सुभाषितरत्नकोशः/६ हरिव्रज्या

विकिस्रोतः तः
Jump to navigation Jump to search
← ५ तद्वर्गव्रज्या सुभाषितरत्नकोशः
६ हरिव्रज्या
विद्याकरः
७ सूर्यव्रज्या →

ततो हरिव्रज्या

अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर् मधुवधूवक्त्राब्जचन्द्रोदयः /
क्रीडाक्रोडतनोर् नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर् भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ६.१ (१०४)

पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः /
यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां यातायातम् अयन्त्रितं जलनिधेर् नाद्यापि विश्राम्यति ६.२ (१०५)
वाक्पतिराजस्यैतौ

निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने /
याभ्याम् अर्धविबोधमुग्धमधुरश्रीर् अर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ६.३ (१०६)

विरमति महाकल्पे नाभीपथैकनिकेतनं त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणम् आत्मभूः /
किमधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असाव् उदरम् अविशद् द्रष्टुं तस्मै जगन्निधये नमः ६.४ (१०७)

देवि त्वं कुपिता त्वम् एव कुपिता को ऽन्यः पृथिव्या गुरुर् माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः /
देवि त्वं परिहासकेलिकलहे ऽनन्ता त्वम् एवेत्य् अथ ज्ञातानन्त्यपदो नमञ् जलधिजां शौरिश् चिरं पातु वः ६.५ (१०८)
वाक्पतिराजस्य

को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः /
मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ६.६ (१०९)

मन्दक्वाणितवेणुर् अह्णि शिथिले व्यावर्तयन् गोकुलं बर्हापीडकम् उत्तमाङ्गरचितं गोधूलिधूम्रं दधात् /
म्लायन्त्या वनमालया परिगतः श्रान्तो ऽपि रम्याकृतिर् गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ६.७ (११०)

विष्णोर् दानववाहिनीप्रमथनेष्ट्यापूरणायादराद् आत्तः पाणियुगोदरेण करश्रेण्या श्रियालम्भितः /
निर्यातो वदनेन कुक्षिवसतेः पत्युस् तलाद् अर्णसां शङ्खो ऽपत्यपरंपतावृत इव श्रेयांसि पुष्णातु वः ६.८ (१११)

स जयत्य् आदिवराहो दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः /
यस्य पुरः सुरकरिणः साङ्कुरमाषोपमा जातः ६.९ (११२)

जीयासुः शकुलाकृतेर् भगवतः पुच्छछटाछोटनाद् उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः /
यैर् व्यावृत्य पतद्भिर् और्वशिखिनस् तेजोजटालं वपुः पानाध्मानवशाद् अरोचकरुजश् चक्रे चिरस्यास्पदम् ६.१० (११३)
राजशेखरस्य

कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् किम् इच्छसि पदत्रयं ननु भुवा किम् अत्यल्पया /
द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः ६.११ (११४)

श्रेयो ऽस्याश् चिरम् अस्तु मन्दरगिरेर् मा घानि पार्श्वैर् इयं मावष्टम्भि महोर्मिभिः फणिपतेर् मा लेपि लालाविषैः /
इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो वाचो ऽन्तः स्पुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पान्तु वः ६.१२ (११५)

चटच्चटिति चर्मिणि च्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुटरवो ऽस्थिषु ष्ठादिति /
पुनातु भवतो हरेर् अमरवैर्नाथोरसि क्वणत्करजपञ्जरक्रकचकाषजन्मानलः ६.१३ (११६)
वाक्पतेर् एतौ

वन्दे भुजभ्रमितमन्दरमथ्यमान- दुग्धाब्धिदुग्धकणविच्छुरितच्छवीकम् /
नक्षत्रकर्बुरवियत्प्रतिरोधि निन्द- दुन्निद्रकैर् अवतडागम् उरो मुरारेः ६.१४ (११७)
मुरारेः

भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो दहति विततज्वालाजालो जगन्ति विषानलः /
स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ६.१५ (११८)

भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर् नीते हितप्राप्तये /
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस् तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर् वा हरेः ६.१६ (११९)

पुच्छोदस्तविसारिणो जलनिधेः स्वर्गङ्गया संगम- श्रद्धाहूतखलत्पुरातनमुनिर् मीनो हरिः पातु वः /
यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ॐकारसारध्वनेर् मध्येसिन्धु वियन्मयो जलमयः स्तम्भस् त्व् अभूद् अम्बरे ६.१७ (१२०)

जलमयः
जलमय

जृम्भाविजृम्भितदृशः प्रथमप्रबुद्ध- लक्ष्मीकराम्बुरुहलालनलालसस्य /
गात्रापवृत्तिभरखर्वितशेषम् अव्याद् अव्याहतं मुरजितः कृतकप्रसुप्तम् ६.१८ (१२१)

मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः /
न दृष्टो भाण्डीरे तटभुवि न गोवर्धनगिरेर् न कालिन्द्याः कूले न च निचुलकुञ्जे मुररिपुः ६.१९ (१२२)

श्यामोच्चन्द्रा स्वपिषि न शिशो नैति माम् अम्ब निद्रा निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व /
रामो नाम क्षितिपतिर् अभून् माननीयो रघूणाम् इत्य् उक्तस्य स्मितम् अवतु वो देवकीनन्दनस्य ६.२० (१२३)

खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि /
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दम् आलोकितं पायाद् वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर् वपुः ६.२१ (१२४)

उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारम् अंसे वहन्त्याः /
भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्याम् आलम्ब्य नीतं वपुर् अलसलसद्बाहु लक्ष्म्याः पुनातु ६.२२ (१२५)

तेन्ततिवेल्य् सुग्गेस्त्स् आलिङ्ग्य fओर् आलम्ब्य इन् द्.
मंसे
मंशं / एद्KG

सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः कुम्भद्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्मञ्जरी /
इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः क्षीराब्धेर् मथने ऽभवद् दिविषदां लक्ष्मीर् असाव् अस्तु वः ६.२३ (१२६)

भभभ्रमति किं मही ललललम्बते चन्द्रमाः कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः /
शिशीधु मुमुमुञ्च मे ववववक्त्रम् इत्यादिकं मदस्खलितम् आलपन् हलधरः श्रियं वः क्रियात् ६.२४ (१२७)
पुरुषोत्तमदेवस्य

किं किं सिंहस् ततः किं नरसदृशवपुर् देव चित्रं गृहीतो नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव /
चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् इत्थं दैत्याधिराजं निजनखकुलिशैर् जघ्निवान् यः स वो ऽव्यात् ६.२५ (१२८)

देवस् त्वाम् एकजङ्घावलयितलगुडो मूर्ध्नि विन्यस्तबाहुर् गायन् गोयुद्धगीतीर् उपरचितशिरःशेखरः प्रग्रहेण /
दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागः क्रीडागोपालमूर्तिर् मुररिपुर् अवताद् आत्तगोरक्षलीलः ६.२६ (१२९)
श्रीसोन्नोकस्य

जयन्ति निर्दारितदैत्यवक्षसो नृसिंहरूपस्य हरेर् नखाङ्कुराः /
विचिन्त्य येषां चरितं सुरारयः प्रियानखेभ्यो ऽपि रतेषु बिभ्यति ६.२७ (१३०)

एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्य् अम्बुदा मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः /
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्रायमानो हरिः ६.२८ (१३१)

मिथ्याकाण्डूतिसाचीकृतगलसरणिर् येषु जातो गरुत्मान् ये निद्रां नाटयद्भिः शयनफणिफणैर् लक्षिता न श्रुताश् च /
ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास् ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ६.२९ (१३२)
राजशेखरस्य

प्रत्यग्रोन्मेषजिह्मा क्षणम् अनभिमुखी रत्नदीपप्रभाणाम् आत्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः /
नागाङ्गं मोक्तुम् इच्छोः शयनम् उरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः ६.३० (१३३)
विशाखदत्तस्य

दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः सिन्धुष्व् अङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः /
प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः ६.३१ (१३४)
वराहमिहिरस्य

पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलो नैकाब्धिस्तिमितोदरः स भगवान् क्रीडाझषः केशवः /
त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डस्थितेर् यस्योत्स्फालकुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् ६.३२ (१३५)
रघुनन्दनस्य

ये संतापितनाभिपद्ममधवो ये स्नापितोरःस्रजो ये तापात् तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः /
ये राधास्मृतिसाक्षिणः कमलया सासूयम् आकीर्णिता गाढान्तर्दवथोः प्रतप्तसरलाः श्वासा हरेः पान्तु वः ६.३३ (१३६)
पुष्पाकस्य

सेयं द्यौस् तद् इदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस् तत् पातालतलं त एव गिरयस् ते ऽम्भोधयस् ता दिशः /
इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः ६.३४ (१३७)

युक्तं मानद माम् अनन्यमनसं वक्षःस्थलस्थायिनीं भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्तासहस्रं तव /
इत्य् उक्त्वा फणभृत्फणामणिगतां स्वाम् एव मन्त्वा तनुं निद्राच्छेदकरं हरेर् अवतु वो लक्ष्म्या विलक्षस्मितम् ६.३५ (१३८)
भासस्य

अग्रे गच्छत धेनुदग्धकलशान् आदाय गोप्यो गृहं दुग्धे वस्कयणीकुले पुनर् इयं राधा शनैर् यास्यति /
इत्य् अन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं देवः कारणनन्दसूनुर् अशिवं कृष्णः स मुष्णातु वः ६.३६ (१३९)

सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया लग्नैर् बल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः /
भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः पायाद् वः करमूर्धसुस्थितमहाशैलः सलीलो हरिः ६.३७ (१४०)
सोन्नोकस्यैतौ

दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतो हव्यभुग्- ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः /
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन- स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ६.३८ (१४१)
वाक्पतेः

लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर् अभ्यर्णश्रीर् घननिधुवनक्लान्तिनिद्रान्तरेषु /
दोर्दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- ग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः ६.३९ (१४२)

सुवर्णश्रीः fओर् अभ्यर्णश्रीः इन् ब्.

श्रीभगीरथस्य

नखक्रकचदारणस्फुटितदैत्यवक्षःस्थल- क्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः /
हरेर् अपरकेशरिक्षुभितचेतसः पातु वः सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखम् ६.४० (१४३)
वाक्पतिराजस्य

वत्स क्ष्माधरगह्वरेषु विचरंश् चारप्रचारे गवां हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि /
इत्य् उक्तस्य यशोदया मुररिपोर् अव्याज् जगन्ति स्फुरद्- बिम्बोष्ठद्वयगाढपीडनवशाद् अव्यक्तभावं स्मितम् ६.४१ (१४४)

देवो हरिर् जयति यज्ञवराहरूपः सृष्टिस्थितिप्रलयकारणम् एक एव /
यस्योदरस्थितजगत्त्रयबीजकोश- निर्गच्छदङ्कुरशिखेव विभाति दंष्ट्रा ६.४२ (१४५)
सोन्नोकस्य

बीजं ब्रह्मैव देवो मधु जलनिधयः कर्णिका स्वर्णशैलः कन्दं नागाधिराजो वियद् अतिविपुलः पत्रकोशावकाशः /
द्वीपाः पत्राणि मेघा मधुपकुलम् अमूस् तारका गर्भधूलिर् यस्यैतन् नाभिपद्मं भुवनम् इति स वः शर्म देवो ददातु ६.४३ (१४६)
मालायुधस्य

कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामाम् आत्मद्युतिं प्रतिबिम्बिताम् /
असितसिचयप्रान्तभ्रान्त्या मुहुर् मुहुर् उत्क्षिपञ् जयति जनितव्रीडानम्रप्रियाहसिनो हरिः ६.४४ (१४७)
वैद्दोकस्य

इति विष्णुव्रज्या|| ६