सामग्री पर जाएँ

सिद्धित्रयम्

विकिस्रोतः तः
सिद्धित्रयम्
[[लेखकः :|]]

सिद्धित्रयं


आत्मसिद्धिः

ईश्वरसिद्धिः

संवित्सिद्धिः

आत्मसिद्धिः[सम्पाद्यताम्]

सिद्धाञ्जननामकव्याख्योपेता ।

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।

वस्तुतामुपयातो%हं यामुनेयं नमामि तम् ।। 1 ।।

मूलम्

प्रकृतिपुरुषकालव्यक्तमुक्ता यदिच्छा-

मनुविदधति नित्यं नित्यसिद्धैरनेकैः

स्वपरिचरणभोगैः श्रीमति प्रीयमाणे

भवतु मम परस्मिन् पुरुषे भक्तिभूया ।। 1 ।।

व्याख्यानम्

जगज्जन्मस्थितिलयै रममाणं परात्परम् ।

स्वामिन् सर्वजगतां श्रियःपतिमुपास्महे ।। 1 ।।

ज्ञानवैराग्यभक्तीनां शेवधिं करुणार्णवम् ।

यामुनार्थं मुनिवरं परमाचार्यमाश्रये ।। 2 ।।

श्रीभाष्यादिप्रबन्धेन तत्त्वं सन्दर्शयन् परम् ।

रामानुजार्यो भगवान् दयता मयि संश्रिये ।। 3 ।।

देशिकेन्द्रदयासारमवलम्ब्य विधीयते ।

सिद्धित्रयस्य व्याख्यानं रीत्या सरलया मया ।। 4 ।।

क्क यामुनार्यश्रीसूक्तिसन्दर्भः क्क च मे मतिः ।

अत्यल्पविषया%थापि चापलं त्वपराध्यति ।। 5 ।।

विशिष्टद्वैतसिद्धान्तनिर्धारणधुरन्धराः ।

संश्रितेषु दयासारा देशिकाः शरणं मम ।। 6 ।।

वात्स्यं श्रीवादिभीकृद्गुरुकुलतिलकं कृष्णमार्यं गुणाढ्यं

तातं मन्नप्रदं मे द्रविडनिगमसूक्त्यर्थसन्दर्शकं तम् ।

नत्वा रामानुजार्यं गुरुवरमपि मे भाष्यकृद्वंशदीपं

हारीतं चारुकीर्तिं बुधकुलतिलकं यामुनोक्तीर्विवृण्वे ।। 7 ।।

श्रीमन्नागपुराभिख्याभिजनो वादिभीकरः ।

अण्णङ्गरार्यदासो%हं विवृणोमि गुरोर्गिरः ।। 8 ।।

अथ खलु भगवान् श्रीमद्यामुनमिनिः श्रीवैष्णवसंप्रदायप्रवर्तकाचार्येषु प्रथमपरिगाणितस्य योगरहस्यन्यायतत्त्वशास्त्रप्रणेतुर्भगवतः श्रीमन्नाथमुनेः पौत्र ईश्वरमुनितनुजन्मा विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरः प्रतिवादिवारणप्रकटाटोपविपाटनक्षमः परमाचार्य आत्मसिद्धिनामकं वेदान्तप्रकरणमुपक्रममाणो%विघ्नपरिसमाप्तिप्रचयगमनादिफलं मङ्गलमाशीरूपं वस्तुनिर्देशं च कुर्वाणः शिष्यशिक्षायै निबध्नाति "प्रकृती" ति । प्रकृतिर्माया, तत्कार्याणि समष्टिव्यष्टिरूपाणि व्यक्तानि, प्रकृतिप्राकृतपरिणामहेतुः कालः, तद्बद्धो जीवराशिश्रेति लीलाविभूतिस्थाः सर्वे सङ्गृहीताः शब्दचतुष्टयेन । मुक्ताः भगवदुपासनाप्रभावाद्भवबन्धनात्कर्मपाशप्रग्रथिताद्विनिर्मुक्ताः । एते प्रकृत्यादयो यस्यैव परमपुरुषस्येच्छां सङ्कल्परूपां सदा समनुसरन्ति स्वरूपस्थितिप्रवृत्तिषु, तस्मिन् पूरुष इत्यन्वयः । इमानि च

सर्जनावनसंहरणसंसारविमोचनानि सङ्कल्पैकनिष्पाद्यानि भगवतो लीलारसाय कल्पन्ते । एवं लीलाविभूतियोग उक्तः । अथ नित्यविभूतियोगमाह "नित्य" मिति । नित्यमिति पूर्वोत्तरयोरन्वितं मध्यमणिन्यायेन । सदोद्भूतापहतपाप्मत्वादिस्वरूपैः सर्वज्ञैर्भगवदनुभवजनितप्रीतिकारिताशेषशेषवृत्त्यन्वयत एवाधिगतभोगैरनन्तैरनन्तगरुडविष्वक्सेनादिभिर्नित्यसूरिभिः श्रीमति महावैकुण्ठे दिव्ये%क्षरे धाम्नि सदा निरतिशयप्रीतिमनुभवति नारीणामुत्तमायाः श्रियो वल्लभे पुरुषोत्तमे परब्रह्मणि मम भक्तिप्रचयो भूयादित्याशंसा । उभयविभूतिनाथे रमानाथे भक्तिर्हि सर्वश्रेयस्करी । तत्तद्भक्त्याशंसनमुचिततरम् । भक्तिरेव भगवति प्रार्थ्या चेतनैः । स हि स्वयमेव श्रेयो विदधाति । तत्तस्मिन् श्वश्रेयःप्रार्थना नोचिततरा भक्तानामिति चानेन ज्ञाप्यते । अचेतनभेदश्चेतनभेदश्च परमार्थतः, श्रीमन्नारायणस्यैव पारम्यं, सर्वचेतनाचेतनानां तद्विभूतित्वं, निरतिशयप्रेमगर्भतदुपासनस्यैवापवर्गहेतुत्वमविच्छिन्नपूर्णभगवदनुभवगर्भसेवाया एव परमपुमर्थत्वं चेति स्वाभिमताः प्रकरणार्था अत्र संसूचिताः ।। 1 ।।

विरुद्वमतयो%नेकाः सन्त्यात्मपरमात्मनोः ।

अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ।। 2 ।।

संमतं हि सर्वसमयेषु आत्मज्ञानं निःश्रेयसहेतुरिति । श्रूयते च "पृथगात्मानं प्रेरितारं च मत्वा जुष्टुस्ततस्तेनामृतत्वमेति" "आत्मानं चेद्विजानीयात्" "तरतिशोक- मात्मवित्" "ब्रह्मविदाप्नोति पर" मित्यादिः परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयन् वेदान्तवाक्यगणः ।

तत्रास्मिन्नात्मनि परस्मिंश्चानेकविधा विप्रतिपत्तयः तीर्थकराणाम् । तद्यथा - आत्मविषये तावत् देहमेव केचिदात्मानमाचक्षते । इन्द्रियाण्यन्ये । मन इत्यन्ये । प्राणमपरे । अध्यस्तज्ञातृ भावमनहङ्कारं बोधमात्रमितरे । देहेन्द्रियमनःप्राणबोधविलक्षणमाकाशादिवदचित्खभावमागन्तुकबोधसुखदुःखाद्यसाधारणगुणाधारमहङ्कारगोचरमपरे । अपरे तु बोधैकस्वभावमेव, स्वभावधवलमिव स्फुटिकमणिमुपधानविशेषापादितारुणिमगुणादिनिर्भासमन्तःकरणोपधानापादितरागद्वेषसुखदुःखाद्यशिवगुणनिर्भासमनुदितावस्तमितस्वरूपप्रकाशं स्वयंज्योतिषमिममभिदधति । अन्ये तु ज्ञानानन्दस्वभावम् । आश्रयानुकूल्यप्रतिलब्धानन्दसुखादिव्यपदेशबोधविशेष एवास्य स्वाभाविक इत्यन्ये । तथा - अनुमानसमधिगम्यः ; आगमैकवेद्यः ; मानसप्रत्यक्षवेद्यः ; ग्राहकतयैव सकलविषयवित्तिषु प्रत्यक्षः ; ज्ञानस्वभावतयानुदितानस्तमितस्वरूपप्रकाशः स्वयंज्योतिः ; ईदृशो%प्युगमानुमानयोगजप्रत्यक्षैः स्वेतरसकलविलक्षणस्वाभाव्येन विशदविशदतरविशदतमतया%न्ततो यथावदपरोक्ष्यत इति ।

तथा - परममहान् ; अणुपरिमाणः ; शरीरपरिमाणः ; स्वतः परिमाणरहितो%पि व्याप्यवस्तुपरिमितिकृतपरिच्छेद इति । व्याप्तिरपिचैतन्यमात्रेण ; स्वरूपेणेति । तथा क्षणिकः ; यावच्छरीरोष्मस्तायी ; आप्रकृतप्रलयावस्थीयी ; आमोक्षस्थायी ; कूटस्थो नित्य इति । सर्वशरीरेष्वेकः ; प्रतिक्षेत्रं नानाभूत इति च तथा तथा प्रतिपद्यन्ते ।

तथा परमात्मविषये%पि - केचित् समस्तवस्तुसाक्षात्कारिणं सर्वशक्तिमीश्वरमेव नाभ्युपगच्छन्ति । अभ्युपगच्छन्तो%प्येके प्रत्यस्तमितमितिमानमातृमेयेश्वरेशितव्यादिभेदविकल्पकूटस्थविज्ञा नैकरसमनाद्यविद्योपदर्शितवियदादिभेदावच्छिन्नज्ञानैश्वर्यादिमहिमविक

ल्पतया काल्पनिकमाचक्षते । अपरे तु यथोक्तस्वरूपमेवाविद्योपधानेन तद्गुणसारतया प्रकल्पितब्रह्मादिस्थावरपर्यन्तविविधजीवभेदं स्वाधीनविचित्रवर्तस्वभावमायोपहिततया समासादितसार्वज्ञ्यादिसंपदमुपहितमिममभिदधति । तथा%न्ये प्रकृष्टसत्तवोपादाननिमित्तस्वतन्त्रप्रधानपरिणामविशेषमात्रनियमनिर्वाहितर्वैश्वर्य मर्यादमाद्रियन्ते । अनुपहितमपि परिणामिनमपरे प्रतिपेदिरे । अपरिणामिनमपि स्वमायांशभूतविचित्रान्तःकरणदर्पणतलप्रतिबिम्बिततया प्रतिपन्नविश्वतैजसप्राज्ञभावं तमेकमेव चेतनमितरे रोचयन्ते । अन्ये तु

स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं स्वाभाविकनिरवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृतिसकलकल्याणगुणगणमहार्णवं पुरुषविशेषमीश्वरमातिष्ठन्ते ।

तथा तद्विशेषे%पि हरिहरविरिञ्चभास्करात्मना अनभिमत तत्तन्मूर्तिपरित्यागेन च चतुस्रिद्व्येकमूर्तितया विवदन्ते । मूर्तिविशेषविषयाश्च नित्यत्वानित्यत्वभोतकत्वाभौतिकत्वस्वार्थपरार्थत्वादिवितर्काः प्रादुर्भवन्ति ; परिजनस्थानादिगोचराश्च । तथा प्रमाणतो%पि - आनुश्राविक एवेत्येके । आनुमानिकश्चेत्यन्ये । विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे ।

तथा आत्मपरमात्मनोः संबन्धे%पि - अनाद्यविद्योपादानभेदास्पदो%यमीश्वरेशितव्यतादिरूपसंबन्धः । परमार्थतत्स्वेकं तत्त्वमिति केचित् । व्यतिरेकाभावे%प्यतिरिक्तो जीव इत्यन्ये । स्वतस्त्वैक्यम्, उपाधितो भेद इति विशिष्टस्वरूपभावेन भिन्नाभिन्नत्वमितरे । नानात्वे सत्येवा%भेदो नामान्वयः अंशाशिभावलक्षणः, समवायः परतन्त्रतालक्षणः, शेषशेषित्वरूपः, स्वस्वामिभावः, भृत्यस्वामिलक्षण इति च नानाविद्या वादाः ।

तथा परमपुरुषार्थभूते ब्रह्मप्राप्तिलक्षणमोक्षे%पि - स्वरूपोच्छित्तिलक्षणः, अविद्यास्तमयलक्षणः, निशेषवैशेषिकात्मगुणोच्छेदलक्षणः, कैवल्यरूपः, तद्भावसाधर्म्यलक्षणः, तद्गुणसङ्कान्तिलक्षणः, चत्थायापत्तिलक्षणः, सांसिद्धिकानन्दादिस्वरूपाविर्भावलक्षणः, तद्गुणानुभवजनितनिरतिशयसुखसमुन्मेषोपनीतात्यन्तिकतत्किङ्करत्वलक्षण इति तथा तथा विवदन्ते ।

तत्साधनतो%पि - कर्मयोगलभ्यः, ज्ञानयोगलभ्यः, अन्यतरानुगृहीतान्यतरलभ्यः, उभयलभ्यः, उभयपरिकर्मितखान्तस्यैकान्तिकात्यन्तिक भक्तियोगलभ्य इति ।

तदेवमनवसितविशेषविमर्शकजनविमतिदर्शनात्, तत्त्तत्पक्षसाधनबलाबलानगमाच्च ततस्ततः सन्दिहानाः प्रेक्षावन्तो न तावत्परमपुरुषार्थाय घटेरन्, यावदयमात्मा परमात्मा च स्वरूपतः प्रमाणतः संबन्धतः प्राप्तितः तत्साधनतश्च न निर्णियेतेति तत्प्रतिबोधायेदमारभ्यते ।

यद्यपि भगवता बादरायणेनेदमर्थान्येव सूत्राणि प्रणीतानि । विवृतानि च तानि परि

मितगम्भीरभाषिणा द्रमिडभाष्यकृता । विस्तृतानि च तानि गम्भीरन्यायसा(ग)रभाषिणा श्रीवत्साङ्कमिश्रेणापि । तथापि आचार्यटङ्क-भर्तृप्रपञ्च-भर्तृमित्र-भर्तृहरि-ब्रह्मदक्तशङ्कर-श्रीवत्साङ्क-भास्करादिविरचितसितासितविविधनिबन्धन श्रद्धाविप्रलब्धबुद्धयो न यथावत्, अन्यथा च प्रतिपद्यन्त इति युक्तः प्रकरणप्रक्रमः ।। (इत्युपोद्धातप्रकरणम्)

प्रकरणारम्भप्रयोजनसभिधत्ते "विरुद्धे"ति । आत्मपरमात्मविषये हि नाना विप्रतिपत्तयः सन्ति । मतीनां विरुद्धत्वं विरुद्धारकारावगाहित्वम् । यतो मुमुक्षूणामात्मपरमात्मतत्त्वं जिज्ञासमानानां तद्विषये वादिविवादिनिमित्ता विप्रतिपत्तयः सन्ति, अतस्तत्परिशुद्ध्यर्थं - आत्मपरमात्मतत्त्वमतेः तत्तद्वादप्रयुक्तासद्विरुद्धाकारप्रकारकत्वरूपदोषनिरसनेन यथावस्थिताकारावगाहित्वलक्षणशुद्धियोगसंपादनार्थमात्मसिद्धिनामकं प्रकरणं विरच्चते सत्प्रमाणतर्कैरात्मपरात्मतत्त्वनिर्णयफलमिर्यर्थः । परावरात्मतत्त्वं प्रधानविषयः । परपक्षप्रतिक्षेपो नान्तरीयकः । आत्मतत्त्वनिर्णयश्च साक्षात्प्रयोजनमेतत्प्रकरणस्येति सूचितम् । परम्परया निःश्रेयसाभिष्वङ्गश्चास्याभिप्रेतः । विषयप्रयोजनोक्तेः संबन्धाधिकारिणौ चाक्षेपगम्यौ । एवमनुबन्धिचतुष्टयसंपत्तिरनुसंहिता । परावरात्मतत्त्वप्रतिपादकश्चुत्यन्तानुग्राहकन्यायप्रपञ्चनं प्रकरणस्यास्य मुख्यं कृत्यम् । ततश्चात्मपरमात्ममननोपयोगीदं संपद्यत इति बोध्यम् ।। 2 ।।

अनर्थकायात्मतत्त्व न को%पि प्रेक्षापूर्वकारी प्रवर्तेतेति स्वग्रन्थफलस्यास्य निःश्रेयसाभिष्वङ्गमाविष्करोति "संमत" मिति । नन्वस्तु नामा%%मज्ञानस्य मोक्षसाधनत्वम्, अतिरिक्तपरमात्मज्ञानस्य तत्कुल इत्यत्रा%%ह "श्रूयते" इति । बाह्यानां विमत्यामपि वैदिकवर्याणामात्मन इव परमात्मनो%पि तत्त्वज्ञानस्य मोक्षसाधनत्वे न विमतिरिति भावः । परात्मा-परंब्रह्म पुरुषोत्तमः श्रीमन्नारायणः । अवरात्मा-जीवात्मा । शिष्टं स्पष्टम् ।

ननु सन्धिग्धे हि न्यायप्रवृत्तिः । वेदान्तैरेव परावरात्मतत्त्वं सुनिश्चितमिति कथं तत्र शङ्का, कथंतरां च

न्यायप्रवृत्तिः ? उच्यते । श्रुतिभिरर्थावगमे%पि प्रसिद्धमतिविभवानां तीर्थकराणां विविधवादश्रवणतः श्रुतितात्पर्य एव सन्देहप्रवृत्तेः श्रुत्यर्थयाथात्म्ये%पि शङ्का संभवदुदया । इममेवा%%शयं हृदि निधायात्मतत्त्वे सन्देहसन्दोहिका विप्रतिपत्तीरुपक्षपति "तत्रे" ति । तीर्थं - दर्शनं तीर्थसाम्यात् । दर्शनं हि आन्तराज्ञानमलनिर्हरणपूर्वकं तत्त्वज्ञानरूपां शुद्धिमात्मनामुपजनयति । तत्कुर्वन्तीति तीर्थकाराः - दार्शनिकाः । तद्यथा - उक्तं विप्रतिपच्चिबाहुविध्यं यथा - येन प्रकारेण, तद्वर्ण्यत इति यावत् । "देहमेवे"ति । देहाद्यात्मत्ववादिनश्चार्वाक

भेदाः । "मन इत्यन्ये" इति । मन इत्यप्रसिद्धं किमपि केचिदात्मेत्याचक्षत इत्यर्थः । "आत्मानमाचक्षत" इत्युत्तरत्राप्यन्वेति । सौगतमतं शाङ्करमतं चाह तन्त्रेण "अध्यस्ते" ति । बोधमात्रंचैतन्यमात्रम् । अनहङ्कारम् - अहंबुद्धिशब्दाविषयम् । आविद्यमहङ्कार ग्रन्थिस्थं ज्ञातृत्वमात्मन्यारोप्यत इत्येकः पक्षः । अनादिवासनया ज्ञानस्यैव ज्ञातृभावाद्यारोप इति चापरः । तार्किकमतमाह "देहेन्द्रिये" ति । बोधः - ज्ञानम् । देहेन्द्रियमनःप्राणधीभ्यो%न्यमचैतन्यस्वरूपमागन्तुकज्ञानसुखादिविशेषगुणवन्तमहंबुद्धिशब्दगोचरमात्मानं काणादा गौतमाश्चाचक्षत इत्यर्थः । अचित्स्वभावमित्यनेनाकाशादेरिवात्मस्वरूपस्य जडत्वं विविक्षितम् । अहङ्कारः, - अहमिति बुद्धिः शब्दश्च । साङ्ख्यमतमाह "अपरे" इति । बोधैकस्वभावमेव-बोधश्चैतन्यं, तदेव स्वो भावः स्वरूपं यस्य तम्, ज्ञानस्वरूपमेव । उपधानम्-उपोधः सन्निधानम् । इमम् - आत्मानम् । यथा स्वभावतो धवल एव स्फटिकादिर्जपाकुसुमाद्युपाधिस्निधानेनारोपिततत्तद्रक्तादिरूपेण प्रतिभासते, एवं नित्यस्वप्रकाशः स्वयंज्योतिरात्मा%न्तःकरणसन्निधानत आरोपितसुखदुःखादितद्गुणवत्तया भासते केवलम् । वस्तुतो नित्यनिर्दुष्ट एवायमिति भावः । "अन्ये त्वि" ति । मीमांसकैकदेशिनः सिद्धान्त्येकदेशिनो वा । ज्ञानानन्दौ स्वाभाविकधर्मावात्मन इत्यमीषामाशयः । सिद्धान्तिनां मतमाह "आश्रये"ति । आनन्दो%पि नातिरिक्तः, किन्तु आत्मनः अनुकूलत्वेन प्राप्त आनन्दसुखादिनिर्देशो येन, एवंभूतो ज्ञानविशेष एव सः । स एव चात्मनः स्वभावः । संसारित्वदुः खित्वादि तु कर्मोपाधिकमिति भावः । यावदुक्तोपपन्नश्चात्मेति हार्दम् । तत्तद्वाद्युक्तेषु यावदुपपन्नम्, तावदाकारवत्त्वं चात्मनः संमतमेव हि सिद्धान्ते ।

आत्मस्वरूपे विप्रतिपत्तीरूक्त्वा तद्ग्राहकप्रमाणे ता उपक्षिपति "तथाअनुमाने"ति । सौत्रान्तिकीय आनुमानिकत्वपक्षो%यम् । अनुमानं च अहंविज्ञानं सालम्बनं विज्ञानत्वान्नीलपीतादिविज्ञानवदित्याद्युदाहार्यम् । विलक्षण आतमा अनुमानगचर इति नैयायिकपक्षो वा%त्रकीर्तितः स्यात् । अग्निमविवरणानुसारात् । "आगमैकवेद्य" इति । श्रोत्रियाणां पक्षो%यम् । अहंबुद्धेर्देहालम्बनतयैवोपपत्तेः सङ्गातपरार्थत्वाद्युनुमानस्याप्रयोजकत्वादिना च शास्त्रैकगम्य आत्मैत्यमीषामाशयः । "मानसे"ति । तार्किकाणां भाट्टानां च पक्षो%यम् । "ग्राहकतैवे"ति। प्राभाकरपक्षो%यम् । ग्राहकतया-ज्ञातृतया । ज्ञानस्य त्रितयावभासकत्वाद्धटप्रत्यक्ष एव घट इव तञ्ज्ञानं ज्ञाता चात्मा प्रकाशेते इत्यमी । साङ्क्यादिमतमाह "ज्ञानस्वभावतये" ति । स्वो भावः स्वभावः स्वरूपम् । नित्यस्या%%त्मनो ज्ञानस्वरूपतया

इतरानधीननित्यस्वप्रकाशो%यमित्येते सिद्धान्तिनामाशयमाह "ईदृशो%पी"ति । विशदतमतयेत्यनन्तरं "गृहीत" इति शेषः । प्रत्यक्त्वादिनैवास्य स्वप्रकाशत्वाद्देहादिव्यावर्तकनित्यत्वाणुत्वज्ञातृत्वादिप्रकारेणा%%गमेन विशदतया, मननतो विशदतरतया, योगजप्रत्यक्षतो विशदतमतया च गृहीतो%यं मुक्तौ स्वाभाविकासङ्कुचितापरोक्षज्ञानप्रभया कास्त्नर्येनानुभूयत इत्यर्थः ।

आत्मनः परिमाणे%पि ता निर्दिशति "तथे"ति । नैयायिकपक्षमाह "परममहा" निति । तत्त्वं चापकर्षानाश्रयमहत्परिमाणम् । बिभुत्वसहचरितम् । तत्प्रतिभटं सिद्धान्तिनां पक्षमाह "अणुपरिमाण" इति । माध्यमं परमाणं मन्यमानानामनैकान्त्यवादिनां मतमाह "शरीरपरिमाण" इति । ससत्त्वैकान्त्यवादिनां साङ्ख्यानां मतमाह "स्वत" इति । परिमाणराहित्यं विभुत्वादात्मनाम् । परिमाणवत्त्वे हि परिच्छिन्नत्वमविभुत्वं प्रसज्यत इत्येषां हार्दम् । औपाधिकं चास्य परिमाणमित्याह "व्याप्ये"ति । व्याप्यान्तःकरणपरिमाणौपाधिकपरिमाणो%यं बन्धे इत्यर्थः । व्याप्तावपि तामाह "चैतन्ये"ति । स्वधर्मभूतज्ञानद्वारिकैव व्याप्तिरिति सिद्धान्तिपक्षः । यथा%न्तःकरणाधीनं परिमाणम्, तथा ज्ञानाधीनं व्यापकत्वमिति सादृश्येनोपस्तितत्वात् सिद्धान्तपक्षस्य

प्रथमनिर्देशो%त्र । "स्वरूपेणे"ति । आत्मा स्वरूपतः सर्वगत इति नैयायिकादयः । कालसंबन्धे%पि ता उपक्षिपति "तथे"ति । क्षणिकत्वं सौगतानामभिमतम् । यावच्छरीरोष्मस्थायित्वं चार्वाकाणाम् । आप्राकृतप्रलस्थायित्वं ब्रह्मदेवादीनाम्, आमोक्षस्थायित्वामौडुलोम्युपज्ञानाम् । कूटस्थनित्यत्वं नैयायिकादीनां सिद्धान्तिनां च । कूटस्थत्वम्-निर्विकारत्वम् । नित्यत्वं सर्वकालसत्ता ।

सङ्ख्यायामपि तामाह "सर्वे"ति । एकजीववादो मायावाद्येकदेशिनाम् । प्रतिशरीरमात्मभेदो नैयायिकादीनां सिद्धान्तिनां च । चकारो%नुक्तविप्रतिपत्तिसमुच्चायकः । "तथा तथे"ति । स्वस्वाभिमततत्तद्विरुद्धाकारेणात्मानं तेते वादिनो मन्यन्त इत्यर्थः । जीघात्मस्वरूपादौ विप्रतिपत्तीरुक्त्वा परमात्मस्वरूपादौ ता उपक्षिपति "तथा परमे"ति । "नानैव विप्रतिपत्तयः तीर्थकराणा"मिति शेषः । "केचि"दिति । चार्वाका बौद्धा आर्हताः कर्मडाश्चेत्यर्थः । सश्वरवादिष्वपि नैकमत्यमित्याह "अभ्युपगच्छन्तो%पी"ति । एकेकेचिदद्वैतिनः । काल्पनिकं कल्पितेश्वरभावम् । कल्पनाप्रकारमाह "प्रत्यस्तमिते"ति । कूटस्थम्-अविकारि नित्यं विज्ञानमात्रं सत्यम् । यत्रेशेशितव्यादिभेदप्रपञ्चो मातृमेयतदवच्छिन्नमितित्वादिरपि नैवास्ति । एवंभूते%धि

ष्ठाने%विद्ययैव नानाशक्तिमत्या वियदादिनाना%चित्प्रतिभासो रज्ज्वामिव सर्पाद्यवभासः । आविद्यभूतसमष्टिव्यष्ट्यवच्छिन्नज्ञानैश्वर्यादिमहिमभेदप्रतिभासश्च । तत् समष्ठ्यवच्छिन्नज्ञानैश्वर्यादिमत्तया भासमानं चैतन्यमीश्वरः । व्यष्टिरूपदेवादिदेहाद्यवच्छिन्नज्ञानादिमत्तया नानात्वेन च भासमानं तदेव जीवजातमित्येषामाशयः । अविद्याया एव जीवेश्वरभावकल्पकोपाधित्वमेतन्मते । माया%विद्योपाधिभेदवादिनां मतमाह "अपरे त्वि"ति ।

निर्भेदचैतन्यमात्रमेवाविद्योपहितं नानाजीवभावेन मायोपहितं चेश्वरभावेन परिस्फुरति । तत्रा%विद्याकृतत्वाज्जीवभेदः कामक्रोधलोभाद्याविद्यगुणप्रधानो%विद्यापरवशश्च । ईश्वरस्तु स्ववशवर्तिविविधपरिणामशीलमायाशक्त्या%धिगतसार्वज्ञ्यसर्वैश्वर्यादिमहिमेत्यमीषामाशयः । योगतन्त्रनिष्ठानामीश्वरसमादरणरीतिमाह "तथा%न्ये" इति । औ#ुपाधिकमेवेश्वरत्वमेतन्मते%पीति तथेत्यनेनाभिप्रेतम् । स्वतन्त्रप्रकृतिपरिणामविशेषस्य यो विशेषो नित्योद्रिक्तसत्त्वकत्वरूपः प्रकृष्टसत्त्वप्रधानांशोपादानत्वप्रयुक्तः, तेन संपादिता सर्वैश्वर्यव्यवस्था यस्य तमीश्वरमाद्रियन्त इत्यर्थः । सदा शुदधसत्त्वात्मकान्तःकरणादिरीश्वरोपाधिः । तदुपहितचैतन्यमात्रवपुः पुरुषविशेष ईश्वरः । उपाधिविशेषाधीनमेव तस्यैश्वर्यमिति भावः । यादवप्रकाशपक्षमाग "अनुपहितमपी"ति । सिन्धुरिव फेनबुद्बुदतरङ्गभेदेन ब्रह्मैव जडजीवेश्वरूपेण भवतीति परिणामवादो%यम् । प्रतिबिम्बवादमाह "अपरिणामिनमपी"ति । "तमेकमेव चेतन"मित्यनेन मायोपहितं चैतन्यमीश्वरः । अन्तःकरणेषु तस्यैव प्रतिबिम्बभेदा जीवा इत्याभासलक्षणत्वं जीवानां विज्ञायते । यद्वा मायायां प्रतिबिम्बितं चैतन्यमीश्वरः । तस्य मायाशभूतविचित्रान्तःकरणेषु प्रतिबिम्बभेदा जीवा इति भावः । विश्वादिर्जागृतिस्वप्नसुषुप्त्यभिमानी । सिद्धान्तिनां मतमाह "अन्ये" त्विति । त्रिविधाश्चेतनाःज्ञातृत्ववन्तो बद्धमुक्तनित्याः । त्रिविधाश्चातेतनाः - ज्ञातृत्वरहिताः प्रकृतिकालनित्यविभूतयः । ज्ञानरूपत्वे%पि नित्यविभूतेरज्ञातृत्वादचेतनत्वम् । तेषां सर्वेषां स्वस्वाकारसंपत्तिः, निष्पन्नस्वरूपाणामुत्तरोत्तरकालानुवृत्तिरूपा स्थितिः, प्रवृत्तिविशेषाश्च तत्तत्कार्यानुगुणा यदधीना एव सदा, स ईश्वरः । स च न निर्गुणः । किन्तु स्वाभाविकोत्कृष्टतमषाङ्गुण्यप्रभृत्यनन्तकल्याणगुणगणरत्नाकरः । निर्गुणत्वं चास्य हेयगन्धाभावात् । अयं च पुरुषविशेषः - त्रिविधजीवात्मविलक्षणः पुरुषोत्तमः श्रियः - पतिरित्येतेषां हार्दम् ।

पुरुषविशेष ईश्वर इत्युक्तम । स किंनामरूप इत्यपेक्षायामाह "तथा तद्विशेषे%पी"ति । ईश्वरीयनामरूपादिविषये%पि नैकमत्यं वादिनामित्यर्थः । तथाहि-एक एवैश्वरो मूर्तिचतुष्टयं

गृह्णाति कार्यवशादित्येके । त्रिमूर्तिवादिनस्त्वादित्यरूपं परित्यजन्ति । हरिहरैक्यवादिनस्तु ब्रह्मरूपमपि । शैवास्तु हर एवैश्वर इत्यभिमन्यन्ते । श्रीवैष्णवस्तु हरिरेवेत्यामनन्ति । एवं हैरण्यगर्भाणां सौराणां च तत्तदेकमूर्तिपक्षो%प्यनुसन्धेयः । ईश्वरमूर्तिगतविशेषेष्वपि विप्रतिपत्तीराह "मूर्ती"ति । सार्थत्वम् - स्वबोगसिद्ध्यर्थत्वम् । परार्थत्वम् - जीवानुग्रहैकार्थत्वम् । वितर्काः - विप्रतिपत्तयः । "परिजने"ति ।

परिजनादयः सन्ति नेति, नित्याः अनित्या इति, प्राकृता अप्राकृता इति च पक्षभेदाः परिजनस्थानादावनुसन्धेयाः । "प्रमाणतो%पी"ति । सार्वविभक्तिकस्तसिल् । प्रमाणविषये%पीत्यर्थः । शास्त्रैकप्रमाणक इत्येके । आगमानुमानप्रमाणक इत्यपरे । श्रुतो मतश्च श्रुतितो%नुमानतश्च प्रेमपूर्वानुध्यानसंस्कृतमनोग्राह्यश्चेति तु सिद्धान्तिनः ।।

अथ जीवपरयोः संबन्धे%पि विप्रतिपत्तीर्निर्दिशति "तथा आत्मे"ति । अद्वैतिनां पक्षमाह "अनादी"ति । अविद्याकृतभेदावलंबनत्वादीशेशितव्यत्वादेव्यर्विहारिकत्वमेव न परमार्थत्वमित्याशयो%मीषाम् । प्रतिबिम्बपक्षाभिप्रायेणा%%ह् "व्यतिरेके"ति । बिम्बतो भेदाभावे%पि प्रतिबिंबानां भेदप्रतिपत्त्यादिगोचरत्वलक्षणो%तिरेकोविशेषो%स्तीति भावः । भास्करपक्षमाह "स्वत" इति । स्वरूपतो%भेदः । औपाधिको भेदः । भेदाभेदयोर्विरुद्धयोः केवलस्वरूप एवासंभवादित्याशयः । यादवप्रकाशपक्षमाह "नानात्व" इति । अंशांशिभावलक्षण इत्यस्या%न्वय इ#ित्यनेन संबन्धः । अंशांशित्वाद्भेदाभेदोपपत्तिः । भेदसमानाधिकरणाभेदस्यैव तादात्म्यस्य सामानधिकरण्यार्थत्वमिति हार्दमेतेषाम् । "समवाय" इत्यादिः सिद्धान्तिना पक्षः । नानासंबन्धोपगमाज्जीवपरयोः सिद्धान्ते नानसंबन्धकीर्तनम् । अंशांशिभावलक्षण इत्यस्य सिद्धान्तपक्षत्वमपि संभवति । परतन्त्रता-अपृथक्सिद्धिः तद्रूपः समवायः, न त्वतिरिक्तो वैशेषिकमतवदिति भावः । परगतातिशयाधानेच्छाप्रक्लृप्तस्वरूपादिकत्वं शेषत्वम् । यथेष्टविनियोगार्हत्वं स्वत्वम् । प्रेर्यचेतनत्वं भृत्यत्वमिति भिदा । एतत्प्रतिसंबन्धित्वलक्षणं च शेषित्वादीति बोध्यम् । भृत्यस्वामीति भावप्रधाननिर्देशः । भृत्यस्वामित्वलक्षण इति यावत् । तथैव वा पाठः संभाव्यते ।

अथ मुक्तिस्वरूपे विप्रतिपत्तीराह "तथा परमे"ति । ब्रह्मप्राप्तिलक्षणेति स्वाभिमतोक्तिः पराभिमतानां मुक्तिस्वरूपाणां पुरुषार्थत्वायोगसूचनार्था । चार्वाकाणां शून्यवादिनां च स्वरूपोच्छित्तिपक्षः । योगाचाराणां मायिनां वा पक्षो द्वितीयः । कणादादिपक्षस्तृतीयः । विशेषः

एव वैशेषिकः । साङ्ख्यपक्षस्तुरीयः । तद्भावसाधर्म्य लक्षण इत्यद्वैतिनां स्यात् । तच्छब्दो ब्रह्मपरः । ब्रह्मभाव एव साधर्म्यं मुक्तिरिति । यद्वा - ब्रह्मरूपसाम्यप्राप्ति, ब्राह्मगुणप्राप्ति, ब्रह्मकान्तिप्राप्तिलक्षणमुक्तिभेदपरं पदत्रयम् । "सांसिद्धिके"ति मीमांसकादीनां मतम् । "तद्गुणे"त्यादि सिद्धान्तिनाम् । स्वरूपाविर्भावो%प्यत्र गर्भितः । किङ्करत्वं सेवाकरणम् ।

मुक्त्युपाये%पि ता आह "तत्साधनतो%पी"ति । कर्मज्ञानसमुच्चयपक्षो यादवप्रकाशीयः । "उभये"ति सिद्धान्तिपक्षः । कर्मयोगज्ञानयोगाभ्यां संस्कृतचेतस एव भक्तियोगो नाम परभक्तिरुदैति । कर्मज्ञानाद्यङ्गिका सैव परब्रह्मप्राप्तिलक्षणमोक्षसाधनम् । तस्याश्चैकान्तिकत्वं भगवदेकविषयत्वम् । आत्यत्निकत्वं चाविच्छिन्नत्वम् । परज्ञानपरमभक्त्योरेतद्विपाकरूपत्वमेवेति भावः ।

विप्रतिपत्तिप्रदर्शनस्य विचाराम्भोपयोगितां समर्थयति "तदेव"मिति । परीक्षकाणां विप्रतिपत्तिभेदे कस्मिंश्चिदपि वा पक्षे यावत्सत्प्रमाणतर्कमूलकत्वादिविशेषो नावधार्यते, तावत्तत्त्वे सन्देहो न निवर्तते । यावच्च निरुक्तविशेषानवधारणम्, न तावत्तत्तत्साधने व्याप्तिपक्षधर्मतायोगित्वलक्षमबलनिर्धारणम् । न च विरुद्धसाध्यसाधनयोर्वास्तविकव्याप्तिपक्षधर्मतोपपत्तिरेकस्मिन्नेव धर्मिणि । तथा च समबलतया प्रतीयमानानां नानापक्षसाधनानां सत्प्रतिपक्षभावेन साध्यनिर्णयो दुर्घटः । न चार्थसन्देहादेव मुक्तिः । तथा च पक्षभेदे जाग्रति यत्र वास्तवो विशेष इति विचारः प्राप्तावसरः । विचारेणान्यतमपक्षे विशेषावधारणे तु तत्पक्षसाधनस्याधिकबलत्वज्ञानात्सत्प्रतिपक्षभावनिवृत्तेस्तेनार्थतत्त्वनिर्णयोपपत्तिः । तत् मुक्तिसाधनोपयोग्यर्थतत्त्वनिर्णयाया%%त्मस्वरूपादिगोचरान्यतमपक्षस्य सत्प्रमाणतर्कमूलकत्वादिविशेषव्यवस्थापनपरस्य विचारग्रन्थस्या%%रम्भो युक्त एवेति समुदिताशयः ।

ननु - आत्मपरमात्मनोर्नानाविप्रतिपत्तिनिरसनार्थं पूर्वाचार्यप्रबन्धानां प्रवर्तनमेव कर्यम् । कृतं नूत्नप्रबन्धप्रणयनप्रवृत्त्येत्याशङ्कामन्तर्निधायाह "यद्यपी"ति । इदमर्थान्येव - आत्मपरमात्मतत्संबन्धाद्यर्थतत्त्वनिर्णयार्थान्येव, सूत्राणि - ब्रह्ममीमांसासूत्राणि । एषामेव मुख्यं सूत्रत्वमिति स्कान्दोक्तम् "निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ।। मुख्यस्य

निर्विशेषेण शब्दो%न्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।।" इति । "विवृतानी"ति । परिमितत्वं - शब्दसङ्क्षेपः । गभीरत्वम् - अर्थगांभूर्यशालित्वम् । द्रमिडभाष्यकृत् - द्रमिडाचार्य संज्ञकः छान्दोग्यव्यानस्य

वाक्याभिधस्य टङ्काचार्यापराभिधानब्रह्मनन्दिकृतस्य भाष्यकर्ता । ब्रह्मसूत्राणामपि बाष्यं कृतमनेनेति एतछ्रीसूक्तिसन्दर्भादवगम्यते । "विस्तृतानि चे" ति । तानि - द्रमिडाचार्यकृतब्रह्मसूत्रभाष्यवाक्यानि । "विवरणग्रन्थे" इति शेषः । तानिब्रह्मसूत्राणि वा । श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये विवरणवाक्यानि समुद्धृतानि सन्ति । "तथापी"ति । अयं भावः - यद्यपि पूर्वाचार्यप्रब्न्धेष्वध्यात्मतत्त्वं सपरिकरं निरूपितमेवास्ति, अथापि पाश्चात्यैः ब्रह्ममीमांसादिव्याख्याच्छलेन नानामतानां प्रवर्तितत्वादा चा%प्रामाण्यहेत्ववधारणात् तद्ग्रन्थेष्वपि श्रद्धायाः सिद्धान्तग्रन्थेष्विव संभवात् तेषु च विप्रतिपत्तिबाहुल्येन विचलितबुद्धयो नाञ्जसा तत्त्वज्ञानं प्राप्नुयुरिति तत्तन्मतसारासारविवेकोपयोगितत्तन्मतपरीक्षात्मकप्रकरणारम्भ आवश्यक एवेति । आचार्यटङ्कादिषु निर्दिष्टेषु केचित् सिद्धान्तिनः, अन्ये तु मतान्तरानुयायिनः स्युः । तत्प्रबन्धेषु च सितासितत्वम् - अस्फुटप्रतिपादकत्वमन्यथाप्रतिपादकत्वं च यथासंभवं योज्यम् । यद्वा - टङ्कश्रीवतस्#ाङ्कावपि अत्र निर्दिष्टौ मतान्तरस्थौ वाक्यविवरणकर्तृभिन्नौ स्याताम् । वाक्यकर्तुर्टङ्कसंज्ञा च वेदार्थसङ्ग्रटीकातो%वगम्यते । "तत्प्रतिपत्तये चे"ति । केचिदस्फटतया%र्थतत्त्वमवगच्छन्ति, केचित्पुनः केनापि हेतुना मतान्तरग्रन्थेषु श्रद्धालवो%त एव वञ्चितबुदधयो%न्यथैव प्रतिपद्यन्त इति स्फुटप्रतिपत्तये अन्यप्रबन्धानां सितासितत्वप्रतिपत्तये च प्रकरणारम्भो युक्त एवेत्याशयः । पूर्वाचार्यप्रबन्धानां शास्त्ररूपाणां प्रकरणमिदमात्मसिद्ध्यादीति च हार्दम् । प्रकरणं चेदं शारीरकमीमांसायाः, न्यायतत्त्वशस्त्रस्य च । शास्त्रैकदेशार्थप्रतिपादनतत्परत्वे सति शास्त्रार्थप्रतिपत्त्युपयोगि (विरोधिमतनिरासादि) कार्यान्तरव्यापृतिमत्त्वं प्रकरणत्वम् । तदुक्तम् "शास्त्रै कदेशसंबद्ध शास्त्रकार्यान्तरे स्थितम् । मतं प्रकरणं नाम" इति ।।

प्रथमं तावदात्मतत्त्वमुपवर्णयति "तत्रे"ति । "देह" इति । निरूपणीयतयोपक्षित्पेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः । धीः - विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतम् । तदाधारत्वात्तद्विलक्षणत्वम् । अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सो%नन्यसाधनः । नित्यत्वमुत्पत्तिविनाशरहितत्वम् । व्यापीत्यनेनाणुसूक्ष्मत्वं फलितम् । स्वतः सुखी - स्वरूपत एवानुकूलप्रकाशलक्षण सुखवान् । सुखस्वरूप इति यावत् । यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ।। 3 ।।

तत्र - देहेन्द्रियमनःप्राणधीभ्यो%न्यो%नन्यसाधनः ।

नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ।। 3 ।।

ननु देहमेवात्मानं प्रत्यक्षतः प्रतिद्यामहे । अहं जानामीति ज्ञाता ह्यात्मा अहमिति चकास्ति । देहश्चाहङ्कारगोचरः, स्थूलो%हं कृशो%हमिति दर्शनात् । देहस्य हि स्थौल्यादियोगः । अतस्तत्समानाधिकरणतया%यमहङ्कारः शरीरालम्बन इत्यवश्याश्रयणीयम् । इतरथा सकललौकिकपरीक्षकव्यवहारोपरोधश्च । न चायं लाक्षणिको व्यवहारः, मुख्यवृत्तिभूमेः पृथगसिद्धत्वात् । न चानेकावयवयोगिशरीरालम्बनत्वे ज्ञात्रवभासस्य तदीयरूपावयवाद्यवभासेनान्वयिना भवितव्यम्, येन तदन्वयाभावात् जानामीति प्रत्ययः शरीरातिरिक्तमवगमयेत् । बाह्येन्द्रियप्रत्यक्ष एव तथा नियमदर्शनात् । स्वान्त स्या%%न्तरगुणाधारतावभास एव सामर्थ्यनियमात् । अनवधृतावयवविशेषस्याप्यनेकावयवयोगिनो महिमगुणशालिनः त्र्यणुकस्य प्रथमप्रत्यक्षाभ्युपगमात् । वायोश्च त्वगिन्द्रियेण स्पर्शाधिष्ठानमात्रतयोपलम्भदर्शनाच्च । देहव्यतिरिक्तात्मगोचरत्वे%पि यथा तदीयगुणान्तराग्रहणम्, तथेहापि । यथा तत्र बाह्यप्रत्यक्षगोचर एव सङ्क्यापरिमाणादिग्रहणनियमः ।

एवं च प्रत्येकं परमाणुषु चैतन्यानुपलब्धेः, तदभ्युपगमे चैकशरीर एवानेकसहस्रचेतनापातात्, अकारणगुणपूर्वकस्य कार्यद्रव्यवर्तिनो विशेषगुणस्यासम्भवान्न शरीरविशेषगुणश्चेतन्यम्, अयावच्छरीरभावित्वाच्चेत्यादयो%नुमानबेदाः प्रत्यक्षबाधितविषयतया न पराक्रमितुं क्षमन्ते । विशेषगुणत्वे च

प्रीतिषिध्यमाने देहगुणत्वाभ्यु पगमप्रसङ्गश्च । अपि चेच्छानुविधायिक्रियत्वेन्द्रियवत्त्वादयः शरीरे दृश्यमानाः संप्रतिपन्नाचैतन्याद्धटादेरत्यन्तव्यावर्तमानाः शरीरमेव चेतनमवगमयन्ति । क्रमुकफलताम्भूलदलावयवादिषु प्रत्येकमविद्यमानस्यापि रागस्येवावयविनि संयोगविशेषात्, देहारम्भकपरमाणुसंश्लेषविशेषादेव देहे चैतन्यस्याप्याविर्भावो नानुपपन्नः । चर्वणजनितहुतवहसंयोगसंपादितपाटलिमभिः परमाणुभिद्र्व्यणुकादिक्रमेण कारणगुणपूर्व एव तत्र रागोदय इति चेत्; न; प्रमाणाभावात् । अपि च सितासितादितन्तुषु प्रत्येकमविद्यमानमपि चित्ररूपं विशेषगुणं तदारब्धे पटे स्फटमुपलभमानाः कथं कारणगुणपूर्वकत्वमुक्तगुणस्याध्यवस्येम ? । न चावयरूपातिरेकेणावविनि चित्रं नाम रूपान्तरं नास्त्येव । अवयविनो%चाक्षुषत्वप्रसङ्गात् । अवयवरूपैरेव तदुपपादने सर्वमेव कार्यद्रव्यं नीरूपमापद्येत् । अनुभवविरेधः, सर्वव्यवहा

रविरोधश्च । विशषगुणश्च काठिन्य करकद्रव्यवर्ति अकारणगुणपूर्वकं दृश्यत इत्यनेकान्तश्च । न च संयोगविशेषः काठिन्यम् ; तस्य द्विष्ठत्वात् ; अस्य तु करकद्रव्यैकवर्तित्वात् ; स्पर्शविशेषतया पदार्थविद्भिरभ्युपगमाच्च । दृश्यस्य देहस्य कथं द्रष्टृत्वमिति चेत् ; को विरोधः? । अयमेव यदेकस्यां क्रियांयामेकस्य कर्मत्वं कर्तृत्वं च न घटत इति । यद्येवम्, व्यतिरेकवादे वा कथमात्मनि अहमिति प्रत्ययः । रूपभेदादिति चेत्, समानमिदं देहात्मवादे%पि । अपि च परसमवायिक्रियाफलगामि कर्म । स्वसमनेतज्ञानफलभागिनः शरीरस्य कर्मत्वमेव नास्तीति न पर्यनुयोगावकाशः । अतो देह एवात्मेति बार्हस्पत्याः । तथाच " पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यं, किण्वादिभ्यो मदशक्तिवत् " इति सूत्रम् ।

प्रथमं तावदात्मतत्त्वमुपवर्णयति "तत्रे"ति । "देह" इति । निरूपणीयतयोपक्षिप्तेषु घटकीभूत आत्मा देहादितो विलक्षणः स्वयंप्रकाशः नित्यः सूक्ष्मतया सर्वव्याप्तिक्षमः प्रतिशरीरं भिन्नः आनन्दस्वभाव इत्यर्थः । धीः - विषयप्रकाशकं ज्ञानमात्मनो धर्मभूतम् । तदाधारत्वात्तद्विलक्षणत्वम् । अनन्येन स्वेन साधनं सिद्धिः प्रकाशो यस्य सो%नन्यसाधनः । नित्यत्वमुत्पत्तिविनाशरहितत्वम् । व्यापीत्यनेनेणसूक्ष्मत्वं फलितम् । स्वतः सुखी - स्वरूपत एवानुकूलप्रकाशलक्षणसुखवान् । सुखस्वरूप इति यावत् । यद्वा स्वाभाविकमानन्दित्वमस्य; दुःखित्वं त्वौपाधिकमेवेति भावः ।। 3 ।।

उक्तमात्मतत्त्वमसहमानः शरीरात्मवाती चार्वाकः प्रत्यवतिष्ठते "ननु देहमेवे"ति । प्रत्यक्षं हि मुख्यं प्रमाणम् । न च तदतिलङ्घनेन कश्चनार्थः साधयितुं शक्यते । प्रत्यक्षं च सथौल्यादियोगिनं देहमेव ज्ञातारमहमर्थमात्मानं प्रतिपादयतीति देह एवात्मेति भावः । देहस्यैवाहंबुद्धिविषयत्वमुपपादयति "देहश्चे"त्यादिवाक्यद्वयेन । "अत" इति । तत्समानाधिकरणतया-देहाभिन्नार्थविषयकतया । इत्थं भावे तृतीया । अयमहङ्कारः - स्थूलो%हमित्यहप्रत्ययः प्रत्यक्षरूपः । शरीरालम्बनः - शरीरविषयकः । शिष्टं स्पष्टम् । प्रत्यक्षातिक्रमे दोषमाह "इतरथे"ति । प्रत्यक्षमूला हि व्यवहाराः समुपलभ्यन्ते पण्डितपामरसाधारणा अर्थक्रियाकारिमो मुख्या एव । तद्विरोधः प्रत्यक्षातिक्रमे प्रसज्यत इत्यर्थः । ननु "स्थूलो%हं जानामी"ति प्रतीतिर्भ्रान्तिरेव पामराणाम् । पण्डितानां त्वरितिक्तात्मगोचरैवाहं जानामीति । अहं स्थूल इति तु व्यवहारः पण्डितानां लाक्षणिक इत्याशङ्कामनूद्य प्रतिक्षिपति "न चाय"मिति । अयं व्यवहारो लक्षणिक च नेत्यन्वयः । वाच्यमिति शेषः ।

प्रतिक्षेपयुक्तिमाह "मुख्ये"ति । अहंपदशक्तिविषयस्य देहव्यतिरिक्तस्यानुपलम्भनिरस्तत्वाद्देह एव मुख्यत्वमहम्प्रत्ययव्यवहहारयोरिति भावः । जानाम्यहमिति ज्ञातृत्वप्रतीतेर्देहगोचरत्वे%नुपपत्तिमाशङ्कते "न चे" त्यादिना । अन्वयिना - नियतेन । सावयवार्थप्रत्यक्षत्वव्यापकं तदवयवादिप्रकाशकत्वमिति नियमो नेति भावः । सति नियमे यत्प्रसक्तं तदा "येने"ति । इति सिध्येदिति शेषः । तदन्वयाभावात्-शरीरावयवादिप्रकाशान्वयाभावात्तदप्रकाशकत्वाच्छरीरातिरिक्तमेवावगमयेदहं जानामीति । न तु शरीरं सावयवमिति नियमफलम् । ज्ञातृत्वप्रत्यक्षं शरीराविषयकम्, तदवयवाविषयकत्वात् । यद्यदक्यविविषयं तत्तद्वयवगोचरम्, यथा घटादि प्रत्यक्षमित्यत्र प्रयोगे निरुक्तनियमस्योपयोगः । निरुक्तनियमस्यासंभवे हेतुमाह

"बाह्ये"ति । सहचारदृष्टेर्हि नियमविज्ञानम् । सहचारश्च बाह्यप्रत्यक्ष एव दृष्ट इति तद्विषय एव निरुक्तनियम इति भावः । ननु भवतु सहचारदर्शनं बाह्य एव । नियमस्त्वसङ्कोचात्प्रत्यक्षमात्रागोचरो%स्त्वित्यत्राह "स्वान्तस्ये"ति । आन्तरो गुणो ज्ञानसुखादिर्योग्यः । तदाधारत्वमात्रेण धर्म्यवभासकत्वं मनसः । नतु धर्मान्तरस्य । बहिरस्वातत्र्यान्मनसः । तथाच रूपसावयवत्वदिग्रहासंभवात् मनसा ज्ञातृत्वमात्रेण शरीरग्रह इति प्रत्यक्षसामान्ये नियमो नोपसंहर्तुं शक्यत इति भावः । बाह्यत्वे%पि शरीरस्य ज्ञानाद्युपरागोणान्तरत्वमित्यभिमानः । अवयविगोचरबाह्यप्रत्यक्षत्वव्यापकं तदवयवगोचरत्वमिति नियमे%पि व्यभिचारमाह "अनवधृते"ति । त्र्यणुकचाक्षुषे%तीन्द्रियत्वेन तदवयवस्याग्रहाव्द्यभिचार इति भावः । अनेकावयवयोगिनः - अनेकावयवसमवेतस्य, स्वसमवेतसमवायेनानेकावयवविशिष्टस्य । महिमगुणशालिनः - महत्परिमाणवतः । त्रसरेणुप्रत्यक्षानन्तरं चाक्षुषद्रव्यत्वादिना तस्य सावयवत्वानुमानादुपनीतद्व्यणुकभानं द्वितीयादित्र्यणुकप्रत्यक्षे संभवतीति व्यभिचारस्थलं त्र्यणुकप्रत्यक्षं प्रथमत्वेन विशेषितम् । ननु योग्यावयवकावयविबाह्यप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमो%स्त्विति चेत्तत्रापि तं दोषमाह "वायोश्चे"ति । स्पर्शवत्त्वमात्रेण वायुस्पार्शने तदवयवविषयकत्वाभावात्तत्र व्यभिचारो निरुक्तनियमस्येति भावः । सत्येवावधाने वाय्ववयवादिग्रहः । अन्यदा तु त्वक्सन्निकृष्टस्य वायोः स्पर्शवत्त्वेनैवोपलम्भ इत्यभिमानः । अहंजानामीति प्रतीते रूपाद्यविषयत्वेन शरीराविषयत्वसाधने%प्रयोजकत्वमाह "देहव्यतिरिक्ते"ति । ज्ञातृत्वप्रतीतेरित्यादिः । तदीयगुणान्तरम् - आत्मनिष्ठसङ्ख्यादि । "तथेहापी"त्यनन्तरमुपपद्यत इति शेषः । अयं भावः - द्रव्यग्राहीन्द्रियस्य योग्यसन्निकृष्टतद्गुणग्राहकत्वमिति नियमः । तथा चातिरिक्तात्मंवादे यथा सङ्क्या

दीनां तद्गुणानामयोग्यत्वान्न मनसा ग्रहः एवं देहात्मवादे%पि तदीयरूपादेरयोग्यत्वादेव न मनसा ग्रह इति । न च रूपवद्द्रव्यप्रत्यक्षे रूपग्रहणं नियतमिति वाच्यम् । घटादिस्पर्शने%नैकान्त्यान् । "यथा तत्रे"ति । यथा तत्र - अतिरिक्तात्मवादे बाह्यप्रत्यक्ष एव द्रव्यग्राहिणस्तद्गतसङ्क्यादिग्राहित्वमिति नियम्यते, तथा देहात्मवादे%पि नियम्यतामिति भावः । "तथेहापी"ति पुनरनुसन्धेयम् ।

एवमहं जानामीति प्रत्यक्षस्य देहविषयकत्वं समर्थितम् । अनेन देहचैतन्यबाधकानुमानानां बाधितत्वमाह "एवं चे"ति । चैतन्यं न शरीरविशेषगुणः आकारणगुणपूर्वकतत्वात्, अयावद्द्रव्यभावित्वाद्वा संयोगवदिति देहचैतन्ये बाधकमनुमानम् । तत्र प्रथमहेतोरसिदिं्ध परिहरति "प्रत्येक"मित्यादिना । ननु परमाणुषु देहारंभकेषु चैतन्यं मास्तु । येनानेकचेतनप्रसङ्ग एकस्मिन् देहे । अकारणगुणपूर्वकश्च रूपादिः पाकजो दृष्टः । तद्वद्भवतु चैतन्यमित्यत्राह "कार्यद्रव्ये"ति । पीलुपाको%त्राभिमतः । तथा च कार्यद्रव्यविशेषगुणत्वव्यापकं स्वसमवायिसमवायिवृत्तिसजातीयगुणासमवायिकारणकत्वरूपं कारणगुणपूर्वकत्वम् । व्यापकनिवृत्त्या च चैतन्ये शरीरविशेषगुणत्वस्य निवृत्तिरिति भावः । द्वितीयानुमाने च यो यः कार्यद्रव्यविशेषगुणः स स यावद्द्रव्यभावीति सामान्यतो व्यतिरेकव्याप्तिः पीलुपाकनयेन वाच्या । "इत्यादय" इत्यादिपदेन चैतन्यं न देहस्य विशेषगुणः तन्निष्ठविशेषगुणान्तरवैधर्म्यादित्यनुमानं ग्राह्यम् । न पराक्रमितुं क्षमन्तेदेहचैतन्यं बाधितुं न प्रगल्भन्ते । कुतः ? प्रत्यक्षबाधितविषयतया । प्रत्यक्षबाधेन निरुक्तानुमानानामेव नोदयः

संभवति । प्रबल उपजीव्यत्वेन प्रत्यक्षप्रमाणबाधनं च दुर्बलैरेतैरनुमाननैर्दुष्करमिति भावः । अयावद्द्रव्यभाविनामकारणगुणपूर्वकाणामपि संयोगादीनां शरीरगुणत्वदृष्टेर्निरुक्तहेतुभिरपि चैतन्ये शरीरगुणत्वस्याभावो न साधयितुं शक्यत इत्याशयेनाह "विशेषे"ति । शरीर एवोपम्भाच्चैतन्यं तद्गुण एव । निरुक्तहेतुभिस्तद्विशेषगुणत्वनिषेधने%पि न क्षतिः । परिभाषिकं हि विशेषगुणत्वम् । भावनान्यो यो वायुवृत्तिवृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं विशेषगुणत्वमित्यत्र गरुत्वादेरेव ज्ञानादेरप्यन्यत्वं प्रक्षिप्यतामिति भावः । अकारणगुणपूर्वकत्वादिहेतूनामप्रयोजकत्वाच्छरीरविशेषगुणत्वे%पि ज्ञानार्दने क्षतिरित्यभिप्रयन्नाह "अपि चेच्छे"ति । शरीरविशेषगुणान्तरवैधर्म्याज्ज्ञानस्याशरीरविशेषगुत्वं चेदिष्यते, तर्हि संप्रतिपन्नाचेतनघटादिविधर्मत्वाद्देहस्य चैतन्यवत्त्वमेव कुतो नेष्यते लाघवादिति भावः । इन्द्रियवात्त्वादय इत्यादिपदेन प्राणवत्त्वं ग्राह्यम् । इच्छानुविधायिक्रियत्वं - साक्षादिच्छाधीनप्रवृत्तिमत्त्वं देहस्य । घटादेस्तु देहव्यापारद्वारकमेव तदिति भावः । शरीरं चेतनावत् इच्छानुविधायिक्रियत्वादिन्द्रियादिमत्त्वाद्वा यन्नैव तन्नैवं यथा

घटादीति व्यतिरेकानुमानं च देहस्य चैतन्ये%त्र वाक्ये गर्भितम् । कार्यद्रव्यविशेषगुणत्वस्य कारणगुणपूर्वकत्वव्याप्तावनैकान्त्यमप्याह "क्रमुके"ति । क्रमुकफलसंमिश्रिचूर्णकोपलिप्तताम्बूलपत्रस्य दन्तसङ्घट्टनैः पूर्वावयवविनाशे तदवयवानां संश्लेषविशेषतो निष्पन्ने पिण्डितावयविनि रक्तं रूपमवयवेष्वविद्यमानं संश्लेषविशेषत एव तेषामुत्पन्नमिति तत्र व्यभिचार इति भावः । आक्षिपति "चर्वणे"ति । दन्तसंमर्दैः पूर्वावयविनो व्द्युणुकपर्यन्तस्य नाशे परमाणुषु स्वतन्त्रेषु चर्वणोद्भूतमुख्याग्निसंयोगलक्षणपाकवशाद्रक्तरूपस्योत्पत्तेः कारणगुणपूर्वकमेव पिण्डितावयविनि रक्तं रूपमिति न व्यभिचार इति भाव आक्षेप्तुः । परिहरति "न प्रमाणाभाव"दिति । संश्लेषविशेषस्यैव क्वचिद्रूपान्तरप्रयोजनकत्वमेष्टव्यम् । यथा हरिद्राचूर्णे चूर्णकजलसंयोगेनैव हि रक्तं रूपं दृष्टम् । तथात्रापि संभवात् पाककल्पनायां मानाभाव

इति भावः । चर्वणस्थले पीलुपाकेनैव रूपान्तरमित्याग्रहे%पि स्थलान्तरे व्यभिचारमाह "सितासिते"ति । न हि चित्रपटस्थले%वयवेषु पाकसंभवः । न चावयवेषु चित्रं रूपम् । तथा चचावयविविशेषगुणस्य स्वसजातीयावयवगुणपूर्वकत्वमिति नियमस्य चित्ररूपे%नैकान्त्यमिति भावः । साजात्यं रूपत्वाद्यवान्तरजात्या विवक्षितम् । न हि नीलतन्तुभिः शुक्लपटारंभः । रूपत्वादिना साजात्यविवक्षायां तु तस्यापि प्रसङ्ग इति । ननु चित्रं नाम रूपान्तरं नेष्यते । न चैवं नानारूपतन्तुभिरारब्धश्चिंत्रपटो नीरूपः स्यात् । रूपादेर्व्याप्यवृत्तित्वनियमादव्याप्यवृत्तिनानारूपवत्त्वस्य सत्मिन्नुपगमासंभवादिति वाच्यम् । अवयवरूपेणैव चाक्षुषत्वोपपत्तौ चित्रपटस्य नीरूपत्वे%पि क्षतिविरहात् । समवायस्वसमवायिसमवेतत्वान्यतरसंबन्धेनोद्भूतरूपस्य द्रव्यचाक्षुषे हेतुत्वोपगमादिति चेदत्राह "सर्वमेवे"ति । एवमवयवरूपेणैव चाक्षषोपपत्तेः सर्वस्याप्यवयविनो रूपवत्तवं नेष्यतामित्यर्थः । इष्यत एवमेव लाघवादित्यत्राह "अनुभवे"ति । साक्षाद्रूपवत्त्वोपलम्भव्यवहारयोरबाधितयोः सत्त्वादिष्टापत्तिर्नीरूपत्वे%वयविनः कर्तुं न शक्यत इत्यर्थः । चित्रः पट इति चाबाधितप्रतीतिव्यवहारतश्रित्रं रूपमप्येष्टव्ययमिति भावः । नन्वयवनानारूपैरव्याप्यवृत्त्येव नानारूपं चित्रपट उपेयते प्रतीतिबलात् । तथा च न तत्र व्यभिचार इत्यत्राह - "विशेषगुणश्चे"ति । जलीयस्य करकस्यावयवसंश्लेषविशेषादारम्भकसहकारिवैचित्र्याच्च द्रवत्वरहितस्य कठिनस्पर्श उपलभ्यमानो न कारणगुणपूर्वकः । जलपरमाणुषुकठिनस्पर्शस्याभावात् । तथा च करकस्पर्शे कारणगुणपूर्वकत्वनियमस्य व्यभिचार इति भावः । नन्ववयवसंयोगविशेष एवास्तु काठिन्यम् । तथा च क्कानैकान्त्यमित्यत्राह "न च संयोगे"ति । अवयवसंयोगविशेषस्य काठिन्यरूपत्वे तस्यावयविन्यवृत्तेः कठिनः करक इति प्रतीतिव्यवहारौ न स्याताम् । कथञ्चित्तदुपपादने%पि चाक्षुषद्रव्यवृत्तिसंयोगस्य चाक्षुषत्वात्काठिन्यस्य चक्षुषा%प्युपलंभप्रसङ्ग इति भावः । "स्पर्शविशेषतये"ति । त्वङ्भात्रग्राह्यगुणत्वात्काठिन्यं स्पर्शविशेष

एवेति साम्प्रतम् । पदार्थविद्भिः काणादैः स्पर्शविशेषतयैव च तदभ्युपगतमिति भावः ।

देहात्मवादे कर्तृकर्मभावविरोधमाशङ्क्य परिहरति - "दृश्यस्ये"त्यादिना । "को विरेध" इति । विरुद्धार्थे हि कथन्ता । द्रष्टुर्दृश्यत्वे%विरोधात्का नाम कथन्तेति भावः । विरोधमाह "अयमेवे"ति । तत्क्रियायां तदैव कस्यचित्कर्तृत्वं कर्मत्वं च न युक्तम् । क्रियया आप्तुमिष्टतमं हि कर्म साध्यरूपम् । क्रियाश्रयः कर्त्ता च सिद्धरूपः । सिद्धसाध्ययोर्नैक्यं संभवतीति विरोधः कर्तृकर्मत्वयोरिति भावः । आक्षेप्तुर्मुखेनैव समाधिं वाचयितुं प्रतिबन्दीमाह "यद्येव"मिति । समाधिमाहाक्षेप्ता "रूपभेदा"दिति । समाधितौल्यमुत्तरमाह देहात्मवादी "समान"मिति । यथा आतरिक्तात्मवादे%हन्त्वादिना कर्मत्वम्, मनःसंयोगत्त्वादिना च कर्तृत्वं ज्ञानक्रियायामित्याकारभेदादविरोध उच्यते, तन्न्यायस्य न देहात्मवादे दण्डनिवारणमिति भावः । वस्तुतो यादृशस्य कर्मत्वस्य कर्तृत्वेन विरोधः, न तादृशं ज्ञानकर्मत्वम् । अतो%पि न दोष इत्याह - "अपि च परे"ति । "स्वसमवेतज्ञानफलभागिनि" इति । स्वनिष्ठज्ञाननिरूपितविषयतावत इत्यर्थः । विषयताया विषयिनिरूप्यत्वात् ज्ञानफलत्वोपचारः । "कर्मत्वमेव नास्ती"ति । मुख्यं कर्मत्वं नास्तीत्यर्थः । अयं भावः - परसमवेतक्रियाजन्मफलाश्रयत्वं मुख्यं कर्मत्वम् । यथा ग्रामस्य गमनकर्मत्वम् । विषयविषयिभावलक्षणममुख्यमेव तु ज्ञानादिकर्मत्वम् । सविषयार्थधातुयोगे कर्मत्वं विषयतारूपमिति हि तार्किकाणां समयः । अस्य ज्ञानकर्तर्यप्युपगमान्नात्मानं जानातीत्यादेरनुपपत्तिः । मुख्यस्यैव

तु कर्तृत्वेन विरोध इति । नचामुख्यमिदं कर्मत्वं नानुशासनसिद्धमिति वाच्यम् । "कर्तुरीप्सिततमं कर्मे"त्यस्यैव तन्त्रेणास्मिन्नपि प्रमाणत्वोपगमात् । कर्तुः ज्ञातुः, क्रियया-ज्ञानेन, आप्तुमिष्टतमं - ज्ञातव्यत्वेनाभिमतं कर्मेति चात्र पक्षे%क्षरार्थो वाच्यः । अनिष्टस्य ज्ञातस्य तु "तथा युक्तं चानीप्सित"मित्यनेनैव क्रियायुक्तं - ज्ञानेन विषयतया संबद्धं अनीप्सितं ज्ञेय

त्वेनेच्छा%विषयभूतमपि कर्मेति चार्थो%मुख्यकर्मत्वपक्षे । व्यवहारस्य ज्ञानफसत्वे%पि तदाश्रयत्वाभावान्न विषयस्य मुख्यं कर्मत्वम् । आत्मनः स्वव्यवहाराश्रयत्वे%पि तद्धेतुस्वगोचरस्वनिष्ठज्ञानस्य न परसमवेतत्वमिति न तत् । व्यवहारानुगुण्यलक्षणज्ञानफलविवक्षायां तु विषयस्य घटादेर्ज्ञानकर्मत्वं मुख्यं स्यान्नाम । अधिकमर्गे वक्ष्यामः । समर्थितं देहात्मत्वं निगमयति "अत" इति । बार्हस्पत्याः - बृहस्पतिप्रणीतलोकायततन्त्रनिष्ठाश्चार्वाकाः । ऐश्वर्यमहिमक्षयायासुराणां वैदिकश्चद्धाविलोपकं मोहकं तन्त्रं निर्मितं सुरगुरुणासुरेन्द्रानुनयविवशेनेति च प्रसिद्धिः । देहस्यैव चैतन्ये तत्सूत्रं प्रमाणयति "तथा चे"ति । पृथिव्यादीति चत्वार्येव भूतानि तत्त्वानि । तैः संहत्य निष्पादिते देहे प्रत्येकमसदपि चैतन्यमुद्भवति । किण्वादिभ्यो निष्पादिते सुराद्रव्य इवापूर्वा मदशक्तिरिति सूत्रार्थः ।

अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः ।

न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ।। 4 ।।

अहं जानामीति प्रत्यगूवृत्तिरहमिति मतिरिदङ्कारगोचराच्छरीरान्नीष्कृष्टमेव स्वविषयमुपस्थापयति । घटादेरिव । पराग्वृत्तिरिदमिति शरीरविषयिणी च शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति यथा%यं घट इति । इतरथा स्वपरविभागानुपपत्तेः । न चैकस्मिन्नेव रूपभेदादेवं प्रतीतिः । न हि देवदत्तो दण्डिनमात्मानं दण्ड्ययमिति प्रत्येति ।

अन्यच्च, नियमितबहिरिन्द्रियवृत्तेरवहितमनसो%हमिति स्वात्मानमवयतः करचरणोदराद्यवयवा न भासन्ते । स्वथीयसि चावयविनि शरीरे%हमिति मतिगोचरे%भ्युपगभ्यमाने%वश्यमवयवप्रतिभासेनाप्यन्वयिना भाष्यम् । न ह्यास्ति संभवः - अवयवी स्थवीयान् प्रचकास्ति ; अवयवास्तु न केचन प्रथन्त इति । यत्तु त्र्यणुके व्यभिचार इति ; तन्न । वातायनविवरदृश्यनि

र्भागत्रसरेणुव्यतिरेकेण परमाणुस्वीकारे कारणाभावात् । प्रत्यक्षयोग्यावयवस्य तथा प्रतिभासनियमाद्वा न व्यभिचारः । न चावयविनि बहिरन्द्रियग्राह्य एवायं नियम इत्युत्प्रेक्ष्यम् । प्रमाणाभावात् । अन्तःकरणस्य च केवलस्यावयविनि वृत्त्यसम्भवाच्च । वायो#ोस्तु रूपाद्यभावात् केवलस्पर्शाधारतयोपलम्भः । तत्रापि तादृशानेकावयवप्रतिभासो%स्त्येव स्पृश्यमान इव घटादाविति न तेन व्यभिचारः ।

यत्तु स्थूलो%हं कृशो%हमिति शरीरे%हंप्रत्ययो दृश्यत इति ; तदपि पर्यालोचनीयम् । तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्तु अहङ्कारो गोचयति, न पुनश्चाक्षुष इव देहप्रत्ययः स्थौल्यबाल्यादियोगिदेहमात्रम् । अत एव ममेदं गृहमितिवात् ममेदं शरीरमिति भेदप्रतिभासो व्यवहारश्च । न ह्यसौ साक्षात्प्रतीतभेदनिमित्तः प्रतायमानः शिलापुत्रकशीरव्यपदेशवदौपचारिको युक्त आश्रियितुं ममात्मेतिवत् । तत्रा%%त्मशब्दस्यात्मनि वृत्तैरैकार्थ्यादविवादाच्च युक्तं तथा%%श्रयणम् । न चैवमत्र । अतो देहव्यतिरेकिणः चेतनस्य प्रत्यक्षसिद्धत्वाच्चत्संबन्धिनि लाक्षणिको देहे%हंशब्दप्रयोगः ।

बाह्यविषयेषु परस्परविरुद्धरूपपरिमाणसङ्खयासन्निवेशग्रहणेन व्यतिरेकस्य स्फटत्वात् आत्मनि तादृशरूपान्तराग्रहणेन देहाभेदप्रतिभासभ्रमो%विवेकिनाम् । इतश्च - इच्छानुविधायिस्वव्यापारो%यमात्मा । इच्छयैव हि सङ्कल्पयति स्मरत्यभ्यूहति च । शरीरमपि तदिच्छानुविधायिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः; शुक्तिरजतादाविव । प्रणिहितमनसस्तु ज्ञातृतया सिद्ध्यन्तमहमाकारमर्थमनवयवमिदमिति परिस्फुरतः स्थूलादवयविनः शरीरात् पृथगपरोक्षयन्त्येव ।

भवन्ति च - जानामीति प्रत्ययः शरीरविषयो न भवति ; अर्थान्तरविषयो वा%यम् ; अप्रकाशमानतदवयवप्रतिभासत्वात् ; य एवंप्रकारः स तथा, यथा%यमिति प्रतिभासः । यच्छरीरविषयं, न तत्

तथा ; यथोभयसं

मतं शरीरज्ञानम् । तथा - शरीरमहंप्रत्ययगोचरो न भवति, इदमिति गृह्यमाणत्वात्, बाह्येन्द्रियग्राह्यत्वाद्वा, घटादिवदिति ।

अथ देहात्मवादमिरासः "अत्र प्रतिविधि"रित्यादिना । अत्र - देहस्यात्मत्वे, प्रतिविधिः - प्रतिविधानम्, बाधकप्रमाणम् । बाधो वा । उपन्यस्यत इति शेषः । "प्रत्यक्षबाधतः" इति । इदंत्वेन ग्रहणमेव हस्तगेहादेरिव देहस्यात्मभेदग्रहलक्षणं तस्यात्मत्वे बाधकमित्यर्थः । एतदेवोपपादयति "न खलु" इति । अहमिदंकारौ - अहमिदंप्रत्ययौ । स्वात्मगोचरो%हंप्रत्ययः, स्वान्यगोचरश्चेदंप्रत्ययः एकस्य पुंस एकस्मिन्नेवार्थे न घटत इत्यर्थः । विवृणोत्येतत् "अहं जानामी"त्यादिना । प्रत्यग्वृत्तिः - प्रत्यगर्थात्मविषयिणी । निष्कृष्टं - विलक्षणम् । पराग्वृत्तिः आत्मान्यविषया । अहङ्कारगोचरात् - अहंप्रत्ययविषयात् स्वात्मनः । शिष्टं स्पष्टम् । "इतरथे"ति । इतरथा - अहमिदंप्रतीत्योर्विलक्षणार्थविषयकत्वाभावे । अयंभावः - अहमिति स्वस्मै भासमानः प्रत्यगर्थः स्वात्मा । स्वस्मा इदन्त्वेनं भासमानश्च परागर्थः पर इति स्वपरविभागो हि अहमिदंबुद्धिशब्दाभ्यामेव निरूप्यः । अर्थवैलक्षण्याभावे तयोरयं न घटत इति । अहमर्थस्यैव भवत्वाकारान्तरेण भानमिदंत्वेनेत्यत्राह "नही"ति । प्रत्यक्त्वेनाहमिति भासमानस्यैव स्वात्मनोः दण्डित्वेनेदमिति भानं स्याद्दण्ड्ययमितीत्यर्थः ।

नन्वयमहस्मीत्यादिप्रत्ययो भवत्येव स्वात्मनि । सत्यम् । तत्रापपीदंशब्देन पराग्रूपधर्मोल्लेखः । आत्मस्वरूपस्योल्लेखो%हमिति । तथा च प्रत्यग्वृत्तिरहंकारः, पराग्वृत्तिरिदङ्कार इति व्यवस्थायां नानुपपत्तिरिति हार्दम् ।

ननु ममेदं वपुरिति ममायमात्मेतिवत्स्यादित्यरुचेराह "अन्येच्चे" ति । हेत्वन्तरं च देहस्यानात्मत्वे%स्तीति यावत् । तदेवाह "नियमिते" ति । निवारितबहिरिन्द्रियप्रवृत्तेर्मानसमहमिति स्वात्मानुसन्धानं न देहगोचरम्, करचरणाद्य

विषयकत्वात् । अवयविनः स्थूलम् ग्रहणे कतिपयतदवयवभानस्यावर्जनीयत्वादिति भावः । अवहितमनसः - आत्मग्रहणेदंपरमनसः । अवयतः - जानतः । स्थवीयान् - अतिशयेन स्थूलः । प्रत्यक्षग्राह्यावयवसमवेत इति विवक्षितम् । अवयविग्रहमस्य तदवयवगोचरत्वमिति नियमस्य त्र्यणुकग्रहणे%नैकान्त्यं वारयति "वातायने"ति । जालरन्ध्रप्रविष्टरविकरग्राह्यनिरवयवत्र्यणुकातिरेकेण तदवयवावयवपरमाणुकल्पनायां प्रमाणाभावादित्यर्थः । त्रसरेणोर्निरवयवत्वान्न तद्ग्रूहणे निरुक्तनियमस्य व्यभिचार इति भावः । परमाणुकल्पनामुपगम्याप्याह "प्रत्यक्षे"ति । प्रत्यक्षयोग्या अवयवा यस्य, तस्यावयविनः अवयवभानव्याप्यभानवत्त्वनियमान्न त्र्यणुकप्रत्यक्षे व्यभिचारः । तदवयवस्यातीन्द्रियत्वादिति भावः । "न चावयविनी"ति । बाह्येन्द्रियजप्रत्यक्ष एवावयविभाननियतत्वमवयवभानस्येति कल्पनं स्वोप्तेक्षणमात्रम् । अवयविप्रत्यक्षत्वव्यापकत्वस्यावयवभाने स्वीकारे बाधकोपलम्भो हि बाह्यतत्प्रत्यक्षमात्रविषयकतया नियमसङ्कोचे मानम् । तदभावादिति भावः । ननु मनसा केवलमवयवि गृह्यते विना%वयवमित्यत एव नियमः सङ्कोचनीय इति चेत्तत्राह "अन्तकरणस्ये"ति । अद्वारीकृतबहिरिन्द्रियस्य मनसः केवले%वयवविशेष्ट वा शरीरादौ बाह्यार्थे ग्रहणप्रवृत्तेरसंभवाच्चेत्यर्थः । बाह्यार्थे स्वान्तस्यास्वातन्त्र्यमिति हि तार्किकाः । अतो न मनसा शरीरस्य ग्रहणं घटेत केवलेन । चैतन्यवत्त्वेन तस्याबाह्यत्वान्मनसा ग्रहणं बवेद्विना%वयवेनेति तु न कल्पनीयम् । तच्चैतन्य एव विगानादिति भावः । निरुक्तनियमस्य वायुस्पार्शने%नैकान्त्यं परिहरति "वायोस्तु" इति । रूपादिमदवयविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमे नैव दोषः नीरूपत्वाद्वायोः स्पर्शवत्त्वमात्रेण तस्य स्पार्शनोपगमे%पीति भावः । वस्तुतः वायुस्पार्शनस्यापि तदवयवगोचरत्वमित्याह "तत्रापी"ति । अवयविसन्निकर्षे तदवयवसन्निकर्षस्यावर्जनीयत्वाद्योग्यसन्निकृष्टावयवभानस्यावयविभाननियतत्वेनावयवविप्रत्यक्षस्य तदवयवगोचरत्वमिति नियमे%पि न वायुस्पार्शने

व्यभिचारः । तत्र तदवयवस्यापि भानात्, घटस्पार्शन इव घटावयवस्येति भावः । देहात्मत्वसाधिकां प्रत्यक्षप्रतीतं "यत्तुं" इत्यादिना%नूद्य समाधत्ते "तदपी"त्यादिना । शरीरान्तर्वर्तमानमहमाकारम् - अहन्तालक्षणं

प्रत्यगात्मानमेवाहंप्रत्ययो विषयीकरोति । स्थूलो%हं जानामीत्यहंप्रत्ययो देहद्वारा स्थौल्यान्वितान्तरात्मगोचर एवेति भावः । मानसे प्रत्यये देहभानं तूपनयमर्यादया । स्थूलो%हं जानामीति व्यवहारे%पि शरीरवाची स्थूलशब्दस्तत्सबन्धिन्यन्तरात्मन्यौपचारिकः । सिद्धान्ते तु मुख्य एव । शरीरस्य चेतनं प्रत्यपृथक्सिद्धप्रकारत्वात्, अपृथक्सिद्धप्रकारवाचिनां च निष्कर्षकभिन्नानां शब्दानां धर्मिणि मुख्यवृत्तेरुपगमात् । अभ्रान्तीयप्रत्ययव्यवहारयोरित्थं गतिर्निरूपिता । समानाधिकरणप्रत्ययस्य देहवदात्मगोचरत्वे व्यधिकरणप्रत्ययव्यपदेशानुग्रहो%प्यस्तीत्याह "अत एवे"ति । ममेदं शरीरमिति भेदव्यपदेशस्य शिलापुत्रकस्य शरीरमितिवदौपचारिकत्वमस्त्वित्याशङ्कां व्युदस्यति "न ह्यसा"विति । प्रतायमानः - प्रतन्यमानः विस्तार्यमाणः । प्रचुरं प्रयुज्यमानो लोकेनेति यावत् । प्रचुरव्यपदेशस्यौपचारिकत्वकल्पना न साधीयसीति भावः । "ममायमात्मे"त्यस्य तु मतद्वये%पि औपचारिकत्वमगत्या वाच्यमेवेत्याह "तत्रे"ति । ऐकार्थ्यात् - अहमात्मशब्दयोरभिन्नार्थकत्वात् । अविवादाच्च - अहमर्थात्मनौरैक्ये विवादाभावाच्च । "न चैवमत्रे"ति । शरीराहंशब्दयोरैकार्थ्यासिद्धेस्तदर्थैक्ये विवादाच्च "ममेदं शरीरं"मिति नोपचरितार्थं कल्प्यम् । किन्तु "ममेदं गृह"मितिवन्मुख्यार्थमेव स्वीकार्यमिति भावः । देहे चाहंशब्द औपचारिक इत्याह "अत" इति । अहं गच्छामीत्यादावहंशब्द आत्मवति देहे लाक्षणिक इति यावत् । देहात्मभ्रमवतां तु शक्तिभ्रममूलस्तथा प्रयोग इति बोध्यम् ।

एवं तर्कबलादहं जानामीति मानसप्रत्यक्षस्य सावयवदेहव्यतिरिक्तात्मपरत्वं व्यवस्थापितम् । एवं देहव्यतिरिक्तस्यात्मनो भाने सति कथं देहाभेदभ्रम उदेतीत्यत्राह "बाह्ये"ति । सन्निवेशः - आकृतिः - अवयव - संस्थानम् । स्फुटत्वादित्य

स्यानन्तरमभेदभ्रमस्यानुदये%पीति शेषः । देहाभेदप्रतिभासश्चासौ भ्रमश्चेति कर्मधारयः । भेदकाकाराग्रहादभेदभ्रमो देहात्मनोरविवेकिनां भेदकाकारग्रहरहितानामित्यर्थः । अयमाशयः - यद्यपि देहतो विभिन्नपरिमाण आत्मा । अथापि तत्परिमाणं न प्रत्यक्षम् । ज्ञानसुखादि प्रत्यक्षमपि न यावद्देहे तदसंभवग्रहः, तावत्तन्नभेदकम् । रूपाद्यप्येवमात्मनि तदसंभवग्रहमन्तरा न भेदकम् ।सङ्ख्यादिस्तु साधारमत्वान्न भेदक इति । बाधकस्य भेदककारग्रहस्याभावमुपपाद्य ऐक्यभ्रमे साधकं सादृश्यज्ञानं चोपपादयति इतश्चे ति । आत्मेच्छानुविधायिस्वव्यापारकत्वं देहस्यात्मना तौल्यमित्यर्थः । अभ्यूह ति इति उपसर्गादस्यत्यूह्योर्वेति वाच्य सिति वार्तिकेण वैकल्पिकं परस्मैपदम् । अभ्यूहनम्-वितर्कणमुत्प्रेक्षणं वा । समानधर्मदर्शनात्प्रसक्तस्यैक्यभ्रमस्य भेदकाकारदर्शनतो निवृतिं्त दर्शयति प्रणिहिते ति । प्रणिधानम्-अवधानम् । ज्ञातृतया सिद्ध्यन्तं-ज्ञातृत्वैकाकारेण प्रकाशमानम् । अनवयवम्-निरवयवम् । आत्मा हि मनोगोचरः, स चेत् सावयवः, तथा गृह्यते । न च तथा गृह्यते । किन्तु ज्ञातृत्वैकाकारः । अतो निरवयवः । एकरूपतया%नवयवतया ग्रह एव च भेदकाकारग्रहः । अवहितमनसो निरुक्तपरामर्शवतश्च मनसा देहवैलक्षण्येनात्मनः प्रत्यक्षं भवत्येवेति भावः । प्रणिहितेतिवाक्यं योगिप्रत्यक्षविषयतयापि योजयितुं शक्यते । एवमहं जानामीति प्रत्यक्षस्य देहातिरिक्तात्मविषयत्वं तर्कबलेन व्यवस्थापितम् ।

इदमेव प्रयोगारूढं प्रदर्शयति भवन्ति चे ति । प्रयोगा इति शेषः । प्रथमप्रयोगे शरीरविषयकत्वाभावः, अनन्तरप्रयोगे शरीरातिरिक्तविषयकत्वं चाहं जानामीत्यपरोक्षस्य प्रदिदर्शयिषितम् । उभयत्रापि हेतुरेक एव शरीरावयवाविषयकप्रतिभासत्वरूपः । अन्वय्युदाहरणमुभयत्र य एव मिति । अयमिति प्रतिभासः-घटो%यमित्यादिप्रतिभासः । आद्ये व्यतिरेक्युदाहरण यच्छरीरे त्यादिना प्रदर्श्यते । प्रत्यक्षपक्षकमुक्त्वा शरीरपक्षकमन्वयिनमाह तथा-शरीर- मिति । इदमिति

गृह्यमाणत्वं-बाह्यत्वेन गृह्यमाणत्वम् । बाह्यत्वमिति फलितो हेतुः ।

किं च- अपरार्थं स्वमात्मानमात्मार्थे%न्यच्च जानतः ।

सङ्घातत्वात् परार्थे%स्मिन् देहे कथमिवात्मधीः ।।5।।

सर्वस्य बाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तुश्चात्मनो%नन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे । न च शरीरमनन्यार्थम् ;सङ्घातत्वात् । सङ्घाता हि सर्वे परार्था दृष्टाः शयनासनरथादयः ।

न च सङ्घाताः संहतशरीराद्यर्था दृश्यन्त इत्यात्मनो%पि संहतत्वमापद्यत इति वाच्यम् । तथा सति तस्यापि परार्थत्वप्रसङ्गात् । अपरार्थश्चायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तम् । योग्यानुपलम्भबाधितं चात्मनि सङ्घातत्वम् ।सङ्घातान्तरार्थत्वे च तस्यापि तथा, ततो%न्यस्यापि तथेति न व्यवतिष्ठेत । न च व्यवस्थायां सत्यामव्यवस्था युक्ता । न च सङ्घातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकम् ; भोक्तृतयैवात्मनः स्वार्थसङ्घातं प्रति परत्वोपपत्तेः । व्याप्त्यनुपयोगिनो%पि दृष्टान्तदृष्टधर्ममात्रस्यानुरोधेनानुमानमिच्छतः सर्वानुमानोच्छेदप्रसङ्गः ।

शरीरपक्षकानात्मत्वसाधकप्रयोगे तृतीयं सङ्घातत्वरूपं हेतुमुपक्षिपति किं चे ति । अपरार्थ मिति । अपरार्थं-स्वप्रधानम्, स्वमात्मानम्-अहमर्थभूतमात्मानम्, आत्मार्थे-भोक्तृभूताहमर्थात्मार्थे, अन्यच्च-परागर्थजातं च, जानतः-विदतः, सङ्घातत्वात्-अवयवसन्निवेशवत्त्वात्, परार्थे-स्वभिन्नभोक्तृभोगार्थे, देहे%स्मिन्, आत्मबुद्धिः कथं जायेतेति श्लोकार्थः ।। अत्रायं प्रयोगः-देहो नात्मा परार्थत्वाद्रथादिवत् । न च स्वरूपासिद्धिः । सङ्घातत्वाद्देहस्य पारार्थ्यसिद्धेरिति भावः ।।5।।

आत्मत्वापरार्थत्वयोः परार्थत्वानात्मत्वयोश्च व्याप्यव्यापकभावं श्लोके पूर्वार्धोक्तं विवृणोति सर्वस्ये ति । आत्मार्थताम्-भोक्त्रात्म-भोगफलसाधनताम् । अनन्यार्थतया फलितं सर्वस्य शेषिता मिति । सर्वस्य भोग्यस्य भोक्तृत्वेन

स्वामितां प्रधानतामित्यर्थः । शरीरस्यात्मत्वव्यापिकामनन्यार्थतां वारयति नच शरीर मिति । सङ्घातत्वस्य पारार्थ्येनाविनाभावग्रहस्थलमुदाहरति सङ्घाता ही ति । परार्थाः-भोक्तपरभोगार्थः । सङ्घातपरस्य संहतत्वदृष्टेः शरीरपरत्वेनानुमितस्या%%त्मनो%पि सङ्घातत्वं स्यादित्याशङ्कामनूद्य प्रतिक्षिपति न च सङ्गाता इति । तथा सति ति । आत्मा सङ्घातरूपं संहतपरत्वादित्यनुमाने प्रतितर्को%त्र विवक्षितः आत्मा यदि सङ्गातः स्यात्तर्हिपरार्थः स्यादिति । आत्मा न सङ्घातः अपरार्थत्वादिति प्रत्यनुमानं वा । सङ्घातदेहपरत्वेनानुमितस्या%%त्मनः सङ्घातरूपत्वे प्रत्यक्षबाधमप्याह योग्यानुपलम्भे ति । यद्वा अनुमानबलात्प्रसक्तमपि सङ्घातत्वमात्मनः प्रमाणान्तरविषयीकारतो निवत्र्स्यतीत्याह योग्यानुपलम्भे ति । शरीरं संहतपरार्थम्, सङ्घातत्वात् खट्वादिवदित्यत्र शरीरभिन्नत्वमुपाधिश्च । न च पक्षभिन्नत्वस्योपाधित्वे%नुमानविलोपप्रसङ्ग इति वाच्यम् । यत्र पक्षे साध्याभावः प्रमाणान्तरेण निश्चितः तत्र वह्नेरनुष्णत्वानुमान इव पक्षभिन्नत्वस्योपाधित्वसंभवात् । प्रकृते%पि शरीरात्मवादिनां तदतिरिक्तात्मवादिनां वा संहतपरार्थत्वाभाव एवोपेयते शरीरस्येति तद्भिन्नत्वस्योपाधित्वे न दोष इत्यभिमतम् । सङ्घातत्वस्य संहतपरार्थत्वेन न व्याप्तिः । अनवस्थापादकत्वादित्याह सङ्घातान्तरे ति । तस्यापि-साध्यघटकस्यापि सङ्घातस्य, तथा- सङ्घातान्तरार्थत्वम् । ततो%न्यस्यापि-साध्यघटकसङ्गातानुमितस्य. सङ्घातान्तरस्यापि, तथा-सङ्घातान्तरार्थत्वम् । न च व्यवस्थाया मिति । सङ्घातत्वस्य परार्थत्वेन व्याप्तौ इष्यमाणायां व्यवस्थायां संभवत्यां संहतपरार्थत्वेन तस्य व्याप्तेराश्रयणमनवस्थाप्रयोजकत्वान्न युक्तमिति भावः । ननु भूयःसहचारदर्शनाधीनो हि व्याप्तिग्रहः । स च संहतपरार्थत्वेनैव सङ्घातत्वस्य भवेत्, खट्वादौ तथा दर्शनादित्यत आह न च सङ्घातस्ये ति । परस्य संहतत्वमन्तरैैव सङ्घातप्रयोज्यनियतभोगरूपातिशयभाक्त्वेन तं प्रति शेषित्वलक्षणं परत्वं -प्राधान्यं संभवतीति परार्थत्वनियमस्य सङ्गात उपपत्तेः सपक्षदृष्टमपि परस्य संहतत्वं नाविनाभावग्रहोपयोगि

। संहतपरार्थत्वे साध्ये सङ्घातत्वहेतोरप्रयोजकत्वमिति च भावः । सपक्षे दर्शनमात्रेण व्याप्त्यनुपयोगि-सर्वघर्मोपरागेण साध्यस्य पक्षे%नुमाने%नुमानाप्रामाण्यप्रसङ्गश्वेत्याह व्याप्त्यनुपयोगिनो%पी ति । पक्षे पर्वते सपक्षदृष्टमहानसीयत्वकारीषत्वाद्युपरक्तह्नेरनुमाने%प्रामाण्यप्रसङ्ग इति भावः । धर्ममात्रस्यकृत्स्नस्य धर्मस्य । अनुरोधेन-व्यापकतावच्छेदककोटिघटनेन । अनुमानम्-पक्षे तावदाकारोपरक्तसाध्यानुमानम् । सर्वानुमानोच्छेदप्रसङ्गः- अनुमानमात्रप्रामाण्यविलोपप्रसङ्गः । शिष्टं स्पष्टम् । एवमहं जानामीत्यादेरहंप्रत्ययस्य प्रत्यक्षरूपस्य देहातिरिक्तविषयत्वं व्यवस्थापितं तर्केण । तथा चाहंप्रत्यय एव देहभेदप्रत्ययरूप इतीदङ्कारगोचरे देहे आत्मभेदो%पि प्रत्यक्षसिद्ध इत्यवर्णि ।

अस्फुटत्वे%पि भेदस्य शरीरे तदसंभवात् ।

तद्गुणान्तरवैधर्भ्यादपि ज्ञानं न तद्गुणः ।।6।।

सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथमतत्पूर्वकः शरीरे चैतन्यगुणः संभवेत्? ।

यत्तु बार्हस्पत्य वचनम् - पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यम्, किण्वादिभ्यो मदशक्तिवत् इति; तदनुपपन्नम् । शक्तेरविशेषगुणत्वेन तथोपपत्तेः । सर्वद्रव्येषु तत्तत्कार्यसमधिगभ्यः तत्प्रतियोगी शक्तयाख्यो गुणः साधारणः । नैवं चैतन्यम्, देहैकगुणत्वाभ्युपगमात् । कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात् । द्रव्यान्तरसंयोगसमासादितमदशक्तिभिरकार्यभूतैः परमाणुभिर्निजगुणपुरस्कारेण स्वकार्यद्रव्येषु मदशक्तयुत्पादो%पि नानुपपन्नः । ताम्बूलरागस्तु पूर्वद्रव्यावयवविभागानन्तरं द्रव्यान्तरसंयोगजनितरक्तिमगुणैः कारणैः क्रियते । दृश्यते हि तत्रावयवेष्वपि प्रत्येकं रक्तिमगुणः । नच शरीरावयवेषु प्रत्येकं चैतन्यगुणः प्रज्ञायते प्रतिज्ञायते वा । तदुपगमे च एकशरीर एवानेकचेतनापातादङ्गाङ्गित्वाभावः, प्रतिसन्धानव्यवहारलोपश्च

देवदत्तदृष्ट इव यज्ञदत्तादेः ।


यत्तु- अकारणगुणपूर्वकं चित्ररूपं पटे इति ; तन्न । नानारूपता हि चित्रता । सा च नानारूपैः तन्तुभिः क्रियत इति किमनुपपन्नमिति । प्रत्येकमविद्यमानमपि तच्चित्ररूपं तन्तुषु संहतेषु दृश्यत एव चित्रा इमे तन्तव इति ।संभूय च तेषां पटारम्भकत्वम् । एवं तत्कारणेष्वपि तदिति न क्वचिव्द्यभिचारः । न चैकरूपनियमाभावेनावयविनो%चाक्षुषत्वम् ; महच्वैकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः । अस्तु वा चित्रं नामैको रूपविशेषः । स तु रूपैरेव कारणगतैर्नानाविधैरारभ्यत इति दृष्टम् । न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरीरे चैतन्यविशेषारम्भः । चितितन्मात्रस्यैव तेष्वसंभवात् । अतो न देहगुणः चैतन्यम् । एतेन सुखादयो%पि शरीरगुणाः प्रत्युक्ताः ।

अपि च दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुमविलेपनगन्ध इव निवर्तमानः चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति । न खलु तद्विशेषगुणा रूपादयस्तथा निवर्तन्ते । आत्मनः परेषां च शरीरगुणाः प्रत्यक्षयोग्याः, बाह्येन्द्रियग्राह्याश्च; न च तथा ज्ञानादिरिति नासो तद्गुणः ।

अथ देह आत्मभेदस्याप्रत्यक्षत्वे%पि तस्यानात्मत्वमचेतनत्वलक्षणमनु- मानात् सेत्स्यतीत्याह अस्फुटत्वे%पी ति । यद्वा-ननु सङ्घातरूपो%पि देह एवात्मोपेयते लाघवात् । देहभिन्नसङ्घातत्वमेव भवतु परार्थत्वव्याप्यमित्यत्राह अस्फुटत्वे ति । प्रथमावतरणिकायां भेदस्या%%त्मभेदस्य शरीरे%स्फुटत्वे-अप्रत्यक्षत्वे%पीत्यर्थः । द्वितीयस्यां च परार्थत्वेन शरीर आत्मभेदस्याप्रसिद्धत्वे%पीत्यर्थः । तदसंभवात् - तस्मिन्-शरीरे असंभवः-उदयायोगः तदसंभवः तस्मात् । यद्वा शरीर इति मध्यमणिन्यायेनोभयान्वयि । तदसंभवात्-ज्ञानस्यासंभवादित्यर्थः । अत्र च तच्छब्दयोरवैरूप्यं सह्यम् । तद्गुणान्तरे त्यत्र तद्रुण इत्यत्र च तच्छब्देन शरीरस्य

परामर्शनीयत्वात् । शरीरे ज्ञानगुणस्योत्पत्तेरयोगाच्छरीरविशेषगुणान्तरवैधर्म्याच्च न ज्ञानं शरीरविशेषगुण इति कारिकार्थः ।।6।।

शरीरे ज्ञानस्यासंभवं तावदुपपादयति सर्व एवे ति । कारणगुणपूर्वकः-स्वसजातीयस्वाश्रयसमवायिसमवेतगुणासमवायिहेतुकः । संभवे दिति । शरीरावयवेषु ज्ञानस्याभावात्, भावे वा एकस्मिन्नेव देहे%नेकचेतनप्रसङ्गात् न कारणगुणपूर्वकं शरीरे चैतन्यं भवेत् । विशेषगुणत्वादकारणगुणपूर्वकत्वमपि देहे ज्ञानस्यासंभवीति भावः । शक्ते रिति । सामान्यगुणत्वेन शक्तेरकारणगुणपूर्वकत्वमुपपद्यते । सर्वद्रव्यवृत्तित्वाच्च सामान्यगुणत्वम् । दृश्यतत्तत्कार्येणानुमेयः तत्प्रति- योगी- तत्तत्कार्येण निरूप्यस्वरूपः प्रयोजकत्वेन शक्तयाख्यो गुणः सर्वस्मिन्नपि द्रव्ये तत्तत्कार्यप्रतिनियतो%स्तीति च शक्त्यः सर्वभावानामचिन्त्यज्ञानगोचराः इति पुराणरत्नवचनतो%वगम्यत इति भावः । नैव मिति । नैवं-न सामान्यगुणो ज्ञानम् । किन्तु शरीर एवोपगमाद्विशेषगुणः । द्रव्यत्वन्यूनवृत्तिगुणत्वं च तत्त्वम् । सिद्धान्तप्रक्रिययेदम् । सिद्धान्ते परत्वादि च न गुणान्तरम् । क्षणसंबन्धाधिक्यादिनैव

परत्वादिव्यवहारनिर्वाहादिति भावः । वैशेषिकप्रक्रियया%प्याह कार्यत्वेसती ति । ज्ञानं विशेषगुणः कार्यत्वे सति एकविधप्रत्यक्षविषयत्वाद्रूपादिवत् । सङ्ख्यादेर्द्वीन्द्रियग्राह्यत्वात्तत्र व्यभिचारवारणाय एकविधेति प्रत्यक्षविशेषणम् । प्रभाभित्तिसंयोगे व्यभिचारवारणाय एकविधप्रत्यक्षविषयजातिमत्त्वं वक्तव्यम् । संयोगत्वजातेर्द्वीन्द्रियग्राह्यत्वान्न दोषः । आत्मनो मानसप्रत्यक्षविषयत्वात्तत्र व्यभिचारवारणाय कार्यत्वे सतीति । एवमपि प्रभात्वजातिस्वीकारे प्रभायां, वायोः स्पार्शनोपगमे वा वायौ व्यभिचारवारणाय एकविधप्रत्यक्षग्राह्यजातीयगुणत्वादिति वक्तव्यम् । गुणत्वप्रवेशे च कार्यत्वे सतीति चिन्त्यप्रयोजनमिति बोध्यम् । विशेषगुणलक्षणे च ज्ञानादिभिन्नत्वं न दातुं शक्यं ज्ञानादेर्विशेषगुणत्वे प्रामाणिके सतीति च भावः । सङ्घातविशेषावयविवादे तु अवयवेषु चैतन्याभावादेव देहस्य

चैतन्यं न संभवतीति चानुसन्धेयमत्र । ननु रसविशेषो गन्धविशेषो वा मादको मदशब्दवाच्यः । स च विशेषगुणो न कारणगुणपूर्वक इति कार्यद्रव्यविसेषगुणस्य कारणगुणपूर्वकत्वनियमो दुर्वच इत्यत्रा%%ह द्रव्यादीना मीति । किण्वादीनां सम्मर्दनादिनाव्द्यणुकपर्यन्तनाशे स्वतन्त्रैः परमाणुभिर्द्रव्यान्तरावयवसंश्लेषजनितमदैरारब्धे सुराद्रव्ये कारणगुणपूर्वक एव गुण इति भावः । अथ ताम्बूलरसरागे%नैकान्त्यमुक्तनियमस्य परिहरति ताम्बूले ति । स्पष्टो%र्थः ।
न च शरीरे ति । प्रज्ञायते-उपलभ्यते । प्रतिज्ञायते-साध्यते । देहावयवेषु चैतन्ये साधकाभावमुक्त्वा बाधकमप्याह तदुपगम इति । अङ्गाङ्गित्वाभावः - नियाम्यनियामकभावलक्षणगुणप्रधानभावाभावः । एकचेतननियाम्यत्वे हि शरीरावयवानां व्यवहाराविसंवादो घटते । तेषामेव चेतनत्वे तु परस्परानियम्यतया परस्परवार्तानभिज्ञतया च व्यवहारविसंवादः प्रसज्यत इति भावः । प्रतिसन्धाने ति । यमद्राक्षं तं स्पृशामीत्यादिप्रतिसन्धानस्य तन्मूलव्यवहारस्य च विलोपः प्रसज्यते । अवयवचैतन्ये द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादिति भावः । अनिष्टापत्तिरिष्टहानिश्चात्रोक्ते पदद्वयेन । नानारूपता-विभिन्नजातीयरूपसमवीयिता । विजातीयरूपेषु तन्तुषु संहतेषु चित्रप्रतीतिमाह प्रत्येक मिति । एव मिति । तत्कारणेष्वपि-चित्रपटकारणेषु तन्तुष्वपि । तत्-चित्रं रूपम् । एकरूपनियमाभावेने ति । अव्याप्यवृत्तिनानारूपवतिचित्रपटे व्याप्यवृत्त्येकरूपाभावेनेत्यर्थः । महत्त्वैकार्थे ति । लौकिकविषयतया द्रव्यचाक्षुषे सामानाधिकरण्येन महत्त्वविशिष्टोद्भूतरूपस्य समवायेन हेतुत्वसंभवे हेतुतावच्छेदककोटौ व्याप्यवृत्तित्वविशेषणे प्रयोजनाभावः । तथा च चित्रपटस्य न चाक्षुषत्वानुपपत्तिरिति भावः । रूपस्य व्याप्यवृत्तित्वनियमे%प्याह- अस्तु वे ति । न चैव मिति । तन्तुगतविविधरूपैः पटे चित्ररूपारम्भवदवयवगतैरनुद्भूतचैतन्यैर्देहे उद्भूतचैतन्यारम्भो%स्त्विति च न शङ्क्यम् । चितितन्मात्रस्यैव-चैतन्यसामान्यस्यैव मानाभावेन देहावयवेष्वसंभवात् । शरीरस्य चैतन्येतदवयवेषु चैतन्यकल्पना, तत्कल्प

नायामेव शरीरे चैतन्यसिद्धिरित्यन्यो%न्यसंश्रयाश्चेति भावः । एतेने ति । ज्ञानस्येव सुखादेरपि विशेषगुणस्य न शरीरधर्मत्वसंभव इति भावः । एवं शरीरे तदसंभवां दिति व्याख्यातम् ।

अथ तद्गुणान्तरवैधर्म्या दित्येतद्विवृणोति अपि चे ति । विरोधिगुणापातमन्तरा-पूर्वगुणनिवर्तकगुणप्रसङ्गं विना । कुसुमविलेपनगन्धः- स्त्रक्चन्दनगन्धः । न खलु त दिति । अयं भावः- अग्निसंयोगेन रूपपरावृत्तावपि तदप्रसङ्गे रूपस्य यावद्द्रव्यभावित्वं दृष्टम् । न च ज्ञानादि स्थिरमेवम् । न चोत्तरोत्तरविशेषगुण एव पूर्वपूर्वज्ञानादिविरोधीति वाच्यम् । एवमपि अन्त्यस्य चिरमवस्थानप्रसङ्गादिति । अयावद्द्रव्यभावित्त्वं ज्ञानादेः शरीरविशेषगुणान्तरतो वैधर्म्यमित्युक्तं भवति । अथ वैधर्म्यान्तरं द्विधा%%ह आत्मन इति । स्वात्ममात्रग्राह्यत्वं मनोमात्रग्राह्यत्वं च ज्ञानादेः शरीरविशेषगुणान्तरवैधर्म्यमिति फलितम् । रूपादयो हि शरीरगुणाः स्वपरग्राह्या बहिरिन्द्रियग्राह्याश्च । न च तथा ज्ञानादी ति । अत्र प्रयोगः-ज्ञानं न शरीरविशेषगुणः अयावद्द्रव्यभावित्वान्मनोमात्रग्राह्यत्वाद्वा यन्नैवं तन्नैवं यथा रूपादीति । एवं ज्ञानस्य शरीरधर्मत्वाभावसाधनेन शरीरस्यात्मत्वं प्रतिक्षिप्तं भवति । यथा-देहो नात्मा आज्ञातृत्वाद्धटादिवदिति ।

किञ्च-उत्पत्तिमत्त्वात् सन्निवेशविशेषतः ।

रूपादिमत्त्वाद्भूतत्वाद्देहो नात्मा घटादिवत् ।।7।।

सच्छिद्रत्वाददेहित्वाद्देहत्वान्मृतदेहवत् ।

इत्यादिसाधनैर्न्याय्यैर्निषेध्या वर्ष्मणश्चितिः ।।8।।

एवं प्रत्यक्षविरोधात्, अन्वयमुखेन साध्यमुपस्थापद्भिरुदीरितसाधनैरपहृतविषयतया इन्द्रियाश्रयत्वादिव्यतिरेकिहेतवो न साध्यमुपस्थापयितुमीशते ।

(इति देहात्मवादनिरासप्रकरणम्)

सन्तु तर्हीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते; येन देहवदह

ङ्कारगोचराद्बहिष्क्र्रियेरन् । नापि तथोद्भूतरूपादिगुणानि स्थूलानि; येन तत्प्रतिभास इवेन्द्रियगोचरत्वे%हंप्रत्ययस्य रूपावयवादिप्रतीतिः प्रसज्येत । तव्द्यापारफलं च ज्ञानं तद्गामि युक्तं स्नानाध्ययनादिफलवत् । अत एव सत्यपताः द्रष्टुश्चक्षुषः इति ।

(इतीन्द्रियात्मत्वपूर्वपक्षप्रकरणम्)

तन्न । विकल्पासहत्वात् । तथा हि-किं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय वा? । यदि प्रत्येकम्, इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसन्धानं न स्यात् । अस्ति च तत्- यमहमद्राक्षं तमहंस्पृशामीति । अत एव न संभूयापि चेतनत्वम् । न हि पञ्चभिरिन्द्रियैः संभूयैकं वस्त्वनुभूयते%नुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इन्द्रियचैतन्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तव्द्यापारफलतया तत्समवायित्वं ज्ञानस्य । शस्त्रादिव्यापारजन्मनो%पि पापादेः परसमवायित्वात् । अन्यथा च प्रष्टुर्मृत्युपपतिं्त शरणागतपरित्यागस्य नृशंसतां चा%%लोच्य सत्यतपसस्तथा वचनम् ।

(इतीन्द्रियात्मवादनिरासप्रकरणम्)

अस्तु तर्हि मन एव चेतनम् । तथा सति हि पूर्वोक्ता दोषाः परिहृता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्षं प्रज्ञायते प्रतिज्ञायते च । उपपद्यते चेन्द्रियान्तरेण प्रतिसन्धानम् ; दर्शनानुसन्धानाधारस्य मनस एकत्वात् । तत्तदिन्द्रियापाये%पि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् ।

(इति मनआत्मत्वपूर्वपक्षप्रकरणम्)

तदपि न; करणत्वाच्चक्षुरादिवत् । बाह्यान्तरसकलविषयसंवेदनकरणतया हि मनः प्रकल्प्यते । बाह्येन्द्रियेषु यथायथं निजविषयसन्निकर्षभागिष्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतो%वगच्छामः-अस्ति

किंचिदपरमपि साधनम्, यत्साहायकविरहान्न सर्वे प्रकाशन्ते, कश्चिदेवैकः प्रतीयते इति । तथा सुखादिसंवेदनान्यपि करणवन्ति, क्रियात्वात्, संवेदनत्वाद्वा, रूपादिज्ञानवदिति । तदेवं ज्ञानकरणतया%वगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् ?। स्वातन्त्र्यलक्षणं हि तत् । तच्च स्वच्छन्दानुरोधेन साध्यसिद्ध्यनुगुणोपकरणसंपादनसामर्थ्यम् ; स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः । करणत्वं तु पराधिष्ठानाधीनव्यापारतारूपपार तन्त्र्यनियतं साधकतमत्वमिति कथमिवैकत्र मनसि परस्परविरुद्ध तदुभयधर्मसंबन्धं प्रतिपद्येमहि ? । अथ तदपि मनः करणान्तरेण स्मरणादिषु कर्तृभावमनुभवति, तथा सति संज्ञामात्रे विवादः । य एव हि चक्षुरादिभी रूपादिन् आन्तरकरणेन च सुखादींश्चेतयते, स एवा%%त्मा । तस्मिन्नेव चेत् मनःसंज्ञा निवेश्यते, कामं निवेश्यताम् । न नः किंचिद्धीनम् । किन्तु तदा सर्वलौकिकव्यवहारो बाध्येतेत्यलमनेन ।

(इति मनआत्मवादखण्डनप्रकरणम्)

आह- किमिदं मनो नाम ? । ननूक्तमान्तरं ज्ञानकरणं द्रव्यमिति । किं पुनरस्य साधनम् ? । ननुक्तं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । उक्तं नाम; तथापि कथं तत्त्वान्तरसिद्धिः ?। कल्पयित्वा%पि हि तत् युगपत्स्मरणानुत्पत्त्युपपत्तये%वश्याश्रयणीयमेव निमित्तान्तरम् । सन्ति हि युगपदस्य स्मर्तृर्नानार्थानुभवभाविताः संस्काराः । अथ च न सर्वे स्मर्यन्ते । किञ्चिदेव कदाचित् स्मर्यते । संस्कारोन्मेषहेतूपनिपातक्रमात्तथात्वमिति चेत्, एवमपि प्रणिधानमात्रोद्बोधनीयसंस्कारस्य स्मृतियौगपद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्याहृतचेतसः साधारण्येन प्रणिदधयो%पि न सर्व एवार्थाः स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाव्द्यवस्था, क्रमज्ञानस्वाभाव्याद्वा

आत्मनः ; तथा सति बहिरिन्द्रियेषु च यथा

यथं स्वविषयसंप्रयुक्तेषु तथैव युगपज्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण ।

स्यान्मतम्- कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषयादृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यम् । तच्चात्ममनः- सन्निकर्ष इति मनोद्रव्यसिद्धिरिति । तदसत् । सुखदुःखादिपूर्वकालजन्मनो%भिमतानभिमतविषयसंपर्कजज्ञानस्या%%त्मसमवायिन एवासमवायिकारणत्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंप्रयोग एवा%%त्मसमवेतो%समवायिकारणम् । तद्धेतुरपीन्द्रियव्यापारः प्रयत्नमदृष्टं चा%%त्मसमवेतमपेक्षमाणादात्मेन्द्रियसान्निकर्षादसमवायिकारणात् । प्रयत्नस्य तु स्वपूर्वक्षणवर्ति कर्तव्यताज्ञानम् । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशेषगुणानां बुद्धिसुखदुःखेच्छादीनामसमवायिकारणसापेक्षतया%पि द्रव्यान्तरपरिकल्पनं न्याय्यम् ।

यत्तु-नित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणम्, पार्थिवपरमाणुष्वग्निसंयोगादसमवायिकारणाद्रूपोत्पत्तेरिति; तदपि स्थवीयः । पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कृतो%वगतम् ? । कार्यद्रव्ये तथा दर्शनादिति चेत्, इह वा तह्रि किं न दृश्यते इष्टानिष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति ?। दृष्टकारणव्यभिचारे हि कारणान्तरानुमानावसरः । न चेहास्ति व्यभिचारः । अतः प्रसिद्धकारणभावेष्वेव यत्र कार्यसमवायः तत् समवायिकारणम्, यत्तु तत्प्रत्यासन्नं तदसमवायि, यदन्यत् तन्निमित्तिमिति व्यवस्थाश्रयणमुचितम् । न त्वनपेक्षिताप्रसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्यासमवायिकारणत्वाश्रयणम् । कारणान्तरानुपलब्धेः, दृष्टानुसाराच्चाणुगतरूपादौ तथा%भ्युपगमः । इह तु तद्विपर्ययः प्रदार्शित एव । एवमपि व्याप्तिबलेन यदि द्रव्यान्तरसंयोगो%नुमातव्यः, स तर्हि स्पर्शवद्द्रव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदेहादिसंयोग एवानुमानपर्यवसानान्न नवम

द्रव्यसिद्धिः ।

अथोच्येत-भौतिकत्वे हि मनसः पृथिव्याद्यन्यतमत्वेन भवितव्यम् । तच्चानुमानान्तरैर्व्यतिरेकमापादयद्भिः प्रत्यासिद्धम् । तथा हि-न पार्थिवं मनः रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । न पाथसीयम्, गन्धग्रहणनिमित्तोन्द्रियत्वाक् घ्राणवत् । एवमतैजसत्वाद्यपि तत्तदिन्द्रियागोचरग्रहणनिमित्ततया शक्याध्यवसानमित्यभौतिकत्वं मनस इति । तदनुपपन्नम् । धर्मिविशेषविपरीतसाधनात् । रसावगमनिमित्तेन्द्रियत्वमपार्थिवत्वमिव पाथसीयत्वमपि समर्थयति । एवं साधनान्तराण्यपि भूतान्तरव्यतिकेरमिवा%%मीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूपरसगन्धेषु यद्गुणग्राहि यदिन्द्रियम्, तदेव तद्गुणकभूतारब्धम्; हन्त तर्हि तदेव तदितरभूतव्यतिरेकितया%प्यवगतमिति न तदवगमकतामात्रेणाभिमतव्यतिरेकसिद्धिः । अपि च शब्दादिगुणावगमसाधारणसाधनतया शरीरमिव पाञ्चभौतिकम्, एकद्वित्रादिमयं वा इतरभूतसंसृष्टमस्तु मनः । यथा%%म्नायते अन्नमयं हि सोम्य मन इति । तन्न तत्प्रकृतित्वप्रतिपादनपरम्, अपितु तदधीनवृत्तितामात्रप्रदर्शनार्थम् आपोमयः प्राणः इत्यादिवत् । अतएवापवर्गदशायामपि मनो%नुवृत्तिः । दर्शितं हि तत्रैवाष्टमे मनसैतान् कामान् पश्यन् रमते मनो%स्य दैवं चक्षुरिति । तथा परस्याश्च देवतायाः सो%न्यं कामं मनसा ध्यायीतेति महोपनिषदि । मनसैव जगत्सृष्टिमिति च पुराणे । उच्यते-सत्यमेवम् । द्रव्यान्तरपरिकल्पनातो वरमेवं वा%%श्रयणमित्युक्तम् । परमार्थतस्तु न भौतिकम्, नापि नवमं द्रव्यम् । क्व तर्हीदानीं मनःशब्दः ?। बुद्धावेव । अत एव हि बुद्धिमान् मनस्वीति व्यपदिश्यते । मनसो%वस्थाभैदाश्च द्रागेवापरोक्ष्यन्ते क्षुभितं मे मनः, प्रसन्नं मे मन इति । एवं च मनसः करणतया व्यपदेशो बुद्ध्यहङ्कारयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति ।

उच्यते-यदि बुद्धिरेव मनः ; यदि वा द्रव्यान्तरम्; उभयधा%पि तस्य न चेतनत्वमिति किमनेनाप्रतिज्ञातस्वरूपविमर्शेन ।

(इति प्रासङ्गिकमनस्तत्त्वविमर्शप्रकरणम्)

अस्तु तर्हि प्राण एवा%%त्मा, तथा सति तदन्वयिनि शरीरे सात्मकत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयाताम् । देहादुत्क्रान्तिर्लोकान्तरगमनं देहान्तरसञ्चारश्चोपपद्यन्तेतराम्,

गत्वरस्वाभाव्यात् प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानुपपत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्ताः स्युः ।

(इति प्राणात्मत्वपूर्वपक्षप्रकरणम्)

इदमप्यसत्; वायुत्वादेव बाह्यवायुवत् प्राणस्य चैतन्यानुपपत्तेः । वृत्तिहीने%प्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्त्वाच्च । तद्वृत्त्या हि सुप्तस्यापि सप्तधातुभावेनाशितपीतद्रव्यपरिणाम्#ः ; श्वासप्रश्वासौ च । तनुतरतेजोबन्नानुविद्धः कौष्ठ्यमारुतो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे बहिश्च रेचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति ।

अत्रैव साध्ये साधनान्तराणि चाह उत्पत्तिमत्त्वा दित्यादिकारिकाद्वयेन । पारार्थ्यं भ्रोत्र्क्रन्तरार्थत्वम् । तच्च सङ्घातत्वात् । भूतत्वम्बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । एतैर्हेतुभिः शरीरे चेतनभिन्नत्वं साध्यम् । न्याय्यैः-प्रतिज्ञाद्यवयवपञ्चकात्मकन्यायप्रतिपाद्यरूपपञ्चकोपपन्नेः । वर्ष्मणः- शरीरस्य । चितिः ज्ञानम् ।।7।।8।।

समर्थितमेतावता देहस्यानात्मत्वं प्रत्यक्षानुमानाभ्याम् । एतद्वाधितत्वमाह देहे आत्मत्वं साधयतां केवलव्यतिकेरिणाम् एव मिति । अन्वयमुखेन -अन्वयव्याप्त्या । अपहृतविषयतया-बाधितसाध्यकतया, उपस्थापयितुं-व्यवस्थापयितुम् ।

अथेन्द्रियात्मवादमुपक्षिपति सन्तु तर्ही ति । देहात्मत्वपक्षोक्तानि दूषणानि

नात्र पक्षे प्रसज्यन्त इत्याह न च तानी त्यादिवाक्यद्वयेन । बाधकाभावमुक्त्वा साधकमप्याह पक्षे%त्र तव्द्यापारे ति । ज्ञानमिन्द्रियधर्मः, इन्द्रियव्यापारफलत्वात्, यव्द्यापारफलं यत् तत्तन्निष्ठम्, यथा स्नानाध्ययनादिव्यापारफलं शौचाक्षरराशिग्रहणादि स्नात्रध्येतृसमवेतमिति प्रयोगो बोध्यः । इन्द्रियस्य व्यापारः- अर्थसन्निकर्षार्थेन्द्रियप्रवृत्तिः, अर्थेनेन्द्रियस्य सन्निकर्ष एव वा । हेतौ द्रव्यभिन्नभावत्वे सतीति विशेषणं देयम् । तेन घटतद्ध्वंसानुकूलव्यापारवतो दण्डादेर्घटवत्त्वाद्यभावे%पि न क्षतिः । इन्द्रियात्मत्वे%नुमानमुक्त्वा%%प्तवाक्यमपि संवादरूपं निर्दिशति अतएवे ति ।

इन्द्रियाणामात्मत्वं निरस्यति तन्ने ति । विकल्पासहत्वं नाम विकल्पधर्मिणः संभावितयावत्कोटिविकल्पेन विकल्पितयावत्कोट्यन्यतमकोटिसंबन्धस्याप्यनर्हस्वरूपत्वम् । क्षोदक्षमत्वाभाव इति यावत् । प्रत्यक्षबाधाभावे%पि यौक्तिकबाधो%स्तीन्द्रियात्मत्व इति हार्दम् । प्रत्येकेन्द्रियचैतन्यपक्षे नानास्वामिक इव ग्राम एकस्मिन्नेव देहे नानाचेतनाधिष्टानान्नित्यकलहादि प्रसज्यते इति दूषणं हृदि नाधाय दूषणान्तरमाह इन्द्रियान्तरे ति । इन्द्रियसङ्घातात्मत्वपक्षे%पीदं साधारणम् । तदाह अत एवे ति । अत एव - निरुक्तप्रतिसन्धानानुपपत्तेरेव । तामेवोपपादयति नही ति । इन्द्रियसङ्घातो नानुभविता, नाप्यनुस्मर्ता । तथा हि - सङ्घातो यदि संयोगो बहुत्वसङ्ख्या वा, तर्हि गुणत्वादेव न ज्ञातृत्वसंभवः । यदि संयुक्तानां बहूनामेव सङ्घातत्वेन विवक्षा, तदापि न बहूनामिन्द्रियाणां चाक्षुषाश्रयता स्पार्शनाश्रयता वा । तथा च द्रष्टुः स्प्रष्टुश्चान्यान्यत्वादुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । इन्द्रियसङ्घातस्या%%त्मत्वे दोषान्तरमाह एकेन्द्रिये ति । सङ्घातस्य तावतैव विनष्टत्वान्निरात्मकत्वेन देहस्य मरणप्रसक्तिरिति भावः । प्रत्येकसङ्घातपक्षद्वयसाधारणं दोषान्तरमाह इन्द्रिये ति । द्रष्टुश्चक्षुषो विनाशे मयेदं दृष्टमिति स्मृतेरनुपपत्तिः । विद्यमानस्याद्रष्टृत्वात् । अन्यदृष्टस्यान्येन स्मृत्ययोगादिति भावः । इन्द्रियचैतन्ये

बाधकान्युक्तानि । अथ तत्साधकमनुमानं दूषयति न च तव्यद्यापारे ति । पापादेरित्यादिपदेन द्वैधीभावो%पि ग्राह्यः । तयोश्छेत्तृच्छैद्यगततया शस्त्रे%समवेतत्वाव्द्यभिचार इति भावः । अत्र विपक्षे बाधकविरहादप्रयोजकत्वमपि बोध्यम् । अथ सत्यतपसो वचनं करणे कर्तृत्वोपचारेण प्रवृत्तमन्यपरं नेन्द्रियचैतन्ये प्रमाणमित्याह अन्यथा चे ति । स्वाश्रमप्रविष्टवनमृगान्वेषणप्रवृत्तव्याधकृतप्रश्रोत्तररूपं सत्यतपसो वचनम् द्रष्टुश्चक्षुषो नास्ति जिह्वा इत्यादि । एतस्मिन्नर्थे श्लोको%यमनुगृहीतो%स्मद्गुरुचरणैः या पश्यति न सा ब्रूते सा न पश्यति । दृष्टिर्वक्ति कथं व्याध वाणी वा वीक्षते कथम् ।। इति । अनेन प्रष्टा व्याध इति गम्यते । अकथने%शनायापीडितस्य व्याधस्य मरणप्रसङ्गं, कथने च शरणागतपरित्यागनिबन्धनं महत्पापं पर्यालोच्य एवं

वक्तोक्तिः कृता महर्षिणेति बोध्यम् ।

अथ मन आत्मत्वपक्षमुपक्षिपति अस्तु तर्ही ति । तद्वी ति । मनो हि प्रधानां सर्वेन्द्रियप्रेरकं च गम्यते प्रमाणतो, व्यवह्लियते च तथेत्यर्थः । इन्द्रियात्मत्वपक्षोक्तानां स्मृतिप्रतिसन्धानानुपपत्तिनानात्मप्रसङ्गादिदोषाणां नात्र पक्षे प्रसङ्ग इत्याह उपपद्यते चे त्यादिवाक्यद्वयेन ।

मनस आत्मत्वं दूषयति
तदपि ने ति । करणत्वा दिति सर्वत्र ज्ञाने करणत्वान्मनसो न तत्र कर्तृत्वमाश्रयत्वं संभवति । मनो हि न प्रत्यक्षविषयः । किंतु युगपज्ज्ञानानुत्पत्तिलिङ्गेन सकलज्ञाने करणविशेषतया%नुमीयते । तस्य च न ज्ञातृत्वं चक्षुरादेरिव संभवतीति भावः । एतदेवोपपादयति बाह्येन्द्रियेष्वि ति । यत्साहायकविरहात्-यत्सहकारविरहात् । (सहायस्य कर्म-साहायकम्) यत्सन्निकर्षविरहादिति यावत् । तत्तदर्थग्राहकेन्द्रियस्येति शेषः । एवं बाह्यार्थेषु युगपज्ज्ञानानामनुत्पत्तिलिङ्गेन सर्वेन्द्रियसहकारित्वेनाणुभूतस्य मनसः करणविशेषस्यानुमानमुक्त्वा आन्तरसुखादिसाक्षात्कारेषु करणतया%पि मनसो%नुमानमाह तथा सुखादी ति । ननु करणतया%नुमितस्यैव मनसो ज्ञानादौ कर्तृत्वमप्यस्तु लाघवा

दिति चेत्तत्राह तदेव मिति । करणस्य कर्तृत्वं न संभवति । करणत्वकर्तृत्वयोर्विरोधात् स्वातन्त्र्यपारतन्त्र्यलक्षणयोरिति भावः । कर्तृत्वकरणत्वस्वरूपभेदं विवृणोति स्वातन्त्र्ये- त्यादिना । कर्तृत्वं नाम स्वेच्छाधीनस्वप्रवृत्तिकत्वरूपस्वातन्त्र्यनियतं स्वेच्छयैव साध्यसिद्ध्यौपयिकसामग्रीसंपादनसामर्थ्यम् । करणत्वं च परेच्छाप्रयात्नाधीनस्वव्यापृतीकत्वलक्षणपारतन्त्र्यनियतं परस्य ईप्सितक्रियानिष्पत्तौ प्रकृष्टोपकारकत्वलक्षणम् । न चैतयोरेकत्र समावेशः संभवतीति भावः । यद्यपि चेतनस्यैकत्र कर्तृत्वं करणत्वं च संभवेन्नामा%%कारभेदतः । अथापि मनसश्चैतन्ये दृढतरप्रमाणाभावात् लोकसिद्धव्याप्त्या च चक्षुरादिवत्परस्य चेतनस्य सुखाद्यनुभवकरणतयैव सिद्धेर्न मनसो ज्ञातृत्वम् । वस्तुतस्तु अत्यन्तातीन्द्रियेष्वर्थेषु शास्त्रमेव प्रमाणम् । ततश्च मनो विज्ञानमयस्य जीवस्योपकरणतयैव सिद्ध्यतीति हार्दम् । ननु रूपसुखादिबाह्यान्तरपदार्थानुभवेषु मन एव कर्तृ । आन्तरसुखाद्यनुभवे करणं त्वान्तरमन्यत्कल्प्यत इति शङ्कते अथ तदपि ति । परिहरति तथा सती ती । एवं सति अस्मदिष्टस्य ज्ञातर्यन्तः- करणभेदस्य न काप्यनुपपत्तिः । संज्ञा तु ऐच्छिकीति नार्थे विवाद इत्यर्थः । ज्ञातुरात्मनो मनःसंज्ञायां व्यवहारविरोधमाह किन्तु इति । मन इति नात्मनो व्यवहारो लौकिकानां वैदिकानां च । अतो मनःसंज्ञा%%त्मनि व्यवहारविसंवादादपार्थेति भावः ।

अथात्र परमाचार्यो%यं विमर्शकभूमिकामास्थितः प्रसङ्गात् मनसस्तत्त्वविचारं प्रक्रमते आहे ति । कश्चिद्विमर्शक इत्यादिः । विमर्शश्चायं तार्किकाभिमतानां मनःसाधकयुक्तीनां क्षोदक्षमत्वाभावप्रदर्शनार्थः । किमिद मिति । किमिति स्वरूपप्रश्नः । किंपुनरिति प्रमाणप्रश्नः । मनसि प्रमाणमाक्षिपति उक्तं नामे त्यादिना ।युगपज्ज्ञानानुत्पत्तिलिङ्गेन द्रव्यान्तरमान्तरं करणं न सिद्ध्यति । अदृष्टादिसहकारविरहेणैव युगपज्ज्ञानानुत्पत्त्युपपत्तेरिति भावः । युगपत्स्मरणानामनुत्पत्तये%दृष्टसहकारविरहो%वश्यमेव शरणीकरणीयः स्वीकृते%प्यान्तरकरण इत्याह

कल्पयित्वा%पी ति । नानार्थानुभवभाविताः-नानार्थानुभवजनिताः । संस्कारे ति । संस्कारस्योन्मेषहेतुरुद्बोधकः । संस्कारोद्बोधकसमवधानक्रमात् स्मृतीनामयौगपद्यम् ।उद्बुद्धसंस्कारस्यैव स्मृतिहेतुत्वात् । उद्बोधस्य क्रमभावित्वाच्चेति भावः । एवमपी ति । प्रणिधानं-मनसो%वधानेन चिन्तनम् । येषामर्थसंस्काराणां साधारणमुद्बोधकं प्रणिधानं कृतमनुभूतयावदर्थस्मृतीच्छयैकदैव तदा%पि न यावदर्थस्मृतयो युगपत् जायन्ते । तत्सत्यपि नानार्थस्मृतिषु दृष्टकारणे%दृष्टसहकारविरहादेव न स्मृतियौगपद्यम्, किन्तु एकस्यैवैकदा भवति स्मृतिरदृष्टसहकारादित्येषितव्यमिति भावः । शुभाशुभरूपतया-सुखदुःखजनकतया । नन्वेवमपि सुखहेत्वर्थानां शुभादृष्टबलाद्युगपत्स्मरणानि स्युरिति चेत्तत्राह क्रमे ति । क्रमिकज्ञानभाक्त्वलक्षणात्मस्वभावबलाददृष्टसहकारविरहाच्च स्मृतियौगपद्यस्येव बाह्यार्थज्ञानयौगपद्यस्यापि परिहरणसंभवात् नाणुभूतं मनोबाह्येन्द्रियसहकारि करणान्तरमान्तरं कल्पनीयमिति समुदिताशयः ।

मनसि प्रमाणान्तरमुपक्षिपति स्यान्मत मिति । अत्र प्रयोगः- सुखादि सा%समवायिहेतुकं भावकार्यत्वात्कार्यरूपादिवदिति । असमवायिहेतुश्च सुखादावात्ममनःसंयोग एव, अन्यस्यासंभवादिति हृदयम् ।

आत्मेत्यादि बाह्येत्यादि च षष्ठ्यन्तं पदद्वयं बहुव्रीहिवृत्तं सुखादेर्विशेषणम् । पदद्वयेन च सुखादावात्मनः समवायिकारणत्वमदृष्टादेर्निमित्तहेतुत्वं चोक्तम् । एतन्निरस्यति तदस दित्यादिना । सुखे ति । अनुकूलविषयस्य प्रतिकूलविषयस्य च ज्ञानस्यैवात्मनि नियतपूर्ववृत्तेः सुखे दुःखे च कारणस्य तत्रासमवायिहेतुत्वं युक्तम् । न तु आत्ममनस्संसेयोगस्याप्रसिद्धस्य । तत्तद्विषयसन्निकृष्टेन्द्रियात्मसंयोग एव च तत्तज्ज्ञाने%समवायिकारणम् । कृतिसाध्यताज्ञानमेव प्रयत्ने तथा चिकीर्षाद्वारा । कार्यताज्ञाने च स्मृतिरूपे उद्बुद्धसंस्कारः, अनुभवरूपे च लिङ्गज्ञानादि तथा । संस्कारे चानुभवः तथा । प्रयत्न एवादृष्टस्याप्यसमवायिहेतुः । इदमुपलक्षणम् । इच्छां प्रति इष्टजातीयत्वस्येष्टसाधनत्वस्य वा

ज्ञानं तथा । द्वेषं प्रति चानिष्टत्वस्य तत्साधनत्वस्य वा ज्ञानं तथा । आत्मविशेषगुणानां कुत्राप्यसमवायिहेतुत्वं नास्तीति प्रवादस्तु न श्रद्धेय इति मनुदिताशयः । इच्छादीनामित्यादिपदेन द्वेषप्रयत्नादृष्टसंस्काराणां ग्रहणम् । अत्र विषयेन्द्रियसंयोगहेतुभूतस्येन्द्रियव्यापारस्य प्रयत्नवदात्मसंयोगासमवायिहेतुकत्वकथनं प्रसङ्गात् । कुत्रापि ज्ञानादौ आत्मविसेषगुणे मनो%पेक्षा नास्तीति हार्दम् ।

साधनान्तरं मनसि शङ्कते यत्तु नित्ये ति । अत्र प्रयोगः- सुखादिर्द्रव्यसंयोगासमवायिहेतुकः कार्यत्वे सति नित्यद्रव्यविशेषगुणत्वात् पाकजपरमाणुरूपवदिति । द्रव्यान्तरसंयोगस्य सुखादौ असमवायिहेतुत्वासंभवान्मनःसंयोगस्यैव तथात्वेन परिशेषान्मनसः सिद्धिरिति भावः । एतद्दूषयति तदपी ति । स्थवीयः- स्थूलतरम् । अविमृश्यभाषितमिति यावत् । अयं भावः- अन्वयव्यतिरेकसहचारदर्शनादेव हि सर्वत्र कारणत्वाध्यवसायः । पार्थिवाणुरूपादौ दहनसंयोगस्य हेतुत्वमपि ततो देहावयवादौ रूपादिपरावृत्तेर्द्दष्टत्वाद्दृष्टानुसारादेव कल्प्यते । इह चानुकूलज्ञानादेरेव सुखादौ हेतुत्वं दृष्टम् । समवायिकारण आत्मनि प्रत्यासन्नत्वात्तस्यैवासमवायिहेतुत्वं च युक्तं तत्रेति नादृष्टद्रव्यान्तरसंयोगस्य तथात्वेन कल्पनावसर इति । दृष्टकारणे ति । दृष्टहेतोरभावे%पि कार्योत्पत्तेर्दर्शने हि कारणान्तरकल्पनावसरः । न च दृष्टहेतोर्व्यभिचार इत्यर्थः । अत इति । दृष्टहेतुष्वेव तत्तल्लक्षणयोगेन समवायिहेतुत्वादि व्यवस्थाप्यम् । ज्ञानादिदृष्टहेतुभिन्नस्यानपेक्षितस्याप्रसिद्धस्य द्रव्यान्तरसंयोगस्य हेतुत्वकल्पनायां तु क्लृप्तत्यागो%क्लृप्तपरिकल्पना च । ज्ञानादेरसमवायिहेतुत्वे बाधकस्यानुपलब्धेः तद्भिन्नत्वस्यासमवायिहेतुलक्षणे निवेशो%नर्थकश्चेति भावः । इहे ति। सुखादौ तु तद्विपर्ययः- कारणान्तरोपलम्भरूपं दृष्टान्ततो वैषम्यं प्रादर्शीति यावत् । एतावता पूर्वोक्तानुमाने%प्रयोजकत्वाव्द्याप्यत्वासिद्धिरूक्ता । व्याप्तिस्वीकारे चार्थान्तरमित्याह एवमपी ति। स तर्ही ति । तर्ही स इत्यन्वयः । दृष्टान्ते सः द्रव्यान्तरसंयोगः भौतिकः- भूतारब्धः भौतिकप्रतियोगिक

एव दृष्ट इति प्रकृते%पि भौतिकदेहादिप्रतियोगिकात्मानुयोगिकसंयोग एवानुमानपर्यवसानान्न काणादाभिमतनवमद्रव्यरूपाभौतिकमनःसिद्धिप्रत्याशेत्यर्थः । स्पर्शवद्द्रव्यसमवेत इति निदर्शनाभिप्रायेण । स्पर्शवन्नित्यद्रव्यविशेषगुणं प्रत्येवकार्यभूतं द्रव्यान्तरसंयोगस्य हेतुत्वं दृष्टानुसारात्कल्प्यम् । न त्वस्पर्शनित्यद्रव्यविशेषगुणं प्रत्यपीति व्यज्यते%नेन । एवं सुखादावसमवायिहेतुत्वेन द्रव्यान्तसंयोगस्य साधनं न संभवतीत्युक्तम् ।

अथ तत्साधनाभ्युपगमे%पि विवक्षितमभौतिकं मनस्तत्त्वान्तरं न सेत्स्यतीति प्रपञ्चयति । तत्र शङ्का अथोच्येते ति । प्रत्यासिद्धम्-प्रतिषिद्धम् । पाथसीयं-जलीयम् । शक्याध्यवसानं-शक्यनिश्चयम् । मनो न पार्थिवं तैजसादि वा रसावगमनिमित्तेन्द्रियत्वाद्रसनावत् । मनो न जलीयं गन्धग्राहकेन्द्रियत्वाद्घ्राणवदिति भौतिकत्वनिषेधः । युगपज्ज्ञानानुत्पत्तिलिङ्गेनाणुत्वेन सिद्धेर्न विभुद्रव्यान्तर्भावः । अतो नवमद्रव्यत्वसिद्धिर्मनस इत्यभिमानः । परिहरति तदनुपपन्न मित्यादिना । धर्मी ति । मनसि पक्षे%भिमतो यो विशेषो%भौतिकत्वरूपः, तद्विपरीतसाधकत्वादुक्तहेतुनामित्यर्थः । रसग्राहकेन्द्रियत्वं जलीयत्वं गन्धग्राहकेन्द्रियत्वादि पार्थिवत्वादि च मनसः साधयेदिति भावः । अत्र शङ्कते अथ शब्दे ति । रूपादिषु मध्ये गन्धमात्रग्राहकत्वं पार्थिवत्वसाधकम् । एवं रसमात्रग्राहकत्वादि च जलीयत्वादेः । तथा च मनसः पार्थिवत्वादिसाधकहेतोरसिद्धिरिति भावः । अत्रोत्तरं हन्त तर्ही ति । यद्भूतगुणमात्रग्राहकं यदिन्द्रियं तदेव भूतान्तरव्यतिरिक्तत्वेन संप्रतिपन्नमिति भूतान्तरगुणग्राहकतामात्रेण न तत्तद्भूतगुणग्राहकस्य मनसः तत्तद्भूतव्यतिरेकसिद्धिरित्यर्थः ।

गन्धाद्यग्राहकत्वमेवापार्थिवादिसाधकम् । तच्च मनसो%भौतिकानुमाने पक्षे मनस्यसिद्धमिति भावः । अपार्थिवत्वाद्यनुमाने तत्तद्भूतगुणाग्राहकत्वमुपाधिरिति चोक्तं भवति । एवमभौतिकत्वानुमानं प्रदूष्य मनसो भौतिकत्वानुमानमुपस्थापयति अपि च शब्दादी ति । मनः पाञ्चभौतिकं पञ्चभूतगुणावगमसाधनत्वाद्देह

