सुभाषितरत्नकोशः/२२ विरहिणीव्रज्या

विकिस्रोतः तः
Jump to navigation Jump to search
← २१ मानिनीव्रज्या सुभाषितरत्नकोशः
२२ विरहिणीव्रज्या
विद्याकरः
२३ विरहिव्रज्या →

ततो विरहिणीव्रज्या

तापस् तत्क्षणम् आहितासु बिसिनीष्व् अङ्गारकारायते बाष्पः पाण्डुकपोलयोर् उपरि वै कुल्याम्बुपूरायते /
किं चास्या मलयद्रुमद्रवभरैर् लिम्पामि यावत् करं तावच् छ्वाससनीरणव्यतिकरैर् उद्धूलिर् आसीत् करः २२.१ (७००)
अच्युतस्य||

देवेन प्रथमं जितो ऽसि शशभृल्लेखाभृतानन्तरं बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे /
त्यक्त्वा तान् बत हंसि माम् अतिकृशां बालाम् अनाथां स्त्रियं धिक् त्वां धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् छरान् २२.२ (७०१)
श्रीराज्यपालस्य||

कर्णे यन् न कृतं सखीजनवचो यन् नादृता बन्धुवाग् यत् पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहतः /
तेनेन्दुर् दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते बिसलताहारो ऽपि भारायते २२.३ (७०२)

आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः /
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् असि २२.४ (७०३)

वत्स नैते पयोदाः सुरपतिकरिणो नो बकाः कर्णशङ्खाः सौदामिन्यो ऽपि नैताः कनकमयम् इदं भूषणं कुम्भपीठे /
नैतत् तोयं नभस्तः पतति मदजलं श्वासवातावधूतं तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रुपातैः २२.५ (७०४)

नाकानोकहसम्भवैः सखि सुधाच्योतल्लवैः पल्लवैः पल्यङ्कं क्षणमात्रम् आस्तृणु विधुं गण्डोपधानीकुरु /
नो चेत् स्नेहरसावसेकविकसज्ज्वालावलीदारुणो दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः २२.६ (७०५)
चक्रस्य

असौ गतः सौगत एव यस्मात् कुर्यान् निरालम्बनतां ममैव /
सखि प्रियस् ते क्षणिकः किम् अन्यन् निरात्मकः शून्यतमः स वन्द्यः २२.७ (७०६)
भोज्यदेवस्य

पूर्णं कपोलतलम् अश्रुजलैर् यद् अस्या यद् धूसरं वदनपङ्कजम् आयताक्ष्याः /
अर्धावदग्धगलदङ्गरसावसिक्तम् आर्द्रेन्धनं तद् इव भस्मकणानुयातम् २२.८ (७०७)

अयं धारावाहस् तडिद् इयम् इयं दग्धकरका स चायं निर्घोषः स च रववशो भेकनिचयः /
इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर् घनश्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्युवशिनी २२.९ (७०८)

परिम्लानं पीनस्तनजघनसङ्गाद् उभयतस् तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् /
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् २२.१० (७०९)

मनोरागस् तीव्रं व्यथयति विसर्पन्न् अविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव /
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो न मां त्रातुस् तातः प्रभवति न चाम्बा न भवती २२.११ (७१०)

एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् /
निःशक्तीकृतचन्दनौषधिविधाव् अस्मिंश् चमत्कारिणो लाजस्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हारस्रजाम् २२.१२ (७११)

यत् ताडीदलपाकपाण्डु वदनं यन् नेत्रयोर् दुर्दिनं गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्तपञ्चाङ्गुलिः /
गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा धिग् धिक् त्वां सहपांशुखेलनसखीलोके ऽपि यन् निह्नवः २२.१३ (७१२)
राजशेखरस्यैतौ

केयूरीकृतकङ्कणावलिर् असौ कर्णान्तिकोत्तंसित- व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति /
यावत् किंचिद् उदन्तम् आत्मकमितुस् तावत् स एवेत्य् अथ व्रीडावक्रितकण्ठनालम् अबला कैः कैर् न भिन्ना रसैः २२.१४ (७१३)

प्रियविरहमहोष्मामर्मराम् अङ्गलेखाम् अपि हतक हिमांशो मा स्पृश क्रीडयापि /
इह हि तव लुठन्तः प्लोषपीडां भजन्ते दरजठरमृणालीकाण्डमुग्धा मयूखाः २२.१५ (७१४)

यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् /
एकाधीनं कथयति मनस् तावद् एषा दशा ते को ऽसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा २२.१६ (७१५)
लक्ष्मीधरस्य

निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी /
अवस्थाम् आपन्ना मदनदहनोद्दाहविधुराम् इयं नः कल्याणी रमयति मतिं कम्पयति च २२.१७ (७१६)
भवभूतेः

निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः /
किं चान्यत् प्रियसंगमे ऽद्य चलितो गच्छन् विपद्वत्सलो मूर्छाविस्मृतवेदनापरिजनो दृष्टो ऽस्मदीयो न वा २२.१८ (७१७)
अरविन्दस्य

मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः /
हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां का वार्तेति मृगीदृशो विजयते बाष्पान्तरायं वचः २२.१९ (७१८)
चित्राङ्गस्य

दरदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा को ऽप्य् अयं पाण्डुभावः /
बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि २२.२० (७१९)
राजशेखरस्य

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव /
निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः २२.२१ (७२०)
धर्मकीर्तेः

बाष्पं चक्षुषु नाञ्जनं करतले वक्त्रं न लीलाम्बुजं गण्डे पाण्डरिमा न पत्रमकरी श्वासा मुखे न स्मितम् /
इत्थं यस्य वियोगयोगविधुरं मुग्धे तवेदं वपुर् नो जाते कतमः स पुष्पधनुषा नीतः प्रसादश्रियम् २२.२२ (७२१)
भ्रमरदेवस्य

कस्माद् इदं नयनम् अस्तमिताञ् जनश्रि विश्रान्तपत्ररचनौ च कुतः कपोलौ /
शृङ्गारवारिरुहकाननराजहंसि कस्मात् कृशासि विरसासि मलीमसासि २२.२३ (७२२)
विष्णुहरेः
अरतिर् इयम् उपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान् /
विगलति रजनी न संगमाशा व्रजति तनुस् तनुतां न चानुरागः २२.२४ (७२३)
प्रवरसेनस्य

असाव् अहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः /
आकर्षकद्रावकचुम्बकेषु नैको ऽप्य् असौ भ्रामक इत्य् अवैहि २२.२५ (७२४)
शब्दार्णवस्य

नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो नोपालम्भपदानि वाप्य् अकरणे तत्राभिधेयानि ते /
प्रष्टव्यः शिवम् आलि केवलम् असौ कच्चिद् भवद्गोचरे नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति २२.२६ (७२५)
वाकूटस्य

स्वप्ने ऽपि प्रियसंगमव्यसनिनी शेते न निद्रागमश् चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नीजनः /
मुग्धेयं कुरुते ऽथ तद्गुणकथां मन्युर् गिराम् अर्गलः प्रायः पुण्यदिनानुभाववलनाद् आशंसितं सिध्यति २२.२७ (७२६)
तरणिनन्दनस्य

व्योमश्रीहृदयैकमौक्तिकलते मातर् बलाकावलि ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया /
एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् एषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम् २२.२८ (७२७)

आ दृष्टिप्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्व् अहःपरिणतौ ध्वान्ते समुत्सर्पति /
दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे नाभूद् आगत इत्य् अमन्दवलितोद्ग्रीवं पुनर् वीक्षितम् २२.२९ (७२८)
सिद्धोकस्य

श्वासास् ताण्डवितालकाः करतले सुप्ता कपोलस्थली नेत्रे बाष्पतरङ्गिणी परिणतः कण्ठे कलः पञ्चमः /
अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथागोचरम् २२.३० (७२९)
राजशेखरस्य

स्मितज्योत्स्नादानाद् उपकुरु चकोरप्रणयिनीर् विधेहि भ्रूलीलां स्मरतु धनुषः पञ्चविशिखः /
अपि स्तोकोन्निद्रैर् नयनकुमुदैर् मोदय दिशो विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् २२.३१ (७३०)
अपराजितरक्षितस्य

किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले मृगमदम् असीपत्रन्यासः स किं न कपोलयोः /
अयम् अयमयं किं च क्लाम्यत्य् असंस्मरणेन ते शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः २२.३२ (७३१)

वारंवारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् इत्य् उद्दम्य सुमन्दबाहुलतिकाम् उत्थापयन्त्या रुषा /
संक्रान्तैर् वलयैर् अलंकृतगलो युष्मद्वियोगोचितां तन्वङ्ग्याः प्रकटीकरोति तनुतां द्रङ्गे भ्रमन् वायसः २२.३३ (७३२)

पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैर् मुक्ताफलस्पर्धिभिः कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् /
बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते २२.३४ (७३३)

दहति विरहेष्व् अङ्गानीर्ष्यां करोति समागमे हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् /
क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः २२.३५ (७३४)

को ऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वोस् तोयास्फालव्यतिकरस्खलत्कारि कङ्कालम् आस्ते /
यं ध्यायन्त्याः सुमुखि लिखितं कज्जलक्लेदभाञ्जि व्यालुम्पन्ति स्तनकलशयोः पत्रम् अश्रूण्य् अजस्रम् २२.३६ (७३५)

त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या /
कोकभ्रान्तिक्षणविरहिणीयन् मयाकारि हंसी तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः २२.३७ (७३६)

श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किम् अमी बाष्पाम्भसां बिन्दवः /
किं चाकुञ्चितकण्ठरोधकुटिलाः श्रोत्रामृतस्यन्दिनो हूंकाराः कलपञ्चमप्रणयिनस् त्रुट्यन्ति निर्यान्ति च २२.३८ (७३७)

इदानीं तीव्राभिर् दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते /
अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् अनाथानां बाले किम् इह विपरीतं न भवति २२.३९ (७३८)

मा मुञ्चाग्निमुचः करान् हिमकर प्राणाः क्षणं स्थीयतां निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव /
स्वप्नासादितसंगमे प्रियतमे सानन्दम् आलिङ्गिते स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टारसः २२.४० (७३९)

दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् अनयनपथवर्ती यस् त्वयालेखि नाथः /
तरलितकरशाखामञ्जरीकः शरीरे धनुषि च मकरे च स्वस्थरेखानिवेशः २२.४१ (७४०)

कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया /
अक्ष्णोर् बाष्पचयं निगृह्य कथम् अप्य् आलोकितः केवलं किंचित् कुड्मलकोटिभिन्नशिखरश् चूतद्रुमः प्राङ्गणे २२.४२ (७४१)
वाक्कूटस्य

उच्छूनारुणम् अश्रुनिर्गमवशाच् चक्षुर् मनाङ् मन्थरं सोष्मश्वासकदर्थिताधररुचिर् व्यस्तालका भ्रूभुवः /
आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा २२.४३ (७४२)
यशोवर्मणः

केन प्राप्तो भुवनविजयः कः कृती कः कलावान् केनाव्याजं स्मरचरणयोर् भक्तिर् आपादिता च /
यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्नि- प्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि २२.४४ (७४३)

दग्धव्येयं नवकमलिनीपल्लवोत्सङ्गशय्या तप्ताङ्गरप्रकरविकरैः किं धुतैस् तालवृन्तैः /
तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः २२.४५ (७४४)
अभिनन्दस्य

सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं द्वारात् त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते /
आस्ते केवलम् अब्जिनीकिसलयप्रस्तारिशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा २२.४६ (७४५)

अन्तस् तारं तरलिततलाः स्तोकम् उत्पीडभाजः पक्षाग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण /
चित्तातङ्कं निजगरिमतः सम्यग् आसूत्रयन्तो निर्यान्त्य् अस्याः कुवलयदृशो बाष्पवारां प्रवाहाः २२.४७ (७४६)

मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन /
वारां पूरः कथम् अपरथा स्फारनेत्रप्रणाली- वक्त्रोद्वान्तस् त्रिवलिविपिने सारणीसाम्यम् एति २२.४८ (७४७)
राजशेखरस्यामी

उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता /
तल्पादृश्यकरङ्कपञ्जरम् इदं जीवेन लिप्तं मनाङ् मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्यदेशगते २२.४९ (७४८)

किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न /
तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं दृष्टः किं कथयाम्य् अकारणरिपुः श्रीभोज्यदेवो ऽनया २२.५० (७४९)
छित्तपस्य

कुचौ धत्तः कम्पं निपतति कपोलः करतले निकामं निश्वासः सरलम् अलकं ताण्डवयति /
दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्पसलिलं प्रपञ्चो ऽयं किंचित् तव सखि हृदिस्थं कथयति २२.५१ (७५०)
नरसिंहस्य

त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां विशदयसि न केशान् आकुलग्रन्थिबन्धान् /
किम् अपि सखि कुरु त्वं देहयात्रानुरूपं शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् २२.५३२ (७५१)

इति विरहिणीव्रज्या|| २२