणसर्पेण राजिमत्यां वै-परीत्येनवा जातः स्निग्धराजिरिति तेषामाद्यस्य पितृवद्विषोत्कर्षो द्वयोर्मातृवदित्येके
५ त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्र कपोटगल पुष्पा-भिकीर्णदर्भपुष्पवेल्लितकाः सप्ता तेषामाद्यास्त्रयो राजिलवत् शेषा मण्डलिवत् एवमेतेषां सर्पाणामशीतिर्व्याख्याता ३४
तत्र महानेत्रजिह्वास्यशिरसः पुमांसः सुक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः उभयलक्षणा मन्दविषाअक्रोधा नपुंसका इति ३५
तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः किं कारणं विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यमाशुकारि मुहर्तमप्युपेक्षितमातुमतिपा-तयति न चावकाशोऽस्ति वाक्समूहमुपसर्तुं प्रत्येकमपि दष्टलक्षणेभिहिते सर्वत्रत्रैविध्यं भवति तस्मात् त्रैविध्यमेव वक्ष्यामः एतद्ध्य्ताउ!रहितमसंमोहकरं च अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः ३६
तत्र दर्वीकरविषेणत्वङ्नयननखदशनवदनमूत्रपुरीषदंशकृष्णत्वं रौक्ष्यं शि-रसो गौरवं सन्धिवेदना कटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कासश्वासौहिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना भवन्ति म-ण्डलिविषेण त्वगादीनां पीतत्वंशीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्च्छाज्वरः शोणितागमनमूर्ध्वमधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति राजिमद्विषेण शुक्लत्वं-त्वगादीनां शीतज्वरो रोमहर्षः स्तब्धत्वं गात्राणामादंशशोफः सान्द्र कफप्र-सेकश्छर्दिरभीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छ्वासनिरोधस्तमः
प्रवेशस्तास्ताश्च कफवेदना भवन्ति ३७
पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षते अधस्तात् स्त्रिया सिराश्चोत्तिष्ठन्ति ललाटे नपुंस-काभिदष्टस्तिर्यक्पेक्षी भवति गर्भिण्या पाण्डुमुखोध्मातश्च सूतिकया कुक्षि-शूलार्तः सरुधिरं मेहत्युपजिह्विका चास्य भवति ग्रासार्थिनाऽन्न काङ्क्षति वृ-द्धने चिरान्मन्दाश्च वेगाः बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गं अन्धाहिके-नान्धत्वमित्येके ग्रसनात् अजगरः शरीरप्राणहरो न विषात् तत्र सद्यः प्राणहराहिदष्टः पतति शास्त्राशनिहत इव भूमौस्रस्ताङ्गः स्वपिति ३८
तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति तत्र दर्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यं पिपीलिकापरि-सर्पणमिव चाङ्गे भवति द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णता शोफो ग्र-न्थयश्चाङ्गे भवन्ति तृतीये मेदो दूषयति तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षु-र्ग्रहणं च चतुर्थे कोष्ठमनुप्रविश्यकफप्रधानान् दोषान् दूषयति तेन तन्द्रा प्रसे-कसन्धिविश्लेषा भवन्ति पञ्चमेऽस्थीन्यनुप्रविशति प्राणमग्निं च दूषयति तेन पर्वभेदो हिक्का दाहश्चभवति षष्ठे मज्जानमनुप्रविशति ग्रहणीं चात्यर्थंदूषयति तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति सप्तमे शुक्रमनुप्रवि-शति व्यानंचात्यर्थं कोपयति कफं च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टआविघातो लालास्वेदयोरतिप्र-वृत्तिरुच्छ्वासविरोधश्च भवति मण्डलिनां प्रथमे वेगे विषंशोणितं दूषयति तत् प्रदुष्टं पीततामुपैति तत्रपरिदाहः पीतावभासता चाङ्गानां भवति द्विती-येमांसं दूषयति तेनात्यर्थं पीतता परिदाहो दंशेश्वयथुश्च भवति तृतीये मेदो दूषयति तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशक्लेदः स्वेदश्च चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्वगात्रेषु करोति षष्ठसप्तमयोः पूर्ववत् रा-जिमतां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पाणडुतामुपैति तेन रो-महर्षः शुक्लावभासश्च पुरुषोभवति द्वितीये मांसं दूषयति तेन पाण्डुताऽत्यर्थं जाड्यं शिरःशोफश्च भवति तृतीये मेदो दूषयतितेन चक्षुर्ग्रहणं दंशक्लेदः स्वेदो घ्राणाक्षिस्रावश्च भवति चतुर्थे कोष्ठमनुप्रविशय मन्यास्तम्भं शिरोगौरवं चापादयति पञ्चमे वाक्सङ्गं शीतज्वरं च करोति षष्ठसप्तमयोः पूर्ववदिति ३९
भवन्ति चात्र
धात्वन्तरेषु याः सप्त कलाः संपरिकीर्तिताः
तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ४०
येनान्तरेण तु कलां कालकल्पं भिनत्ति हि
समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् ४१
शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः
लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि ४२
तृतीये च शिरोदुःखं कण्ठग्रीवं च भज्यते
चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून् ४३
केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः
ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम् ४४
द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति
केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि
मार्जारनकुलादीनां विषं नातिप्रवर्तते ४५
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वै रेवादितः सर्पैः शाखादष्टस्य देहिनः
दंशस्योपरि बध्नीयादरिष्टाश्चतुरङ्गुले ३
प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै
न गच्छति विषं देहमरिष्टाभिर्निवारितम् ४
दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते
आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ५
प्रतिपूर्य मुखं वस्त्रैर्हितमाचूषणं भवेत्
स दष्टव्योऽथवा सर्पो लोष्टो वाऽपि हि तत्क्षणम् ६
अथ मण्डलिना दष्टं न कथंचन दाहयेत्
स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते ७
अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः
सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता ८
देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः
भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ९
विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः
यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः १०
मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना
मिताहारेण शुचिना कुशास्तरणशायिना ११
गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः
पूजयेन्मन्त्रसिर्द्ध्य्थं जपहोमैश्च यत्नतः १२
मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः १३
समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक्
शाखाग्रे वा ललाटे वा व्यध्यास्ता विसृते विषे १४
रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम्
तस्माद्विस्रावयेद्र क्तं सा ह्यस्य परमा क्रिया १५
समन्तादगदैर्दंशं प्रच्छयित्वा प्रलेपयेत्
चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् १६
पाययेतागदांस्तांस्तान् क्षीरक्षौद्र घृतादिभिः
तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका १७