वदिति प्रयोगः । पञ्चभूतोपादनकत्वे गौरवाज्जातिसाङ्कर्यभीत्या च पक्षान्तरमाह एकद्वी ति । देहस्येवैकभौतिकस्य भूतान्तरोपष्टब्धत्वाद्भूतान्तरगुणोपलम्भसाधनत्वोपपत्तिर्मनस इति भावः । अस्य पार्थिवत्वे श्रुतिमपि संवादरूपेणोदाहरति अन्नमयं ही ति । श्रुतेरान्यपर्यं शङ्कते तन्ने ति । ननु इत्यादिः । तत्- निरुक्तश्रुतिवचनम् । तदधीने ति । अन्नरसाप्यायितस्यैव मनसः सङ्कल्पनादिव्यापारक्षमतया%न्नमयत्वं श्रूयते%न्नरसपरिपोषितत्वलक्षणम्, वायुविशेषस्य प्राणस्येवाम्मयत्वं जलरसाप्यायितत्वादिति भावः । मनो%भौतिकत्वे श्रुत्यर्थापत्तिमप्याह अत एवे ति । यदि भौतिकं मनः, तर्हि मुक्तौ नानुवर्तेत देहादिवदिति । मुक्तौ मनो%नुवृत्तौ श्रुतिमाह तत्रैवे ति । छान्दोग्य एवाष्टमे प्रपाठके । अन्नमयं ही ति तु षष्ठे । मुक्तस्य मनोयोगमुक्त्वा नित्यमुक्तस्वभावस्येश्वरस्यापि तत्र प्रमाणमुदाहरति तथे ति । पुराणे-श्रीवैष्णवे पञ्चमें%शे । तन्ने त्यादिनोक्तमाक्षेपमर्धाङ्गीकारेण परिहरति उच्यते इति । सत्यमित्यर्धाङ्गीकारे । श्रुतेरान्यपर्ये%भ्युपगमः । मनसो%तिरिक्ततत्त्वत्वे%नुपगमः । एवं वा%%श्रयणम्-भौतिकत्वाश्रयणं वा । वाकारो%नास्थायाम् । अत एव स्वाशयं प्रकटीकरोति मनोविषये परमार्थतस्तु इत्यादिना । बुद्धावेवे ति । बुद्धावेव मनःशब्दो वाचकत्वेन वर्तत इत्यर्थः । मुक्तस्येश्वरस्य च बुद्धिमत्त्वादेव समनस्कत्ववाचोयुक्तिः । तयोरमनस्कत्ववचनं तु कर्मकृतबुद्धिवृत्तिनिषेधाभिप्रायमिति भावः । बुद्धेरेव मनस्त्वे लौकिकव्यवहारमुक्त्वा लौकिकप्रत्यक्षमपि प्रदर्शयति मनसः इति । मनः प्रसन्नमित्याद्यध्यक्षं प्रत्यक्षबुद्ध्यालम्बनमेव संभवति, न त्वतीन्द्रियमनोगोचरमिति भावः । बुद्धिशब्देन ज्ञानं विवक्षितम् । ननु बुद्धेर्ज्ञानस्यैव मनस्त्वे%न्तःकरणत्वोक्तिस्तस्य कथं सङ्गच्छत इत्यत्राह एवं चे ति । विषयस्मृत्यादिहेतुभूतव्यापारवत्त्वप्रदर्शनार्थं बुद्धेरन्तःकरणत्वव्यपदेशः, अध्यवसायादिहेतुव्यापारवत्त्वप्रदर्शनार्थं बुद्ध्यादिव्यपदेश इव मनसो%तिरेकवादे%पीति भावः । अत्र विमर्शकेन सुखादिसाक्षात्कारकरणत्वेन मनसो%नुमानं तार्किकाभिमतं न विमृष्टम्

। अयमत्राशयः - इन्द्रियसौष्ठवोपघातयोरेव सुखदुःखरूपत्वात्तयोश्चातीन्द्रियत्वान्न तत्साक्षात्कारकारणतया मनो%नुमेयम् । यद्वा ज्ञानविशेषरूपत्वात्तयोर्ज्ञानस्वयं- प्रकाशत्वबलादेव तत्प्रतिभासोपपत्तिरिति ।

आहे त्यादिना विमर्शकेनातिरिक्तमनोनिरासे कृते सिद्धान्तीस्वाशयमाविष्करोति उच्यत इत्यादिना । अप्रतिज्ञाते ति । मनसो%नात्मत्वमेव प्रतिज्ञातम्-प्रकृतम् । मनःस्वरूपतत्त्वविचारस्याप्रकृतत्वान्नास्माभिरिदानीमतिरिक्तमनःसाधने प्रवर्त्यत इत्याशयः । अस्तु वा मुक्तानामीश्वरस्य च मनो बुद्धिरूपमेव । बद्धानां तु मन आहङ्कारिक मन्तःकरणं श्रुतिबलादभ्युपगन्तव्यमेव । स्मृत्यादिकरणतया च तदभ्युपगमार्हम् । परं तु तस्य न चेतनत्वं शक्यमध्यवसितुमिति हार्दम् ।।

प्राणात्मवादमुपक्षिपति अस्तु तर्ही ति । प्राणवति देहे जीवतीति, तद्रहिते च मृत इति व्यवहारात्प्राण एव जीवनकर्तृत्वाज्जीव इति भावः । इतरथे ति । परममहतः, अमहतश्च, इति पदच्छेदः । अमहत्त्वमणुत्वम् । निःस्पर्शत्वादात्मनि न क्रिया विभुत्वे%णुत्वे वा संभवतीति भावः ।

प्रतिक्षिपति वादमेनम् इदमप्यस दिति । अत्र प्रयोगत्रयम्- प्राणो नात्मा, सुषुप्तौ व्यापारवत्त्वरूपादात्मवैधर्म्यात् । प्राणो नात्मा, त्वाचप्रत्यक्षग्राह्यत्वाद्धटादिवत् । प्राणो नात्मा वायुत्वाव्द्यजनपवनवदिति । तद्वृत्त्या इति । प्राणव्यापारस्य भुक्तपीताहारपरिणामहेतुत्वम् अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। इति गीतास्मृतिसिद्धम् । तनुतरे ति । अल्पतरपृथिवीजलतेजोंशोत्तम्भितो जठरगतो वायुविशेषः प्राण इत्यर्थः ।

किञ्च-निरस्तो देहचैतन्यप्रतिषेधप्रकारतः ।

प्राणात्मवादो न पृथक् प्रयोजयति दूषणम् ।।9।।

अविभुत्वेनास्या%%त्मनः स्पर्शविरहिणो%पि प्रयत्नादृष्टप्रेरणानुगुण्येन मनस इवोत्क्रान्तिगत्यादयो युज्यन्त इति न तन्निर्देशानाममुरव्यार्थता । परिमाणनिरूपणे%प्येतद्भविष्यतीत्यलमधुना ।

(इति प्राणात्मवादनिरासप्रकरणम्)

भवतु तर्ही संविदेवा%%त्मा, अजडत्वात् । जडत्वप्रतिबद्धं ह्यनात्भ्यं घटादिषु दृष्टम् । जडत्वं च संविदो निवर्तमानं तदपि निवर्तयति । अजडत्वं च संविदः सत्तयैव प्रकाशमानत्वात् । नहिसती संविद्धटादिरिवाप्रकाशमाना%वतिष्ठते, येन परायत्तसिद्धिरास्थीयेत ।

(इति संविदात्मत्वपक्षोपस्थापनम्)

स्यान्मतम्-जातायामपि संविदि विषयमात्रं प्रथते । न खलुनीलमिदमिति प्रतियन्तः तदैवानीलमनिदंरूपमपि संवेदनं प्रतीमः । अतः स्वरूपसत्यैव संविदा इन्द्रियसन्निकर्षेणेव विषयः प्रकाश्यते । ततश्च तद्गतागन्तुकप्रकाशातिशयदर्शनेन पश्चात् संविदनुमास्यते इति ।

(इति संविदनुमेयत्वपक्षेण तदजडत्वाक्षेपः)

तन्न । ज्ञानव्यतिरेकिणो%र्थधर्मस्य प्रकाशस्य निपुणमपि निरीक्षमाणानां रूपादिवदनुपलब्धेः । उभयाभ्युपेतसंविदैव सकलव्यवहारोपपत्तौ च तत्कल्पनानुपपत्तेः । वित्तिवेदितृप्रतिभासशून्यायां च विषयवित्तावभ्युपगम्यमानायां घटस्तावदयम्, अहं तु जानामि न वेति, न ज्ञायते इति च कदाचित्प्रतिभासः स्यात् । नचैवमस्ति । अतीतानागतविषयग्रहणस्मरणेषु व्याहारव्यवहारयोरभावे, भावे%पि, ततः प्रागेव विदितत्वप्रतीतेः नानुमानिकी तत्र विषय(प्रकाश)सिद्धिः, नतरां तत्पूर्विका तत्र बुद्धिसिद्धिः । तथाहि- केनचित्प्रेरितः प्रणिधाय स्मृत्वा%नन्तरमेव प्रतिवदति स्मृतमद्य मयेति । न चाय

मेव व्याहारस्तत्र लिङ्गम्; तत्पूर्वकत्वात्, अन्योन्याश्रयणापत्तेश्च । स्वव्याहारेण स्वज्ञानानुमानं क इव निरपत्रपः प्रतिजानीत? ।

(इति संविदनुमेयत्वनिरासः)

अन्यच्च-यत्संबन्धादर्थान्तरे यो व्यवहारः धर्मभेदो वा, स तस्मिन्नुपलभ्यमानस्तत्स्वरूपप्रयुक्तः; न तु तत्संबन्धनिबन्धनः । यथा सत्तासंबन्धात् पृथिव्यादिषु सद्व्यवहारः,रूपसंबन्धाच्च चाक्षुषत्वं सत्तायां रूपे च । एवं संवित्संबन्धात्प्रवर्तमानो घटादिषु प्रकाशत इति व्यवहारः प्रकाशमानत्वं वा धर्मः संविदि तु परिदृश्यमानो न संवित्संबन्धापेक्षः, अपि तु तत्स्वरूपप्रयुक्त इति स्वयंप्रकाशत्वात् सैवा%%त्मेति । किंच यो%पि संविदो%न्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छत्येवासौ संविदम् । नह्यसत्यामेव संविदि संवेत्तीत्युपपद्यते । एवं चेत्, उभयवादिसंप्रतिपन्नतया सैव वरं वेदित्री भवतु; किमन्येन कल्पितेन? ।

(इति संविदः स्वयम्प्रकाशत्वात्मत्वसाधनम्)

ननु अहं जानामीति ज्ञानातिरिक्तस्तदाश्रयभूतो%यमात्मा प्रतीयते । सत्यम् ; स तु विकल्परूपतया साक्षात्प्रत्यक्ष इति न शक्यः संश्रयितुम् । भेदज्ञानसिद्धवत्कारेण पृथग्वस्तुतया गृहीताव्यभिचारेण सहोपलम्भनियमेन, अप्रकाशात्मनश्च स्वभावविरोधादेव प्रकाशायोगात्, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा प्रकाशात्मनो%हमित्यंशस्य तत्त्वमेव दुरुपगमम् । ग्राह्यविकल्पप्रत्युद्धारे%प्येष एव प्रकारः । अतो वासनाभिधानसमनन्तरप्रत्ययसामर्थ्यादनाद्यविद्यावशाच्च समारोपितावास्तवग्राह्यग्राहकविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती । सैवा%%त्मेति सौगताः प्रकटाः प्रच्छन्नाश्च ।

यथा%%हुः प्रकटाः- " अविभागो%पि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते " ।।इति ।।

यथा वा प्रच्छन्नाः- " शुद्धं तत्त्वं प्रपञ्चस्य न हेतुरनिवृत्तितः । ज्ञातृज्ञेयविभागस्य मायैव जननी ततः " ।।इति ।।

(इति संविदात्मत्वपूर्वपक्षप्रकरणम्)

अत्रा%ह-क्षणभङ्गिनी प्रतिविषयमन्यान्या च संविच्चकास्ति । सैव चेदात्मा, पूर्वेद्युर्दृष्टमपरेद्युरहमिदमदर्शमिति कथमिव प्रत्यभिजानीयात् ? । न च नीरालम्बनप्रतिभाभेदमात्रतयेह समाधेयम् निरालम्बनत्वप्रतिज्ञायाः प्रत्यक्षादिसक

लप्रतीतिबाधितविषयत्वात् । साधनस्य च सालम्बनत्वे तदविशेषादशेषशेमुषीणां तथात्वापत्तेः; निरालम्बनत्वे च साधनाभावादेव साध्यासिद्धेः । प्रपञ्चितश्च पूर्वोत्तरमीमांसाभागयोर्निरालम्बनत्वप्रतिषेधः ; यथार्थरव्यातिसमर्थनेन च शास्त्र इति न व्यावर्ण्यते ।

अत एव न सन्तानाश्रयणेनापि प्रत्यभिज्ञोपपादनं साधीयः । विज्ञानक्षणव्यतिरिक्तस्य स्थायिनो%नुसन्धायिनः सन्तानस्याभ्युपगमे स्वसिद्धान्तत्यागः, परसिद्धान्ताभ्युपगमश्च । अनभ्युपगमे प्रत्यभिज्ञानुपपत्तिः । न ह्यन्येनानुभूते%न्यस्य प्रतिसन्धानसंभवः । न च सुसदृशतया भेदाग्रहणेन प्रदीपादाविव प्रमातरि प्रत्यभिज्ञाभ्रान्तिः । युज्यते हि तत्रैकस्यैव पूर्वापरव्यक्तिदर्शिनः तुल्यसंस्थानतया व्यक्तीनां भेदमविदुषः तथा भ्रमः । इह तु संविद्व्यक्तयः परस्परवार्तानभिज्ञा निरन्वयविनाशिन्यश्च सुगतमत इति न तास्वेकत्वभ्रमस्या%%श्रयता विषयता वा संभविनी । न च सुसदृशत्वे%पि अन्येन कृतमात्मकृततया%न्यो%नुसन्धातुमलमित्यागमापायिसंवित्सन्तानाश्रयः प्रत्यभिज्ञानक्षणस्थायी चेतनो%भ्युपगन्तव्यः ।

(इति क्षणिकविज्ञानात्मवादनिरासप्रकरणम्)

कश्चिदाह-न संविदनित्या, प्रागभावाद्यसिद्धेः । तदसिद्धिश्च तस्याः स्वतःसिद्धत्वात् । नहि स्वतःसिद्धस्य प्रागभावादयः स्वतो%न्यतो वा

सिद्ध्यन्ति । स्वयं हि स्वाभावमवगमयत् सद्वा असद्वा साधयेत् । सत्त्वे%भाव् एव नास्तीति कथं साधयेत् ? । असत्त्वादेव साधकस्य पक्षान्तरे नतरां साधकत्वमिति न स्वतः तावत्तत्सिद्धिः । नाप्यन्यतः ; अनन्यगोचरत्वादनु- भूतेः । अनुभाव्यत्वे च घटादिवदननुभूतित्वप्रसङ्गात् । अतः सा न जायते । जन्माभावादेवेतरे%पि भावविकाराः निराकार्याः, तत्प्रतिबद्धत्वात्तेषाम् । अत एव नानात्वमपि संविदि प्रत्युक्तम् ; उत्पत्तिमत्त्वव्यापकनिवृत्त्या तद्व्याप्यभूतनानात्वस्यापि निवृत्तिसिद्धेः । नह्यजं विभाग्यस्ति । चेत्यत्वाच्च भेदेतरेतराभावादयो न तद्धर्माः, रूपादिवत् । अतो%स्या न मेयः कश्चिदपि धर्मो%स्ति । अतो निर्धूतनिखिलभेदविकल्पनिर्धर्मप्रकाशमात्रैकरसा कूटस्थनित्या संविदेवा%%त्मा परमात्मा च । यथा%%ह " या%नुभूतिरजा%मेया%नन्तात्मा " इति । सैव च वेदान्तवाक्यतात्पर्यभूमिरिति

तेषां भाषा । यथा%%ह तद्वार्तिककारः- " परागर्थप्रमेयेषु या फलत्वेन संमता । संवित् सैवैह मेयो%र्थो वेदान्तोक्तिप्रमाणतः ।। अप्रामाण्यप्रसक्तिश्च स्यादितो%न्यार्थकल्पने । वेदान्तानामतस्तस्मान्नान्यमर्थं प्रकल्पयेत् " ।।इति ।।

(इति निर्विशेषनित्यविज्ञानात्मत्वमतोपपादनप्रकरणम्)

तदिदमलौकिकमवैदिकं च दर्शनमित्यात्मविदः । तथाहिसंविदिति स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनशीलो ज्ञानावगत्यनुभूत्यादिपदपर्यायनामा सकर्मकः संवेदितुरात्मनो धर्मः प्रसिद्धः । तथैव हि सर्वप्राणभृत्प्रत्यात्मसिद्धो%यमनुभवः "अहमिदं संवेद्मी"ति । तस्यास्योत्पत्तिस्थितिनिरोधाश्च सुखदुःखादेरिव प्रत्यक्षाः प्रकाशन्ते । स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हति । यदि हि तास्वपि दशासु संवेदनमवर्तिष्यत, ततः प्रबोधसमये%नुसमधास्यत । न चा%नुसन्धीयते । अत एव हि "इयन्तं कालं न किञ्चिदहमज्ञासिष"मिति प्रबुद्धः प्रत्यवमृशति ।

यावदनुभूतपदार्थस्मरणनियमाभावे%पि संस्कारविच्छेदनिमित्तप्रायणादिप्रबलहेतुविरहे%पि नित्यवदस्मरणमनुभवाभावमेव साधयति । न च सत्यपि संवित्प्रकाशे विषयावच्छेदविरहादहङ्कारगोचरापायाद्वा तत्स्मृत्यनुदयः ; अर्थान्तराभावस्य तदग्रहणस्य चार्थान्तरप्रकाशप्रयुक्तकार्यप्रतिबन्धकत्वायोगात् । त्रितयावभासे%पि यथास्वमवभासानां स्वगोचरस्मरणहेतुत्वात् । नच प्रत्यभिज्ञाबललब्धस्थेमा%हमर्थः स्वापादिदशासु निधनमुपगत इति शक्यो%भिधातुम् । अत एव हि "इयन्तं कालमहस्वाप्स"मिति प्रबोधे परामर्शः । नच निर्विषया निराश्रया वा संविन्नाम काचित् संभवति, अत्यन्तानुपलब्धेः । संबन्धिशब्दाश्च संविदनुभूतिज्ञानप्रकाशादिशब्दा इति शब्दार्थविदः

। न ह्यकर्मकस्य जानात्यादेरकर्तृकस्य वा प्रयोगो लोके वेदे वा ।

यत्तु स्वतःसिद्धस्य सत्त्वे तद्विरोधादेव प्रागभावादेः तदानीमवस्थानासंभवान्न ततः सिद्धिरिति, तदतिस्थवीयः । नहि संविदास्वकालवर्तिन एवार्थाः सिद्ध्यन्तीत्यस्ति नियमः । अतीतानागतयोरसंवेद्यत्वप्रसङ्गात् । अथ संवित्प्रागभावादेः सिद्ध्यतः तत्समकालतया भवितव्यमिति; किमेवं क्वचिद्दृष्टम् ? हन्तैवं

सति तत्सिद्धेर्न प्रागभावाद्यसिद्धिः । तत्प्रागभावः तत्समकाल इत्युन्मत्तवचः । ऐन्द्रियिकप्रत्यक्षस्वभावो ह्ययं स्वसमकालपदार्थप्रकाशकत्वं नाम । न ज्ञानमात्रस्य, प्रमाणमात्रस्य वा । एतेन तदपि पराकृतम्- " मानं स्वयंप्रकाशत्वात्स्वतःसच्चेत्सदा%स्त्यतः । तन्मेयं च सदा%स्त्येव मानं मेययुगेव हि " ।।इति । नहि मानस्य स्वसत्ताकाले%र्थाविनाभावो मेययोगः । किंतु यद्देशकालादिमत्तया मेयमवभासते तादृशतद्रूपमिथ्यात्वविरोधित्वम् । अत एव "स्मृतिर्नबाह्यविषया, नष्टे%प्यर्थे स्मृतिदर्शना"दित्यपि प्रलापः ।

अथ संवित्प्रागभावादेरवर्तमानतया न प्रत्यक्षत्वम् । लिङ्गाद्यभावाच्च न प्रमाणान्तरतः सिद्धिरिति । यद्येवम्, अकारणं तर्हि स्वतःसिद्धत्वं प्राग

भावाद्यसिद्धेः । प्रमाणाभाव एव हीदानीं वाच्यः । न च तदभावः शक्यो%भिधातुमित्युक्तमेव । योग्यानुपलब्ध्यैवाभावस्य समर्थितत्वात् ।

अपिच प्रत्यक्षसंवित् स्वसत्ताकाले स्वविषयस्य सद्भावं साधयन्ती यत्तस्य न सर्वदा सत्तां साधयति, तदवसीयते अहमिदानीमेवास्मि नान्यदेति कालविशेषावच्छिन्नैव सा चकास्तीति । इतरथा घटादेरपि नित्यत्वप्रसङ्गात् । एवमनुमानादिसंविदो%पि । नच प्रत्यक्षानुमानादिभेदशून्या निर्विषया निराश्रया धीः संभवतीत्युक्तमेव ।

न चान्याविषयत्वात् संविदो%न्यतः तत्प्रागभावाद्यसिद्धिः । अज्ञासिषमिति प्राक्तनसंविदो%द्यतनधिया विषयीक्रियमाणत्वात् । प्रतिकूलानुविषयनियतहानोपादानादिलिङ्गावगम्यत्वाच्च परसंविदः । तदनभ्युपगमे च शब्दार्थग्रहणासंभवेन वैदिकलौकिक समस्तव्यवहाराभावप्रसङ्गः । गुरूपसर्पणाद्यनुपपत्तिश्च ; ज्ञानवत्त्वेन तस्याप्रतीतेः ।

न चान्यविषयत्वे%ननुभूतित्वम् । स्वाश्रयस्य स्वसत्तयैव प्रकाशमानत्वं, स्वविषयसाधनत्वं वा ह्यनुभूतित्वम् । ते च संविदन्तर विषयभावे%पि स्वानुभवसिद्धे न भ्रश्यत इति कथमननुभूतित्व प्रसङ्गः? । घटादेस्तु तथास्वाभाव्याभावादेवाननुभूतित्वं, नानुभाव्यत्वात् । अपि चाननुभाव्यत्वे%पि समानः तत्प्रसङ्गः, गगनकुसुमवत् । न चात्मनो%नुभूतित्वम्, अनुभवितृत्वात् । नाप्यसावननुभाव्यः,

अनुभवस्येव स्वतःसिद्ध्यतो%प्यस्य स्वपरसंवेद्यत्वाभ्युपगमात् । वेद्यत्वे%नात्मत्वापादनमवेद्यत्वे%पि समानं पूर्ववत् । यदि तु गगनकुसुमस्यासत्त्वमेवानात्मत्वाननुभूतित्वप्रयोजकमास्थीयेत; आस्थीयतां तर्ही घटादेरपि असंविदाश्रयत्वाज्ञानाविरोधित्वयोरेव तत्प्रयोजकत्वम् । अथ ते अपि विषयत्वे स्यातामिति चेत्, अविषयत्वे%पि तथैवेत्यलमप्रतिष्ठितकृतर्कापहसनेन ।

यदपि जननविरहादनुभूतेर्विकारान्तरनिरसनम्, व्यभिचरति तदपि प्रागभावे । जन्माभावे%पि तस्य विनाशदर्शनात् । भावविशेषणोपादाने%पि भवदभिमताविद्यया%नैकान्त्यम् । सा ह्यनादिरपि विविधविकारवती विनाशवती च तत्त्वज्ञानोदयात् । अपरमार्थास्तद्विकाराः सन्तीति चेत्, परमार्थाश्च ते किं विकाराः सन्ति?, जन्मवन्तो वा परमार्थाः; येन पारमार्थ्येन विशेषणं साध्यस्य साधनस्य वा%र्थवत्तामश्नुवीत । तथाच सति साधु समर्थितं तर्ककुशलेनेत्यमनेन ।

यदपि नह्यजं विभाग्यस्तीति; तदपि न; अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्य समर्थितत्वात् । अनादित्वेनाभ्युपगतस्याज्ञानस्या%%त्मनो व्यतिरिक्ततयावश्याश्रयणीयत्वात् । अपरमार्थः स विभाग इति चेत्, परमार्थभेदः किं जन्मप्रतिबद्धः क्वचिद्दृष्टः? निर्बाधप्रतीतिसिद्धश्च दृग्दृश्यभेदः परमार्थ एवेत्यनन्तरमेवोपपादयिष्यामः ।

यदपि नास्या मेयो धर्मो%प्यस्ति; चेत्यानां न चिद्धर्मत्वमिति च; तदपि शास्त्रानुमानादिप्रमाणसिद्धैः स्वयंप्रकाशत्वनित्यत्वादिधर्मैः स्वयमभ्युपगतैरनैकान्तिकम् । न च ते चितिमात्रमिति वाच्यम्; तत्सिद्धावपि तेषु

विमतिदर्शनात् । अभ्युपगम्यैव हि संविदं तदनुमेयत्वक्षणिकत्वादि प्रतिजानते वादिनः । स्वरूपभेदाच्च । स्वाश्रयं प्रति सत्तयैव कस्यचित् प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु सत्तयैवा%%त्मने प्रकाशमानता । प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितम् । तदनभ्युपगमे तु व्यवहारानुगुण्यवचनः प्रकाशशब्दः । नित्यता तु सर्वकालवर्तमानता । एकसङ्ख्यावच्छेद एकत्वमिति । नच जडत्वकालदेशनानात्वाद्यवच्छेद- शून्यतारूपत्वात्तेषां न यथोक्तदोष इति युक्तम् । तथाभूतैरपि तैः चितिधर्मभूतैरनैकान्त्यस्यापरिहार्यत्वात् । संविदि च निषेध्यत्वाभिमतज

डत्वानित्यत्वनानात्वादिविरूद्धविविधधर्माभावे निषेधोक्तिरुक्तिमात्रमेव । चेत्यं चाज्ञानमात्मनि दृष्टमिष्टं च भवताम् । अपि चास्या इति षष्ठ्या%नुभूतेः संबन्धमभिधाय निर्धर्मत्वं प्रतिज्ञायमानं वन्ध्यात्वमिव जनन्या विरुद्धार्थमापद्येत ।

प्राणात्मवादे देहात्मवाददूषणजातमतिदिशन्नाह निरस्त इति । अनिरस्तो%दूषितो हि प्रतिपक्षितया%वस्थितः प्राणात्मवादः निरासकयुक्तयन्तरापादन- प्रयोजकीभावमापद्येत । न तु देहात्मवाददूषणैरेव दूषितो%सत्प्राय इति भावः ।।9।।

आत्मनो गत्यनुपपतिं्त परिहरति अविभुत्वेने ति । विभुत्वे गतिर्नोपपद्येतेति युक्तम् । अणुत्वे तु मनस इव निःस्पर्शस्यापि गतिरात्मन उपपद्यत एव । न च स्पर्शस्य गतौ हेतुत्वं प्रयत्नादृष्टादिप्रेरणमन्तरेति भावः । परिमाणे ति । एतदात्मनो गतिमत्त्वमात्मनः परिमाणनिरूपणप्रकरणे%पि निरूपितं भविष्यतीति अधुनैतावता गतिमत्त्ववर्णनेनालमित्यर्थः । अलममुनेति पाठान्तरम् ।

अत्र संविदात्मवादी समुत्तिष्ठते भवतु तर्ही ति । संविदात्मा, अजडत्वादिति प्रयोगः । व्यतिरेकव्याप्तिमाह जडत्वे
ति । प्रतिबद्धं-व्याप्यम् । अनात्म्यम्-अनात्मत्वम् । आत्मनो भाव आत्म्यं तस्या%भाव इति व्युत्पत्तेः । व्यतिरेकोपनयनिगमने आह जडत्वं चे ति । तदपि-अनात्म्यमपि । व्यापकनिवृत्तेर्व्याप्यनिवृत्त्याक्षेपकत्वात् व्यापक जडत्वनिवृत्त्या व्याप्यानात्म्यनिवृत्तिः सिद्ध्यतीति भावः । अजडत्वहेतोरसिदिं्ध परिहरति अजडत्वं चे ति । स्वसत्तामात्रतः प्रकाशमानत्वात् परायत्तप्रकाशत्वलक्षणजडत्वाभाव इति भावः । नही ति । परायत्तसिद्धिः-पराधीनप्रकाशा । जडेति यावत् ।

अत्र संविदनुमेयत्ववादिनां भाट्टानां मतमनुवदति स्यान्मत मिति । विषयमात्र मिति । न हि नीलो%यं घट इति ज्ञाने ज्ञानस्य विषयत्वं संभवति पटादेरिवेति भावः । ननु घटमहं जानामीति ज्ञानप्रकाशस्तर्हि कथम् ? तत्राह

ततश्चे ति । ततः पश्चाच्चेत्यन्वयः । चस्त्वर्थे । अयं भावः- ज्ञानाद्विषये ज्ञातता नाम धर्मो जायते । स एव प्रकाश इत्युच्यते । स एव ज्ञानकृतो%र्थस्यातिशयो नाम । स च प्रत्यक्षो ज्ञातुः । तेन चार्थप्रकाशरूपलिङ्गेनात्मनि तद्धेतुं ज्ञानमनुमिनोति । आनुमानिकज्ञानालम्बनश्च घटमहं जानामीति निरुक्तप्रत्ययः । अनुमानप्रकारश्च इयं घटत्वप्रकारकज्ञातता घटत्वप्रकारकज्ञानजन्या तथा विधज्ञाततात्वादिति । तद्धर्मप्रकारकज्ञानज्ञाततयोः

कार्यकारणभावाच्च व्याप्तिसिद्धिः ।

एतद्भाट्टमतं प्रतिक्षिपति तन्ने ति । ज्ञाने ति । ज्ञानविषयता हि ज्ञातता । तद्विषयतया%र्थसंबद्धज्ञानव्यतिरिक्ततया विषयधर्मस्यातिशयविशेषस्यासिद्धिः । मम घटज्ञानं जातम्, ज्ञातो मया घट इति प्रतीत्योर्धर्मिधर्मभावव्यत्यासमन्तरा%र्थभेदस्यानानुभाविकत्वादिति भावः । प्रत्यक्षासिद्धिमुक्त्वा ज्ञाततारूपातिरिक्तप्रकाशे कल्पनासिद्धिमाह उभये ति । ज्ञानविषयतयैवार्थे ज्ञातव्यवहारोपपत्तेस्तदनुपपत्तिलक्षणं ज्ञाततायामतिरिक्तायां कल्पकमसिद्धमिति भावः । अर्थज्ञानेषु ज्ञानस्य ज्ञातुरहमर्थस्यात्मनश्च नियतं भानमिति प्राभाकरप्रक्रियया समर्थयति वित्ती ति । ज्ञानज्ञात्रनवगाहिन्यां ज्ञेयप्रतीतावुपगतायां जाते%पि घटज्ञाने%हं तज्ज्ञानवान् न वेति संशयः, तज्ज्ञानाभाववानहमित्यादिविपरीतनिश्चयश्च कदाचिद्भवेत्,स्वस्य ज्ञानवत्त्वेनाप्रतिभासात् । तन्त्रितयविषयकत्वं ज्ञानस्यषितव्यमिति भावः । तथाच स्वप्रकाशत्वसिद्धेर्ज्ञानस्य तत एव विषयव्यवहारवत् ज्ञातताव्यवहारो%पि घटत इति नार्थान्तरज्ञातताकल्पनावसर इति हार्दम् । अथातीतानागतेष्वर्थेषु ज्ञातताया उत्पत्त्यसंभवात्तत्र ज्ञानेनैव ज्ञातताप्रतीतिरुपपाद्या, समैव चेयं रीतिः प्रत्यक्षे%पीत्याशयेना%%ह अतीते ति । अत्र ग्रहणमनुमानादिलक्षणम् । व्याहारः-शब्दो व्यवहारः। व्यवहारः कायिकोहानोपादानादिः । उभौ विदितत्वप्रतीतिमूलावत्र ग्राह्यौ । विदितप्रतीतिमूलयोस्तयोः सद्भावे%सद्भावे वा विदितत्वव्यवहारात्पूर्वमेव विदितत्वप्रतीतेस्तन्मूलभूताया उदय इति न तत्र व्याहारलिङ्गेन विदितत्वमनुमाय ततो वेदनानुमा

नम् । किन्तु स्वयंप्रकाशवेदनबलादेव विदितत्वप्रतीतिः अथ च तन्मूलव्यवहार इति भावः । आनुमानिकी तत्र

विषयसिद्धि रिति क्वचित्पाठे%यमर्थः-विषयस्य सिद्धिः प्रकाशरूपा%नुमानप्रमाणप्रतिपन्नेति । विषयप्रकाशसिद्धि रिति पाठे तु अनुमानप्रमाणजनिता विषयप्रकाशानुमितिरित्यर्थः । व्यवहारात्पूर्वमेव ज्ञातत्वप्रतीतिं स्मृतिस्थले उदाहरति केनचि दिति । स्मरणेनैवार्थस्य स्मृतत्वमवबुद्ध्य व्याहरति स्मृतमद्य मये ति । यदि लैङ्गिकी स्मृतत्वप्रतीतिः, तर्ह्यनेनैव व्याहारेण लिङ्गेन स्वस्यार्थे स्मृतत्वप्रतीतिरानुमानिकीति वाच्यम् । तत्र चान्योन्याश्रयणं प्रसज्यते । स्मृतत्वप्रतीत्या तद्व्यवहारः, तेनैव च सा स्वस्येति । तथा च ज्ञानस्वप्रकाशत्वनिबन्धनैव ज्ञातत्वप्रतीतिरेष्टव्येति भावः । स्वव्याहारेणैवे ति । निरपत्रप इव क इत्यन्वयः । निरपत्रपः-निर्लज्जः । स्वव्याहारेण-अहं

जानामीति स्वनिष्ठज्ञानव्यवहारेण, स्वज्ञानानुमानम्-स्वनिष्ठज्ञानप्रतीतिं लैङ्गिकीम् । व्यवहारे व्यवहर्तव्यज्ञानस्य हेतुत्वात् स्वकीयज्ञानव्यवहारेणैव स्वस्य स्वकीयज्ञानानुमानमिति प्रतिज्ञा%नुपपन्ना%त्यन्तमिति यावत् । परकीयेन परात्मनो ज्ञानव्यवहारेण तदन्यस्य परात्मनिष्ठज्ञानानुमानसंभवात् स्वव्याहारेण स्वज्ञानानुमान मिति निर्दिष्टम् । एवं ज्ञातताया असिद्धिः; ज्ञात इति प्रतीतिव्यवहारयोः स्वप्रकाशज्ञानत एवोपपत्तेः । ज्ञानस्य स्वप्रकाशत्वं चजाते ज्ञाने स्वात्मनि ज्ञानसंशयज्ञानाभावनिश्चयानुदयबलात् निश्चेयमिति वर्णितम् ।

इदानीमभ्युपगम्यापि विषयनिष्ठं धर्मान्तरं प्रकाशं तदवष्टम्भेनैव ज्ञानस्य स्वयंप्रकाशत्वं समर्थयति प्रकाशानुमेयज्ञानवादनिरासार्थम् अन्यश्चे त्यादिना । अत्र प्रयोगद्वयम्-अनुभूतिरनन्याधीनतद्धर्मा स्वसंबन्धादर्थान्तरे तद्धर्महेतुत्वात् यथा रूपम्, तद्धि स्वसंबन्धाद्धाटादौ चाक्षुषत्वे हेतुः स्वस्मिन् रूपान्तरानपेक्षतद्धर्मवत्; अनुभूतिः अनन्याधीनस्वव्यवहारा स्वसंबन्धादर्थान्तरे व्यवहारहेतुत्वात् । यथा सत्ता । सा हि स्वसंबन्धाद्धटादौ सदिति व्यवहारहेतुः स्वीयसद्व्यवहारे सत्तान्तरा

नपेक्षा इति । आद्यः प्रयोगो%त्र ज्ञाततारूपं धर्मान्तरमभ्युपेत्य, द्वितीयस्तु तदनुपगमेन । हेतुसाध्यनिष्कर्षः श्रुतप्रकाशिकादितो%नुसन्धेयः । अनेन ज्ञाननिष्ठप्रकाशस्य ज्ञानान्तरानपेक्षत्वसिद्ध्या ज्ञानस्य स्वयंप्रकाशत्वोपपत्तिः । तथा च तस्यैवात्मत्वमित्याह स्वयंप्रकाशत्वा दिति । अत्रेदमाकूतम्-आत्मनः स्वयंप्रकाशत्वं तावत् अत्रायं पुरुषः स्वयंज्योतिर्भवती त्यादिश्रुतिसिद्धम् । ज्ञानस्य स्वयंप्रकाशत्वं च निरुक्तानुमानतः । अतस्तस्यैवात्मत्वं न्याय्यमिति । संविद आत्मत्वे लाघवमप्याह किं चे ति । वेदित्री-ज्ञातृरूपा आत्मेति यावत् । भवत्वि ति लोटू कामचाराभ्यनुज्ञायाम् । इतिपदमनुषञ्जनीयम् । संविद एव प्रकाममात्मत्वमित्यभ्यनुज्ञानं श्रेष्ठमित्यर्थः ।

संविद आत्मत्वे बाधकमाशङ्कते नन्वह मिति । प्राधान्यादहमर्थस्यैवात्मत्वं प्रतीयते, नतु धर्मतया भासमानायाः संविद इति भावः । अर्धाङ्गीकारेण परिहरति सत्य मिति । ज्ञातृत्वप्रतीतावुपगमः । तत्प्रामाण्ये%नुपगमः । तदप्रामाण्ये हेतुमाह स तु इति । ज्ञाता तु भेदरूपतया नसाक्षात् प्रत्यक्षप्रमाणसिद्धः, किन्तु भ्रान्तिसिद्धः । स्वलक्षणवस्तुमात्रावगाहि निर्विकल्पकमेव हि प्रमाणम् । धर्मधर्मिभावादिकल्पितभेदावगाहि सविकल्पकं तु

भ्रमलक्षणमति हार्दम् । ज्ञातृभेदप्रतीतेः यौक्तिकबाधमप्याह भेदज्ञाने ति । सिद्धवत्कारेणेत्यस्याग्रे%पीति योज्यम् । अपृथग्वस्तुतये ति पाठः संभाव्यते । वा अप्रकाशात्मन इति पदच्छेदः । तथा चायमर्थः-भेदज्ञानसिद्धवत्कारेणापि-क्वचिद्भेदज्ञानस्य प्रामाण्योपगमेनापि । संवेदनानां भेदस्य सौगतैः तत्त्वतः इष्यमाणत्वात् । अपृथग्वस्तुतया-अभिन्नवस्तुत्वेन साध्येन, गृहीताव्यभिचारेण-गृहीतव्याप्तिकेन, सहोपलम्भनियमेन-ज्ञानज्ञात्रोः महोपम्भनियमरूपहेतुना, ज्ञातुरप्रकाशस्वभावत्वे प्रकाशायोगः स्वभावविरोधादेव, प्रकाशस्वभावत्वे च संवेदनत्वमेवेत्यादिना वा संविदभेदसाधकेन संविद्भेदवाधकेन हेतुना अप्रकाशात्मनः संविद्भिन्नस्य ज्ञातुरहमर्थस्यात्मनः तत्त्वं-स्वरूपं दुरुपगमम्-उपगन्तुमशक्यमित्यर्थः । तृतीयान्तद्वयं दुरुपगममित्यनेनान्वितम् । ज्ञाता संविदभिन्नः संविदा सहैवोपलभ्यमानत्वात् प्रकाशस्वभावत्वाद्वा इति प्रयोगो%त्र बोध्यः । यद्वा पृथग्वस्तुतयेनत्वात् स्यात्पाठः । अव्यभिचारनिरूपकस्याभेदरूपसाध्यस्योपस्थितिस्त्वर्थात् । प्रकाशात्मन इत्येव चास्तु पदच्छेदः । सहोपलम्भनियमेन, प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा हेतुना प्रकाशात्मनः संविदभिन्नस्य सिद्ध्यत आत्मनः, भेदज्ञानसिद्धवत्कारेण-भादज्ञानप्रामाण्यसिद्धवदङ्गीकरणेन, पृथग्वस्तुतया-संविद्भिन्नत्वेन तत्त्वम् अस्तित्वं, दुरुपगममित्यर्थः । निरुक्प्रकारं ग्राहकभेदनिरासहेतुं ग्राह्यभेदनिरासे%प्यतिदिशति ग्राह्ये ति । सहोपलम्भनियमात् प्रकाशस्वभाव्ये च संवेदनत्वमित्यादितो वा संविदभिन्नत्वं नीलादेर्विषयस्येति ज्ञानभिन्नत्वेन नीलाद्यर्थभेदस्याप्यसत्त्वमित्यर्थः । ननु ग्राह्यग्राहकयोः संविदभेदे ज्ञातृज्ञेयभेदानां ज्ञानतोभेदेनावभासः कथमित्यत्राह अत इति । दोषमूलोग्राह्यग्राहकभेदावभासो मिथ्या;

संविदाभासमात्रं सत्यमिति भावः । तत्र वासना दोष इति प्रकटानां सौगतानां योगाचाराणां पक्षः । अनाद्यविद्या दोष इति प्रच्छन्नानां मायावादिनाम् । ग्राह्यग्राहकविकल्पः-ज्ञेयज्ञातृभेदः ज्ञानविषयत्वज्ञानाश्रयत्वलक्षणः ।

उक्तार्थे प्रकटानां सौगतानां संमतिं प्रदर्शयति अविभोगो%पी ति । बुद्धिरेवा%%त्मा । सा च निर्भेदापि भ्रान्तिज्ञानैः नीलभेदादिग्राह्यभेदचैत्रमैत्रादिग्राहक भेद- प्रत्यक्षत्वानुमानत्वादिलक्षणज्ञानभेदवतीव प्रतीयत इति कारिकार्थः । मायिनां संमतिमुपदर्शयति शुद्ध मिति । भेद प्रपञ्चस्य शुद्धं तत्त्वं नोपादानम् । तथा सति परमार्थत्वापत्त्या%निवृत्तिप्रसङ्गात् । ततस्तस्य प्रपञ्चस्य मायैव-विविधविचित्रमिथ्यार्थप्रतिभासहेतुः मिथ्याभू

ता%नाद्यविद्यैव जननी उपादानमिति कारिकार्थः । निर्विशेषसन्मात्रं चिद्रूपं परमार्थः । तत्राधिष्ठाने अपरमार्थनानाभेदप्रतिभासो माययेति भावः ।

आत्मनः स्वयंप्रकाशत्वं श्रौतम् । संविदस्तथात्वं च युक्तिसिद्धम् । तत्तस्या एवात्मत्वम् । तद्भिन्नस्य तु सर्वस्य दोषमूलत्वादाभासमात्रत्वमिति संविदात्मत्वं पूर्वपक्षितम् । तत्र चास्ति मतद्वयम् । क्षणिकविज्ञानमात्मा, नित्यविज्ञानमात्मेति च । तत्र क्षणिकविज्ञानात्मत्वमतं प्रकटसौगतानां तावन्निरस्यति अत्रा%%हे त्यादिना । नित्यात्मवादीक्षणिकविज्ञानात्मवादे दूषणमाहेत्यर्थः । क्षणभङ्गिनी ति । क्षणरूपाविनाशस्वभावा विषयभेदेन नाना च संविदुपलभ्यते । तस्याश्चेदात्मत्वं प्रत्यभिज्ञादिकं नोपपद्यते । अनुसन्धातुरात्मनः स्थिरत्व एव तदुपपत्तेरिति भावः । अथ प्रतिभाया इव निर्विषयत्वं प्रत्यभिज्ञायाः शङ्कते न च निरालम्बने ति । प्रत्यभिज्ञा निर्विषया प्रतिभात्वात् मानसकल्पनाविलासवदिति प्रयोगः । अत्र बाधितत्वमाह निरालम्बनत्वे ति । ज्ञानसामान्यस्य सविषयकत्वनियमान्निर्विषयकत्वे ज्ञानत्वायोगात् ज्ञानविशेषे निर्विषयकत्वसाधनं बाधितविषयमित्यर्थः । प्रतिभायामपि नात्यन्ताय निर्विषयत्वम् । अन्यत्र सत एवान्यत्र भानात् । क्वचिद्याथार्थ्यस्यापि दृष्टेरिति भावः । ज्ञानसामान्यस्य निर्विषयकत्वमिति पक्षे स्वप्रवृत्तिव्याघातमप्याह साधनस्य चे ति । निर्विषयकत्वसाधकानुमानस्य सविषयकत्वे तदविशेषेणाशेषज्ञानानां सविषयकत्वंस्यात् । तस्य निर्विषयकत्वे च न निर्विषयकत्वरूपसाध्यसिद्धिरिति साधनार्थप्रवृत्तिवैघट्यमिति भावः । प्रपञ्चितश्चे ति । पूर्वमीमांसाप्रथमाध्यायप्रथमपादे उत्तरमीमांसाद्वितीयाध्यायचरणे च ज्ञाननिरालम्बनत्वमतनिराकरणं सूत्रतद्व्याख्याकर्तृभिः कृतम् । शास्त्रे च न्यायतत्तावख्ये सर्वविज्ञानयाथार्थ्यसमर्थनेन कृतमित्यर्थः । अत्र पूर्वोत्तरमीमांसाभागयोरित्यनेन मीमांसाया विंशतिलक्षण्या ऐकशास्त्रयं तत्पूर्वोत्तरभागरूपत्वं च कर्मब्रह्मविचारयोरभिमतम् ।

ननु विज्ञानं द्विविधं प्रवृत्तिविज्ञानमालयविज्ञानं चेति । तत्रा%%द्यं नीलपीतादिज्ञानम् । अन्त्यं चाहमाकारमात्मरूपम् । क्षणिकत्वे%प्युभयविधविज्ञानस्या%%लयविज्ञानधारानुवृत्त्या प्रत्यभिज्ञोपपद्यत इत्यत्राह- अत एवे ति । विज्ञानक्षणे ति । विज्ञानमेव क्षणो विज्ञानक्षणः । अनुसन्धायिनः-पूर्वानुभूतार्थप्रतिसन्धानकर्तृः क्षणिकविज्ञानव्यतिरिक्तस्य स्थिरस्योपगमे सर्वं क्षणिकमिति सिद्धान्तत्यागः । प्रकारान्तरेण ज्ञानव्यतिरिक्तज्ञात्रभ्युपग

मप्रसङ्गश्चेति भावः । अनभ्युपगम इति । क्षणिकक्रमिकविज्ञानसमुदायलक्षणं सन्तानं समुदाय्यनतिरिक्तं चेत्प्रत्यभिज्ञानुपपत्तिरेव, सन्तानान्तर्गतस्य पूर्वस्यानुभवितुर्विनष्टत्वात्, उत्तरस्य चाननुभवितृत्वेन प्रतिसन्धानायोगादिति भावः । अत्रेदमनुसन्धेयम्-क्षणिकानां समुदायभावो%पि न घटते, स्थिरैकदेशकालाद्युपाधिक्रोडीकारासंभवात् सौगते नये । एकबुद्धिक्रोडीकारस्त्वतिप्रसक्तः । भिन्नसन्तानिविज्ञानानामपि तथात्वेन सन्ताननियमानुपपत्त्यापत्तेः । पूर्वपूर्वविज्ञानोपादानकोत्तरोत्तरविज्ञानपरम्परा सन्तानमिति चेन्न । विनष्टस्य कार्यकाले%सत उपादानत्वायोगात् । पूर्वत्वमात्रस्यातिप्रसक्तत्वाच्च । तत्सन्ताननियमानुपपत्तिरेवेति । नन्वालयविज्ञानस्य सौसादृश्येन ऐक्यभ्रान्त्या प्रतिसन्धानं भ्रमात्मकं घटत इति शङ्कते न चि ति । भ्रान्तिरूपा च प्रत्यभिज्ञा न घटत इत्यर्थः । घटते इति शेषः । दृष्टान्तवैषम्यमुपपादयति युज्यत इति । दृष्टान्ते भिन्नकालिकदीपकलिकयोः सुसदृशयोः साक्षात्कर्ता स्थिरश्चेतनः प्रसिद्धो भ्रान्तिभाक्त्वयोग्यः । तत्तत्र भ्रान्तिरूपा प्रत्यभिज्ञा घटते । न च तथा प्रकृते संविदां द्रष्टा%तिरिक्तः स्थिरो%भ्युपेयते । अतः संविदेवात्मा%न्येनात्मना%भेदं स्वात्मनि भावयेदिति वाच्यम् । परस्परवार्तामभिज्ञत्वान्नान्यस्माद्भेदमभेदं वा स्वात्मनि गृहीतुमलम् । निरन्वयविनाशाच्च पूर्वधर्मानुवृत्तिबलादपि पूर्वानुभूतप्रतिसन्धानादि न घटते इति समुदिताशयः । परस्परवार्तानभिज्ञत्वं-ज्ञानान्तरतद्विषयाग्राहित्वम् । निरन्वयविनाशित्वं-समूलविनाशित्वं- स्वरूपतो धर्मतश्च । उत्तरोत्तरक्षणेषु पूर्वपूर्वविज्ञानक्षणतो वासनोदयात्प्रतिसन्धानोपपत्तिरित्यपि न । अनन्तवासनोत्पत्तिविनाशादिकल्पनायामतिगौरवादिति दिक् । शिष्टं स्पष्टम् ।

अत्र नित्यात्मवादिना केनचिदुक्तं संविद आगमापायित्वादिकममृष्यमाणो%द्वैती प्रत्यवतिष्ठते । तदुच्यते कश्चिदाहे ति । स्वस्यासत्त्वे ग्राहकाभावात् स्वस्य स्वत्त्वे ग्राह्याभावाश्च न स्वतः संविदः प्रागभावग्रहः । संविदो ज्ञानान्तरागोचरत्वेनान्यज्ञानतस्तज्ज्ञानप्रागभावग्रहो%पि न संभवति । ज्ञानविषयीकारमन्तरा तदुपरक्तप्रागभावग्रहणायोगात् । ज्ञानान्तरगोचरत्वे च घटादिवज्जडत्वप्रसङ्गात् । तत्प्रमाणाभावात्प्रागभावः संविदो नास्तीति भावः । अत इति । प्रागभावाभावादुत्पत्तिर्नास्ति संविदः । प्रागभावस्याप्युत्पादकान्तर्गतत्वादित्यर्थः । जन्माभावा दिति । इतरे भावविकाराः-अस्तित्ववृद्धिपरिणामापक्षयविनाशाः । अस्तित्वमत्र स्वोपा दानावच्छिन्नस्थितिलक्षणम् । उत्पत्तिप्रतिबद्धत्वात्-उ

त्पत्तिव्याप्यत्वात् । व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति भावः । अत एवे ति । उत्पत्त्यभावादेव सजातीयसंविद्भेदलक्षणं नानात्वमपि निरस्तमित्यर्थः । उत्पत्तिमत्त्वव्यापके ति । कर्मधारयो%यम् । विभागि-नाना, भिन्नम् । अत्र संविन्न नाना, नापि विकारवती, अजत्वाद्यन्नैवं तन्नेवं यथा घट इति व्यतिरेकिप्रयोगः । संविदि भेदादिनिषेधे धर्मपक्षकमन्वयि च प्रदर्शयति चेत्यत्वाच्चे
ति । भेदादयो न संविदि अनुभाव्यत्वाद्रूपादिवत् । अत्र भेदपदं विकारात्मकोत्पत्त्याद्यवस्थाभेदपरं प्रकरणात् । इतरेतराभावः-सजातीयभेदः । विजातीयस्वागतभेदावादिपदग्राह्यौ । यद्वा भेदो विजातीयभेदः । इतरेतराभावो यथोक्तरूपः । आदिपदग्राह्याः-उत्पत्त्याद्यवस्थाः स्वगतभेदाश्च । एतन्मतं क्रोडीकरोति अत इति । निरस्तनिखिलभेदासत्त्वप्रकाशत्वादिधर्मरहिता प्रकाशैकस्वरूपा संविदेवाविकारनित्या परमात्मा जीवात्मा च । जीवभेदो%पि कल्पित इति भावः । उक्तार्थे संवादमुदाहरति या%नुभूति रिति । अजत्वम्-अनुत्पत्तिमत्त्वम् । अमेयत्वं-ज्ञानागोचरत्वम् । अनन्तत्वं-विनाशराहित्यम् । आत्मत्वम्-जीवात्मपरमात्मरूपत्वम् । निरुक्तरूपैका संविदेव सर्वव्यापिका परमात्मरूपोपाधिभेदेन नानाजीवात्मरूपा चेति भावः । सैव चे ति । न वाच्यशक्तयेयं वेदान्तेषु प्रतिपाद्यते । अवाच्यैव सती तात्पर्यवृत्त्या तेषु गम्यत इत्यर्थः । भाषा-परिभाषा, सङ्केत इति यावत् । सङ्केतबलादेव श्रद्धेयत्वमेतन्मतस्येति हार्दम् । वेदान्तानामेवंभूतायां संविद्येव तात्पर्यमद्वैतवार्तिककारवचनेन संवादयति परागर्थे ति । घटपटादिषु परागर्थेषु या प्रमाणजन्या मिति #ः फलरूपेष्यते तान्त्रिकैः सैव मितिर्वेदान्तेषु प्रमेयभूता । इतो%न्यस्मिन् परागर्थे तात्पर्यकल्पने च वेदान्तानामप्रामाण्यमेव स्यात् । परागर्थस्यासत्यत्वादिति श्लोकद्वयार्थः । निर्विशेषनित्यचैतन्यमात्रस्यैव तत्तत्प्रमाणाधीनान्तःकरणवृत्तिप्रतिबिम्बिततया तत्तद्वृत्त्यवच्छिन्नतया वा तत्तदर्थप्रकाशकत्वात्प्रमाणफलत्वोपचार इति बोध्यम् ।

प्रक्रान्तं मायावादिमतं तावद्विस्तरेण प्रतिक्षेप्तुमुपक्रमते तदिद मित्यादिना । अलौकिकम्-लौकिकप्रत्यक्षादिप्रमाणविरुद्धम्, अवैदिकंवेदादिसच्छास्त्रविरुद्धम्,लोकवेदाननुगुणं चेदं मायावादिनां दर्शनमित्यात्मतत्त्वसाक्षात्कर्तारो वदन्तीति भावः । संविदद्वैते पराभिमते%ध्यक्षविरोधमादौ निरूपयति तथाही त्यादिना । परागर्थप्रमितेर्ह्यात्मत्वमुक्तं वार्तिककृता । तस्याः स्फुटमेवानात्मत्वमित्याह संवि दिति । ज्ञानादिपदं प्रर्यायनामेकार्थवाचकं यस्यै

वंभूतः आत्मधर्मः कश्चिद्विषयप्रकाशकः संविच्छब्दित इत्यर्थः। तस्यास्ये ति । अन्यधर्मत्वेनानित्यत्वेन च प्रत्यक्षसिद्धस्यास्य प्रमाणफलस्य विषयवेदनस्य न नित्यात्मस्वरूपत्वं संभवतीति भावः । प्रमाणफलस्य सकर्मकस्यानुभवस्यानित्यत्वं प्रकारान्तरेण साधयति स्वापे ति । स्वापादौ सत्त्वे योग्यत्वाद्वेदनस्योपलब्धिः स्यात् । अनुपलब्धेश्च न तदा तस्य सत्त्वमिति भावः । सुषुप्तिकालिकं वेदनाभावं सुप्तोत्थितस्य परामर्शेनापि द्रढयति अत एव ही ति । ननु संविदः स्वप्रकाशत्वात्स्वापे%प्यस्त्येवोपलम्भः । अनुभूतमवश्यं स्मर्तव्यमिति नियमाभावाच्च तदननुसन्धानं घटते प्रबोधे । इयन्तं कालं न किञ्चिदहमवेदिष मिति परामर्शस्तु विषयप्रकाशकत्वविशिष्टज्ञानाभावगोचरः । स्वापे सतो%पि हि विज्ञानस्य न विषयप्रकाशकत्वमिति चोद्यमनूद्य परिहरति याव दिति । नियमाभावे%पीत्यन्तेन चोद्यानुवादः । अग्रे परिहारः । प्रायणादेः संस्कारविच्छेदकरत्वं संवित्सिद्वावभिहितं प्रायणान्नरकक्लेशात्प्रसूतिव्यसनादपि । चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः ।। इति। प्रायणम्-मरणम् । नित्यवत्-सार्वदिकम् । यद्वा नियमवत् । नियतमिति यावत् । निखिलसंस्कारप्रमोषहेतुप्रबलदुःखहेतुविरहे%पि नियमेनास्मरणं संविदः स्वापे%प्रकाशमेव साधयेत् । स्वयंप्रकाशस्वभावायाश्च तस्या अप्रकाशस्तदा तदभावपर्यवसन्न इति भावः । सिद्धान्ते तु विषयप्रकाशनवेलायामेव धर्मभूतज्ञानस्य स्वयंप्रकाशत्वोपगमात् स्वापेसतो%पि तस्याप्रकाशो न क्षतिकर इति बोध्यम् । अत्र शङ्कते न च

सत्यपि ति । विषयावच्छेदविरहात्-विषयसंबन्धविरहात् । अहङ्कारगोचराभावात्-अहंबुद्धिबोध्यस्य ज्ञातुरहमर्थस्य विलयात् । अहमर्थोपश्लिष्टाया विषयान्वयवत्या एव संविदः संस्काराधायकत्वम् । स्वापेतदुभयवैधुर्यात्स्वप्रकाशस्यापि चैतन्यमात्रस्य न संस्काराधायकत्वमिति न तस्य प्रबोधे%नुसन्धानप्रसङ्ग इति भावः । अत्रोत्तरमाह अर्थान्तरे ति । तदग्रहणस्य-अर्थान्तराग्रहणस्य । त्रितये ति । ज्ञानज्ञेयज्ञातृत्रितयावभासे%पि यथायथं तत्तदनुभवस्यैव तत्तत्संस्कारं प्रति हेतुत्वादेकाग्रतया संविदनुभवे सति स्वापे ततः तत्संस्कारोत्पादे%हमर्थविलयघटपटाद्यर्थान्तराननुभवयोरप्रतिबन्धकत्वात्संविन्मात्रप्रत्यवमर्शप्रसङ्गो दुर्वारो भवन्मते प्रबोधसमय इति भावः । ननु ज्ञातुर्विनष्टत्वात्स्वापेकः स्मरेदित्यत्राह न च प्रत्यभिज्ञे ति । पूर्वदिने कृतस्यापरदिने प्रतिसन्धानात्पूर्वापरदिनस्थायित्वेन सिध्यतो ज्ञातुरहमर्थस्य मध्यकाले स्वापे विलयो न घटत इति भावः । एवं स्वापे%प्यहमर्थस्य

सद्भावमुपपाद्य तदा तद्भानमपि वर्तत इत्युपपादयति अत एव ही ति । स्वापकालिकाहमर्थप्रतिसन्धानमिदं तात्कालिकतत्प्रतिभाससमर्थकम् । न चानुमितस्वापतत्सुखत्वात्मस्वरूपसत्तागोचरमिदमस्तु, तथा चेदं न स्वापे%हमर्थप्रकाशस्योपपादकमिति वाच्यम् । स्वापांशे%नुमितिलक्षणत्वे%पि अहमर्थे प्रतिसन्धानरूपत्वस्य प्रातस्तत्राहं (न) आस मित्यादाविव स्वरससिद्धस्यानपोद्यत्वात् । प्रातःकालानुभूतात्मस्वरूप- परामर्शित्वादस्यात्मस्वरूपे प्रतिसन्धानरूपत्वोपपत्तिर्यथा, एवं स्वापे%नुभूतात्मस्वरूपपरामर्शित्वादात्मांशे प्रतिसन्धानरूपत्वोपपत्तिरिति भावः । न च नित्यात्मप्रकाशस्य संस्कारजनकत्वे मानाभावात्कथमहमर्थ आत्मनि प्रतिसन्धानरूपत्वमस्येति वाच्यम् । स्वजन्यसंस्कारवत्त्वेनानुभवस्य प्रतिसन्धाने एकहेतुत्वनिर्वाहाय नित्यानुभवस्यापि संस्कारहेतुत्वोपगमात् । स्पष्टं चेदं सिद्धान्तसिद्धाञ्चने । स्वापे%नुभूतात्मांशप्रकाशनरूपत्वाद्वा प्रतिसन्धानवाचो युक्तिः । अधिकमन्यत्र । ननु सविषयज्ञानस्य नित्यत्वं मास्तु शुद्धसंविदो नित्यत्वाद्युपपन्नमेवेत्यत्राह न च निर्विषये ति । स्वयंप्रकाशसंविदनुभवो हि विषयाश्रयोपश्लिष्टसंविद्विषय एव लोकविदितः इदमहं जानामी ति । केवलसंविदनुभवस्तु न कस्यापि स्वतो%न्यतो वा प्रसिद्ध इति भावः । ननु सिद्धान्ते ज्ञानस्वरूपस्यात्मनो निर्विषयत्वं निराश्रयत्वं चाभ्युपगतं कथं सङ्गच्छते? । उच्यते । संविदादिशब्दानां सविषयकज्ञान एव रूढत्वात्तदर्थस्य निर्विषयत्वादिनिषेधोक्तिरुपपन्नैव । धर्मभूतस्य ज्ञानस्य च विषयप्रकाशकस्य न निराश्रयत्वं नित्यात्मस्वरूपाश्रितत्वात् ।आत्मस्वरूपज्ञानस्यापि प्रत्यक्त्वानुकूलत्वैकत्वप्रकारतः स्वरूपप्रकाशकत्वान्न निर्विषयत्वं निर्धर्मकत्वं वा । आत्मन्येकत्वानेकत्वाहंत्वानहंत्वादिसंशयस्य कदाप्यनुदयाच्च प्रत्यक्तवादिना भानमेष्टव्यम् । निरुपाधिकप्रेमास्पदत्वाच्च सुखत्वेनेति सिद्धान्ते%भिमतो विशेषः । संविदः सविशेषत्वं संविदादिशब्दानां संबन्धिशब्दत्वप्रसिद्ध्या%प्युपपादयति संबन्धी ति । नियतसंबन्ध्याकाङ्क्षाशालित्वं संबधिशब्दत्वम् । ज्ञानं, संवेदनमित्युक्ते हि कस्य किंविषयकमिति विषयाश्रयाकाङ्क्षा नियता । एतदेव व्यतिरेक निषेधेन द्रढयति न ही ति । जानात्यादेः ज्ञाधातुप्रभृतेः । ननु ज्ञानस्वरूप मित्यादिषु केवलस्यैव प्रयोगो दृश्यत इति चेन्न । आशयानभिज्ञो हि भवान् । अत्रत्यस्य धर्मिवाचिनो ज्ञानशब्दस्य स्वयंप्रकाशत्वप्रवृत्तिनिमित्तकस्य संबन्धिशब्दाद्धर्मभूतज्ञानवाचिनः शब्दाच्छब्दान्तरत्वात् चतुष्पाद्वाचिन इव गोशब्दात्किरणादिवाचिनस्तस्य । अस्माकं संबन्धिशब्दत्वप्रसिद्धिः

धर्मभूतज्ञानवाचिनि सावकाशा । भवतां तु धर्मिणः स्वरूपज्ञानस्य धर्मभूतस्य च विषयज्ञानस्य भेदाभावात् एकस्यैव चैतन्यस्यात्मरूपस्य निर्विशेषत्वसिद्धान्तात् संबन्धिशब्दत्वप्रथानोपपन्ना संविदादिशब्दस्येति । निर्विशेषज्ञप्तिमात्रस्य पर्वृत्तिनिमित्तायोगेनैव धर्मिवाचिज्ञानशब्दवाच्यत्वमपि न संभवतीत्यप्यनुसन्धेयम् ।

एवं परैरात्मतया%भिमतस्य प्रमाणफलस्यागन्तुकत्वादात्मधर्मत्वाच्च नात्मत्वमित्यक्तम् । अथ तस्य प्रागभावासिदिं्ध परोक्तामनुवदति यत्तु स्वत इति । अन्यतः सिद्ध्यभावस्फोरकं स्वतःसिद्धस्य इति । अनुभवस्येति विशेष्यपदमध्याहार्यम् । तद्विरोधादेव-प्रतियोगिना यौगपद्यावस्थानासंभवलक्षणाद्विरोधादेव । प्रागभावादेः- संवित्प्रागभावादेः । शिष्टं स्पष्टम् । दूषयति त दित्यादिना । ज्ञानसामान्यस्य स्वसमानकालिकार्थग्राहित्वनियमे दोषमाह अतीते ति । शङ्कानुवादः अथे ति । इतीत्यनन्तरं मतमिति शेषः । संवित्प्रागभावस्य स्वसमानकालिकग्रहग्राह्यत्वमेवेति नियम इति शङ्काग्रन्थार्थः । नियममुपगम्या%%ह किमेव मिति । तत्सिद्धेः-संवित्प्रागभावग्रहसिद्धेः । न प्रागभावाद्यसिद्धिः-न संवित्प्रागभावाद्यसिद्धिः । अयं च नियमो यद्यपि सिद्धान्ते युक्तः,विद्यमानयत्किञ्चज्ज्ञानप्रागभावस्य विद्यमानेनैव ज्ञानान्तरेणानुमानादिना ग्रहणात् । अहमिदानीं चाक्षुषाभाववान् उन्मीलितचक्षुष्कत्वादित्याद्यनुमानसंभवात् । अथापि परमते%यं नियमो%नुपपन्न इत्याह

तत्प्रागभाव इति । भवता हि ज्ञानं ज्ञानान्तराग्राह्यमिष्यते । एवं सति तज्ज्ञानप्रागभावस्तेनैव समानकालिकेनग्राह्यः स्याद्भवदुक्तनियमानुसारात् । तच्चानुपपन्नमिति भावः । नन्वतएवास्माभिः संवित्प्रागभावासिद्धिरुच्यत इति चेत्तत्राह ऐन्द्रियिके ति । लौकिकप्रत्यक्ष एव समानकालिकपदार्थग्राहित्वमिति नियमः । न तु ज्ञानसामान्यस्य, प्रमितिसामान्यस्य वा । तथा च प्राक्कालिकस्य स्वप्रागभावस्य तेनैव वर्तमानेन ज्ञानेन ग्रहणे नानुपपत्तिरिति हार्दम् । अग्रेचैतद्व्यक्तीभविष्यति । प्रमाणस्य प्रमेयाविनाभूतत्वात्प्रमाणज्ञानस्य स्वयंप्रकाशत्वेन नित्यत्वात्तत्प्रमेयमपि नित्यमिति मतं निराकरोति एतेने ति । एतेन-प्रमाणज्ञानमात्रस्य समानकालपदार्थग्राहित्वनियमाभावेन । निरसनीयमतानुवादः मान मिति । स्वयंप्रकाशत्वात्, मानं-प्रमितिः, स्वतःसत्-अनन्यापेक्षसत्ताकं सदा%स्त्येव । एवं चेत्, अतो वक्ष्यमाणाद्धेतोः तन्मेयं च वस्तु सदा%स्त्येव । हि-यतः, मानं-प्रमाणज्ञानं, मेययुगेव- प्रमेया%विनाभाव्येवेत्यर्थः । स्वयंप्रकाशस्यापि प्रमाणज्ञानस्य प्रमाणजन्यत्वादेवानित्य

त्वम् । तत्प्रागभावग्रहो%पि स्वतः परतो वा संभवेदेव । अतो मितिनित्यत्वमुपजीव्य मेयनित्यत्वव्यवस्थापनमयुक्तम् । प्रमाणज्ञानस्य समानकालार्थग्राहकत्वनियमाभावाच्चेति पराकरणप्रकारोबोध्यः । नन्वसदर्थग्राहित्वे मितेः कथं प्रमेयाविनाभावो घटते ?। तत्राह न ही ति । यदा प्रभितिस्तदा प्रमेयमिति न प्रमेयाविनाभावः प्रमितेः । किंतु यद्देशकालसंबन्धित्वेन यादृशाकारवत्त्वेन च यद्भासते प्रमितौ, तस्य तत्प्रकाराभावाभावपर्यवसितं प्रमेययोगित्वम् । अतद्रूपानवगाहित्वं मेये, तद्वति तत्प्रकारकत्वमेव च तदिति भावः । स्मृतेरप्रामाण्यमतमपि प्रतिक्षिपति प्रसङ्गतः अत एवे ति । प्रलापः- प्रलापमात्रम् । निरर्थकं वचनमिति यावत् । अतीतमपि बाह्यमर्थं तथात्वेनैवावगाहिन्याः स्मृतेर्न निर्विषयता, मेयव्यभिचारो वा । प्रमेययोगित्वस्य तद्वति तत्प्रकारावगाहित्वरूपत्वादेवेति भावः ।

अथे त्यादिः शङ्कानुवादः । उत्येते ति वा, मत मिति वा शेषः पूरणीयः । परिहारो यद्येव मित्यादिः । स्वतःसिद्धत्वात् संविदः प्रागभावाद्यसिद्धिरिति वदता प्रमाणाभावस्येदानीं तद्धेतुत्वेनाभिधाने हेत्वन्तरम् । प्रमाणाभावो%प्यसिद्ध इति भावः । समर्थितत्वा दिति । अभिहितं हि पूर्वमेव स्वापमदमूर्च्छादशासु च योग्यानुपलम्भनिराकृतः तत्सद्भावो नाभ्युपगममर्हती ति । अत्रेदं बोध्यम्- अप्रकाशे%पि संविदः स्वापे%हं न जानामीति तदभावप्रत्यक्षमात्मनि तदा न घटते यद्यपि । स्वापस्य व्याघातात् । सविषयकज्ञानसामान्याभावो हि सः । अथापि स्वयंप्रकाशस्वभावायाः संविदो%प्रकाशात्स्वापे%भावः सिद्धः । तत्प्रतीतित्स्वानुमानिकी प्रबोध एवास्मरणनियमानुमितेन स्वापकालिकसंविदननुभवलिङ्गेन योग्यानुपलब्धिलक्षणेन । इदमेव चानुमानं ज्ञानत्वसामान्येन स्वापे स्वस्याप्यभावं विषयीकरोतीति सिद्धं स्वप्रागभावग्रहः स्वेनैवेति ।

प्रकारान्तरेणाप्यनित्यत्वं संविदां साधयति अपि चे ति । न साधयतिन प्रकाशयति । तत् -तस्मात् । कालविशेषावच्छिन्नैव-कादाचित्कैव । कादाचित्कतया प्रत्यक्षप्रकाशस्याभिनयः अहमिदानीमेवास्मि नान्यदा इति । चेतनसमाध्यारोपेणैवं व्यपदेशः । यद्वा प्रमाणफलस्यैवात्मत्वस्वप्रकाशत्वयोः परैरुपगमात्तन्मत एवमेव प्रकाशः प्रमितेः स्यादित्याकूतम् । इतरथे ति । प्रत्यक्षस्य समानकालीनार्थप्रकाशकत्वस्वाभाव्येन तस्य नित्यत्वे तद्विषयस्य घटादेरपि नित्यत्वप्रसङ्ग इति यावत् । यावत्स्वसत्तं घटादिर्नाध्यक्ष्यते, किंतु सन्नपि कदाचिदेव, तथाच घटाद्यध्यक्षस्य कादाचित्कत्वं न विषयासत्त्वप्रयुक्तम्,

किंतु स्वस्य कादाचित्कत्व प्रयुक्तमेवेति भावः । अत्र प्रयोगः- प्रत्यक्षसंवित् स्वविषयकालाव्यापिनी, समानकालीनार्थभासकत्वे सति यावदर्थसत्तं तदप्रकाशकत्वादिति । प्रत्यक्षवदनुमानादिसंविदामप्यनित्यत्वं साधयति एव मिति । कादाचित्कतयैव चकासती ति शेषः । लिङ्गपरामर्शादिसापेक्षाणां तासां न हि नित्यत्वं संभवति । अन्वमिनवम्, अशाद्बयमित्यादिप्रतीतयश्च कादाचित्कतां गमयन्ति । समानकालार्थग्राहित्वनियमरहितानामप्येतासां प्रतीतं कादाचित्कत्वं न विषयासत्त्वौपाधिकम्, किंतु स्वरूपप्रयुक्तमेवेति भावः । ननु सविषयकज्ञानानामनित्यत्वे%पि निर्विषयं ज्ञानमात्रं नित्यमिति चेत्तत्रा%ह नचे ति । प्रत्यक्षानुमानपदे भावप्रधाने । धीसंविदादिपदानां सविषयकज्ञान एव स्वारसिकः प्रयोगः । तदर्थस्य च साश्रयत्वनियम एव । उपलम्भबलाच्छास्त्रबलाच्च स्वरूपज्ञानस्यापि न निर्विशेषत्वमिति भावः । एतेन चैतन्यमात्रं नित्यनिर्विशेषस्वप्रकाशरूपं सत् । तस्यैवान्तः- करणवृत्त्यवच्छिन्नस्य विषयप्रकाशकत्वम् । वृत्त्यवच्छेदकादाचित्कतया विशिष्टस्य तस्यानित्यत्वप्रतीतिः । अन्तःकरणावच्छिन्नं तदेव ज्ञात्रित्यपि परास्तम् । अन्तःकरणस्य वृत्तिः किं व्यापारलक्षणा उत परिणामलक्षणा । नाद्यः, तावन्मात्रेण ज्ञानव्यापारमन्तरा विषयप्रकाशाभावात् । इन्द्रियाणां हि चरतां यन्मनो%नुविधीयते । तदस्य हरति प्रज्ञाम् तेनास्यक्षरति प्रज्ञा इत्यादिषु मनइन्द्रियद्वारकज्ञानप्रसरणत

एवार्थप्रकाशव्यवस्थापनात् । क्वचित्प्रज्ञामनसोरभेदोपदेशस्तु ज्ञानव्यापारानुगुणव्यापारवत्त्वान्मनसो भाक्तो ज्ञेयः । न द्वितीयः, मनसो विषयाकारपरिमाणे दृढतरप्रमाणाभावात् । चैतन्यस्य निर्विशेषत्वे च न प्रमाणम्; येन तस्यैवौपधिकभेदरूपत्वकल्पनं ज्ञात्रादेः साधीयो भवेत् । निरूपाधिकज्ञातृज्ञेयज्ञानभेदप्रतिपादकाबाधितप्रत्यक्षशास्त्रादिप्रमाणबाधितं चेदमित्यलमधुना ।

एवं स्वेनैव स्वप्रागभावसिद्धिमुक्त्वा%न्यतो%पि तामाह न चान्ये ति । अतीतस्य स्वकीयज्ञानस्य स्मृत्यादिग्राह्यत्वमुक्त्वा परकीयज्ञानस्यापि ज्ञानान्तरग्राह्यत्वमाह प्रतिकूले ति । परकीयस्य विषयविशेषे%नुकूलत्वज्ञानस्य प्रतिकूलत्वज्ञानस्य वा तदीयहानोपादानादिप्रवृत्तिरूपदर्शनानुमेयत्वादिति यावत् । ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे बाधकमाह
तदनुपगमे चे ति । परज्ञानानुपगमे व्यवहाराच्छक्तिग्रहस्य परज्ञानानुमानसापेक्षत्वाच्छक्तिग्रहस्यैवासंभवेन तन्मूलस्य व्यवहारस्य विलोपप्रसङ्ग इत्यर्थः । यद्वा शब्दार्थसंबन्धस्य बोध्यबोधकभावस्य बोधघटितस्य ज्ञानस्य ज्ञानान्तरग्राह्यत्वानुपगमे व्याकरणादिना

प्रतिपादनासंभवात्समस्तशाब्दव्यवहारविलोपप्रसङ्ग इत्यर्थः । शब्दार्थग्रहणासंभवेन-शब्दार्थसंबन्धग्रहणासंभवेन । परकीयज्ञानानुमानानुपगमे गुरूपसर्पणादेरप्यनुपपत्तिरित्याह गुरूपसर्पणे ति । तस्य-गुरोः ।

अथानुभाव्यत्वस्यानुभूतित्वविरुद्धत्वं प्रतिक्षिपति नचान्यविषयत्व इति । स्वाश्रयस्येत्युभयत्र संबध्यते । स्वाश्रयाय स्वयमेव प्रकाशमानत्वम्, स्वाश्रयाय स्वविषयप्रकाशकत्वं वा स्वसत्ताकाले संविदो विद्यत एव । उभयविधं चेदमनुभूतित्वं स्वसत्ताकाले स्वाश्रयाया%प्रकाशमानत्वे स्वविषयाप्रकाशकत्वे वा न घटेत । न तदस्ति । अतीतत्वदशायां स्वाश्रयाय वर्तमानदशायां वा पुरुषान्तराय ज्ञानान्तरेण भासमानत्वे%पि तस्या न निरुक्तानुभूतित्वभङ्गप्रसङ्ग इति भावः । अनुभाव्यत्वस्याननुभूतित्वे%प्रयोजकत्वं चाह घटादे रिति । तथास्वाभाव्याभावादेव-निरुक्तोभयविधानुभूतित्वविरहादेव । अननूभूतित्वम्-अनुभूतिभिन्नत्वम्, अनुभूतिपदावाच्यत्वं वा । साहचर्यमात्रेणानुभाव्यत्वस्याननुभूतित्वप्रयोजकत्वे प्रतिबन्द्युपक्षेपः अपि चे ति । तत्प्रसङ्गः-अननुभूतित्वप्रसङ्गः । असतोदृष्टान्ततया निर्देशः परप्रक्रियया । एवं संविदो%नुभाव्यत्वं समर्थ्या%%त्मनो%पि तत्, संविद्भिन्नत्वं च समर्थयते न चात्मन इति । अनुभूतित्वंविषयधीरूपत्वम् । अनुभवितृत्वात्-विषयध्यधिकरणत्वात् । नाप्यसा विति । ज्ञानान्तरनिरपेक्षप्रकाशस्यापि निजात्मस्वरूपस्य श्रवणादिज्ञानग्राह्यत्वात्, परात्मनो%पि तच्छरीरगतचेष्टादिना%नुमेयत्वादात्मनो%ननुभाव्यत्वं श्रुतियुक्तिविरुद्धमनुपपन्नमित्यर्थः । आस्थीयता मिति । घटादेः ज्ञानानाश्रयत्वमेवानात्मत्वे%ज्ञानाविरोधित्वमेवाननुभूतित्वे प्रयोजकमिष्यतां नानुभाव्यत्वमित्यर्थः । शङ्का%त्र अथे ति । ते-ज्ञानानाश्रयत्वाज्ञानाविरोधित्वे । विषयत्वे-अनुभाव्यत्वे । परिहारः अविषयत्वे%पी ति । तथैव ते स्यातां गगनकुसुमवदिति यावत् । असत्त्वमेव तयोः प्रयोजकंनाननुभाव्यत्वमिति चेत् अननुभाव्यत्वे%सत्त्वमपि प्राप्तं तद्वदेव । अप्रयोजकत्मवमिति चेत्तुल्यमनुभाव्यत्वे%पीति हार्दम् । इत्यल मिति । व्याप्त्याभासमूलत्वात्कुतर्कत्वम् । अत एवाप्रतिष्ठितत्वं सिषाधयिषितार्थसिद्धिपर्यवसानविरह इति बोध्यम् । एव मनुभाव्यत्वसमर्थनेन परतो%पि संविदः प्रागभावसिद्धिरभिमता । सिद्धान्ते धर्मभूतज्ञानस्य नित्यत्वे%पि विषयप्रकाशोपयोग्यवस्थाविशेषविशिष्टस्यानित्यत्वादीष्टमेवेति ध्येयम् ।

स्वप्रकाशत्वात्संविदो न प्रागभावसिद्धिः । प्रागभावाभावाच्चानुत्पन्नत्वं, तत एव

भावविकाररहितत्वं चोक्तमन्यैः । तत्र संवित्प्रागभावसिद्धिसमर्थनेनानुत्पन्नत्वहेतोः स्वरूपासिद्धं सिद्धवत्कृत्य विकारान्तरनिरासकानुमाने%नैकान्त्यमाह व्यभिचरती ति । सप्तम्या अवच्छेदकत्वमर्थः । तस्य व्यभिचारपदार्थे%न्वयः । अनुत्पन्नत्वं प्रागभावावच्छेदेना%विनाशित्वरूपसाध्यव्यभिचारीत्यर्थः । तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वात्प्रागभावस्य हेतुनिष्ठव्यभिचारावच्छेदकस्य हेतुमत्त्वं साध्याभाववत्त्वं च सिद्ध्यति । भावे ति । भाववृत्तित्वस्यानुत्पन्नत्वहेतुविशेषणत्वे%पि पराभिमतायामनादिसान्ताविद्यायां व्यभिचार इत्यर्थः । व्यभिचारे%वच्छेदकस्या ज्ञानस्य तद्धेतुत्वविवक्षातो%विद्ययेति तृतीया । अनैकान्त्यं परिहर्तुं शङ्कते अपरमार्था इति । परमार्थविकारराहित्यं साध्यम् । तदभावश्च परमार्थविकारो नाविद्यायामिति न व्यभिचार इति भावः । प्रतिवक्ति परमार्थाश्चे ति । ते-तव । मते इति पूरणीयम् । साध्यस्य-साध्यघटकविकारादेः । साधनस्य वा-साधनघटकोत्पत्तेर्वा । अर्थवत्तामश्रुवीत-अन्वितार्थकं भवेत्; व्यभिचारस्यासिद्धेश्च वारकतया सप्रयोजनं वा । संविदो%पि कल्पितोत्पत्तिमत्त्वसंभवेन स्वरूपासिद्धिवारणाय साधनस्य वेत्युक्तम् । अयं भावः- परमार्थविकारादेः परमार्थोत्पत्तेर्वा%नुपगमाद्भवतां साध्यहेत्वोः पारमार्थ्यविशेषणं न घटते ।

साध्यसाधनव्यतिरेकव्याप्तीनामप्रसिद्धिप्रसङ्गात् । अविशेषणे च व्यभिचारस्य स्वरूपासिद्धेर्वा न परिहारसंभव इति । तथा च सती ति । उपहासगर्भमुपालम्भवचनमिदम् । तथा च सति-विशेषणदाने सति च । व्यभिचारवारकं विशेषणं विवक्षता%सिद्धौ दृष्टिर्न विधीयत इति भावः ।

अनुत्पन्नत्वान्निर्भेदत्वं संविद इति चानूद्य प्रतिक्षिपति यदपी ति । तदपि ने ति । सजातीयविजातीयस्वगतभेदानामबाधिताध्यक्षादिसिद्धत्वाद्बाधितविषयं तन्निषेधानुमानमिति भावः । विभागि- भेदयोगि । विजातीयभेदनिषेधे%नुत्पन्नत्वेन सिषाधयिषिते%नैकान्त्यमाह अजस्यैवे ति । पराभिमते%ज्ञाने%पि तदाह अनादित्वेने ति । आत्मानात्मभेदस्यापरमार्थत्वात्परमार्थभेदस्य निषेधे नानैकान्त्यमित्यभिमानेन शङ्कते अपरमार्थ इति । अभिमानं निराकरोति परमार्थभेद इति । जन्मप्रतिबद्धः- उत्पत्तिमत्त्वव्याप्यः । यत्परमार्थभेदवत्तदुत्पन्नमिति हि व्यतिरेकव्याप्तिर्वाच्या । सा च न; परमार्थभेदस्यैव भवन्नये%प्रसिद्धेः । तथा च विशेषणदाने%सिद्धिप्रसङ्गः . विशेषणादाने चानैकान्त्यं दुष्परिहरमिति भावः । नच परमार्थत्वरूपव्यधिकरणधर्मावच्छिन्नभेदनिष्ठप्रतियोगिताकाभावः साध्यते, तथा च न

दोष इति वाच्यम् । एवमपि भवन्मते हेतुसाध्ययोः । साहचर्यग्रहोपयोगिपक्षातिरिक्तस्थलान्तराभावाद्व्याप्यत्वासिद्धिरेव । व्यघिकरणाधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयितया व्यतिरेकव्याप्तेरपि दुर्वचत्वात् । नच शास्त्रत एव संविन्मात्रस्य नित्यत्वं निर्भेदत्वं च सिध्यतीति वाच्यम् । शास्त्रस्यापि भवन्मतविप्रतीपत्वात् । नित्यानां चिदचिदीश्वरादीनां परमार्थतो भेदो हि शास्त्रेषु वर्ण्यत इत्यन्यत्र विस्तरः । अग्रे च व्यक्तीभविष्यति । संविदि सजातीयभेदनिषेधे साध्यमाने प्रत्यक्षबाधमाह निर्बाधे ति । दृग्दृश्यभेदः-दृशां, दृश्यानां, दृग्दृश्यानां च मिथो भेदः ।

संविदः स्वगतभेदनिषेधानुमाने%पि दूषणमाह तदपी ति । संविद्धर्माणां प्रमाणसिद्धत्वकथनेन संविदि धर्मनिषेधसाधनस्य कालात्ययापदिष्टत्वं फलितम् । अत एव संवित्पक्षके व्यतिरेकिणि धर्मपक्षके चान्वयिनि संविद्धर्मनिषेधानुमाने पक्ष एव व्यभिचारोद्भावनं घटते । ननु संविद्धर्माणां संविदभिन्नतया भिन्नधर्मनिषेधानुमाने न क्षतिरित्यत्राह तत्सिद्धावपी ति । विवादविषयाणां धर्माणां संप्रतिपन्नसंवित्स्वरूपता न घटत इति भावः । घटपटयोरिवाकारभेदाच्च संवित्तद्धर्मयोर्नैक्यमित्याह स्वरूपभेदाच्चे ति । स्वरूपभेदमेवोपपादयति स्वाश्रय मित्यादिना । कस्यचित्-किञ्चिदर्थस्य । प्रकाशनं-प्रकाशापादनम् । संवेदनमिति भावप्रधानो निर्देशः । संवेदनत्वमिति यावत् । यद्वा प्रकाशनं-प्रकाशकम् । आत्मने-स्वस्मै, स्वाश्रयाय वा । स्वाश्रयाय स्वविषयप्रकाशकत्वं संवेदनस्य संवेदनत्वम्; स्वयंभासमानत्वं च संवेदनस्य स्वयंप्रकाशत्वमित्येनयोर्धर्मयोः स्वरूपभेदो बोध्यः । संवेदनत्वस्वयंप्रकाशत्वशरीरानुप्रविष्टं प्रकाशपदार्थमाह प्रकाशश्चे ति । प्रकाशो%यं ज्ञाततापरर्यायो धर्मविशेषः . अयं च न जडमात्रस्य, किंतु चित्पदार्थस्यापि । तदुच्यते चिदचिदशेषपदार्थसाधारण इति । संवित्सिद्धावेवे ति । संविदः स्वप्रकाशत्वसाधन इत्यर्थः । यद्वा संवित्सिद्धिनामके प्रकरण एवेत्यर्थः । एतेना%%त्मसिद्धेः पूर्वमेव संवित्सिद्धेः कृतत्वं ज्ञायते । यद्यपि उपलभ्यमाने संवित्सिद्धिग्रन्थभागे प्रकाशपदार्थनिरूपणं नोपलभ्यते । अथापि संवित्सिद्धौभूयांसो भागा आदावन्ते मध्ये च विलुप्ताः । तत्रैतत्संभवतीति ध्येयम् । धर्मान्तरप्रकाशानभ्युपगमे%प्याह तदनभ्युपगम इति । व्यवहारानुगुण्यमेव ज्ञानाधीनं प्रकाशशब्दितम् । अव्यवह्लियमाणस्यापि ज्ञानतोव्यवहारयोग्यता%क्षुण्णैवेति भावः । एकसङ्ख्यावच्छेदः- एकत्वसङ्ख्यावत्त्वम् । शङ्कते नच जडत्वे ति । जडत्वाभावः स्वप्र

काशत्वम्, देशकालापरिच्छिन्नत्वे विभुत्वनित्यत्वे । बहुत्वाभाव एकत्वम् । न त्वेतानिभावरूपाणि । अभावस्य चाधिकरणात्मकत्वान्न संविदः सधर्मत्वं प्रसजतीति भावः । परिहरति तथाभूतैरपी ति । अभावानामतिरिक्तत्वमधिकरणवृत्तिधर्मान्तररूपत्वं वा । आधाराधेयभावप्रतीतिस्वारस्यादित्यभावरूपैरपि सधर्मत्वमवर्जनीयमित्यर्थः । यस्मिन् प्रतीते निषेध्यबुद्धिर्नोदेति तस्यैवाभावरूपत्वम् । प्रतीयमानायामपि संविदि अनित्यत्वादिसंशयोदयाच्च न तदभावरूपत्वं तस्याः । किंतु सर्वकालसंबन्धित्वादिविरोधिधर्मान्तरलक्षणमेव नित्यत्वादीति भावः । संविदी ति । विरोधिधर्मवत्ताबोधनमन्तरा जडत्वादिनिषेधकत्वानुपपत्तिः प्रतिज्ञायाः ; तद्बोधने च सधर्मत्वसिद्धिरवर्जनीयेति भावः । नच जडत्वादिविरोधिस्वरूपत्वमेव प्रतिज्ञया बोध्यते संविदो न विरोधिधर्मवत्त्वमिति वाच्यम् । सर्वाध्यासाधिष्ठानभूतायास्तस्याः सर्वविरोधित्वासिद्धेः । नच शुद्धा सा तथेति वाच्यम् । तस्याः सर्वविशेषप्रत्यनीकत्वोपगमे जडत्वादिप्रत्यनीकतेवाजडत्वादिप्रत्यनीकता%पीति जडाजडविलक्षणत्वादिप्रसङ्गात् । अजडत्वाद्यभावे%पि अजडादिस्वरूपैव सेति चेद्धर्मत्वाभावे%पि धर्मस्वरूपैव सा किं न स्यादिति दिक् ।

भेदादिधर्मपक्षकचित्संबन्धित्वाभावसाधने%नैकान्त्यमप्याह चेत्य मिति । चेत्यम्-अनुभाव्यम् । आत्मनि-चिन्मात्र आत्मनि । किञ्च चिद्धर्मत्वाभावसाधनमनुपपन्नम् । प्रतियोग्यप्रसिद्धेः । धर्मा न चित इत्यपि न साधीयः । षष्ठ्यर्थस्य संबन्धस्य चित्पदार्थेनानन्वयाद्भवतासित्याह अपि चे ति । प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः चितो विभक्त्यर्थसंबन्धित्वं सिद्धमिति तत्र विशेषसामान्यनिषेधप्रतिज्ञा व्याहतार्थेति भावः ।

सिद्धिश्चेदभ्युपेयेत संविदः स्यात् सधर्मता ।

न चेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ।।10।।

ननु सिद्धिरेव सा । कस्य भोः? यदि न कस्यचित्, न तर्हि सिद्धिरेव । सा हि पुत्रत्वमिव कस्यचित् किंचित्प्रति । आत्मन इति चेत्, कः षष्ठ्यर्थः ?तदेवं व्योमारविन्दसदृशवपुषि यथोदितदृशि वेदान्ततात्पर्यवर्णनं वेदान्तायैव स्यात् ।

अपि च नित्यत्वे%प्यनुभुतेः प्रत्यभिज्ञानुपपत्तिस्तदवस्थैव । सा हि अनुभवितारं पूर्वापरकालावस्थायिनमुपस्थापयति अहमिदमन्वभूवमिति । अनुभूतिस्त्वनुभूतिरेव भवताम्, न तां प्रति सा कर्त्रीं कर्म वा ।

(इति मायावाद्यभिमतनित्यविज्ञानात्मत्वनिरासप्रकरणम्)

यद्युच्येत- परमार्थतः तथाभूतापि भ्रान्त्यानुभवितृतया परिस्फुरति रजततयेव शुक्तिः । न हि तथ्यमनवलम्ब्य मिथ्यावभासस्योत्थानमिति; तन्न । तथा सति अनुभवसमानाधिकरणतया%नुभविता%हमर्थः प्रकाशेत अनुभूतिरहमिति, पुरःस्थितभास्वरद्रव्यशङ्खमुखचन्द्रादेराकारतयेव रजतपीतमुकुरस्थताद्वित्वादि । पृथगवभासमान एव तु अयमनुभवो दण्ड इव देवदत्तमर्थान्तरमहमर्थंविशिंषन् आलक्ष्यते अनुभवाम्यहमिति । तदेवमनुभवविशिष्टमस्मदर्थमवभासयन्नयमहंप्रत्ययः कथमिव विशेषणभूतानुभूतिमात्रावलम्बनः प्रतिज्ञायेत, दण्डमात्र इव दण्डी देवदत्त इति प्रत्ययः ।

कुतश्चैष निश्चयः-अध्यस्तं ज्ञातृत्वमिति? । स्थूलो%हमितिवत् देहात्माभिमानवतः प्रतिभासनादिति चेत्; नन्वात्मतया%भिमता%नुभूतिरपि तदूत एवावभातीति सापि तथा स्यात् । तत्त्वज्ञानोदयात् परतो%पि तदनुवृत्तेर्न तथा सेति चेत् ; किं भोः! तत्त्वज्ञानात्परमबोद्धैवायमात्मा ? हन्तैवं वरमितो%तत्त्ववेदित्वम्; भ्रान्त्यापि हि तत्र बहु भद्रं पश्यतीति ।

ननु ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं विक्रियात्मकं जडमहङ्कारग्रन्थिस्थम् । तत्फलभुगकर्ता%विक्रियः साक्षी प्रकाशमात्र आत्मा । कर्तृत्वादिर्हि दृश्यत्वाद्रूपादिवन्नात्मधर्मः । कर्तृत्वे ह्यात्मनो%हंप्रत्ययगोचरत्वे%पि देहस्येवानत्मत्व- परार्थत्वजडत्वादिप्रसङ्गो दुर्निवारः । दृष्टं च लौकिकवैदिककर्मसु कर्तृतया प्रसिद्धाद्देहात्तत्क्रियाफलभुजः प्रमातुः अहंप्रत्ययिनः पृथक्त्वम् । तथेहापि प्रमातुरहमर्थाद्विलक्षणः साक्षी प्रत्यगात्मेति युक्तम् । नैवं युक्तम् । अहं जानामीति ज्ञातृतया सिध्यतः प्रत्यगात्मनो व्यतिरेकेण सिक्षिणो नाम प्रकाशमात्रस्या%%त्मनो%नुपलब्धेः । देहेन्द्रियमनःप्राणविज्ञानेभ्यो ज्ञानाश्रयतया विविच्यमाने प्रतीपमञ्चतीव निर्भासमानो%हंभाव एव हि प्रत्यक्त्वं नाम । साक्षित्वमपि तस्य साक्षाज्ज्ञातृत्वम् । न ह्यजानन् सिक्षीत्यपदिश्यते । सर्वं च प्रकाशमानं ज्ञात्रे%हमिति चकासते प्रकाशत इति प्रत्यात्मसिद्धो%यमनुभवः- अहं जानामि, मह्यं प्रकाशत इति ।

(इति ज्ञातुरहमर्थस्य प्रत्यगात्मत्वनिरूपणम्)

न चाव्याकृतपरिणामभेदस्याहङ्कारनाम्नो बुद्धिनामधेयस्य वा ज्ञातृत्वम् ; देहस्येवाचेतनत्वपरिणामित्वजडत्वपरार्थत्वादिहेतुभिस्तदनुपपत्तेः । न च चितिच्छायापत्त्या तयोस्तत्संभवः । अचाक्षुषस्य छाया%दर्शनात् । न च ज्ञातृत्वं चितावपि ते वास्तवमस्ति, येनाग्निसंपर्कादयः पिण्ड इवौष्ण्यं तत्संपर्कादर्थान्तरे ज्ञातृत्वं जायेत ज्ञायेत वा ।

(इत्यहङ्कारस्य ज्ञातृत्वतत्प्रतीत्यनुपपत्तिनिरूपणम्)

यद्युच्येत-ज्ञाप्तिमात्रमेवा%%त्मानमभिव्यञ्जन् अचेतनो%प्यहङ्कारः स्वाश्रयतया तमभिव्यनक्ति । स्वभावो ह्ययं व्यञ्जकानाम्-यदात्मस्थतया%भिव्यङ्ग्यमभिव्यञ्जन्ति, दर्पणजलखण्डमुण्डादय इव मुखमिहिरबिम्बगोत्वादीन् ।

तत्कृतश्चायमहं जानामीति भ्रमः । अत एव खलु अहमुल्लेखविगमे सुषुप्तिमुक्तयोः स्वाभाविकविशदानुभवमात्ररूपेणा%%त्मनः प्रकाशः । तत एव चानात्मत्वमहमर्थस्य । तथा च सौरेशं वचः-

" आत्मनश्चेदहं धर्मो यायान्मुक्तिसुषुप्तयोः ।

यतो नान्वेति तेनायमन्यदीयो भवेदहम ।। " इति।

(इति अहङ्कारस्य संविदभिव्यञ्जकत्वपूर्वपक्षोपपादनम्)

प्रकारान्तरेणापि संविदः सधर्मकत्वं साधयति
सिद्धिश्चे दिति । सिद्धिः प्रकाशः । तदुपगमे तेनैव संविदः सधर्मता स्यात् । तदनुपगमे तु शशविषाणादिवदप्रकाशमानाया असिद्ध्यन्त्यास्तस्यास्तुच्छत्वमेव प्रसज्यत इति कारिकार्थः ।।10।।

अत्र शङ्कते ननु सिद्धिरेवे ति । न प्रकाशाश्रयः, किन्तु प्रकाशस्वरूपैव संवित् । तन्न तुच्छत्वं सधर्मकत्वं वेति भावः । आक्षिपति कस्य भो रिति । सविशेषत्वप्रसङ्गाद्भीतः पर आह न कस्यचि दिति । प्रतिवक्ति सिद्धान्ती न तर्ही ति । प्रकाशो हि धर्मो विना धर्मिणा न घटत इति भावः । सिद्धेः ससंबन्धिकत्वं व्युत्पादयति सा ही ति । पितुर्हि पुत्रः । पुत्रत्वमिवानुयोगिप्रतियोगिसापेक्षा सिद्धिरिति भावः । अनन्यगतिकतया%%ह आत्मन इति । आत्मानुयोगिकात्मप्रतियोगिकैव सिद्धिः संविद इत्यर्थः । आत्मशब्दो%त्र स्वरूपवाची । एवं चेत् सधर्मत्वमायात्येव संविद इत्याह क इति । पितरं प्रति पुत्रस्य पुत्रत्वमिवात्मप्रतियोगिकः प्रकाशो धर्मः संविदात्मनः सिध्यतीत्यर्थः । एवं कारि

कार्थ आक्षेपपरिहारपदकैः कतिभिश्चिद्विवृतः । एवं संविदो निर्विशेषत्वं निरस्य निर्विशेषसंविदि वेदान्ततात्पर्यवर्णनं वेदान्तानामप्रामाण्यप्रर्यवसायीत्याह तदेव मिति । वेदान्ताय-वेदविनाशाय । वेदप्रामाण्योच्छित्त्यै इति यावत् ।

क्षणिकविज्ञानात्मवादे स्मरणाद्यनुपपत्त्या निरस्ते हि नित्यविज्ञानात्मवादिन उत्थानम् । एतत्पक्षे%पि तामाह अपि चे ति । ज्ञातुर्नित्यत्व एवाहमिदमन्वभवमित्यादेरुपपत्तिः ; नतु ज्ञाननित्यत्वमात्रेणेति भावः ।

एतदेव विवृणोति अनुभूति रिति । एवकारार्थमाह न ता मिति । यद्यपि सिद्धान्ते%पि नानुभवितृत्वमनुभूतेः। अथाप्यनुभाव्यत्वमिष्यते । ज्ञातुश्चाहमर्थस्यात्मनो नित्यत्वम् । तथाच पूर्वानुभूतानुभूत्यादिप्रतिसन्धानं घटते । परमते त्वननुभाव्यत्वादननुभवितृत्वाच्च संविदात्मनो निरुक्तप्रतिसन्धानानुपपत्तिरेवेति भावः । तदेवं प्रतिसन्धानबलाज्ज्ञातुरेवात्मत्वं न ज्ञानमात्रस्येति स्थित हृदि । एतदेव समर्थयिष्यत्यग्रिमग्रन्थसन्दर्भेण ।

तत्रादौ ज्ञातृत्वप्रतीतेर्भ्रान्तिरूपतां पराभिमतामनुवदति यद्युच्येते ति । संविन्मात्र परमार्थः । स एवात्मा । अस्मिन्नधिष्ठाने ज्ञातुरहमर्थस्य भ्रान्तिः शुक्ताविव रजतस्य । भ्रमोपपत्त्यर्थमधिष्ठानसंविन्मात्रपारमार्थ्यमभ्युपेयमिति परेषामाशयः । दूषयति तन्ने ति । तथा सती ति । अयमाशयः - धर्मिणि धर्म्यन्तरारोपे आरोप्याधिष्ठानयोः समानाधिकरण्येन (अभेदेन) भानं भवेदिदं रजतमिति यथा । अन्यत्रान्यधर्मारोपे चारोप्यधर्मवता तथा भानं दृष्टं शङ्खः पीतवान्, मुख दर्पणस्थं, चन्द्रौ द्वाविति । न चैवमत्रानुभूतिरहमिति वा अहंवतीति वा भानमस्ति । तन्न संविदि अहमर्थारोप इति युक्तमिति । अहमर्थे संविदारोपोपगमस्तु न घटते परेषां सत्यालम्बनत्वनियमादारोपस्य, अहमर्थस्य चासत्यत्वादिति ध्येयम् । पृथ गिति । पृथगवभासमानत्वं प्रकारतया प्रकारिणो विलक्षणत्वेन भासमानत्वम् । अहंदण्डीति प्रतीतितुल्यत्वादहं जानामीति प्रतीतेरहमर्थे ज्ञानधर्मवत्तावगाहित्वमेवेति यावत् । तदेव मिति । दण्डमात्रे इति विषयसप्तमी । दण्डमात्रालम्बन इत्यर्थः । यथा दण्डी पुरुष इत्यत्र दण्डमात्रस्य सत्यत्वं पुरुषस्यारोपितत्वं च न, एवमहं जानामीत्यत्रापि न ज्ञानमात्रस्य सत्स्त्वं ज्ञातुर्मिथ्यात्वं च । किंतु ज्ञातुरहमर्थस्य सत्यत्वमेव युक्तमभ्युपगन्तुं बाधकानुपलब्धेरित्याशयः ।

ज्ञातृत्वप्रतीतेर्भ्रान्तित्वे%नुयुङ्ले किं नियामकमिति कुत इति । पूर्वपक्षी तत्प्रति

वक्ति स्थूल इति । भ्रान्तैर्गृह्यमाणत्वाज्ज्ञातृत्वमध्यासलक्षणमिति भावः । नेदमध्यस्तत्वसाधकं बाधितत्वेन सोपाधिकत्वादित्याशयमन्तर्निधाय प्रतिबन्दीमाह नन्वात्मतये ति । देहात्मभ्रमवतागृह्यमाणाया अपि संविदो%बाध्यत्वान्न मिथ्यात्वमिति समाधिं वाचयति पूर्वपक्षिमुखतः तत्त्वज्ञानोदया दिति । तुल्यमिदं ज्ञातृत्वस्यानध्यस्तत्वं इत्याह किं भो रिति । तत्त्वज्ञानफले मोक्षे%पि ज्ञातृत्वमनुवर्तत इत्यबाधितत्वमित्याशयः । मोक्षे ज्ञातृत्वस्य निवृत्तावनर्थं प्रसञ्जयति हन्तैव मिति । दुःखनिवृत्त्या मुक्तेः पुमर्थत्वमिति चेदानन्दानुभवनिवृत्त्या%नुभवित्रहमर्थनिवृत्त्या चापुमर्थत्वं प्रसज्यते इति भावः ।

ज्ञातृत्वादेरनात्मधर्मत्वात्तन्निवृत्तावपि न पुमर्थतोपघातो मुक्तेरिति शङ्कते ननु ज्ञातृत्व मिति । अहङ्कारो%न्तःकरणम्, तदेव दुर्मोचत्वाद्ग्रन्थिः, तन्निष्ठमेव ज्ञातृत्वं ज्ञानात्मना परिणामलक्षणं विक्रियात्मकं जडपरिणामत्वाज्जडं चेत्यर्थः । आत्मनः स्वरूपमाह तत्फले ति । कर्तृत्वस्य फलभोक्ता, अविक्रियत्वादकर्ता,

प्रकाशमात्नस्वरूपतया साक्षीचात्मा%स्तीत्यर्थः । प्रकाशः मात्रा यस्य सः प्रकाशमात्रः । कर्तृत्वे इति । आत्मा न कर्ता नाप्यहमर्थः, आत्मत्वादनन्यार्थत्वादजडत्वादविक्रियत्वाद्वा तन्नैवं यन्नैवं यथा देह इति प्रयोगा अत्र गर्भिताः । कर्तृभिन्नस्य भोक्तृत्वं कथम्? तत्राह दृष्ट मिति । एतद्दूषयति नैव मिति । ज्ञातृव्यतिरिक्तस्य प्रकाशमात्रस्यात्मनो%नुपलम्भबाधमुक्त्वा प्रत्यक्त्वबलादेवाहमर्थत्वमात्मन एषितव्यमित्याह देहेन्द्रिये ति । ज्ञानस्य देहादावसंभवाद्धि तद्वैलक्षण्यमात्मनः साधितम् । तज्ज्ञातृत्वमात्मन एष्टव्यम् । देहादिश्चेदङ्कारगोचरः । तत्राहङ्कारस्त्वाभिमानिक एव । तदहंभावस्य देहादिगतेदम्भावतः प्रतीपत्वं विरुद्धत्वम् । प्रतीपमञ्चतीति च प्रत्यकू अहङ्कारगोचरः । तत्प्रत्यक्त्वादहंत्वमात्मन आपतति । देहादेर्दृश्यादिदङ्कारगोचराद्द्रष्टर्यात्मनि प्रतीपं विरुद्धमार्गं गच्छतीवेत्युप्रेक्षा । मूले अञ्चतीति सप्तम्यन्तम् । स्थिते आत्मनीति शेषः । साक्षित्वमपी ति । साक्षाद्द्रष्टरि संज्ञाया मित्यनुशासनादिति भावः । सर्वं च ज्ञेयं ज्ञात्नात्मन एव भासते न ज्ञानमात्नाय। ततश्च ज्ञातुरेवात्मत्वं न ज्ञानमात्नस्येत्याह सर्व मिति । चकासते इति चतुर्थ्यन्तम् । अतश्च न ज्ञानमात्नस्य साक्षित्वं संभवति, किन्तु ज्ञातुरेवेति तस्यैवात्मत्वं न ज्ञानमात्नस्येति हार्दम् । यत्तु ज्ञातृत्वं विक्रियात्मकमिति; तन्न । न हि कापिलमत इव ज्ञानपरिणामित्वं ज्ञातृत्वमिष्यते श्रुत्यन्तहार्दाभिज्ञैः । किन्तु अर्थप्रकाशनोपयोगिव्यापारवद्धर्मभूतज्ञानाश्रयत्वमेव । सविषयके

धात्वर्थे कर्तृताया आश्रयत्वरूपत्वात्, कर्मत्वस्य विषयतारूपत्ववत् । यदपि कर्तृरन्यस्य भोक्तृत्वमिति, तदपि वार्तम् । उपादानादिकायिकक्रियानुगुणज्ञानेच्छापूर्वकान्तरप्रयत्नाश्रयत्वरूपस्य मुख्यकर्तृत्वस्यात्मन्येवोपपत्तेः । शास्त्रफलं प्रयोक्तरि कर्ताशास्त्रार्थवत्त्वा दिति हि वेदवेदान्तहार्दाभिज्ञाः । यदपि कर्तृत्वादिर्दृश्यत्वान्नात्मधर्म इति, तदपि मन्दम् । दृश्यत्वं चेद्वाह्येन्द्रियग्राह्यत्वं तदसिद्धमान्तरप्रयत्नाधारत्वलक्षणे पक्षे । अनुभाव्यत्वं चेत्तत्, तर्ह्यप्रयोजकत्वं हेतोः । यदपि कर्तृत्वादौ अनात्मत्वाद्यपादानम्, तदपि भग्नमूलम् । अमुख्यस्यैव तस्यानात्मत्वादिव्याप्यत्वात् मुख्यकर्तृत्वाहप्रत्ययास्पद आत्मन्यनात्मत्वाद्यप्रसक्तेरिति सङ्क्षेपः ।

एवमात्मन एव ज्ञातृत्वमहं त्वं च मुख्यमित्युक्त्वा प्रकृतिपरिणामविशेषे बुद्ध्याख्ये महत्तत्वे तत्कार्ये%हङ्कारे वा ज्ञातृत्वमनुपपन्नमित्याह न चाव्याकृते ति । अचेतनत्वम्-अनात्मत्वम्, न त्वज्ञातृत्वम् । साध्यहेत्वोरैक्यप्रसङ्गात् । महानहङ्कारो वा न ज्ञाता अनात्मत्वात् परिणामित्वाज्जडत्वात्परार्थत्वाद्वा देहवदिति प्रयोगः । ननु ज्ञातृत्वस्यासंभवे%पि चिच्छायापत्या चित्संपर्काद्वा तत्न ज्ञातृत्वप्रतीतिरस्त्वित्यत्नाह नच चिती ति । अरूपत्वाच्चितो न प्रतिबिम्बो बुद्ध्यादौ संभवति । येन स्फटिके लोहितप्रतिभासवत्तत्न चैतन्यप्रतिभासो भवेत् । नच चितौ ज्ञातृत्वमस्ति । येन तत्संपर्कात्तत्न ज्ञातृत्वं तत्प्रतिभानं वा भवेत् अग्निसङ्गादयसि औष्ण्यभानवदिति भावः । सांसर्गिको गुणो दोषो वा तत्न तत्न जायते ज्ञायते चेति जायेत ज्ञायेत वेत्युक्तिः ।

अथ ज्ञातृत्वप्रतीतेर्निर्वाहाय पराभिमतमहङ्कारस्य संविदभिव्यञ्जकत्वपक्ष- मनुवदति यद्युच्येते त्यादिना । अभिव्यञ्जयन्-प्रकाशयन् । स्वाश्रयतया-स्वाश्रितया । बहुव्रीहेस्तल् । खण्डमुण्डादयो गोव्यक्ति- भेदाः। मिहिरबिम्बं-सूर्यबिम्बम् । शिष्टं स्पष्टम् । तत्कृतश्चे ति । संविदभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मुखाद्यभिव्यञ्जकत्वप्रयुक्तश्चाहङ्कारस्य संविदाश्रयत्वप्रतिभासो मिखाद्यभिव्यञ्जकत्वप्रयुक्त इव दर्पणादेर्मुखवत्त्वादिप्रतिभास इत्यर्थः । अहंभावः प्रकृतिपरिणामविशेषस्यैव, न त्वात्मन इत्याह अत एवे ति । यतो ज्ञातृत्वप्रतीतिर्भ्रान्तिः, अत एव चैतन्यमात्रतया%%त्मनः स्वापेमुक्तौ च भानम् । न तु तदा%हम्भावभानमिति भावः । अत एवे ति । सौषुप्तिकमौक्तिकात्मानुभवतो%हम्भावानुल्लेखादेवाहमर्थस्यानात्मत्वमित्यर्थः । अत्र संवादतया सुरेश्वराचार्यवचनमु

पादत्ते आत्मन इति । अहम्भाव आत्मधर्मश्चेत्सुषुप्तिमुक्तयोर्यायात्-अन्वियात् । यतो नान्वेति ततो%यमनात्मधर्म एवेत्यर्थः ।

तदिदमसंबद्धम् । यतः-

शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।

स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ।।11।।

आत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयो%भिप्रेयन्ते । तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावं तमनुभवं तदधीनसिद्धिरचिदहङ्कारो%भिव्यनक्तीत्युपहास्यमिदमात्मविदाम् ।

पक्षमेनं प्रतिक्षिपति तदिद मिति । अहङ्कारस्य जडस्य स्वयंप्रकाशचैतन्यप्रकाशकत्वमनन्वितमनुपपन्नत्वादित्याह शान्ते ति । शान्ताङ्गारः-जलनिर्वापिताग्निपिण्डः । अप्रकाशस्वरूपस्य तस्य प्रकाशमयादित्यप्रकाशकत्वमिवाप्रकाशस्व- रूपस्य जडस्य प्रकृतिपरिणामविशेषस्य स्वप्रकाशसंविदात्मस्वरूपप्रकाशकत्वमनुपपन्नमित्यर्थः ।।11।।

इममेवार्थां प्रपञ्चयति आत्मत्वे त्यादिना । सर्वार्थप्रकाशकं कदाचित्प्रकाशते%थ न, पुनःकदाचित्प्रकाशते इत्युदयास्तमयपर्यायवृत्तिरहितनित्यप्रकाशस्वरूपमनुभवात्मानं नियमेन तदधीनप्रकाशो जडो%हङ्कारो%भिव्यनक्तीति विप्रतीपवचनमिदं समीपस्थानामपि आत्मतत्त्वविदामुपहासास्पदमित्यर्थः । न खलु सर्वं साधयतः स्वतःसिद्धस्य च सदा%नुभवात्मनः प्रकाशकान्तरापेक्षा । नच जडस्य नियमेन तदाभास्यस्याहङ्कारस्य तत्प्रकाशनसामर्थ्यम् । येनानुभवस्याहङ्काराभिव्यङ्ग्यत्ववचनमुपपन्नं भवेदिति भावः ।

किञ्च-व्यङ्ग्यव्यङ्क्तृत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः ।

व्यङ्ग्यत्वे%ननुभूतित्वमात्मनि स्याद्यथा घटे ।।12।।

दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोचः । करतलस्य तद्बाहुल्यमात्रहेतुत्वात् । तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वम् ।

अपि च केयमभिव्यक्ति ? या%नुभूतिरूपस्यात्मनो%हङ्कारेण क्रियत इत्युच्यते । न तावत्तत्सिद्धिः, तस्य स्वतःसिद्धत्वेनानन्याधीनसिद्धित्वाभ्युपगमात् । नापि तद्विषयज्ञानम्, ज्ञानान्तराननुभाव्यत्वात् । अनुभाव्यत्वे हि घटादिवदननुभू

तित्वप्रसङ्गः । अत एव न ज्ञानकरणानुग्रहः । स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा दीपेनेव सन्तमसनिरसनेन चक्षुषः; वेद्यसन्निकर्षोपाधित्वेन वा व्यक्तिदर्पणादेरिव जातिनिजमुखादिबोधकस्य नयनादेः; वित्तृगतकलङ्कक्षालनेन वा शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्या%%गमादेः । न तावदनुभवगमहङ्कारापनेयमस्ति किंचित् ज्ञानोदयपरिपन्थि । अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभावविरहिणि भवदभिमतसाक्षिणि निक्षेपमर्हति । न खलु ज्ञानप्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते । तथैव न जातुचित् ज्ञातृत्वं ज्ञानमात्रस्येति न तस्याप्यज्ञानं भवेत् । भवदपि वा तदहङ्कारापनेयं नेष्यते; ज्ञानैकनिवर्त्यत्वादज्ञानस्य, तथा%भ्युपगमाञ्च । ज्ञानं च स्वविषय एवाज्ञानं निवर्तयति । न च तद्विषयत्वमात्मतयाभिमत स्यानुभवस्येष्यत इति तत्रत्यमज्ञानं न केनचित्कदाचिदुच्छिद्येत । ज्ञानप्रागभावरूपं चाज्ञानं न ज्ञानोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुम् । भावरूपमज्ञानमनिर्वचनीयं जगदुपादानमित्यादि प्रलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते । अतो न वेद्यदोषापनयनरूपा अहङ्कारेणानुभवाभिव्यक्तिः ।

अस्तु वि%नुभवस्य केनचिद्व्यङ्ग्यत्वम् । अस्तु वा%हङ्कारस्य किञ्चिदभिव्यञ्जकत्वम् । परं तदभिव्यङ्ग्यैकस्वभावस्याहङ्कारस्य तदभिव्यञ्जकत्वमनुपपन्नमित्याह किञ्चे ति । व्यङ्ग्ये ति । अनुभवात्माहङ्कारयोः परस्परं व्यङ्ग्यव्यञ्जकभावो%नुपपन्नः । प्रातिकूल्यतः-स्वभावविरोधलक्षणादुक्तात्प्रतिकूलभावत इत्यर्थः । नियमेन तद्व्यङ्ग्यस्वरूपस्य तद्व्यञ्जकत्वं हि विरुद्धमिति प्रोक्तम्। अहङ्कारस्य संविदधीनव्यक्तेरेव तद्व्यञ्जकत्वं स्यात् । मिथ्यापदार्थस्य प्रतिभासाधीनसत्ताकस्य प्रतिभासाभावे सत्ताया एव दिर्लभत्वात् । संविच्च स्वयं भासमानैवाहङ्कारं व्यञ्जेत् । अन्यथा जडत्वप्रसङ्गात् । तथाच स्वप्रकाशसंविदधीनप्रकाशाहङ्काराधीनप्रकाशत्वं संविद उक्तं भवेत् । तथा चा%न्योन्याश्रयः-संवित्प्रकाशाधीनो%हङ्कारप्रकाशः अहङ्कारप्रकाशाधीनश्च संविदः प्रकाश इति । उक्तलक्षणात्प्रातिकूल्याद्वाधकोपनिपातान्न मिथो व्यङ्ग्यव्यञ्जकत्वं संविदहङ्कारयोः संभवतीति च तात्पर्यान्तरं वर्णितं श्रीमन्निगमान्तगुरुचरणैस्तत्त्वटीकायाम् । परमते संविदो%हङ्कारव्यङ्ग्यत्वे दूषणान्तरमाह व्यङ्ग्यत्वे इति । अन्याधीनप्रकाशत्वे%नुभूतेरननुभूतित्वप्रसङ्गो घटादेरिवेत्यर्थः ।।12।।

तद्व्य ङ्ग्यस्यापि तद्व्यञ्जकत्वे न विरोधः, दृष्टत्वादिति शङ्कामपनुदति दिनकरे ति । हस्ततलस्य वातायनविवरप्रविष्टसूर्यकिरणानां गतिप्रतिरोधेन संहतिमात्रहेतुत्वम् । संहतानां च तेषां स्फुटप्रकाशः स्वत एवेत्याह करतलस्ये ति । गतिप्रतिरोधेनापि संवित्स्फुटप्रकाशहेतुत्वं करतलस्येव दुर्घटमहङ्कारस्यामूर्तस्येति हार्दम् ।

एवमहङ्कारव्यङ्ग्यत्वं संविदात्मनो%नपेक्षितमनुपपन्नं चेत्युक्तम् । अभिव्यक्तिप्रकाराणां संभावितानां प्रकृते%नुपपत्तेरपि नाहङ्कारस्य तदभिव्यञ्जकत्वमित्याह अपि चे त्यादिना । तत्सिद्धिः- संविदात्मप्रकाशः ।

स्वप्रकाशत्वेनान्यापेक्षूप्रकाशत्वाभावोपगमान्न संवित्प्रकाशहेतुत्वमहङ्कारस्य । संविदो ज्ञानान्तरागोचरत्वेन तद्विषयकज्ञानजनकत्वमपि तदभिव्यञ्जकत्वमहङ्कारस्य नेति प्रकाशनप्रकाशकज्ञानजनकत्वरूपाभिव्यञ्जकत्वप्रकारद्वयं दूषितम् । अत एवे ति । अननुभाव्यत्वादेवानुभवस्य तद्विषयकानुभवकरणस्या%प्रसिद्ध्या तदनुग्रहलक्षणाभिव्यक्तिप्रकारो%पि न संभवतीत्यर्थः । अस्तु वा तज्ज्ञानकरणं किञ्चित् । तदनुग्रहप्रकाराः प्रकृते न संभवन्तीति वदन् अनुग्रहं विकल्पयतितावत् स ही ति । सः-अनुग्रहः ग्राहकस्य सहकारिसम्पत्त्यापादनलक्षणः । वेद्यगते ति । वेद्यगतज्ञानोत्पत्तिप्रतिबन्धकनिरसनेन तज्ज्ञानकरणानुग्रह आद्यः कल्पः । द्वितीयमाह वेद्ये ति । करणस्य ग्राह्यसन्निकर्षप्रयोजकत्वेनेति यावत् । व्यक्तिर्हि स्वद्वारा चक्षुरादेर्वेद्यजात्यादिसन्निकर्षं संपादयति । दर्पणादिश्च चाक्षुषरश्मिगतिपरापर्तनेन मुखादिसन्निकर्षं चक्षुषः । तृतीयमाह वेत्तृगते ति । कलङ्कः-ज्ञानोत्पत्तिविरोधी पापादिः । नाविरतो दुश्चरिता दित्यादिना च शमादेस्तत्त्वज्ञानजनकशास्त्रसहकारित्वं ज्ञायते । निष्कामकर्मणा शमादिनाचापाकृतपापरागादिदोषस्य शुद्धचित्तस्यैव हि शास्त्रेण तत्त्वज्ञानोत्पत्तिः । प्रकृते प्रथमानुग्रहकल्पस्यानुपपत्तिमह न ताव दिति । नन्वज्ञानमेव ज्ञानोत्पत्तिविरोधि वेद्ये%नुभवात्मनि वर्तत इति चेत्तत्राह अज्ञान मिति । ज्ञानेन समानावाश्रयविषयौ यस्यैवंभूतमज्ञानम्, ज्ञानसमानाश्रयं ज्ञानसमानविषयं चेति यावत् । तदुभयभावविरहिणि-ज्ञानाश्रयत्वज्ञानविषयत्वरहिते । निक्षेपं-पदन्यासम्, संबन्धमिति यावत् । अज्ञानं हि ज्ञानप्रागभावरूपं तत्समानयोगक्षेमं वान्यत् ज्ञातृत्वप्रसक्तिशून्ये भवदभिमते%नुभवात्मनि न घटते घटादाविवेति भावः । भवदपी त्यभ्युपगम्य वादः । आत्माश्रितत्वे%प्यज्ञानस्याहङ्कारेण निवर्त्यत्वाभावाद्वेद्यदोषापनायकत्वरूपमभिव्यञ्जकत्वं न तस्येति भावः । पराभिमते%नुभवात्मनि अज्ञानस्योपगमे%निष्टं चाह ज्ञानं चे ति । आत्मनिष्ठमात्मविषयं चाज्ञानमात्मनो%ननुभाव्यत्वाज्ज्ञानानिवर्त्यं नित्यंप्र

सज्यते, समानाश्रयविषयत्वेनैव ज्ञानाज्ञानयोर्बाधकबाध्यभावादिति भावः । आत्मविषयकज्ञानोपगमश्वापसिद्धान्तपराहतः । एतेनान्तः-करणवृत्तिव्याप्यत्वमेवेष्यते आत्मनः । नतु तदवच्छिन्नचैतन्यव्याप्यत्वम् । येन जडत्वादि प्रसज्येत । आत्माकारान्तःकरणवृत्त्यैवात्माज्ञाननिवृत्तिरित्यपि निरस्तम् । वृत्तेर्जडभूताया अज्ञाननिवर्तकत्वायोगात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकम् । तदवच्छिन्नचैतन्यनिवर्त्यत्वे तु ज्ञेयत्वाद्यात्मनो%वर्जनीयमेवेति दिक् । अज्ञानं च किं ज्ञानप्रागभावरूपम्; आहोस्विद्भावरूपमिति विकल्प्य दूषयति ज्ञाने त्यादिवाक्यद्वयेन ।

करणानामभूमित्वान्न तत्संबन्धहेतुता ।

अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ।।13।।

न च स्वाश्रयतया%भिव्यङ्ग्यप्रकाशनमभिव्यञ्जयितुः स्वभावः; प्रदीपादावदर्शनात् । यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच्च ज्ञानतत्साधनतदनुग्राहकाणाम् । तच्च स्वतःप्रामाण्यन्यायात्; तदनभ्युपगमे च सर्वत्रानाश्चासप्रकङ्गात् । व्यक्तेस्तु जातिराकार एवेति तथा प्रत्यायनम्; न व्यञ्जकत्वप्रयुक्तम् ; उक्तादेव व्यभिचारात् । दर्पणादिस्तु नायनमहःप्रतिफलनलक्षणदोषहेतुर्नाभिव्यञ्जको वदनादेः । व्यञ्जकस्त्वालोकादिरेव । व्यञ्जकत्वे%पि प्रतीपगमनदोषप्रयुक्तस्तत्रान्यथावभासः । न चेह तथा%हमर्थस्य तादृशदोषापादकत्वं स्वभावः । तथा सति सर्वस्यापि प्रत्यक्षादेरप्रामाण्यप्रसङ्गान्न किञ्चित्तथ्यं स्यात् । तस्माज्ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा; न ज्ञप्तिमात्रम् ।

(इत्यहङ्कारस्य संविदभिव्यञ्जकत्वनिराकरणप्रकरणम्)

यत्तु सुषुप्तिसुक्तयोर्ज्ञप्तिमात्रतया स्फुरणम्, अहमिति तु न प्रतिभातीति; तत्र सुषुप्तौ तथावस्थितिः पुरस्तादेव निरस्ता । अहमित्येकरूपेण आप्रबोधात्तत्राप्यात्मनः स्फुरणात् । यदि परं परागर्थाननुभवात्तमोगुणाभिभवाच्च न विविच्य स्फुटं चकास्ति; भवदभिमता%नुभूतिरपि तदानीं तथैव हि प्रथत इति वाच्यम् । नाहमहम्, नाप्यर्थान्तरम्, अपि त्वनुभूतिमात्रमज्ञानसाक्षितया%वतिष्ठत इत्येवंविधं स्वापसमयभवमनुभवं नहि सुप्तोत्थितः कश्चित् परामृशन्नुपलब्धचरः । एतावन्तं कालं न किञ्चिदहमवेदिषमिति परामर्शनादेव तथात्वं लभ्यत इति चेत्; कथमिव? न किञ्चिदिति निर्देशादिति चेत्; नन्वेवमनुभूतिप्रतिभासो%पि प्रत्याख्यातः स्यात् । अपि च सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य न किञ्चिदवेदिषंमिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकीं

वित्तिसिद्धिमहमर्थस्य चासिद्धिमभिदधानो%नुभवविरोधमपि न जानाति देवानां प्रियः । निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव ।

ननु मामप्यहं न ज्ञातवान् प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः । सत्यम्; स तु वर्णाश्रमादिविशिष्टतया प्रबोधसमयसंवेद्यमानं देहिनं मामित्यादाय स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञातत्वं प्रज्ञापयति, न पुनर्ज्ञस्वभावस्याहमर्थस्यापि । एवमिव खल्वयमनुभवः-अत्र सुप्तो%हमीदृशश्चेत्येवं मामपि न ज्ञातवानहमिति । अपि च, आत्मा सुषुप्तौ अज्ञानसाक्षित्वेना%%स्त इति हि यौष्माकी स्थितिः । साक्षित्वं च साक्षाज्ज्ञातृत्वमित्युक्तम् । स चायं जानामीति प्रतिभासमानो%स्मदर्थ एवेति कथमिव तदानीमहमर्थो न प्रथेत । स्वस्मै प्रकाशमानो%हमित्येव हि प्रकाशत इति । तत्सिद्धं स्वापादिदशास्वप्यात्मा प्रकाशमानो%हमित्येव प्रकाशत इति ।

(इति स्वापे%हमर्थभानसमर्थनप्रकरणम्)

यत्तु मुक्तावहमर्थो नोपावर्तत इति; तद्वार्तम् । यतस्तथा सति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । नो खलु अहमिति धर्ममात्रम्, येन तदपगमे%प्यविद्यानिवृत्त्यामिवात्मनः स्वरूपेणावतिष्ठत इत्युच्यते । अहमित्येव हि तस्य स्वरूपम् । ज्ञानमपि हि तद्धर्मत्वेन तस्यैव प्रकाशते ज्ञानं मे जातमिति । का कथा पुनरर्थान्तरस्या%%त्मत्वे ? ।

अन्यश्च-यः सांसारिकदुःखैः दुःखित्वेना%%त्मानं तत्त्वतोभ्रान्त्या वा प्रत्येति दुःख्यहमिति, सः सर्वमिदमनिष्टजातं कथमहमपुनरूदयपनुद्याव्याकुलः स्वस्थो भूयासमिति सञ्जातमुमुक्षः तत्साधने प्रवर्तते । स यदि साधनानुष्ठानादहमेव न भविष्यामीत्यवगच्छति, अपगच्छेदसौ मोक्षकथाप्रसङ्गादपि । ततश्चासम्भवदधिकारितया सर्व एव वेदान्तविधयः सर्वाणि च मोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन् । अहमुपलक्षितः प्रकाशो%पवर्गे%वस्थास्यत इति चेत्, किमतः? न हि मयि नष्टे%पि को%पि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान् प्रयस्यति ।

एतेन तदपि परास्तम्, अस्मत्प्रत्यये यो%निदमंशः चिदेकरसः प्रकाशः स आत्मा । तस्मिंस्तद्बलनिर्भासिततया लक्षणतो युष्मदर्थ एवाहं जानामीति सिध्यन्नर्थ

इति । प्रत्यक्षविरोधात् । अहं जानामीति सिध्यश्चेतनो सुष्मदर्थ इति माता बन्ध्येतिवद्व्याहतार्थंवचः । न चासौ अन्याधीनावभासः, चैतन्यस्वभावतया स्वयंज्योतिष्ट्वात् । प्रकाशश्च प्रकाशत्वादेव कस्यचिद्भवेद्दीपादिप्रकाशवदिति नात्मा भवितुमर्हति । अतो ज्ञातृतया%हमिति सिद्ध्यन्नर्थ एवा%%त्मा ।

स च मुक्तावप्यात्मने%हमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते स सर्वो%हमित्येव प्रकाशमानोदृष्टः, यथा तथावभासमानत्वेनोभयवादिसंमतः संसार्यात्मा । यः पुनरहमिति न चकास्ति नासौ स्वस्मै प्रकाशते, यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । तस्मात् सो%हमित्येव प्रकाशते । न चैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्वसंसारित्वादिप्रसङ्ग आपादनीयः । मुक्तत्वविरोधात् । अतदुपाधित्वाच्च तत्प्रत्ययस्य । न ह्यज्ञानोपाधिरहंप्रत्ययः । ब्रह्मात्मपरोक्षज्ञानक्षपितनिरवशेषाविद्यानामपि वामदेवादीनाम(मे) तत्प्रत्ययदर्शनात् । श्रयते हि "तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सुर्यश्च अहमेव च वर्तामि भविष्यामी"त्यादि । तथा कथञ्चिदप्यविद्यादिक्लेशैर्लेशतो%पि जातुचिदपरामष्टस्य परमपुरुषस्याप्यहमित्यात्मपरामर्शः प्रज्ञायते "हन्ताहमिमास्तिस्त्रो देवताः" "बहु स्यां प्रजायेय" "स ईक्षत लोकान्नु सृजा इति", तथा- "यस्मात् क्षरमतीतो%हमक्षरादपि चोत्तमः । अतो%स्मिलोके वेदे च प्रथितः पुरुषोत्तमः" ।। "तेषामहं समुद्धर्ता " "अहं बीजप्रदः पिताः" "वेदाहं समतीतानि" इत्येवमादिभिः ।

एवं च साक्षादहमर्थादात्मनो विलक्षणे%पि देहे येना%%व्यक्तिकपरिणामभेदेनाहमिति भ्रमः, तदभिप्रायो%हङ्कारस्य क्षेत्रान्तर्भावोपदेशो भगवतः "महाभूतान्यहङ्कार" इति । बहुमन्तव्यजनावधीरणहेतुश्चासौ गर्वापरपर्यायः तत्र तत्र शास्त्रेषु प्रायशोहेयतयोपदिश्यते । तस्मादहमिति मतिर्बाधकापेता साक्षादात्मगोचरैव । अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तम् । उक्तं च "श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या" इति महर्षिणा वासिष्ठनन्दनेन । नच ज्ञप्तिमात्र प्रतिभासः कस्यचित् शरीरे%स्ति । येन तन्मात्रात्मवादिनो%प्यनात्म (न्योत्म) बुद्धिरुपपद्येत ।

द्वितीये%नुग्रहकल्पे दूषणं करणाना मिति । अभूमित्वात्-अविषयत्वात् । इन्द्रियाग्रा

ह्यत्वादात्मनो नात्मेन्द्रियसन्निकर्षोपाधित्वेनाभिव्यञ्जकत्वमहङ्कारस्य संभवतीत्यर्थः । तृतीये दूषणं अहमर्थस्ये ति । स्वगतकल्मषस्य स्वेनैव केवलेन निवर्तनायोगान्न तृतीयो%पि कल्पः कल्पत इत्यर्थः ।।13।।

एवं व्यञ्जकत्वं निरस्य पराभिमतं व्यञ्जकस्वभावमपि निरस्यति नचे ति । प्रदीपो हि घटादेः प्रकाशको न स्ववृत्तितया तं प्रकाशयति । न खल्वेवं प्रतीतिः प्रदीपे घट इति, प्रदीपो घटवानिति वा । किन्तु यथावस्थितवेषेणैव भूतले घट इतीति भवदुक्ते नियमे%नैकान्त्यमिति भावः । ज्ञानादीनां यथावस्थितवस्तुप्रकाशहेतुत्वमेवेत्यत्र युक्तिमाह तच्चे ति । प्रामाण्यस्वतस्त्वात्मकयुक्तेरित्यर्थः । ज्ञानसामग्रीप्रयोज्यत्वं ज्ञानभासकसामग्रीभास्यत्वं च प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वम् । ननु स्वतःप्रामाण्ये क्वचिज्ज्ञाने विपरीताकारावगाहनं कुतः? ज्ञानसामग्रयामतिरिक्तदोषसंवलनादेव । स्वतःप्रामाण्यग्रहे%प्यनभ्यासदशापन्नज्ञाने प्रामाण्यसंशयश्च दोषमूलत्वसंशयादेवेति च बोध्यम् । प्रामाण्यस्य स्वतस्त्वानुपगमे बाधकमाह तदनभ्युपगम इति । सर्वज्ञानेष्वपि अप्रामाण्यशङ्काप्रसक्तेः प्रामाण्यस्य स्वतस्त्वानुपगमे स्वतस्त्वमेष्टव्यम् । अन्यथा तु जाते%पि प्रामाण्यनिश्चये%प्रामाण्यशङ्का निरर्गलप्रसरा भवेदेव । निष्कम्पप्रवृत्तिश्च कुत्रापि न घटेतेति भावः । व्यक्ते रिति । व्यक्तेर्नाभिव्यञ्जकत्वप्रयुक्तं स्वाश्रिततया जातेः प्रकाशनम् । किन्तु व्यक्तयपृथक्सिद्धप्रकारत्वरूपवस्तुस्वभावादेव । व्यञ्जकस्त्वालोकादिरेव । व्यक्तेर्व्यञ्जकत्वमपि न संप्रतिपन्नमिति भावः । दर्पणादि रिति । दर्पणादि प्रतिहतगतेश्चाक्षुषतेजसः प्रतिनिवृत्य मुखाभिमुखतया प्रसरणमेव मुखस्यान्यथाप्रतीतौ दोषरूपं प्रयोजकम् । प्रतिलोमगतिरूपदोषप्रयोजकस्य दर्पणादेर्व्यञ्जकत्वं भवतु, मा वा । न व्यञ्जकत्वप्रयुक्तमन्यथाभानमिति भावः । न चेहे ति । तादृशदोषापादकत्वम्-ज्ञानकरणानां विपरीतग्रहणोपयोगिव्यापृतिरूपदोषापादकत्वम् । तथासती ति । प्रमाणाधीनप्रमितावहमर्थस्यापि हेतुत्वात् प्रमाणदोषसंपादकत्वे तस्य न किञ्चिदपि यथार्थज्ञानं संभवेत्प्रमाणजन्यमित्यर्थः । तस्मा दिति । ज्ञातृत्वप्रतीतेर्निरुक्तदिशा भ्रान्तित्वायोगाज्ज्ञातृतया सिद्ध्यन्नहमर्थ एवात्मा । न ज्ञाप्तिमात्रमिति भावः । अत्रायं प्रयोगः-ज्ञानं नात्मा धर्मतया प्रमितत्वाद्रूपादिवदिति । एवं ज्ञातुरहमर्थस्यात्मत्वं समर्थितम् ।

अथ स्वापे मुक्तौ चाहमर्थस्य भानं नास्ति, तन्नाहमर्थस्यात्मत्वं युक्तमिति परमतमनूद्य निरस्यति यत्तु सुषुप्ती त्यादिना । तत्र-सुषुप्तिमुक्तयोः । घटकत्वं सप्तम्यर्थः । तस्य सुषुप्ताव

न्वयः । तथावस्थितिः- अहंभावविगमेन ज्ञप्तिमात्रतयात्मनो%वस्थितिः, पुरस्तादेव निरस्ता, प्रतिसन्धानबलात्स्वापे%हमर्थसद्भावतत्प्रतीतिसमर्थनबलादिति भावः । यदी ति । उच्येतेति शेषः । तत्तत्परागर्थानुभवितृत्वेन स्फुटं ज्ञानज्ञेयतो विविच्या%%त्मनो भानं स्वापे नास्तीति परं यद्युच्येतेत्यर्थः । परागर्थाननुभवाद्विविच्य भानं न, तमोगुणाभिभवाच्च स्फुटं तन्नेति अनुसन्धेयम् । परमते%पि तत्समानमित्यह भवदभिमते ति । विशदभानाभावे%पि सूक्ष्मतया%हमर्थस्य भानं पराभिमतसंविद इव स्वापे%स्तीति च हार्दम् । नाहमह मिति । इदानीमहन्त्वेन भासमान आत्मास्वापे तथा नास्तीत्यर्थः । एकमहमित्यधिकं पतितं वा । एतावन्तमित्यादिप्रतिसन्धानमज्ञानसाक्षितया%हमर्थस्यैव स्वापे सत्त्वे%नुगुणमिति भावः । शङ्कते एतावन्त मिति । तथात्वम्-संविन्मात्रस्य भासमानत्वम् । प्रत्यवतिष्ठते सिद्धान्ती कथ मिति । प्रतिवक्ति शङ्किता न किञ्चि दिति । आक्षिपत्येनं नन्वेव मिति । किञ्चिदित्यहमर्थस्येवासङ्कोचात्संविदो%पि क्रोडीकारात् संविन्मात्रस्यापि भानं भवतां तदा%भिमतं न सिद्ध्येदित्यर्थः । ननु किञ्चिदिति जडमात्रस्य परामर्श इति चेत्तर्ह्यहमर्थस्यापि न निषेधः प्रत्यक्त्वेनाजडत्वादिति भावः । यद्वा ज्ञेयमात्रस्य किञ्चिदिति परामर्शो न ज्ञानस्येति चेत्तुल्यनयेन ज्ञातुरपि न परामर्श इति भावः । परपक्षे प्रतिसन्धानविरोधमाह अपि चे ति । देवानां प्रियः-मुर्खः । तथाहि निपातनम् । अनुभवप्रकारानभिज्ञत्वं च मौर्ख्यम् । न हि भूतले घटो नास्तीत्यस्य घटसद्भावभूतलनिषेधविषयकत्वं कस्यचिन्मतम् । किन्तु घटनिषेधभूतलास्तित्वविषयकत्वमेव । तत्तुल्या चैतावन्तमितिप्रतीतिर्ज्ञाननिषेधज्ञातृसद्भावविषयैवेति भावः । ननु सविषयसंविन्निषेधे%पि निर्विशेषसंवित्प्रकाशे न विरोध इत्यत्राह निर्विषये
ति । निर्विषयमपि साश्रमेव ज्ञानं मतं स्वापे । तच्च धर्मभूतं नैव तदा प्रकाशत इति तु सिद्धान्तिनः ।

स्वापे%हमर्थाननुभवे प्रतिसन्धानान्तरं प्रमाणत्वेन शङ्कते ननु मा मिति । परिहरति अर्धाङ्गीकारेण सत्य मिति । प्रतीतावभ्युपगमः । स्वापेसर्वथा%हमर्थाननुभवे%नभ्युपगमः । स्वाप्यये ति । स्वापकालिकाविशदस्वप्रकाशैकाश्रयस्येत्यर्थः । तेन रूपेण-वर्णाश्रमादिविशिष्टवेषेण । ज्ञस्वभावस्य-ज्ञातृस्वरूपस्य । स्वापे न ज्ञानस्य प्रकाशः, किन्तु ज्ञातृस्वरूपस्यैवेति द्योतनायेदमुक्तम् । प्रतीतेरर्थमभिलपति एवमिवे ति । इवशब्दो%वधारणे । अज्ञानसाक्षित्वेना%%त्मा स्वापे प्रकाशत इति परपक्षरीत्यापि तदा%हमर्थस्य भानमवर्जनीयमित्याह अपि चे ति । साक्षाद्द्रष्टरि संज्ञाया मिति साक्षात्कर्तर्येव हि

साक्षिशब्दो%नुशिष्टः । स च ज्ञातृत्वेन प्रती

तो%हमर्थ एवेति अहमज्ञ इत्यज्ञानसाक्षितया स्वापे%हमर्थभानं सेत्स्यत्येवेति भावः । प्रत्यक्त्वस्याहंबुद्धिव्यवस्थाप्यत्वादपि आत्मनो%हन्त्वमेषितव्यमेवेत्याह स्वस्मै इति । स्वापे%हमर्थभानसमर्थनमुपसंहरति तत्सिद्ध मिति । स्वापादीत्यादिपदेन मोहाद्यवस्था ग्राह्या ।

अथ मुक्तावहमर्थनिवृत्तिमनूद्य दूषयति यत्तु इति । त द्वार्त मिति । वार्तं-फल्गु । तदिदं मतं क्षुद्रमित्यर्थः । यत इति । वैनाशिकदर्शनं-बौद्धदर्शनम् । प्रकारान्तरेणअहम्भावाननुवृत्तिकथनमुखेन । येने ति । आत्मन इत्यस्याग्रे आत्मा इति पूरणीयम् । अहमर्थस्य धर्ममात्रत्वे तन्निवृत्तावपि मुक्तौ आत्मा अनुवर्तते इति भवत्कथनं साधीयो भवेत् । न तु धर्ममात्रं सः । किन्तु स एवात्मेति पिण्डितार्थः । ज्ञानमात्रस्यात्मत्वं प्रतिक्षिपति ज्ञानमपी ति । धर्मतया प्रमीयमाणस्य ज्ञानस्य न स्वतन्त्रात्मत्वं संभवतीति भावः । अन्तरङ्गस्य ज्ञानस्यैवा%%त्मत्वासम्भवे बहिरङ्गस्येन्द्रियादेः सुतरां न सम्भावितमात्मत्वमित्याह का कथे ति । ज्ञातृतया प्रमीयमाणादहमर्थादन्यस्य न कस्याप्यात्मत्वं युक्तमिति भावः ।

मुक्तावहंभावनिवृत्तौ दूषणान्तरमाह अन्यश्चे ति । सुखदुःखभोक्तृत्वं दुःखत्रयाभिघातात् मुमुक्षुत्वं च ज्ञातुरहमर्थस्यैव, स चेत् स्वस्यैव विनाशं मुक्तौ जानीयात् न तस्यै स्पृहयेत् । तथाच तस्या अपुरुषार्थत्वप्रसक्तिः । नापि मोक्षसाधनज्ञानानुष्ठानयोः प्रवर्तेतैवं जानन् । तथाच ज्ञापकतया%नुष्ठापकतया च प्रामाण्यं भजतां मोक्षशास्त्राणां प्रामाण्यं भज्येतेति भावः । नही ति । यथा देहगेहाद्युपलक्षितः पृथिवीभागः स्थास्यतीति स्वदेहगेहनाशे न प्रवर्तेत स्वयमेव कश्चित् प्रेक्षापूर्वकारी, एवमहमर्थोपलक्षितः प्रकाशः स्थास्यतीति बुद्ध्या न स्वनाशाय मोक्षाय ज्ञाताहमर्थः प्रवर्तेतेति भावः ।

चित्त्वात् स्वयंप्रकाशत्वम्, ततः प्रत्यक्त्वं, ततश्चात्मत्वं चितो ज्ञानस्यैव, न तु तद्भिन्नस्याहमर्थस्येति पक्षं प्रतिक्षिपति एतेने ति । अहं जानामीति प्रत्यये चैतन्यैकरूपः पराग्भिन्नः प्रत्यक् यः जानामीति प्रतीयते, सः प्रकाश एवात्मा । तस्मिन्नधिष्ठाने भासमानः तदधीनप्रकाशः अहमर्थो युष्मदर्थलक्षण एव-परागर्थस्वरूपं एव, तन्नात्मेत्यर्थः। तस्मिन्नित्यनेन चिद्भिन्नत्वं, तद्बलनिर्भासिततयेति अस्वप्रकाशत्वं, लक्षणतो युष्मदर्थ एवेति पराक्त्वं चाहमर्थस्यानात्मत्वे लिङ्गमुक्तम् लक्षणतः-स्वरूपतः; यद्वा अस्वयंप्रकाशत्वलिङ्गात् । ज्ञानं स्वप्रकाशं ज्ञानत्वात्, ज्ञानं प्रत्यक् स्वयंप्रकाशत्वात्, ज्ञानमात्मा प्रत्यक्त्वादिति प्रयोगत्रयम्, अहमर्थो न स्वयंप्रकाशःचिद्भिन्नत्वात्, अहमर्थः पराक् अन्याधीनप्रकाशत्वात्, अहमर्थो नात्मा पराक्त्वा

दिति प्रयोगत्रयं चात्रगर्भितम् । अस्य प्रतिक्षेवयुक्तिः पर्त्यक्षविरोधा दिति । चितो ज्ञानस्या%%त्मत्वे धर्मिग्राहकमानबाधो%त्र विवक्षितः । प्रत्यक्षेण तस्य धर्मत्वेनैव प्रमीयमाणत्वात् । अहमर्थो युष्मदर्थ इति प्रतिज्ञावाक्ये विरोधमाह अह मिति । माता वन्ध्येति प्रतिज्ञातुल्येयमिति यावत् । ननु युष्मदर्थ इति ळाक्षणिकं पराक्त्वपरम् । नातो विरोधः । पराक्त्वं चाहमर्थस्य चिदधीनप्रकाशत्वादित्यत्रा%%ह न चासा विति । अत्र प्रयोगः- अहमर्थो%नन्यापेक्षप्रकाशः चैतन्यधर्मकत्वात्, यन्नैवं यन्नैवं यथा घट इति । प्रात्यक्षिकी धर्मत्वेन प्रमितिश्चैतन्यस्या%%त्मत्वे पूर्वं बाधकत्वेनोक्ता । अथा%%नुमानिकीं तां तथात्वेना%%ह प्रकाशश्चे ति ।

मुक्तावहमर्थस्य सद्भावे पूर्वं तर्क उक्तः। अथ तदा मुक्तस्याहन्त्वेन भाने%नुमानं समग्राङ्गकन्यायमुखेन प्रपञ्चयति स चे ति । न चैव मिति । एवं भासमानत्वे- अहन्त्वेन भासमानत्वे मुक्तस्य संसारिण इवाज्ञत्वादि नापादयितुं शक्यते, मुक्तत्वविरोधात्-शास्त्रसिद्धमुक्तिदशाभाव्यज्ञाननिवृत्त्यादिविरोधादित्यर्थः । मुक्तात्मा अज्ञानवान् संसरणधर्मवान् वा अहन्त्वेन भासमानत्वात् संसार्यात्मवदिति अनुमानं मुक्तविशेष- प्रतिपादकशास्त्रबाधितमिति भावः । ननु नास्माभिरज्ञत्वादि मुक्तस्य साध्यते । किन्तु अहन्त्वेन भासेत यदि मुक्तात्मा, तर्ह्यज्ञानादिमान् स्यादिति प्रसञ्जनमेव क्रियत इति चेत्तत्राप्याह अतदुपाधित्वा दिति । तत्प्रत्ययस्य-अहमितिप्रत्ययस्य, अतदुपाधित्वाच्च-अज्ञानकारणकत्वाभावच्चेत्यर्थः । आपाद्यापादकयोर्व्याप्यव्यापकभावे सति ह्यापादनं युज्यते । नात्र सो%स्ति तन्नियामकहेतुहेतुमद्भावाद्यभावादिति भावः । अज्ञानोपाधिरिति बहुव्रीहिः अज्ञानमुपाधिः प्रयोजकं यस्येति । वामदेवादीनामित्यादिपदेन महादेवादिर्ग्राह्यः । अतत्प्रत्ययेतिप्राचीनमुद्रितपाठस्त्वशुद्धः । एतत्प्रत्ययेति वा, अहंप्रत्ययेति वा पाठः संभाव्यते । अहमेव चे ति रुद्रवाक्यमथर्वशिरसि । निवृत्तसवासनाविद्यादोषाणामपि अहंप्रत्ययदर्शनात् नास्याज्ञानोपाधित्वं संभवतीति भावः । अहमन्न मित्यादिमुक्तानुसन्धानवाक्यमप्यत्रानुसन्धेयम् । नन्वेतेषां बाधितानुवृत्तिरूपो%हंप्रत्यय इत्यत्राप्याह तथे ति । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । क्लेशग्रहणं कर्मविपाकाशयानामुपलक्षणम् ।

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति हि योगतन्त्रे प्रसिद्धम् । सर्वदा सर्वथा%विद्यारहितस्येश्वरस्याहमिति स्वात्मनि प्रत्ययो नाविद्यादिमूलः संभवेदिति हार्दम् । सृष्टिप्राक्काले%हङ्काराद्युपाधेरभावात्तदानीन्तनो%हंप्रत्ययोनेश्वरस्य परोपाधिप्रयुक्तः, किन्तु स्वरूपप्रयुक्त एवेति प्रदर्शनाय सृष्टिसङ्कल्पवाक्योपादानम् । चिदचिदन्तर्यामिस्व

रूपपामर्शी हन्ता%हमि त्यहंशब्दः । मुक्तप्राप्यपरस्वरूपवाची यस्मा दिति गीतावाक्येभगवतो%हंशब्दः । नच सोपाधिरीश्वरो%न्तर्यामी मुक्तप्राप्यो वा भवतीति भावः । तथा मृत्युसंसारसागरतारकं शुद्धमेव स्वरूपं भगवतो%हमिति निर्दिष्टं तेषामह मित्यत्र । नहि स्वयं सोपाधिरितरोपाधिमोचनसमर्थ इति भावः । पितृत्वरक्षकत्वाद्यभिप्रायं च अहं बीजप्रदःपिते ति । अहंशब्दितं जगत्कारणस्वरूपं नाज्ञानोपहितं, न वा ज्ञानमात्रम्, किंतु सर्वज्ञमिति ज्ञापनाय चोपात्तं वेदाह मिति वचनम् । न चैषां निष्कृष्टस्वरूपविषयाणामहंशब्दानां बहूनाममुख्यत्वं युक्तम् । किन्तु प्रत्यक्त्वप्रवृत्तिनिमित्तकत्वान्मुख्यत्वमहन्त्वेन स्वरूपभानप्रयुक्तत्वमेव चेति भावः ।

नन्वेवमहम्भावस्या%%त्मस्वरूपत्वे%हङ्कारस्य क्षेत्रान्तर्भाववचनं त्याज्यत्वप्रतिपादनं च गीतास्थं कथमित्यत्रा%%ह एवं चे ति । आव्यक्तिकपरिणामभेदेन- प्रधानपरिणाममहत्परिणामेनाहङ्कारेण । अनहमहं क्रियते%नेनेत्यहङ्कारः । करणं च मानसम् । तथा चानहमि देहे%हमभिमानहेतुरनात्मनि आत्मभ्रमहेतुरहङ्कारः क्षेत्रान्तर्गतत्वेनोपदिष्ट इति फलितम् । अथ अहङ्रारं बलं दर्प मिति त्याज्यत्वेनोक्तस्याहङ्कारस्याभिजनादिनिमित्तदुरभिमानमूलगर्वरूपत्वमाह बहुमन्तव्ये ति । अनहमहं क्रियत इति चात्र व्युत्पत्तिः । प्रशस्तकुलीनदेहावात्माभिमान इत्यर्थः । सचायं पूज्यावमाननहेतुगर्वहेतुत्वाद्गर्व इत्युज्यते इति भावः । च्व्यर्थमन्तर्भाव्योभयत्र व्युत्पत्तिः । च्व्यर्थमनन्तर्भाव्य तु व्युत्पन्नो%हङ्कार इति आत्मनि अहं बुद्धिवाचीति विवेकः । तस्मा दिति । अबाधिताहंबुद्धिर्मुख्या%%त्मगोचरैव । देहादौ तु सा भ्रान्तिलक्षणैवेति भावः । अत्र संवादिपुराणरत्नवचनं श्रूयता मिति । आत्मन्येष न दोषाय शब्दो%हमिति यो द्विज । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।। इति च तत्रत्यमत्रानुसन्धेयम् । आत्मविज्ञानम्- अहम्बुद्धिः । शब्दो%हंशब्दः । वासिष्ठनन्दनेन-वसिष्ठपुत्रस्य शक्तेः पुत्रेण भगवता पराशरेण । देहात्मभ्रमाकारपरीक्षातो%पि स्वीकार्यमहमर्थत्वमात्मन इत्याह न च ज्ञप्ती ति । अनात्मबुद्धिः- अनात्मन्यात्मबुद्धिः । तथैव पाठः स्यादिति संभाव्यते । ज्ञप्तिमात्रस्यात्मत्वे स्थूलासंविदित्येव देहात्मभ्रमस्या%%कारः स्यात् । नतु स्थूलो%हमिति । अतो%प्यात्मा%हमर्थ एव । यस्मिन् सति अहमिति बुद्धिर्देहे उदेति । अपक्रान्ते च न । सो%यमात्मा%हमर्थ एवेति च युक्तमभ्युपगन्तुमिति भावः ।

अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् ।

अविद्यायोगतश्चात्मा ज्ञाता%हमिति भासते ।।14।।

इति ज्ञातुरात्मनो मुक्त्यादौ सर्वदाप्यहंभावभानसमर्थनप्रकरणम्

यदुक्तम्-अजडत्वाद्वित्तिरेवा%%त्मेति; तत्रेदं वाच्यं किमिदमजडत्वं नामेति । यद्युच्येत-सदपि यन्न प्रकाशते तज्जडम्, तद्विपरीतमव्यभिचरितप्रकाशसत्ताकमजडमिति; तथा सति सुखादिभिर्व्यभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदमवभासमाना भवन्ति । स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिभिरनैकान्तिकम् । ज्ञानव्यतिरिक्तप्रकाशानङ्गीकाराच्चासिद्धता, विरुद्धता च । यदि मतम्-अव्यभिचरितप्रकाशो%पि सुखादिरन्यस्मै प्रकाशत इति घट इव जडतां नातिवर्तते, तेनानात्मेति; ज्ञानं वा किं स्वस्मै प्रकाशते? अन्यस्यैव हि तदपि जानतो%हमर्थस्य प्रथते%हं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानो%जडत्वहेतुरसिद्धः संविदि । अतः सत्तयैव स्वमात्मानं प्रति सिध्यन्नजडो%हमर्थ एवात्मा । तत्संबन्धायत्ता तु ज्ञानस्यापि प्रकाशता । अत एव हि स्वाश्रयचेतनं प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य सुखदुःखदेरिव । नचैवमात्मान्तरसंबन्धमर्थान्तरं वा%पेक्ष्यायमात्मा%%त्मने प्रकाशते । एतच्चानन्तरमेवोपपादयिष्यते ।

इति ज्ञानात्मत्वसाधकाजडत्वदूषणम्

न च ज्ञानेन सहोपलम्भनियमो%हमर्थस्यार्थान्तरतां वारयति, ज्ञानस्यापि तथात्वप्रसङ्गात् । तदपि हि तेन नियतेन सहोपलम्भमित्यहमर्थादनर्थान्तरं मिथ्यारूपमेवा%%पद्येत । असिद्धश्च संविद्विशेषैः सहोपलम्भनियमः, प्रत्येकं व्यभिचारदर्शनात् । न च विशेषमात्रं निर्धूतनिखिलविषयविशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहोपलम्भनियमः

संवेदितुरभिधीयेत । सामान्यं तु सदपि सौगतेर्न वस्तुतया%%स्थीयते । समस्तवृत्तिप्रत्यस्तमये%पि स्वयंज्योतिरयमात्मा%वतिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्च-एकं द्वाविति निर्देशात् । द्वयोर्ह्येकक्रियानुप्रवेशे सहशब्दः, शिष्येण सह गच्छत्याचार्य इति यथा । अपि च निलतद्धियोरिति द्वे उपादाय अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्वविधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वादिभिः; सर्वज्ञज्ञानेन सहोपलम्भनियमभागिभिः संसारिज्ञानैश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्वमित्यापद्येत । नियमेनैकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्यु

क्तम् । विपक्षव्यतिरेकश्चासिद्धः । भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञानज्ञेयज्ञातृणाम्, मा च भूदभेदः; को विरोधः? ।

अहमर्थस्या%%त्मत्वं निगमयति अत इति । जानाम्यहमिति ज्ञानधर्मित्वेन प्रत्यक्षसिद्धत्वादहमर्थस्यैवा%%त्मत्वम् । अहन्त्वेन तस्य मुक्तावपि भाने%नुमानमुक्तमागमश्च । प्रत्यक्त्वान्यथानुपपतितलक्षणस्तर्को%प्युक्त आत्मनो%हमर्थत्वव्यवस्थापकः । स्थूलो%हमिति देहात्मभ्रमरूपाविद्यासङ्गतेश्च ज्ञाता%हमर्थ #ेवात्मा, स च सर्वदा%हमिति भासते इति कारिकार्थः । आत्मा ज्ञातैवेत्यत्रापि प्रत्यक्षादिकमस्तीति गर्भितमत्र । प्रत्यक्षं चाहं जानामीत्यादिकं प्रसिद्धमेव । ज्ञानस्य देहादिधर्मत्वनिषेधेन परिशेषानुमानमपि सिद्धम् । सास्त्रवचनानि चाग्रे मूल एव निर्देक्ष्यन्ते । ज्ञानसमानाश्रयत्वादज्ञानस्याज्ञातृत्वे आत्मनो%विद्यान्वयायोग इति तर्को%प्यक्तप्राय इति । एवं ज्ञातुरहमर्थस्यात्मत्वं व्यवास्थापि ।।14।।

अथ ज्ञानस्या%%त्मत्वे साधकत्वेन परैरुपन्यस्तमजडत्वमपि विकल्प्य दूषयति यदुक्त मित्यादिना । तद्विपरीतमित्यस्य विवरण मव्यभिचरिते त्यादि । अव्यभिचरितः-नियतः प्रकाशो यस्याः, एवंभूता सत्ता यस्य, तदजडमित्यर्थः । स्वसत्ताव्यापकप्रकाशत्वमजडत्वमिति यावत् ।
तथा सती ति। अनात्मसु सुखादिष्वपि निरुक्ताजडत्वस्य सत्त्वात् व्यभिचार इत्युक्तं भवति । अजडत्वप्रकारान्तरं दूषयति स्वसत्ते ति । यस्य स्वसत्तयैव प्रकाशः, तत्स्वसत्ताप्रयुक्तप्रकाशम्, तत्ता जडत्वमित्यपि प्रदीपादौ व्यभिचारि । दीपस्य प्रकाशे हि न दीपान्तरापेक्षा । ननु चक्षुरादेरपेक्षास्त्येव तत्रेति चेत्; अस्तु नाम; तावता स्वसत्ताप्रयुक्तताया अनपायात् । स्वसत्तामात्रप्रयुक्तत्वविवक्षा तु न संभवति, संविद्यसिद्धेः । विजातीयात्मापेक्षत्वात्तत्प्रकाशस्य । एतच्चानन्तरमेव स्फुटीभविष्यति । दूषणान्तरमप्याह ज्ञाने ति । ज्ञानतो धर्मो%तिरिक्तः प्रकाशो नाम नाभिमतः । ज्ञानमेव तु प्रकाशरूपम् । तत् स्वसत्ताप्रयुक्तप्रकाशत्वरूपो हेतुरसिद्धः पक्षे ज्ञाने । तत्प्रकाशं नित्यमभ्युपगच्छतः तस्य स्वसत्ताप्रयुक्तत्वकीर्तनं विरुद्धं च । यद्वा प्रकाशवत्त्वस्य संविद्युपगमे%भिमतनिर्विशेषत्वविरोध इति भावः । स्वस्मै स्वयं भासमानत्वरूपमजडत्वमात्मत्वे साधकं तु स्वरूपासिद्धमित्याह यदि मत मिति । ज्ञानप्रकाशस्य तदाश्रयनिबन्धनत्वमाह तत्संबन्धे ति । प्रकाशता-ज्ञानरूपता, प्रकाशमानता वा । स्वाश्रयाय स्वविषयप्रकाशकत्वरूपं ज्ञानत्वं, प्रकाशमानता चात्मधर्मताहेतुके एव । नहि स्वाश्रयादन्यस्मै स्वविषयं प्रकाशयति ज्ञानं, स्वयं वा प्रकाशते इति भावः । अत इति । स्वस्मै स्वयं भास

मानत्वमहमर्थस्यैवेति स एवात्मेत्यर्थः । प्रकटता-प्रकाशमानता । आत्मान्तरसंबन्धम्-आश्रयान्तरसंबन्धम् । अर्थान्तरं-ज्ञानादि । एतच्चे ति । अनन्यसाधन इत्येतद्विवरण इति भावः ।

संविद आत्मत्वमाधकमजडत्वं प्रदूष्य ज्ञात्रादेः संविदभेदसाधकं प्रकटसौगताभिमतं सहोपलम्भनियमं दूषयति नच ज्ञानेने ति । ज्ञानस्यापी ति । मिथ्याभूतेनाहमर्थेन सहोपलम्भनैयत्यतौल्यात्संविदस्तदभेदात् मिथ्यात्वप्रसक्तिरिति भावः । अभिमतविरुद्धापादकत्वाद्धेतोर्भवदीयस्य विरुद्धत्वमिति हेतुदोष उद्भावितो भवति । अहमर्थेन सहैवोपलम्भं संविद उपपादयति तदपी ति । नियतेन-स्वप्रकाशव्यापकप्रकाशवता । तेन-अहङ्कारेण । सहोपलम्भो यस्य तत् सहोपलम्भम् । किञ्च, तदुपलम्भव्याप्योपलम्भवत्त्वरूपो हि सहोपलम्भनियमः परैः तदभेदसाधको मतः । स चायमहमर्थस्य संविदभेदसाधने पक्षे%सिद्ध इत्याह असिद्धश्चे ति । अत्र विकल्पः-किं ज्ञानविशेषेण तेन तेन सहोपलम्भनियमो%हमर्थस्य विवक्षितः, उत ज्ञानविशेषमात्रेण, आहोस्वित् ज्ञानमात्रेणेति । तत्राद्ये%सिद्धिः, चाक्षुषादिज्ञानप्रकाशमन्तरापि अहमर्थस्य ज्ञानान्तरप्रकाशे प्रकाशमानत्वादिति प्रत्येकं व्यभिचारदर्शना दित्युक्तम् । द्वितीयतृतीयकल्पयोर्दोषमाह नच विशेषे ति । न निर्विशेषं सामान्य मिति न्यायाच्चाक्षुषादिव्यतिरिक्तं ज्ञानविशेषमात्रं ज्ञानमात्रं वा नास्ति । तत्तद्विशेषप्रकाशव्यभिचारश्चाहमर्थप्रकाशस्योक्त एव तत्तद्विशेषप्रकाशाभावे%प्यहमर्थप्रकाशत इति भावः । नन्वेवमपि ज्ञानत्वावच्छिन्नप्रकाशेनाव्यभिचार एव । अहमर्थप्रकाशे ज्ञानत्वावच्छिन्नप्रकाशध्रौव्यादित्यत्राह सामान्य मिति ।

अनुवृत्तसामान्यानुपगमात्सौगतैरेवं हेतुस्तेषां दुर्वच इति भावः । विनापि ज्ञानप्रकाशेनाहमर्थप्रकाशो%स्तीत्याह सिद्धान्तरीत्या च समस्ते ति । स्ववा गिति । साहित्यस्य भेदनियतत्वात्सहैवोपलम्भमानत्वहेतुव्यपदेश एव भेदव्यपदेशरूप इति तेन संविदहमर्थयोरैक्यसाधने प्रतिज्ञाहेतुवाक्ययोर्विरोध एकं द्वित्वादितिवदिति भावः । प्रतिज्ञाहेतुघटकपदयोर्विरोधमुक्त्वा प्रतिज्ञाघटकपदयोस्तमाह अपि चे ति । सहोपलम्भनियमादभेदो नीलतद्धियो रित्येवं हि तेषां प्रतिज्ञा । द्वित्वविशिष्टे%त्रैकत्वविधिर्जननीवन्ध्यात्वविधिरिव व्याहत इति यावत् । ज्ञानज्ञात्रोरभेदसाधनदूषणप्रसङ्गे%स्मिन् ज्ञानज्ञेययोरभेदसाधकप्रयोगदूषणादिसाधमदूषणप्रकारसाम्यादिति ध्येयम् । शब्ददोषमुक्त्वा%र्थदोषमन्यमाह अनेकान्तश्चे ति । संविदः स्वयंप्रकाशत्वाज्जडत्वादिप्रकाशकाले ज्ञानप्रकाशोपि नियतः । तथा च संविदा सहोपलम्भनियमभाजां जडत्वमूर्तत्वादीनां संविदभेदे संविदो जडत्वमूर्तत्वादिप्रसङ्गः । धर्मधर्मिभेदानुपगमात्, अभेदेप्याधाराधेयभावप्रतीत्युपगमाच्च । एवं सर्व

ज्ञस्य बद्धज्ञानानामुपलम्भे नियमेन बुद्धज्ञानमप्युपलम्यते, तेषां बुद्धज्ञानमहोपलम्भानां बुद्धज्ञानाभेदे बुद्धस्य बद्धत्वापत्तिः । तत्र तत्राभेदानुपगमे चानैकान्त्यं हेतोरिति भावः । अभेदसाधकं हेत्वन्तरमपि तुल्यरीत्या निरस्यति नियमेनैके ति । एकज्ञानसिद्धत्वम् -एकज्ञाने द्वयोः प्रकाशमानत्वम् । निरासप्रकारश्च-एकज्ञानविषयत्वेनाहमर्थे संविदभेदस्य साधने तुल्यनयेनाहमर्थाभेदो%पि संविदि प्रसज्येत । चाक्षुषादिज्ञानविशेषेणैव सिद्धत्वं चाहमर्थस्यासिद्धम् । ज्ञानान्तरतो%पि सिद्धेः, स्वापे स्वतः सिद्धेश्चेति । अप्रयोजकत्वमप्याह विपक्षे ति । विपक्षव्यतिरेकः-विपक्षे बाधः । तदसिद्धिमेवोपपादयति भव त्विति । साध्याभाववति हेतोर्वृत्तावापाद्यमानायां बाधकस्तर्को नास्ति । अतो%प्रयोजको हेतुरिति भावः ।

किमप्रकाशरूपत्वात् प्रकाशमनुरुध्यते ।

व्यवहाराय नीलादिराहोस्वित्तदभेदतः ।।15।।

इति सन्दिह्यमानत्वान्नाभेदः शक्यनिर्णयः ।

बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ।।16।।

स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तेरपि वेदितुर्भेदस्यापरोक्षत्वात् । नच प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्या%%परोक्ष्ये त्वपेक्षितव्यम्, सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशेषस्यानाक्षेपात् । अनवभासमाने%पि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकस्वसाक्षिकमेतत् ।

ननु जीवतो भेदप्रत्यक्षस्य शिरसि पदनिधानेन सहोपलम्भनियमस्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः । तथासति हि ज्वालाभेदानुमानमपि तदेकत्वप्रत्यभिज्ञया%पोद्येत । अविशेषज्ञो देवानां प्रियः । तत्र हि क्लृप्तकारणदोषानुवृत्तौ सत्यां जायमानो%परोक्षावभासो न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति । तथाहि-अचिरनिर्वापितारोपितेष्वेकवर्तिभागवर्तिषु बहुषुदीपेषु तद्भेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायते इति दृष्टम् । अतो%न्यत्राप्यप्रतिबन्धपुष्कलकारणक्रमोपनिपातादवयवविश्लेषाच्च सुसदृशनिरन्तरप्रवृत्तप्रदीपप्रवाहालम्बनैव तथा मतिरिति निश्चीयते । तथैकनानात्वप्रत्ययः स्वतःप्राप्तेन्द्रियवृत्तिविपर्ययप्रयुक्तः समसमयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्चद्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभवितुं प्रभवति । न चैवमिह ज्ञातृज्ञानज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्ध्येवायमिहाभेदानुमानोदयप्रसक्तिम् । न चोपलब्धिसाहित्यनियमादेव तथात्वमत्रानुमेयमिति युक्तम्, विपक्षे बाधकानुपलब्धेः । संविदधीनसिद्धितया%पि तथा नियमोपपत्तेः । अनैन्द्रियिकत्वेन च तद्वृत्तिविपर्ययस्याकिञ्चित्करत्वात् । योग्यानुपलम्भपराकृतत्वाच्च बाधकप्रत्ययस्य । अपि च विषयसिद्धिर्हि संवित् । सा च स्वयंप्रकाशेत्यविवादः । तेनावर्जनीयस्तथा नियमः । नच भेदो%पि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानुभवपराहतमतातिव्याकुलीकरणेन ।

(इति सौगताभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्)

अप्रकाशात्मनश्च नीलादेः प्रकाश इत्यनुभवसिद्धत्वान्न समर्थनान्तरं प्रार्थयते । आत्मा तु प्रकाशस्वभाव एव । न च तावताज्ञानत्वम्, स्वतन्त्रत्वात् । परतन्त्रमागन्तु यावदर्थेन्द्रियसन्निकर्षादिकारणसन्निधानमवतिष्ठमानमर्थावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम । आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्मं प्रथते । यदिपुनरीदृशो%प्ययमनन्याधीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यतां कामम् । तथापि ज्ञानवदेवेदं ज्ञानम्, न ज्ञप्तिमात्रतया ।

(इत्यद्वैत्यभिमतग्राह्यग्राहकविकल्पप्रत्युद्धारनिराकरणम्)

अत एव हि च्छन्दोगाः-"अथ यो वेदेदं जिघ्राणीति स आत्मा" इत्याद्यामनन्ति । तथा "कतम आत्मा" इति प्रश्नपूर्वकमिदमेव लक्षणमामनन्ति वाजसनेयिनः "यो%यं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः" इति । अत्र हि यो%यं सर्वलोकानुभवसिद्धो विविधविषयवेदनप्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्ज्योतिः अहमिति प्रत्यक्त्वेन प्रकाशते, स पुरुष इति यथोदितमेवात्मस्वरूपमुपदिश्यते । "एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः" इत्याथर्वणाः । तथा "विज्ञातारमरे केन विजानीयादिति" "न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्" "स उत्तमः पुरुषः नोपजनं स्मरन्निदं शरीरम्" "एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति" "तस्माद्धा एतस्मान्मनोमयादन्यो%न्तर आत्मा विज्ञानमयः" इत्याद्याः ।

"सत्यं ज्ञान" मित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशब्दो न ज्ञानमात्रवचनः ; अपि तु तद्वद्वचनः । तद्वचनत्वे "लिति" इति आद्युदात्तत्वप्रसक्तेः । अन्तोदात्तश्चायं ज्ञानशब्दः । मत्वर्थीयाच्प्रत्ययान्तत्वे तथात्वं घटते; नान्यथेत्येतत् परमात्मनिरूपणे अतिनिपुणमुपपादयिष्यामः । ऐतरेयोपनिषदपि "प्रज्ञानं ब्रह्ये"त्युक्त्वा "स एतेन प्राज्ञेनात्मना" इति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति । तत् सिद्धं ज्ञातैवा%यमात्मेति ।।

(इति देहादिविलक्षणप्रत्यगात्मस्वरूपनिरूपणप्रकरणम्)

किं पुनरस्मिन् देहादिव्यतिरेकिणि चेतने प्रत्यगात्मनि प्रमाणम्? । अनु

मानमिति नयविचक्षणो%क्षपादः । यदाह " इच्छाद्वेषप्रयत्नसुखदुःखज्ञाना- न्यात्मनो लिङ्ग " मिति ।

किममीषामात्मना%विनाभावो धूमध्वजविशेषेणेव धूमविशेषस्य दृष्टः? हन्तैवं तत एव तत्प्रमितेः किमनुमानेन? । माभूद्विशेषतोदर्शनम्; सामान्यतस्तु भविष्यति । तथाहि-इच्छादयः कार्यत्वानित्यत्वगुणत्वादिभिः शब्दादय इवा%%श्रिततया%नुमीयन्ते । यश्चैषामाश्रयः स आत्मा । गुणत्वं च परिशेषात् । न सामान्यविशेषसमवायाभावाः अनित्यत्वात् । न द्रव्यं कर्म वा, व्यापकद्रव्यसमवायादिति । विशेषगुणत्वं चानित्यत्वे सत्यस्मदाद्येकेन्द्रियग्राह्यत्वनियमात् रूपादिवत् । एवमाश्रयमात्रमुपस्थापयन्तो%न्वयव्यतिरेकिणो हेतवः द्रव्यान्तरगुणत्वं च प्रत्याचक्षाणैः केवलव्यतिरेकिसाधनैरात्मगोचरतया नियम्यन्ते । तथा हि भवति-इच्छादयो न महाभूतगुणाः, स्वात्मन एव प्रत्यक्षत्वात्; अबाह्येन्द्रियग्राह्यत्वाद्धा । ये भूतगुणास्ते स्वात्मपरात्मप्रत्यक्षाः बाह्यकरणप्रत्यक्षाश्च, यथा रूपादयः । न तथेच्छादय इति न तद्गुणाः । दिक्कालमनांसि पुनः न विशेषगुणवन्ति; नापि तद्गुणानां प्रत्यक्षत्वमिति न तेषामपि गुणाः । अकारणगुणपूर्वत्वात् अयावच्छरीरभावित्वादित्यादयः शरीरविशेषगुणत्वप्रतिषेधहेतवः प्राचीनाश्चात्रानुक्रष्टव्याः । तेनेच्छादयो न शरीरगुणाः तद्गुणभावापवादप्रमाणवत्त्वे सति गुणत्वात् । ये यथोक्तसाध्या न भवन्ति, ते यथोक्तसाधना अपि न भवन्ति; यथा रूपादयः । यथोक्तसाधनाः पुनरिच्छादय इति यथोक्तसाध्या एवेति । विमतिपदास्पदेभ्यः शरीरादिभ्यो%र्थान्तरगुणा इच्छादय इति वा प्रतिज्ञा । यथोक्त एव हेतुः । उदाहरणं च प्रयोक्तव्यम् । सामान्येन वा%न्वयः प्रदर्शनीयः-यो यद्गुणभावापवादकप्रमाणवत्त्वे सति गुणः, स ततो%र्थान्तरस्य गुणः; यथा पृथिव्यादिभ्यः शब्द इति आकाशसिद्धिवदात्मसिद्धिरिति ।

(इति विलक्षणात्मन आनुमानिकत्वपक्षनिरूपणम्)

इदमपि न समीचीनमित्येके । तथाहि-अन्वयव्यतिरेकिहेतुभिर्देहादिसाधारणमाश्रयमात्रमवगमितम् । न च तावता%%त्मसिद्धिः । केवलव्यतिरेकी तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधारणवत् । नचैवं केवलान्व

यिनो विपक्षव्यतिरेकदर्शनविकलतया साधारणवदसाधनत्वम् । देशकालादिशङ्गितोपाधिविगमेप्यन्वयदर्शनेन साध्यान्वितस्वभावतया परिनिश्चितत्वात् । नच साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुम् । अभावस्या%नन्तदेशव्यापितया%नवयवेन ग्रहणस्यैव दुष्करत्वात्, कलयाप्यन्यत्रवृत्तौ संबन्धे नियमासंभवात् । सन्देहग्रस्तत्वाच्च-किं साधनाभावप्रयुक्तः साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति । पृथिव्यादिभ्यो%र्थान्तरगुणत्वप्रतिज्ञा%पि द्रव्यान्तराप्रसिद्धेरप्रसिद्धविशेषणा ।

(इति नैयायिकाभिमतात्मानुमाननिरासः)

एतेन साङ्ख्योदीरितसाधनभेदा अप्यपोदिता वेदितव्याः सङ्घातपरार्थत्वादयः । तथा च तानेव तावदादितो व्याकुर्महे-

" सङ्गातपरार्थत्वात्र्रिगुणादिविपर्ययादधिष्ठानात् ।

पुरुषो%स्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ।। "

अयमर्थः-देहेन्द्रियादयः परार्थाः सङ्गातत्वाच्छयनासनशरणादिवत् । प्रत्यक्षं च शरीरस्य सङ्घातत्वं, भूतानां च । अव्यक्तमहदहङ्कारेन्द्रियाणां च सुखदुःखमोहात्मतया तथात्वमनुमेयं तद्वदेव । न चेन्द्रियाणामाहङ्कारिकत्वस्या%भ्युपेतस्य, साध्यंत्वाभिमतपारार्थ्यधर्मस्य चासंहतपरार्थत्वस्यान्यथात्वापादनादुभयविशेषविरुद्धत्वं हेतोः; अहङ्कारान्वयव्यतिरेकानुविधानेन " देवा वैकारिकाः स्मृताः " इत्याद्यागमबलेन प्रकाशलाघवगुणान्वयेन च वैकारिकाभिधानसात्त्विकाहङ्कारभेदयोनित्वस्येन्द्रियाणां प्रमाणसिद्धस्यापवादानुपपत्तेः । आत्मनस्तु सङ्घातत्वे तस्यापि सङ्घातान्तरार्थतया%नवस्थापत्त्या निष्प्रमाणकानेककल्पनाप्रसङ्गात्, अप्रयोजकत्वाच्च सङ्घातत्वस्य शेषित्वे, दृष्टान्तदृष्टाशेषधर्मोपस्थापने%नुमानप्रामाण्य स्यैवासम्भवापत्तेः तदसङ्घातत्वस्य चा%प्रचाल्यत्वात् । नच प्रमाणान्तरबलेनानाहङ्कारिकत्वसङ्घातान्तरार्थत्वयोर्बाधे%बाधितेन सङ्घातपरार्थत्वेनापि न भवितव्यम् । एवं च संहतत्वव्यापकावरुद्धत्रैगुण्यादिरहितो%संहत आत्मा सिद्धः ।

तथा देहादयः सुखदुःखमोहात्मकतया परेणाधिष्ठीयन्ते, यन्त्रादिभिरिव रथादयः । अपि

चानुकूलप्रतिकूलवेदनीये सुखदुःखेभृत्यभ्रातृव्यवदनुकूलनीयप्रति

कूलनीयवती । दृश्यत्वाद्देहादयो घटादय इव विलक्षणद्रष्ट्टका इति । अधिष्ठातुरनुकूलप्रतिकूलवेदकस्य द्रष्टुः त्रैगुण्यादिविपर्ययः पूर्ववदेव निर्णेतव्यः । तथा देहादेरव्यक्तान्तस्य कृत्स्न्स्य त्रिगुणात्मकतया%त्यन्तदुःखोपशमनलक्षणमोक्षदशानुपपत्तेः तदर्थं च शास्त्राणां महाधियां च प्रवृत्तेरस्ति देहादिव्यतिरिक्तो%संहतः त्रैगुण्याद्यसंस्पृष्टः पुरुष इति ।।

(इति साङ्ख्याभिमतात्मानुमाननिरूपणम्)

अत्रापि सङ्घातपारार्थ्यादिभिर्यद्यपि परः को%प्यधिष्ठाता द्रष्टा सिद्धः, तथापि न तस्यासंहतत्वात्रिगुणत्वादिरभिमतविशेषः शक्यनिश्चयः । तथाहि-सङ्घातस्य सङ्घातान्तरार्थत्वनियमदर्शनबलादापतन्ती परापरा सङ्घातकल्पना न दोषाय, कार्यतयेवानादि कारणपरम्परापरिकल्पना । न चाप्रयोजकत्वमपि; असङ्घातस्यासङ्गस्याशेषविक्रियाशून्यस्यानाधेयातिशयकूटस्थचितिमात्रवपुषः पुरुषस्य सङ्घातं प्रति परत्वानुपपत्तेः । तद्वि तस्य शेषि भवति, तच्च तदर्थम्; यद्येनोपक्रियते क्रियते वा, यच्चोपकरोति करोति वा । न च तथा साङ्ख्यपुरुष इति कतं तस्य सङ्घातं प्रति परत्वम् ? कथन्तरां च सङ्घातस्य तादर्थ्यम् ? । अनुपकार्योप्युपकार्यतया%%त्मानं मन्यत इति चेत्; कामं मन्यताम्; किमायातमुपकार्यत्वस्य? । न खलु बालास्तलमलिनतादिमत्तया गगनमभिमन्यन्त इति तस्य तथात्वं भवति ।

अपि च तथाविधभ्रमो%पि कस्य कथमुदयत इति विवेचनीयम् । न तावच्चितिशक्तेः; सर्वविक्रियाशून्यतया%तिविशुद्धायामशुभशतनिदानभूतभ्रमपरिणामासम्भवात् । अन्तःकरणं तु बुद्ध्यपरपरिभाषाभिधानमचेतनतया तनुरिव न भ्राम्यति । अचिदपि स्वच्छतया चितिच्छायापन्नं चेतनायत इति चेत्; न; नीरूपायाः चितेर्बुद्धेश्च छायातद्ग्रहणानुपपत्ते । छायेव छायेति चेत्; कः खलु इवार्थ? ;चितिसरूपत्वमिति चेत्; हन्तैवमशेषविकाररहितचितिसरूपतापत्तावन्तःकरणमपि प्रत्यस्तमितसमस्तवृत्तिकमापद्यत इति दुरुपपादतरो%यं भ्रमसुखदुःखादिविकारयोगः प्रत्यात्मसिद्धः । चेतनत्वेन सरूपत्वमिति चेत्; न; चितिरेव हि ते पुरुषः, न चेतयिता । यथा%%ह तत्रभवान् पतञ्जलिः
" यदा चितिरेव पुरुषः किमत्र केन व्यपदिश्यत " इति । अजडायमानत्वमिवार्थ इति चेत्; अजडत्वमपि न ज्ञातृत्वा

तिरिक्त किञ्चिदित्युक्तमेव । तेनैव तद्विवरणमिति च न किञ्चिदेतत् । अपि च चितिसन्निधानाधीनां बुद्धिसिद्धिमभिदधानः कथमिव तदजडिमानं प्रतिजानीयात्? नच चितिस्वान्तयोर्बिम्बप्रतिबिम्बाधाराभिमतयोरन्यतरस्मिन्नप्यविद्यमानस्य विषयविशेषोपरक्तज्ञातृत्वलक्षणधर्मभेदस्य प्रतिबिम्बे सम्भवः । प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाह्यमतप्रत्यादेशे ।

यदुच्यते-निर्विकारायापि पुंसे तत्सन्निधिमहिमसमुत्थापितप्रमाणविपर्ययादिविचित्रवृत्तिभेदं स्वान्तमेव स्ववृतिं्त विषयविशेषांश्चोपदर्शयति, सामन्तचक्रमिव पराक्रमीयः प्रतिबलविलोलनादिवृत्तीः स्वामिने, ततः साक्षी भोक्ता चापदिश्यते, राजेति विक्रमी विजयी चेति; तदनुपपन्नम् । द्रष्ट्रे हि दर्शनीयं दृश्यते । नच दृशिमात्रात्मवादिनां सांख्यानां तदुपजीविनां च प्रच्छन्नानां द्रष्टृत्वं वास्तवमस्ति । नच काल्पनिकेन शेषित्वसम्भवः । कल्पना%पि न सम्भवतीत्युक्तमेव । राजा तु सामान्यतो विशेषतो वा तेषु कर्मस्वमात्यान् नियुञ्जानः तत्फलमैश्वर्यादि चाश्रुवानः स्वस्वामिभावहेतुक्रयप्रतिग्रहजननादि- व्यापारयोगी न निष्क्रियस्यानाधेयातिशयस्य पुंसो निदर्शनमिति यत्किञ्चिदेतत् ।

(इति कापिलाभिमतात्मानुमाननिरसनम्)

स्थूलो%हं, गच्छाभ्यहमित्यादिप्रत्यक्षमृदितविषयतया प्रसिद्धैवातीतकालता व्यतोरेकानुमानभेदानामित्यानुमानिकीमप्यात्मसिद्धिमश्रद्दधानाः श्रौतीमेव तां श्रोतियाः सङ्गिरन्ते ।

श्रुतयो हि साक्षादेवात्मनः शरीरादिव्यतिरेकमादर्शयन्ति-

"स एष नेति नेति" "अकायमव्रणमस्नाविरं शुद्धमपापविद्धम्" "योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये" "न जायते म्रियते वा कदाचित्" "जीवापेतं वावकिलेदं म्रियते" "न हि वै सशरीरस्य सतः

प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इत्याद्याः । कालान्तरभाविस्वर्गादिसाधनविधयश्चा%%क्षिपन्ति देहादिव्यतिरिक्तं नित्यं चेतनमिति श्रुतितदनुपपत्तिप्रमाणको%यं प्रत्यगात्मेति ।

(इति विलक्षणात्मनः शास्त्रैकप्रमाणकत्वपक्षनिरूपणम्)

ननु हिताहितप्राप्तिपरिहारमात्रपरस्या%%म्नायस्य शिरसि किमिति महानयं भारः प्रक्षिप्यते? अनुमानागमाद्यशेषप्रमाणमूलभूतेन प्रत्यक्षेणैव ह्येनं प्रतिपद्यामहे । ममेदं शरीरम्, इदमहं जानामीति घटादिदृश्येभ्य इवायं द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति ।

(इत्यात्मनः प्रत्यक्षत्वपक्षोपक्षेपः)

मैवं वोचः । इन्द्रियार्थसन्निकर्षजं हि विज्ञानं प्रत्यक्षम् । न चेन्द्रियाणि रूपादिव्यतिरेकिणि निरतिशयसूक्ष्मे प्रतीचि परागर्थ इव सन्निकर्षेण ज्ञानं जनयितुमर्हन्ति । यथा आम्नायते "पराञ्चिरवानि व्यतृणत् स्वयंभूः" इति ।

अप्रयोजकत्वमेवोपपादयति कि मित्यादिना सार्धश्लोकेन । किं नीलादिर्विषयो%स्वयंप्रकाशत्वात्स्वव्यवहाराय प्रकाशं-स्वप्रकाशकं ज्ञानमाकाङ्क्षते, उताहो तदभेदतः-संविदभिन्नत्वात् प्रकाशमनुरुध्यते इति संदेहान्नीलतद्वियोरभेदो%शक्यनिर्णय इत्यर्थः । संविदनुरोधित्वं नीलादेः संविदा सहैवोपलभ्यमानत्वलक्षणम् । इदं च किं संविदभेदप्रयुक्तमुत स्वप्रकाशे नीलादेर्जडस्य स्वप्रकाशसंविदपेक्षाप्रयुक्तमिति विशये यावदभेदप्रयुक्तत्वनिर्णयो न भवति, न तावदस्याभेदसाधकत्वम् । अभेदप्रयुक्तत्वनिर्णायकं च नास्ति । तथा चाप्रयोजकत्वमिति भावः । स्याद्वासहोपलम्भनियमो बोध्ययोरेवाभेदसाधकः, न तु बुद्धिबोध्ययोर्बुद्धिबोद्ध्रोर्वेत्याह बोध्यस्थ इति । बुद्धीनां बोद्धॄणां वा सहोपलभ्यमानानां नाभेदः । बुद्धस्य बद्धत्वापातात् । नापि बुद्धिबोध्ययोर्बुद्धिद्ध्रोर्वा, बुद्धेर्जडत्वादिप्रसङ्गात् सत्यमिथ्यार्थयोरैक्यप्रसङ्गाच्च । किन्तु बोध्ययोरेव तथाभूतयोरभेद इष्यतां गुणगुणिप्रभृत्योः कथञ्चिदित्यर्थः । बुद्धिबोद्धृग इति तु प्रकृताभिप्रायेण । यद्वा बोध्ययोरेव सहोपलम्भनियमः संभवति । न पुनर्बुद्धिबोद्धध्रोः । बुद्धिमन्तरापि बोद्धुः प्रकाशात् स्वापादावित्यर्थः ।।15।।16।।

ज्ञानज्ञात्रोरभेदसाधने प्रत्यक्षबाधितत्वमप्याह स्पष्टश्चे ति । घटमहं जानामीति हि स्फुटो ज्ञेयज्ञातृज्ञानानां भेदप्रतिभासः । तद्वाध इत्यर्थः । शङ्कते न चे ति । प्रत्यक्षज्ञानविषयत्वं, ज्ञानविषयत्वं वा प्रतियोगिनः तद्भेदप्रत्यक्षे कारणत्वेना%पेक्षितम् । प्रकृते संविदो ज्ञानान्तरागोचरत्वेन स्वयंप्रकाशत्वात्तद्भेदप्रत्यक्षं ज्ञातरि न संभवतीति शङ्कितुराशयः । परिहति सिद्धिमात्रेणे ति । प्रतियोगिनः संविदः सिद्धिमात्रेण-प्रकाशमात्रेण, तदुपपत्तौ-संविद्भेदप्रत्यक्षोपपत्तौ, अप्रयोजकत्वेन-प्रत्यक्षदिज्ञानान्तराधीनतत्प्रकाशस्य भेदप्रत्यक्षे%हेतुत्वेन, तद्विशेष

स्य-प्रकाशविशेषस्य प्रत्यक्षादिज्ञानान्तराधीनस्य अनाक्षेपात्-आक्षेपायोगादित्यर्थः । अयं भावः- अन्योन्याभावप्रत्यक्षे%धिकरणस्य प्रत्यक्षमेवापेक्षितम्, प्रतियोगिनः प्रकाशमात्रं च । नतु प्रतियोगिनः प्रत्यक्षम् । स्तम्भे पिशाचभेदस्याप्रत्यक्षत्वापत्तेः । प्रतियोगिनः प्रकृते वेदनस्य प्रकाशस्तु स्वत एवास्ति । तत एव वेदितरि तद्भेदप्रत्यक्षे नानुपपत्तिरिति । वस्तुतस्तत्तदसाधारणाकार एव इतरतादात्म्यधीविरोधित्वेन तस्य तस्येतरस्माद्भेदरूपः । स च प्रतियोग्यनवभासे%पि भासत एवोत्याह अनवभासमान इति । तथा च ज्ञातुरहन्त्वेन भानमेव संविद्भेदग्रहणमिति भावः । तद्भिन्नत्वव्यवहारे पुनः प्रतियोगिपरामर्शसहकृतमसाधारणाकारज्ञानं हेतुरिति बोध्यम् । सर्वलोके ति । एतेन भेदस्य प्रत्यक्षं न संभवति । क्षणिकस्य प्रत्यक्षस्य प्रतियोगिग्रहणपूर्वकभेदग्रहणपर्यन्तमनवस्थानात् । युगपत्प्रतियोग्यभावाधिकरणग्रहे तु समूहालम्बनवदुपश्लेषविशेषासिद्धिप्रसङ्गात् । अतो भ्रमरूप एव भेदग्रह इत्यपास्तम् । तत्तदसाधारण धर्मस्यैवेतरभेदरूपत्वात्तस्य च धर्मिणि प्रथमक्षण एव गृहीतेः । अत एवापूर्ववस्तुदर्शने विलक्षणो%यं कश्चन पदार्थ इति भेदप्रतीतिर्लोकसम्मता स्वानुभवसिद्धा च नापह्नवार्हा इति सर्वलोकस्वसाक्षिक मित्युक्तम् ।

शङ्कते ननु जीवत इति । शिरसि पदनिधानेन-तिरस्करणेन । प्रतिबन्धग्रहणं-व्याप्तिग्रहणम् । ततः-भेदप्रत्यक्षतः । तद्वाधसम्भवः-अभेदानुमानबाधसंभवः । तथासति-प्रत्यक्षस्यानुमानबाधकत्वे । अपोद्येत-बाध्येत । अयं भावः- भिन्नत्वेन गृह्यमाणयोरेव हि सहोपलम्भनियमो%भेदव्याप्यत्वेन गृहीतः । तेन चाभेदानुमाने प्रत्यक्षे भेदग्रहणांशोभ्रमलक्षण इति निश्चीयते । न चोपजीव्यविरोधः । प्रत्यक्षसिद्धवस्तुस्वरूपस्य व्याप्तिग्रहोपयोगिनो%भ्युपगमात् । भेदस्य च व्याप्तिग्रहानुपयुक्तत्वादिति । परिहरति अविशेषज्ञ इति । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं न जानासीत्यर्थः । तदेवोपपादयति

तत्रे ति । न प्रत्यक्षत्वमनुमानत्वं वा बाध्यत्वे बाधकत्वे वा प्रयोजकम् । किन्तु दोषमूलत्वमदोषमूलत्वं चैव तथा । तथा च यथा ज्वालाभेदानुमानमदोशमूलं बाधकम्, ज्वालैक्यप्रत्यक्षं तु सादृश्यदोषमूलं बाध्यं भवति; नैवं प्रकृते ज्ञातृज्ञेयज्ञानभेदग्रहस्य दोषमूलत्वमिति समुदिताशयः । ज्वालैक्यप्रत्यक्षे क्लृप्तकारणदोषानुवृत्तिमुपपादयति तथाही त्यादिना । अचिरप्रशमितत्वपुनरुद्दीपितत्वोक्त्या ज्वालयोर्वास्तवभेदो ज्ञाप्यते । तददर्शनमेकवर्तिवृत्तित्वज्ञानं चैक्यभ्रमे तयोर्हेतुरित्युक्तं भवति । निर्वापणपुनरुद्दीपनद्रष्टुश्च ज्वालयोर्भेदप्र्त्यक्षं वर्तत इति तेन बाधितत्वमपि निर्वापणाद्यद्रष्टृनिष्ठ ज्वालयोक्यप्रत्यक्षे विव

क्षितम् । निरुक्तं भ्रमहेतुमनिर्वापितस्थलेप्युपपादयति अत इति । तैलवर्त्यवयवाग्निसंयोगस्य दीपहेतोरन्यान्यतया ज्वालाभेदो%ङ्गीकार्यो%निर्वापणस्थले%पि । कारणधारानुवृत्तिबलाच्च कार्यधारानुवृत्तिः । पूर्वपूर्वज्वालायास्तु कारणनिवृत्त्या निवृत्तिरेव । तद्धेतुर्हि तैलवर्त्यवयविशेषाग्निसंयोगः । अग्नेराश्रयाशित्वाद्वर्त्यवयवविशेषनाशे तदग्निसंयोगस्य नाशो ह्यावश्यकः । एवं पूर्वोत्तरदीपज्वालयोर्भेदे सिद्धे सजातीयदीपधारायां भेदाग्रहात्सादृश्यरूपदोषदर्शनाच्चैक्यभ्रम इति भावः । नानाभूते ऐक्यभ्रमं प्रत्यक्षरूपमुदाहृत्यैकस्मिन्नानात्वभ्रममपि प्रत्यक्षरूपमुदाहरति तथैके ति । स्वाभाविकचाक्षुषरश्मिप्रसरणस्य विपर्ययो द्वैतीभावो%ङ्गुल्यवष्टम्भादिप्रयुक्तश्चन्द्रद्वित्वभ्रमे दोषः । अस्य च निर्दोषपुरुषीयचन्द्रैक्यप्रत्यक्षबाधितत्वं समसमये त्यादिनोच्यते । दृष्टान्तितात् दार्ष्टान्तिके वैषम्यमुपपादयति न चैव मिति । ज्ञातृज्ञानज्ञेयभेदनिरूपितलौकिकविषयिताशाली घटमहं जानामीति साक्षात्कारः दोषमूलः, अभेदप्रत्यक्षबाधितो वा नैव दृश्यते । तदभेदानुमानबाधकत्वं सुस्थितमिति भावः । विपरीतं कस्मान्न भवतीत्यत्राह न चोपलब्धी ति । तथात्वं-ज्ञानाभिन्नत्वं ज्ञातृज्ञेययोः । पूर्वोक्तमप्रयोजकत्वं स्मारयति विपक्ष इति । विपक्षे बाधकतर्कविरहाद्व्याप्त्यसिद्ध्या%सिद्धमभेदानुमानं न ज्ञानज्ञातृज्ञेयभेदप्रत्यक्षे बाधकत्वेन शक्यशङ्कमिति भावः । ज्ञानादिभेदग्रह इन्द्रियवृत्तिप्रसृतिभेदरूपदोषमूलो भवेदित्यत्राह अनैन्द्रियिकत्वेने ति । बाह्येन्द्रियाग्राह्यत्वेन ज्ञानज्ञात्रोस्तद्भेदग्रहस्य नेन्द्रियवृत्तिभेदप्रयुक्तत्वं संभवतीत्यर्थः । अत्र बाधकप्रत्ययो%पि नास्ति चन्द्रद्वित्वभ्रम इवेत्याह योग्यानुपलम्भे ति । न चैवमिहे ति वाक्याभिप्रेतमनेन वाक्यद्वयेन विवृतम् । संविदधीने तिवाक्योक्तं प्रपञ्चयति अपि चे ति । तथानियमः-संविदा सहोपलम्भनियमः । अवर्जनीयः-अभेदस्या%नुपगमे%पि दुर्वारः । ननु संविदमन्तरापि विषयादिः सिध्यत्वित्यत्राह न च भेदो%पी ति । भेदः-ग्राह्यग्राहकभेदः । सिदिं्ध-ज्ञानम् । अपसिद्धान्तश्चैवं कथन इति भावः । यद्वा सहोपलम्भनियमस्याभेदसाधकत्वे स्वव्याघातमप्याह न च भेदोपी ति । भेदप्रतिभासो%पि संविदैव वाच्य इति निरुक्तहेतोर्भेदस्यापि संविदभेदे भेदघटितो हेतुरपि न सिध्येदिति यावत् । यद्वा भवदभिमतः संविदां भेदोपि न सिध्येदिति भावः ।।

एवं प्रकटसौगताभिमतं संविदभेदसाधकं सहोपलम्भनियमं प्रदूष्य प्रच्छन्नसौगताभिमतं प्रकाशस्वभावत्वमपि दूषयति अप्रकाशे ति । अप्रकाशात्मनः-अप्रकाशस्वभावस्य ज्ञानभिन्नस्य च । अनेन ज्ञेयस्य ज्ञानाभेदानुमाने प्रत्यक्षबाधो, हेतोः पक्षे%सिद्धिश्च प्रादर्शिषाताम् ।

यद्यपि जडत्वान्न प्रकाशस्वभावत्वं ज्ञेयस्य, अथा%पि स्वयंप्रकाशज्ञानसंबन्धात्कादाचित्कप्रकाशो घटते घटादेरिति भावः । ज्ञाता ज्ञानाभिन्नः प्रकाशस्वभावत्वादित्यत्र तु हेतुरुपगम्यते, न साध्यमित्याह न च तावते ति । ज्ञानत्वं- विषयप्रकाशकधीत्वम् । ज्ञाधात्वर्थस्य हि कर्तृधर्मत्वं ज्ञानस्य । आत्मनस्तु धर्मित्वान्न तथात्वमिति भावः । ज्ञानस्वभावं तावदाह परतन्त्र मिति । प्रकारतैकस्वभावत्वं, कादाचित्कत्वं, विषयावगाहित्वं चेति ज्ञानधर्माः । अवतिष्ठमानम्-अनुवर्तमानं धारारूपतया । धारावाहिकविज्ञानमेकं ज्ञानं मतं हि नः इति पक्षे तु स्वरूपत एवानुवर्तमानं यावद्विषयान्तरसंचारमिति विवेकः । आत्मस्वभावमाह आत्मे ति । धर्मित्वं ज्ञातृत्वमहन्त्वेन भानं चात्मनो धर्माः । नन्वेवं ज्ञानभिन्नत्वे आत्मनो ज्ञानमिति व्यपदेशः कथं घटत इत्यत्राह यदी ति । अनन्यत्-स्वम् । आत्मनि ज्ञानशब्दो ज्ञानसादृश्यात् । तच्च स्वाधीनप्रकाशत्वरूपं स्वयंप्रकाशत्वं स्वनिरूपितविषयतावत्त्वतादात्म्योभयसंबन्धेन किञ्चिद्विशिष्टत्वलक्षणमिति भावः । तथापी ति । ज्ञानशब्देनाभिलप्यमानमात्मस्वरूपं ज्ञानतुल्यमेव, न तु ज्ञाप्तिमात्रतया मुख्यं ज्ञानमित्यर्थः । यद्वा ज्ञानायतनमेव मन्तव्यं नतु ज्ञप्तिमात्रतयेति । मन्तव्यमिति शेषः । ततश्च ज्ञातुरात्मनो ज्ञानाभेदानुमानं पराभिमतं प्रबलप्रत्यक्षबाधितमिति भावः ।

प्रत्यक्षतर्कसिद्धमात्मनो ज्ञातृत्वमागमतो%पि प्रतिष्ठापयति अत एवे ति । अथे त्यादिवाक्यं ज्ञात्रहमर्थात्मत्वपरम् । यो%य मिति ऐन्द्रियिकज्ञानप्रचुरस्येन्द्रियाधिष्ठातुरात्मनो हृदयान्तःस्थत्वस्वप्रकाशत्वपरम् ।

इन्द्रियादिप्रवृत्त्यनुगुणसङ्कल्पप्रयत्नवत्त्वरूपाधिष्ठानलभ्यं कर्तृत्वं, ज्ञातृत्वं च स्वयंप्रकाशत्वाज्ज्ञानशब्दितस्यात्मनः प्रतिपादयद्वाक्यम् एष ही त्यादि । मुमुक्षुभिर्ज्ञेयमात्मस्वरूपं ज्ञातृत्वविशिष्टमिति प्रतिपादयद्वाक्यं विज्ञातार मिति । विज्ञातृजीवात्मशरीरकं परमात्मानमित्यर्थः । मुक्तौ ज्ञानवत्त्वपरं न पश्यः इति । पश्यः-सर्वदर्शी मुक्तात्मा । मुक्तिदशायां ज्ञानाभावश्रुतिर्हेयदर्शनाभावपरेति
न पश्य इत्यादि व्यवस्थापयति । दुःखतां-कुत्रापि वस्तुनि प्रतिकूलत्वम् । भगवद्विभूतितया हि सर्वस्य स्वानुकूलत्वेन दर्शनं तदा । सर्वं ह पश्यः पश्यति इत्युत्तरर्धमप्यत्रोदाहार्यम् । एतद्विवरणरूपं स उत्तम इत्यादि । स तत्र पर्येती त्यादि नोपजनं स्मरन् इत्यन्तमत्रोदाहार्यत् । कलाषोडशकस्य निवृत्तावपिमुक्तौ स्वरूपनिरूपकधर्मभूतज्ञानानिवृत्तिपरम् एवमेवे ति । ज्ञानवत्त्वेनात्मनो देहेन्द्रियमनप्राणविज्ञानवैलक्षण्यपरं च तस्माद्वे तीति विवेकः ।

एवं ज्ञातृत्वमात्मनो व्यवस्थाप्य परमात्मनो%पि तद्व्यवस्थापयति सत्य मिति । तद्वद्वचनः-ज्ञानवद्वाची । तद्वचनत्वे-ज्ञानवाचित्वे । ज्ञानवाची भावल्युडन्तो ज्ञानशब्दो लित्स्वरेणाद्युदात्तो भवेत् । अयं तु अन्तोदात्तः । तदच्प्रत्ययान्तो%यं ज्ञातृवाची स्वीकार्य इति भावः । ऐतरेये ति । प्रकरणबलात् प्रज्ञानशब्दः प्रज्ञानवत्पर इति भावः । प्राज्ञेन-प्रज्ञ एव प्राज्ञः । स्वार्थे%ण् । तेन । सर्वज्ञेन परमात्मनेत्यर्थः । देहेन्द्रियमनः प्राणधीभ्यो%न्य इति प्रतिज्ञातात्मस्वरूपनिरूपणमुपसंहरति तत्सिद्ध मिति ।।

अथ अनन्यसाधन इति प्रतिज्ञातं स्वयंप्रकाशत्वमात्मनः समर्थयितुं प्रमाणपरीक्षामुपक्रमते किं पुन रित्यादिना । अनुमान मिति । यद्यप्यहं जानामीति प्रत्यक्षमेव तत्र प्रमाणं सम्भवति । तस्य देहादिविषयत्वायोगात् । अथापि विलक्षणात्मविषयत्वं प्रत्यक्षस्येदं प्रमाणमत्रैवं प्रवर्तितुमर्हतीत्येवं सामग्रीनिरूपणाद्यात्मकेन तर्केणैव व्यवस्थाप्यमित्याशयः । यदाहे ति । इच्छादि विलक्षणात्मनो%नुमापकं यदाह, अतो%नुमानमेव प्रमाणं तत्रेत्यक्षपादाशयो विज्ञायत इत्याशयः ।

चोदयति किममीषा मिति । धूमध्वजः-अग्निः । अयं भावः- व्याप्तिग्रहस्य सहचारदर्शनमूलकत्वेन विलक्षणात्मना सहचारदर्शने इच्छादीनां प्रत्यक्षेणैव तस्य सिद्धेः कृतमनुमानेन । सहचारादर्शने च कथं तेन व्याप्तिर्गृह्येत । अगृहीतव्याप्तिकेन चेच्छादिना कथन्तरां तदनुमानमिति । परिहरति माभू दित्यादिना । सिषाधयिषित- साध्यविशेषेणेच्छादिविशेषस्य सहचारग्रहो मास्तु । आश्रयित्वगुणत्वाभ्यां सहचारदर्शनादेवात्मानुमानं प्रवर्तते । एतच्च सामान्यतो दृष्टमिति भावः । एतदेवोपपादयति तथाही ति । कार्यत्वम्-उत्पत्तिमत्त्वम् । अनित्यत्वं-विनाशित्वम् । गुणत्वं-गुणत्वजातिमत्त्वम्, विशेषणतैकस्वभावत्वं वा । एतानि व्याप्यान्याश्रितत्वस्य । इच्छादय आश्रितागुणत्वाद्रूपवदित्यनुमानमत्र विवक्षितम् । अत्र हेतुं साधयति गुणत्वं चे ति । पदार्थत्वेन द्रव्याद्यन्यतमत्वे प्राप्ते द्रव्यादिभेदकानुमानतो द्रव्यत्वादिव्युदासे द्रव्यादिभेदविशिष्टं पदार्थत्वमेव परिशिष्यमाणं गुणत्वं व्यवस्थापयतीत्यर्थः । इतरभेदानुमानान्याह न सामान्ये ति । अभावभेदसाधने%नित्यत्वमुत्पत्तिविनाशवत्त्वरूपं वाच्यम् । नातः प्रागभावे प्रध्वंसे वा व्यभिचारः । व्यापके ति । विभुसमवेतत्वादित्यर्थः । नैयायिकमतेनायं हेतुः सिद्धः । न कर्म, संयोगविभागयोरनपेक्षकारणत्वाभावात्, न द्रव्यं असंयोगित्वादिति वा हेतुर्वाच्यः । गुणत्वं प्रसाध्य विशेषगुणत्वं प्रसाधयति विशेषे ति। रूपत्वादौ व्यभि

चारस्य वारणाया%नित्यत्वे सतीति । संयोगादौ तद्वारणाय विशेष्यदलम् । एवमपि प्रभायां व्यभिचारः स्यात्, चक्षुर्मात्रग्राह्यत्वात्तस्याः । अतो गुणत्वे सतीति वाच्यम् । एवमपि प्रभाभित्तिसंयोगे तत्प्रसङ्गः । अत एकोन्द्रियमात्रग्राह्यजातिमत्त्वं विशेष्यं वक्तव्यम् । एवं चा%नित्यत्वविशेषणस्य वैयर्थ्यम् । गुणत्वदलस्यापि । प्रभात्वजातौ मानाभावात्, तेजस्त्वादेश्च द्वीन्द्रियग्राह्यत्वात् । परंतु प्रभात्वजातेः प्रामाणिकत्वे वायोः स्पार्शनोपगमे वा गुणत्वदलमावश्यकमेवेति बोध्यम् । योगिनां मनसा%पि रूपादेर्ग्रहादस्मदादीति विशेषणम् अयोग्यभिप्रायम् । सामान्यतो- दृष्टानुमानस्याश्रयविशेषपर्यवसानसिद्धये परिशेषानुमानान्याह एव मिति । प्रत्याचक्षाणैः-प्रतिक्षिपद्भिः । सामान्यतोदृष्टमन्वय्यनुमानमेवेतरभेदानुमानसहकृतं विशेषानुमापकमित्येकः पक्षः । सामान्यतोदृष्टेतरभेदानुमानतो%ग्रे प्रसिध्यन् विशिष्टहेतुः केवलव्यतिरेकिरूपस्तथेति चापरः । अनेन च वाक्येनाद्यः पक्षः स्फोर्यते । ये भूतगुणा इति । अत्र योग्या इत्यप्यनुसन्धेयम् । व्यतिरेक्युपनयनिगमने न तथे ति । दिक्काले ति । इच्छादयो न दिक्कालमनोगुणाः, विशेषगुणत्वात्, प्रत्यक्षत्वाद्वा; ये पुनर्दिगादिगुणाः सङ्ख्यादयः, न ते प्रत्यक्षा, विशेषगुणा वा । अकारणे ति । अनुक्रष्टव्याः-अनुकर्षणीयाः । नानानुमानफलितं सामान्यप्रयोगमाह तेने ति । पक्षान्तरमपि प्रतिपादयति विमतिपदे ति ।

विमतिपदम्-विप्रतिपत्तेः स्थानम्-निमित्तं-नानावादः, तदास्पदेभ्यः- तद्विषयेभ्य इत्यर्थः । अत्रायं प्रयोगः-इच्छादयः तदाश्रयत्वेन विप्रतिपन्नशरीरादिव्यतिरिक्तगुणाः तद्गुणत्वबाधकप्रमाणविषयगुणत्वादिति । उदाहरणं चे ति । व्यतिरेकीत्यादिः । प्रसिद्धद्रव्यभिन्नस्याद्रव्यस्य प्रसिद्धावपि तद्गुणत्वस्या%प्रसिद्ध्या नान्वय्युदाहरणं सम्भवति । न चैवं साध्यव्यतिरेकस्याप्यनुमानात्पूर्वमप्रसिद्ध्या व्यतिरेक्युदाहरणं वा कथं घटत इति वाच्यम् । प्रसिद्धद्रव्यव्यतिरिक्तसमवेतत्वस्यैव साध्यत्वात् तद्व्यतिरेकस्य रूपादौ प्रसिद्धिसम्भवाच्चेति हृदयम् । अन्वयव्याप्तिर्वा सामान्यमुखी सम्भवतीत्याह सामान्यतो वे ति । विलक्षणशब्दाश्रयसिद्ध्युपजीवनेनेदम् । तदनुमाने च गन्धाद्यन्तर्भावेण व्याप्तिग्रहणमिति भावः । एवं च केवलव्यतिरेक्यनुपगमे%पि न क्षतिरिति ध्येयम् ।

नैयायिकाभिमतां विलक्षणात्मसिद्धिमानुमानिकीं प्रतिक्षिपन्ति श्रोत्रियाः इदमपी ति । अन्वयिना%श्रयमात्रस्य सिद्धावपि केवलव्यतिरेकिणा%%श्रयविशेषः सेत्स्यतीत्यत्राह केवले ति । साधनदशाम्-अनुमापकत्वावस्थाम्, नासादयति न प्राप्तोति, सपक्षान्वयविरहात्-साध्येन सहचारदर्शनस्थलसम्बन्धाभावादित्यर्थः । असाधारणव दिति । पक्षमात्रवृत्तिहेतोरसाधारणस्य

