सुभाषितानि संस्कृते

विकिस्रोतः तः

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिञ्च साधुकाव्यनिषेवणम् ॥१॥


ज्ञाततत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् ।
ज्ञाततत्त्वोऽपि लोकस्य जडोन्मत्तपिशाचवत् ॥२॥


समुद्रमथने लक्ष्मीं हरिर्लेभे हरो विषम् ।
भाग्यं फलति सर्वत्र न विद्या न च पौरुषम् ॥३॥


उषश्शशंस गार्ग्यस्तु शकुनन्तु बृहस्पतिः ।
मनोजयन्तु माण्डव्यः विप्रवाक्यं जनार्दनः ॥४॥


न गच्छेत् राजयुग्मञ्च न गच्छेत् ब्राह्मणत्रयम् ।
चतुश्शूद्रा न गच्छेयुः न गच्छेत् वैश्यपञ्चकम् ॥५॥


गीते वाद्ये तथा नृत्ये सङ्ग्रामे रिपुसङ्कटे ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥६॥


जिह्वाग्रे वर्तते व्याधिः जिह्वाग्रे मित्रबान्धवाः ।
जिह्वाग्रे बन्धसम्प्राप्तिः जिह्वाग्रे मरणं ध्रुवम् ॥७॥


अतिथिर्बालकश्चैव स्त्रीजनो नृपतिस्तथा ।
एते वित्तं न जानन्ति जामाता चैव पञ्चमः ॥८॥


नश्यत्यनायकं कार्यं तथैव शिशुनायकम् ।
स्त्रीनायकं तथोन्मत्तनायकं बहुनायकम् ॥९॥


अर्था गृहे निवर्तन्ते श्मशाने मित्रबान्धवाः ।
सुकृतं दुष्कृतं चैव गच्छन्तमनुगच्छतः ॥१०॥


तस्करस्य वधो दण्डः दासदण्डस्तु मुण्डनम् ।
भार्यादण्डं पृथक् शय्या मित्रदण्डमभाषणम् ॥११॥


अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ ।
रिक्तहस्तेन नोपेयात् राजानं दैवतं गुरुम् ॥१२॥


श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् ।
न हि प्रतीक्षते मृत्युः कृतञ्चास्य न चाकृतम् ॥१३॥


मांसलुब्धो यथा मत्स्यः लोहशङ्कुं न पश्यति ।
सुखलुब्धः तथा देही यमबाधां न पश्यति ॥१४॥


तुलसी विटपिस्थानं गृहे यस्यावतिष्ठते ।
तद्गृहं तीर्थरूपं हि नायान्ति यमकिङ्कराः ॥१५॥


भुग्नपृष्ठकटिग्रीवः स्तब्धदृष्टिरधो मुखः ।
कष्टेन लिखितं ग्रन्थं यत्नेन परिपालयेत् ॥१६॥


अग्ने रक्ष! जलाद्रक्ष! रक्ष मां श्लध बन्धनात् ।
पुनश्च याचकात् रक्ष! याचकान्तं हि पुस्तकम् ॥१७॥


विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥१८॥


कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ।
पुण्यकार्ये पापकार्ये चत्वारः समभागिनः ॥१९॥


विपुलहृदयाभियोगे खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।
निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥२०॥


चरन्वनान्ते नवमञ्जरीषु, न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या ? स च किं न रन्ता ? बलीयसी केवलमीश्वराज्ञा ॥२१॥


माता नास्ति पिता नास्ति नास्ति बन्धु सहोदराः ।
अर्थं नास्ति गृहं नास्ति तस्मात् जाग्रत जाग्रत ॥२२॥


जन्मदुःखं जरादुःखं जायादुःखं पुनःपुनः ।
संसारसागरं दुःखं तस्मात् जाग्रत जाग्रत ॥२३॥


कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः ।
ज्ञानरत्नापहाराय तस्मात् जाग्रत जाग्रत ॥२४॥


आशया बद्धते लोकः कर्मणा बहुचिन्तया ।
आयुक्षीणं न जानन्ति तस्मात् जाग्रत जाग्रत ॥२५॥


