सुब्रह्मण्यसहस्रनामस्तोत्रम्

विकिस्रोतः तः
सुब्रह्मण्यसहस्रनामस्तोत्रम्
अज्ञातः
१९५३

॥ अथ सुब्रह्मण्यसहस्रनामस्तोत्रम् ॥


ऋषयः-
सर्वशास्त्रार्थतत्वज्ञ सर्वलोकोपकारक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥१
ज्ञानदानेन संसारसागरात्तारयस्व नः ।
कलौ कलुषाचित्ता ये नराः पापरतास्सदा ॥२
केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः ।
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥३
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमईसि ।
सूतः-
शृणुध्वं ऋषयस्सर्वे नैमिशारण्यवासिनः ॥४
तत्वज्ञास्तपसा निष्ठास्सर्वशास्त्रविशारदाः ।
स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ॥५
तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।
ऋषयः-
किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥६

सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।
सूतः-
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥७
साष्टाङ्ग प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृताञ्चलिरुपस्थितः ॥८
नारदः-
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥९
हे धातः पुत्रवात्सल्यात्तद्वद् प्रणताय मे।
उपदिष्ट्वा तु मामव रक्ष रक्ष कृपानिधे ॥१०
ब्रह्मा-
शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥११
सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि दिव्यानि दुःखरोगहराणि च ॥१२
जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि ।

इहामुत्र परं भोगं लभते नात्र संशयः ।। १३
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥१४

 ओं अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमाला- महामन्त्रस्य, ब्रह्मा ऋषि, अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता । शरजन्मा क्षय इति बीजम् । शक्तिधरः क्षयः कार्तिकेय इति शक्तिः । क्रौञ्चधर इतिकीलकम् । शिखिवाहन इति कवचम् । षण्मुखाय इति ध्यानम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ शं ॐकारस्वरूपाय ओजोधराय ओजस्विने नमस्संहृताय इष्ट- चित्तात्मने भास्वररूपाय अङ्गुष्ठाभ्यां नमः ।रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडा- धाराय तर्जनीभ्यां नमः ।हं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः ।णं कुशानुसम्भवाय कवचिने कुक्कुटध्वजाय अनामिसुब्रह्मण्यसहस्रनामस्तोत्रम् १०१ काभ्यां नमः । भं कन्दर्पकोटिदीप्यमानाय द्विषड्- बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः । वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः । ओं शं ओंकारस्वरूपाय ओजोधराय ओज- स्विने नमस्संहृताय इष्टचित्तात्मने भास्वररूपाय हृदयाय नमः । रं षट्कोणमध्यनिलयाय षट्किरीट- धराय श्रीमते षडाधाराय शिरसे स्वाहा । हं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वौषट् । णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय कवचाय हुम् । भं कन्दर्पकोटिदीप्य- मानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् । वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् । ओं भूर्भुवस्सुवरोमिति-दिग्बन्धः । ध्यानम्

ध्याये षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिकिरीटविलसत्केयूरहारान्वितम् ।

कर्णालम्बितकुण्डलपविलसद्गण्डस्थलाषोभितं
किञ्चित्कङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥ १
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
ध्यायेच्चित्रमयूरवाहनशुभं चित्राम्बरालङ्कृतम् ॥ २

(इति ध्यानम् )
॥ सहस्रनामप्रारम्भ: ॥

ॐ अचिन्त्यशक्तिरनघस्त्वक्षोभ्यो ह्यपराजितः
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥१
अत्युदारोऽप्यघहरोऽप्यग्रगण्योऽद्रिजासुतः ।
अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः॥२
अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः।
अकल्मषोऽभिरामोऽप्रधुर्यश्चामितविक्रमः ॥३
अतुलस्त्वसूतो घोरस्स्वनन्तोऽनन्तविक्रमः ।

अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ॥४
अरिन्दमोऽखिलाधारस्त्वणिमादिगुणाग्रणीः।
अचञ्चलोऽमरस्तुत्यो ह्यकळङ्कोऽमिताशनः॥५
अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ।
अतीन्द्रियोह्यमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ॥ ६
आपद्विनाशकस्त्वार्यश्चाढ्यस्त्वागमसंस्तुतः ।
आर्त संरक्षणस्त्वाद्यस्त्वानन्दस्त्वार्यसेवितः ॥७
आश्रितेष्टार्थवरदो ह्यानन्द्यार्थफलप्रदः ।
आश्चर्यरूपस्त्वानन्द आपन्नार्तिविनाशनः ॥८
इभवक्त्रानुजस्त्विष्टस्त्विभासुरहरात्मजः ।
इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः ॥९
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ।
इहामुत्रेष्टफलदस्त्विष्टदस्स्विन्द्रवन्दितः ॥१०
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥
ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ॥११
उदारकीर्तिरुद्योगी चोत्कृष्ठोरुपराक्रमः ।

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।। १२
उज्जृम्भश्चोद्भवश्चोग्रश्चोदग्रश्चोप्रलोचनः ।
उन्मत्तश्चोष्णशमन उद्वेगघ्नोरगेश्वरः ॥१३
उरुप्रभावश्चोदीर्णश्चोमासूनुरुदारधीः ।
ऊर्ध्वरेतस्सुतस्तूर्ध्वगतिदस्तूर्विपालकः ॥ १४
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः।
ऊर्जस्वानूर्जितोदारस्तूर्जितोर्जितशासनः ॥ १५
ऋषिदेवगणस्तुत्यो ऋणत्रयविमोचनः ।
ऋजुरूपो ऋजुकरो ऋजुमार्गप्रदर्शकः ॥१६
ऋतम्भरो ह्यृजुप्रीतो ऋषभो ह्युत्थितो ऋचः।
लृळुतोद्धारको लूतभवपाशप्रभञ्चनः ॥१७
एणाङ्कधरसत्पुत्रस्त्वेक एनौघनाशनः ।
ऐश्वर्यदश्चैन्द्रभोगी चैदिहश्चैन्द्रवद्युतिः ॥१८
ओजस्वी चोषधीस्थानश्चोजोदश्चोदनप्रियः।
औदासीनस्त्वौपमेय औग्रस्त्वौन्नत्यदयकः॥१९

औदार्यस्त्वौषधाकारस्त्वौषस्त्वोषधधारकः ।
अंशुमाल्यंशुमालाड्य अम्बिकातनयोऽन्नदः ॥२०
अन्धकारिसुतोऽन्धत्वहारीत्वम्बुजलोचनः ।
अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ॥ २१
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ।
कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ॥ २२
कामदः कारणः काम्यः कमनीयः कृपाकरः।
काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः ॥२३
कीर्तिकृत् कुक्कुटधर कूटस्थः कुवलेक्षणः ।
कुङ्कुमाङ्गक्लमहरः कुशलः कुकुटध्वजः ॥२४
कृशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् ।
कामरूप: कल्पतरुः कान्तः कामितदायकः ॥ २५
कल्याणकृत् क्लेशनाशः कृपाळुः करुणाकरः ।
कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृतिः ॥ २६
कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः।
ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ॥ २७

ख्यातिप्रद खेचरेशः ख्यातेहः खेचरस्तुतः ।
खरतापहरः खस्थः खेचरः खेचराश्रयः ॥ २८
खण्जेन्दुमौलितनयः खेलखेचरपालकः ।
खखलः खण्डितार्कश्च खेचरीजनपूजितः ॥ २९
गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः।
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ॥ ३०
गतिप्रदो गुणनिधिर्गम्भीरो गिरिजात्मजः ।
गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ॥३१
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ।
गुह्यो गुणज्ञो गीतज्ञो गतातङ्को गुणाश्रयः ॥ ३२
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः।
गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ॥३३
घूर्णिताक्षो घृणनिधिः घनगम्भीरघोषणः ।
घण्टानादप्रियो घोराघौघनाशो घनप्रियः ॥३४
घनानन्दो घर्महन्ता घृणिवान् घृष्टिपातकः।
घृणी घृणाकरो घोषो घोरदैत्यप्रहारकः ॥३५

