सुश्रुतसंहिता/उत्तरतन्त्रम्/अध्याय ०१-२०
दिखावट
- प्रथमोऽध्यायः
- अथात औपद्रविकमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अध्यायानां शते विंशे यदुक्तमसकृन्मया
- वक्ष्यामि बहुधा सम्यगुत्तरेऽथानिमानिति ३
- इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्
- निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ४
- शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः
- ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ५
- षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः
- उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ६
- त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च
- युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ७
- यत्रोक्ता विविधा अर्था रोगसाधनहेतवः
- महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ८
- आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम्
- सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ९
- विद्याद्द्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम्
- द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् १०
- सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्
- पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ११
- आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे
- दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः १२
- नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते
- कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः १३
- मण्डलानि च सन्धींश्च पटलानि च लोचने
- यथाक्रमं विजानीयात् पञ्च षट् च षडेव च १४
- पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
- अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् १५
- पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः
- शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः
- ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः १६
- द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि
- जायते तिमिरं येषु व्याधिः परमदारुणः १७
- तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्
- मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् १८
- पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते
- सिराणां कण्डराणां च मेदसः कालकस्य च १९
- गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णो सिरायुतः
- सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः २०
- जायन्ते नेत्रभागेषु रोगाः परमदारुणाः
- तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् २१
- गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः
- सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च २२
- विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा
- दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् २३
- तत्र संभवमासाद्य यथादोषं भिषग्जितम्
- विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा २४
- सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्
- वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः २५
- उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च
- प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च २६
- शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च
- स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्
- बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः २७
- वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश
- रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः २८
- तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः
- हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या २९
- यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः
- याप्योऽथतन्मयः काचः साध्याः स्युः सान्यमारुताः ३०
- शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः
- असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ३१
- परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः
- अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ३२
- दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति
- असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ३३
- अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत्
- दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ३४
- क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः
- श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ३५
- रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम्
- शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ३६
- मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च
- सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ३७
- पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः
- एते साध्या विकारेषु रक्तजेषु भवन्ति हि ३८
- पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी
- असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ३९
- वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या
- प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ४०
- पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी
- तथाऽशोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ४१
- सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च
- अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ४२
- सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ
- षट्सप्ततिर्विकाराणामेषां सङ्ग्रहकीर्तिता ४३
- नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः
- शुक्लभागे दंशैकश्च चत्वारः कृष्णभागजाः ४४
- सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु
- बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ
- भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ४५
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः १
- द्वितीयोऽध्यायः
- अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- पूयालसं सोपनाहः स्रावाः पर्वणिकाऽलजी
- क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ३
- पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः
- ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ४
- गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात्
- तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ५
- पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः
- श्वेतः सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः ६
- रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्र म्
- पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ७
- ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा
- जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ८
- क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः
- नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ९
- इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्यायः २
- तृतीयोऽध्यायः
- अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः
- सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ३
- विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्
- विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ४
- उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा
- तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ५
- बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः
- क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ६
- प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत्
- अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ७
- लगणो बिशनामा च पक्ष्मकोपस्तथैव च
- एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ८
- नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे
- अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ९
- विज्ञेयोत्सङ्गिनी नाम तद्रू पपिडकाचिता
- कुम्भीकबीजप्रतिमा पिडका यास्तु वर्त्मजाः १०
- आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः
- स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
- पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः ११
- पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
- पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा १२
- एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
- सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते १३
- दीर्घोऽङकुरः खरः स्तब्धो दारुणो वर्त्मसंभवः
- व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः १४
- दाहतोदवती ताम्रा पिडका वर्त्मसंभवा
- मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका १५
- वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
- सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् १६
- कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः
- न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः १७
- मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
- अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्म तदादिशेत् १८
- क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा
- तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः १९
- यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
- दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् २०
- अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि
- कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते २१
- यस्य धौतानि धौतानि संबध्यन्ते पुनः पुनः
- वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् २२
- विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
- एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् २३
- वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
- विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् २४
- निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
- चालयत्यति वर्त्मानि निमेषः स गदो मतः २५
- छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङकुराः
- दाहकण्डूरुजोपेतास्तेऽश शोणितसंभवाः २६
- अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः
- सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः २७
- शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रै ः! समन्वितम्
- बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् २८
- दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च
- निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते २९
- उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते
- वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ३०
- इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ३