सम्पदस्स्वप्नसंकाशाः यौवनं कुसुमोपहम् ।
विद्युच्चञ्चलमायुष्यं तस्मात् जाग्रत जाग्रत ॥२६॥


क्षणं वित्तं क्षणं चित्तं क्षणं जीवितमावयोः ।
यमस्य करुणा नास्ति तस्मात् जाग्रत जाग्रत ॥२७॥


यावत्कालं भवेत्कर्म तावत्तिष्ठन्ति जन्तवः ।
तस्मिन् क्षीणे विनश्यन्ति का तत्र परिवेदना ?॥२८॥


ऋणानुबन्धरूपेण पशुपत्नीसूतालयः ।
ऋणक्षये क्षयं यान्ति का तत्र परिवेदना? ॥२९॥


पक्वानि तरुपर्णानि पतन्ति क्रमशो यथा ।
तथैव जन्तवं काले का तत्र परिवेदना ?॥३०॥


एकवृक्षसमारूढा नानाजातिविहङ्गमाः ।
प्रभाते विदितो यान्ति का तत्र परिवेदना? ॥३१॥


इदं काष्ठमिदं काष्ठं नद्यं वहन्ति सङ्गतः ।
संयोगाश्च वियोगाश्च का तत्र परिवेदना? ॥३२॥


गुणदोषौ बुधो गृह्णन् इन्दुक्षेलाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥३३॥


नारिकेलोदकं स्निग्धं स्वादु वृष्यं हमं लघु ।
तृष्णा पितानिलहरं दीपनं वस्ति शोधनम् ॥३४॥


स्थाने स्वशिष्यस्य निवहैर्विनियुज्यमानाः ।
विद्या गुरुं हि गुणवत्तरमातनोति ॥३५॥


नानृषिः कुरुते काव्यं नागन्धर्वः सुरूपभृत् ।
नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः ॥३६॥


आस्था स्वास्थ्ये यदि स्यातां मेधया किं प्रयोजनम् ।
तावुभौ यदि न स्यातां मेधया किं प्रयोजनम् ॥३७॥


पूर्वजन्मनि या विद्या पूर्वजन्मनि यद्धनम् ।
पूर्वजन्मनि यत्पुण्यमग्रे धावति धावति ॥३८॥


युक्तियुक्तं वचो ग्राह्यं बालादपि सुभाषितम् ।
वचनं तत्तु न ग्राह्यं अयुक्तन्तु बृहस्पतेः ॥३९॥


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता ॥४०॥


सुजनो न याति वैरं परहितबुद्धिः विनाशकाले ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥४१॥


नैवाकृति फलति नैव कुलं न शीलं
विद्या न चापि न च यत्नकृतापि सेवा ।
भाग्यानि खलु पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य समीहितानि ॥४२॥


यथा धेनुस्सहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुविन्दति ॥४३॥


अब्धी रत्नमधो धत्ते धत्ते च शिरसा तृणम् ।
अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं तृणम् ॥४४॥


पिता कर्दमपानीयं भेको वटवटायते ।
दिव्यं चूतरसं पीत्वा गर्वं नायाति कोकिलः ॥४५॥


मृतस्य लिप्सा कृपणस्य दित्सा
विमार्गगायाश्च रुचिस्वकान्ते ।
सर्पस्य शान्तिःकुटिलस्य मैत्री
विधातृसृष्टौ न हि दृष्टपूर्वाः ॥४६॥


अन्यथा चिन्तितं कार्यं दैवमन्यत्र चिन्तयेत् ।
राजकन्या प्रलोभन्तं विप्रं भल्लूकभक्षिणम् ॥४७॥


गतानुगतिको लोकः न लोकःपारमार्थिकः ।
एलबालुकलिङ्गेन नष्टं मे ताम्रभाजनम् ॥४८॥


सङ्गीतञ्चैव साहित्यं सरस्वत्याः कुचद्वयम् ।
एकमापातमधुरं परं त्वालोचनामृतम् ॥४९॥


मुक्ताफलेषु छायायाः तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु तल्लवण्यमिहोच्यते ॥५०॥


अश्वालम्भं गवालम्भं सन्न्यासं पलपैतृकम् ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥५१॥