घटितैश्वर्यसन्दोहो घनार्थी घनसंक्रमः ।
चित्रकृत् चित्रवर्णश्च चञ्चलश्चपलद्युतिः ॥३६
चिन्मयश्चित्स्वरूपश्च चिदानन्दश्चिरंतनः ।
चित्रचेलश्चित्ररथश्चिन्तनीयश्चमत्कृतः॥३७
चोरघ्नश्चतुरश्चारुचामीकरविभूषणः ।
चन्द्रार्ककोटिसदृशश्चन्द्रमौळितनूभवः ॥३८
छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ।
छेदीकृततमःक्लेशः छत्रीकृतमहायशाः ॥३९
छादिताशेषसन्तापश्चरितामृतसागरः।
छन्नत्रैगुण्यरूपश्च छातेहश्छिन्न संशयः ॥४०
छन्दोमयश्छन्नगामी छिन्नपाशश्छविच्छदः ।
जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ॥ ४१
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ।
जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः ॥४२
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः।
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः॥४३

जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ।
जगदानन्दजनको जनजाड्यापहारकः ॥४४
जपाकुसुमसङ्काशो जनलोचनशोभनः ।
जनेश्वरो जितक्रोधो जनजन्मनिबर्हणा ॥४५
जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः।
जितमायो जितक्रोधो जितजम्भो जनप्रियः॥ ४६
झंझानिलमहावेगो झरिताशेषपातकः ।
झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः ॥४७
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः।
टङ्कारनृत्यविभवष्ठङ्कवज्रध्वजाङ्कितः ॥४८
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ।
डम्बरप्रभवो डम्बो डमड्डमरुकप्रियः ॥४९
डमरोत्कटसन्नादो डमरोत्कटजाण्डजः।
ढक्कानादप्रीतिकरो ढुळितासुरसङ्कुलः ॥ ५०
ढाकितामरसन्दोहो ढुण्डीविघ्नेश्वरानुजः।
तत्वज्ञस्त्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः ॥५१

त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ।
त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ॥ ५२
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ।
स्तोता स्तव्यः स्तवप्रीतस्स्तुतस्तोत्रस्स्तुतिप्रियः ॥५३
स्थितिस्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ।
स्थविष्ठः स्वविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ॥५४
दान्तो दयापरो दाता दुरितघ्नो दुरासदः ।
दर्शनीयो दयासारो देवदेवो दयानिधिः ॥५५
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ।
दुर्धरो दानशीलच द्वादशाक्षो द्विषड्भुजः॥ ५६
द्विषट्कर्णो द्विषड्बाहुर्दीनसन्तापनाशनः ।
दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः॥५७
दीर्घवृत्तो दीर्घबाहुर्धीर्घदृष्टिर्दिवस्पतिः ।
दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः॥ ५८
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः।
दुरोदरघ्नो दुःखघ्नो दुरितघ्नो दिशांपतिः ॥ ५९

दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः।
दम्भो दृप्तो देवऋषिर्दैवज्ञो दैवचिन्तकः ॥६०
धुरन्धरो धर्मधरो धनदो धृतिवर्धनः ।
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ॥ ६१
धनाध्यक्षो धनपतिर्धृतिमान् धृतकिल्बिषः ।
धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद् ध्रुवः ॥ ६२
धाता धीमान् धर्मचारी धन्यो धुर्यो धृतव्रतः।
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।। ६३
निरवद्यो निराधारो निष्कलङ्को निरञ्जनः।
निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः॥६४
नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः।
निरवद्यो निरीहश्च निर्द्वन्द्वो निर्मलात्मकः ।। ६५
नित्यानन्दो निर्जरेशो निस्सङ्गो निगमस्तुतः ।
निष्कलङ्को निरालम्बो निष्प्रत्यूहो निजोद्भवः ॥६६
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः
नता निधिर्नैकरूपो निराकारो नदीसुतः ॥ ६६