- चतुर्थोऽध्यायः
- अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
- स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः ३
- रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे
- प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम् ४
- शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण
- यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ५
- विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्
- शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु ६
- श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसंज्ञः
- एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७
- उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः
- जालाभः कठिनासिरो महान् सरक्तः सन्तानः स्मृत इह जालसंज्ञितस्तु ८
- शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः
- कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः स ज्ञेयोऽमृदुररुजो बलासकाख्यः ९
- इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थोऽध्यायः ४
- पञ्चमोऽध्यायः
- अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- यत् सव्रणं शुक्रक्लिमिथाव्रणं वा पाकात्ययश्चाप्यजका तथैव
- चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात् ३
- निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
- स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्रक्लिमिउ!दाहरन्ति ४
- दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि
- अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ५
- विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च
- द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ६
- उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम्
- तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ७
- सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्
- विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ८
- गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्
- संच्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ९
- तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति
- अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
- विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् १०
- इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ५
- षष्ठोऽध्यायः
- अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः
- शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश संप्रदिष्टाः ३
- हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः
- दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ४
- प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः
- तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ५
- निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः
- विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ६
- दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च
- उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ७
- उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम्
- स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ८
- ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
- पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ९
- वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्
- तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १०
- उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा
- शिरसोऽध च तं विद्यादधिमन्थं स्वलक्षणैः ११
- नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत्
- सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् १२
- कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्
- शिरसोऽध च येन स्यादधिमन्थः स मारुतात् १३
- रक्तराजिचितं स्रावि वह्निनेवावदह्यते
- यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् १४
- प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम्
- मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् १५
- शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्
- शैल्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् १६
- रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्
- नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् १७
- बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्
- रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः १८
- रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते
- यद्दीप्तं रक्तपर्यन्तं तद्र क्तेनाधिमन्थितम् १९
- हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्संभवः पञ्चरात्रात्
- षड्रात्राद्वै मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव २०
- कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
- दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः २१
- जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम्
- संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः २२
- शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे
- उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य
- रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः २३
- अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्
- हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः २४
- पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः संचरति प्रदुष्टः
- पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति २५
- यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत्
- सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि २६
- यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
- कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति २७
- अम्लेन भुक्तेन विदाहिना च संछाद्यते सर्वत एव नेत्रम्
- शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति २८
- अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
- मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः २९
- मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः
- ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शन्कोत्यभिवीक्षितुं च ३०
- इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयोनाम षष्ठोऽध्यायः ६
- सप्तमोऽध्यायः
- अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
- खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ३
- आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
- शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ४
- रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे
- पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ५
- सिराभिरभिसंप्राप्य विगुणोऽभ्यन्तरे भृशम्
- प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ६
- अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति
- दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ७
- मक्षिका मशकान् केशाञ्जालकानि च पश्यति
- मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ८
- परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च
- दूरस्थान्यपि रूपाणि मन्यते च समीपतः ९
- समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्
- यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति १०
- ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
- महान्त्यपि च रूपाणि च्छादितानीव वाससा ११
- कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते
- यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि १२
- अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते
- पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति १३
- समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति
- दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा १४
- द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते
- तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः १५
- रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते
- तस्मिन्नपि तमोभूते नातिरूढे महागदे १६
- चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः
- निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति १७
- स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः
- तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति १८
- आविलान्यरुणाभानि व्याविद्धानि च मानवः
- पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् १९
- शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति
- कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च २०
- गौरचामरगौराणि श्वेताभ्रप्रतिमानि च
- पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् २१
- सलिलप्लावितानीव परिजाड्यानि मानवः
- तथा रक्तेन रक्तानि तमांसि विविधानि च २२
- हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते
- सन्निपातेन चित्राणि विप्लुतानि च पश्यति २३
- बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः
- हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति २४
- पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा
- पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति २५
- विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च
- वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् २६
- रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः
- कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः २७
- रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम्
- परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् २८
- दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्
- अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा २९
- पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा
- श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ३०
- चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
- संकुचत्यातपेऽत्थ छायायां विस्तृतो भवेत् ३१
- मृद्यमाने च नयने मण्डलं तद्विसर्पति
- प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ३२
- दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे
- यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ३३
- षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः
- तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ३४
- यो ह्रस्वजाड्योत्यिओ!निकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः
- पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ३५
- पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः
- प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ३६
- रिआ!त्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येति!
- तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ३७
- त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
- दिवा स सूर्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात् ३८
- शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः
- सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ३९
- स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत्
- विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ४०
- चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः
- दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ४१
- रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः
- बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ४२
- निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च
- सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ४३
- हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः
- तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ४४
- विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ४५
- इत्येते नयनगता मया विकाराः संख्याताः पृथगिह षट् च सप्ततिश्च
- एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽह तदनु चिकित्सितं यथावत् ४६
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रेदृष्टिगतरोगविज्ञानीयो
- नाम सप्तमोऽध्यायः ७
- अष्टमोऽध्यायः
- अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः सिउ!श्रुतायइ!२
- षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः
- चिकित्सितमिदं तेषां समासव्यासतः शृणु ३
- छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः
- भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ४
- द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि
- रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता
- असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ ५
- अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽश शुष्कं तथाऽबुदमथो पिडकाः सिरा-जाः
- जालं सिराजमपि पञ्चविधं तथाऽम छेद्या भवन्ति सह पर्वणिकामयेन ६
- उत्सङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म
- क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ७
- श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च
- आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ८
- पूयालसानिलविपर्ययमन्थसंज्ञाः स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन
- शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ९
- अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे
- आगन्तुनाऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः १०
- संपश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः
- चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव
- अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ ११
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सितप्रविभागवि-ज्ञानीयो नामाष्टमोऽध्यायः ८
- नवमोऽध्यायः
- अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ
- स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ३
- संपादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ
- तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ४
- नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च
- वातघ्नानूपजलजमांसाम्लक्वाथसेचनैः ५
- स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः
- पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा ६
- भिषक् संपादयेदेतावुपनाहैश्च पूजितैः
- ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः ७
- सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते
- तथा चोपरि भक्तस्य सर्पिःपानंनिए!प्रिशस्यते ८
- त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा
- सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा ९
- स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः
- स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् १०
- नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते
- एरण्डपल्लवे मूले त्वचि वाऽज पयः शृतम् ११
- कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम्
- सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः १२
- हितमर्धोदकं सेके तथाऽश्च्योतनमेव च
- ह्रीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् १३
- साम्भश्छागं पयो वाऽपि शूलाश्च्योतनमुत्तमम्
- मधुकं रजनीं पथ्यां देवदारुं च पेषयेत् १४
- आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्
- गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् १५
- द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते
- स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि १६
- रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः
- अनेनैव विधानेन भिषक् तावपि साधयेत् १७
- पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने
- वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि १८
- सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्
- सिद्धं वा हितमत्राहुः पत्तूरार्तगलाग्निकैः १९
- सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा
- सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् २०
- स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम्
- पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् २१
- घृतेन जीवनीयेन नस्यं तैलेन चाणुना
- परिषेके हितं चात्र पयः शीतं ससैन्धवम् २२
- रजनीदारुसिद्धं वा सैन्धवेन समायुतम्
- सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् २३
- वसा वाऽनूपजलजा सैन्धवेन समायुता
- नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम् २४
- पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः
- बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् २५
- इति सुश्रुसंहितायामुत्तरतन्त्रान्तर्गतेशालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो
- नाम नवमोऽध्यायः ९
- दशमोऽध्यायः
- अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम्
- अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ३
- गुन्द्रा ं! शालि शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम्
- पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ४
- द्रा क्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्! यनन्ते च पिष्ट्वा
- सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ५
- योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसंख्येऽपि नित्यम्
- क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्! यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ६
- पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्र युक्तम्
- रसक्रियां शर्कराक्षौद्र युक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ७
- मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्र सश्च
- तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ८
- चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम्
- योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रो पेतं कैंशुकं चापि पुष्पम् ९
- रोध्रं द्रा क्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च
- पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च १०
- कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः
- योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्रा क्षां शर्करामुत्पलं च ११
- क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्
- तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव १२
- एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः १३
- सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम्
- दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्र व्यैरञ्जनं कार्यमाशु १४
- वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम्
- चूर्णं सूक्ष्मं शर्कराक्षौद्र युक्तं शुक्तिं हन्यादञ्जनं चैतदाशु १५
- युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्र क्तपित्ते विधानम्
- यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् १६
- इति श्रीसुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः १०
- एकादशोऽध्यायः
- अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन
- स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च ३
- रूक्षैस्तथाऽश्च्योतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः
- त्र्! यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम् ४
- तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम्
- कुटन्नटास्फोटफणिज्झबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः ५
- स्वेदं विदध्यात् अथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः
- सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ६
- पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रा मधुकाञ्जनैर्वा
- त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ७
- बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च
- पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ८
- फलं प्रकीर्यादथवाऽपि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य
- रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम् ९
- पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु
- रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये १०
- नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य
- तथाऽजकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव ११
- तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम्
- एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्झकादौ १२
- महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम्
- तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् १३
- फले बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले
- स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे विधिरेष चापि १४
- वार्ताकशिग्र्विन्द्र सुरापटोलकिराततिक्तामलकीफलेषु
- कासीससामुद्र रसाञ्जनानि जात्यास्तथा क्षाकिओ!रिकमेव चापि १५
- प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम्
- नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा १६
- समातुलुङ्गद्र व एष योगः कण्डूं निहन्यात् सकृदञ्जनेन
- सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभूसिऊ!तिं मुकुलानि जात्याः १७
- सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति
- स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः १८
- विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम्
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ११
- द्वादशोऽध्यायः
- अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम्
- एकेनैव विधानेन चिकित्सेच्चतुरो गदान् ३
- व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा
- रसैरुदारैरथवा सिरामोक्षेण योजयेत् ४
- विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत्
- वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा ५
- मिज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा
- ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव
- आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः ६
- नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः
- सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात् ७
- रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः
- अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम् ८
- घृतस्य महती मात्रा पीता चार्तिं नियच्छति
- पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ९
- कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम्
- न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत् १०
- पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः
- पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः ११
- समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा
- रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते १२
- चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम्
- अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् १३
- त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु
- विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा १४
- स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम्
- तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् १५
- मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः
- रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः १६
- युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने
- सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् १७
- मधुना तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम्
- वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम् १८
- पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये
- इक्षुक्षौद्र सितास्तन्यदार्वीमधुकसैन्धवैः १९
- सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा
- सितामधुककट्वङ्गमस्तुक्षौद्रा म्लसैन्धवैः २०
- बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः
- एकशो वा द्विशो वाऽपि योजितं वा त्रिभिस्त्रिभिः २१
- स्फटिकं विद्रुमं शङ्खो मधुकं मधु चैव हि
- शङ्खक्षौद्र सितायुक्तः सामुद्र ः! फेन एव वा २२
- द्वाविमौ विहितौ योगावञ्जनेऽजुननाशनौ
- सैन्धवक्षौद्र कतकाः सक्षौद्रं वा रसाञ्जनम् २३
- कासीसं मधुना वाऽपि योज्यमत्राञ्जने सदा
- लोहचूर्णानि सर्वाणि धातवो लवणानि च २४
- रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः
- कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम् २५
- करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम्
- पुटपाकावसानेन रक्तविस्रावणादिना २६
- संपादितस्य विधिना कृत्स्नेन स्यन्दघातिना
- अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक् २७
- उत्तानमवगाढं वा कर्कशं वाऽपि सव्रणम्
- शिरीषबीजमरिचपिप्पलीसैन्धवैरपि २८
- शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु
- कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः २९
- अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम्
- कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ ३०
- शङ्खकोलास्थिकतकद्रा क्षामधुकमाक्षिकैः
- क्षौद्र दन्तार्णवमलशिरीषकुसुमैरपि ३१
- क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम्
- मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्र सितायुतान् ३२
- मधूकसारं मधुना योजयेच्चाञ्जने सदा
- बिभीतकास्थिमज्जा वा सक्षौद्र ः! शुक्रनाशनः ३३
- शङ्खशुक्तिमधुद्रा क्षामधुकं कतकानि च
- द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम् ३४
- वंशजारुष्करौ तालं नारिकेलं च दाहयेत्
- विस्राव्य क्षारवच्चूर्णं भावयेत्करभास्थिजम् ३५
- बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम्
- अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ३६
- व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह
- वहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि ३७
- सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ
- स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ३८
- सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत्
- सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् ३९
- ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम्
- मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ४०
- घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम्
- मधूकसारं मधुना तुल्यांशं गैरिकेण वा ४१
- सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा
- दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवाम्
- रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ४२
- मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम्
- आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ४३
- जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम्
- एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रो पेतं निर्विशङ्कं प्रयोज्यम् ४४
- पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च
- कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ४५
- कासीससिन्धुप्रभवार्द्र कैस्तु हितं भवेदञ्जनमेव चात्र
- क्षौद्रा न्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः ४६
- स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव
- प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ४७
- मुस्ताहरिद्रा मधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभि
- क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ४८
- पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे
- वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम् ४९
- रसक्रिंयां वा त्रिफलाविपक्वां पलाशपुष्पैः खरमञ्जरेर्वा
- पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन ५०
- प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम्
- समुद्र फेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम् ५१
- चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम्
- प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम् ५२
- सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनं च ५३
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः १२
- त्रयोदशोऽध्यायः
- अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः
- स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि ३
- आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः
- सुखोदकप्रतप्तेन वाससा सुसमाहितः
- स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ४
- अङ्गुल्यङ्गुष्ठकाभ्यां तु निर्भुग्नं वर्त्म यत्नतः
- प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा ५
- ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम्
- लिखेच्छस्त्रेण पत्रैर्वा ततो रक्ते स्थिते पुनः ६
- स्विन्नं मनोह्वाकासीसव्योषाद्रा र्ञ्ज!नसैन्धवैः
- श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ७
- प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत्
- स्वेदावपीडप्रभृतींस्त्र्! यहादूर्ध्वं प्रयोजयेत् ८
- व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि
- असृगास्रावरहितं कण्डूशोफविवर्जितम् ९
- समं नखनिभं वर्त्म लिखितं सम्यगिष्यते
- रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम् १०
- रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः
- वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ११
- नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः
- एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत् १२
- व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति
- स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः १३
- स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः
- वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम् १४
- पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाऽग्रतः शनैः
- समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी १५
- कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि
- कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रि तः १६
- भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम्
- ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि १७
- तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः
- विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः १८
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो
- नाम त्रयोदशोऽध्यायः १३
- चतुर्दशोऽध्यायः
- अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- स्वेदयित्वा बिसग्रन्थिं छिद्रा ण्यस्य निराशयम्
- पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ३
- कासीसमागधीपुष्पनेपाल्येलायुतेन तु
- ततः क्षौद्र घृतं दत्त्वा सम्यग्बन्धमथाचरेत् ४
- रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्र मेव च
- प्रतिसारणमेकैकं भिन्ने लगण इष्यते ५
- महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः
- स्विन्नांभिन्नां विनिष्पीड्य भिषगञ्जननामिकाम् ६
- शिलैलानतसिन्धूत्थैः सक्षौद्रै ः! प्रतिसारयेत्
- रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ७
- प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः
- सम्यक् स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ८
- त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया
- भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ९
- लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि
- संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् १०
- आपाकाद्विधिनोक्तेन पञ्चभेद्यानुपाचरेत्
- सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्
- संपक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ११
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो
- नाम चतुर्दशोऽध्यायः १४
- पञ्चदशोऽध्यायः
- अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः
- संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ३
- ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम्
- अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् ४
- अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः
- मुचुण्ड्याऽदाय मेधावी सूचीसूत्रेण वा पुनः ५
- न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत्
- शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ६
- ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्
- उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ७
- विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्
- नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ८
- चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति
- कनीनकवधादस्रं नाडी वाऽप्युपजायते ९
- हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति
- अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् १०
- छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम्
- प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ११
- यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च
- स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् १२
- दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्
- व्रणवत् संविधानं तु तस्य कुर्यादतः परम् १३
- त्र्! यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत्
- करञ्जबीजामलकमधुकैः साधितं पयः १४
- हितमाश्च्योतनं शूले द्विरह्नः क्षौद्र संयुतम्
- मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि १५
- प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते
- लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि १६
- अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा
- धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् १७
- चर्माभं बहलं यत्तु स्नायुमांसघनावृतम्
- छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् १८
- विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम्
- छिन्नेऽमणि भवेत् सम्यग्यथास्वमनुपद्र वम् १९
- सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान्
- उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः २०
- सिरासु पिडका जाता या न सिध्यन्ति भेषजैः
- अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते २१
- रोगयोश्चैयतोः कार्यमर्मोक्तं प्रतिसारणम्
- विधिश्चापि यथादोषं लेखनद्र व्यसंभृतः २२
- सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः
- उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् २३
- छिन्द्यात्ततोऽधमग्रे स्यादश्रुनाडी ह्यतोऽन्यथा
- प्रतिसारणमत्रापि सैन्धवक्षौद्र मिष्यते २४
- लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम्
- शङ्खं समुद्र फेनं च मण्डूकीं च समुद्र जाम् २५
- स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा
- वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च २६
- समभागानि संपिष्य सार्धं स्रोतोञ्जनेन तु
- चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे २७
- संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः
- अर्माणि पिडकां हन्यात् सिराजालानि तेन वै २८
- अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽबुदमेव च
- अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते २९
- वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः
- मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ३०
- ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्
- स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ३१
- क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि
- तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ३२
- वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्
- शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ३३
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो
- नाम पञ्चदशोऽध्यायः १५
- षोडशोऽध्यायः
- अथातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपोऽभिहितः पुरस्तात्
- तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव ३
- भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत्
- कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य ४
- उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः
- दत्त्वा च दर्पिर्मधुनाऽवशेषं कुर्याद्विधानं विहितं व्रणे यत् ५
- ललाटदेशे च निबद्धपट्टं प्राक्स्यूतमत्राप्यपरं च बद्ध्वा
- स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलोऽभिवीक्ष्य ६
- एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलि च
- ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ७
- छित्त्वा समं वाऽप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु
- पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ८
- चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः
- विरेचनाश्च्योतनधूमनस्य लेपाञ्जनस्नेहरसक्रियाश्च ९
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पक्ष्मगतरोगप्रतिषेधो
- नाम षोडशोऽध्यायः १६
- सप्तदशोऽध्यायः
- अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि
- तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ३
- दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च
- पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ४
- नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः
- आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ५
- तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा
- गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ६
- गोमांसं मरिचं बीजं शिरीषस्य मनःशिला
- वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ७
- चत्वार एते योगाः स्युरुभयोरञ्जने हिताः
- कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ८
- पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः
- सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ९
- अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ
- आम्रजम्बूद्भवं पुष्पं तद्र सेन हरेणुकाम् १०
- पिष्ट्वा क्षौद्रा ज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम्
- नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्र सैः ११
- गुडिकाञ्जनमेतद्वा दिनरात्र्! यन्धयोर्हितम्
- रसाञ्जनरसक्षौद्र तालीशस्वर्णगैरिकम् १२
- गोशकृद्र ससंयुक्तं पित्तोपहतदृष्टये
- शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् १३
- कूर्मपित्तेन मतिमान् भावयेद्रौ हितेन वा
- चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये १४
- काश्मरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः
- सक्षौद्र मञ्जनं तद्वद्धितमत्रामये सदा १५
- स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत्
- अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः १६
- कालानुसारिवां कृष्णां नागरं मधुकं तथा
- तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्र से १७
- कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः
- मनःशिलाभयाव्योषबलाकालानुसारिवाः १८
- सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः
- गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् १९
- क्षुद्रा ञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा
- गोमूत्राज्यार्णवमलपिप्पलीक्षौद्र कट्फलैः २०
- सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे
- मेदो यकृद्घृतं चाजं पिप्पल्यः सैन्धवं मधु २१
- रसमामलकाच्चापि पक्वं सम्यङिनधापयेत्