कोविदारशिरीषार्ककटभीर्वाऽपि भक्षयेत्
न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च १८
द्र वमन्यत्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत्
प्रायो हि वमनेनैव सुखं निर्ह्रियते विषम् १९
फणिनां विषवेगे तु प्रथमे शोणितं हरेत
द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् २०
नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने
वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत् २१
शीतोपचारं कृत्वाऽदौ भिषक् पञ्चमषष्ठयोः
पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम् २२
सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत्
तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च २३
कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत्
पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् २४
अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च
वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत् २५
तृतीये शोधितं तीक्ष्णैर्यवागूं पाययेद्धिताम्
चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत् २६
काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः
हितोऽवपीडे त्वगदः सप्तमे विषनाशनः २७
पूर्वे राजिमतां वेगेऽलाबुभिः शोणितं हरेत्
अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च २८
वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम्
तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः २९
षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे
गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम् ३०
विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु
रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके ३१
त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत्
चतुर्गुणं तु नागानां केवलं सर्वपक्षिणाम् ३२
परिषेकान् प्रदेहांश्च सुशीतानवचारयेत्
माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम्
पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः ३३
देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम्
प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत् ३४
वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम्
कर्मावस्थाविशेषेण विषयोरुभयोः शृणु ३५
विवर्णे कठिने शूने सरुजेऽङ्गे विषान्विते
तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः ३६
क्षुधार्तमनिलप्रायं तद्विषार्तं समाहितः
पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ३७
तृड्दाहघर्मसंमोहे पैत्तं पैत्तविषातुरम्
शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ३८
शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम्
वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम् ३९
कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम्
विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम् ४०
शूनाक्षिकूटं निद्रा र्तं विवर्णाविललोचनम्
विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत् ४१
शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे
शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ४२
नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः
चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत् ४३
ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः
तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ४४
कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः
सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि ४५
चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक्
वादयेच्चागदैर्लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः ४६
लब्धसंज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत्
निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ४७
अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते
कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः ४८
शोफशोषप्रतिश्यायतिमिरारुचिपीनसान्
तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ४९
विषार्तोपद्र वांश्चापि यथास्वं समुपाचरेत्
अथारिष्टां विमुच्याशु प्रच्छयित्वाऽङ्कितं तया ५०
दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते
एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः ५१
विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति
तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत् ५२
तैलमत्स्यकुलत्थाम्लवर्ज्यैर्विषहरायुतैः
पित्तज्वरहरैः पित्तं कषायस्नेहबस्तिभिः ५३
कफमारग्वधाद्येन सक्षौद्रे ण गणेन तु
श्लेष्मघ्नैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः ५४
वृक्षप्रपातविषमपतितं मृतमम्भसि
उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत् ५५
गाढं बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तद्विधैर्वाऽवशिष्टैः
शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ५६
सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम्
कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च ५७
तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत्
पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः ५८
लूतादष्टा दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः
तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य ५९
हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः
अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर्द्र व्यैराज्ययुक्तैर्विषघ्नैः ६०
भिन्ने त्वन्स्था दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च
त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ६१
कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि
एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः ६२
अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः
विडङ्गपाठात्रिफलाजमोदाहिङूनि वक्रं त्रिकटूनि चैव ६३
सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्र युतो निधेयः
शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ६४
एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना
प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ६५
स्थौणेयकध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च
कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ६६
रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च
सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ६७
एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य
मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ६८
विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि
भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ६९
पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम्
सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि ७०
वराहगोधाशिखिशल्लकीनां मार्जारजं पार्षतनाकुले च
यस्यागदोऽय सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ७१
न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव
एंतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ७२
दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति
लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च ७३
चूर्णीकृतोऽय रजनीविमिश्रो सर्पिर्मधुभ्यां सहितो निधेयः
शृङ्गे गवां पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः ७४
संजीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान्
श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च ७५
सतण्डुलीयोऽगद एष मुख्यो विषेषु दर्वीकरराजिलानाम्
द्रा क्षा सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ७६
देयो द्विभागः सुरसाच्छदस्य कपित्थबिल्वादपि दाडिमाच्च
तथाऽधभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च ७७
एषोऽगदः क्षौद्र युतो निहन्ति विशेषतो मण्डलिनां विषाणि
वंशत्वगाद्रा र्!ऽमलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा ७८
करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति
विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः ७९
पुरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः
काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः ८०
समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः
सलावणः क्षौद्र युतोऽथ पीतो विशेषतः कीटविषं निहन्ति ८१
कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम्
मालती नागपुष्पं च सर्वाणि मधुराणि च ८२
कपित्थरसपिष्टोऽय शर्कराक्षौद्र संयुतः
विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ८३
सोमराजीफलं पुष्पं कटभी सिन्धुवारकः
चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ८४
पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम्
श्यामाऽम्बष्ठा विडङ्गानि तथाऽम्राश्मन्तकानि च ८५
भूमी कुरबकश्चैव गण एकसरः स्मृतः
एकशो द्वित्रिशोवाऽपि प्रयोक्तव्यो विषापहः ८६
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्र काम्रोदुम्बरकरहाट-कार्जुनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्था-श्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलुमधुकमधुशिग्रुशाकगो जीमूर्वाभू-र्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत् दद्याच्चात्र पिप्पलीमूलतण्डुली यकवराङ्गचोचमञ्जिष्ठा-करञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृह धूमानन्तासोमसरलाबाह्लीकगुहा-कोशाम्रश्वेतसर्षपव रुणलवणप्लक्ष निचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणी-सप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्र दारुकुष्ठहरिद्रा वचाचूर्णानि लोहानां च समभागानि ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात्
अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च
श्रवणाद्दर्शनात् स्पर्शात् विषात् संप्रतिमुच्यते ४
एष क्षारागदो नाम शर्करास्वश्मरीषु च
अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ५
अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे
शोफे सर्वसरे चापि देयः श्वासे च दारुणे ६
सदा सर्वविषार्तानां सर्वथैवोपयुज्यते
एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ७
विडङ्गत्रिफलादन्तीभद्र दारुहरेणवः
तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् ८
दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे
प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ९
सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम्
सर्पिः कल्याणकं ह्येतद्द्ग्रहापस्मारनाशनम् १०
पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत्
शोषिणामल्पशुक्राणां बन्ध्यानां च प्रशस्यते ११
अपामार्गस्य बीजानि शिरीषस्य च माषकान्
श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् १२
सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम्
अमृतं नाम विख्यातमपि संजीवयेन्मृतम् १३
चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम्
प्रपौण्डरीकं नलदं सरलं देवदारु च १४
भद्र श्रियं यवफलां भार्गी नीलद्यं सुगन्धिकाम्
कालेयकं पद्मकं च मधुकं नागरं जटाम् १५
पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम्
तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् १६
तालीशपत्रं क्षुद्रै लां प्रियङ्गुं सकुटन्नटम्
शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् १७
कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम्
सोमराजीमतिविषां पृथ्विकामिन्द्र वारुणीम् १८
उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा
श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च १९
कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽकजम्
चम्पकाशोकसुमनस्तिल्वकप्रसवानि च २०
पाटलीशाल्मलीशैलुशिरीषाणां तथैव च
कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् २१
धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च
गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् २२
एतत् संभृत्य संभारं सूक्ष्मचूर्णानि कारयेत्
गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् २३
भग्नस्कन्धं विवृत्ताक्षं मृत्योर्दंष्ट्रान्तरं गतम्
अनेनागदमुख्येन मनुष्यं पुनराहरेत् २४
एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः
विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि २५
महासुगन्धिनामाऽय पञ्चाशीत्यङ्गसंयुतः
राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा २६
स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः
भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् २७
उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता
मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते २८
अन्नपानविधावुक्तमुपधार्य शुभाशुभम्
शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् २९
फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा
वर्जयेच्च समासेन नवधान्यादिकं गणम् ३०
दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम्
सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ३१
प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम्
प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ३२
इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठोऽध्यायः ६


सप्तमोऽध्यायः
अथातो मूषिककल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वं शुक्रविषा उक्ता मूषिका ये समासतः
नामलक्षणभैषज्यैरष्टादश निबोध मे ३
लालनः पुत्रकः कृष्णो हंसिरश्चिक्विइ!क्किरिस्तथा
छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ४
कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा
कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः ५
श्वेतेन महता सार्धं कपिलेनाखुना तथा
मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ६
शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा
नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ७
जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च
पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च ८
पर्वभेदो रुजस्तीव्रा मूर्च्छाऽङ्गसदनं ज्वरः
दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ९
दष्टरूपं समासोक्तमेतद्व्यासमतः शृणु
लालास्रावो लालनेन हिक्का छर्दिश्च जायते १०
तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम्
पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते ११
चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः
शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम् १२
कृष्णेन दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने
शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना १३
हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम्
पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः १४
चिक्विइ!क्किरिए!ण शिरोदुःखं शोफो हिक्का वमिस्तथा
जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् १५
यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत्
छुच्छुन्दरेण तृट् छर्दिर्ज्वरो दौर्बल्यमेव च १६
ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका
चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु १७
अङ्कोठबीजं च तथा पिबेदत्र विषापहम्
ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः १८
महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम्
निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च १९
क्षौद्रो पेताः शिरीषस्य लिह्यात् सारफलत्वचः
कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले २०
सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके
अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः २१
स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत्
चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया २२
क्षौद्रे ण त्रिफलां लिह्याद्भद्र काष्ठजटान्विताम्
कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट् २३
लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम्
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः २४
वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत्
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् २५
महाकृष्णेन पित्तं च श्वेतेन कफ एव च
महता कपिलेनासृक् कपोतेन चतुष्टयम् २६
भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः
पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः २७
दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः
करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः २८
निष्क्वाथ्य चैषां क्वाथस्य चतुर्थॐऽश पुनर्भवेत्
त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः २९
कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत्
तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ३०
पञ्चानामरुणादीनां विषमेतद्व्यपोहति
काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ३१
सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च
सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम् ३२
दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्
शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः ३३
छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि
शुकाख्याकोषवत्योश्च मूलं मदन एव च ३४
देवदालीफलं चैव दध्ना पीत्वा विषं वमेत्
सर्वमूषिकदष्टानामेष योगः सुखावहः ३५
फलं वचा देवदाली कुष्ठं गोमूत्रपेषितम्
पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ३६
विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते
शिरोविरेचने सारः शिरीषस्य फलानि च ३७
हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने
कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ ३८
रसाञ्जनहरिद्रे न्द्र यवकट्वीषु वा कृतम्
प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ३९
तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ४०
मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम्
तत्राप्येष विधिः कार्यो यश्च दूषीविषापहः ४१
स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक्
पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत् ४२
श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः
श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः ४३
तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान्
अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ४४
तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् ४५
दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः
येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः ४६
बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति
दंष्ट्रिणा येन दष्टश्च तद्रू पं यस्तु पश्यति ४७
अप्सु वा यदि वाऽदर्शेऽरिष्टं तस्य विनिर्दिशेत्
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् ४८
जलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम्
अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ४९
प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिध्यति
दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ५०
प्रदिह्यादगदैः सर्पिः पुराणं पाययेत च
अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम् ५१
श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम्
पललं तिलतैलं च रूपिकायाः पयो गुडः ५२
निहन्ति विषमालर्कं मेघवृन्दमिवानिलः
मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम् ५३
तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह
उन्मत्तकस्य पत्रैस्तु संवेष्ठ्यापूपकं पचेत् ५४
खादेदौषधकाले तमलर्कविषदूषितः
करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे ५५
विकाराः शिशिरे याप्या गृहे वारिविवर्जिते
ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ५६
शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत्
दिनत्रये पञ्चमे वा विधिरेषोऽधमात्रया ५७
कर्तव्यो भिषजाऽवश्यमलर्कविषनाशनः
कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ५८
तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति
बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ५९
स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे
बलि निवेद्य तत्रापि पिण्याकं पललं दधि ६०
माल्यानि च विचित्राणि मांसं पक्वामकं तथा
अलकाधिपते यक्ष सारमेयगणाधिप ६१
अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात्
दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ६२
अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम्
श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ६३
अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः
बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः ६४
नखदन्तक्षतं व्यालैर्यत्कृतं तद्विमर्दयेत्
सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः ६५
इति सुश्रुतसंहितायां कल्पस्थाने मूषिककल्पो नाम सप्तमोऽध्यायः ७


अष्टमोऽध्यायः
अथातः कीटकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसंभवाः
वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ३
सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः
कीटत्वेऽपिसुघोराः स्युः सर्व एव चतुर्विधाः ४
कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः
उच्चिटिङ्गोऽग्निनामा च चिच्चिटिङ्गो मयूरिका ५
आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ
शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः ६
शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः
अष्टादशेति वायव्याः कीटाः पवनकोपनाः ७
तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः
कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः ८
विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा
बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोऽरिमेदकः ९
पद्मकीटो दुन्दुभिको मकरः शतपादकः
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी १०
क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा
एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ११
तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः
विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथकोकिलः १२
सैरेयकः प्रचलको वलभः किटिभस्तथा
सूचीमुखः कृष्णगोधा यश्च काषायवासिकः १३
कीटो गर्दभकश्चैव तथा त्रोटक एव च
त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः १४
तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः
तुङ्गीनासो विचिलकस्तालको वाहकस्तथा १५
कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः
तुण्डङ्गिनिआ!भः सर्षपिको वल्गुलि शम्बुकस्तथा १६
अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् १७
तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः
क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः १८
ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः
छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका १९
वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम्
पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च २०
दद्र वः कर्णिकाश्चैव विसर्पाः किटिभानि च
तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्र वाः २१
येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत्
दूषीविषप्रकोपाच्च तथैव विषलेपनात् २२
लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः
प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः २३
पिडकाकोठकण्डूनां जन्म दोषविभागतः
योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् २४
दूषीविषप्रकाराणां तथा चाप्यनुलेपनात्
एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः २५
सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च
त्रिकण्टः करिणी चापि हस्तिकक्षोऽपराजितः
चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः २६
तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति २७
प्रतिसूर्यकः पिङ्गाभासो बहुवर्णो निरूपमो गोधेरेक इति पञ्च गोधेरकाः तैर्दष्टस्य शोफो दाहरुजौ च भवतः गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च २८
गलगोलिकाश्वेता कृष्णा रक्तराजी रक्तमण्डला सर्वश्वेता सर्षपिकेत्येवं षट् ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति सर्षपिकया हृदयपिडाऽतिसारश्च तासु मध्ये सर्षपिका प्राणहरी २९
शतपद्यस्तुपरुषा कृष्णा चित्रा कपिला पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ ताभिर्दष्टे शोफो वेदना दाहश्च हृदये श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा
चातिमात्रं श्वेतपिडकोत्पत्तिश्च ३०
मण्डूकाःकृष्णः सारः कुहको हरितो रक्तो यववर्णाभो भृकुटी कोटिकश्चेत्य-ष्टौ तैर्दष्टस्य दंशेकण्डूर्भवति पीतफेनागमश्च वक्त्रात् भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ३१
विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते शीतज्वरार्तश्च पुरुषो भवति ३२
अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्वयथवो भवन्ति मोहश्च कण्डूमकाभिर्दष्टे पीताङ्ग श्छर्द्यतीसारज्वरादिभिरभिहन्यते शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते ३३
पिपीलिकाःस्थूलशीर्षा संवाहिका ब्राह्मणिका अङ्गुलिका कपिलिका
चित्रवर्णेति षट् ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ३४
मक्षिकाःकान्तारिका कृष्णा पिङ्गला मधूलिका काषायी स्थालिकेत्येवं षट् ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति स्थालिकाकाषायीभ्यामेतदेव
श्यावपिडकोत्पत्तिरुपद्र वाश्च ज्वरादयो भवन्ति काषायी स्थालिका च प्राणहरे ३५
मशकाःसामुद्र ः! परिमण्डलो हस्तिमशकः कृष्णः पार्वतीय इति पञ्च तैर्दष्टस्य
तीव्रा कण्डूर्दं शशोफश्च पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ३६
नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति
जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च ३७
भवन्ति चात्र
गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे
भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ३८