पुळिन्दकन्यारमणः पुरजित्परमप्रियः ।
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ॥ ६८
पुण्याकारः पुण्यरूपः पुण्यः पुण्यपरायणः ।
पुण्योदयः परञ्ज्योतिः पुण्यकृत्पुण्यवर्धनः ॥ ६९
परानन्दः परतरः पुण्यकीर्तिः पुरातनः ।
प्रेसन्नरूपः पुण्येशः पन्नगः पापनाशनः॥७०
प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः।
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ॥७१
प्रसन्नः परमस्पष्टः परः परिवृढः परः।
परमात्मा परब्रह्म परार्थः प्रियदर्शनः ॥७२
पवित्रः पुष्टिदः पूर्तिः पिङ्गळः पुष्टिवर्धनः ।
पापहारी पाशधरः प्रमत्तासुरशिक्षकः ॥७३
पावनः पावकः पूज्य: पूर्णानन्दः परात्परः ।
पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः ॥७४
प्राणदः प्राणजनकः प्रतिष्ठः पावकोद्भवः।
परब्रह्मस्वर्रूपश्च परमैश्वर्यकारणः ॥७५

परार्थदः पुष्टिकर: प्रकाशात्मा प्रतापवान् ।
प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ।।
फणीश्वरः फणिवरः फणामणिभूषणः ।
फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।।
पुटच्छमितपापौघः फणिराजविभूषणः ।
बाहुलेयो ब्रह्मरूपो बलिष्ठो बलवान् बली ॥
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः।
बालरूपो ब्रह्मगर्भी ब्रह्मचारी बुधप्रियः ॥
बहुश्रुतो बहुमतिब्रह्मण्यो ब्राह्मणप्रियः।
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ॥
बृहद्भानुतनूभूतो बृहत्सेनो बिलेशयः।
बहुबाहुर्बलभीमान् बलदैत्यविनाशकः॥ ८१
बिलद्वारान्तरालस्यो बृहच्छक्तिधनुर्धरः।
बालार्कद्युतिमान् बालो बृहद्वक्षो बृहत्तनुः ॥ १२
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः
भक्तिगम्यो भयहरो भावो भक्तसुप्रियः ॥ ८६

भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः।
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ॥ ८४
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ।
भावको भावकृद्भेषो भावकेष्टो भवोद्भवः ।। ८५
भवतापप्रशमनो भोगवान् भूतभावनः ।
भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ॥८६
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ।
महासेनो महोदारो महाशक्तिर्महाद्युतिः ॥८७
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ।
महाभोगी महामायी मेधावी मेखली महान् ॥ ८८
मुनिस्तुतो महामान्यो महानन्दो महायशाः।
महोर्जितो माननिधिर्मनोरथफलप्रदः ॥ ८९
महोदयो महापुण्यो महाबलपराक्रमः।
मानदो मतिदो माली मुक्तामालाविभूषणः ॥९०
मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः ।
महोत्तमो महापायो मोक्षदो मङ्गळप्रदः ॥ ९१

मुदाकरो मुक्तिदाता महाभोगो महोरगः।
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः॥९२
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ।
यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ॥ ९३
यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान् यन्त्रवाहकः ।
यातनारहितो योगी योगीशो योगिनां वरः ॥ ९४
रमणीयो रम्यरूपो रसज्ञो रसभावकः ।
रखनो रञ्जितो रागी रुचिरो रुद्रसम्भवः ॥ ९५
रणप्रियो रणोदारो रागद्वेषविनाशनः ।
रत्नार्चिरुधिरो रम्यो रूपलावण्यविग्रहः ॥ ९६
रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ।
रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।।
राजीवाक्षो राजराजो रत्नमाल्यानुलेपनः ।
ऋग्यजुस्सामसंस्तुत्यो रजस्सत्त्वगुणान्वितः ॥ ९८
रजनीशकलारम्यो रत्नकुण्डलमण्डितः।
रत्नसन्मौळिशोभाढ्यो रणन्मञ्जीरभूषणः ॥ ९९

लोकैकनाथो लोकेशो ललितो लोभनाशकः ।
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ।। १००
लोकबन्धुर्लोकधाता लोकत्रयसमाहितः।
लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः ॥ १०१
लोकाध्यक्षस्तु लीलावान् लोकोत्तरगुणान्वितः।
लोकबन्धुर्लोकनाथो लोकत्रयमहाहितः ॥१०२
वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः।
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ १०३
विपाशो विगतातङ्को विचित्राङ्गो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १०४
वचस्करो व्यापकश्च विज्ञानी विनयान्वितः।
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ १०५
वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥१०६
वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥१०७

