सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

विकिस्रोतः तः
सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्
अज्ञातः
१९५३

॥ बृहत्स्तोत्ररत्नाकरः॥


॥ अथ सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् ॥

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥

( इति ध्यानम् )

स्कन्दो गुहष्षण्मुखश्च फालनेत्रसुतः प्रभुः।
पिङ्गळः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१
द्विषण्णेत्रश्शक्तिधरः पिशिताशप्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ।
मत्तः प्रमत्तोन्मत्तश्च सुरसैन्य सुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ ३
उमासुतश्शक्तिधरः कुमारः क्रौञ्चदारण।

सेनानीरग्निजन्मा च विशाख: शङ्करात्मजः ॥ ४
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्त शक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥५
गङ्गासुतश्शरोद्भूतं आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः ॥६
एकवर्णो द्विवर्णश्च त्रिवर्णस्सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहर्पतिः॥७
अग्निगर्भश्शमीगर्भो विश्वरेतास्सुरारिहा ।
हरिद्वर्णश्शुभकरो वटुश्च पटुवेषभृत् ॥
पूषा गभस्तिर्गहनश्चन्द्रवर्ण: कलाधरः ।
मायाधरो महामायी कैवल्यश्शङ्करात्मजः ॥ ९
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः ।
परमेष्ठी परब्रह्मा वेदगर्भो विराट्सुतः ॥१०
पुळिन्दकन्याभर्ता च महासारस्वतावृतः ।
आश्रिताखिलदाताच रोगघ्नो रोगनाशनः ॥ ११

अनन्तमूर्तिरानन्दः शिखण्डिकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥ १२
कारणोत्पत्तिदेहश्च कारणानीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ १३
विरुद्धहन्ता वीरघ्नः रक्तश्यामगळोऽपि च ।
सुब्रह्मण्यो ग्रहः प्रीतः ब्राह्मण्यो ब्राह्मणप्रियः ॥ १४
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥
॥सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