सर्वमन्यत् परित्यज्य शरीरमनुपालयेत् ।
तदभावे किं भवानां सर्वभावः शरीरिणाम् ॥५२॥


अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्ति अन्ध एव सः ॥५३॥


यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥५४॥


उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ।
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ?॥५५॥


हीयते हि मतिस्तात! हीनैस्सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥५६॥


कीटोऽपि सुमनसङ्गदारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥५७॥


अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां देवो नास्ति दुरात्मनाम् ॥५८॥


दृदि प्राणो गुदे पानः समानो नाभिः संस्थितः ।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥५९॥


ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणम् ॥६०॥


नव नव सुदृग्विलासैः ननूत्सुकाः कामिनो यथानुदिनम् ।
एवग्मपूर्वासु कृतिषु आदरवन्तो हि रसायितारः ॥६१॥


अनन्तशास्त्रं बहुवेदितव्यम्
अल्पश्च कालो बहवश्च विघ्नाः ।
यत् सारभूतं तदुपाश्रितव्यं
हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥६२॥


एकेन राजहंसेन या शोभा सरसो भवेत् ।
न सा बकसहस्रेण परितः तीरवासिना ॥६३॥


दोषमपि गुणवति जने दृष्ट्या गुणरागिणोभिवन्द्यन्ते ।
प्रीत्यैव शशि निपतितं पश्यति लोकः कलङ्कमपि ॥६४॥


वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥६५॥


जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति तेषां यशः काये जरामरणजं भयम् ॥६६॥


अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चावमानञ्च पञ्चैतान् न प्रकाशयेत् ॥६७॥


पुराणमित्वेव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेय बुद्धिः ॥६८॥


प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभाराः नारिकेला नराणाम् ।
सलिलममृतकल्पं दद्युराजीवितान्तं
न हि कृतमुपकारं साधवो विस्परन्ति ॥६९॥


उत्तमं प्रणिपातेन शूरं भेदेन यो जयेत् ।
नीचमल्पवादेन समशक्तिं पराक्रमैः ॥७०॥


परवित्तजिगीषया प्रवृत्तः पिशुनस्तु स्वयमेव नाशमेति ।
सुलभः शलभस्य किं न दाहः पृथुदीपग्रसनाय जृम्बितस्य ॥७१॥


दोषाकरोऽपि कटिलोऽपि कलङ्कितोऽपि
मित्रावसनसमये विहितोच्चयोऽपि ।
चन्द्रः तथापि हरवल्लभतामुपैति
नैवाश्रितेषु महतां गुणदोषचिन्ता ॥७२॥


परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥७३॥


महात्मनोऽनुगृह्णन्ति भजमानान् रिपूनपि ।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥७४॥


दारिद्र्यरोगदुःखानि बन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥७५॥


गते भीष्मे हते द्रोणेऽप्यङ्गराज्ये दिवङ्गते ।
आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् ॥७६॥


श्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥७७॥


अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥७८॥


अन्नदानं महादानं विद्यादानमतःपरम् ।
अन्नेन क्षणिका तृप्तिः जावज्जीवन्तु विद्यया ॥७९॥


कविर्यद्यवधानी स्यात् सम्पाद्यं धचतुष्टयम् ।
धैर्यं धारा धोरणी च धारणा च महोज्ज्वला ॥८०॥


वस्त्रेण वपुषा वाचा विद्यया विनयेन च ।
वकारैः पञ्चभिर्युकः नरो भवति पूजितः ॥८१॥


शतेषु जातेषु शूरः सहस्रेषु च पण्डितः ।
दाता शतसहस्रेषु वक्ता भवति वा न वा ॥८२॥


श्वा यथा चर्वयन्नस्थि ततः स्वमुखशोणितम् ।
मत्वा तदीयं रमते तद्वियोगे च खिद्यति॥८३॥


अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिकल्प्यते ॥८४॥


सहस्रदुःखानि सहन्ति धीराः चत्वारि दुःखान्यतिदुस्सहानि ।
कृषिश्च नष्टा गृहिणी च दुष्टा पुत्रोऽप्यविद्वान् उदरे व्यथा च ॥८५॥