- कोशे खदिरनिर्माणे तद्वत् क्षुद्रा ञ्जनं हितम् २२
- हरेणुमगधाजास्थिमज्जैलायकृदन्वितम्
- यकृद्र सेनाञ्जनं वा श्लेष्मोपहतदृष्टये २३
- विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना
- निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु २४
- तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम्
- प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् २५
- प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते
- ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते २६
- नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे यशिकिऋ!द्गवाम्
- सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् २७
- भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः
- विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा २८
- पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु
- भवेद्घृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः २९
- त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम्
- पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ३०
- हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः
- सदाऽवलिह्यात्त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ३१
- समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः
- गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ३२
- हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम्
- तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ३३
- सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम्
- जलोद्भवानूपजमांससंस्कृताद्घृतं विधेयं पयसो यदुत्थितम् ३४
- ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः
- वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ३५
- प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्र सक्षीरघृतेषु भावितम्
- स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसंप्रवेष्टिते ३६
- तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि
- सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ३७
- हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम्
- तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ३८
- रसाञ्जनक्षौद्र सितामनःशिलाः क्षुद्रा ञ्जनं तन्मधुकेन संयुतम्
- समाञ्जनं वा कनकाकरोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ३९
- भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम्
- समेषशृङ्गाञ्जनभागसंमितं जलोद्भवं काचमलं व्यपोहति ४०
- पलाशरोहीतमधूकजा रसाः क्षौद्रे ण युक्ता मदिराग्रमिश्रिताः
- उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ४१
- विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः
- वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रा नलदे च तर्पणम् ४२
- समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च
- मनःशिलात्र्! यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ४३
- हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते
- यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ४४
- निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः
- मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ४५
- क्रियाश्च सर्वाः क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत्
- क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ४६
- दोषोदये नैव च विप्लुतिंगते द्र व्याणि नस्यादिषु योजयेद्बुधः
- पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ४७
- घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि
- निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ४८
- शतावरीपायस एव केवलस्तथा कृतो वाऽमलकेषु पायसः
- प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ४९
- जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च
- चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ५०
- पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि
- शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि ५१
- विवर्जयेत्सिरामोक्षं तिमिरे रागमागते
- यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ५२
- अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्
- कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ५३
- रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः
- यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ५४
- श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये
- न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ५५
- विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः
- दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ५६
- स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले
- यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ५७
- मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः
- उन्मील्य नयने सम्यक् सिराजालविवर्जिते ५८
- नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः
- शलाकया प्रयत्नेन विश्वस्तं यववक्रया ५९
- मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया
- दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ६०
- वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे
- संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ६१
- स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः
- सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ६२
- शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम्
- विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ६३
- उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः
- निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ६४
- तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा
- इ!एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ६५
- स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते
- ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ६६
- घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत्
- ततो गृहे निराबाधे शयीतोत्तान एव च ६७
- उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च
- तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ६८
- त्र्! यहात् त्र्! यहाच्च धावेत कषायैरनिलापहैः
- वायोर्भयात् त्र्! यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ६९
- दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्
- पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ७०
- सिराव्यधविधौ पूर्वं नरा ये च विवर्जिताः
- न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ७१
- पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता
- तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ७२
- अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः
- तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ७३
- व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते
- तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ७४
- अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते
- तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ७५
- शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः
- शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ७६
- रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते
- स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ७७
- दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः
- कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ७८
- मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम्
- शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ७९
- दोषस्तु संजातबलो घनः संपूर्णमण्डलः
- प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ८०
- मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः
- दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ८१
- शलाका कर्कशा शूलं खरा दोषपरिप्लुतिम्
- व्रणं विशालं स्थूलाग्रा तीक्ष्णा हिंस्यादनेकधा ८२
- जलास्रावं तु विषमा क्रियासङ्गमथास्थिरा
- करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ८३
- अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता
- अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ८४
- ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता
- रागः शोफोऽबुदं चोषो बुद्बुदं शूकराक्षिता ८५
- अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः
- अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ८६
- रुजायामक्षिरागे वा योगान् भूयो निबोध मे
- गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ८७
- सुखालेपः प्रयोज्योऽय वेदनारागशान्तये
- मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ८८
- मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत्
- पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ८९
- अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते
- दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ९०
- द्रा क्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः
- रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ९१
- शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम्
- मधुकोत्पलकुष्ठैर्वा द्रा क्षालाक्षासितायुतैः
- ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ९२
- शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः
- साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ९३
- वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे
- काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ९४
- शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्
- ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ९५
- दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे
- मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ९६
- सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च
- अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत् ९७
- प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक्
- स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ९८
- मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत्
- दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ९९
- भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च
- कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् १००
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो
- नाम सप्तदशोऽध्यायः १७
- अष्टादशोऽध्यायः
- अथातः क्रियाकल्पं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः
- वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ३
- तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने
- तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ४
- संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने
- पूर्वाह्णे वाऽपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम् ५
- वातातपरजोहीने वेश्मन्युत्तानशायिनः
- आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ६
- समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः
- पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके ७
- आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु
- स्वस्थे कफे षट् पित्तेऽष्टौ दश वाते तदुत्तमम् ८
- रोगस्थानविशेषेण केचित् कालं प्रचक्षते
- यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ९
- दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत्
- ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् १०
- स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
- यथास्वं धूमपानेन कफमस्य विशोधयेत् ११
- एकाहं वा त्र्! यहं वाऽपि पञ्चाहं चेष्यते परम्
- तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् १२
- सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
- निवृतिर्व्याधिविध्वंसः क्रियालाघवमेव च १३
- गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
- ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् १४
- रूक्षमाविलमस्राढ्यमसहं रूपदर्शने
- व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च १५
- अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते
- धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् १६
- ताम्यत्यतिविशुष्कं यद्रू क्षं यच्चातिदारुणम्
- शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् १७
- तदक्षि तर्पणादेव लभेतोर्जामसंशयम्
- दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च १८
- अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते
- पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम् १९
- तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये
- ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च २०
- पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत्
- स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा २१
- हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः
- दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् २२
- स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
- स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः २३
- जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंभृतैः
- कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः २४
- समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
- लेखनो वाक्शतं तस्य परं धारणमुच्यते २५
- स्तन्यजाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
- लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः २६
- वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम्
- स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे २७
- एकाहं वा द्वयहं वाऽपि त्र्! यहं वाऽप्यवचारणम्
- यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते २८
- तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
- नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा २९
- मिथ्योपचारादनयोर्यो व्याधिरुपजायते
- अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत् ३०
- प्रसन्नवर्णं विशदं वातातपसहं लघु
- सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ३१
- अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः
- पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ३२
- अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम्
- द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ३३
- द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
- तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ३४
- किआ!श्मरीकुमुदैरण्डपद्मिनीकदलीभवैः इ!
- मृदावलिप्तमङ्गारैः खादिरैरबकूलयेत् ३५
- कतकाश्मन्तकैरण्डपाटलावृषबादरैः
- सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ३६
- स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम्
- तर्पणोक्तेन विधिना यथावदवचारयेत् ३७
- कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः
- रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ३८
- अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ
- अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ३९
- अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ
- हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ४०
- युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ
- कण्डूपदेहदूषीकारक्तराजिविनाशनौ ४१
- तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ
- व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ४२
- आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः
- तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ४३
- यथादोषोपयुक्तं तु नातिप्रबलमोजसा
- रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ४४
- तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत्
- लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ४५
- आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे
- सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ४६
- अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम्
- पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ४७
- योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते
- रोगाञ्छिरसि संभूतान् हत्वाऽतिप्रबलान् गुणान् ४८
- करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः
- शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ४९
- ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम्
- यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ५०
- तर्पणोक्तं दशगुणं यथादोषं विधानवित्
- व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले ५१
- नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत्
- लेखनं रोपणं चापि प्रसादनमथापि वा ५२
- तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान्
- पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रि तः ५३
- नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम्
- मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत् ५४
- कषायं तिक्तकं वाऽपि सस्नेहं रोपणं मतम्
- तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ५५
- मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्
- दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ५६
- यथादोषं प्रयोज्यानि तानि रोगविशारदैः
- अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ५७
- गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु
- यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ५८
- हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः
- प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ५९
- रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता
- द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ६०
- तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि
- सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ६१
- आयसानि च योज्यानि शलाकाश्च यथाक्रमम्
- वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला ६२
- अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा
- औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् ६३
- वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः
- शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् ६४
- आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम्
- वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ६५
- अक्षि नात्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक्
- न चानिर्वान्तदोषेऽक्ष्णि धावनं संप्रयोजयेत् ६६
- दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा
- गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा ६७
- प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः
- श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः ६८
- वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम्
