सुकविहृदयानन्दिनी/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५ सुकविहृदयानन्दिनी
अध्यायः ६

षष्ठोऽध्यायः षट्प्रत्ययाध्यायः[सम्पाद्यताम्]


प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगुक्रिया ।
संख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ १

इदानीं उक्तानां वृत्तानां षट्प्रत्ययानाह ।
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम्‌ ॥ २
ऊने दद्याद्गुरूण्येवं यावत्सर्वलघुर्भवेत्‌ ।
प्रस्तारोऽयं समाख्यातः छंदोविचितिवेदिभिः ॥ ३

पादे सर्वगुरौ यावतां वर्णानां वृत्तस्य पादस्तावंत एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छंदसि आद्याद्गुरोरधः अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनंतरं न्यस्तलघोः सकाशात्‌ शेषेभ्यो वर्णेभ्यो अधः किं स्थाप्यत इत्याह । यथोपरि तथा शेषं । यद्युपरि गुरुस्तदा अधस्तादपि गुरुर्यद्युपरि लघुस्तदा अधस्तादपि लघुः शेषम्‌ । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनंतरं त्रीणि गुरूणी स्थाप्यन्ते । भूयः पुनरपि कुर्यादमुं विधिमिति । लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात्‌ । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावाद्यः पूर्वदेशादूने दद्याद्गुरूणि इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । एवमनेन प्रकारेण तावन्न्यासः कर्तव्यो यावत्सर्वलघुः पदो भवति । प्रस्तार्यते इति प्रस्तारः वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छंदांसि विलीयन्ते अस्यामिति छंदोविचितिश्छंदःशास्त्रम्‌ । प्रस्तारो व्याख्यातः । २-३

इदानीं नष्टं व्याख्यातुमाह ।
नष्टस्य यो भवेदंकः तस्यार्धेऽर्धे समे च लः ।
विषमे चैकमाधाय तदर्धेऽर्धे गुरुर्भवेत्‌ ॥ ४

प्रस्तारदर्शितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुप्तं भवति तस्य नष्टस्य यो भवेदंक एकादिसंख्या तस्य अर्धेऽर्धे समे च अंके सति लो लघुर्भवति । विषमे एकं आधाय प्रक्षिप्य तस्यार्धेऽर्धे गुरुर्भवेत्‌ । यथैतस्मिंश्चतुरक्षरे छंदसि पंचमं वृतं नष्टम्‌ । तस्य अंकः पंच स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्धं क्रियन्ते । अर्धितास्त्रयो भवन्ति । तदर्धे गुरुः प्राप्यते पुनस्त्रयोऽर्धं न प्रयच्छन्ति । सैकाश्चत्वारः । तेऽपि अर्धस्तदर्धे पुनर्लब्धो गुरुद्वयोः समत्वात्‌ । तदर्धे लघुः प्राप्यते पुनरेकोऽर्धं न प्रयच्छति । सैकोर्द्व्यः तदर्धे पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम्‌ । तथा च । आद्यौ द्वौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । ऽऽ।ऽ एतच्चतुरक्षरे छंदसि पंचमं वृत्तं भवति । ४

उद्दिष्टं व्याख्यातुमाह ।
उद्दिष्टं द्विगुणानाद्यादुपर्यंकान्समालिखेत्‌ ।
लघुस्था ये तु तत्रांकास्तैः सैकैर्मिश्रितैर्भवेत्‌ ॥ ५

केनचित्तद्वृत्तं प्रस्तार्यकतमत्‌ इति संख्यापरिज्ञाना उक्तं तदुद्दिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः संख्यया नष्टमुद्ध्रियते । अत्र पुनर्वृत्तं ज्ञायते संख्या न ज्ञायते अतः संख्यापरिज्ञानार्थं उद्दिष्टमिदमुच्यते । तस्य उद्दिष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि द्विगुणानंकान्‌ समालिखेत्‌ । यथा । अस्मिन्नेव चतुराक्षरे छंदसि एकं वृत्तं उद्दिष्टं तस्य द्वौ वर्णौ गुरू ततो लघुस्ततोऽपि गुरुः । तत्र उद्दिष्टे वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरंकाश्चत्वारः तैश्चतुर्भिः सैकैः एकेन सहितैः पंचभिरुद्दिष्टं भवेत्‌ । उद्दिष्टसंख्या भवेत्‌ । चतुरक्षरायां जातौ तत्पंचमं वृत्तं भवतीत्यर्थः ॥ ५

एकद्व्यादिलगुक्रियार्थमाह ।
वर्णान्‌ वृत्तभवान्‌ सैकान्‌ औत्तराधर्यतः स्थितान्‌ ।
एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत्‌ ॥ ६
उपान्त्यतो निवर्तेत त्यजन्नैकैकमूर्ध्वतः ।
उपर्याद्याद्गुरोरेवमेकद्व्यादिलगुक्रिया ॥ ७