सति रक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्यायन् भ्रमरत्वय कल्पते ॥८६॥


अत्यम्बुपानादतिमैथुनाच्च
दिवास्वपात् जागरणाच्च रात्रौ ।
विधारणात् मूत्रपुरीषणाच्च
षड्भिः मनुष्यैः प्रभवन्ति रोगाः ॥८७॥


भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् ।
न गृहं गृहमित्याहुः गृहिणि गृहमुच्यते ॥८८॥


कुपितञ्च महीपालं कुञ्जरञ्च मदालसम् ।
अतिदूरे परित्यज्य वामनन्ति मनीषिणः ॥८९॥


अधिकारञ्च गर्भञ्च ऋणञ्च श्वानबन्धनम् ।
प्रवेशे सुखमाप्नोति निर्गमे प्राणसङ्कटः ॥९०॥


अध्वा जरा मनुष्याणाम् अनध्वा वाजिनां जरा ।
अमैथुनं जरा स्त्रीणाम् अश्वानां मैथुनं जरा ॥९१॥


वाग्वादमर्थसंबन्धं परोक्षे दारभाषणम् ।
यत्र मित्रत्वमिच्छन्ति तत्र त्रीणि नकारयेत् ॥९२॥


कुभोजनं क्रोधमुखी च भार्या कुग्रामवासः कुजनस्य सेवा ।
अल्पा च विद्या विधवा च कन्या विनाग्निना षट् प्रदहन्ति कायम् ॥९३॥


चिति चिन्ता द्वयोर्मध्ये चिन्ता नाम गरीयसी ।
चितिर्दहति निर्जीवं चिन्ता प्राणयुतं वपुः ॥९४॥


अकृत्वा परसन्तापम् अगत्वा खलमन्दिरम् ।
अक्लेशयित्वा चात्मानं यदल्पमपि तद्बहु ॥९५॥


अतिचतुरकवेः सृष्टिः अप्युज्झितोर्वी प्राप्य व्योम्नान्तरालम् ।
पुनरपि सहसा विन्दते पुर्वमुर्वीम् ॥ ९६॥


नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ।
अस्मिन्नतिविचित्रकविपरम्परा वाहिनि संसारे द्वित्राः
पञ्चषा वा महाकवय इति गण्यन्ते ॥९७॥


गर्भे व्याधौ श्मशाने च पुराणे या मतिर्भवेत् ।
सा यदि स्थिरतां याति को न मुच्येत बन्धनात् ॥९८॥


आत्मबुद्धिः सुखञ्चैव गुरुबुद्धिर्विशेषतः ।
परबुद्धिर्विनाशाय स्त्रीबुद्धिः प्रलयान्तकः ॥९९॥


एकोऽपि गुणवान् पुत्रः निर्गुणेन शतैरपि ।
एकश्चन्द्रः तमो हन्ति नक्षत्रैः किं प्रयोजनम् ॥१००॥


पिता च ऋणवान् शत्रुः माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥१०१॥


दासी भृत्यः सुतो बन्धुः वस्तु वाहनमेव च ।
धनदान्यसमृद्धिश्च अष्टैश्वर्याः प्रकीर्तिताः ॥१०२॥


दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्यन्ते चत्वारः सहजाः गुणाः ॥१०३॥


अङ्कोलं निजबीजसन्ततिमयस्कान्तो पलं सूचिका
साध्वी नैजविभुं लता क्षितुरुहं सिन्धुसरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतो वृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥१०४॥


न निर्मितो वै न च दृष्टपूर्वो न श्रूयते हेमयः कुरङ्गः ।
तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥१०५॥


अतिपरिचयादवज्ञता स्यात् सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुमिन्धनं कुरुते ॥१०६॥


विद्वानेव विजानाति विद्वज्जनपरिश्रमम् ।
न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ॥१०७॥


मितं ददाति पितरः मितं भ्राता ददाति च ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥१०८॥


यस्य षष्टी चतुर्थी स्यात् विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात् दितीयास्यामहं कथम् ॥१०९॥