- रागरुक्तिमिरास्रावशूलसंरम्भसंभवात् ६९
- निद्रा क्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम्
- रजोधूमहते रागस्रावाधीमन्थसंभवम् ७०
- संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम्
- शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च ७१
- दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च
- अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् ७२
- दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्र वान्
- तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ७३
- लेखनस्य विशेषेण काल एष प्रकीर्तितः
- व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः ७४
- यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः
- विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ७५
- संशान्तोपद्र वं नेत्रं विरिक्तं सम्यगादिशेत्
- जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ७६
- नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः
- तत्र संतर्पणं कार्यं विधानं चानिलापहम् ७७
- अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत्
- धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम् ७८
- स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम्
- ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् ७९
- किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति
- तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ८०
- साधारणमपि ज्ञेयमेवं रोपणलक्षणम्
- प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम् ८१
- स्नेहनं रोपणं वाऽपि हीनयुक्तमपार्थकम्
- कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता ८२
- पुटपाकक्रियाद्यासु क्रियास्वेषैकिऐ!वि कल्पना
- सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः ८३
- दृष्टेर्बलविवृर्द्ध्य्थं याप्यरोगक्षयाय च
- राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ८४
- अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः
- औदुम्बरं शातकुम्भं राजतं च समासतः ८५
- एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक्
- मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि ८६
- खदिराश्मन्तकाङ्गारैर्गोशकृद्भिरथापि वा
- गवां शकृद्र से मूत्रे दध्नि सर्पिषि माक्षिके ८७
- तैलमद्यवसाकज्जसर्वगन्धोदकेषु च
- द्रा क्षारसेक्षुत्रिफलारसेषु सुहिमेषु च ८८
- सारिवादिकषाये च कषाये चोत्पलादिके
- निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ८९
- ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले
- विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ९०
- कालानुसारिवां चापि शुचिरावाप्य योगतः
- एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ९१
- दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे
- शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते
- सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ९२
- तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः
- अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ९३
- कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम्
- मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ९४
- उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम्
- नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् ९५
- कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम्
- मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ९६
- कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत्
- एतद्भद्रो दयं नाम सदैवार्हति भूमिपः ९७
- वक्रं समरिचं चैव मांसीं शैलेयमेव च
- तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ९८
- पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम्
- तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम् ९९
- मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम्
- लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः १००
- रोध्रं सावरकं चूर्णमायसं तांम्रमेव च
- कालानुसारिवां चैव कुक्कुटाण्डदलानि च १०१
- तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः
- कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये १०२
- कांस्यापमार्जनमसी मधुकं सैन्धवं तथा
- एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् १०३
- आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत्
- सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः १०४
- पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा
- पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता १०५
- रसक्रियाविधानेन यथोक्तविधिकोविदः
- पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रि तः १०६
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो
- नामाष्टादशोऽध्यायः १८
- एकोनविंशतितमोऽध्यायः
- अथाते नयनाभिघातप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्
- नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ३
- दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः
- स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ४
- सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः
- अभ्याहतं नयनमीषदथास्यबाष्पसंखेदितं भवति तन्निरुजं क्षणेन ५
- साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रेत्रीणि क्षतानि पटलानि विवर्जयेत्तु
- स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ६
- विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाविलदर्शनं च
- प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ७
- नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च
- षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ८
- स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्य
- मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ९
- सूर्यप्रभां न सहते स्रवति प्रबद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च
- क्षौद्रा युतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् १०
- तं वामयेत्तु मधुसैन्धवसंप्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ११
- स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वामयितुं यतेत
- दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः १२
- जम्ब्वाम्रधात्र्! यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि
- आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽहुरपि च त्रिफलाविपक्वम् १३
- नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि
- स्यादञ्जनं मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वाऽपि दग्धम् १४
- व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गैरिकयुतां गुटिकाञ्जनं वा
- निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् १५
- स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन
- स्यन्दे कफादभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः १६
- समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम्
- वक्तुं निरवशेषेण श्लोकानामयुतैरपि १७
- सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः
- तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः १८
- तदिदं बहुगूढार्थं चिकित्साबीजमीरितम्
- कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति १९
- तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना
- सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना २०
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः १९
- विंशतितमोऽध्यायः
- अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च
- कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ३
- कृमिकर्णप्रतिनाहौ विद्र धिर्द्विविधस्तथा
- कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् ४
- कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः
- एते कर्णगता रोगा अष्टाविंशतिरीरिताः ५
- समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः
- करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ६
- यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति
- शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ७
- स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति
- तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ८
- श्रमात् क्षयाद्रू क्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः
- विरक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः ९
- शिरोभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्र धेः
- स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः १०
- कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते
- विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ११
- स कर्णविट्को द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
- तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽभितापनः १२
- यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः
- तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १३
- क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
- सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् १४
- भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः
- स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसंप्रतापवान् १५
- अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः
- प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम्
- मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः १६
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः २०