सीतास्वयंवरम् (हरिकृष्णभट्टविरचितम्)
सीतास्वयंवरम् हरिकृष्णभट्टः १९३८ |
सीतास्वयंवरकाव्यम् । ११३ हरिकृष्णभट्टविरचित सीतास्वयंवरकाव्यम् । श्रीराजराजोऽजनि यस्य गेहमाशिश्रियच्छ्रीः श्रितचारुरूपा । सीताभिधाना जनको जनानां यथा सुतानामविता तथा सः ॥ १ ॥ युधिष्ठिरो भीमपराक्रमश्च जगत्त्रयेऽप्यर्जुनकीर्तिरासीत् । अलंकृताहीनकुलः कुलाब्जप्रकाशभानुः सहदेवतुल्यः ॥ २ ॥ तस्मिन्नरेन्द्रे मिथिलाधिनाथे स्वर्गस्पृहायां शिथिलादरोऽभूत् । न वासवस्य स्मरति स्म वीक्ष्य तं नन्दनं निन्दति नव्यवाटीः ॥ ३ ॥ शूली शिवोऽभूत्सगदोऽथ विष्णुः सरुग्रविस्तस्य सुतोऽथ मन्दः । उद्यानदेशः समभूत्सगुल्मः क्षयी शशी नैव जनस्तदाभूत् ॥ ४ ॥ कथा पुराणे खलु पाण्डपञ्चकस्याप्युदावर्तवती स्रवन्ती । अभूत्तदा सप्रदरोऽरिवर्गस्तस्मिन्धरां शासति धीरधीरे ॥ ५ ॥ तस्याभवच्छ्रीर्दुहिता हिताय चराचरस्याखिललोकवन्द्या । अयोनिजा चेतसि मन्यमाना निजेऽमिधानं चरितार्थमस्य ॥ ६॥ क्षणे क्षणे सेक्षणमीक्षकाणामपारलावण्यसुधासमुद्रे । निमज्जयन्ती नवयौवनेन प्रकाशितं रूपमवाप सीता ॥ ७ ॥ पुत्रीं पवित्रीकृतवंशगेहां देहान्तरङ्गश्रितपञ्चबाणाम् । प्रतर्क्यतर्कागमशुद्धबुद्धिरहो विवाहे समयं स मेने ॥ ८॥ अचीकरत्क्ऌप्तमनल्पशिल्पैः सुशिल्पिभिः स्वर्पतिशिल्पिकल्पैः । वसुंधरामण्डलमण्डनाभं सीताविवाहाय स मण्डपं तम् ॥ ९॥ मसारसस्फाटिकपद्मरागरागैः सुकिर्मीरितमध्यभागः । सुराङ्गनामज्जनजातरागं यो मण्डपेशोऽन्वगमत्प्रयागम् ॥ १० ॥
८ चतुर्दशगु० ११४ काव्यमाला । वाराङ्गनागीतिविधाजुयादाः प्रवीणोणारवरागमिश्राः । नृणां वितेनुः समृदङ्गनादा यच्छालमञ्जीकृतगानशङ्की॥ ११ ॥ वातोर्मिभिर्दोलितसत्पताकाश्रेणिः समेतागरुधूमवल्ल्या । यत्रोपरिष्टाच्छ्रितयामुनौघमन्दाकिनीजां श्रियमन्वकार्षीत् ॥ १२ ॥ सोपानमार्गैरुपरि प्रयातो जनो विहर्ता यदधित्यकासु । कनीतदृग्वृत्तिरुपत्यकासु गजावलीः कूर्मकुलानि मेने ॥ १३ ॥ यत्कुट्टिमाट्टालविटङ्कवासैः कलापिभिर्दुन्दुभिमन्द्रनादः । अमानि धीरध्वनिरम्बुदानामकालकेकीकृतलोकचित्रैः ॥ १४ ॥ अभ्रंलिहाग्रस्थसुरेन्द्रनीलप्रभावितानन्दजलाशया यत् । नानामणिक्ऌप्तमहेन्द्रचापं पाथोऽपि दात्यूहकुलं ययाचे ॥ १५ ॥ प्रतप्तजाम्बूनदजालमुक्तैर्मुक्तागणैर्यत्र सुधासवर्णैः । सुमेरुशृङ्गागतगौरगङ्गाप्रवाहलक्ष्मीरुररीकृताभूत् ॥ १६ ॥ यद्भित्तिभागे लिखितस्थ खिङ्गैरनङ्गलेखस्य सुवर्णवर्णैः । चमत्कृतावाचनचातुरीमी रोमाञ्चकस्याञ्चति चञ्चलाक्षी ॥ १७ ॥ पुरंदराशाचितभित्तिनद्धैः स्फुटज्जपापाटलपद्मरागैः । सूरोदयानन्दमनायि यत्र मुहुर्निशीथेऽपि च कोकलोकः ॥ १८ ॥ वर्षास्वपि स्वर्णपिनद्धरत्नयद्दीर्घिकानीरनिवासहृष्टाः । मृणालिनीबीजभुजो मराला न मानसं मानसमप्यनैषुः ॥ १९ ॥ यच्चन्द्रशालाश्रितगायकानां स्थानप्रदानोत्सुकनायिकानाम् । गेयं विपञ्चीगुणरागपेयं मध्यंदिने साध्वधिनोद्दिनेशम् ॥ २० ॥ बालाननैः स्फाटिकजालमालास्फुटैः स्फुटत्तामरसाभिरामैः । मन्दाकिनीस्वर्णसरोजराजीशोभा भृशं यत्र समन्वभावि ॥ २१ ॥ सितोपलाबद्धतरासु यत्र स्त्रीणां स्फुटत्कोकनदोपमेषु । लाक्षारसक्षालितपादपद्मपदेषु पद्मीयति चञ्चरीकः ॥ २२ ॥ सीतास्वयंवरकाव्यम् । ११५ यदङ्गणे विद्रुमभूमिसंस्थास्तद्रागसंसृष्टवलक्षभावाः । अवाकिरंश्चञ्चुपुटेन कीरा मुक्ता मुहुर्दाडिमबीजबुद्ध्या ॥ २३ ॥ निधाय यत्राजगवं स चापमिति क्षितीशोऽथ पणं बमाण । यो भङ्क्ष्यतीमं भुजवीर्यशाली स जानकीजानिरपूर्वमाली ॥ २४ ॥ (कुलकम्)
दूता दिगन्तेषु जगुस्तदासामितीशकोदण्डकखण्डकृद्यः । तस्मै नृपो दित्सति देवताभां कन्यां विनिद्राम्बुरुहायताक्षीम् ॥ २५ ॥ श्रुत्वा पणं पार्थिवपुङ्गवस्य निजं भुजावीर्यमखर्वगर्वाः । कन्यानिमित्तं बहु मन्यमाना दिग्भ्यः समाजग्मुरथो नरेन्द्राः ॥ २६ ॥ कलिङ्गबङ्गाङ्गतिलङ्गगौडपाञ्चालनेपालकमालवेशाः । सौवीरगन्धारकमत्स्यमद्रत्रिगर्तकानर्तविदर्भनाथाः ॥ २७ ॥ काम्बोजकर्णाटककामरूपकाश्मीरयुक्केरलकेकयानाम् । करूपसिन्धूत्कलसौभशाल्वपटच्चराणामधिपा युवानः ॥ २८ ॥ चीनान्ध्रलाटद्रविडाधिनाथा द्वीपाधिपास्तीर्णपयोधयोऽपि । रूपश्रिया न्यक्कृतपञ्चबाणाः प्रचण्डकोदण्डधरा धरेन्द्राः ॥ २९ ॥ प्रत्युज्जगामावनिपालचक्रं चक्राङ्कुशाम्भोरुहमत्स्यवज्रैः । महार्हचिह्नैरुपलक्षिताभ्यां पद्भ्यां नरेन्द्रोऽपचितिं चिकीर्षुः ॥ ३० ॥ विधाय तेषां विधिवन्नृपाणां यथाक्रमं शक्रपराक्रमाणाम् । अर्घ्यादिकं कृत्यमनर्घशीलः प्रावेशयत्तान्निजराजधानीम् ॥ ३१ ॥ रम्येषु हर्म्येषु सुरेन्द्रसद्मकल्पेष्वनल्पाद्भुतचित्रवत्सु । वासाय तान्वासक्तुल्यधामा समादिशच्छ्रीजनको जनेशः ॥ ३२ ॥ आधोरणा विश्रमयांबभूवुर्बाधो रणानामिह यैर्विसोढः । मतङ्गजानां प्रवरान्नृपाणां मतं मज्जानामिह ये विदन्ति ॥ ३३ ॥ ११६ काव्यमाला । रथोत्तमान्सारथयो यथा स्वं तथा पृथक्चक्रुरथो हरिभ्यः । भारौह एके विदधुर्विभारान्क्रमेलकान्मेलितभृत्यवर्गाः ॥ ३४ ॥ वैदेहसूदैरुपकल्पितं तद्धृतप्लुतं स्वादु चतुर्विधान्नम् । तिक्तोषणाम्लैर्लवणैः कषायै रसैर्लसद्व्यञ्जनवर्गसंस्थैः ॥ ३५ ॥ सर्वे तथा भूमिभुजोऽप्यभुञ्जन्हैमेष्वमत्रेषु सभृत्यवर्गाः । वीक्ष्यामरा यद्बहु मेनिरे खात्सुधाधिपत्वावसुधाधिपत्वम् ॥ ३६ ॥ शुभे तिथावृक्षगुणोपपन्ने लग्ने तथा दीनबलेशहीने । रङ्गे महामण्डनमण्डिताङ्गं राजा महाराजकमाजुहाव ॥ ३७ ॥ रङ्गान्तरं लोकवरं वरास्ते समं समासेदुरदीनसत्त्वाः । आकर्णितेनाद्भुतवर्णनेन गुणेन कृष्टा इव कन्यकायाः ॥ ३८ ॥ मयेन या रत्नमयेन सृष्टा द्रव्येण नव्येन पृथासुतस्य । जिता सभा येन विराजितापि ते मण्डपे मण्डनतामवायुः ॥ ३९ ॥ ततो नभःस्तम्भितभासुरोच्चविमानवातायनलम्विबिम्बैः । सीताविवाहागतपार्थिवानां स्वर्गीयवर्गैः समलोकि लोकः ॥ ४० ॥ देवा नृदेवा अपि पूर्वदेवा रक्षांसि यक्षाः प्रतिकर्मदक्षाः । नागाः सुपर्णा अपि हेमपर्णाः समाययू राजसुताविवाहे ॥ ४१ ॥ तस्मिन्समाजे न ममुर्न लोकास्तत्रानुमानं त्वहमेतदूहे। यद्दर्शितं स्वीयमुखे जनन्यै जगच्चरस्थावरमच्युतेन ॥ ४२ ॥ नृपः श्रिया निर्जितकामरामां श्यामां महीमण्डलमण्डनाभाम् । धात्रीकरालम्बितचारुमालां बालां समाजेऽथ समाजुहाव ॥ ४३ ॥ अहं निराधिर्न मृणालिनीव विना हरिं स्यामिति तर्कयन्ती । मुहुर्भयं किंचन चिन्तयन्ती दुःशासनाच्चेतसि रावणाच्च ॥ ४४ ॥ सीतास्वयंवरकाव्यम् । ११७ पदे पदे निन्दितधार्तराष्ट्रा पराक्रमं कर्तुमशक्नुवन्तः । वरा इतीमे हृदि मन्यमाना कृष्णेव सा संसदमाप सीता॥ ४५ ॥ (युग्मम्) रराज तद्राजसभागता सा सुधासितानां सविधे ग्रहाणाम् । सुरासुरैः क्षुब्धसुदुग्धसिन्धोः पारश्रिता श्रीरिव चारुरूपा ॥ ४६ ॥ जितो गतेनैव गजः सुराणां भ्रुवा धनुः कल्पलताङ्ग्यष्ट्या । तया कटाक्षैः किल कल्पवृक्षा जिता नृपाः कामदुघापि दृष्ट्या ॥ ४७॥ जितेन्दुवक्रं जितरम्भमूरुं युगं तु कण्ठो जितकम्बुरस्याः । अङ्गैरियं निर्जितसर्वरत्नैः कृता विधात्रा बहुलप्रयलैः ॥ ४८ ॥ अस्यां स्थितायां जनकात्मजायां लोकावलीमध्यमणिप्रभायाम् । रत्नार्थिभिर्दानवदेववृन्दैर्मुग्धैः स दुग्धाम्बुनिधिर्ममन्थे ॥ ४९ ॥ न खञ्जनो विस्मयते निरीक्ष्यैतस्या विशालं चपलं च चक्षुः । विलोक्य को धैर्यमुपैति लोके न खञ्जनो यस्य तुलामुपैति ॥ ५० ॥ अस्या भ्रुवो ये धनुषः कटाक्षैः शरैः स्मरस्यापि जिता युवानः । तज्जेतुरीशस्य कथं धनुस्ते सज्यं विधातुं मनसापि शक्ता ॥ ५१ ॥ विलोक्य तां लोकनमस्कृताङ्गीमनुष्टुवन्नप्सरसो रसोल्वैः । इत्थं वचोभिः सुमनस्तरूणामपूजयँस्ताः सुमनोभिरेताम् ॥ ५२ ॥ (कुलकम्) राज्ञां तदालोकनलोलुपानां मनः परं दृष्टिषु संक्रमय्य । आसीस्थितानामतिविस्मितानां मनुष्यभावेऽप्यनिमेषवत्त्वम् ॥ ५३ ॥ विलोक्य तस्या वदनं सुधांशुं कन्दर्पपाथोनिधिवृद्धिहेतुम् । विकाशमीयुर्भस(र्भृश)मुल्लसन्ति तेषां मनःकैरवकोरकाणि ॥ ५४ ॥ निपीय रूपं हृदि सस्मरुस्तद्विलोकनायामरनायकं ते । तथार्जुनं तत्परिरम्भणाय स्तवाय शेषस्य सहस्रशीर्ष्णः ॥ ५५ ॥ ११८ काव्यमाला । सौवर्णसिंहासनसंस्थितानां सूरेन्दुवंशोद्भवपार्थिवानाम् । प्रकाशिते बन्दिजनैश्चरित्रे संचारिते चांगरुचारुधूपे ॥ ५६ ॥ आहारि हैमाचलसानुगानां यदामराणां क्षितिपैरभिख्या । संबोध्य सीतां विबुधेज्यबुद्धी राज्ञः पुरोधा गिरमित्यवादीत् ॥ ५७ ॥ अभूतपूर्वे भवतीमदभ्रबलोल्लसद्भूमिभुजां समाजे । वैदेहिगङ्गाधरधन्वभङ्क्त्रे दाता वरेण्याय वराय तातः ॥ ५८ ॥ इतीरयित्वा विरते द्विजेन्द्रे मृगेन्द्रवत्पर्वतशृङ्गतस्ते । निजासनेभ्यः सहसोदतिष्ठन्परामृशन्तः परिधोरुबाहून् ॥ ५९ ॥ लाभाय सुस्त्रैणशिरोमणिस्ते दर्पादहंपूर्विकथा कयापि । धराधिपा गाङ्गतरङ्गराजच्चूडामणेश्चापसमीपमापुः ॥ ६० ॥ ते वीक्ष्य चापं गुरु शंकरस्य न शंकरं सज्जविधानकाले । भृशं कराभ्यामपनेतुमीशाश्चतुर्दिगीशा अपि नावनीशाः ॥ ६१ ॥ केचिद्भुजाभ्यां भुजगेन्द्रभोगमहेन्द्रमातङ्गकरोपमाभ्याम् । उन्नेतुकामा जगृहुस्तदैशं धनुः पुनश्चालयितुं न शेकुः ॥ ६२ ॥ निःश्वासमिष्वासमवेत्य शैवं बालामबालाजमनोहरास्याम् । अखण्डितं भूमिभुजो व्यमुञ्चंस्ततस्त्वलब्ध्वा विधिविप्रलब्धाः ॥ ६३ ॥ हतौजसो निर्जितवैरिवर्णं निजान्भुजान्धिग्धिगिति ब्रुवन्तः । ततो नृपाः स्वानि निवेशनानि यथागतं जग्मुरवाङ्मुखास्ते ॥ ६४ ॥ अभग्नमग्निप्रतिमप्रभावैः कोदण्डमाखण्डलतुल्यवीर्यैः । निरीक्ष्य चिन्ताम्बुधिमग्नचित्तो जगाद वाचं मिथिलाधिनाथः ॥ ६५ ॥ चापो न कृष्टः किल राजकस्य शर्वस्य सर्वस्य च गर्वहारी । केनापि नाटङ्कि न चाप्यचालि निर्वीरमुर्वीतलमद्य जातम् ॥ ६६ ॥ न चक्षमे राक्षसलक्षनाथो गर्वस्य पाथोधिरहीनवाहुः । बाहूद्धृतस्थाणुधराधरेन्द्रस्तत्कैकसीसूनुरिदं वचोऽस्य ॥ ६७ ॥ सीतास्वयंवरकाव्यम् ।११९
सलीलमामीलितमीमचक्षुश्चक्षुःश्रवा वा सुकथाप्रसङ्गः ।
सावज्ञमज्ञाननिधिर्व्य॑सर्पत्सर्पाधिराजोरुधनुःसमीपम् ॥ ६८ ॥
चापं स संचालयितुं न सेहे बलात्यये शंकरकिङ्करोऽपि ।
मृगेन्द्रतीभेन्द्रविदोर्विदारैर्गोष्ठश्चतुर्धस्यपिवोऽपि गौः किम्(?) ॥६९॥
गतेषु भूपेषु निवेशनानि पुलस्त्यसूनावपि भग्नदर्पे ।
विषादिचित्ते जनके जनेशचिन्ताकुले चापि कुले निमेश्च ॥ ७० ॥
निमन्त्रितो मन्त्रविदां वरिष्ठो गाधेरथो सूनुगाधबोधः ।
समाययौ सानुजरामयुक्तो नृपेण सार्धेण च सोऽभ्यगामि ॥ ७१ ॥
सत्कृत्य सत्कृत्यविदर्चनाभिर्मुनिं ततो दाशरथी रथीशः ।
अमज्जदानन्दसुधासमुद्रे भद्रं हि सत्संगमतः किमन्यत् ॥ ७२ ॥
तेषूपविष्टेष्वथ विष्टरेषु विशिष्टशिष्टाचरणे निविष्टः ।
अतिष्ठिपदृष्टिलवेन पृष्टे भृत्यान्नृपोऽनुष्ठितपाणियोगान् ॥ ७३ ॥
रथाङ्गशब्दैः प्रतिराजरथ्यं ह्रेपाभिरञ्चद्गजबृंहितैश्च ।
समाकुलं मङ्गलतूर्यघोषैः सुताननैषीत्पुरमुग्रधाम्नः ॥ ७४ ॥
प्रसादमालाञ्चबालचन्द्रबिम्बाननां राघवरूपऋद्धिम् ।
प्रेम्णा पपुः पौरपुरन्ध्रिवर्गा हर्षोल्लसन्मञ्जुलमञ्जुनेत्रैः ॥ ७५ ॥
मुनिं तदानुव्रजतो नृपस्य प्रत्यम्भशोभाहुतचित्तवृत्ते ।
मुहुर्मुहुर्लोचनचञ्चरीकौ निपेततू राममुखारविन्दे ॥ ७६ ॥
पक्षोल्लसद्दस्रसहस्रनेत्रपुरोहितश्रीनिवहं वहन्तः ।
अशीतरुक्कौशिकवंशदीपाः प्रापुर्महामण्डपमण्डनत्वम् ॥ ७७ ॥
रामं निकामं नयनाभिरामं कामं निषीय क्षणमीक्षणाभ्याम् ।
सीताधिसंधौ पतितापि धैर्ये चरीकरीति स्म तरीमनल्पाम् ॥ ७८ ॥
हैमासनाध्यासिषु तत्र तेषु पत्रेषु पद्मप्रभवैलभेषु ।
नृपो निधायाञ्जलिमाल्यमौलिं मुनिं बुभुत्सुस्तमिदं जगाद ॥ ७२ ॥
कंदर्पदर्पापहदेहसंपत्कपाटवक्षा युगदीर्घबाहुः ।
अयं सुतो वंशमलंकरिष्णुः कलङ्कशाका(खा)रहितस्य कस्य ॥ ८० ॥