शवमूत्रपुरीषैस्तु सविषैरवमर्शनात्
स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ३९
प्रक्लेदवांस्तथा स्रावो भृशं संपाचयेत्त्वचम्
दिग्धविद्धक्रिंयास्तत्र यथावदवचारयेत् ४०
नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम्
दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम् ४१
दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत्
त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः ४२
स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत्
अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात् ४३
विषघ्नं च विधिं सर्वं बहुशः शोधनानि च
शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः ४४
क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु
उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता ४५
न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके
अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक् ४६
कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका
गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ४७
रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम्
गलगोलिकदष्टानामगदो विषनाशनः ४८
कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम्
अगदो जलपिष्टोऽय शतपद्विषनाशनः ४९
मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम्
सर्वमण्डूकदष्टानामगदोऽय विषापहः ५०
धवाश्वगन्धातिबलाबलासातिगुहागुहाः
विश्वम्भराभिदष्टानामगदोऽय विषापहः ५१
शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे
अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ५२
कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः
दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः ५३
वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः
भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ५४
पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा
गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ५५
नखावघृष्टसंजाते शोफे भृङ्गरसो हितः
प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत्
त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः ५६
गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः
सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसंभवाः ५७
मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः
दश विंशतिरित्येते संख्यया परिकीर्तिताः ५८
कृष्णः श्यावः कर्बुरः पाण्डूवर्णो गोमूत्राभः कर्कशो मेचकश्च
पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ५९
युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः
एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च ६०
शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च
रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ६१
एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम्
यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात् ६२
जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे
श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च ६३
पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च
रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ६४
नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः
जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण ६५
एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च
खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ६६
उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत्
आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत् ६७
रजनीसैन्धवव्योषशिरीषफलपुष्पजैः
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ६८
लेपे स्वेदे सुखोष्णं च गोमयं हितमिष्यते
पाने क्षौद्र युतं सर्पिः क्षीरं वा बहुशर्करम् ६९
दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत्
विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ७०
कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत्
गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ७१
पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम्
शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी ७२
धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम्
कुसुम्भपुष्पं रजनी निशा वा कोद्र वं तृणम् ७३
एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः
नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ७४
लूताविषं घोरतमं दुर्विज्ञेयतमं च तत्
दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ७५
सविषं निर्विषं चैतदित्येवं परिशङ्किते
विषघ्नमेव कर्तव्यमविरोधि यदौषधम् ७६
अगदानां हि संयोगो विषजुष्टस्य युज्यते
निर्विषे मानवे युक्तोऽगदः संपद्यतेऽसुखम् ७७
तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः
अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम् ७८
प्रोद्भिद्यमानस्तु यथाऽङकुरेण न व्यक्तजातिः प्रविभाति वृक्षः
तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ७९
ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात्
अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये ८०
त्र्! यहेण तद्दर्शयतीह रूपं विषं चतुर्थेऽहनि कोपमेति
अतोऽधिकेऽह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान् ८१
षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति
तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ८२
यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः
अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ८३
यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति
तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः ८४
विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रि येण
सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम् ८५
सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति
शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ८६
दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्तमवेहि दीर्णम्
दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च ८७
रजःपुरीषेन्द्रि यजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम्
एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम् ८८
सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम् ८९
विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्
वशिष्ठं कोपयामास गत्वाऽश्रमपदं किल ९०
कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः
अपतन् दर्शनादेव रवेस्तत्समतेजसः ९१
तृणे महर्षिणा लूने धेन्वर्थं संभृतेऽपि च
ततो जातास्त्विमा घोरा नानारूपा महाविषाः
अपकाराय वर्तन्ते नृपसाधनवाहने ९२
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश ९३
कृच्छ्रसाध्यास्तथाऽसाध्यालूतास्तु द्विविधाः स्मृताः
तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु ९४
त्रिमण्डला तथा श्वेता कपिला पीतिका तथा
आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ९५
ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना
भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः ९६
सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा
कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ९७
ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ९८
पिडका विविधाकारा मण्डलानि महान्ति च
महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ९९
सामान्यं सर्वलूतानामेतदादंशलक्षणम्
विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् १००
त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते
बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः १०१
तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका
पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च १०२
श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत्
दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी १०३
तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः
कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः १०४
आदंशे पिडका ताम्रा कपिकायाः स्थिरा भवेत्
शिरसो गौरवं दाहस्तिमिरं भ्रम एव च १०५
तत्र पद्मककुष्ठैलाकरञ्जककुभत्चचः
स्थिरार्कपर्ण्यपामार्गदूर्वाब्राहम्यो विषापहाः १०६
आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा
भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी १०७
तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः
शिरीषकिणिहीशेलुकदम्बककुभत्चचः १०८
रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव
जायन्ते तालुशोषश्च दाहश्चालविषार्दिते १०९
तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः
अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः ११०
पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः
कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः १११
मनःशिलालमधुककुष्ठचन्दनपद्मकैः
मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः ११२
आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः
रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ११३
कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः
तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ११४
पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत्
कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ११५
पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु
ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः ११६
तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः
महासुगन्धिसहितैः प्रत्याख्यायागदः स्मृतः ११७
दंशे दाहोऽग्निवक्त्रायाः स्रावोऽत्यर्थं ज्वरस्तथा
चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ११८
कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत्
सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ११९
सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम्
भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् १२०
कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया
अवार्यविषवीर्याणां लक्षणानि निबोध मे १२१
ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः
श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा १२२
आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक्
दाहो मूर्च्छाऽतिसारश्च शिरोदुःखं च जायते १२३
घोरो दंशस्तु जालिन्या राजिमानवदीर्यते
स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते १२४
एणीपद्यास्तथा दंशो भवेत् कृष्णतिलाकृतिः
तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः १२५
दंशः काकाण्डिकादष्टे पाण्डुरक्तोऽतिवेदनः
तृण्मूर्च्छाश्वासहृद्रो गहिक्काकासाः स्युरुच्छ्रिताः १२६
रक्तो मालागुणादंशो धूमगन्धोऽतिवेदनः
बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः १२७
असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत्
दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम् १२८
साध्याभिराभिर्लूताभिर्दष्टमात्रस्य देहिनः
वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् १२९
अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः
दंशस्योत्कर्तनं कुर्यादल्पश्वयथुकस्य च १३०
मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः
प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा १३१
सारिवां मधुकं द्रा क्षां पयस्यां क्षीरमोरटम्
विदारीगोक्षुरक्षौद्र मधुकं पाययेत वा १३२
क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत्
उपद्र वान् यथादोषं विषघ्नैरेव साधयेत् १३३
नस्याञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहं च
संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र १३४
कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि
आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग् १३५
विनिवृत्ते ततः शोफे कर्णिकापातनं हितम्
निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु १३६
गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च
विषवृद्धिकरं चान्नं हित्वा संभोजनं हितम् १३७
विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम्
प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत् १३८
सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः
दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् १३९
सविंशमध्यायशतमेतदुक्तं विभागशः
इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे १४०
सनातनत्वाद्वेदानामक्षरत्वात्तथैव च
तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् १४१
वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः
चिकित्सितात् पुण्यतमं न किंचिदपि शुश्रुमः १४२
ऋषेरिन्द्र प्रभावस्यामृतयोनेर्भिषग्गुरोः
धारयित्वा तु विमलं मतं परमसंमतम्
उक्ताहारसमाचार इह प्रेत्य च मोदते १४३
इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पोनामाष्टमोऽध्यायः ८
इति कल्प स्थानम् समाप्तम्