सिद्धमन्नं फलं पक्वं नारी प्रथमयौवनम् ।
कालक्षेपं न कर्तव्यम् आलस्यादमृतं विषम् ॥११०॥
राजा राक्षसश्चैव शार्दूलाः तत्र मन्त्रिणः ।
गृध्राश्च सेवकास्सर्वे यथा राजा तथा प्रजा ॥१११॥


वेदमूलमिदं ज्ञानं भार्यामूलमिदं गृहम् ।
कृषिमूलमिदं धान्यं धनमूलमिदं जगत् ॥११२॥


राज्ञि धर्मिणि धर्मिष्ठाः पापे पापरतास्सदा ।
राजानमनुवर्तन्ते यथा राजा तथा प्रजा ॥११३॥


अतिरूपात् हृता सीता अतिदर्पाच्च रावणः ।
अतिदानात् बलिर्बद्धः अति सर्वत्र वर्जयेत् ॥११४॥


क्षते प्रहाराः निपतन्त्यनेकं धनक्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्थाः बहुधा भवन्ति ॥११५॥


मातासमं नास्ति शरीरपोषणं
विद्यासमं नास्ति शरीरभूषणम् ।
भार्यासमं नास्ति शरीरतोषणं
चिन्तासमं नास्ति शरीरशोषणम् ॥११६॥


क्षणे तुष्टः क्षणे रुष्टह् वितुष्टिश्च क्षणे क्षणे ।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥११७॥


अनुभवति हि मूर्ध्ना पादपैः तीव्रमुष्णम् ।
शमयति परितापं छायया संश्रितानाम् ॥११८॥


अनभ्यासे विषं शास्त्रं अजीर्णे भोजनं विषम् ।
दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥११९॥


अल्पज्ञः पूज्यते विशेषज्ञः विवर्जिते ।
देशे वृक्षविना भूते ह्येरण्डो हि वनस्पति ॥१२०॥


निरस्तपादपे देशे हीरण्डोऽपि द्रुमायते ।
सालि देण्ड्रसभामध्ये सातानिः पण्डितोत्तमः ॥१२१॥


अजवत् भोजनं कुर्यात् गजवत् स्नानमाचरेत् ।
शुकवत् भाषणं कुर्यात् बकवत् ध्यानमाचरेत् ॥१२२॥


बालसखित्वमकारणहास्यं स्त्रीविवादोऽसज्जनसेवा ।
गार्दभयानमसंस्कृतवाणी षट्सु नरो लघुतामुपयाति ॥१२३॥


मन्त्रे तीर्थे द्विजे दैवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥१२४॥


अश्वस्य लक्षणं वेगः मदो मातङ्गलक्षणम् ।
चातुर्यं लक्षणं स्त्रीणामुद्योगं पुरुषलक्षणम् ॥१२५॥


क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या ? कणत्यागे कुतो धनम् ?॥१२६॥


गुणैरुत्तङ्गतां याति नोच्चैः आसनसंस्थितैः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥१२७॥


लुब्धानां याचकः शत्रुः मूर्खाणां बोधको रिपुः ।
जारिणीनां पतिः शत्रुः चोराणां चन्द्रमा रिपुः ॥१२८॥


चिता चिन्ता समाह्युक्ता बिन्दुमात्रविशेषतः ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥१२९॥


मूले भुजङ्गैः शिखरे विहङ्गैः
शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः।
आश्चर्यमेतत् खलु चन्दनस्य
परोपकाराय सतां विभूतयः ॥ १३०॥


अशक्तस्तु भवेत्साधुः ब्रह्मचारी तु निर्धनः ।
व्याधितो दैवभक्तश्च वृद्धनारी पतिव्रता! ॥१३१॥


धर्मोपदेशे जनास्सर्वेऽपि पण्डिताः ।
तदनुष्ठानसमये मुनयोऽपि न पण्डिताः ॥१३२॥


देशाटनं पण्डितमित्रता च वाराङ्गना राजसभाप्रवेशः ।
अनेकशास्त्रार्थविलोकनञ्च चातुर्यमूलानि भवन्ति पञ्च ॥१३३॥


अनर्थमपि माणिक्यं हेमाश्रयमपेक्षते ।
निराश्रया न शोभन्ते पण्डिता वनिता लताः ॥१३४॥


उपकारो हि नीचानामपकाराय जायते ।
पयः पानं भुजङ्गानां केवलं विषवर्धनम् ॥१३५॥


असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
क्षीरम्भौ च हरिश्शेते शिवश्शेते हिमालये ॥१३६॥


सुलभाःपुरुषा लोके सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य च वक्ता श्रोता च दुर्लभः॥१३७॥


द्रव्याणि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनश्मशाने ।
देहश्चितायां परलोकमार्गे कर्मानुगो गच्छति जीव एकः ॥१३८॥


निर्वाणदीपे किमु तैलदानम् ? चोरे गते वा किमु सावधानम् ।
वयो गते किं वनिताविलासः ? पयो गते किं खलु सेतुबन्धः? ॥१३९॥


कर्मायत्तं फलं पुंसां बुद्धिःकर्मानुसारिणी ।
तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥१४०॥


श्रुतिश्च भिन्नाः स्मृतयश्च भिन्नाः
महार्षीणां मतयश्च भिन्नाः ।
धर्मस्य तत्त्वं निहितां गुहायां
महाजनो येन गतस्स पन्था ॥१४१॥


दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
शास्त्रपूतं वदेद्वाणीं मनःपूतं समाचरेत् ॥१४२॥


मनसैव कृतं पापं न शरीरकृतं कृतम् ।
येनैवाऽलिङ्गिता कान्ता तेनैवऽलिङ्गिता सुता ॥१४३॥


यथा व्यालगलस्तोऽपि भेको दंशानपेक्षते ।
तथा कालादिनाग्रस्तो लोको भोगानपेक्षते ॥१४४॥


उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१४५॥


कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभाश्शुभाः ।
वशिष्ठदत्तलग्नोऽपि रामः किं भ्रमते वने ? ॥१४६॥


दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् ।
उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥१४७॥


दुर्मन्त्री राज्यनाशाय ग्रामनाशाय कुञ्जरः ।
श्यालको गृहनाशाय सर्वं नाशाय मातुलः ॥१४८॥


गर्जति शरदि न वर्षति वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥१४९॥


निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु मा भूद्वा फटाटोपो भयङ्करः ॥१५०॥


यस्सुन्दरः तद्वनिता कुरूपा
या सुन्दरी तत्पति रूपहीनः ।
यत्रोभयं तत्र दरिद्रता च
विधेर्विचित्राणि विचेष्टितानि ॥१५१॥


आकारैः इङ्गितैः गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च लक्ष्यते अन्तर्गतं मनः ॥१५२॥


लोकेषु निर्धनो दुःखी ऋणग्रस्तः ततोधिकम् ।
ताभ्यां रोगयुतो दुःखी तेभ्यो दुःखी कुभार्यकः ॥१५३॥


उत्तमे क्षणकोपस्स्यात् मध्यमे घटिकाद्वयम् ।
अधमे स्यादहोरात्रं पापिष्टे मरणान्तकम् ॥१५४॥


माधुर्यक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थञ्च षडेते पाठका गुणाः ॥१५५॥


शीघ्री गीती शिरःकम्पी यथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥१५६॥


न काष्टे विद्यते देवो न पाषाणे न मृण्मये ।
भावे हि विद्यते देवो तस्मात् भावो हि कारणम् ॥१५७॥


वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति गौरवम् ॥१५८॥


रा शब्द उच्चारणादेव मुखान्निर्यन्ति पातकाः ।
पुनः प्रवेशभीत्या च म कारस्तु कवाटवत् ॥१५९॥


गुकारत्वन्धकारः रुकारस्तन्निरोधकः ।
अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते ॥ १६०॥


सङ्गीतसाहित्यरसानुभूत्यै कर्णद्वयं कल्पितवान्विधाता ।
एकेन हीनः पुनरेक कर्णो द्वाभ्याः विहीनो बधिरस्स एव ॥१६१॥


सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः ।
विनापि सङ्गमं स्त्रीणां सुधियस्सुखमासते ॥१६२॥

"https://sa.wikisource.org/w/index.php?title=सुभाषितानि_संस्कृते&oldid=142833" इत्यस्माद् प्रतिप्राप्तम्