साध्यसहचारग्रहविरहादगृहीतव्याप्तिकस्य यथा न गमकत्वम्, एवं केवलव्यतिरेकिणो%पि व्याप्तिग्रहायोगात् न गमकत्वमिति भावः । ननु सति सपक्षे हेतोरवृत्तेरसाधारणस्य सदोषत्वम् । केवलव्यतिरेकिणि तु सपक्षस्यैव विरहान्न दोष इति चेत्; मैवम्; केवलव्यतिरेकिणि साध्यस्य प्रसिद्धिरस्ति न वा%नुमानात्पूर्वम् । अस्ति चेद्यत्र प्रसिद्धिः तत्र हेतोः सत्त्वे%न्वयित्वम्, असत्त्वे तु असाधारणत्वमेव । नास्ति चेत् साध्यव्यतिरेकस्याप्यप्रसिद्धेः केवलव्यतिरेकित्वमपि दुर्घटमिति दिक् । विस्तरस्तु न्यायपरिशुद्ध्यादावनुसन्धेयः । शङ्कते न चैव मिति । विपक्षव्यतिरेकः-विपक्षासत्त्वम् । साधारणवत्-पक्षत्रयवृत्तिहेतुवत् । साधारणे यथा विपक्षेसत्त्वाद्धेतोरसाधकत्वम्, केवलान्वयिन्यपि विपक्षस्यैवाप्रसिद्धेः तत्सत्त्वाभावस्याप्यप्रसिद्धेस्तथा%गमकत्वं स्यादित्यर्थः । अन्वयव्यतिरेकिणि उभयविधसहचारदर्शनाद्व्याप्तिग्रहस्य दृष्टेः साध्यहेत्वो सहचारादर्शनात्केवलव्यतिरेकिणो%साधकत्वं चेदभिमतम्, तर्हि साध्याभावसाधनाभावयोः सहचारादर्शनात्केवलान्वयिनो%प्यसाधकत्वं स्यादिति चाकूतम् । परिहरति देशकालादी ति । कस्मिंश्चिद्देशे काले वा हेतुः साध्यमन्तरापि प्रयोजकान्तरात् स्यादिति देशकालविशेषान्तर्भावेण शङ्कितोपाधेरनुकूलतर्केण निवर्तने सति साध्यहेत्वोः सहचारदर्शनमात्रतो%पि अन्वयव्याप्तिर्निश्चीयत इत्यर्थः । अपिर्भिन्नक्रमः । अन्वयदर्शनेनेत्यनन्तरंयोज्यः । साध्यान्वितस्वभावतया-साध्यव्याप्यतया । व्यतिरेकव्याप्तिग्रह एव व्यतिरेकसहचारग्रहस्यापेक्षया केवलान्वयिनि अन्वयव्याप्तिग्रहस्य व्यतिरेकाप्रसिद्धावपि नानुपपत्तिरिति च भावः । विपक्षसत्त्क्स्यैवा%प्रसिद्ध्यैव रूपपञ्चकसम्पत्तिः केवलान्वयिन इति चाशयः सिद्धान्तिनाम् । नन्वेवं साध्यसाधनव्यतिरेकयोः सहचारदर्शनत एव व्यतिरेकव्याप्तिग्रह उपपद्यत इति शङ्कते न च साधनाभाव इति । साध्यान्वितस्वभावत्वम्-साधनस्य साध्यनिरूपितव्यतिरेकव्याप्तिमत्त्वं साध्याभावव्यापकाभावप्रतियोगित्वलक्षणम् । व्याप्तिनिश्चयायोगे हेतुमाह अभावस्ये ति । व्यतिरेकिणोः साध्यसाधनयोरधिकरणपेक्षया तदभावाधिकरणानामानन्त्यात् कलयां%शेन क्कचिदपि साध्याभाववति हेतोर्वृत्तौ व्यतिरेकसाहचर्यनियमलक्षणव्यतिरेकव्याप्तेरसम्भवादित्यर्थः । व्यतिरेकिसाध्यसाधनवतः परिमितत्वेन क्वचित्कार्त्स्न्येन ग्रहणमपि सम्भवेदिति च हार्दम् । ननु यावत्सु प्रत्यक्षेष्वधिकरणेषु व्यतिरेकयोः सहचारदर्शनत एव व्याप्तिर्निश्चीयेतेत्यत्राह सन्देहे ति । व्यतिरेकव्याप्तिर्हि साध्याभावे हेत्वभावव्याप्तिगर्भिता । साध्याभावो%स्तु, हेत्वभावो मास्त्विति शङ्कायां च न साधनाभावव्याप्यत्वं साध्याभावे गृह्येतानुकूलतर्कविरहे । साध्यस्या

साधननीमित्तत्वसाधननियतस्वभावत्वाद्यन्यथानुपपत्तिलक्षणतर्कबलाच्छङ्कानिवारणं च साध्यसाधनयोः सहचारदर्शनमूलहेतुहेतुमद्भावाद्यवधारणमन्तरा न घटत इति केवलव्यतिरेक्यसिद्धिरिति च हार्दम् । विशिष्टहेतुना पृथिव्यादिव्यतिरिक्तगुणत्वानुमाने च साध्याप्रसिद्धिमाह पृथिव्यादिभ्य इति । अर्थान्तरस्य गुणादेः प्रसिद्धावपि तद्वृत्तिगुणत्वलक्षणं साध्यमप्रसिद्धमेव । न च पृथिव्याद्यर्थान्तरसमेवतत्वमेव साध्यते । तच्च रूपत्वादौ प्रसिद्धमेवेति वाच्यम् । निरुक्तसमवेतत्वस्य गुणक्रियाभिन्न एव प्रसिद्धेर्गुणे ज्ञानादौ तत्साधनायोगः । अर्थान्तरद्रव्यसमवेतत्वं चानुमानात्प्रागप्रसिद्धमेवेति हार्दम् ।

नैयायिकोक्तात्मानुमानदूषणानि साङ्ख्योक्तात्मानुमानेष्वप्यतिदिशति एतेने ति । तथा चे ति । विलक्षणात्मसाधकत्वेन साङ्ख्याभिमतानेव हेतून् प्रथमं विवृणुमहे शिष्यवैशद्याय क्षेपसौकर्याय चेति भावः ।

सङ्घातपरार्थत्वा दित्यादिः साङ्ख्यकारिका । एनां व्याख्याति अयमर्थ इत्यादिना । शरणं गृहम् । सङ्घातत्वम्-अवयवसमुदायात्मकत्वम् । भूतानां-पञ्चानां महाभूतानाम् । अव्यक्ते ति । सुखदुःखमोहात्मत्वं सुखादिस्वरूपत्वम्, सुखादिजनकत्वरूपं वा । तेन तथात्वं-सत्त्वरजस्तमोरूपगुणत्रयसङ्घातात्मकत्वम् अनुमेयं कार्यरूपेण शरीरादिवदेवेत्यर्थः । सङ्घातत्वहेतोर्विरुद्धत्वं शङ्कते न चेन्द्रियाणा मिति । उभयविशेषविरुद्धत्वम्-पक्षसाध्ययोरभिमतविशेषविरुद्धाकारापादकत्वम् । अनाहङ्कारिकत्वेन सङ्घातत्वस्य भूतभौतिकेषु, संहतपरार्थत्वेन च गेहशय्यादिषु भूयःसहचारदृष्टेर्व्याप्तेर्गृहीततया पक्षान्तर्गतेन्द्रियाणामभिमताहङ्कारिकत्वविरुद्धस्यानाहङ्कारिकत्वस्य, साध्यघटकस्य च परस्या%भिमतासंहतत्वविरुद्धस्य संहतत्वस्या%%पादकत्वाद्विरुद्धत्वं सङ्घातत्वहेतोरिति भावः । हेतोरुभयविशेषविरुद्धत्वं च नेत्यन्वयः । अविरुद्धत्वमुपपादयति अहङ्कारे त्यादिना । अहङ्कारवृत्तौ सत्यामेवेन्द्रियाणां मनःपर्यन्तानां वृत्तेर्दर्शनात्तदभावे च स्वापे%दर्शनादाहङ्कारिकत्वं तेषामवसीयते । तत्रापि सत्त्वंकार्यलाघवप्रकाशयोगात्सात्विकाहङ्कारकार्यत्वमिति भावः । आगमश्च देवा वैकारिका दश, एकादशं मनश्चे ति स्मृतिरूपः । देवाः-इन्द्रियाणि प्रकाशयोगाद्देवाधिष्ठितत्वाद्वा । वैकारिकस्य सात्त्विकाहङ्कारस्येमे कार्यभूता इति वैकारिकाः । अपवादानुपपत्तेः-बाधनानुपपत्तेः । सङ्घातत्वस्या%नुहङ्कारिकत्वेन न व्याप्तिः । त्रैगुण्यात्मकस्येन्द्रियजातस्या%%हङ्कारिकत्वेन प्रमाणप्रतिपन्नत्वेनानैकान्त्यादिति भावः । पक्षविशेषविरुद्धत्वं परिहृत्यसाध्यविशेषविरुद्धत्वं परिहरति

आत्मनस्त्वि ति । अप्रयोजकत्वाच्चे ति । असंहतस्याप्यात्मनश्चेतनत्वादेव भोक्तृत्वस्योपपत्तेः भोक्तत्वलक्षणे परत्वे प्राधान्ये सङ्घातत्वस्याप्रयोजकत्वमिति भावः । यदि सङ्घातत्वस्य परत्वे प्रयोजकत्वं स्यात्तर्हि संहतपरार्थत्वेन व्याप्तिः सम्भवेन्नाम सङ्घातत्वस्य । व्याप्तिबलादनेकसङ्घातकल्पना%पि सोढव्या भवेत् । न चैवम् । तथा च संहतपरार्थत्वे सङ्घातत्वस्य व्याप्यत्वासिद्धत्वमिति हार्दम् । सङ्घातपरत्वेनानुमितस्यात्मनः सङ्घातत्वं योग्यानुपलब्धिबाधितञ्चेति बोध्यम् । सङ्घातत्वस्य परार्थत्वेन व्याप्तिस्तु प्रमाणान्तरविरोधाभावात्प्रसेत्स्यतीत्याह न च प्रमाणान्तरे ति । सङ्घातपरार्थत्वानुमानेनात्मासिदिं्ध निगमयति एवं चे ति । सङ्घातत्वव्यापकपरार्थत्ववत्सत्त्वादिगुणत्रयतत्कार्यरहित इति संहतत्वे त्यादेरर्थः । परस्य संहतत्वे%नवस्थाप्रसक्तेः त्रैगुण्यविपर्ययः अत्रैगुण्यात्मकत्वरूपो मन्तव्य इत्युक्तम् असंहत
इति । त्रिगुणादिविपर्ययादित्यन्तः कारिकांशो विवृतः ।

अथा%धिष्ठानादित्यंशं विवृणोति तथा देहादय इति । सुखदुःखमोहात्मकतया-सुखाद्यात्मकसत्त्वादिसङ्घातरूपतया । परेण-स्वभिन्नेन चेतनेन । अधिष्ठीयन्ते-कार्यानुगुणतया प्रेर्यन्ते । यन्त्रादिभिः सारथिप्रभृतिभिः । भोक्तृभावादित्येतद्विवृणोति अपि चानुकूले ति । अनुकूलनीयः-अनुकूलबुद्धिभाक् । अनुकूलवेदनीयः-अनुकूलत्वप्रकारकबुद्धिविषयः । एवं प्रतिकूलनीयप्रतिकूलवेदनीयावूह्यौ । भ्रातृव्यः-शत्रुः । भोक्तृभावादित्यस्य द्रष्टृत्वपरतया योजनान्तरं दृश्यत्वा दिति । अधिष्ठातु रित्यादि । सङ्घातप्रवृत्तेरधिष्ठात्रन्तराधीनतया%धिष्ठातुः सङ्घातत्वे तत्प्रवृत्तेरप्यधिष्ठात्रन्तराधीनत्वं स्यात्, एवमग्रे%पीत्यनवस्थाप्रसङ्गादधिष्ठातुरसङ्घातत्वमेष्टव्यम् । एवं सुखेना%नुकूलनीयस्य दुःखेन प्रतिकूलनीयस्य वा भोक्तुः त्रिगुणत्वे तस्यापि अनुकूलप्रतिकूलवेदनीयत्वस्य प्राप्तेरनुकूलनीयप्रतिकूलनीयान्तरापादकत्वादनवस्थाप्रसङ्ग इत्यत्रिगुणत्वमेष्टव्यम् । देहादिपक्षकविलक्षणद्रष्ट्रनुमानेन चात्मनो देहादिवैलक्षण्यमपि सिद्धमिति भावः । कैवल्यार्थं प्रवृत्तेश्चे त्यंशं विवृणोति तथा देहादे रिति । अत्रायं प्रयोगः-कैवल्यसाधनप्रवृत्तिः कैवल्यदशाप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका,कैवल्यसाधनप्रवृत्तित्वात्, या या फलविशेषसाधनप्रेक्षावत्प्रवृत्तिः सा सा तत्तत्फलप्राप्तियोग्यात्मतत्त्वज्ञानपूर्विका, यथा स्वर्गसाधनप्रवृत्तिरिति । देहादेः प्रधानपर्यन्तस्य परिणामस्वभावस्य त्रिगुणस्य कैवल्यानुपपत्तिज्ञानाच्च विलक्षणात्मसिद्धिरिति भावः ।।

विलक्षणात्मसाधकतया साङ्ख्यैरुपक्षिप्तं सङ्घातपरार्थत्वानुमानं तावद्दूषयति

अत्रापी त्यादिना । परापरे ति । अन्या%न्येत्यर्थः । पूर्वापरीभूतेति वा । परापरसङ्घातेति वा समस्तपाठः स्यात् । कार्यतयेवे ति । कार्यात्कारणमनुमेयम् । कारणस्यापि कादाचित्कत्वेन कार्यत्वात्तत्कारणमप्यन्यत्, एवमुपर्युपरीति कारणपरम्पराकल्पना यथा प्रामाणिकी न दोषाय, एवमविनाभावबलादापतन्तीसङ्घातपरम्पराकल्पना%पीति भावः । ननु सङ्घातत्वस्य भोक्तृत्वलक्षणे परत्वे%हेतुत्वान्न सङ्घातपरार्थत्वेन सङ्घातत्वस्य व्याप्तिग्रह इत्यत्रा%%ह न चे ति ।

सङ्घातपरत्वं तदधीनातिशयभाजि सम्भवेत् । तदधीनातिशयश्चासंहते निर्लेपे निर्विकार%त एवातिशयाधानानर्हे साङ्ख्याभिमतेपुरुषे न सम्भवतीति संहतस्यैव कस्यचित्सङ्घातशेषिणो%नुमानेन सिद्धिर्नासंहतस्य साङ्ख्यमतपुरुषस्येति भावः । भोगरूपो%प्यतिशयो न साङ्ख्यपुरुषस्य सम्भवेदिति हार्दम् । एतेन पुरुषो%स्ति भोक्तृभावा दित्यपि परास्तम् । दृश्यते च खट्वादेः शरीरार्थत्वम्, शरीरस्य च शरीरान्तरार्थत्वम् । अतस्तदधीनातिशयभाक्त्वरूपे तत्परत्वे सङ्घातत्वस्य प्रयोजकत्वेन तदवच्छिन्नपरार्थत्वेन व्याप्तिग्रहः सम्भवत्येवेति चाभिमतम् । तद्धी ति । यद्येनोपक्रियते क्रियते वा तत्तस्य शेषि प्रधानमङ्गि भवति, यत्तूपकरोति करोति वा तत्तदर्थं तच्छेषः तदङ्गमित्यन्वयार्थः । उपक्रियते-अतिशयवान् क्रियते, स्त्रकूचन्दनादिनेव देहादिः, प्रयाजादिनेव च यागादिः । क्रियते-निष्पाद्यते, दण्डादिनेव घटादिः, पुरोडाशादिनेव च यागादिः । तत्र उपक्रियमाणं क्रियमाणं वा अङ्गि, उपकारकं कारकं वा अङ्गमिति विवेकः । न च तथे ति । तथा-अतिशयाधानार्हः । साङ्ख्यपुरुषः-कापिलाभिमत आत्मा ।

नन्वनुपकार्यत्वे%प्यात्मन एतैरुपकृतो%हमित्युपकृतत्वभ्रमलक्षण एवोपकारो देहादिभिः साध्य इति तत्परत्वमुपपद्यत इति चेत्तत्राह अपि चे ति । चितिशक्तेः-चैतन्यस्वरूपस्य पुरुषस्य । शक्तिशक्तिमतोरभेदाभिप्रायेणैवमुक्तिः । बुद्ध्यपरपरिभाषाभिधानम्-बुद्धिरित्यपरं स्वीयतन्त्रसङ्केतितं यस्य नाम तदित्यर्थः । न भ्राम्यती ति । अन्तःकरणं न भ्रमाश्रयो%चेतनत्वाद्धटादिवदिति यावत् । अचिदपी ति । अचेतनमपि चैतन्यप्रतिबिम्बाश्रयतया चेतनवद्भातीत्यर्थः । चिच्चेतनशब्दौ स्वयम्प्रकाशाभिप्रायावत्र । नीरूपाया इति । छायायाः कान्तिलक्षणाया उज्जवलरूपवद्धर्मभूताया नीरूपे चैतन्ये%सम्भवान्नीरूपे चान्तःकरणे तत्प्रतिफलनलक्षणसङ्क्रान्तेरयोगादित्यर्थः । रूपवत्येव हि स्फटिकादौ जपाकुसुमलोहितादिप्रतिफलनं दृष्टमिति भावः । शङ्कते छायेवे ति । न छायाशब्देन मुख्या कान्तिर्विवक्षिता । अपि तु सादृश्यम् । चित्सादृश्यापत्तिश्चेतनायमानत्वमिति चेदित्यर्थः । प्रतिवक्ति कः ख ल्विति । सादृश्यं केनाकारेणेत्यर्थः

। अत्रा%%ह चितिसरूपत्व मिति । वृत्तिपरिणामसामान्याभाववत्त्वेन सादृश्यमित्यर्थः । दूषयति हन्तैव मिति । भ्रमादयो हि वृत्तयो%न्तःकरणस्य निर्वृत्तिकत्वे नोपपद्यन्त इत्यर्थः । भ्रमोपपादनार्थं हि परिष्क्रियते चेतनायमानत्वम्, तच्चेन्निर्वृत्तिकत्वरूपम्, नैव प्रसङ्गो भ्रमाद्युदयस्य, तथा च यदर्थमयमारम्भः तत्कार्यमवसादितमिति भावः । प्रकारान्तरं शङ्कते चेतनत्वेने ति । ज्ञातृत्वेनेत्यर्थः । प्रकारान्तरम् अजडायमानत्व मिति । परिहरति अजडत्व मिति । ज्ञातुरहमर्थस्यात्मन एवेतरानपेक्षप्रकाशत्वलक्षणमजडत्वं सम्भवतीति ज्ञात्रात्मसमर्थनावसरे प्रोक्तम् । तथा चैवंविधाजडत्वस्य ज्ञातृत्वसमानाश्रयत्वाज्ज्ञातृत्वेनैव ज्ञातृत्वसमनर्थनं कृतं भवेदिति भावः । तेनैवे ति । ज्ञातृत्वैकाश्रयेणा%जडत्वेनैवेत्यर्थः । एतत्-अजडायमानत्वम्, न किञ्चित्-नार्थसाधकम्, विवक्षितभ्रमवत्तोपपादकं न भवति । असिद्धमसिद्धेन साध्यत इति यावत् । यद्वा न किञ्चिदेतत्-अनतिप्रसक्तं प्रकृतार्थोपपादकं दुर्निरूपमिति भावः । अन्तःकरणस्याजडत्वोपगमे साङ्ख्यस्यापसिद्धान्तं चाह अपि चे ति । नन्वन्तःकरणस्य चितिसारूप्यासम्भवे%पि तस्मिन् चितिप्रतिबिम्ब एव ज्ञातृत्वादिमानस्तु इत्यत्राह न च चिती ति । बिम्बत्वेना%भिमताचित्, प्रतिबिम्बाधारत्वेनाभिमतमन्तःकरणम् । द्वन्द्वस्या%भिमतशब्देन कर्मधारयः । बिम्बगतस्य वक्रतादेः प्रतिबिम्बाधारगतस्य वा मालिन्यादेः प्रतिबिम्बे आरोपसम्भवः । न च ज्ञातृत्वं भ्रमो वा प्रकृते%न्यतरस्मिन्नप्यस्ति, यस्य चित्प्रतिबिम्बे आरोपः स्यादिति भावः । प्रत्युक्तश्चे ति । न्यायतत्त्वशास्त्रादाविति शेषः ।

नन्वन्तःकरण एव विषयाकारपरिणामलक्षणज्ञानवृत्तेरुपगमादन्यतरस्मिन्नप्यवृत्तित्वमसिद्धम् । ततश्च चितिबुद्ध्योर्विवेकाग्रहाच्चिति ज्ञातृत्वप्रतिभासो युज्यत एवेति शङ्कते यदुच्यत इत्यादिना । निर्विकाराया अपि चितिशक्तेः सन्निधानबलादेवान्तःकरणस्य प्रत्यक्षादिप्रमाणज्ञानभ्रान्त्यादिलक्षणा वृत्तिभेदाः समुदयन्ते । प्राधान्यात् चितेः तासां साक्षित्वं भोक्तत्वं च, यथा निश्चेष्टस्यापि सार्वभौमस्य प्राधान्यात् प्रबलसामन्तचक्रकर्तृकयुद्धपराक्रमविजयभाक्त्वं तद्वदिति शङ्कितुराशयः । पराक्रमीयः-अतिशयेन पराक्रमवत् । परिहरति तदनुपपन्न मिति । साक्षित्वं हि न चैतन्यमात्रत्वम्, किन्तु साक्षाद्द्रष्टृत्वम् । न तच्चितेः, द्रष्टृत्वं कल्पितमिति चेत् निर्विकारे निर्धर्मके कूटस्थे चैतन्ये द्रष्टृत्वभ्रमो%पि न सम्भवतीत्युक्तमेव । दृष्टान्ते तु न निर्व्यापारत्वंसार्वभौमस्य निर्धर्मकत्वं वा । स्वस्वामिभावे हेतवश्च क्रयप्रतिग्रहोत्पादनभरणादयः प्रसिद्धाः । राज्ञश्च भरणादिहेतुकं स्वामित्वमुपपन्नम् । न तु साङ्ख्याभिमतस्य पुरुषस्येति

समुदिताशयः । ननु साङ्ख्याभिमतस्यात्मनो%नुमानासम्भवे%पि नैयायिकादिभिराधेयातिशयत्वेन भोक्तत्वेन चाभिमतस्यात्मनः सङ्घातपरार्थत्वानुमानेन साधनं स्यादिति चेत्, न । सङ्घातस्य संहतपरार्थत्वेन व्याप्रेरसंहतस्य परस्य सिद्धेरयोगात् । नच

भोक्त्रर्थत्वेनैव सङ्घातत्वस्य व्याप्तिरस्तु । तथा चासंहतात्मसिद्धिरप्रत्यूहेति वाच्यम् । शरीरस्यापि शरीरान्तररूपभोक्त्रर्थत्वसाधनपर्यवसानाद्विवक्षितासिद्धेः । शरीरादिव्यतिरिक्तस्य भोक्तरनुमानात्पूर्वमसिद्ध्या च विलक्षणभोक्त्रर्थत्वेन व्याप्तेरग्रहाद्विलक्षणात्मसाधनायोग इति दिक् ।

आत्मनि देहादिभेदसाधकानुमानानां प्रत्यक्षबाधमप्याह स्थूलो%ह मिति । प्रत्यक्षमृदितविषयतया-प्रत्यक्षबाधितसाध्यकतया । अतीतकालताबाधितहेत्वाभासता । व्यतिरेकानुमानभेदानां-विलक्षणात्मानुमानानां कापिलनैयायिकाभिमतानाम् ।

देहादिभेदे आत्मनः श्रुतिमेव प्रमाणतयोपन्यस्यन्ति श्रोत्रियाः स एष इति । नेतिनेती त्यात्मनः शरीरादिगतप्रकारनिषेधः । शरीरभिन्नं शरीरधर्मव्रणादिरहितं चात्मस्वरूपमित्यकायमित्यादेरर्थः । योनि मिति । अत्र शरीरप्रापकयोनिसम्बन्धप्रतिपादनेनात्मनः शरीरभिन्नत्वंसिध्यति । शरीरत्वाय-शीर्यमाणत्वाय । इदं च न स्वरूपेण, किन्तु शरीरविशिष्टवेषेण । तथाच देहादेरेवोत्पत्त्यादि नात्मन इत्यत्र श्रुतिर्न जायत इति । शरीरभिन्नत्वमुक्तमात्मनः । शरीरसंसृष्टत्वमप्यौपाधिकमेव, मुक्तौत्वशरीरत्वमेवेत्यत्र श्रुतिमुपादत्ते न ह वै इति । श्रुतिं प्रमाणमुक्त्वा विलक्षणात्मनि श्रुत्यर्थापत्तिमपि प्रमाणमाह कालान्तरे ति । तदनुपपत्ती ति । श्रुत्यर्थान्यथानुपपत्तीत्यर्थः । विध्यन्यथानुपपत्तीति वा । देहविनाशोर्ध्वभाविस्वर्गादिसाधनकर्मानुष्ठानं तद्विधानं वा भोक्तरात्मनो देहातिरेकं नित्यत्वं च विना हि न घटते । नन्वेव देहव्यतिरेके सिद्धे%पीन्द्रियादिभेदो न सिध्यतीतिचेत्; अत्रोच्यते-गोलकातिरिक्तेन्द्रियस्यापि न शास्त्रमन्तरा सिद्धिः । शास्त्रतस्तु विलक्षणात्मन उपकरणत्वेनैव तत्सिद्धिरिति विलक्षणात्मसिद्धिः शास्त्रतो निष्प्रत्यूहेति ।

विलक्षणात्मनि अनुमानैकप्रमाणकत्वमागमैकप्रमाणकत्वं च मतभेदेनोपपाद्य प्रत्यक्षत्वं मीमांसकमतेन निरूपयितुमुपक्रमते ननु हिताहिते ति । हितं बलवदनिष्टाननुबन्धीष्टसाधनं शास्त्रैकसमधिगम्यम् । अहितं-बलवदनिष्टानुबन्धि । हिताहितप्रवर्तननिवर्तनैकपरस्य शास्त्रस्योपरि तत्त्वपरत्वस्यापि परिकल्पनं महाभारनिक्षेपलक्षणमेव । सह्येतवा%नन्यलभ्ये तत्त्वांशे%पि कार्योपयोगिनि शास्त्रस्य तात्पर्यकल्पनम् । न त्वन्यलभ्ये । देहादिविलक्षणश्चात्मा

प्रत्यक्षेणैव स्फुटमधिगम्यत इति नात्र पुरोवादितालक्षणं प्रामाण्यं शास्त्रस्य सम्भवतीति श्रोत्रियोपरि प्रत्यवस्थानं मीमांसकस्य ।

आत्मन इन्द्रियाग्राह्यत्वं शङ्कते%त्र श्रोत्रियः मैवं वोच इत्यादिना । रूपादिव्यतिरेकिणि-रूपस्पर्शरहिते । द्रव्यप्रत्यक्षे हि उद्भूतरूपस्पर्शान्यतरस्य कारणत्वम् । तदभावान्नात्मनः प्रत्यक्षत्वं सम्भवति । निरतिशयसूक्ष्म इत्यनेन इन्द्रियग्रहणायोग्यत्वं विवक्षितम् । योग्य एव हि प्रत्यक्षं प्रभवति नायोग्य इति भावः । इन्द्रियाग्राह्यत्वे आत्मनः श्रुतिमुदाहरति पराञ्ची ति । परागर्थमात्रग्रहणसमर्थानीन्द्रियाणीत्यर्थः ।

अचित्त्वप्रतिबद्धश्च सर्वो%पीन्द्रियगोचरः ।

तेन नैन्द्रियिकं ज्ञानमात्मानं स्प्रष्टुमर्हति ।।17।।

स्यान्मतम्-भौतिकत्वाद्बहिरिन्द्रियाणि मा नामात्मनि प्रवर्तिषत । मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति; तन्न; तस्यापीन्द्रियत्वे भौतिकत्वस्यापरिहार्यत्वात् । यथा%%म्नायते "अन्नमयं हि सोम्य मनः" इति । प्रपञ्चितं चैतन्निरूपणे ।

(इत्यात्मनो%प्रत्यक्षत्वशङ्का)

अथोच्येत-अस्ति तावदहमित्यपरोक्षावभासः प्रत्ययः । न चैन्द्रियिकत्वमन्तरेणासौ सम्भवति । क्लृप्तं च बहिरिन्द्रियागोचरे%पि सुखादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः । प्रयोगश्च भवति-आत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात्सुखादिवत् इति ।

(इति भाट्टमुखेनात्मनो मानसप्रत्यक्षत्वानुमानोपक्षेपः)

तन्न; संवेदनेन व्यभिचारात् । न च तदप्रत्यक्षम् । जानामीत्यनन्योपाधिकतया प्रतिभानात् । अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेव स्यादित्युक्तमेव । नच तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति; विमर्दासहत्वात् । यदा खलु कुतश्चिदात्ममनःसंयोगाद्विषयसंवित् उदयमासादयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदा%न्येनेति वाच्यम् । नच युगपदुभयजननं सम्भाव्यते । तथा हि सति

परापरतत्तद्गोचरनिरवधिकधीनिकुरुम्बजन्म तत्कालमेवापद्येत । नच तदस्ति । युगपदुत्पत्तौ विषयविषयित्वनियमश्च निर्निबन्धनः । असमसमयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वं; क्षणिकत्वेनाग्रिमज्ञानस्य आग्राहकज्ञानोदयमवस्थानाभावात् । भावे च

सर्वज्ञानानां सर्वदा%वस्थानप्रसङ्गात् । कार्यविरोधित्वे चानन्तरमेव संस्कारोदयान्न कालान्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वम् । न चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः । ऐन्द्रियिकत्वस्यानात्मत्वप्रतिबद्धत्वाद्विरुद्धता च । साध्यविकलश्च दृष्टान्तः, सुखदुःखयोः प्रत्यक्षत्वानभ्युपगमात् । अनभ्युपगमश्चेन्द्रियपौष्कल्यनाशयोरेव सुखदुःखत्वात् । न हि तस्मिन्नप्रत्यक्षे तत्पौष्कल्यंवैकल्यं वा प्रत्यक्षं भवति । इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्षत्वाभिमानः, मनो%वस्थाभेदेष्विव चा%नुमेयमनोवादिनाम् ।

यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयोरपि तदन्तर्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा तयोरात्मविशेषगुणत्वम्;ताभ्यां सुखदुःखाधिकरणं व्याचक्षीत; स्वतःसुखीत्येतद्विमर्शं वा%त्रत्यम् । रागद्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षीभवन्तीति न तन्निदर्शनेनानुमानोदयः । सुखप्रयुक्तविषयीकारचैतन्यं रागः, तद्विरोधप्रयुक्तविषयीकारं तदेव द्वेषः, भूतदुःखज्ञानेन चेतश्चलनं शोकः, आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविस्तरेण ।

(इति गुरुमुखेनात्मनो मानसप्रत्यक्षत्वानुमानदूषणम्)

एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरोधादित्यप्युक्तमेव । अंशभेदाश्रयणे तत्सिद्धये चांशान्तरमाश्रयितव्यम्, तथा तत्र तत्रेत्यनवस्था; सङ्घातत्वं चात्मनः ।

(इति चात्मनो ग्राह्यग्राहकभावे विरोधोद्भावनम्)

ननु च ग्राहकावभासः श्रुत्या, स्वसिद्धान्तश्रद्धाविप्रलब्धबुद्धि- भिरभिहितः; इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् । तादृशो%पि क्वचिदस्तु नाम प्रत्ययः । स त्वागन्तुकात्मप्रतियोगिकप्राकट्यप्रकाशादिपदाभिधेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिबन्धनः ।

(इति प्राभाकरमते भाट्टस्यापि प्रत्यवस्थानम्)

उच्यते । अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम्, यत् विषयानुभवसमये पूर्वावस्थातो न कंचिद्विशेषमयमात्मनो%वबुध्यत इति । उक्तं ह्येतत्-ईदृश एवायमर्थः, ज्ञायते न वेति न विद्मः, मम वा प्रतिभासते परस्य वेत्यपि न विद्म इति न

जातुचिदेवं प्रतीतिरस्ति, ज्ञानज्ञात्रोरनवभासे तादृश्यपि प्रतीतिरापद्येत; इति । सो%यं परसंचेतितात् स्वसंचेतितस्यातिशयः सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत । अनुमितज्ञानालम्बनत्वे चाज्ञासिषमित्येव प्रतिभासः स्यात्, न जानामीति; ज्ञानजन्यार्थातिशयदर्शनतद्व्याप्त्यनुसन्धानानुमानोदयसमये%नुमित्सितज्ञानस्यातिवृत्तत्वात् । ज्ञानानुमानासम्भवः पूर्वमेवोक्तः । मानसप्रत्यक्षत्वं चात्मग्राह्यधीनिरस्तम् । तथासति हि स्वपरवेद्ययोरनतिशयः स्यात् ।

(इति प्राभाकरीयं स्वपक्षसाधनम्)

ननु कथमिव ग्राहकानवभासे स्वपरवेद्ययोरनतिशयप्रसङ्गः? नहि ग्राहकसिद्धिनिबन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोधजन्मना परसमवेतबोधजन्मना च तद्विशेषोपपत्तेः । स्वपरसम्बन्धिबोधविशेषोदव्यवस्था%पि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतुसामग्रीभेदनिबन्धना । न चात्मसिद्धिरपि तत्सामग्र्यनुप्रवेशमर्हति; इन्द्रियादेरिवानवभासमानस्यैव हेतुत्वसम्भवात् । नच विषयबोध एवात्मबोध इति साम्प्रतम् । न ह्यर्थान्तरसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अतिप्रसङ्गात् । अपि च यदधीना भावानां रूपभेदव्यवस्था, तदपि हि संवेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् । कुतस्तु पुनः तदाश्रयस्यात्मनः प्रतिभासप्रसक्तिः? यदाहुः-इदमहं जानामीति त्रितयावभासः सार्वत्रिकः, इति, तदप्यनुभवानारूढमेवानन्तरमेव प्रतिक्षिप्तमिति ।

(इति भाट्टेन प्राभाकरमतदूषणम्)

अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः । अभ्युपगन्तव्या हि संविदः स्वतःसिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च । यथा च संविदः

प्रकाशाव्यभिचारः, तथा प्रपञ्चितं प्रथमाधिकरण इति नात्रोपक्षिप्य प्रतिक्षेप्तव्यम् । सतो%पि प्रमेयजातस्य स्वापादिसमये%नुपलब्देरभ्युपगतं तावत् संविदः तत्साधकत्वम् । अतः क्लृप्तार्थान्तरसाधनभावया तयैवा%%त्मनो%पि सिद्धिरभ्युपगन्तुं न्याय्या ।

(इति पुनः प्राभाकरेण स्वमतस्थापनम्)

यत्तु विषयवित्त्युपरमे%पि स्वापसमये%यमात्मा प्रकाशत इति, तत् उपपत्तिभिरुपपद्यमानमपि यथाप्रतीति व्यवहरतां न चित्तमनुरञ्जयति ।

युक्तिमप्युपन्यस्यति अचित्त्वे ति । अचित्त्वप्रतिबद्धः-अचित्त्वव्याप्यः । आत्मा नेन्द्रियग्राह्यश्चेतनत्वात्, यन्नैवं तन्नैवं यथा घटादीति चात्र प्रयोगः ।।17।।

अत्र भाट्टमतमुपक्षिपति स्यान्मत मिति । श्रोत्रियो दूषयति तन्ने ति । गन्धादिमत्त्वादेव हि घ्राणादेर्गन्धादिग्राहकता व्यवस्थिता । तथा च भौतिकत्वं घ्राणादेः स्थितम् । तन्निदर्शनेन च मनसो%पि भौतिकत्वं सेत्स्यति । तथा चाभौतिक%त्माग्राहकत्वं घ्राणादेरिव मनसो%पिस्यादिति भावः । भौतिकत्वे मनसः श्रुतिमप्याह अन्नमय मिति ।

भाट्टः प्रतिवक्ति अथोच्येते त्यादिना । अपरोक्षावभासः-परोक्षप्रतीतिभिन्नः, लौकिकविषयितावानिति यावत् । सुखादौ मनसः स्वातन्त्र्यं च बहिरिन्द्रियानपेक्षप्रत्यक्षजनकत्वम् । मानसप्रत्यक्षग्राह्यः-मानसप्रत्यक्षनिरूपितलौकिकविषयतावान् । शिष्टं स्पष्टम् ।

प्रकृतमनुमानं दूषयति गुरुमुखेन तन्ने त्यादिना । साध्याभाववति हेतो सत्त्वं हि व्यभिचारः । तत्र संविदि हेतौ विशेषणांशस्य सिद्धत्वाद्विशेष्यांशं तावत्साधयति न च तदि ति । अनन्योपाधिकतया लिङ्गपदज्ञानादिकारणानपेक्षतया । प्रतिभानात्-प्रकाशात् । ननु ज्ञाततयैव ज्ञानानुमानमित्यनन्योपाधिकत्वं ज्ञानप्रतिभासस्यासिद्धमित्यत्राह अप्रत्यक्षत्वे चे ति । ज्ञानातिरिक्तायां ज्ञाततायां ज्ञानलिङ्गत्वेनाभिमतायां प्रमाणाभावात्, सत्या अपि तस्या अतीन्द्रियत्वेन ज्ञानस्य तेनाविनाभावग्रहायोगात्, ज्ञानजनकसामग्र्या ज्ञातताया एव साक्षाज्जननसम्भवादन्तरा ज्ञानकल्पनाया अपार्थत्वाच्चासिद्धिरेव स्याज्ज्ञानस्याप्रत्यक्षत्व इति भावः । संवेदने साध्यस्यापि सत्त्वमाशङ्कते न च तदपी ति । विकल्पासहत्वान्मानसप्रत्यक्षत्वं संविदो निरस्यति विमर्दे ति । विकल्पयति यदा इति । तथासती ति । विषयज्ञानस्योदयकाल एव तद्गोचरज्ञानज्ञानस्यापि आत्ममनःसंयोगरूपकारणबलादुत्पत्तिस्वीकारे पूर्वोत्तरीभूतविषयज्ञानज्ञानज्ञानज्ञानज्ञानज्ञानदीनां समुदायस्य यौगपद्यप्रसङ्गः इत्यर्थः । निकुरुम्बम्-समुदायः । विषयज्ञानज्ञानज्ञानयोर्यौगपद्ये दूषणान्तरमाह युगप दिति । प्रत्यक्षे विषयस्य हेतुत्वात्पूर्वज्ञानजनितस्योत्तरज्ञानस्यानुव्यवसायरूपस्य पूर्वज्ञानविषयकत्वमुपपद्येत क्रमभावित्वे न तु यौगपद्य इत्यर्थः । अस्तु तर्हि क्रमिकत्वं विषयज्ञानतदनुव्यवसाययोरित्यत्रह असमे ति । ज्ञानस्य क्षणिकत्वादुत्तरज्ञानोत्पादकाले पूर्वज्ञानस्यासत्त्वान्न प्रत्यक्षत्वं सम्भवेत्पूर्वज्ञानेज्ञानान्तरवेद्यत्वोपगमे%पीत्यर्थः । ज्ञानस्य क्षणिकत्वानुपगमे दोषमाह भावे चे ति । ननु न क्षणिकत्वम्, नापि स्थिरत्वम् । किन्तु स्वकार्येणैव निवृत्तिरिष्यते ज्ञानस्येति चेत्तत्रा%ह कार्ये ति । कार्यस्य विरो

धित्वं नाशकत्वलक्षणं चेद्द्विक्षणावस्थायित्वं स्याज्ज्ञानस्य । सहानवस्थानलक्षणं चेदेकक्षणमात्रवृत्तित्वम्। अत्र तु सहानवस्थानलक्षण एव विरोधो विवक्षितः । द्विक्षणावस्थायित्वे तु नैयायिकप्रक्रियया मानसप्रत्यक्षोपपत्तेस्तन्निषेधानुपपत्तेरिति बोध्यम् । नैयायिकमते%पि द्वितीयतृतीयादिज्ञानविषयकज्ञानाधारानुवृत्तिप्रसङ्गो बोध्यः । आत्मनो मानसप्रत्यक्षत्वानुमाने विरोधमप्याह ऐन्द्रियिकत्वस्ये ति । अनात्मत्वव्याप्यत्वादैन्द्रियिकत्वस्य व्यापकनिवृत्त्या%%त्मनि निवृत्तिरवर्जनीया । तथा च पक्षतावच्छेदकात्मत्वविरुद्धं साध्यमिति भावः । बाह्येन्द्रियग्राह्यत्वस्यैवानात्मत्वव्याप्यतेत्याग्रहे%पि दूषणान्तरमाह साध्यविकलश्चे ति । साध्यशून्यो%न्वयद्दष्टान्त इत्यर्थः । साधनविकलत्वमपि यद्यपि फलति उपपादनप्रकारेण; अथापि सिद्धान्तप्रक्रियया ज्ञानावस्थारूपत्वात्सुखादेः ज्ञानस्य च स्वयंप्रकाशत्वात्स्वयंप्रकाशत्वं सुखादेर्हृदि निधाय साध्यविकलत्वमेव कीर्तितम् । अन्वयद्दष्टान्ते साध्यस्य साधनस्य वा विरहेन तदवच्छेदेन साध्यव्याप्तिग्रहो हेतौ सम्भवतीति व्याप्यत्वासिद्धिर्विवक्षिता । ननु सुखदुःखयोरप्रत्यक्षत्वे प्रत्यक्षवदवभासस्तयोः कथम्? तत्राह इन्द्रिये ति । यथा%तीन्द्रियत्वे%पीन्द्रियाणां ममेदं चक्षुः, अहं चक्षुष्मान् पश्यामीति प्रत्यक्षवदवभासश्चक्षुरादेः कदाचिच्चाक्षुषादिवृत्ति काले नानाचक्षुरादिवृत्ति प्रतिसन्धानवतश्चेतनस्येन्द्रियविषयसंस्कारप्राचुर्यप्रयुक्तः, तद्वदिन्द्रियावस्थारूपसुखदूःखपरामर्शो%पि प्रत्यक्षसमानाकारस्तदभ्यासबाहुल्यादित्यर्थः । अत्र निदर्शनं मनोवस्थे ति । अनुमेयमनोवादिनः बुद्धिव्यतिरिक्तं मनो%नुमानेन साधयन्तः । कामसङ्कल्पादीनां मनोवृत्तिरूपत्वं कामःसङ्कल्पः- सर्वं मन एवे ति श्रुत्याप्रतीयते । तेषां च

प्रत्यक्षत्वावभासः तद्विषयानुभावाभ्यासप्राचुर्यादेवेति वक्तव्यं यथा अनुमेयमनोवादिभिः, तथेति भावः ।

सुखदुःखयोरात्माभिन्नत्वम्, आत्मन आगन्तुकधर्मरूपत्वं च मतभेदेन प्रसिद्धमनुवदति यस्तुसुगते ति । अत्रा%ह ताभ्या मिति। चतुर्थीद्विवचनम् । बौद्धप्रक्रियया काणादप्रक्रियया वा क्षणिकात्मानन्यत्वं, नित्यस्यात्मन आगन्तुकधर्मरूपत्वं वा मन्यमानाभ्यां न्यायतत्त्वशास्त्रस्थं सुखदुःखाधिकरणम्, एतत्प्रकरणस्थं स्वतः सुखित्वविचारं वा प्रकीर्तयेदित्यर्थः । ननु सुखदुःखयोः मानसप्रत्यक्षत्वे विवादे%पि रागद्वेषावेव निदर्शने भविष्यत इत्यत्राह सुखे ति । सुखत्वप्रयुक्तं विषयीकरणमुपादेयताप्रकाशनं यतः तज्ज्ञानमेव रागः सुखगोचरोपादेयताबुद्धिलक्षण इति यावत् । तस्य सुखस्य विरोध उपघातो येन तद्गोचरत्याज्यताप्रकाशकज्ञानमेव च द्वेषः । तयोश्च ज्ञानवदेव प्रकाश इति नं साध्यान्वय इति भावः । शोकभययोरपि न निदर्श

नत्वं सम्भवतीत्याह भूते ति । तच्चलनमिति मुद्रितपाठस्तु न साधुः । अतीतदुःखानुसन्धानप्रयुक्तश्चित्तविक्षोभः शोकः । आगामिदुःखहेतुपरामर्शाधीनश्चित्तसङ्क्षोभश्च भयम् । तयोश्चान्तःकरणधर्मत्वादेव न प्रत्यक्षत्वमिति दृष्टान्तत्वायोग इति भावः ।

आत्मनो मानसप्रत्यक्षत्वे साधकस्यासम्भवमुक्त्वा बाधकमप्याह एकस्ये ति । एकस्यैकदैवैकक्रियायां कर्तृकर्मभावासम्भवलक्षणो विरोधो%त्र विवक्षितः । उक्तविरोधपरिहारायात्मनि अंशभेदाश्रयणेदोषमाह अशंभेदे ति । ग्राहकात्मांशान्तरस्यापि प्रमाणसिद्धत्वावश्यम्भावेन तद्ग्राहकाशान्तरमेष्टव्यम्, एवमुपर्युपरीत्यनवस्थेत्यर्थः । कदाचिदेकांशेनान्यांशग्रहणम्, अन्यदा चांशान्तरेणैतदंशग्रहणमिति कालभेदेनोपपत्तेर्नानवस्थेति चेत्तत्राप्याह सङ्घातत्वं चे ति । आत्मनो निरंशत्वविरुद्धं च सांशत्वमेवं सति प्रसज्यत इत्यर्थः । सांशत्वे चानित्यत्वादि आपादनीयम् । अत्रेदं बोध्यम्-गुरुर्ज्ञातुरात्मनो ज्ञानविषयत्वं नानुमन्यते । किन्तु विषयज्ञानकालेषु ज्ञातृत्वबलात्प्रकाशमात्रं मनुते । ज्ञानस्यापि तथैवेति ।

एवं प्राभाकरेण दूषिते स्वपक्षे भाट्टस्तन्मतमपि दूषयति ननु चे ति । श्रुत्येत्यनन्तरं तन्न, सतु इति पूरणीयम् । अत्र न च ग्राहकाभास इति पाठः सम्भाव्यते । श्रुत्येत्यनन्तरं सिद्ध्यती ति शेषः । स्वसिद्धान्तेत्यतः पूर्वं स तु इति योज्यम् । स्वसिद्धान्ताभिनिवेशवशीकृतचेतसामभिमानमूलको ग्राहकावभासवादो न श्रुतिप्रमाणेन सिध्यतीति भावः । ग्राहकावभासो नाम सर्वज्ञानेष्वाश्रयतया%%त्मनः स्फुरणम् । श्रुत्या%स्या%सिद्धौ हेतुमनुभवविरोधमभिप्रेत्या%नुभवप्रकारमाह इन्द्रियादी ति । अनुभवविरुद्धं हि न श्रुतिः प्रतिपादयेदिति हार्दम् । श्रुत्येत्यत्रान्यथा पाठः स्याद्वा । स्वसिद्धान्ताभिमानिभिः प्राभाकरैरभिहितो ग्राहकावभासो न मन्तव्यः प्रतीतिविरोधात् । प्रतीतिर्हितत्तत्पदार्थमात्रं प्रकाशयतीति समुदिताशयः । ननु घटादिप्रत्यक्षेग्राहकाभासाभावे घटमहं पश्यामीत्याद्यनुभवः कथम्? तत्रा%ह तादृशो%पी त्यादिवाक्यद्वयेन । यस्य यद्विषये ज्ञानं जातं तस्यैव सो%र्थः प्रकाशत इति प्राकट्यस्या%%त्मप्रतियोगिकत्वमर्थधर्मस्य । तल्लिङ्गकं ज्ञानानुमानमेव च कादाचित्कम् । ततश्चानुमितज्ञानोपरक्तात्ममानसरूपो निरुक्तानुभवश्च कादाचित्क एव, नायं घटचाक्षुषरूपः । येन विषयवित्तिषु प्रकाशेता%%त्मेति भावः । अत्र च मानसप्रत्यक्षे ज्ञानवत्त्वेन विषयत्वं देहादिमत्तया चाश्रयत्वमिति कर्मकर्तृविरोधपरिहारो%भिमतो भाट्टानाम् ।

अत्र प्राभाकरस्य प्रत्यवस्थानम् उच्यत इत्यादिना । स्वानुभवएवे ति । ज्ञाने जाते

तद्वत्त्वेनात्मोपलम्भो%प्यनुभवसिद्धः । तत्रैव विभ्रमो नास्तिताभ्रम इत्यर्थः । स्वानुभवमप्यजानतः परीक्षकत्वं शोभनमित्युपालम्भः । विषयवेदनकाले ज्ञानस्य ज्ञातुश्चावभासाभावे दोषं पूर्वोक्तं स्मारयति उक्त मित्यादिना । ज्ञानस्या प्रकाशाभावे ज्ञायते न वेतिसंशयादिप्रसङ्गः । ज्ञातुः प्रकाशाभावे मम ज्ञायते%न्यस्य वेति संशयादिप्रसङ्ग इति भावः । सो%य मिति । संचेतितम्-ज्ञातम् । अतिशयः-स्वात्मने प्रकाशमानत्वलक्षणो%नुभूयमानः । अनुमिते ति । जानामीत्यादिप्रतीतेर्ज्ञाततालिङ्गानुमितज्ञानोपनीतभानात्मकात्ममानसप्रत्यक्षरूपत्वे%तीतज्ञानालम्बनत्वादज्ञासिषमित्येवाभिलापः स्यात्, न तु जानामीति ज्ञाने वर्तमानत्वोल्लेख इत्यर्थः । नन्वतिशैघ्र्यात् क्षणभेदाग्रहनिबन्धनो वर्तमानत्वांशे भ्रमलक्षणो जानामीति प्रत्यय इति शङ्कायां तन्मते दूषणान्तरमपि संस्फोरयति ज्ञाने ति । स्वज्ञानव्यवहारहेतुकमेव स्वज्ञानानुमानमिति न सम्भवतीत्युक्तमेव प्राक् । ज्ञाततालिङ्गकमपि ज्ञानानुमानं ज्ञानेन ज्ञातताया अविनाभावग्रहासम्भवाज्ज्ञानसामग्र्यैवान्यथासिद्धत्वाच्च ज्ञातताया दुःस्थमेवेति हार्दम् । विषयज्ञान एव ज्ञातुः प्रकाशं साधयितुं तस्य मानसप्रत्यक्षं च निरस्यति
मानसे ति । आत्मन इत्यादिः । मानसप्रत्यक्षत्वमित्यत्र बहुव्रीहेः त्वप्रत्ययः ।

आत्मग्राह्यत्वं धियः स्वयंप्रकाशत्वम् । तच्च ज्ञानस्य मानसप्रत्यक्षानुमानायोगप्रतिपादनात् सिद्धम् । आत्मनो मानसप्रत्यक्षत्वं च व्यभिचारात्साधकत्वाभिमतस्य निरस्तं साधकाभावादित्यर्थः । धीनिरस्तम्-व्यभिचारनिरूपिकया धिया निरस्तम् । व्यभितारनिरूपकत्वोपपादकमात्मग्राह्येति धीविशेषणम् । अत्रा%%त्मग्राह्यधीव्यभिचारनिरस्तमिति वा अन्यथा वा मूलपाठः सम्भाव्यते । एवं ग्रहग्राहकयोः प्रकारान्तरेण भानासम्भवमुपपाद्य तदनवभासे विषयवित्तौ पूर्वोक्तातिशयासम्भवं निगमयति तथासती ति । अनतिशयः-अविशेषः । स्वस्मै ज्ञायमानत्वेन भानमभानं चार्थस्येति वैलक्षण्यस्य विरहः स्वपरवेद्ययोः प्रसज्यते विषयवित्तौ ज्ञानज्ञात्रोरभाने हीत्यर्थः ।

भाट्टः प्रतिक्षिपति ननु कथ मिति । स्वस्मै भासमानत्वरूपो विशेषो%र्थस्य तज्ज्ञानस्य स्वनिष्ठत्वादेव घटते तज्ज्ञाने स्वस्या%भाने%पि । विषयबोधाश्रयत्वमेव स्वस्यातिशयो%पूर्वो विषयवित्तिकाल इति च भावः । नच वित्तिवेदित्रोरग्रहे पूर्वोक्तः संशयस्तदवस्थ इति वाच्यम्। स्वज्ञानजार्थधर्मप्रकाशस्य स्वं प्रति प्रत्यक्षत्वादेव मम प्रकाशते न वेति संशयस्यानवकाशात् । ज्ञानफलप्रकाशेन झटित्येव ज्ञानस्यानुमानाच्च मम ज्ञानं जातमन्यस्य वेत्यादेरप्यप्रसक्तेः । नैयायिकप्रक्रियया तु कार्यनाश्यत्वाज्ज्ञानस्य द्विक्षणावस्थायित्वादनुव्यवसायबलादेव

न निरुक्तसंशयादिप्रसङ्गो ज्ञानज्ञात्रोरनवभासे%पि विषयवित्ताविति च बोध्यम् । आत्मनि बोधोदये आत्मप्रकाशस्य हेतुत्वं निरस्यति प्रसङ्गतः न चात्मे ति । ननु आत्मसिद्ध्यघटिता%पि विषयबोधसामग्र्येवात्मप्रकाशे%पि हेतुरस्त्वित्यत्राह न च विषये ति । इन्द्रियार्थसन्निकर्षार्थयोग्यतादिघटिता विषयबोधसामग्री नायोग्यात्मबोधे%पि समर्थेत्यर्थः । अतिप्रसङ्गात्-पटबोधसामग्र्या घटादिबोधप्रसङ्गात् । विषयबोधे बोधस्याप्यप्रकाश इत्याह अपि चे ति । मानाधीना हि मेयसिद्धिः । तत् पदार्थानां जातिगुणादिविशेषव्यवस्था यदधीना तदपि संवेदनं विषयप्रकाशकाले%प्रकाशमानस्वरूपं स्वरूपसदेव चक्षुरादिवदित्यर्थः । स्वरूपसज्ज्ञानेनैव विषयविशेषसिद्धिवत् स्वरूपसज्ज्ञात्रैव स्ववेद्यविषयातिशयसिद्धिरिति भावः । प्राभाकराणां मतमनुवदति यदाहु रित्यादिना । सार्वत्रिकः-प्रत्यक्षानुमानादिसर्वविषयज्ञानव्यापी । तत्प्रतिक्षिपति तदपी ति । अनुभवानारूढमिति साधकाभाव उक्तः, अनन्तरमेव प्रतिक्षिप्तमिति च बाधकम् ।

ज्ञानस्यैवायं स्वभावः-यत् स्वविषयस्येव स्वस्वाश्रयप्रकाशहेतुत्वमपीति पुनः प्राभाकरः शङ्कते अस्तु तर्ही ति । ग्राहकतयैव-ज्ञानाश्रयतयैव । विषयबोधसामग्र्या विषयज्ञानमेव जातम् । तच्च ज्ञानं स्वसामर्थ्यादेव अविषयमपि स्वं स्वाश्रयं च प्रकाशयतीति भावः । ज्ञानस्य स्वयंप्रकाशत्वं तावत्साधयति अभ्युपगन्तव्ये ति । सर्वप्रकारे ति । मानसप्रत्यक्षस्य ज्ञाततादिलिङ्गकानुमानस्य च निराकरणादित्यर्थः । कदाचि दिति । विद्यमानत्वे प्रकाशमानत्वनियमाच्चेत्यर्थः । प्रपञ्चित पिति । न्यायतत्त्वशास्त्रे इति शेषः । नात्रे त्यादि । प्रकाशव्यभिचारित्वमतमुपक्षिप्य ज्ञानस्य तत् नात्र निराकरणीयमित्यर्थः । एवं स्वप्रकाशत्वमुक्त्वा ज्ञानस्य विषयप्रकाशहेतुत्वं च साधयति सतो%पी ति । सतो%पि विषयस्य स्वापे%प्रकाशो ज्ञाननिवृत्त्येति ज्ञानस्य विषयप्रकाशकत्वसिद्धिरिति भावः । अत इति । परप्रकाशकत्वेनैष्टव्यायाः संविद एव प्रमात्रवभासकत्वमपि युक्तमिति नात्मनः स्वयंप्रकाशत्वमपि कल्पनीयमिति भावः ।

स्वापे%प्यात्मनो ज्ञानमस्तीति मतमनूद्य खण्डयति यत्तु इति । त दिति । सुखमहमस्वाप्समित्यादिप्रतिसन्धानस्य स्वापे आत्मप्रकाशमन्तरा%नुपपद्यमानत्वलक्षणयुक्तियुक्तमपि स्वपो आत्मनः प्रकाशमानत्वं नानुभवमात्रशरणानां हृद्यं भवतीत्यर्थः । उपपद्यमानमपीत्यपिनोपपत्तिरपि नैव । प्रतिसन्धानस्या%न्यथैवोपपत्तेरिति स्फोर्यते । अन्यथासिद्धिरग्रे प्रपञ्चयिष्यते

मूल एव ।

अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि ।

नित्यत्वे नित्यमुक्तिः स्यादर्थवादास्तथोक्तयः ।।18।।

निर्धूतनिखिलकरणकलेवरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किञ्चित् सम्भाव्यते । नच मनसो नित्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम्; स्वरूपतो गगनवत् नित्यस्यापि सतस्तस्येन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माधर्मावरोधनिबन्धनत्वात् ।

स्वाप आत्मनः प्रकाशं निषिध्य मुक्तावपि तं निषेधति अपवृक्तस्ये ति । अपवृक्तस्य-मुक्तस्य । मुक्तज्ञानस्य नित्यत्वमस्त्विति चेत्तत्राह नित्यत्वे इति । संसरणाभावप्रसङ्गः फलितो%त्र । ननु तर्हि मुक्तौ सार्वज्ञ्यपरश्रुतीनां का गतिः? तत्राह अर्थवादा इति । अज्ञानाकार्याभावनिमित्तका मोक्षसाधनप्रशंसापराः सार्वज्ञ्यादिश्रुतय इत्यर्थः ।।18।।

श्लोकार्थमेव प्रपञ्चयति निर्धूते त्यादिना । ज्ञानवासना, कर्मवासना चा%नुबन्धः । निरस्तसमस्तदेहेन्द्रियवासनानुबन्धस्येत्यर्थः । स्वपरे ति । स्वस्वरूपविषयकस्या%र्थान्तरविषयकस्य वा ज्ञानस्योत्पादकमित्यर्थः । धर्माधर्मे ति । अदृष्टसहकाराधीनत्वादित्यर्थः ।

धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनम् ।

सति नित्येन्द्रियत्वे%पि श्रोत्रवत् करणत्वतः ।।19।।

नच योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम; "क्षीयन्ते चास्य कर्माणि" "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः" इत्यादिशुक्लेतरसकलकर्मप्रक्षयश्रुतिविरोधात् । धर्मफलत्वे चापवर्गस्य पुनरावृत्तिप्रसङ्गः । "नास्त्यकृतः कृतेन" "तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते" इत्यादिश्रवणाच्च । न चात्मसत्तयैव तदानीं तज्ज्ञाननिमित्तमिति वाच्यम् । क्लप्तत्यागाक्लप्तकल्पनप्रसक्तेः । तन्मात्रनिमित्तत्वे च सर्वदा आत्मस्वरूपवत्तदपि विद्यत इति संसारानवतारप्रसङ्गात्, बन्धमोक्षावस्थयोरविशेषापत्तेश्च । न च देहेन्द्रियादिप्रतिबद्धतया इदानीं तदभाव इति वाच्यम् । तत् खलु प्रतिबन्धकम्, यत् सति पुष्कलकारणे कार्योदयं निरुणद्धि । न चाद्याप्यात्मनः तत्पुष्कलकारणत्वं सिद्धम्; शरीरेन्द्रियवतामेव ज्ञानदर्शनात् । क्लप्तज्ञानकारणभावस्य तस्यैव तद्बन्धकत्ववचनमुन्मत्तवचः । अतो नास्त्यपवर्गदशायां ज्ञानम् ।

तात्कालिकज्ञानसुखादिवादास्त्वात्मज्ञानविधिशेषतया गुणवादेन नेतव्याः । अतो विषयवित्तिसमय एवात्मसिद्धिनियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदितृतयैवात्मसिद्धिरिति ।

(इति विषयवित्तिकालेष्वेवात्मनो भानमिति गुरुमतोपपादनम्)

इदमप्यात्मतत्त्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः । विषयवित्तिर्हि विषयवित्तिरेव । न हि तया आत्मवित्तिः स्वरूपं वा सेद्धुमर्हति, अतद्विषयत्वात् । यो हि यत्संविद्विषयो न भवति, नासौ तया सिध्यति रूपसंविदेवरसः । अविषयौ च विषयवित्तेर्बुद्धिबोद्धाराविति तावपि न तया सिध्यतः ।

ननु वेद्यस्वभावो%यम्, यत्स्वविषयसंविदा सिध्यतीति । वित्तिस्तु वित्तिरेव, वेदिता च वेदितैवेति कुतस्तयोर्वेद्यस्वभावानुप्रवेशः । उक्तं हि तयोर्मानसप्रत्यक्षगोचरत्वम्, अनुमेयत्वासम्भवश्च । कुतस्तर्हि वित्तिसिद्धिः? स्वत एव । स्वयंप्रकाशा हि संवित् ।

मैवम् । सा%पि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतःसिध्यति । स्वतःसिध्यन्ती च सा किमिति कञ्चिदेव प्रति चकास्ति, न सर्वान् प्रति । तत्समवायादिति चेत्-यत्समवायिनी हि या संवित् तस्यैव सा चकास्ति, नेतरस्य, तदसमवायादिति; यद्येवम्, आश्रितस्तर्हि आत्मसंबन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधिनात् । यद्युच्येत-प्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय इति; कुतः खल्वयं निश्चयः? यदि हि प्रतियोगिनिरपेक्षैव कदाचिदात्मस्वरूपमिव संवित् प्रकाशेत, तत एवमध्यवस्येमापि । न च तथास्ति । आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वादेरिव तस्याः स्वरूपसत्तेति न पृथक्सिद्ध्युत्प्रेक्षावकाशः । सत्याः संविदः प्रकाशव्यभिचाराभावात् स्वरूपप्रयुक्तः प्रकाश इति चेत्, सत्याः किं तस्या आत्मसंबन्धव्यभिचारो%स्ति? । अपि चैवं सुखदुःखादयो%पि त्वन्मते स्वतःसिद्धाःस्युः । न हि ते%पि सन्तो न प्रकाशन्ते ।

अथार्थान्तरसाधकतया सर्ववादिसंमतायाः संविद एव परं स्वयंप्रकाशत्वमाश्रितम् । तयैव तथाभूतया तदितरबाह्याभ्यन्तरसकलपदार्थसिद्ध्युपपत्तेः किमनेकस्व

यंप्रकाशभावाभ्युपगमेनेति भावः?