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वराननः ।
विशाखो विमलो वाग्मी विद्वान् वेदधरो वटुः ।।१०८
वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान् वीरजो वसुः ।।१०९
वीरघ्नो विज्वरो वेद्यो वेगवान् वीर्यवान् वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ ११०
शरजन्मा शक्तिधरश्शत्रुघ्नश्शिखिवाहनः ।
श्रीमान् शिष्टश्शुचिश्शुद्धश्शाश्वतः श्रुतिसागरः ।।१११
शरण्यश्शुभदश्शर्मा शिष्टेष्टशुभलक्षणः ।
शान्तश्शूलधरः श्रेष्ठश्शुद्धात्मा शङ्करप्रियः ।। ११२
शितिकण्ठात्मजश्शूरश्शान्तिदश्शोकनाशनः ।
षाण्मातुरष्षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥११३
षट्चक्रस्यष्षडूर्मिघ्नष्षडङ्गश्रुतिपारगः ।
पड्भावरहितष्षट्कष्षट्छास्त्रस्मृतिपारगः॥ ११४
पड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः ।
षट्किरीटधरश्श्रीमान् षडाधारश्च षट्क्रमः ॥ ११५

षट्कोणमध्यनिलयष्षण्डत्वपरिहारकः ।
सेनानीस्सुभगस्स्कन्दस्सुरानन्दस्सतां गतिः ॥ ११६
सुब्रह्मण्यस्सुराध्यक्षस्सर्वज्ञस्सर्वदस्सुखी।
सुलभस्सिद्धिदस्सौम्यस्सिद्धेशस्सिद्धिसाधनः ॥११७
सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धस्साधुस्सुरेश्वरः ।
सुभुजस्सर्वदृक्साक्षी सुप्रसादस्सनातनः ॥ ११८
सुधापतिस्वयञ्ज्योतिस्स्वयम्भूस्सर्वतोमुखः ।
समर्थस्सत्कृतिस्सूक्ष्मस्सुघोषस्सुखदस्सुकृत् ॥ ११९
सुप्रसन्नस्सुरश्रेष्ठस्सुशीलस्सत्वसायकः ।
संभाव्यस्सुमनस्सेव्यस्सकलागमपारगः ॥१२०
सुव्यक्तस्सच्चिदानन्दस्सुवीरस्सुजनाश्रयः।
सर्वलक्षणसम्पन्नस्सत्यधर्मपरायणः ।।१२१
सर्वदेवमयस्सत्यस्सदामृष्टान्नदायकः ।
सुधापी सुमनास्सत्यस्सर्वविघ्नविनाशनः ॥ १२२
सर्वदुःखप्रशमनस्सुकुमारस्सुलोचनः ।
सुग्रीवस्सुधृतिस्सारस्सुराराध्यस्सुविक्रमः ॥ १२३

सुरारिघ्नस्स्वर्णवर्णस्सर्पराजस्सदाशुचिः ।
सप्तार्चिर्भूस्सुरवरस्सर्वायुधविशारदः ॥१२४
हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।
हस्तचित्रायुधधरो हृताघो हसिताननः ॥१२५
हेमभूषो हरिद्वर्णो हृष्टदो हृष्टिवर्धनः ।
हेमाद्रिसिद्धंसरूपो हुङ्कारो हतकिल्बिषः ॥ १२६
हेमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ ११७
हिरण्यवर्णो हितकृत् हर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो हरोद्भवः ।। १२८
क्षेमदः क्षेमकृत् क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः।
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥ १२९
क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षाळिताघः क्षितिधरः क्षीणसंरक्षणक्षमः॥ १३०
क्षणभङ्गुरसन्नद्धघनशोभी कपर्दकः ।
क्षितिभून्नाथतनयामुखपङ्कजभास्करः ॥१३१

इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १३२
स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥
वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।
तस्मात् सर्वात्मना ब्रह्मन् नियमेन जपेत्सुधीः ।।
इति श्रीस्कन्दपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे
॥ सुब्रह्मण्यसहसहस्रनामस्तोत्रं संपूर्णम् ॥