यावंत एव वृत्तभवा वर्णा तावत एव सैकान्‌ एकसहितान्‌ यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान्‌ सैकान्‌ पंच । औत्तराधर्यतःस्थितान्‌ उपर्युपरिभावेन स्थितान्‌ एकादिक्रमेणैव एतानुपरि उपरि निक्षिपेत्‌ निदध्यात्‌ । उपान्त्यतो अन्त्यसमीपान्निवर्तेत व्याद्युद्येत । त्यजन्‌ परिहरन्‌ एकैकं ऊर्ध्वभागात्‌ । एवमनेन प्रकारेण कस्मादियं एकद्व्यादिलगुक्रियां प्रवर्तत इत्याह । उपर्याद्याद्गुरोरिति उपरिस्थितान् आद्याद्गुरोः । कोऽर्थः । सर्वगुरुवर्णवृत्तसकाशात्‌ इत्यर्थः । आद्यं किल सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा ।

‘पादे सर्वगुरावाद्याल्लघुं न्यस्ये’ति तेन तस्मात्‌ अध इयं एकद्व्यादिलगुक्रिया प्रवर्तते । तत्र पंचसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति त्यजन्नेकैकमूर्ध्वत इति वीप्सवशादेकदैव स्थितिमंतरेण निक्षिप्तत्वात्‌ पुनर्निक्षेपभावादेकैकत्यागश्च न संभवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने द्वौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । ‘उपान्त्यतो निवर्तते त्यजन्नेकैकमूर्ध्वतः’ उपरितनमेकं त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात्‌ पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्भवन्ति उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्माद्देकद्व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि द्विलघूनि षट्त्रिलघूनि चत्वारि चतुर्लघूनि एकं सर्वलघुः एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पंचाक्षरादिवृत्तेष्वपि । ६-७


[ उदाहरणम्‌ –

    ४१
६३१
४३२१
१११११

]

संख्यार्थमाह ।
[लगुक्रियाङ्कसन्दोहः भवेत्संख्याविमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम् ॥ ८ ]

लगुक्रियायां ये अंकास्तेषां सन्दोहस्तस्मिन्विमिश्रिते पीडीकृते संख्या भवेत्‌ । इयं तावद्धारणं स्यात्‌ । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः पूर्वमेव व्याख्यातः ।

पक्षान्तरमाह ।
उद्दिष्टस्य वृत्तस्य उपरि ये अंका द्विगुणास्तेषां समाहारः एकीभावः सैको वा अथवा जनयेदुत्पादयेदिमां संख्याम्‌ । यथा । चतुरक्षरजातौ द्विगुणा ये अंका उपर्यारोपितास्तेषां समाहारः पंचदश सैकः षोडशेति । ८

अध्वार्थमाह ।
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।
वृत्तस्यांगुलिकीं व्याप्तिमधः कुर्यात्तथांगुलम्‌ ॥ ९

चतुरक्षरजातौ या षोडशसंख्या स्याद्द्विगुणा द्वात्रिंशतिः एकोना एकरहिता एकत्रिंशतिः सद्भिः पण्डितैरध्वा मार्गः प्रकीर्तितः । कथम्‌ । वृत्तस्य आंगुलिकीं अंगुलप्रमाणां व्याप्तिं कुर्यात्‌ । ९

अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्द्दिशति ।
वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता ।
विप्रः पव्येकनामा विमलतरमतिः शैवतत्वावबोधे ॥ १०
केदारस्तस्य सूनः शिवचरणयुगाराधनैकाग्रचित्तः ।
छंदस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्याम्‌ ॥ ११

वंशेऽन्वयेऽभूज्जातः कश्यपस्य कश्यं सोमं पिबतीति कश्यपः कश्यपशब्देन यद्यपि सुरा एवाभिधीयते कथ्यते । तथाप्यत्र सोममुच्यते सुरापानस्य ब्राह्मणे दिजे निषिद्धत्वात्‌ अन्वयार्थेन वंशार्थेन क्रनुयायित्वमुक्तं स्यात्‌ (?) । शिवस्य एते शैवा ये सिद्धान्तास्तेषां वेत्ता । ‘विद-विचारणे’ इत्येतस्य रूपं न पुनः ‘विद-ज्ञाने’ । तस्याशक्यत्वात्‌ । यो हि विचारयति चिन्तयति सो अवश्यं वेत्ति नह्यविदितं विचारयितुं शक्नोति विशेषेण प्रतिपूरयति स्वर्गापवर्गादिकानि स विप्रः विमलतरमतिः विमला विस्तीर्णा तरला मनोहरा मतिर्यस्य अतिशयेन विमलमतिः । क्व । शैवशास्त्रावबोधे । केदारनामा तस्य पुत्रः शिवः शान्तो देवताविशेषः तस्याराधनं तत्र एकाग्रं तन्निष्ठं चित्तं यस्य सः । तथा तेन केदारेणाभिरामं रमणीयं मनोहरं छंदः प्रकर्षेण विरचितं वृत्तरत्नाकराख्याम्‌ ॥ १०-११

इति पंडितश्रीसुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां छंदोवृत्तौ षट्प्रत्ययाध्यायः षष्ठः समाप्तः ॥


श्रीः ।
शुभं भूयाल्लेखकस्य ।
वसुयुग्मे ....... शुक्लश्च पंचम्यां हंसराजेन मुनिनाऽलिखट्टीका मनोरमा ॥

सन्दर्भ[सम्पाद्यताम्]