एतदेवोपपादयति धर्माधर्मे तिकारिकया । धर्माधर्मावरूद्धम्-पुण्यपापलक्षणादृष्टनिबन्धनोपकरणत्वावस्थाविशिष्टम् । श्रोत्रव दिति । कर्णशष्कुल्यवच्छिन्नाकाशस्यैव श्रोत्रत्वम् । तस्य चादृष्टसहकारे सत्येव शब्दग्रहकरणत्वम्, न तद्विरहे इति यथा%दृष्टनिबन्धनः श्रोत्रस्येन्द्रिय भावः तथेति यावत् । तथा चादृष्टविरहान्मुक्तौ मनसो नेन्द्रियत्वमिति भावः ।।19।।

शङ्कते न च योगजे ति । मनस्संयोगस्य योगजधर्मानुगृहीतत्वम्-योगजधर्मसहकृतत्वम् । योगजधर्मप्रभावान्मुक्तावपि मनस इन्द्रियभावो%नुवर्तत इति मानसमात्मज्ञानं तदा सम्भवतीति भावः । मुक्तौ योगजधर्मानुवृत्तौ श्रुतिविरोधमाह क्षीयन्ते इति । शुक्लेतरेति । पुण्यपापरूपेत्यर्थः । ननु

श्रुतेर्योगजधर्मव्यतिरिक्तसकलकर्मनिवृत्त्यभिप्रायकत्वमिति चेत्तत्राह धर्मफलत्वे चे ति । मोक्षकाले ज्ञानस्यात्मविषयकस्य सर्वविषयकस्य वा धर्मजन्यत्वे जन्यभावस्य विनाशित्वनियमात्पुनरज्ञानादिप्रसङ्ग इत्यर्थः । कर्मफलस्यानित्यत्वे श्रुतिमुदाहरति नास्त्यकृत इति । ननु मोक्ष आत्मैव ज्ञानहेतुरस्तु । तत्राह न चात्मे ति । आत्मा सत्तयैव मूलपाठः स्याद्वा । क्लृप्ते ति । ज्ञानकारणतया%भिमतस्येन्द्रियादेः त्यागः, अक्लृप्तस्यैव केवलस्यात्मनः ज्ञानकारणत्वेन कल्पनं च प्रसज्यत इत्यर्थः । दोषान्तरमप्याह तन्मात्रे ति । आत्मस्वरूपमात्रनिमित्तत्वे मुक्तिकालीनस्य ज्ञानस्य सर्वदैव तत् भवेदिति संसारानवतारप्रसङ्गः, ज्ञानस्याज्ञानतन्मूलसंसरणप्रतिबन्धकत्वादिति भावः । विशदतत्त्वसाक्षात्काररूपज्ञानभावे%पि संसारोपगमे च दोषमाह बन्धे ति । मुक्तिकालज्ञानस्य संसारकाले%पि सत्त्वे संसारापेक्षया मोक्षे वैलक्षण्यं न स्यादित्यर्थः । ननु दुःखध्वंसादिरेव मोक्षेविशेष इति चेत्, तर्हि तावन्मात्रमेव भवेन्मोक्ष इति कृतं ज्ञानादिना%पार्थेनेति भावः । आत्मनो मुक्तिकालीनज्ञाने हेतुभूतस्य नित्यत्वे%पि न संसारे तत्प्रसङ्गः । देहादेः प्रतिबन्धकत्वादिति शङ्कते न चे ति । परिहरति तत् खलु इति । प्रतिबन्धकत्वस्यासम्भवमुपपाद्य तत्र विरोधमप्याह क्लृप्तज्ञाने ति । तस्यैव-देहेन्द्रियादेरेव । अर्थवादास्तथोक्तय इत्युक्तं विवृणोति तात्कालिके ति । दुःखनिवृत्तिपरा मुक्तौ सुखवादाः, ज्ञानप्रागभावनास्तिता%भिप्रायकाश्च ज्ञानवादाः । ते चात्मज्ञानप्रशंसामात्रपरास्तद्विधिशेषभूता एवेत्यर्थः । प्राभाकरमतोपसंहारः अत इति । यथोक्तनीत्या-विषयप्रकाशकस्य ज्ञानस्यैव स्वस्वाश्रयप्रकाशकत्वं न्याय्यमित्युक्तनीत्या ।

प्राभाकरमतं प्रतिक्षिपति सिद्धान्ती इदमप्यात्मे त्यादिना । आत्मतत्त्वाज्ञानकार्या

आत्मप्रकारेष्वयथाप्रतिपत्तिभेदा येषां, तेषामिदं निरर्थकं वचनमित्यर्थः । कथं निरर्थकत्वं गुरुक्तेः? तत्राह विषये ति । न ही ति । आत्मवित्तिः-आत्मधर्मभूतं ज्ञानम् । स्वरूपम्-आत्मस्वरूपम् । अत्र आत्मा वित्तिस्वरूपं वा इति पाठः स्याद्वा । सेद्धुम्-प्रकाशितुम् । अतद्विषयत्वात्-विषयवित्तिविषयत्वाभावात्तयोः ।

अविषययोरपि ज्ञानज्ञात्रोर्ज्ञानबलत एव सिद्धिरिति शङ्कते गुरुः ननु वेद्ये ति । वित्तिरेव, न तु वित्तिविषयः, विषयवज्जडा वा । वेदितैव, न तु वेद्यः, वेद्यवदज्ञाता वा । तथा च विलक्षणस्वभावत्वाद्भावानामविषययोरपि तयोः सिद्धिर्ज्ञावबलतः सेत्स्यतीत्यविषयत्वेनासिद्धिर्विषयवत्तयोर्दुर्भणमिति भावः । ननु ज्ञानान्तरविषयत्वेनैव तयोः प्रकाशो%स्त्वित्यत्राह उक्तं ही ति । स्वबलत एव वित्तेः सिदिं्ध शङ्कासमाधानमुखेनाह कुत इति । स्वत एवे ति । विषयज्ञानकाले%विषयस्यापि तस्य ज्ञानस्य प्रकाशो भवतीत्यनायत्या स्वीकरणीयम्, तदाश्रयत्वेनात्मनश्चेति हार्दम् ।

तत्र स्वप्रकाशत्वमाक्षिपति गुरूक्तं संविदः सिद्धान्ती मैव मित्यादिना । स्वाश्रयात्माधीनप्रकाशत्वादेव तस्मा एव प्रकाशमानत्वं संविदो घटत इति स्वतःसिद्धत्वासिद्धिरिति भावः। अत्र परः परिहारं शङ्कते तत्समवायादिति चे दिति । स्वयमेव स्वोकिं्त विवृणोति यत्समवायिनी ति । स्वयंप्रकाशा%पि संविदात्मापृथक्सिद्धत्वादात्मन एव प्रकाशत इति भावः । प्रतिक्षिपत्याक्षेप्ता यद्येव मिति । तद्भावे ति । आत्मसंबन्धान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकत्वात्संवित्प्रकाशस्या%%त्मसंबन्धहेतुकत्वं सिध्यतीत्यर्थः । पुनः परः शङ्कते यद्युच्येते ति । प्रतियोगी-विषयः, स एव विशेषः-विशेषणम्, तदवच्छेदायैव-तत्संबन्धायैव, विषयप्रकाशकत्वायैवेति यावत् । तदपेक्षा-आत्मसंबन्धापेक्षा। न तु स्वप्रकाशायेत्यर्थः । परिहरति कुतः । एवं निश्चयो न संभवतीति यावत् । निश्चयासंभवमेवोपपादयति यदि ही ति । प्रतियोगिनिरपेक्षैव विषयनिरपेक्षैव । एवम्-विषयप्रकाशनायैवात्मसंबन्धापेक्षा संविदो न स्वप्रकाशं प्रतीत्येवम् । न च तथे ति । विषयप्रकाशकाल एव स्वाश्रयायैव प्रकाशमानायाः संविदः स्वप्रकाशे विषयात्मसंबन्धसापेक्षत्वमेषितव्यमिति भावः । अतीतादिविषयज्ञाने%पि विषयेण संबन्धो ज्ञानस्य विषयविषयिभावलक्षणो विलक्षणः स्वरूपसंबन्धविशेषो%स्त्येवेति हार्दम् । ननु निर्विषया निराश्रया च संवित् । अन्तःकरणतद्वृत्त्युपधानौपाधिकं केवलं तस्याः साश्रयत्वादिप्रतीतिमात्रमित्यत्राह आश्रये ति । भूतले घटसंयोगस्याश्रयो भूतलम्, प्रतियोगी

घटः । पुत्रत्वस्या%%श्रयः पुत्रः, प्रतियोगी पिता । ज्ञानस्य प्रतियोगी विषयः, आत्मा%%श्रयः । सिद्धिः-स्थितिः प्रकाशश्च । निर्विषयत्वेन निराश्रयत्वेन च स्थितिः प्रकाशो वा संविदो नास्त्येव । संविन्मात्रानुभवश्चानुपलम्भबाधितः । तथा च संवित्प्रकाशे आत्मसंबन्धापेक्षा%पि दुर्वारैवेति भावः । स्वसत्ताव्यापकप्रकाशत्वेन स्वप्रकाशत्वं स्यात्संविद इति पुनः शङ्कते सत्या इति । परिहरति सत्या इति । तदा चात्मसम्बन्धस्य नियतपूर्वभावित्वादपेक्षितत्वाच्च संवित्प्रकाशे हेतुत्वमेष्टव्यमेवेति भावः । निरुक्तहेतुना स्वयंप्रकाशत्वसाधने दोषं चाह अपि चैव मिति सुखादिष्वनैकान्त्यं हेतोरिति भावः ।

तथा सति-

सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः ।

आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ।।20।।

किंच- यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी ।

अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ।।21।।

सन्तु नामार्थवित्तयः स्वतःसिद्धाः,तथापि न ताभिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् । यत्साक्षी खल्वयं पुरुषः, न तेनासौ प्रत्यक्षः, घटसाक्षात्कारीव घटेन । अर्थसंविदां च साक्षात्कारी चेतन इति सो%पि न ताभिरपरोक्षीभवति ।

(इति सिद्धान्तिना गुरुमतखण्डनम्)

ननु विषयसंबन्धस्येवात्मसंबन्धस्यापि संवित्प्रकाशे%स्तु हेतुत्वम् । तावता न स्वयंप्रकाशत्वस्य हानिः । स्वसजातीयज्ञानान्तरानपेक्षप्रकाशत्वात्तत्सिद्धेः । आत्मनस्तु न स्वयंप्रकाशत्वमेष्टव्यं विषयस्येव । किन्तु बाह्यार्थप्रकाशकत्वेनेष्टस्य ज्ञानस्यैवा%%त्मप्रकाशकत्वमपि कल्पनीयं लाघवादिति पुनः शङ्कते गुरुः अथार्थान्तरे ति । परिहरति तथासती ति ।

सर्वस्ये ति । नानास्वयंप्रकाशकल्पनायां गौरवे सति सर्वार्थानां सर्वज्ञानानां च साक्षात्कर्तुरात्मन एव स्वप्रकाशत्वं कल्पनीयम् । नतु ज्ञानानामित्यर्थः । विषयाणामिव ज्ञानानामप्यात्मने प्रकाशमानत्वादात्मैकः स्वप्रकाशो भवतु । अन्ये सर्वे भवन्तु तदधीनप्रकाशा एवेति भावः ।।20।।

एवं संविदोप्यात्मायत्तप्रकाशत्वान्न मुख्यं स्वप्रकाशत्वमित्युक्तम् । ज्ञानान्तरानपेक्षप्रकाशत्वेन भवतु नाम ज्ञानस्य तत्कथञ्चित् । अथापि न ज्ञानाधीनप्रकाश आत्मेत्याह-

किञ्चे ति । यो यस्ये ति । साक्षीद्रष्टा, प्रकाशकः । सिद्धिः प्रकाशः । न लौकिकी-नानुभवसिद्धा । लक्ष्यते-दृश्यते ।।21।।

श्लोकं व्याख्याति स्वयमेव सन्तु नामे ति । उक्तनीत्या संवित्त आत्मप्रकाशानुपपत्तेस्स्वयंप्रकाशत्वमात्मन एष्टव्यमेवेति भावः ।

सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः ।

सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ।।22।।

न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थान्तरापेक्षो दृष्टः । न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीयमालोकादि । एवमालोको%पि प्रकाशमानो नालोकान्तरमपेक्षते; नापि स्वापेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियम् । एवमिन्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वा%पेक्षते; अपेक्षते तु विजातीयं संवेदनम् । एवं संवेदनमपि संविदन्तरं स्वाधीनसिद्धिकमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ; अपेक्षते तु विजातीयं स्वाश्रयभूतं स्वतन्त्रमात्मानम् । एवमात्मा%प्यात्मान्तरं स्वाधीनसिद्धि संविदिन्द्रियादिकमपि स्वापरोक्षे नापेक्षत इत्यनन्यापेक्षा ह्यात्मस्वरूपसिद्धिः ।

(इति सिद्धान्तिना%%त्मनः स्वप्रकाशत्वसमर्थनम्)

संविदधीनप्रकाशत्वे बाधकमुक्त्वा%%त्मनः स्वप्रकाशत्वे साधकमप्याह सजातीये ति । सर्वे हि प्रकाशमानाः पदार्थाः सजातीयंस्वात्यन्तसजातीयम्, स्वसाध्यं-स्वाधीनप्रकाशं चार्थमनपेक्ष्यैव प्रकाशमाना इति आत्मा%पि प्रकाशमान आत्मान्तरं स्वापेक्षप्रकाशं ज्ञानादिचानपेक्ष्यैव प्रकाशत इत्यनुमन्तव्यम् । तथाच स्वयंप्रकाशत्वं तस्य फलतीति भावः ।।22।।

श्लोकार्थस्य प्रपञ्चनं नहि कश्चि दित्यादि । अत्रायं निष्कर्षः- स्वविषयकज्ञानान्तरानपेक्षप्रकाशत्वलक्षणं स्वयंप्रकाशत्वं ज्ञानात्मनोः समानम् । स्वेतरसकलनिरपेक्षप्रकाशत्वलक्षणं तु तदात्मस्वरूपस्यैवेति ।

अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः ।

स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ।।24।।

चैतन्याश्रयतां मुक्त्वा स्वरूपं नान्यदात्मनः ।

यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ।।25।।

चितिशक्तया न चात्मत्वं मुक्तौ नाशप्रसङ्गतः ।

(बोधेनैवान्यतो भेदे व्यर्था तच्छक्तिकल्पना) ।।26।।

बुद्धिसुखदुःखादिनिःशेषवैशेषिकात्मगुणात्यन्तिकोपरमलक्षणो हि मोक्षःकणभक्षाक्षचरणमते । न चात्यन्तलुप्तकार्यं वस्तु तत्कार्यजननशक्तमित्यत्र किंचित्प्रमाणं क्रमते । देहादिविशिष्टसंबन्धितया दृश्यमानसुखदुःखज्ञानादिकार्यं विशिष्टवर्तिनीमेवात्मोत्पादशकिं्त कल्पयति, धूम इवार्द्रेन्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम्, व्रीह्यङ्कुर इव च सतुषतण्डुले । अपि च बोधे सत्येवात्मनो%नात्मव्यवच्छेदे संभवति कृतं तच्छक्तयाश्रयणेन ।

न चैवं सति बोध एव परमात्मेति युक्तम्, तस्या%%श्रयप्रतियोगिसापेक्षस्वरूपत्वादात्मनश्च तद्विपरीतस्वभावत्वात्; साक्षाच्च चेतयितुरहमर्थस्य स्फुरणात्; अनुभवतर्कागमबलेन चितिमत आत्मभावस्यानन्तरमेव प्रपञ्चितत्वाच्च । नच चितिमात्रात्मवादे%पि तस्यागन्तुकविषयसंबन्धे बोधत्वमध्यारोप्य बोद्धृत्वसमर्थनं साधीयः, संबन्धस्योभयनिष्ठतया%र्थस्यापि बोद्धृत्वप्रसङ्गात् । न च कार्यकारणभाववद्व्यवस्थित्वम्, तत्र जनिमतो जनयितुश्च परस्परापेक्षानियमलक्षणसंबन्धः । इहापि स एवेति चेन्न, अपेक्षाहेत्वभावात् । किमर्थमर्थः चैतन्यमपेक्षते, चैतन्यं वा%र्थम् । सिद्ध्यर्थमिति चेत्, कः सिद्ध्यर्थः? न तावदुत्पत्तिः, तस्या निर्ज्ञातनिमित्तान्तरत्वात् । घटादयो हि प्रसिद्धमृद्दण्डचक्रभ्रमणादिपर्याप्तनिमित्तान्तर शालिनो न चितिमपि निजजनने%पेक्षन्ते । निरस्तश्च विज्ञानमात्रवादः । नित्यस्यात्मन उत्पत्त्यर्थमर्थापेक्षेति सुव्याहृतम् । सिद्धिः प्रकाश इति चेत्; किं भोः आत्मा स्वयंज्योतिरप्यर्थाधीनप्रकाशः? यदसौ तदर्थमर्थमपेक्षते । महनीयमिदमात्मवेदित्वम् । प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मः संभवतीत्यावेदितम् । संभवन्नप्यसौ न चितिस्वरूपमात्रनिमित्तः, सर्वदा सर्वार्थप्रकाशप्रसङ्गात् । न हि सदा संनिहितसमग्रकारणं कार्यं कदाचिद्भवति । आगन्तुकातिशयाश्रयणे वा नामान्त

रेण ज्ञानमेवाङ्गीकृतमिति तद्वानेवात्मा%%यातः ।

(इति धर्मभूतज्ञानस्य नित्यत्वसाधनम्)

नन्वेवमर्थसिद्धिव्यवस्थापकतया%भ्युपगतं ज्ञानमागन्तुकं क्रियारूपमिति कथं तदात्मस्वभावः ? । तथाहि-अर्थान्तरगतत्वे सति जनकद्रव्यान्तर प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशप्राप्त्यादिर्यं प्रत्यसाधारणः तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः । तादृशी चार्थसिद्धिर्यं पुरुषं प्रत्यसाधारणी तत्समवेततादृशक्रियाजन्येति शक्यमनुमातुम् । मैवम् । अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन क्षेत्रिणं प्रत्यसाधारणेन क्षेत्रजव्रीह्यादिस्वत्वेन चानैकान्त्यात् । नच निर्व्यापारतया क्षेत्रिणस्तत्राजनकत्वम्; व्यापारकालादिना व्यभिचारात्, तद्भावभावित्वस्य चाविशेषात् । तज्जीवनमेव तत्र जनकव्यापार इति चेत्, ननु तत् सस्यपालनादिसाधारणमिति कथमसाधारणक्रियाजन्यत्वम्? अपि चैवं सति तदेवार्थप्रकाशे%पि जनकव्यापारो%स्तु; किमक्लृप्तकल्पनया? । सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत्, स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? । व्रीह्यादिसत्ता%प्यपेक्ष्यत इति चेत्, इहापीन्द्रियादिप्रत्यासक्तिरिति समानश्चर्चः । अतो यं प्रत्यसाधारणो यथोदितधर्मः तदीयासाधारणधर्मनिमित्त इत्येतावत् । स चेष्यत एवात्मनश्चैतन्यं रवेरिव तेजस्वित्वम् ।

न च हेतुभेदानुविधायितया, जानाभ्यज्ञासिषमित्यादिकालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्यागन्तुकत्वमनुमेयम्; आदित्यप्रकाशेनानैकान्त्यात् । अस्ति हि तत्रापीमं देशमादित्यः प्रकाशयति प्राचीकशत् प्रकाशयिष्यतीति प्रतीतिः । स्वारसिकत्वे%प्यादित्यप्रकाशस्य प्रकाश्यदेशसंबन्धकादाचित्कतया अवच्छेदप्रतीतिरुपपद्यत इति चेत्; इहापि तर्हीन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावो%नुभाव्यभेदः स्वाभाविकमात्मनश्चैतन्यगुणमवच्छिनत्तीति तदपेक्षयैवेन्द्रियाद्यनुविधानमतीतानागतप्रत्युत्पन्नत्वप्रत्ययप्रयोगौ चोपपद्यन्ते ।

कथं पुनरत्र निर्णयः, मणिद्युमणिप्रकाशादेरिवौपाधिको%यं भेदः, न तु गमनपचनादेरिव स्वाभाविक इति ?

ताद्रूप्येणैव प्रत्यक्षत्वात् । न हि जातुचिदद्रूपो%यमात्मा लोष्टादिवद्दष्टचरः । यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः,

मरुदिव स्पर्शगुणतयैवाध्यक्ष्यमाणः । यो यत्स्वभावो न भवति, न तद्विरहेणापि स्वरूपत उपलभ्यते, गमनादिरहिततयेव देवदत्तादिः ।

शरीरवदिति चेन्न, असिद्धत्वात् । स्यादेतत्-यथैव ख्ल्वस्वभावभूतेनापि शरीरेण सध्रीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येनापीति । तन्नैवम्, असिद्धत्वात् । न हि तनुविशिष्टतयैवायं चेतनः परिस्फुरति । योगिनां प्रणिहितमनसामुपरतबहिरिन्द्रियाणां च देहानुसन्धानविरहेणापि अहमिति स्फुटमनुभवात् । जानामीति प्रत्ययः शरीरवर्णसन्निवेशनिर्भासशून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचम् । कर्मानुगुण्येन सुरमनुजादिजातीयतया भिद्यमानास्वागमापायिनीषु तनुषु मनस इवैकस्य वर्ष्मणः स्वभावानुबन्धित्वेनाश्रयितुमशक्यत्वात् । लिङ्गस्य पुनरनुवृत्तावपि अप्रत्यक्षत्वान्न व्यभिचारित्वम् ।

(इति ज्ञानस्यात्मस्वभावत्वप्रतिष्ठापनम्)

बोधस्वाभाव्ये पुंसः स्वापमूर्च्छयोः प्रकाशप्रसङ्ग इति चेन्न, विकल्पासहत्वात् । तथाहि-प्रकाश इति पदार्थमात्रसाधारणं बोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वा%यं प्रसङ्गः, अथ बोधमेव, तदविप्रकर्षं वा ? । आद्ये तदभावादेव न प्रसङ्गः । अभावश्च प्रकटित एव संवित्स्वतस्सिद्धिसमर्थनसमये । भावे%पि तमःप्रतिबन्धादप्यनुदयः संभवी । इतरयोरभिमतमेवापादितमित्यदोषोद्भावनम् । बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावो%भिमत एवेति न हि तदापादनं दोषाय ।

अथ मतम्-स्वापादावपि स्वानुभवसद्भावे जागर इव व्यवहारप्रसङ्ग इति; मैवम्, व्यवहारागोचरत्वात् । कः खल्वात्मनि व्यवहारः? न ह्यसावादातुं हातुमुपेक्षितुं वा शक्यः । व्याहारः प्रसज्यत इति चेत्, किमङ्ग! निर्विकल्पकबालमूकादिवेदनविषयो व्यवह्नियत एव? करणपाटवव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत्, समानो%यं विधिरितरत्रापीति निरनुयोज्यानुयोगः ।

स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् ।यद्युच्येत-मूर्च्छादावात्मानुभवाभ्युपगमे%र्थान्तरानुभव इवैवमहमन्वभूवमिति परस्तात् स्मृतिः प्रसज्यत इति; तन्न, अवृतित्त्वात् । न हि मूर्च्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत्, येन

स्मृतिबीजं संस्कारमादधीयाताम् । किन्तूद्भूतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसांसिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः । न च बोधस्वभावत्वादेवास्य संस्काराधायकत्वम्, अनवरतोपचीयमानसंस्कारतया%निर्मोक्षप्रसङ्गात् । अनुभवे च स्वानुरूपसंस्काराधाननिरुद्धे सदृशसंबन्धिदर्शनादिसमुद्बोधितनिजबीजानुसारेण स्मरणमुपजायते । न चेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा; नित्यात्मसत्ताप्रयुक्तत्वात् । निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते? ।तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत् ? । य एवाहं पूर्वेद्युरासं स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययो%पि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे । अविशदश्च स्वापादौ स्वानुभवो निर्विकल्पकश्च । पटीयसा सविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः । साम्याच्चाननुभवाभिमानः शरीरतद्धारणप्रयत्नाननुसंधानवत् ।

न चाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषापत्तिः; क्लेशवासनानां गुणाभिभवस्य चैकत्र भावात्, इतरत्र तदत्यन्तनिवृत्तेः । असंप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः ।

(इति ज्ञाननित्यत्वे प्रसक्ताक्षेपाणां परिहरणम्)

कथं पुनर्निद्राया अवृत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः सुखमहमस्वाप्समित्याद्याः? न ह्यननुभूतगोचराः स्मृतयः संभवन्ति । सत्त्वसचिवसमुल्लसिततमोगुणानुभवभावितभावनायोनिः खलु सुखमहमस्वाप्सं, प्रसन्नं मे मनः, लघूनि मे गात्राणीति प्रत्यवमर्शः; रजस्तमस्समुद्रेके तु दुःखमहमस्वाप्सं, भ्रमत्यनवस्थितं मे चित्तमिति; सत्त्वरजसी त्वभिभूय नितान्तमुद्भूते तमसि गाढमूढं सुप्तो%स्मि, गुरूणि मे गात्राणि, मुषितमिव मनः, मीलितमिव इति । सत्यमेवम् । दत्तोत्तरं ह्येतत् । नैवामी वासनायोनयः प्रत्ययाः । अपि तु तात्कालिकशरीरेन्द्रियामनोवस्थाविशेषपर्यालोचननिमित्ता

आनुमानिका इति । एवंरूपा हीमे-यतः प्रसन्नं मे मनः, सम्यगाहारपरिणामवशाल्लघूनि चाङ्गानि, अतः सुखमहमस्वाप्समिति । स्वापावस्थायां वा

इन्द्रियोपरमतारतम्यवशादविशदतात्कालिकतत्तदनुकूलप्रतिकूलविषयानुसन्धाननिबन्धनतया%पि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः । कथं तर्हि पारमर्षं सूत्रम् " अभावप्रत्ययालम्बना वृत्तिर्निद्रा " इति । निरोधपरत्वात्प्रकरणस्य न वृत्तिस्वरूपे तात्पर्यं विपर्ययवत् । नह्यतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति, सर्वसंविदामर्थाव्यभिचारात् । स चाधिकरणसिद्धः । साधयिष्यते चोपरिष्टात् । कैवल्यभागि यच्चित् तत्प्रत्यनीकतया निद्रादेर्निरोध्यत्वेनोपदेशः ।

(इति निद्राया वृत्तिरूपत्वनिषेधनम्)

अस्तु वा पूर्वोक्तप्रमाणादिवृत्त्यभावकारणभूतप्रचिततमतमोगुणावलम्बना वृत्तिरेव निद्रा; सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि; तथा सत्य(प्य) नवरतानुवृत्तबोधतया स्थितमेव पुंसो बोधस्वभावत्वम् ।

आह-बोधकारणानुवृत्त्या%पि बोधानुवृत्तिरुपपद्यत इति कथं तथास्वाभाव्यनिश्चयः? इत्थम् -

एवं विषयप्रकाशकादाचित्कत्वेनात्मनो धर्मभूतं ज्ञानमागन्तुकमेव । आत्मस्वरूपप्रकाशो%पि न सर्वदा, किन्तु विषयज्ञानकाल एव ज्ञानतः, न स्वतः इति प्रत्यवस्थानप्रसङ्गे ज्ञानस्य नित्यत्वं तावद्व्यवस्थापयति अत्राहु रिति । आत्मस्वरूपप्रयुक्तं ज्ञानम् । तच्चात्मनो नित्यत्वान्नित्यमेव । आत्मस्वरूपनिरूपकधर्मत्वाच्च ज्ञानस्य न ज्ञानरहितमात्मनः स्वरूपं व्यवतिष्टेत प्रकाशरहितमिव तेजः । अतो मुक्तावपि ज्ञानवत्त्वमुपेयम्, ज्ञानशून्यस्यानात्मत्वादिति श्लोकद्वयार्थः । ननु ज्ञानाभावे%पि ज्ञानशक्तिमदात्मस्वरूपं मुक्तिकाल इत्यत्राह चितिशक्तये ति । लुप्तमुत्तरार्धमस्य । तत्स्थाने%स्मदीयं पूरणं ( ) एतच्चिह्नान्तर्निवेशितम् । नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभावनियमाज्ज्ञानशक्तिमत्त्वे मुक्तस्य कदाचिज्ज्ञानमुदियात् । मुक्तौ कदा%पि ज्ञानस्यानुदयात्तच्छक्तिरपि तदा नष्टैवेति आत्मनाश एव प्रतिज्ञातो भवेत् । स्वरूपनिरूपकधर्मनिवृत्तौ स्वरूपनिवृत्तेरवश्यम्भावादित्यर्थः । ननु ज्ञानस्य ज्ञानशक्तेर्वा नात्मस्वरूपनिरूपकत्वम् । किन्तु आगन्तुकमपि तदात्मन एवेष्यते धर्मभूतं न घटादेरित्यात्मनात्मव्यवस्थोपपद्यत इति चेत्; मैवम् ज्ञानस्यात्मस्वरूपनिरूपकधर्मतायाः स्थापयिष्यमाणत्वात्, जडात्मवादस्य त्रय्यन्तविरुद्धत्वेन सद्भिरनादरणीयत्वाच्चेति हार्दम् ।।24।।25।।26।।

चितिशक्त्ये त्यादि विवृणोति बुद्धी त्यादिना । पाषाणकल्पस्य मुक्तात्मनो%चिद्व्यावर्तकचिच्छक्तयाश्रयणं व्यर्थमित्याह अपि चे ति । लुप्तार्धविवरणं स्यादिदम् ।

ननु नित्यत्वे ज्ञानस्या%%त्मत्वमपीष्यतां तस्यैवेति शङ्कामनूद्य परिहरति न चैवं सती ति । परम्-वरम् । तस्ये ति । विषयाश्रयसापेक्षस्य ज्ञानस्य तदनपेक्षस्वतन्त्रात्मस्वरूपत्वमयुक्तमित्यर्थः । किंच, कल्पनायामेव लाघवगौरवचर्चावसरः । नतु स्फुटप्रतिपन्ने बोद्ध्रात्मनीत्याह साक्षाच्चे ति । अहं जानामीति ज्ञात्रात्मप्रत्यक्षस्य भ्रमत्वमिति चेत्तत्राह अनुभवे ति । अनन्तरमेव-अव्यवहितपूर्वमेव । ज्ञातुरात्मत्वसमर्थन इति यावत् । सत्प्रमाणतर्कानुग्रहात् ज्ञात्रात्मप्रत्यक्षस्याभ्रान्तित्वमेव संमन्तव्यमितिभावः । ननु चैतन्यमेवा%%त्मा । विषयसंबन्ध एव तस्य बोधो नाम । अतो बोद्धृत्वप्रतिपत्तिरात्मन उपपद्यत इति शङ्कते न च चितिमात्रे ति । विषयचैतन्यसंबन्धस्य बोधत्वाभिमतस्य संयोगरूपत्वे तस्य द्विष्ठत्वाद्विषयस्यापि बोद्धृत्वप्रसङ्ग इत्याह सम्बन्धस्ये ति । शङ्कते न च कार्ये ति । यथा कार्यकारणभावस्य हेतुहेतुमदुभयनिरूप्यत्वे%पि हेतुहेतुमतोर्व्यवस्था इदमस्य कारणम्, इदं त्वस्य कार्यमिति, एवं चिद्विषयसंबन्धस्य विषयविषयिनिरूप्यत्वे%पि बोद्धृबोध्यव्यवस्था घटत इति शङ्कितुराशयः । परिहरति तत्रे ति । यद्यपि कार्यस्य कारणस्य च संबन्धः कार्यकारणभावः कथ्यते । परं तु कार्यत्वं कारणनिरूपितं कार्यनिष्ठं स्वपूर्ववर्तिकारणापेक्षत्वलक्षणं स्वप्राक्कालावच्छेदेन कार्यव्यापककारणकत्वपर्यसायि, कारणत्वं च कार्यनिरूपितं कारणनिष्ठं स्वोत्तरभाविकार्यापेक्षत्वलक्षणं कार्यनियतप्राक्कालवर्तित्वपर्यवसायि भिन्नभिन्नमेव तत्र प्रविष्टम् । अत्र तु एक एवोभयसमवेतः संयोग इति व्यवस्थादुर्घटेत्यर्थः । यद्यपि संयोगस्योभयनिष्ठत्वे%पि अनुयोगितासंबन्धेन तस्य चिन्निष्ठत्वाच्चित एव बोद्धृत्वम्, तत्प्रतियोगिनस्तु विषयस्य बोध्यत्वमिति व्यवस्था घटेत, अथापि न चिन्मात्रत्वमात्मनः, किन्तु चित्याश्रयत्वमपि श्रौतत्वादुपेयमेवेति ध्येयम् । चिच्चेत्ययोरपि परस्परापेक्षानियमलक्षणा एव संबन्धो%स्त्विति शङ्कते इहापी ति । परिहरति नापेक्षे ति । अपेक्षाया हेतुः प्रयोजनरूपो%र्थो नास्तीत्यर्थः । तस्यैव विवरणं किमर्थ मित्यादि । नन्वर्थानां वासनादोषाच्चैतन्य एव कल्पितत्वादधिष्ठानतया चितो%पेक्षा स्यादेवेत्यत्रा%%ह निरस्तश्चे ति । एवमर्थस्योत्पत्तौ चिदपेक्षां प्रतिक्षिप्य चित

उत्पत्तावर्थापेक्षां प्रतिक्षिपति नित्यस्ये ति । नित्यचैतन्यस्यार्थापेक्षोत्पत्तिवचनं व्याहततरमिति भावः । तत्प्रकाशस्यार्थापेक्षां निरस्यति

कि मिति । महनीय मित्यादि सोपालम्भम् । अनात्मवेत्तृत्वमेवैवं वक्तुः फलति । अर्थानां भासकस्यात्मज्योतिषः स्वयंप्राकाशत्वादिति भावः । नन्वस्तु प्रकाशे%र्थानां चिदपेक्षा । तत्राह प्रकाशश्चे ति । संविदेव प्रकाशः । तदर्थं संविदपेक्षा चेदात्माश्रय इति भावः । संविदतिरुक्तप्रकाशपक्षे%प्याह संभव न्निति । चैतन्यमात्रापेक्षत्वे%र्थप्रकाशस्य नित्यत्वप्रसङ्ग इत्यर्थः । आगन्तुकधर्मवच्चिदपेक्षत्वे च तस्य ज्ञात्रात्मसिद्धिरप्रत्यहेत्याह आगन्तुके ति । आगन्तुकातिशयश्च स्वधर्मभूतज्ञानविकासरूप एव । तद्विशिष्टं ज्ञानं बोधः । तदाश्रय आत्मेति न बोधमात्रमात्मेति साम्प्रतमिति भावः ।

नन्वेवमात्मनो बोधस्वरूपत्ववद्बोधस्वभावत्वमपि न संभवति अनित्यस्य बोधस्य नित्यात्मस्वभावत्वायोगात् । अ#िर्थप्रकाशकादाचित्कत्वाय बोधकादाचित्कताया एव मन्तव्यत्वादिति शङ्कते नन्वेव मिति । ज्ञानस्य क्रियात्वमागन्तुकत्वं च साधयितुं सामान्यव्याप्तिं शिक्षयति अर्थान्तरे ति । अर्थान्तरं-ग्रामादि । जनकद्रव्यान्तरं-गन्ता । गन्तव्यदेशप्राप्तिर्ग्रामपुरुषसंयोगः । उभयनिष्ठो%प्ययं पुरुषप्रवृत्तिमूलत्वेन पुरुषासाधारणः पुरुषनिष्ठागन्तुकगमनक्रियाजन्यो दृष्ट इत्यर्थः । तादधीन्यादिना तदसाधारणार्थान्तरनिष्ठधर्मत्वव्यापकं तन्निष्ठागन्तुकक्रियाजन्यत्वमिति फलितम् । उदाहरणमुक्त्वोपनयनिगमने प्रदर्शयति तादृशी ति । प्रतिज्ञाहेतू अर्थसिद्धौ । अवयवत्रयप्रयोगो वा यथेच्छम् । ज्ञेयनिष्ठश्च प्रकाशस्तत्तत्पुरुषासाधारणः तत्तत्पुरुषीयागन्तुकज्ञानक्रियाजन्यः सिषाधयिषितो%त्र । व्याप्तिमेव दूषयति मैव मित्यादिना । अक्रिये ति । कुलपरम्परया प्राप्ते क्षेत्रादौ जन्मत एव स्वत्वं यस्य भागिनो%न्यस्याभावात्, भावे वा दायतः; तत्र तदसाधारणे%र्थान्तरक्षेत्रादिस्वत्वे तन्निष्ठक्रियाजन्यत्वं नास्तीति व्यभिचार इत्यर्थः । अभावप्राप्तेत्यत्र भावप्राप्तेति स्वभावप्राप्तेति वा%न्यथा वा पाठः संभाव्यते । अन्यक्रियया दैवेन वा स्वक्षेत्रे पतितानां बीजानां प्ररूढानां स्वत्वे स्वासाधारणे स्वीयागन्तुकक्रियाजन्यत्वं नास्तीति व्यभिचारमपि प्रदर्शयति क्षेत्रिण मिति । तद्भावे ति । यथा निर्व्यापारस्यापि व्यापारादेरन्वयव्यतिरेकाभ्यां कारणत्वम्, तथा क्षेत्रिणः सत्त्व एव तन्निरूपितं क्षेत्रादिस्वत्वं सिध्यतीति तत्र तत एव निर्व्यापारस्यापि क्षेत्रिणो जनकत्वं सेत्स्यतीति भावः । ननु क्षेत्रिणो न निर्व्यापारत्वम्, किन्तु जीवनमेव व्यापार इति शङ्कते तज्जीवनमेवे ति । परिहरति ननु त दिति । क्षेत्रिणो जीवनं हि सस्यरक्षणादिसाधारणकारणम् । न तु क्षेत्रादिस्वत्वे%साधारणकारणम् । तथा

चासाधारणा- गन्तुकक्रियाजन्यत्वानुमाने%नैकान्त्यमेवेति भावः । ननु तद्व्यापारजन्यत्वमेव साध्यते । न त्वसाधारणक्रियाजन्यत्वम् । नातो व्यभिचार इति चेत्तर्ह्यर्थान्तरमित्याह अपि चैव मिति । तदेव बोद्धुर्जीवनमेव । कि मिति । आगन्तुकज्ञानकल्पना%पार्थेति भावः । इहापी ति । इन्द्रियार्थसन्निकर्षादिसहकारिसम्पत्तौ बोद्धुर्जीवनमेवार्थप्रकाशे जनकमस्त्विति भावः । जीवनस्याप्युत्तरोत्तरकालसत्तालक्षणस्य न क्रियारूपत्वमिति न तद्व्यापारजन्यत्वमपि साध्यम् । किन्तु तदसाधारणधर्मजन्यत्वमेवेत्युपसंहरति अत इति । अस्त्वेवम् । तावता भवतो लाभः कः? । तत्राह स चेष्यत एवे ति । अस्मदनिष्टं साधयितुं प्रवृत्तस्य भवतो%र्थान्तरेण निग्रहणमेवास्माकं लाभ इति भावः। स्वभावप्राप्तक्षेत्रादिस्वत्वे व्यभिचारादेवागन्तुकधर्मजन्यत्वमपि न साधयितुं शक्यत इति चानुसन्धेयम् ।

एवमर्थप्रकाशकादाचित्कत्वेन ज्ञानागन्तुकत्वसाधनं दूषितम् । प्रकारान्तरेण च तत्साधनं दूषयितुमनुवदति न च हेतुभेदे ति । ज्ञानमागन्तुकं कालावच्छिन्नतया प्रतीतेः, गमनादिवत्, ज्ञानमिन्द्रियार्थसन्निकर्षादिजन्यं तद्भावाभावानुविधायिभावाभावत्वात् इन्धनादिजन्यपाकादिवदिति प्रयोगद्वयमत्र गर्भितम् । व्यभिचारेणैव दूषयति
आदित्ये ति । स्वाभाविकस्याप्यादित्यप्रकाशस्य तत्तत्प्रकाश्यदेशसंबन्धस्य कालत्रयपरिच्छिन्नतया तद्विशिष्टविषयिणी कालपरिच्छिन्नत्वप्रतीतिः न प्रकाशस्वरूपस्य कादाचित्कत्वसाधिकेति शङ्कते स्वारसिकत्वे%पी ति । स्वारसिकत्वम्-स्वाभाविकत्वम् । विशिष्टे विधिनिषेधौ विशेषणमुपसङ्कामतः सति विशेष्ये बाधे इति न्यायेन विशिष्टे कालावच्छेदप्रतीतिर्विशेषणे पर्यवस्यति । अनित्यत्वानुमानं च विशिष्टविषयम्, नतु स्वरूपमात्रविषयम् । तथा च यद्रूपावच्छिन्नस्य कालावच्छेदप्रतीतिः तस्यानित्यत्वमेव स्वरूपमात्रस्य च न कालावच्छेदप्रतीतिरिति न व्यभिचार इति भावः । स्वरूपमात्रस्य कालावच्छेदप्रतीतिः पक्षे%प्यसिद्धेति परिहरति इहापी ति । योग्यभावः-प्रकाशयोग्यता । अवच्छिनत्तिकालावच्छिन्नत्वं यथा भवेत्तथा स्वसंबन्धेन विशिनष्टि चैतन्यमित्यर्थः । हेतुविशेषानुविधानस्याप्यन्यथासिद्धिमाह तदपेक्षयैवे ति । अर्थसंबन्धापेक्षयैवेत्यर्थः । तथा च प्रथमानुमानस्याप्रयोजकत्वमिति हार्दम् ।

कालावच्छेदादेरौपाधिकत्वं स्वाभाविकत्वं तत्र तत्र दृष्टम् । ज्ञाने तस्यौपाधिकत्वनिश्चय एकान्ततः कुत इति पुनः शङ्कते कथं पुन रिति । औपाधिको%यं

भेदः-भूतभविष्यत्त्वादिभेदो ज्ञानस्य विषयसंबन्धौपाधिकः । ताद्रूप्येणैवे ति । ज्ञानस्य नित्यात्मस्वभावत्वान्नित्यत्वमिति तत्कालावच्छेदप्रतीतेरौपाधिकत्वं सुनिश्चेयमिति भावः । ज्ञानवत्त्वेनैव साक्षात्क्रियमाणत्वादात्मा ज्ञानस्वाभाव इत्यर्थः । साक्षात्कारो वृत्तिविशेषः । स चात्मनो ज्ञानवत्त्वेनैवेति यावत् । तेनात्मनः स्वरूपत एव प्रकाशमानस्य स्वापे ज्ञानवत्त्वेनाप्रकाशे%पि न क्षतिः ।न चैवमपि अहं सुखी, अहं दुःखी, अहमिच्छामि, अहं द्विष्यामीत्यात्मनः साक्षात्कारे ज्ञानवत्त्वेनाप्रकाशादसिद्धत्वं हेतोरिति वाच्यम्; तत्राप्यहमिति अनुकूलप्रतिकूलविषयकज्ञानवत्त्वस्योल्लेखात्; सुखादेरपि ज्ञानावस्थाविशेषत्वाच्च । इच्छादिप्रत्यक्षकाले ज्ञानस्य स्वयंप्रकाशत्वादिच्छाद्यनुभववत्त्वेनाप्यात्मनो भानाच्च ज्ञानवत्त्वेनैवात्मन उपलम्भः सेत्स्यतीति चानुसन्धेयम् । यद्यपि ज्ञानस्यात्मस्वभावत्वादौ श्रुतिरेव जागर्ति । अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेवात्र निदर्शिता । शास्त्रं चाग्रे प्रदर्शयिष्यते । न ही ति । अचिद्रूपः-चैतन्यानाश्रयः । शिष्टं स्पष्टम् ।

अत्र शङ्कते शरीरवदिती ति । तद्वत्तयैवोपलभ्यमानत्वं न तत्स्वभावकत्वव्याप्यम् । शरीरवत्तयैवोपलभ्यमानस्याप्यात्मनः शरीरस्वभावकत्वाभावादित्यर्थः । परिहरति असिद्धत्वा दिति । शङ्काग्रन्थस्य विवरणम् स्यादेत दित्यादि । सध्रीचीन एव-सहित एव । परिहारग्रन्थस्य विवरणम् तन्नैव मित्यादि । शरीरवत्तयैवोपलम्भ आत्मनो%सिद्धः । योगदशायामवधानदशायां मानसानुभवदशायामपि शरीरंविनैवात्मनो भानात् । तथाच न व्यभिचार इति भावः । योगिप्रत्यक्षे आत्मचिन्तने च देहं विना%%त्मभानमुक्त्वा लौकिकप्रत्यक्षे%पि तदाह जानामी ति । शरीरस्यात्मस्वभावत्वाभावं द्रढयति कर्मे ति । तत्तन्मनुष्यादिशरीरविशेषवत्तयैवोपलम्भश्चात्मनो%सिद्ध इति च हार्दम् । मनस इवेति वैधर्म्यदृष्टान्तः । मनो यथा%नुवर्तते न तथा शरीरमेकमिति यावत् । मुक्तावस्थायामपि मनो%नुवृत्त्याशयेनेदम् । ननु स्थूलशरीरस्य निवृत्तावपि सूक्ष्मशरीरस्य सर्वदा%नुवृत्तिर्वर्तते । तस्य च नात्मस्वभावत्वमिति तत्र व्यभिचार इति मन्दाशङ्कामपनुदति लिङ्गस्ये ति । अपिना%नुवृत्तिरेव नास्ति प्रलये मोक्षे चेति व्यज्यते । लिङ्गशरीरस्यातीन्द्रियत्वाद्धेत्वभावान्न व्यभिचार इति च भावः ।

अत्रेदं बोध्यम्-आत्मधर्मभूतज्ञानस्वरूपं तावन्नित्यमेव । किन्तु सङ्खोचविकासशालिनस्तस्य इन्द्रियादिद्वारकप्रसरणादर्थप्रकाशकत्वमिति

पुनरर्थप्रकाशकत्वविशिष्टस्यानित्यत्वमिष्यते । अतो विशिष्टविशेषेणानित्यत्वं स्वरूपतो नित्यत्वं च व्यवस्थापितं तस्यात्रेति ।

अथ नित्यत्वे ज्ञानस्य चतुर्धा%%क्षेपमुपक्षिप्य प्रतिक्षिपति बोधस्वाभाव्य इत्यादिना । ज्ञानस्वभावत्वे पुंसः स्वापमूर्च्छयोः स्वरूपप्रकाशः स्यादिति प्रथमाक्षेपः । प्रकाशपदार्थविकल्पेनैनं परिहरति विकल्पे त्यादिना । ज्ञानातिरिक्तस्य ज्ञानजन्यस्य प्रकाशस्य सत्त्वे%पि आत्मनि बोधेन तस्याजननं स्वापे तमोगुणप्रतिबन्धाद्गाढान्धकारप्रतिबन्धादिव चाक्षुषस्याजननमिति भावः । तथाभाव इति । बोधवत्त्वमित्यर्थः ।

बोधस्य सत्त्वे स्वाप आत्मनो व्यवहारप्रसङ्ग इति द्वितीयाक्षेपः । तमनुभाषते अथ मत मिति । परिहरति मैव मिति । व्यवहारः कायिको विचिको वा%%पाद्यते । आद्यो न सम्भवतीत्याह कः खल्वि ति । किंशब्दः क्षेपे । न ह्यसा विति । नित्यप्राप्तत्वादात्मस्वरूपस्येति भावः । द्वितीयमनुवदति व्याहार इति । परिहरति किमङ्गे ति । निर्विकल्पकं वाचकशब्दादिविशेषणानुल्लेखि यज्ज्ञानं बालमूकादेः, तत्सत्त्वे%पि न तद्विषयस्य व्याहरणं दृश्यत इत्यर्थः । तथाच स्वविषयव्याहारव्याप्तिर्ज्ञानस्य नास्तीत्यस्थाने प्रसङ्ग इति भावः ।

अनुभवे सति स्वाप आत्मनो जागरणे स्मृतिप्रसङ्ग इति तृतीयाक्षेपः । तमनुवदति स्मृती ति । परिहरति अवृत्तित्वा दिति । शङ्काविवरणं यद्युच्येते त्यादि । परिहरविवरणं तन्ने त्यादि । न ही ति । बुद्धिवृत्तिविशेषः- धर्मभूतज्ञानावस्थाविशेषः । स्वापादिकालिकात्मानुभवः स्वभावलक्षण एव, नतु धर्मभूतज्ञानावस्थाविशेषलक्षण इति यावत् । येने ति । ज्ञानवृत्तेरेव स्मृतिबीजसंस्कारजनकत्वमिति भावः । किन्तु इति । स्वापादौ स्वाभाविकधर्मभूतज्ञानवत्त्वेनावस्थानमेवात्मनः, न तु ज्ञानस्य वृत्तय इति भावः। न च बोधे ति । नित्यस्वविषयकबोधस्वभावकत्वादित्यर्थः । धर्मभूतज्ञानं तावत् नित्यमात्मविषयकम्, इन्द्रियार्थसन्निकर्षादिसहकारिसंपत्त्या

पुनर्विषयग्राहीति एकदेशिमतेनेदम् । यद्वा बोध एव स्वो भावः स्वरूपम्, तत्त्वाच्चिद्रूपत्वादेवास्य-आत्मनः स्वविषयकसंस्कारजनकत्वं किं न स्यादिति शङ्का । परं प्रकरणवशात्पूर्वोक्तरीत्यैवार्थो%त्र सुसङ्गतः । अस्य-नित्यबोधस्य । नित्यबोधस्य संस्कारजनकत्वशङ्कां परिहरति अनवरते ति । तथा-सति सामग्रीबलात्प्रतिक्षणं सस्कारोदयसंभवेन संस्कारधाराविश्रमाभावप्रसङ्ग । तथा

च क्लेशकर्मविपाकाशयानामात्यन्तिकनिवृत्तिलक्षणमोक्षस्यासिद्धिप्रसङ्गः इत्यर्थः । नित्यबोधस्वरूपस्य संस्कारजनकत्वेदोषमुक्त्वा निष्प्रयोजनत्वमप्याह अनुभवे चे ति । संस्कारकल्पनं हि अनुभूतचरस्याननुभूयमानस्य प्रतिपत्त्यर्थम् । नित्यानुभव एव जाग्रति कः संस्कारकल्पनाया अर्थ इति भावः । स्वानुरूपत्वम्- अनुभवसमानविषयकत्वम् । निजबीजम्-स्मृतिबीजं, संस्कारः । नन्वात्मविषयिण्यपि स्मृतिर्दृष्टेत्यत्राह य एवाह मिति । स्मृतिसंभिन्नप्रत्ययः-पूर्वकालावच्छेदांशे स्मृतिरूपो वर्तमानकालावच्छेदांशे%नुभवरूपश्चात्मस्वरूपगोचरः प्रत्ययः । कालावच्छिन्ने ति । आत्मस्वरूपमात्रस्य सदा प्रकाशे%पि तत्तत्कालाद्यवच्छिन्नस्य वृत्तिग्राह्यतया वृत्तेश्च संस्कारजनकतया निरुक्त प्रत्यय उपपद्यत इत्यर्थः । न स्वरूपमात्रे-न स्वरूपमात्रविषयकः । नित्यात्मबोधस्य संस्कारजनकत्वे बाधकं प्रयोजनाभावं चाभिधाय तस्य स्वापादिकालिकस्य संस्कारजनकत्वासंभवमप्यभिधत्ते अविशदश्चे ति । तमोगुणाभिभवादविशदः, बाह्यान्तरविशेषणानवगाहनान्निर्विकल्पश्चेत्यर्थः । पटीयसा-अनभिभूतेन । स्मृतिबीजं संस्कारः । आधीयते-उत्पाद्यते । अत्रेदं बोध्यम्- यद्यपि सुप्तोत्थितस्य सुखमहमस्वाप्स मित्यादिप्रतिसन्धानबलात्स्वापकालिकात्मस्वरूपानुभवस्यापि संस्कारजनकत्वमेष्टव्यम् । अथापि एकदेशिमताश्रितवादो%यम् । अत एवाग्रे अस्तु वा इत्यादिना पक्षान्तरं वक्ष्यति । अनुभवे वर्तमाने तावन्मात्रविषयकस्मृतेरुदयायोगे%पि प्रत्यवमर्शस्याधिकविषयस्य संस्कारबलादुदये न क्षतिरिति । अधिकमग्रे । ननु सर्वदा%%त्मस्वरूपानुभव इत्यनुपपन्नम् । विषयानुभवकाल एव सुखादिना%हमर्थप्रकाशस्यानुभवसिद्धत्वादित्यत्राह साम्याच्चे ति । एकाकारेणानुभूतमाने विशेषाकारास्फूर्तेरननुभवभ्रमः । अत्र निदर्शनं शरीरादि । यथा जागरे सदा%नुभूयमानस्यापि करचरणादिलक्षणस्य शरीरस्यागन्तुकविशेषस्फुरणवेलायामेव विशेषतः प्रतिपत्त्या%न्यदा%ननुभूयमानतेव, यथा वा%%न्तरस्य जागरणे शरीरधारणप्रयत्नस्य सदा%नुवर्तमानस्यापि बुद्धिपूर्वहस्ताद्युत्क्षेपणकाल एव स्फुटावभासेनान्यदा%ननुभूयमानतेव, तथा प्रकृते%पीति भावः । यद्यपि शरीरधारणप्रयत्नस्य जीवनयोनिशब्दितस्यातीन्द्रियत्वमिष्यते तार्किकैः । अथापि अदृष्टत एव जीवनस्योपपत्तेरतीन्द्रिययत्नकल्पनं गुरुभूतम् । जागरे तु प्रयत्नतो%पि शरीरतदवयवधानणमिष्यते । स च प्रयत्नः प्रत्यक्षयोग्य एव । निद्रायां त्वदृष्टत एव शरीरधारणमिति हार्दमाचार्यतरणानाम् । तत् दृष्टान्तस्यास्य नानुपपत्तिरिति ध्येयम् ।

स्वापे%पि बोधानुवृत्तौ समाधिमुक्तयोः स्वापाविशेषप्रसङ्ग इत्याक्षेपान्तरमनूद्य परिहरति न चाविकृते ति । अविद्यादिक्लेशः, तमोगुणाभिभवादत्यन्तसङ्कुचितज्ञानत्वं च स्वापे । न हि तदा ज्ञानेन स्वात्मप्रकाशो%पि । मोक्षे तु क्लेशात्यन्तनिवृत्तिः, आवरणनिवृत्त्या नित्यासङ्कुचितसर्वविषयज्ञानता चेति विशेषः । असंप्रज्ञाते ति । संप्रज्ञातेति क्वचित् पाठः । समाधौ च पुंसः परमवैराग्यनिरोधसंस्कारपाटवात्मैकप्रवणमनस्कत्वप्रयुक्तमोक्षोपायसिद्धिकृतः स्वापतो महान् विशेषो%स्तीति भावः । चरिताधिकारेणे ति तु समीचीनः पाठः । कृताधिकारेणेत्यर्थः । अपवर्गिणा-अपवर्गोपधायकेन । कैवल्यावस्थात्मसाक्षात्करणयोग्येनेति यावत् । मनसा इति विशेष्यमध्याहार्यम् । चरिताधिकारिणेति पाठे तु कृतात्मनेत्यर्थः, कृतकृत्येनेति वा । एवं चित्स्वरूपत्वं चित्स्वभावत्वं चोपपादितं प्रसक्ताक्षेपपरिहरणेन ।

अथ स्वापे%पि अनुत्यया वृत्त्यैवात्मनः प्रकाशः सेत्स्यति, कृतं स्वप्रकाशत्वेनेत्यन्तर्निधाय स्वापे%पि बुद्धिवृत्तिरेष्टव्येति शङ्कते कथं पुन रिति । अत्रायं समुदिताशयः-स्वापो नाम तमोगुणानुभवः । ईषदुद्बुद्धसत्त्वसहकृततमआलम्बनत्वे तस्य सुखत्वं, सत्त्वकार्यं च लघुत्वादि । ईषदुद्बुद्धरजःसहिततमआलम्बनत्वे दुःखत्वं चलत्वादि च । सत्त्वरजसोरत्यन्ताभिभावकप्रोद्बुद्धतमआलम्बनत्वे च गाढमूढत्वादि । स्वापे तमअनुभवे सत्येव तज्जसंस्कारतः प्रबोधे सुखमस्वाप्समित्यादिप्रतिसन्धानस्योपपत्तिः नान्यथेति । अर्धाङ्गीकारेण परिहरति सत्यमेव मिति । निरुक्तप्रतीतावभ्युपगमः । स्वापस्य तमोगुणालम्बनवृत्तिरूपत्वे, स्मृतिरूपत्वे च स्वापादौ निरुक्तप्रतीतेरनभ्युपगमः । तदाह दत्तोत्तर मिति । आनुमानिका इति । वृत्तिसामान्यविरह एव स्वापः । योग्यास्मरणलिङ्गाच्च प्रकाशस्वभावाया वृत्तेरभावस्य तत्कालीनस्या%नुमानम् । देहेन्द्रियलाघवादिलिङ्गाच्च सुखत्वादेस्तत्रानुमानम् । पूर्वदिनकृतस्यापरस्मिन् दिने

प्रत्यभिज्ञाबलात्स्वापकालिकात्मसत्तांशे%प्यनुमानरूपैवेयं प्रतीतिरिति भावः । न वृत्त्यन्तरत्व मिति । न तमोगुणविषयकबुद्धिवृत्तिरूपत्वं निद्राया उपगन्तव्यम् । स्वापानुमानादेव निरुक्तप्रतीतेर्निर्वाहादित्यर्थः । निद्राया वृत्तिरूपत्वाभावे पातञ्जलसूत्रस्य का गतिरिति शङ्कते कथं तर्ही ति । उत्तरयति निरोधे ति । भावालम्बनवृत्तिसामान्याभावो निद्रेति तात्पर्यम् । अस्याश्च वृत्तिवन्निरोद्धत्वसामान्याद्वृत्तित्वोपचार इति भावः । अत्र

निदर्शनं विपर्ययव दिति । अन्यथाख्यातेरभावेन भेदाग्रहस्यैव भ्रमस्थलाभिषिक्तस्य विपर्ययशब्दितस्य निरोद्धव्यत्वतात्पर्येण वृत्तित्ववन्निद्राया अपि वृत्तित्वं कीर्त्यत इति भावः । स चे ति । सर्वसंविदामर्थाव्यभिचारः-यथार्थख्यातित्वलक्षणोन्यायतत्त्वसास्त्रीयाधिकरणसिद्ध इत्यर्थः । निरोद्धव्यत्वं चैषां कैवल्यसाधनपरिपन्थितयेत्याह
कैवल्ये ति । कैवल्यभागि यच्चित्-मोक्षाधिकृतमात्मस्वरूपम्, तत्प्रत्यनीकतया-तदभिमतसाधनसिद्धिविघातकतयैतेषां निरोद्धव्यत्वमित्यर्थः ।

सुखमहमस्वाप्समिति प्रतीतेः प्रतिसन्धानरूपत्वमुपगम्याप्याह अस्तु वे ति । ज्ञानवत्तयैवोपलभ्यमानत्वादात्मनो बोधस्वभावत्वमुक्तम् । निरुक्तरीत्या स्वापे%पि बोधानुवृत्तिप्रतिपादनाच्च तदेव प्रतिष्ठापितं भविष्यतीति नास्माकं काचित् क्षतिः । यत्ति हृदयं वृत्त्यैवात्मनः प्रकाशो न स्वरूपत इति, तत्त्वाशामोदकायितमिति च पूर्वोत्तराभ्यां सुनिरूपितं भविष्यतीति भावः । स्मरणानि-प्रतिसन्धानरूपाणि ।

यतः स्वतस्सतो बोधादृते पुंसो यथोदितम् ।

तमः स्वापादिकालीनं न सिध्येद्धेत्वसिद्धितः ।।27।।

उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा । संस्कारस्य च न स्मृतेरन्यत्र सामर्थ्यम् । न च स्वप्रकाशं तमः; अर्थान्तरवर्तिनो%प्यनिशं प्रकाशप्रसङ्गात् । क्लृप्तश्च सर्वार्थसाधनतया बोध इति तेनैव करणविरहिणा सता स्वभावभूतेनो(द्भूतेनो)द्भूतवृत्तेस्तमसो%न्यस्य वा%%त्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयम् ।

नित्यप्रकाशश्चात्मा प्रमातृत्वात् । अप्रमातृत्वव्यापकबद्धं ह्यनित्यप्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभते ।

स्वापस्य वृत्तित्वोपगमे%पि न ज्ञाननित्यत्वसिद्धिः । वृत्तेः करणजन्यत्वादिति परस्य शङ्कामनुवदति आहे ति । परिहरति इत्थ मिति । ज्ञानस्वभावत्वनिश्चयो%नन्तरनिर्दिश्यमानप्रकारेणेत्यर्थः । यत इति । स्वापे कारणायोगात्स्वतःसिद्ध एव तमःप्रकाशको बोध इत्येष्टव्यमित्यर्थः ।।27।।

श्लोकं स्वयमेव विवृणोति उपरतानी ति । अन्यस्य वा-सुखादेर्वा । उपरतव्यापारत्वात्करणानां स्वापे न ज्ञानवृत्तेरवसरः । अतः स्वाभाविकेन बोधेनैव तमोगुणप्रकाश

इति बलादेष्टव्यं यदि तमो%नुभवः स्वाप इष्यते । तत्सिद्धं बोधस्वभावत्वमिति भावः । वस्तुतो ज्ञानस्य न स्वापे तमःप्रकाशकत्वमतिसङ्कुचितवृत्तित्वात् । स्वरूपानुभवबलात्सुखत्वेन तदा भासमानस्यात्मनः परामर्शः परं प्रबोध इति तु सिद्धान्तः । अस्वाप्स मिति स्वापकालांशयोस्त्वनुमितिरूपैव निरुक्तप्रतीतिः । नित्यानुभवस्य संस्काराजनकत्वे तु साक्षादेव स्वापकालीनात्मस्वरूपानुभवस्य निरुक्तप्रतिसन्धानहेतुत्वं सुखत्वेनात्मागाहनांश इति च बोध्यम् ।

बोधस्वभावस्याप्यात्मनो वृत्तिकाल एवास्तु प्रकाशो न सर्वदेत्यत्र तावन्नित्यप्रकाशत्वं साधयति नित्यप्रकाशश्चे ति । अप्रमातृत्वे ति । अप्रमातृत्वरूपं यद्व्यापकं, तद्व्याप्यमित्यर्थः ।

स्वतःसिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः ।

अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ।।28।।

(इत्यात्मनो ज्ञानस्वभावस्य नित्यस्वप्रकाशत्वसमर्थनम्)

कः पुनरयं प्रकाशः, यो%स्य नित्यो%भ्युपेयेत स्वाभाविकश्च? कश्चास्यात्मना संबन्धः? । यदि ज्ञानमेव; संबन्धश्चाश्रयाश्रयित्वम्; ततो हेत्वभावेन साध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाद्युपादातव्यम्-यदनित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमातृ, यथा घटादीति । तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाक्षेपकत्वादागन्तुकं ज्ञानं घटादावनुमतमापद्येत । अथ तन्माभूदिति विषयविषयिभाव एव संबन्धः संगीयेत, ततो नित्यवज्ज्ञानविषयत्वमात्मनः प्रसत्येत । ज्ञानविषयीकारश्च साधनविशेषायत्तत्वेन नियत इति न

स्वाभाविकत्वसम्भवः । अचेतनगोचर एव तथा नियम इति चेन्न, चेतनान्तरविषयीकारे%पि तथाभावदर्शनात् । न चानात्मगोचर एव साधनसापेक्षत्वनियम इति वाच्यम् । आत्मनो%प्यानुमानिकागमिकयोगज्ञानविषयीकारे तत्सापेक्षत्वदर्शनात् । विरुद्धे चैकस्यैकक्रियायां कर्मकर्तृत्वे, सूच्यग्रस्येवात्मनिवेध्यवेधकत्वे । नित्यत्वनिरतिशयसूक्ष्मत्वव्यापित्वचित्स्वाभाव्यादिरूपेण प्रत्यगर्थस्यौपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः । स्वरूपापेक्षयैव स्वतःसिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः । रूपभेदेन गम्यगमकत्वाङ्गीकारपक्षे%पक्षस्येव शब्दादेर्न स्वतःसिद्धत्वम् ।

(इति ज्ञानाश्रयत्वविषयत्वयोः प्रकाशमानत्वरूपत्वे दोषानुकीर्तनम् ।)

अथोच्येत-न प्रकाशो ज्ञानम् । अपि तु तन्निमित्तश्चेतनेतरसर्वपदार्थसाधारणो धर्मः, यद्वशात् प्रकाशत इति प्रख्योपाख्येप्रतायेते सर्वपदार्थेष्वविशेषेण; आश्रयाश्रयित्वलक्षणश्च संबन्धस्तेन सह सर्वभावानाम् । स च यथोदितसाधनबलादेव सांसिद्धिको नित्यश्चात्मन इति । पराकृतो%यं पक्षः । न ज्ञानातिरेकी प्रकाशो नाम । यद्व्यवहारोपजननानुगुणं ज्ञानं, तत्प्रकाशत इत्युच्यते । ज्ञेयस्य ज्ञातुः स्वात्मनश्च व्यवहारानुगुणं ज्ञानमुदयत इति युक्तः त्रिष्वपि एकरूपः प्रकाशतेव्यवहारः । तत्त्वान्तरप्रकाशाभ्युपगमेतात्स्वाभाव्ये झ्र् न ट च पुनः किं चैतन्याश्रयणेन? । न च प्रकाश एव तदिति वाच्यम्, घटादेरपि प्रकाशवत्तया चेतनत्वप्रसङ्गात् । यद्युच्येत्-सति चेतनावत्त्वे पुंसः प्रकाशमानत्वमिति: संविदीदानीं का वार्ता? चेतनैव हि सा, न चेतयते । अथ संविदस्तत्संबन्धाधीनः स धर्म इति चेत्; कस्तया संबन्धः, यस्तन्निबन्धनम्? । नाश्रयाश्रयित्वम्; घटादेस्तदभावप्रसङ्गात् । न विषयविषयिभावः, तस्यैवानिरूपणात् । अनिरूपणं च भ्रान्त्यधिकरणसिद्धान्तारम्भे संवित्सिद्धौ चानुसन्धातव्यम् । आत्मनस्तस्य चाप्रकाश प्रसङ्गश्च । ज्ञानाधीनप्रकाशाश्रयतैव सिद्धिः, तया चानुमेयं ज्ञानमिति पक्षः प्रागेव प्रतिक्षिप्तः ।

स्वप्रकाशसंविद्वादिनो%पि व्यवहारानुकूल्ये वैरूप्यमशक्यपरिहारम् । आत्मनि समवेतं ज्ञानमसंबन्धिन्यर्थे प्रकाशं व्यवहारं वा कथं प्रसुवीतेत्यपि चिन्त्यम् । इन्द्रियलिङ्गादिस्वकारणप्रत्यासत्तिवसादिति मा वोचः । न खलु लब्धात्मकं कार्यं स्वनिमित्तकारणमनुरुध्य कार्यमारभते । मा भूदुदकाहरणादि घटादेः कुलालादिसमानाधिष्टानम् । न च निमित्तकारणनाशे कार्यनाशः । नश्यति चेन्द्रियसंप्रयोगादिनाशे रूपादिज्ञानम् । अत इन्द्रियेण सह चैतन्यमपि निस्सृत्य तेन तेनार्थेन सन्निकृष्यते, हस्तादिनेव त्वगिन्द्रियम् । तथा सति हि तदुपाधिकत्वात्तज्ज्ञानस्य युक्तं तद्भावानुविधायित्वम् । अन्यथोत्पन्नं ज्ञानमिन्द्रियार्थसन्निकर्षनिवृत्तौ किमिति निवर्तते? । ज्ञानजन्यार्थधर्मप्रकाशवादिनो%पि समानो%यं दोषः । निमित्तकारणं हि ज्ञानम् । कुतस्तन्निवृत्तौ अर्थप्रकाशो निवर्तते? कुतो वा यावत्तद्भावमवतिष्ठते ? ।

ननु नित्यप्रकाशत्वं स्वाभाविकबोधकृतमेव किं न स्यादित्यत्राह स्वतःसिद्धे ति । व्याप्ता-व्याप्या । व्यापकाभावाद्व्याप्याभाव इति यावत् । ज्ञातृत्वस्वाभाव्यादेवानन्याधीनप्रकाशत्वसिद्धिरिति भावः । ज्ञानस्य प्रकाशो ज्ञानान्तरानपेक्षो%प्यात्मसम्बन्धापेक्ष इति ज्ञाने%नन्याधीनप्रकाशत्वलक्षणं साध्यं नास्ति, तेन सपक्षे ज्ञाने सति पक्षमात्रवृत्ति ज्ञातृत्वं भवत्यसाधारणमिति शङ्कानवकाशः ।यद्यपि केवलव्यतिरेकिणो न प्रमाणत्वं सिद्धान्ते । अथापि परप्रक्रियया परान् प्रत्येतत्समर्थनं सम्भवत्येव । सिद्धान्ते तु पूर्वोक्तान्वयिनैव स्वप्रकाशत्वसिद्धिरात्मनः । नित्यत्वग्राहकप्रमाणबलाच्चात्मनः तत्प्रकाशस्यापि नित्यत्वमर्थसिद्धम् । श्रुतिभिश्च सकलार्थप्रतिष्टेति परमाचार्याणामाशयः ।।28।।

अथ प्रसङ्गात् प्रकाश पदार्थं निर्णेतुं विमर्शमुपक्षिपति कः पुन रिति । नित्यस्यापि ज्ञानस्य प्रतिकर्मव्यवस्थोपपादकत्वाच्चैतद्विमर्शस्य प्रकृतोपयोगिता । यदी ति । प्रकाशत इत्यत्र धात्वर्थः प्रकाशो ज्ञानम् । आख्यातार्थश्चाश्रयत्वमिति यदि कथ्यते इत्यर्थः । एतद्दूषयति तत इति । तत्र चे ति । व्यतिरेक्युदाहरणवाक्ये नित्यप्रकाशरूपविशेषनिषेधस्य प्रकाशसामान्याभ्युपगमपर्यवसायित्वाच्च घटादावागन्तुकज्ञानवत्त्वमभ्युपगतं भवेदित्यर्थः । न चैवं सति तत्र हेत्वभावो%ज्ञातृत्वं न स्यादिति वाच्यम् । अनात्मत्वस्यात्राज्ञातृत्वपदेन विवक्षितत्वात् । प्रकाशाश्रयत्वमात्रस्य तु साधनायोगः सिद्धत्वादिति च बोध्यम् । उक्तदोषपरिहाराय प्रकारान्तरं शङ्कते अथ तन्माभू दिति । यदि ज्ञानविषयत्वं प्रकाशमानत्वमुच्यत इति यावत् । एतदपि दूषयति तत इति । नित्यप्रकाशवत्त्वसाधनेनात्मनः सार्वदिकं ज्ञानविषयत्वं प्रसज्यत इत्यर्थः । इष्टमेवेदमिति चेत्तत्राह ज्ञाने ति । ज्ञानस्य विषयप्रकाशनव्यापारो हि इन्द्रियादिद्वारकः । अत इतरानपेक्षो

नित्यश्च ज्ञानविषयभाव आत्मनो दुःसाध इत्यर्थः । तथा नियम इति । करणमपेक्ष्यैव विषयीकरणमिति नियम इत्यर्थः । तथा भावे ति । करणव्यापारसापेक्षत्वदर्शनादित्यर्थः । न चे ति । स्वात्मभिन्नविषय एव विषयीकारस्य करणापेक्षत्वमुच्यत इति न च वाच्यमित्यर्थः । आत्मनो%पीति । स्वात्मप्रकाशने%पि शब्दलिङ्गादिकरणसापेक्षत्वदर्शनात् नियमसङ्कोचो न करणीय इत्यर्थः । ननु स्वरूपमात्रविषयकं नित्यज्ञानं सिषाधयिषितम् । अस्य चात्मविषयीकरणे न करणापेक्षेत्यत्राह विरुद्धे इति । स्वरूपमात्रस्यैव कर्तृत्वकर्मत्वयोरुपगमो विरुद्धः । स्वरूपमात्रज्ञाने आकारभेदादविरोधसमर्थनमपि न सम्भवतीत्याह नित्यत्वे त्यादिवाक्यद्वयेन । ननु स्वरूपस्यैव गम्यत्वेपि तस्यैव गमकत्वं सामान्यविशेषधर्मभेदाद्धटेतेत्यत्राह

रूपभेदेने ति । यथा शब्दशब्दस्य शब्दशब्दवाच्यत्वे%पि वाच्यता श्रोत्रग्राह्यगुणत्वाकारेण, वाचकता चानुपूर्वीविशेषेणेति न स्वयंप्रकाशत्वमपक्षस्य शब्दस्य, एवं ग्राह्यग्राहकतावच्छेदकधर्मभेदे पक्षीकृतस्यापि आत्मनो न स्वप्रकाशत्वं सिध्येदित्यर्थः। एवं विमर्शकेन पक्षद्वयं दूषितम् ।

अथ भाट्टप्रक्रियामनुवदति अथोच्येते ति । प्राकट्यं प्रकाशः, आश्रयत्वं च संबन्धः । प्रकाशत इति प्रतीतिव्यवहारौ च प्राकट्याश्रयत्वार्थकावेव प्राचुर्येण प्रवर्तेते । ज्ञानजन्यः प्रकाशश्च चेतनाचेतनसर्वपदार्थसाधारणः । स एव नित्यः स्वाभाविकश्चात्मनः साध्यतां ज्ञातृत्वबलादिति शङ्काग्रन्थार्थः । प्राभाकरमुखेन निराकरोतीमं पक्षं पराकृत इति । ज्ञातताव्यवहारस्य स्वप्रकाशज्ञानत एवोपपत्तेर्न ज्ञानजन्ये ज्ञातताख्ये धर्मान्तरे प्रमाणं किमपीति पराकरणप्रकारः । त्रिष्वप्येके ति । प्रकाशो ज्ञानम्, तदधीनव्यवहारानुगुण्यं सम्बन्धः प्रकाशत इत्यत्राख्यातार्थ इति पक्ष एव ज्ञेयज्ञानज्ञातृषु एकार्थकता प्रकाशतेव्यवहारस्य घटत इत्यर्थः । त्रितयव्यवहारानुगुण्यापादनं घटादिज्ञानस्य स्वभाव इति हार्दम् । ज्ञानातिरिक्तस्य प्रकाशस्य नित्यस्यात्मन्युपगमे तत्र ज्ञानं व्यर्थमिति चाह तत्त्वान्तरे ति । स्वविषयकज्ञाने सत्येवात्मनः प्रकाशमानतेति क्षेमसाधारणप्रयोजकतोपगमान्नात्मनि चैतन्यस्य वैयर्थ्यमिति शङ्कते यद्युच्येते ति । आक्षिपति संविदी ति । संवित् ज्ञानमेव, न ज्ञानाश्रयः । तथा च चैतन्यसमवायित्वस्य प्रकाशमानताप्रयोजकत्वे चैतन्ये तदभावात्प्रकाशमानता न घटेतेति भावः । ननु चैतन्यसम्बन्ध एव प्रकाशहेतुरुपेयत इति चेत्तत्राह कस्तये ति । तया-चेतनया । संबन्धविकल्पेन दूषणमत्र क्रियते । चैतन्यवदात्मसमवेतत्वस्य चैतन्यसंबन्धत्वे घटादेरप्रकाशापत्तिः । तदाह घटादे रिति । चैतन्यविषयत्वस्य तत्त्वे च चैतन्यस्यात्मनश्चाप्रकाशापत्तिः । तदाह आत्मन इति । आत्मनः-संविदः । तस्य-पुंसः । प्रकाशप्रयोजकस्य चैतन्यविषयत्वस्याङ्गुल्यग्रेणेव स्वात्मस्पर्शस्याशक्यत्वाच्चैतन्ये, कर्मकर्तृत्वविरोधादात्मनि चासम्भव इति हार्दम् । ननु कर्मकर्तृविरोधोपगमे%स्तु ज्ञानाश्रयतयैवात्मनि प्रकाशतेव्यवहारः । ज्ञानस्य त्वतीन्द्रियस्य ज्ञाततालिङ्गकानुमानात्प्राकट्यं सम्भवति प्रकाशतेव्यवहारनिदानमित्यत्राह ज्ञानाधीने ति । ज्ञानानुमानप्रतिक्षेपाच्च ज्ञानस्य ज्ञानरूपतयैव प्रकाशतेव्यवहारो वाच्यः । तथा च प्राकट्येन ज्ञानजधर्मेणार्थेषु, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतयैव चात्मनि प्रकाशतेव्यवहार इति त्रिष्वपि तस्यैकरूप्यासम्भव एतन्मत इति स्थितम् ।

