सुब्रह्मण्याष्टकम्

विकिस्रोतः तः
सुब्रह्मण्याष्टकम्
अज्ञातः
१९५३

॥ अथ सुब्रह्मण्याष्टकम् ॥

हे स्वामिनाथ करुणाकर दीनबन्धो
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीसनाथ मम देहि करावलम्बम् ॥१
देवाधिदेवसुत देवगणाधिनाथ
देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीसनाथ मम देहि करावलम्बम् ॥२
नित्यान्नदाननिरताखिलरोगहारिन्
भाग्यप्रदातपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीसनाथ मम देहि करावलम्बम् ॥३
क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-
चापादिशस्त्रपरिमण्डितदिव्यपाणे ।

श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह
वल्लीसनाथ मम देहि करावलम्बम् ॥४
देवाधिदेवरथमण्डलमध्यवेद्य
देवेन्द्रपीठनकरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीसनाथ मम देहि करावलम्बम् ॥५
हारादिरत्नमणियुक्तकिरीटहार
केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारकजयामरबृन्दवन्द्य
वल्लीसनाथ मम देहि करावलम्बम् ॥६
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्तहरियुक्त परासनाथ
वल्लीसनाथ मम देहि करावलम्बम् ॥७
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।

सिक्त्वा तु मामव कलाधरकान्तिकान्त्या
वल्लीसनाथ मम देहि करावलम्बम् ॥८
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥९
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय य: पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥१०
॥ सुब्रह्मण्याष्टकं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=सुब्रह्मण्याष्टकम्&oldid=319909" इत्यस्माद् प्रतिप्राप्तम्