अधिष्ठितां लोकगुरुर्विलोक्य धियं तदीयां विनयं नयं च ।
राजानमाजानुबिलम्बिबाहुं तं ज्ञापयिष्यन्नृपिरेतदाह ॥ ८१ ॥
अयं दयी दाशरथिः कुमारो वंशाङ्कुरः पङ्कजिनीप्रियस्य ।
यत्पादपद्मस्य परागसङ्गात्सुस्त्रीत्वमापाथ शिलाप्यहल्या ॥ ८२ ॥
मदध्वरध्वंसनपक्षरक्षःकक्षानलस्ताडितताडकोऽयम् ।
सलक्ष्मणः पूर्णवलक्षपक्षेऽप्यलक्ष्मपक्ष्मेन्दुविलासहासः ॥ ८३ ॥
धराभरापायविधावतीन्द्रः सुहृत्समुद्रोल्लसनैकचन्द्रः ।
समग्रलावण्यसुधासमुद्रः प्रतीतनामा भुवि रामचन्द्रः ॥ ८४ ॥
(विशेषकम् )
प्रकाशिते तद्गुणसिन्धुबन्धौ श्रोतृश्रुतिप्रीतिसुधाविधाने ।
महर्षिणा हर्षणगद्गदस्य धराधिपस्याजनि लोमहर्षः ॥ ८५ ॥
स आशिखं पादनखाददोषं निरूप्य रूपं जितमीनकेतोः ।
मेनेऽस्य योग्यां तनयां वरस्य समस्तयोषित्कुलमौलिरत्नाम् ॥ ८६ ॥
तद्रूपपीयूषसुखानुभूतेः सुकर्कशं तर्कयतोऽस्य चापम् ।
बभूव भूपस्य स रामचन्द्रश्चकोरकोको(?)दितभावहेतुः ॥ ८७ ॥
निपीय रूपं नयनाभिरामं निशम्य वंशं तिलकं नृपाणाम् ।
कुमारमेनं च कुभारमारकल्पं राज्ञाभ्यधायि प्रति गाधिपुत्रम् ॥ ८८ ॥
इयं कथा सार्थवहा सुधाभिर्ज्वरातिदूने रसने सितेव ।
चित्तेन पुत्रीपणतापि तेने माधुर्यमाधित्सति गाधिसूनोः ॥ ८९ ॥
अस्माकमस्मिन्हृदयाघितापे गतोऽस्ति दृग्गोचरतां कृपालो ।
भवान्मुनेऽवग्रहतापितानां काले कृषीणामिव वारिवाहः ॥ ९० ॥
वितापमन्तःकरणं विधिसुर्दित्सुः पुनर्जीवितमस्य विप्रः ।
ऊचे कृपाद्रावितचित्तवृत्ताः पराधिभङ्गप्रयता हि सन्तः ॥ ९१ ॥
एतद्धनुर्भेत्स्यति रामचन्द्रो वृथा कृथा मा नृप तापमन्तः ।
विधेहि विश्वासमृते मदुत्ते तदत्र तेऽहं प्रतिभूर्भवामि ॥ ९२ ॥
तमःसु दुर्गेष्विव काननेषु न चित्रभानोः स्खलति प्रभावः ।
चापेऽन्यभूपालयशःशशाङ्कखर्भानुकल्पेऽपि तथास्य शक्तिः ॥ ९३ ॥
तद्वाक्यपीयूषरसातिवर्षाहर्षाकुले राजनि जायमाने ।
मानेन कस्यारतुषारभूभृत्सुतां सुता सावनिचक्रभर्तुः ॥ ९४ ॥
मुनिर्मनाग्हासविलासभासं समादिदेशाथ जयेति रामम् ।
कोदण्डमालोकय लोकभीमं महीपतेः पूरय शूर कामम् ॥ ९५ ॥
श्रुत्वा वचः कौशिकवंशकेतोश्चेतोहरं प्राञ्जलिरग्रतोऽस्थात् ।
जनस्य राज्ञो जनकस्य रामस्तथात्मनो वा जनकात्मजायाः ॥ ९६ ॥
तं प्रण्यपप्तद्गुरुमाहिताग्निं कर्तुं धनुर्भञ्जनमञ्जनाभः ।
मृगेन्द्रविक्रान्तगतिस्ततोऽसौ चण्डीशकोदण्डसमीपमागात् ॥ ९७ ॥
निरीक्ष्य तत्कार्मुकमुग्रतेजाः प्रगुप्तभोगीश्वरभोगभीमम् ।
भीमस्य भीमासुरमीतिकारि प्रदक्षिणं दक्षिणलक्षणोऽगात् ॥ ९८ ।।
ततो गृहीत्वैककरेण रामः कामप्रसूनेष्वसनं यथैव ।
द्रागाततज्यं मिषतामकार्षीत्सभासदामेतददीनसत्त्वः ॥ ९९ ॥
भ्राजिष्णुजिष्णुस्तमचारुचापधनं विनिन्दन्स वपुःश्रिया तत् ।
चकर्ष हर्षं जनयञ्जनानां बभञ्ज भञ्जन्दशमौलिमानम् ॥ १०० ॥
छन्ना नरेन्दैर्न विचालितं यद्भग्नं धनुस्तद्रघुनन्दनेन ।
कार्यं सहस्रोस्रविधानयोग्यं विधीयते जातु न तारकाभिः ॥ १०१ ॥
किमत्र चित्रं त्रिपुरारिचापोऽमुना सलीलं शकलीकृतो यत् ।
मदान्धमातङ्गघटा परिष्ठः किं केसरी न प्रजरीहरीति ॥ १०२ ॥
विलोक्य लोकेनः जयेति तस्य सपर्यया सार्धमुदीर्यमाणे ।
सीता समारोपयदस्य कण्ठे कण्ठीरवाकुण्ठपराक्रमस्य ॥ १०३ ॥
जितप्रवालेन नखैस्तलेन करेण मालामवलम्ब्य माला ।
वर्षा ववर्षामरभूरुहाणां पुष्पाणि गन्धोन्मदषट्पदानि ॥ १०४ ॥
बबौ समीरः सुरसिन्धुनीरविकाशिपङ्केरुहरेणुगन्धिः ।
महोत्सवे तद्दिवि देवनुन्ना मन्द्रं मुहुर्दुन्दुभ्यो विनेदुः ॥ १०५ ॥
सभा जयन्ती च सभाजयन्ती तं राघवं माध(द)वती नुनाव ।
आकर्ण्य कर्णैः प्रणिधिप्रणीतं कठोरकोदण्डविघट्टनं तत् ॥ १०६ ॥
अभूत्स तापाय दशाननस्य सिन्धोर्यथा वाडवहव्यवाहः ।
अमानि मानापहरं नरेन्द्रैर्विश्वस्य निःश्वस्य तदा महर्षेः ॥ १०७ ॥
रङ्गेऽमुमानीतवतोऽस्य विश्वामित्रत्वमत्र स्फुरतीति चित्ते ।
चकोरवत्प्रीतियुजि क्षितीशे तदात्मजायां च कुमुद्वतीवत् ॥ १०८ ॥
पयोधिवत्कौशिकवंशदीपे तमोपहोऽराजत रामचन्द्रः ।
गुरुं गुरोश्चित्रशिखण्डिजस्य स्फूर्ति(र्त्ती)स्तिरस्कर्तुमपि क्षमं स्वम् ॥ १०९ ॥
वक्तुं स वार्तामजनन्दनाय विदेहराजः प्रजिघाय तूर्णम् ।
सा केतुभिस्तोरणमण्डलैश्च साकेतपूर्भूरिविलोकनीया ॥ ११० ॥
विलोकितायाखिललोकसारा सारामकासारवती द्विजेन ।
गृहान्निरीक्ष्याखिलसागराणां रत्नैर्विचित्रानथ नागराणाम् ॥ १११ ॥
विप्रोऽविशद्राजगृहं विशालं वियद्विभागाश्रितचन्द्रशालम् ।
प्रस्कन्दितेन स्वरथाद्यथावत्सविष्टरैः स्वागतवाक्यापूर्वैः ॥ ११२ ॥
समर्हणैः पङ्क्तिरथेन तेन सभाजितेनाशु सभाप्यभा(जि) ।
धरातुराषाहि निवेद्य पूर्वं विप्रः प्रणामं मिथिलाधिपस्य ॥ ११३ ॥
रामस्य तं विक्रममुग्रशक्तेर्व्यक्तेन वाक्येन जगाद भूयः ।
द्विजाधिपाद्वागमृतं निपीय पीयूषतः स्वादुरसं रसेन्द्रः ॥ ११४ ॥
समादिशत्सैन्यपतिं व्रजाशु प्रयाणघोषं खलु घोषयेति ।
प्रास्थानिके दुन्दुभिमन्द्रनादे समं समुज्जृम्भति दिक्षु मङ्क्षु ॥ ११५ ॥
(युग्मम्)
यथायथं क्षत्रियपुङ्गवास्ते संनह्य भेजुर्वरवाहनानि ।
मतङ्गजैः कज्जलशृङ्गितुङ्गैस्तुरङ्गमैर्निर्जितवातवेगैः ॥ ११६ ॥
वरूथिभिर्दाशरथी रथैश्च सेनाजगामाद्भुतयोधजुष्टा ।
संगच्छमानं बहुमानपूर्वमभ्यागतः सभ्यतमं तमर्च्य॑म् ॥ ११७ ॥
उपानयत्स्वं पुरमानिनाय स मैथिलः कोशलदेशनाथम् ।
धराधिपौ वासववित्तपालसमौ समाजं समये समेत्य ॥ ११८ ॥
कन्याकुमारोद्वहनोत्सवं तौ वितेनतुः स्वप्रभुतानुरूपम् ।
तां रामरामावरणे ह्यभिख्यामाख्यातुमीशः कथमेकजिह्वः ॥ ११९ ॥
शेषोऽप्यशेषाननयुग्मसंख्यैर्या तच्छतैर्वक्तुमनीश्वरः स्यात् ।
परापवादानृतदूषिताया गिरः पवित्रीकरणाय कृत्यम् ॥ १२० ॥
तितिक्षुभिः क्षाम्यमिदं कवीन्द्रैः शुकस्य मे यद्गरुडायितं स्यात् ।
अपारसंसारपयोधिपूरे निमज्जतां नैकजनुस्तनूनाम् ॥ १२१ ॥
पोतायितै रामगुणेरुदारैर्भूयात्कृतार्था मम भारतीयम् ।
त्वन्नाम रामाखिलकामधाम निष्कामनिःश्रेयसदं वदन्ति ॥ १२२ ॥
मा सन्तु तेषां यमयातनास्ता या इन्द्रवज्रादपि दुःसहाः स्युः ।
नयद्द्रवीभूतमभूतपूर्वमुदाहृदाविष्कृतशान्ति पुंसाम् ॥ १२३ ॥
भवत्कथाकर्णनमाधुरीभिरुपेन्द्रवज्रादपि तत्कठोरम् ।
वर्णा भवद्वर्णनपूर्णकर्णाः संसारपाथोनिधिमुत्तरन्ति ॥ १२४ ॥
किमत्र चित्रं द्विजबाहुजाद्या गतिं लभन्तेऽप्युपजातयोऽन्ये ।
त्रिभिस्त्रिपद्याश्रितचारुवृत्तैः कृतं यथाबुद्धि मया बुधैस्तत् ।
विलोकनीयं रघुनन्दनस्य यतो यशो लोकगुरोर्गुरुत्वात् ॥ १२५ ॥
श्रीधीरपीताम्बरनन्दनेन कृता सकृत्सत्कविवन्दनेन ।
हृत्सारिसारस्वतदिव्यधाम्ना काव्यं प्रणीतं हरिकृष्णनाम्ना ॥ १२६ ॥
श्यामा कामाभिरामा सविधगततडित्कामरामाभिरामा(म)-
श्यामावामाक्षिदृष्टा सकलजनमनःप्रीतिकादम्बिनीव ।
विभ्राजद्भूरिभूषामणिकिरणहरीष्वासशोभा विवाहे
जीयात्पुत्र्या धरित्र्याः सह बहलगुणस्रग्धरा राममूर्तिः ॥ १२७ ॥
इति श्रीहरिकृष्णभट्टविरचितं जानकीस्वयंवरं काव्यं समाप्तम् ।