एवं भाट्टमते ज्ञेयज्ञानज्ञातृषु प्रकाशतेव्यवहारस्यैकरूप्यासम्भवं गुरुमुखेन प्रोच्य गुरुमते%पि त्रिषु व्यवहारानुगुण्ये ऐकरूप्यासम्भवं विमर्शक उद्भावयति स्वप्रकाशे ति । ज्ञानविषयतया%र्थे, ज्ञानरूपतया ज्ञाने, ज्ञानाश्रयतया चात्मनि व्यवहारानुगुण्यं वक्तव्यमिति गुरुमते%पि वैरूप्यमशक्यपरिहारमित्यर्थः । दूषणान्तरमप्याह मतद्वये आत्मनी ति । अत्र शङ्का इन्द्रिये ति । यदर्थसंबद्धेन्द्रियलिङ्गादिना यज्ज्ञानं जनितम्, तत् तस्मिन्नर्थे प्रकटतां व्यवहारानुगुण्यं वा निष्पादयतीति शङ्कार्थः । प्रतिक्षिपति न खलु लब्धे ति । कार्यस्य स्वोत्पत्तावेव निमित्तकारणापेक्षा । न तु समुत्पन्नस्य स्वकार्यजनने%पि । अन्यथा कुलालसन्निधान एव घटेन जलस्याहरणम्, नान्यत्रेपि स्यादित्यर्थः । ज्ञानस्यैव स्वकार्यनिष्पादने स्वनिमित्तापेक्षेत्याश्रयणे चेदमपि वैषम्यं प्रसज्यत इति भावः । कुलालादिसमानाधिष्ठानम्-कुलालादिसमानाधिकरणम् । वैषम्यान्तरमप्याह न चे ति । अन्यत्र निमित्तनाशे कार्यनाशस्यादर्शनात् ज्ञानस्यैव निमित्तनाशेन नाशाभ्युपगमेनापि वैषम्यं प्रसक्तं पक्षद्वये%पीत्यर्थः । कं तर्हि प्रकाशस्य व्यवहारस्य वोपपत्तिः? तत्राति । इति इन्द्रियादिद्वारा प्रसृतस्य तेन सहार्थसन्निकृष्टस्य ज्ञानस्यार्थप्रकाशकस्यार्थप्काव्यवहार- जनकत्वं स्वीकार्यमनायत्येति हार्दम् । सिद्धान्तिनां पक्षो%यम् ।
तथाससती ति । इन्द्रियेण सह प्रवृत्त्यादिमत्त्वे हि ज्ञानस्य तदर्थसन्निकृष्टस्य तत्प्रकाशकस्येन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकोपपत्तिरित्यर्थः । अन्यथे ति । इन्द्रियादिद्वारकज्ञानार्थसन्निकर्षस्यानुपगमे निमित्तनाशस्य कार्यनाशे%हेतुत्वादिन्द्रियार्थसन्निकर्षादिनिवृत्तौ ज्ञाननिवृत्तिर्न स्यादित्यर्थः ।

न च सङ्ख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम्;

असिद्धत्वेन नाशस्य सङ्ख्याया बुद्धिनाशतः ।

एकसङ्ख्यव सङ्ख्यात्वादन्या%प्याद्रव्यभाविनी ।।29।।

सर्वा ह्येकाश्रया सङ्ख्या नित्यानित्यार्थवर्तिनी ।

यावदाश्रयसत्येव संमता सर्ववादिनाम् ।।30।।

द्वित्वादिका परार्धान्ता सङ्ख्या या%नेकवर्तिनी ।

सा%पि सङ्ख्यात्वसामान्ये सति कस्मान्न तादृशी ।।31।।

ननु नैकत्वं सङ्क्या; स्वरूपानतिरेकात् । अतः साधनविकलमुदाहरणम् ।

मैवम् । सङ्ख्यैव सा; द्रव्यान्तरे%प्यनुवृत्तेः । यदि घटादेः स्वरूपमेवैकत्वम्, ततो घट एकः, पट एक इति सर्वद्रव्यसाधारण्यमेकत्वस्य न स्यात् । नहि घटस्वरूपस्य पटस्वरूपेण संभवति सामानाधिकरण्यं घटः पट इति । अस्ति तु तदेकत्वस्य ।

ननु निमित्तनाशस्यापि कार्यनाशे हेतुत्वं क्वचिदेष्टव्यम् । अन्यथा%पेक्षाबुद्धिनाशाद्दित्वादेर्नाशस्यानुपपत्तेः । तथा प्रकृते%पि भविष्यतीति शङ्कते न चे ति । परिहरति असिद्धत्वेने ति । अपेक्षाबुद्धिनाशेन द्वित्वादिनाशस्यासिद्धत्वेन न निमित्तनाशेन कार्यनाशे द्वित्वादेर्नाशस्य निदर्शनत्वं संभवतीत्यर्थः । एके ति । यावदाश्रयभावित्वादेकत्वस्येव द्वित्वादेः सङ्ख्यात्वान्नापेक्षाबुद्धिनाशान्नाश इत्यर्थः । असिद्धत्वमेतेनोपपादितं भवति । फलितो%त्र प्रयोगः-द्वित्वादिर्यावदाश्रयसती सङ्ख्यात्वादेकत्ववदिति ।।29।।30।।31।।

दृष्टान्ते हेत्वासिदिं्ध शङ्कते ननु नैकत्व मिति । परिहरति मैव मिति । यदी ति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदम् ।

किंच-संङ्ख्यैकता विरुद्धत्वात् द्विसङ्ख्येवान्यसङ्खया ।

एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ।। 32 ।।

यत्तु अनेकद्रव्यवृत्तित्वे सति गुणत्वात् संयोगवदयावद्द्रव्यभाविनीद्वित्वादिसङ्ख्येति, तन्ननात्वे%नैकान्तिकम । न हि सतोरपि घटपटयोस्तन्नानात्वं नश्यति । न च तत् द्वित्वसङ्ख्यैव । त्रयाणां तदभावप्रसङ्गात् । न च तदेकत्वाभावमात्रम् । तुच्छस्यापि नानात्वापत्तेः ।

दृष्टान्ते हेत्वसिदिं्ध शङ्कते " ननु नैकत्व " मिति । परिहरति " मैव "-मिति । " यदी " ति । तत्तद्व्यक्तिस्वरूपस्यैवैकप्रतीतिव्यवहारनियामकत्वे घट एकः, पट एक इत्याद्यनुगतप्रतीतिव्यवहारानुपपत्तिः । तत्तद्व्यक्तित्वस्याननुगतत्वात् । एकत्वसङ्ख्यायास्तथात्वे तु एकत्वेनानुगमादनुगतप्रतीत्याद्युपपत्तिरिति भावः । तार्किकप्रक्रिययेदम् ।

स्वरूपत्वे बाधकमुक्त्वैकत्वस्य सङ्ख्यात्वे साधकमप्याह " सङ्ख्यकते " ति । अत्र प्रयोगः-एकत्वं सङ्ख्या सङ्ख्यान्तरविरुद्धत्वात् द्वित्वादिवदिति । हेतुं पक्षे घटयति " एक " मिति । अत्रेदं बोध्यम्-उद्देश्यतावच्छेदकावच्छिन्नपर्याप्तेर्द्वित्वादिसंबन्धतया भानात् एकत्वावच्छिन्नपर्याप्तेश्च द्वित्वादिसंबन्धत्वाभावेन न एकं द्वाविति प्रयोगः । एकं द्वित्ववदिति तु स्यान्नाम, अत्र द्वित्वसमवायस्यैव स्वरूपसंबन्धेन भानात्, तस्य चैकस्मिन्नप्यबाधात् । सङ्ख्यान्तरविरुद्धत्वं च सङ्ख्यान्तरपर्याप्त्यवच्छेदकावच्छिन्नपर्याप्तिकवृत्तिकत्वाभावलक्षणमिति । द्वित्वादेर्यावदाश्रयभावित्वानुमाने दृष्टान्ते साधनवैकल्यं परहृतमेतावता ।। 32 ।।

आपेक्षिकत्वात् द्वित्वादेः प्रतियेग्यववग्रहात् ।

बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ।। 33 ।।

अतश्चैतन्यस्यैवेन्द्रियद्वारा%र्थसन्निकर्ष एव तद्भावानुविधानोपपत्तिः ।

अन्यच्च, अर्थस्य प्रकाशकं हि ज्ञानं भवताम् । सर्वं च प्रकाशकं प्रकाश्यवस्तुसन्निकृष्टमेव प्रकाशकं दृष्टं दीपप्रभादि । अतस्तदपि तथेति युक्तमाश्रयितुम् । व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत्, केयं मूर्तिर्नाम ? यद्विरहिणः क्रिया%योगः । यदि परिभाषिकी द्रव्यत्वे सति क्वाचित्कतेति ।

इष्यत एव सा चैतन्ये । न हि तत्सर्वगतं द्रव्यम्, तथासति युगपत् सर्वार्थसिद्धिप्रसङ्गात् । क्वाचित्कत्वे तु तद्वि यदैकदैकेन्द्रियेण संप्रयुक्तं तदर्थाभिमुखम्, न तदेन्द्रियान्तरमधितिष्ठति । अत एव हि युगपज्ज्ञानानुत्पत्तिः । निरतिशयवेगं च तत्, युगपदिवातिशीघ्रमनेकेन्द्रियाधिष्ठानदर्शनात् । अतो यथोदितममूर्तत्वमसिद्धम् । स्पर्शवत्ता मूर्तिः, तद्वितरहान्निष्क्रियत्वमिति चेत् ; शब्देनानैकान्तः । स खलु शङ्खमुखादेर्दवीयसो%पि देशात् नोदनविशेषेण लोष्टादिरिव यावद्वेगं प्रतिष्ठते स्पर्शविहीनो%पि । स्पर्शरहितस्यापि मनइन्द्रियस्य क्रियावत्त्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव ।

कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत्, कथं वा विषयभावः, प्रकाशमानत्वम्, सङ्ख्यादियोगो वा तयोः ? यस्तत्र निर्वाहः, स एवात्रास्तु । अपि चातीततया%नागततया च तावप्यद्यापि विद्येते इति तेन रूपेण बोधसन्निकर्षे का%नुपपत्तिः ? किंच, यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक् तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाद्यन्तवर्तिना स्वयंभुवादिनेति नालोकं किञ्चित् । किञ्च-

सत्प्रतिपक्षमाशङ्कते " यत्त्वनेके " ति । परिहरति " तदि " ति । नानात्वंबहुत्वम् । तस्य च व्यासज्यवृत्तित्वाद्द्वित्वादिवद्गुणत्वमेव । न तु भेदरूपत्वम् । भेदस्याव्यासज्यवृत्तित्वादिति भावः ।

ननु यावदाश्रयं सत्त्वे आश्रयोपलम्भकाले नियमत एकत्वस्येव द्वित्वादेरुपलम्भः प्रसज्यते इति चेत्तत्राह " आपेक्षिकत्वा " दिति । संबन्ध्यन्तरग्रहसापेक्षग्रहस्य द्वित्वादेः प्रतियोगिनः संबन्ध्यन्तरस्याग्रहणात्, ग्रहणे वा द्वित्वादिबुभुत्साया अपेक्षाबुद्धेश्च तद्वोधे सहकारिण्या विरहेण न सदा ग्रह इति भावः । एवं च निमित्तनाशनाश्यत्वस्य न निदर्शनीभवितुमलं द्वित्वादत्युक्तं भवति । वस्तुतो%पेक्षाबुद्धिविशेषातिरिक्तं द्वित्वादिकमेवाप्रामाणिकमिति तन्नाशाधीनतन्नाशस्य न तरां प्रसक्तिरिति बोध्यम् ।। 33 ।।

नातीतानागते बुद्धेर्दूरे भवितुमर्हतः ।

बुद्ध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ।। 34 ।।

एवं च चैतन्यस्य

निरतिशयवेगितया%न्तरालदेशकालाग्रहणाभिमानो%लातचक्रगतक्रमवद्देशभेदसंयोगविभागाग्रहणाभिमानवत् । अपि चेन्द्रियलिङ्गसंस्कारादेर्यदर्थप्रतिनियतं रूपम्, तैनैवोपश्लिष्य निस्सरच्चैतन्यमपि तद्गोचरेणैव सन्निकृष्टते ; यथा गवादिपदशक्तिरेकबुद्धिसिद्धे%पि सामान्यविशेषात्मके वस्तुनि सामान्यांशेनैव संबध्यते, यथा वा विधिः प्राप्तांशपरिहारेणाप्राप्तांशमेव भावनायाः स्पृशति । अत इन्द्रियादिद्वारेण चैतन्यं तदर्थाभिमुखं निर्गच्छतीति न्याय्यम् । यथा%%ह भगवान् " तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि " इति । मनुश्च, " इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ।। " इति ।

यत्तु गुणश्चैतन्यं गुणिनमपहाय कथमन्यतो यातीति ; तदयुक्तम्, प्रहाणानभ्युपगमात् । अप्रहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारान्निश्चरति । विच्छिन्नायाश्च तस्याः सन्धानासंभवः शास्र एवोक्तः । दृश्यन्ते च गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः ।

ननु नभ इव विभुः शब्दो व्यञ्जकध्वनिवशेन प्रादेशिक इव गत्वर इव चोपलभ्यते । तथाहि-शब्दः सर्वव्यापी एकद्रव्यवर्तित्वे सत्याकाशगुणत्वात् तत्परिमाणवत् । मैवम्, अतद्गुणत्वात् । वायवीयः शब्दः, तेन नियतसहोत्पत्तिकत्वात्, तदीयस्पर्शवत् । यश्च येन द्रव्येण नियतसहोत्पत्तिर्गुणः स तद्गुण एव, यथा तथाविधा रूपादयः । नियतसहोत्पत्तिश्च वायुना शब्दः । उभयोरपि भेरीदण्डवंशदलनादिसंयोगविभागजत्वनियमात् । उत्पद्यते च शब्दः इन्द्रियग्राह्यत्वे सति गुणत्वात् गन्धादिवत् । कृतकश्च, क्रियोत्तरमेवोपलभ्यत्वात् संयोगादिवत् । न चाभिव्यञ्जकत्वं प्रयत्नादेः कल्प्यम्, गौरवात् । तत्प्रतीतिकारणत्वकल्पनादपि तत्कारणत्वकल्पनैव हि लघ्वी । अभिव्यञ्जकाश्च एकदेशावस्थितानेकेन्द्रियग्राह्यान् युगपदभिव्यञ्जन्ति, यथा प्रदीपो रूपसङ्ख्यापरिमाणानि करकादींश्चैकप्रदेशवर्तिनः । न चैवं ताल्वादिसंयोगविभागजनितपवन इति नासौ व्यञ्जकः ।

ज्ञानस्यार्थसन्निकर्षानुपगमे बाधकमुक्त्वा%र्थसन्निकर्षे साधकं चाह " अन्यच्चे " ति । ज्ञानस्य वहिःप्रसरणे%मूर्तत्वविरोधमाशङ्कते " व्योमव "- दिति । मूर्तत्वविकल्पेनैनां शङ्कां

निरस्यति " केय " मित्यादिना । " न हि त " दिति । बन्धदशायां ज्ञानस्याविभुत्वमेवेति भावः । " न तदे " ति । एकेन्द्रियाधिष्ठानकाले इन्द्रियान्तरसंपृक्तं सत्तन्न प्रवर्तयति तदर्थसन्निकर्षायेत्यर्थः । एवं चाविभुद्रव्यत्वलक्षणमूर्तत्वस्य ज्ञाने सत्वादमूर्तत्वमसिद्धमिति भावः । स्पर्शवत्त्वं मूर्तत्वमिति पक्षे दोषमाह " शब्देने " ति । यस्यास्पर्शत्वं तस्याक्रियत्वमिति नियमो%सिद्धः । शब्दस्यामूर्तस्यापि क्रियावत्त्वात् । तथा चास्पर्शस्यापि ज्ञानस्य प्रसरणादौ नानुपपत्तिरिति भावः । अनैकान्त्यप्रदर्शनं शब्दे तस्य द्रव्यत्वमतेन । तस्य द्रव्यत्वे विमत्यामपि संप्रतिपन्नस्थलान्तरे तद्दर्शयत् " स्पर्शे " ति । यद्वा ननु शब्दस्याश्रयद्वारैव गतिर्वाच्या । शब्दाश्रयश्च वायुः स्पर्शवानिति न निरुक्तनियमे क्षतिरिति चेत्तत्राह " स्पर्शे " ति । पदार्थविदः काणादाः, वाक्यार्थविदो जैमिनीयाः । उभयेषामपि सम्मतं मनसो निःस्पर्शस्यापि क्रियावत्त्वमित्यर्थः ।

अर्थसन्नकर्षेण ज्ञानस्यार्थप्रकाशकत्वे%तीतेनानागतेन वा%र्थेन सन्निकर्षायोगाज्ज्ञानन तत्तदर्थप्रकाशव्यवहारौ न घटेते इति शङ्कते " कथमतीते " ति । प्रतिबन्दीमाह "
कथं वे " ति । अतीतानागतयोर्वर्तमानज्ञानविषयत्वं वैशेषिकमते, वर्तमानज्ञानाधीनप्रकाशाख्यधर्मसमवायित्वं भाट्टमते, मतद्वये%पि द्वित्वादिसङ्ख्या च वर्तमानापेक्षाबुद्धिजन्यातयोः कथं घटत इत्यर्थः । उत्तरतौल्यं स्फोरयति " यस्तत्रे " ति । ज्ञानविषयत्वे ज्ञानाधीनधर्मभाक्त्वे वा ज्ञानाधीने वर्तमानत्वमर्थस्य नापेक्षितमित्यकामेनापि स्वीकार्यम् । अस्माभिरपि ज्ञानसन्निकर्षस्तथैवोपपाद्यत इति भावः । वस्तुतः सिद्धान्ते ध्वंसप्रागभागभावलक्षणावस्थान्तरेण तयोरपि ज्ञानकाले सत्त्वाज्ज्ञानसन्निकर्ष उपपद्यत एवेत्याह " अपि चे " ति । का%नुपपत्तिरित्यत्र क्वचित् का नामानुपपत्तिरिति पाठः । नन्वेवमपि तत्तत्कालस्य ज्ञानेन ग्रहणं न स्यादद्यतनेन, तस्येदानीमभावादित्यत्राह " किञ्चे " ति । ज्ञानास्यातिवेगितया तत्तत्कालसन्निकर्षेण तत्तद्ग्रहणमुपपन्नमित्यर्थः । व्यवहितकालसन्निकर्षे ज्ञानस्य निदर्शनं व्यवहितदेशसन्निकर्षो%तिवेगिनो नायनतेजसः ।

दूरत्वे%पि बुद्ध्या सन्निकर्षो घटत इत्युक्तम् । इदानीं बुद्ध्यपेक्षयादूरत्वमेव नेत्याह " नातीते " ति । बुद्ध्यदूरत्वमेव बुद्धिसन्निकर्षो बोध्यबोधबोद्धृसाधारण इति तु सिद्धान्तः ।। 34 ।।

नित्यत्ववादिनः शब्दा निर्भागव्योमवर्तिनः ।

श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ।। 35 ।।

देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितम् ।

तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः ।। 36 ।।

अत एव च नानात्वं प्रत्युच्चारणमिष्यताम् ।

कृतस्य कारणायोगाद्धेतुपौष्कल्यभेदतः ।। 37 ।।

किञ्चोदात्तानुदत्तत्वदीर्घत्वह्रस्वतादयः ।

गादिस्था युगपद्भान्तो न भिन्द्युः स्वाश्रयान् कथम् ।। 38 ।।

स्थानैक्यापातसादृश्यात् प्रत्यभिज्ञा%पि नैक्यतः ।

प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ।। 39 ।।

नन्वेवं चैतन्यसंयोगः, संयोगजो वा कश्चित्प्रकाशः प्राप्तः । उभयमपि तन्न चैतन्ये संभवति, भेदापेक्षत्वात् संबन्धस्य । आत्मनो%पि न चैतन्येन संयोगः, तद्धर्मित्वात् । न हि धर्मधर्मिणोः संबन्धः संयोगः । समवायो हि सः ; अयुतसिद्धसंबन्धत्वात् । संयोगस्तु पृथक्सिद्धयोर्द्रव्ययोः क्रियानिमित्ता प्राप्तिः, अकार्य कारणयोर्वा तयोर्निरन्तरस्थितिः । चैतन्यसंयोगसमवाययोरन्यतरस्य, संबन्धमात्रस्य वा प्रकाशत्वे ज्ञातृज्ञानज्ञेयशरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये । तत्त्वान्तरप्रकाशाभ्युपगमस्त्वनुपलब्धिबाधितो न दूषणान्तरं प्रयोजयति । अतो यद्व्यवहारोदयानुगुणं ज्ञानम्, तत् प्रकाशत इत्येवाभ्युपगमो युक्तः । त्रितयव्यवहारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं निमित्तवैरूप्यम् । न हि स्वभावाः पर्यनुयोगमर्हन्ति । एवं चेत्संयोगसमवायविरहिणो%पि पदार्थस्य निमित्तभेदानुसारेण व्यवहारहेतुः संविदिति युक्तमाश्रयितुम् ।

उच्यते । उक्तमत्र, न निमित्तकारणमनुरुध्य कार्यं स्वकार्यमारभत इति । व्यवहारानुगुणसंवेदनत्वे%पि प्रकाशपदार्थे प्रवृत्तिनिमित्तभेदो दुष्परिहर एव । बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभावप्रसङ्गात् । कर्मधारयाश्रयणे ज्ञातृज्ञेययोरसंवेदनत्वेनाप्रकाशप्रसङ्गः । व्यवहारोदयानुगुण्यं च व्यवहारतो%वगन्तव्यम् । ततः प्रागेव च भवति विदितत्वप्रतीतिर्व्याहारश्च।

यद्येवम्, कस्तर्हि प्रकासतेपदार्थः ? । न हि निरवद्यमेकरूपं ज्ञातृज्ञेयज्ञानानुगतं तमुपलभामहे । उच्यते । नूनं भवानश्रुतपूर्वी प्रथमाधिकरणस्य न्यायतत्त्वे । अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपादयद्भिः, "अनुभवादूरत्वं स्मृतिनिमित्त" मिति । एतदुक्तं भवति-संविददूरत्वं प्रकाश इति ।

आह-किमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा ? तथा विशेषणमुपलक्षणं वा अदूर इति ? विशेषणत्वे पक्षत्रये%पि संवेदनदूरत्वानुसन्धानपूर्विकया प्रकाशत इति प्रतीत्या भवितव्यम् । न च तथा%स्ति । उपालक्षणत्वे स्वरूपान्तरं वाच्यम् । न च दवगम्यत इत्युक्तम् । उच्यते ; अलमस्थाने संभ्रमेण ।

नन्वेवमपि व्यवहितदेशकालसन्निकर्षस्य मध्यवर्तिदेशकालसन्निकर्षनान्तरीयकतया मध्यवर्तिनामपि ग्रहणं स्यादिति प्रसङ्गमिष्टत्वेन परिहरति " एवं चे " ति । नन्वेवमपि चक्षुषा प्रसृतस्य ज्ञानस्य रसादिभिरपि सति सन्निकर्षे तेन रूपस्यैव प्रकाशनं न तु रसादेरिति व्यवस्था कथमित्यत्राह " अपि चे " ति । यदर्थप्रतिनियतं रूपम्-यदर्थ एव व्यवस्थितं बोधजननसामर्थ्यम् । तेन-तदर्थप्रतिनियतरूपेणेन्द्रियादिना । तद्गोचरेणैव-तत्तादिन्द्रियादियोग्यार्थेनैव । एवं च चाक्षुषज्ञानस्य न रसादिना सन्निकर्ष इति भावः । योग्यांशेनैव संबन्धे लौकिकं वैदिकं च निदर्शनं " यथे " ति " यथा वे " ति च । गवादिपदशक्तेस्तद्व्यक्तिलक्षणविशेषेण सम्बन्धे तत्तत्पदाद्व्यक्त्यन्तरबोधो न स्यात् । सामान्यांशेन संबन्धे तु स्यादिति गवादिपदसंबन्धयोग्यत्वं सामान्यस्यैव मतम् । विधेश्च प्राप्तार्थे%न्वयस्य निरर्थकत्वादप्राप्तेनैवान्वययोग्यता मता । तेन तेन च तत्तदन्वय इष्यते यथा, एवं तत्तदैन्द्रियिकादिज्ञानस्य तत्तदिन्द्रियाद्यर्थेनैव संबन्धो मन्तव्यः ; अन्यथा%न्धबधिरादिविलोपप्रसङ्गात्, अव्यवस्थाप्रसङ्गाच्चेति भावः । भावनायाः साध्यसाधनेतिकर्तव्यतान्वयित्वे%पि भावनान्ययिन्यप्राप्ते साधनांश एव विधितात्पर्यमिति मीमांसकाः । तदर्थाभिमुखमेव-इन्द्रिययोग्यार्थप्रकाशनैकतत्परम् । संबन्धमात्रं न सन्निकर्षः । किन्तु संबन्धविसेषः । स च तत्तदिन्द्रिययोग्यार्थेनैव तत्तदैन्द्रियिकज्ञनस्येति न चाक्षुषादिना

रसादेः प्रकाश इति हार्दम् । चाक्षुषादिज्ञानस्य रसादिन संबन्ध एव नास्तीति तु कश्चन पक्षः । प्रागुक्तपक्ष एव तु युक्तः । इन्द्रियार्थभिमुखतया ज्ञानस्य प्रसरणे श्रीमद्गीतावाक्यं प्रमाणयति " तदस्ये " ति । " इन्द्रियाणां हि चरतां

यन्मनो%नुविधीयते " इति पूर्वार्धम् । आत्मग्रहणप्रवृत्तं ज्ञानमिन्द्रियार्थप्रवणं मन इन्द्रियद्वारा विषयाभिमुखं नयतीत्यर्थः इन्द्रियद्वाराज्ञानस्य प्रसरणे मनोर्वाक्यम् " इन्द्रियाणा " मिति । क्षरति-बाह्यविषयमभिसरति । तेनेन्द्रियद्वारेण चैतन्यमिपि निस्सरति चर्मभस्त्रिकाच्छिद्रद्वारेव जलमित्यर्थः ।

"अप्रहायैवे" ति । सङ्कोचविकाशशालिनो ज्ञानस्यात्मधर्मस्यापरित्यज्यैवात्मसंबन्धं विकासावस्थया बाह्यार्थसंबन्धो घटत इति यावत् । गुणस्याप्याश्रयादन्यत्र गमने निदर्शनमाह " दृश्यन्त " इति । धर्म्यतिवर्तित्वंधर्मिदेशाधिकदेशसंबन्धित्वम् । गुणत्वं चायुतसिद्धप्रकारत्वलक्षणं द्रव्याद्रव्यसाधारणमत्र वाच्यम्, शब्दगन्धयोरद्रव्ययोरालोकप्रभयोश्च द्रव्ययोर्गुणत्वेनोपादानात् । गुणस्य गतिमत्त्वादि तु आश्रयांशद्वारा । न चैवं धर्म्यतिवर्तित्वमसिद्धमिति वाच्यम् । प्रसिद्धाश्रयशङ्खपुष्पाद्यतिवर्तित्वे तात्पर्यात् । " दूराद्गन्धो वाती " तिश्रुतिर्गन्धस्य गतिमाह । शब्दस्य गतिमत्त्वं "शङ्खनादो%य" मित्याद्युपलब्धेर्दूरे%पि । नन्वाकाशगुणत्वाच्छब्दस्याश्रयद्वारा%पि गतिर्नोपपद्यत इत्यत्राह " अतिसूक्ष्म " इति । भौतिकः-भूतजनितः । भेरीदण्डाभिघातादिनोद्भूते वायौ शब्दो जायते । आश्रयवाय्यंशविशरणवशाच्च नानादिक्षु तस्यापि सम्बन्धो घटत इति भावः । अतिसूक्ष्मत्वाद्दूरगन्तृत्वं वायोः । आश्रयधर्मश्चाश्रययिण्युपचरित इति बोध्यम् ।

नन्वाकाशगुणस्य शब्दस्य विभुत्वादेव न गमनापेक्षा । यत्कृते वायवीयत्वं कल्प्येत । व्यञ्जकयोगिदेश एवोपलम्भनियमाच्च न विभुत्वे%पि सर्वत्रोपलम्भप्रसङ्ग इति शङ्कते " ननु नभ " इति । शब्दस्य विभुत्वं साधयति " शब्द " इति । घटाकाशसंयोगादौ व्यभिचारवारणाय हेतौ विशेषणदलम् । घटाद्येकत्वादौ तद्वारणाय विशेष्यम् । एतद्दूषयति " मैव " मिति । स्वरूपासिद्धिमाह " अतद्गुणत्वा " दिति । आकाशगुणत्वाभावादित्यर्थः । नन्वाकाशगुणत्वं शब्दस्य शास्त्रसिद्धं कथं प्रतिक्षिप्यत इति चेत् ; उच्यते । आगमानुसारे आकाशस्यैव न विभुत्वमिति न तरां तद्गुणस्य विभुत्वम् । युक्त्या तु केवलया वायवीयत्वमेव सेत्स्यति शब्दस्येति हार्दम् । युक्तिमेवाह " वायवीय " इति । विभुत्वं प्रतिक्षिप्य नित्यत्वमपि शब्दस्य प्रतिक्षिपति मीमांसकाभिमतम् " उत्पद्यते चे " ति । अनेन वायवीयत्वानुमाने शब्दस्य हेतुविशेष्यांशासिद्धिरपि परिहृता । ननु तदुत्तरकालोपलभ्यत्वं तद्व्यङ्ग्यत्वादपि घटेतेत्यप्रयोजकत्वं हेतोरिति शङ्कां

प्रतिक्षिपति " न चे " ति । गौरवात्-तद्धेतुत्वकल्पनातस्तदभिव्यक्तिहेतुत्वकल्पनायां गौरवात् । विपक्षे गौरवप्रसङ्गः स्वपक्षस्यानुग्राहकस्तर्क इति हृदयम् । अभिव्यक्तिपक्षे%नुपपत्तिमप्याह " अभिव्यञ्जकाश्चे " ति । उच्चारणस्य वर्णाभिव्यञ्जकत्वे युगपदेव नानावर्णाभिव्यक्तिप्रसङ्गः । अभिव्यञ्जकस्यैकदेशस्थैकेन्द्रिय ग्राह्यसर्वाभिव्यञ्जनस्वाभाव्यादिति भावः । वर्णाभिव्यञ्जकपवने वैजात्यपरिकल्पने त्वतिगौरवम्-व्यक्तिहेतुत्वकल्पनम्, व्यक्तिव्यवस्थित्यै व्यञ्जकै वैजात्यकल्पनं चेत्यपि बोध्यम् ।

व्यञ्जकत्वे दोषमेवोपपादयति सार्धश्लोकेन " नित्यत्वे " ति । नित्यत्ववादिन इति षष्ठ्यन्तम् । मते इति शेषः । एकाश्रयकत्वमेकन्द्रियग्राह्यत्वं च विशेषणद्वयेव सूचितम् । तथा चैकोच्चारेणे सर्वव्यञ्जनप्रसङ्गो व्यञ्जकत्वपक्षे इति निगमयति " देशैक्ये " इति । " तदभावा " दिति । एकव्यञ्जकव्यङ्ग्यत्वाभावात् ध्वनेः-वर्णस्योच्चारणप्रयत्नोत्थितः कोष्ठ्यमारुतस्ताल्वादिस्थाने%भिघातं प्राप्त उत्पादक एव तस्य तस्य वर्णस्येत्यर्थः । व्यङ्ग्यत्वासंभवादुत्पाद्यत्वपक्षे प्रसक्तं प्रत्युच्चारणं गकारादेर्भिन्नत्वमपि सम्मन्तव्यमेवेत्याह " अत एवे " ति । विरुद्धधर्मोपलम्भादपि भेदं गादेः साधयति " किञ्चोदात्ते " ति । आदिपदेन तारत्वमन्दत्वादि ग्राह्यम् । एकस्यैव कालभेदेन विरुद्धान्वयसम्भवाद्युगपद्भान्त इत्युक्तम् । भान्तः-भासमानाः । व्यञ्जकत्वासम्भवादेव व्यञ्जकधर्मा व्यङ्ग्येसमारोप्यन्त इत्यपि दुर्वचमित्याशयः । ननु सो%यं गकार इत्यादिप्रत्यभिज्ञा कथं प्रत्युच्चारणं भेदे ? तत्राह " स्थानैक्ये " ति । सादृश्यमूलत्वाद्भ्रान्तिरूपा सेति भावः ।। 35 ।। 36 ।।37।। 38।। 39 ।।

भवत्वनुभवादूरं दूरादन्यद्विरोधि वा ।

तद्भावश्च प्रकाशत्वं (स्तु) किमत्र बहु जल्प्यते ।। 40 ।।

प्रकाशत इति प्रतिभासो%पि बुद्धिविप्रकर्षप्रत्यनीकबोधतत्संसृष्ट पदार्थस्वरूपविमर्श एव, बाह्यप्रकाशवत् ।

तत्रापि ह्यालोके तद्व्याप्तभूभागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते । यथा च तत्र तन्निमित्ता सन्तमसनिवृत्तिः, एवमिहापि ज्ञानदूरत्वनिमित्ता अज्ञाननिवृत्तिः । अत एव चानुभूते अनुभवे चोत्तरकालतुल्यत्स्मरणम् ।

एवं च चैतन्यसंबन्धविशेषविषयविकल्पो%प्यलब्धावकाश इति निरनुयोज्यानुयोग एव । नैरन्तर्यपदप्रयायमत्यन्तसामीप्यमात्रं च संयोगः । स एव परतन्त्राश्रितः समवायपदपरिभाषाभूमिर्वैशेषिकाणामिति नार्थान्तरत्वमूरीकृत्य विकल्पः संभवति । यथा च संयोगान्तर्भावः समवायस्य, तथा संबन्धविमर्शे दर्शयिष्यामः । ज्ञानादूरत्व प्रयुक्तो व्यवहारक्षमतालक्षणो वा परः प्रकाशः । स च सत्यपि स्वनिमित्तपौष्कल्ये प्रतिबन्धात् योग्यताविरहाद्वा व्यापित्वसङ्गित्वाद्यात्मधर्मान्तरेषु देहेन्द्रियादौ च न सञ्जायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः ।

एवं नित्यत्वविभुत्वप्रतिक्षेपेण वायवीयगुणत्वं व्यवस्थापितं युक्त्या शब्दस्य विसृत्वरत्वं च । आत्मगुणस्य चैतन्यस्यान्यत्र संबन्धमात्रे दृष्टान्तः शब्दो गन्दश्च । आश्रयमन्तरा%न्यत्र गमने दृष्टान्तः सूर्यालोको मणिप्रभा च । द्रव्यरूप्वादन्यत्र गमनं संभवति । आश्रयसंबन्धाविच्छेदात्तद्धर्मत्वं च सुस्थितमिति प्रघट्टकार्थः ।

एवमर्थसंबन्धश्चैतन्यस्योक्तः । प्रकाशतेव्यवहारश्च चैतन्यसंबन्धप्रयुक्त इत्यभिप्रेतम् । अत्र प्राभाकरः शङ्कते " नन्वेव " मिति । चैतन्यसंयोगस्य प्रकाशमानताव्यवहारनियामकत्वे चैतन्ये तदाश्रये तदाश्रये च तद्व्यवहारानुपपत्तिः । चैतन्यसमवायस्य तथात्वे च चैतन्यतद्विषययोस्तद्व्यवहारानुपपत्तिः । चैतन्यसंबन्धमात्रस्य तथात्वे चेन्द्रियादेरपि प्रकाशप्रसङ्गः । अतो निमित्तविसेषादेव तत्तज्ज्ञानस्य तत्तदर्थव्यवहारहेतुत्वं स्वभावतश्च स्वस्वाश्रयव्यवहारहेतुत्वमेष्टव्यमित्यनर्थकमर्तचैतन्यसंबन्धकल्पनमिति समुदिताशयः । विभुद्वयस्य संयोगो%स्तीति पक्षे क्रियाया अभावात्तत्र संयोगं प्रकारान्तरेण निर्वक्ति " अकार्ये " ति । अवयवावयविभिन्नयोर्द्रव्ययोरन्तरालाव्यवहितस्थितिः संयोग इत्यर्थः । स चाविभौ क्रियया । विभ्वोस्तु स्वत एवेति भावः । अर्थसंबन्धस्य निरासादेव तज्जन्यधर्मान्तरप्रकाशपक्षो निरस्तः । धर्मान्तरप्रकाशे%नुपलब्धिबाधमप्याह " तत्त्वान्तरे " ति । " अपर्यनुयोज्य " मिति । स्वयमेव स्वस्य व्यवहारहेतुः, स्वाश्रयस्य स्वसमवायात्, विषयस्य तु स्वनिमित्तानुसारता इति प्रयोजकवैषम्यं न दूषणावहमित्यर्थः ।

गुरुमते%प्युक्ते दोषमाह विमर्शकः " उच्यते
" इति । स्वनिमित्तकारणवत्येव देशे स्वकार्यजनकत्वमदृष्टमन्यत्रेति इन्द्रियसन्निकर्षवत्येवार्थेज्ञानेन व्यवहारो निष्पाद्यत इति न

सम्यगिति भावः । दूषणान्तर मप्याह " व्यवहारे " ति । ज्ञातृज्ञेययोःस्वव्यवहारानुगुणज्ञानकत्वलक्षणः प्रकाशः । ज्ञानस्य तु स्वव्यवहारानुगुणज्ञानत्वलक्षणः स इति त्रिष्वनुगतः प्रकाशपदार्थो नास्त्यनुगतव्यवहारनियामक इत्यर्थः । ननु ज्ञानाधीनं व्यवहारानुगुण्यमेवास्तु प्रकाशः । स चानुगत इत्यत्राह " व्यवहारोदये " ति । व्यवहारयोग्यतारूपप्रकाशस्य व्यवहारत एवानुमेयतया व्यवहारात्पूर्वमेव जायमानौ विदितत्वप्रतीतिव्यवहारावनुपपन्नावित्यर्थः ।

एवं विमर्शकेन प्रकाशपदार्थ आक्षिप्ते तटस्थः शङ्कते " यद्येव " मिति । " न ही " ति । ज्ञानसंबन्धमात्रस्याप्रकाशमानार्थसाधारण्यात् समवायादेश्चाननुगतत्वादन्यूनानतिरिक्तः प्रकाशतेपदार्थो दुर्निरूप इत्यर्थः । प्रकाशतेपदार्थः-प्रकाशतेपदघटकप्रकृतिप्रत्ययार्थः । सिद्धान्ती समाधत्ते " उच्यते " इत्यादिना । प्रथमाधिकरणस्येति शैषिकषष्ठी । अनुभवे स्मृतिम् -अनुभवविसयिणीं स्मृतिम् । " अनुभवादूरत्व " मिति । विषयस्येवानुभवस्याप्यनुभवादूरत्वमस्त्येवेति स्मृतरुपपद्यत इति यावत् । नन्वस्तु नामैतत् । प्रकृत किमायातम् ? तत्राह " एतदुक्त " मिति । संविददूरत्वं संविदो%प्यस्तीत्युक्तप्रायम् । तद्रूप एव प्रकाशपदार्थस्त्रिष्वनुगत इत्युक्तं भवतीत्यर्थः।

शङ्कते " किमिद " मिति । नञो नानार्थत्वात्प्रकृतेत को%र्थ इति जिज्ञासया शङ्का । नञो यं कञ्चनाप्यर्थमभ्युपगम्य शङ्कान्तरं " तथे " ति । दूरभेदादेः प्रकाशपदार्थत्वे दूरज्ञानापूर्विकयैव तत्प्रतीत्या भवितव्यम् । न च तथोपलभ्यते । तस्योपलक्षणतेवे तूपलक्ष्याकारान्तरं वाच्यम् । नचतदस्ति । एवं पक्षद्वये%प्यनुपपत्तिप्रतीतिः शङ्कबीजम् । विकल्पासहत्वात्संविददूरत्वं न प्रकाशः स्यादित्याक्षेपो वा " कि " मित्यादिः । परिहरति " उच्यते " इति ।

प्रथमविकल्पं प्रतिवक्ति " भवत्वनुभवे " ति । द्वितीयकल्पं प्रतिवक्ति " तद्भावश्चे " ति । अनुभवदूरभिन्नत्वमनुभवदूरविरोधित्वं वा प्रकाशत्वम्-प्रकाशमानत्वम्, प्रकाशपदार्थ इति यावत् । अत्रानुभवपदं ज्ञानसामान्यार्थकम् । अत्रेदं हार्दम्-शाखा चन्द्र इत्यादिवदुपलक्ष्योपलक्षणयोः सामानाधिकरण्यनिर्देशः " तद्भावश्च

प्रकाशत्व " मिति । तथा च संविददूरत्वोपलक्षितो धर्मः प्रकाश इति ।। 40 ।।

अतो यथोक्तनीत्या%%त्मा स्वतश्चैतन्यविग्रहः।

ज्ञा(भा)नस्वभाव एवान्यत्करणैः प्रतिपद्यते ।।41।।

यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चितेरागन्तुकत्वमुपपादितम्, तदपि गुणवृत्तापरिज्ञानेन; यतः

प्रकाशपदार्थविचारो वृत्तः प्रासङ्गिकः । विषयवित्तिवेलायामेवात्मनो वित्त्यधीनः प्रकाश इति वादस्य निरासार्थं प्राग् यत्समर्थितं ज्ञानस्वभावत्वमात्मनो%न्यापेक्षप्रकाशत्वं च, तन्निगमयति अत इति कारिकया । यतो ज्ञेयज्ञानज्ञातृसाधारणः प्रकाशो निर्वक्तुं शक्यते, अतः पक्षसपक्षानुगतप्रकाशसिद्ध्या सजातीयेतिकारिकोक्तयुक्तया स्वाधीनस्वप्रकाश आत्मा सिद्धः । स च ज्ञानस्वभावक एव । नत्वागन्तुकमस्य ज्ञानम् । चक्षुरादिना प्रसृताच्च धर्मभूतज्ञानादर्थान्तरस्यापि प्रकाशको भवत्यात्मेति कारिकार्थः । हानस्वभाव इति प्राचीनमुद्रितपाठस्तु न समीचीनः ।।41।।

स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः ।

नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ।।42।।

यथा च बोधोपाधिरात्मभावः, तथोपपादितम् । सुखदुःखे च नात्मधर्मो, इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् । व्याकरिष्यते चैतदन्तिमपदार्थसमर्थनावसर इति साधनविकलता च निदर्शनस्य । रागद्वेषादयो%पि मनोवस्थाविशेषाः न साक्षादात्मगुणाः । विज्ञायते हि "कामः सङ्कल्पो विचिकित्सा श्रद्धा%श्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्येतत्सर्वं मन एवे"ति । गीयते च "इच्छा द्वेषः सुखं दुःख"मिति । "चेतनाधृति"रिति क्षेत्रलक्षणमैकपद्येन । चेतनया ध्रियमाणः सङ्घातो हि देहः । स्ववृत्त्यनुगुणचैतन्यमात्रादेव प्रवर्तमानं क्षेत्रमिति यावत् । अत एव ह्यन्तर्यामिब्राह्नाणे "यस्य पृथिवी शरीरम्" "यस्यापः शरीरम्" "यस्यात्मा शरीर"मित्यादिनिर्देशः । "तानि सर्वाणि तदूपु"रिति च पुराणे ।

किमिदं धीरिति ? उत्प्रेक्षाभिप्रायं तत्, न ज्ञप्तिविषयम् । तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि "न विज्ञातुर्विज्ञातोर्विपरिलोपो विद्यते" इति, "न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते अविनाशित्वा"दिति च । ज्ञातुरविनाशित्वादेव ज्ञानस्याविनाशमुपपादयन्तीयं श्रुतिर्ज्ञातुः स्वरूपप्रयुक्तं ज्ञानमिति दर्शयति । न च दृष्टिविशेषणतया द्रष्टुरुपादानमिति साम्प्रतम्, पुंल्लिङ्गनिर्देशविरोधात्; हेतोश्च साध्यसमत्वापत्तेः । द्रष्टुः स्वरूपनिर्देशपरत्वे%पि

दृष्टिपदस्यासमाधेयमहेतुत्वम्, स्वपक्षहानिश्च । आत्मनस्तु नित्यत्वमप्रचाल्यमनेकन्यायागमसिद्धं युक्तं हेतुतया व्यपदेष्टुम् । न हि सति पदार्थे तत्स्वरूपोपाधयो न भवितुमर्हन्ति, सति कनक इव पैङ्गल्यम्, प्रभेव च प्रदीपे । तेनायमर्थः-आत्मस्वभावभूतायाश्चितेर्बाह्याभ्यन्तरविषयविशेषसंबन्धप्रकारप्राप्तदृष्टिघ्रातिरसयतिवक्तिश्रुतिमतिस्पृष्टिविज्ञातिव्यपदेशभेदायाः स्वात्मावभासिन्याः संसारापवर्गावस्थयोर्न जातुचिद्विपरिलोपो विद्यत इति । "स यथा सैन्धवघनो%नन्तरो%बाह्यः कृत्स्नो रसघन एव, एवं वा अरे अयमात्मा अनन्तरो%बाह्यः कृत्स्नः प्रज्ञानघनः" तथा, "स्वेन भासा स्वेन ज्योतिषा" "आत्मज्योतिः सम्राडिति होवाच" इति । तथा%पवर्गदशायामेवच्छन्दोगाः " न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति" "नोपजनं स्मरन्" इति, "स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते" इति च । अन्याश्च "जानात्येवायं पुरुषः, ज्ञातव्यं तु न वेद" इत्याद्याः सकलकरणोपरमदशायामप्यात्मनः प्रबोधमभिदधानाः श्रुतयो बोधस्वभावतामस्य द्रढयन्ति । "निर्वाणमयएवायमात्मा ज्ञानमयो%मल" इत्यादि च पुराणे । "ज्योतिषामपि तज्ज्योति"रित्यादि इतिहासे । भगवान् शौनकश्च-

"यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणोः ।

दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ।।

यथोदपानकरणात् क्रियते न जलाम्बरम् ।

सदेव नीयते व्यक्तिमसतः सम्भवः कुतः ।।

तथा हेयगुणध्वंसादवबोधादयो गुणाः ।

प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ।।"इति ।

अत एव हि सूत्रकारश्च "ज्ञो%त एव" इति ।

( इति धर्मभूतज्ञाननित्यत्वस्य श्रुत्यादिभिः प्रतिष्ठापनम्)

तदेवमात्मस्वभावभूतस्य चैतन्यस्य चैतन्यस्य विषयसंश्लेषविशेषेषु निश्चयसंशयादिव्यवहारभेदः, तत्तद्विशेषभाजि चैतन्ये वा । चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः; तस्यैव बहुभिर्युगपददृढसंयोगः संशयः; ज्ञानवासनानुसारेण संश्लेषः स्मरणमित्यादिः । उक्तं च "आत्मधर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यते" इति । नचैवं संयोगस्योभयाश्रितत्वेन विषयस्यापि ज्ञातृत्वप्रसङ्गः । विषयेण संयोगाभावात् ।

चैतन्येन हि तस्य संयोगः, बाह्यप्रकाशवत् । यथा खलु आलोकसंबन्धे%पि प्रकाशे सूर्यादेरेव प्रकाशकत्वं न घटादेः । अथ सूर्यादितन्त्रत्वादालोकस्य स एव तद्धर्मा तत्संबन्धेनार्थान्तरस्य प्रकाश (क) इत्युच्यते, इहापि तर्हि चैतन्यस्यात्मधर्मत्वात्तेनार्थान्तरं स्पृशन् स एव जानातीत्युपपद्यते । तत्सिद्धं चैतन्यस्वभाव एवायमात्मा आत्मानं विदन्नेवास्ते; अन्यत्तु निमित्तभेदानुसारेण जानाति न जानाति चेति ।

(इति धर्मभूतज्ञानस्य संशयाद्यवान्तरभेदोपपादनम्)

तदेवं चैतन्यस्वभावः परिस्फुरन्नप्ययमात्मा गम्भीरजलाशयचरमीनवत् जलसंसृष्टक्षीरवच्च न विविच्य स्फुटं चकास्तीति तदुपपादनन्यायानुगताः पूर्वानुमानभेदाः वचनानि चाद्रियन्ते । तैरप्यपरितुष्यन्तो यमनियमादियोगा

ङ्गानुष्ठानक्षपिताशुद्ध्यावरणमलाःनिरोधाभ्यासपुटपाकनिर्धूतरजस्तमःकलङ्कसत्त्वोद्रेकसमुत्थस्वेतरसकलविषयवैलक्षण्यापरोक्षज्ञानाय प्रयतन्ते । भावनाप्रकर्षपर्यन्ते चापरोक्षज्ञानमुदयत इति सर्ववादिनिर्विवादमिति न तदुपपादनायाद्य प्रयत्यते ।

अथ यद्बोधस्य स्वाभाविकत्वप्रतिपक्षतया%%गन्तुकत्वमुक्तम्, तदनूद्य प्रतिक्षिपति यत्तु सुखादीति । तदपीति । गुणवृत्तं-गुणस्वभावः । स च कः? । तत्राह स्वरूपोपाधय इति । स्वरूपोपाधित्वं स्वरूपनिरूपकत्वम् । तथाभूतानां धर्माणां यावदाश्रयभावित्वं स्वभावः । अन्येषां त्वागन्तुकत्वमिति गुणवृत्तम् । अस्त्वेवम्, ततः किम्? तत्राह नैवमिति । वैषयिकस्य सुखादेरागन्तुकत्वं स्यादेव । बोधस्य त्वात्मस्वरूपनिरूपकत्वादात्मनश्च नित्यत्वस्य स्थापयिष्यमाणत्वान्नागन्तुकत्वं साधयितुं शक्यत इति बावः ।।42।।

यथा चेति । बोधोपाधिरिति बहुव्रीहिः । ज्ञानाभिन्नस्वरूपनिरूपकधर्मक आत्मपदार्थ इत्यर्थः । ज्ञानवत्त्वेनैवोपलभ्यमानत्वयुक्तया बोधोपाधित्वमात्मनः समर्थितम् । विषयसंबन्धकादाचित्कत्वाद्विषयोपरक्तज्ञानस्य कादाचित्कत्वप्रतीतावपि ज्ञानस्वरूपं नित्यमेवेति भावः । यद्यपि ज्ञानस्यात्मस्वभावत्वे नित्यत्वे च शास्त्रमग्रे प्रमाणीकरिष्यते । अथापि युक्तिप्रधानत्वात्प्रकरणस्यास्य युक्तिरेव पुरस्कृतेति बोध्यम् । अनेन ज्ञानस्यागन्तुकत्वानुमाने स्वूरूपनिरूपकधर्मभिन्नत्वमुपाधिरित्युक्तं भवति । अथ तत्र निदर्शने हेत्वासिद्धिमप्याह सुखेति । अनुकूलप्रतिकूलज्ञानान्येव राद्धान्ते

सुखदुःखरूपाणि। तेषां च पक्षान्तर्भावान्न निदर्शनता । ज्ञानविशेषातिरिक्ते च सुखदुःखे करणपाटवापाटवलक्षणे । तयोश्च नात्मगुणत्वमिति हेत्वासिद्धिर्दृष्टान्त इति भावः । अन्तिमेति । स्वतःसुखीत्येतदंशसमर्थनावसर इत्यर्थः । नन्वेवमपि रागादेर्दृष्टान्तता स्यात्, आत्मविशेषगुणत्वादागन्तुकत्वाच्चेत्यत्राह रागेति । मनोवृत्तिभेदा रागादयो नात्मधर्माः । किन्त्वग्निधर्मस्यौष्ण्यादेस्तत्संसृष्टस्थाल्यामिव मनोधर्माणामात्मनि केवलं प्रतीतिः । तथा चोक्तं "निर्वाणमय एवायमात्मा ज्ञानमयो%मलः । दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः।।" इति भावः । रागादेरन्तःकरणधर्मत्वं श्रुत्यामपि प्रतीयत इत्याह विज्ञायत इति । अस्मिन्नर्थे भगवद्वचनमपि संवादयति गीयते चेति । क्षेत्राश्रितत्वादन्तःकरणस्य तद्धर्मा रागदयः क्षेत्रधर्मत्वेनोक्ताः । नन्वत्र चेतनाधृतिरित्यपि । पठ्यते । अतो बोधस्यापि नात्मधर्मत्वमित्यत्राह चेतनाधृतिरिति । चेतनेति धृतिरिति च न पदद्वयम् । किन्तु चेतनाधृतिरिति समस्तम् । चेतनेन,चेतनया वा आधृतिर्यस्येति चेतनाधार्यं नियमतः शरीरमिति शरीरलक्ष्मोच्यते%त्रेति भावः । तदाह स्ववृत्तीति । वृत्तिः सत्ता, प्रवृत्तिर्वा । प्रवर्तमानम्-प्रकर्षेण वर्तमानं लब्धस्थितिकम्; प्रवृत्तिमद्वा । आत्मचैतन्यसम्बन्धाधीनस्वसत्ताप्रवृत्तिसामान्यकं शरीरमिति फलितो%र्थः । इदमेव शरीरलक्ष्म साधु । करचरणादिमत्त्वादिलक्षणानामव्याप्त्यादिदोषादिति हृदये निधाय पृथिव्यादीनां परमात्मशरीरत्वपरश्रौतवचनान्युपादत्ते अत एवेति । भगवत्सङ्कल्पात्मकज्ञानेनैव लब्धस्वरूपस्थितिप्रवृत्तिकत्वात्सर्वस्य तच्छरीरत्वं शोश्रुयते मुख्यमेवेति भावः ।

किमिति । नन्वन्तःकरणधर्मेषु धीरपि पठ्यते । तन्न बोधस्यात्मस्वभावत्वमिति गर्भितं चोद्यमत्र । परिहरति उत्प्रेक्षेति । चित्तवृत्तिविशेषेषु उत्प्रेक्षा धीरित्युच्यत इत्यर्थः । यद्यपि कामादिकानामपि मतमात्मधर्मत्वम् । परं नैते स्वाभाविका आत्मनः, किन्तु कर्माद्युपाधिनिबन्धनाः । कामादितत्तद्बुद्धिवृत्तिहेतुव्यापारवत्तया च मनसस्तत्तदभेदनिर्देश औपचारिकः श्रुतौ कृत इति सिद्धान्तः । अथाप्यवस्थाविशेषविशिष्टस्य ज्ञानस्यैव रागादिरूपतया ज्ञानकादाचित्कत्वानुमाने

न रागादेर्दृष्टन्तता संभवति । नच विशिष्टनिदर्शनेन ज्ञानमात्रस्यागन्तुकत्वं साध्यमिति वाच्यम् । अवस्थाविशिष्टस्यैवोपलभ्यमानतया%विशिष्टेज्ञानमात्रे आगन्तुकत्वसाधनायोगात् । तस्य श्रुतिसिद्धत्वे च तन्नित्यत्वमपि श्रुतिसिद्धमेवेति धर्मिग्राहकमानबाधः ।

असतो%वस्था%योगेन च ज्ञाननित्यत्वमेव युक्तिमदिति हार्दम् । यथाश्रुतं त्वभ्युपगमवादेन । ज्ञाननित्यत्वे श्रुतिमुदाहरति श्रूयते हीति । विज्ञातित्वदृष्टित्वाद्यवस्थाभाजो ज्ञानस्वरूपस्य नित्यत्वमत्र विवक्षितम् । विपरिलोपः-विनाशः । नन्वत्राविनाशित्वमेवोक्तम्, नानाद्यनन्तत्वं ज्ञानस्येत्यत्राह ज्ञातुरिति । स्वरूपनिरूपकत्वेन नित्यात्मस्वरूपप्रयुक्तस्य ज्ञानस्य पुरातनत्वमपि फलतीति भावः । न चेति । अभेदेन दृष्टिविशेषणत्वं द्रष्टृपदस्य न युक्तं, तथासति द्रष्ठ्र्या इति स्त्रीलिङ्गनिर्देशेन हि भाव्यमिति भावः । शब्दविरोधमुक्त्वार्थविरोधमाह हेतोश्चेति । साध्यसमत्वम्-असिद्धत्वम् । सर्वकालवर्तमानतालक्षणनित्यत्वरूपसाध्यस्येवाविनाशित्वरूपहेतोरप्यसिद्धिरित्यर्थः । अविनाशित्वस्यैव साध्यतया तस्यैव हेतुत्वायोग इति वा । अर्थान्तरपरत्वमाशङ्क्य परिहरति द्रष्टुरिति । अत्र योजनायां दृष्टिपदं भावप्रधानम् । ज्ञानत्वायोगव्यवच्छेदो द्रष्टुः साध्यः । अत्र चाप्रयोजकत्वेन हेतोरहेतुत्वम्-असाधकत्वं दुष्परिहरमिति बावः । स्वपक्षेति । आत्मनो ज्ञानरूपत्वोपगम आगन्तुकज्ञानवादिनो%पसिद्धान्तश्चेत्यर्थः । अद्वैत्यभिमते च निरुक्तश्रुत्यर्थे दूषणमत्राभिमतम् । यथा-ज्ञातुर्ज्ञानस्वरूपानतिरेके साध्ये व्यधिकरणासिद्धत्वेनात्मनित्यत्वस्याहेतुत्वम् । ज्ञातुरहमर्थ स्यात्मत्वाविनाशित्वोपगमे चापसिद्धिन्त इति । निरुक्तश्रुतेरभिमतमर्थं वक्तुं विषयं विशोधयति वाक्यद्वयेन आत्मनस्त्विति, नहि सतीति च । नित्यात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य नित्यत्वे हेतुर्वाक्यद्वयेन समसूचि । अथ श्रुतिवाक्यार्थमाह तेनेति । द्रष्टुरिति व्यधिकरणविशेषणं दृष्टेर्ज्ञानस्य धर्मभूतस्य । आत्मनो नित्यत्व मविनाशित्वादात्मन इत्युक्तम् । द्रष्टुरिति धर्मिनिर्देशाच्चात्मस्वरूपनिरूपकधर्मत्वं ज्ञानस्य सिद्धम् । तथा च फलितं हेतुमाह आत्मस्वभावभूताया इति । नित्यात्मस्वभावत्वं हेतुः । एतेन व्यधिकरणासिद्धिशङ्का निरस्ता । विषयविशेष संबन्धप्रकारः-इन्द्रियादिद्वारकप्रसृतिभेदाधीनचैतन्यार्थसंबन्धविशेषलक्षणः, तेन प्राप्तो दृष्ट्यादिव्यपदेशो ययेति समासः । दृष्टिश्चाक्षुषमध्यक्षम् । घ्रातिर्घ्राणजम् । रसयतिः-रासनम् । वक्तिः-शाब्दं ज्ञानम् । श्रुतिः-श्रावणमध्यक्षम् । मतिरनुमानम् । स्पृष्टिः-स्पार्शनमध्यक्षम् । विज्ञातिरुपासनम्, योगजः साक्षात्कारो वा । स्वात्मावभासिन्याः-स्वप्रकाशायाः । ज्ञानस्यात्मस्वभावत्वे नित्यत्वे चान्या अपि श्रुतीरुदाहरति स यथेति । अनन्तर इति बाह्यः, अबाह्य इति आन्तरश्च प्रदेशः सामस्त्येन

विवक्षितः । कात्स्नर्यं चात्मनः स्वरूपतो धर्मतश्च । तथाच ज्ञानस्वरूपत्वं ज्ञानस्वभावत्वं चात्मनः सदा लभ्यते । उक्ते%र्थे श्रुत्यन्तरं स्वेन भासा स्वेन ज्योतिषेति । स्वरूपतो धर्मतश्च प्रकाशरूपत्वमत्रोच्यते । आत्मज्योतिरित्यपि निरुक्तार्थमेव ।सूर्यादिज्योतिर्हिज्योतिष्मज्ज्योतीरूपं च, तथा%%त्मापि । सूर्यादिज्योतिषः प्रकाश इव, आत्मनो ज्योतीरूपं ज्ञानं स्वाभाविकमिति चात्र विवक्षितम् । मुक्तौ ज्ञानानुवृत्तौ श्रुतिमुपक्षिपति तथा%पवर्गेति । स्वाभाविकाकाराविर्भावलक्षणायां मुक्तौ ज्ञानानुवृत्त्या ज्ञानस्यात्मस्वभावानुबन्धित्वं प्रसिध्यतीति भावः । स्वापे%पि ज्ञानानुवृत्तिपरां श्रुतिमाह अन्याश्चेति । सतो%पि ज्ञानस्यार्थसन्निकर्षाभावात्स्वापे नार्थप्रकाश इति जानात्येवेत्यादेरर्थः । नित्यत्व आत्मस्वभावत्वे च ज्ञानस्य स्मृतीश्चोदाहरति निर्वाणेति । पुराणे-श्रीमति वैष्णवे । ज्ञानमय इति । मयट् प्राचुर्ये । एवकारो%त्रापि संबध्यते । ज्ञानप्रचुर एवेत्यवधारणेन निरुक्तार्थलाभः । ज्योतिषामपीति महाभारते श्रीभगवद्गीतायाम् । ज्ञाननित्यत्वादौ स्फुटंश्रीविष्णुधर्मवचनमुपक्षिपति भगवानित्यादिना । आहेत्यध्याहार्यम् ।

उक्तार्थे सूत्रमपि प्रमाणमित्याह अत एव हीति । अतः-श्रुतित एव आत्मा ज्ञः-ज्ञातैवेति सूत्रार्थः । ज्ञ एवेत्यनेन नित्यत्वमात्मस्वभावत्वं च ज्ञानस्य सूत्रकृदभिमतम् । अत एव ज्ञाननित्यत्वे स्वापे%पि प्रकाशः स्यादित्याशङ्क्य परिहृतं पुंस्त्वादिवदित्यनेन ।

नन्वेवं ज्ञानस्यात्मधर्मभूतस्य स्वाभाविकत्वे तस्य संशयनिश्चयादिभेदः स्मृत्यनुभवभेदश्च कथम्? तत्राह तदेवमिति । युगपत्झटिति, नैरन्तर्येणेति यावत् । ज्ञानवासना-अनुभवाधीनसंस्कारो ज्ञानसूक्ष्मांशः । चैतन्यार्थसंश्लेषविशेषः, अर्थसंश्लेषविशेषविशिष्टं चैतन्यमेव वा संशयनिश्चयादिव्यपदेशभागित्युक्तम् । तत्र प्रथमपक्षे शङ्कते न चैवमिति । संयोगस्य द्विष्ठत्वेन चित्यर्थसंयोगस्य ज्ञानत्वे विषयस्यापि ज्ञातृत्वप्रसङ्ग इत्यर्थः । चैतन्यस्य ज्ञातृत्वप्रसङ्गे कथञ्चिदिष्टापत्तिसम्भवाद्विषयस्य ज्ञातृत्वं प्रसञ्जितम् । यद्वा विषयस्य-विषयाश्रयस्य । यथाश्रुते आत्मनो%पि

तत्तज्ज्ञानाश्रयत्वं न स्यात् पक्षे%स्मिन् । अतः स्वाश्रयाश्रयत्वसंबन्धेन ज्ञानवत्त्वमेव ज्ञातृत्वमत्र पक्षे वाच्यमिति विषये न ज्ञातृत्वप्रसङ्ग इति । परिहरति विषयेणेति । विषयेणेति हेतौ तृतीया । विषयशब्दो विषयव्यापारपरः । एवमग्रे चातन्येनेत्यत्रापि । अयं भावः-अर्थग्रहणार्थं व्याप्रियमाणं हि चैतन्यमेव । तथाच

विषयचैतन्यसंयोगस्य तत्तदर्थज्ञानत्वे%पि तस्य स्वानुकूलव्यापृतिमच्चैतन्याश्रयत्वसंबन्धेनात्मन्येव सत्त्वात्तस्यैव ज्ञातृत्वं नार्थादेरित्युपलम्भबलाद्व्यवस्थाप्यम्, यथा आलोकार्थसंयोगस्यैव प्रकाशत्वे%पि प्रकाशकत्वं स्वधर्मभूतालोकप्रसरणवशात्सूर्यादेरेव नार्थस्य तद्वदिति । यद्वा विषयानुयोगिकसंयोगाभावादिति विषयेणेत्यादेरर्थः । तस्य संयोगः-विषयप्रतियोगिकसंयोगः । एवं प्रथमं पक्षमुपपाद्य तत्तदर्थसंबद्धं चैतन्यमेव तत्तदर्थज्ञानमिति द्वितीयं पक्षं शङ्कासमाधानमुखेन व्यवस्थापयति अथेति । प्रकाशः-प्रकाशकः । सूर्यादितन्त्रत्वम्-सूर्याद्यधीनस्वरूपस्थितिप्रवृत्तिकत्वं तदपृथक्सिद्धविशेषणत्वं च । तत्तदर्थसंबद्धालोकाश्रयस्यैव सूर्यादेः प्रकाशकत्वमिव तत्तदर्थसंबद्धचैतन्यवत आत्मन एव ज्ञातृत्वमित्यर्थः । अयमेव मुख्यः पक्षः । ज्ञातृत्वस्य साक्षादात्मनि सङ्गतेरिति भावः । अनन्यसाधन इत्युक्तमनन्याधीनसिद्धित्वं चैतन्यस्वभावत्वं चात्मनो निगमयति तत्सिद्धमिति । चैतन्यस्वभाव एव-ज्ञातृत्वस्वभाव एव । अनेन ज्ञानस्यागन्तुकत्वं निरस्तम् । आत्मनं विदन्नेवास्ते-नित्यानन्याधीनस्वप्रकाशवानेवास्ते । अनेनात्मनः प्रकाशस्यागन्तुकत्वं

ज्ञानप्रयुक्तत्वं च व्यावर्तितम् । निमित्तभेदानुसारेण- इन्द्रियलिङ्गादिज्ञानार्थसन्निकर्षोपाध्यन्वयव्यतिरेकानुविधानतः । शिष्टं स्पष्टम् ।

स्वयंप्रकाशस्यात्मनः शाब्दादिप्रमाणधीगोचरत्वमपि साधयति तदेवमित्यादिना । अस्फुटप्रकाशे मीनो निदर्शनम्; अविवेकग्रहणे च क्षीरम् । तदुपपादनन्यायानुगताः-आत्मानात्मविवेकोपपादकावयवपञ्चकात्मकन्यायप्रयोज्याः, अनुमानभेदाः-अनुमानविशेषाः । वचनानि-प्रमाणवाक्यानि शास्त्रानुगतानि । तैरपि इति । अनुमानागमानां परोक्षैकहेतुत्वेन प्रस्फुटप्रकाशासम्पादकत्वात्तावन्मात्रे%परितोषः प्रस्फुटात्मप्रकाशाकाङ्क्षिणां युक्त एव हि । मनआदिगतज्ञानावारणदोषक्षपणं योगाङ्गानुष्ठानेन सम्पद्यत इति यमनियमेति द्योतितम् । निरोधाभ्यासः-योगाभ्यासः । योगाश्चित्तवृत्तिनिरोध इति हि योगसूत्रम् । योगाभ्यासपरिपाकतो रजस्तमःकालुष्यनिवृत्त्योद्रिक्तविशुद्धसत्त्वे मनसि आत्मविवेकसाक्षात्कारयोग्यतेति निरोधाभ्यासेत्यादेरर्थः । वैलक्षण्यस्यात्मगतस्यापरोक्षज्ञानाय, प्रयतन्ते-आसिद्धिनिष्पत्तेर्निन्तरमात्मतत्त्वचिन्तनप्रवृत्तिमाचरन्ति । भावनेति । आत्मनो

निरन्तरानुचिन्तनलक्षणे योगे भावनाप्रकर्षपर्यन्ते निष्पन्ने सति, चापरोक्षज्ञानम्-योगजधर्मानुगृहीतविशुद्धमनोजन्यात्मतत्त्वसाक्षात्कारः,उदयते-जायत इत्यर्थः ।

एवमात्मा स्वतःसिद्ध्यन्नागमेनानुमानतः ।

योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ।।43।।

(इत्यात्मप्रमाणनिरूपणप्रकरणम्)

अथास्य कालावच्छेदपरीक्षा । तत्र सुगतमतानुसारिणः सन्मात्रानुबन्धिनीं क्षणिकतामाचक्षाणा नित्यात्मदर्शनमेव सर्वानर्थमूलं मन्यमानाः क्षणभङ्गिनमेनं सङ्गिरन्ते; यत् सत् तत् क्षणिकम्, संश्चायमात्मेति । कथं पुनः सन्मात्रानुबन्धिनी क्षणिकता? । अक्षणिकस्य सत्तानुपपत्तेः । यन्न कस्मैचित्कार्याय, अन्ततः सार्वज्ञ्यविज्ञानगोतरत्वायापि न प्रभवति, न तस्य सद्भावः संभाव्यत इत्यर्थक्रियाकारितैव सत्ता भावानाम् । न च सा स्वव्यापकभूतक्रमयौगपद्यविरहिण्यक्षणिके संभविनीत्यन्यत्र निरवकाशतया क्षणिकतयैवानुबध्यते । कथं पुनः क्रमयौगपद्ययोरर्थक्रियाव्यापकत्वम्? कथं वा तयोरक्षणिकान्निवृत्तिः? । श्रूयताम् ।

उक्तमर्थं सङ्गृह्णाति एवमात्मेति । स्वप्रकाशस्यात्मनो धर्मभूतं ज्ञानं विषयादिग्रहणे देहादिवैलक्षण्यग्रहणे चात्मन उपयुज्यत इत्येतावता सिद्धम् । एवमात्मनि प्रमाणपरीक्षा वृत्ता ।।43।।

अथ नित्यत्वं व्यवस्थावयितुं विचारमुपक्रमते अथास्येति । अस्य-आत्मनः, कालावच्छेदपरीक्षा-कालसंबन्धविषयविचारः । प्रवर्तते इति शेषः । तत्रेति । आत्मनः कालसंबन्धे विचारविषये क्षणमात्रकालसंबन्धिनं विनाशिनमात्मानमामनन्ति केचन वादिनः (सौगताः) इति यावत् । कालसंबन्धः क्षणिकत्वलक्षण एवेत्यमीषामाशयः । सत्त्वात् क्षणिकत्वमात्मन इत्युक्तम् । सत्त्वस्य क्षणिकत्वव्याप्यत्वे सिद्धे शोभनमिदम् । तदेव कुत

इत्यतः सत्त्वं क्षणिकत्वव्याप्त्यर्हं परिष्करोति यन्नेति । अर्थक्रियाकर्तृत्वमेव सत्त्वम्, तच्च क्षणिकत्वव्याप्यमित्याशयः । सार्वज्ञ्यविज्ञानम्-बुद्धज्ञानम् । क्षणिकत्वव्याप्तिमेवोपपादयति न च सेति । अर्थक्रियाकर्तृत्वव्यापकं क्रमाक्रमान्यतरत् । तच्चाक्षणिके स्थिरे%घटमानं कर्तृत्वं क्षणिके व्यवश्तापयतीति सत्त्व क्षणिकत्वव्याप्यमेवेत्यापततीति भावः । क्रमयौगपद्यान्यतरस्य कर्तृत्वव्यापकत्वम्, तस्य

स्थिरे%सम्भवं चोपपादयितुं प्रश्नः कथं पुनरिति । उत्तरं श्रूयतामित्यादिना ।

अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः ।

क्रमेण युगपद्वेति न विधान्तरसंभवः ।।44।।

भावाभाववदनयोरन्यतरनिवृत्तावन्यतरव्यवस्थानादर्थक्रियाजनने भावानां न तृतीयप्रकारसंभव इति क्रमाक्रमप्रतिबद्धैवार्थक्रिया । न चाक्ष

णिके क्रमयौगपद्ये संभवतः ।

(एतावानेवात्मसिद्धिग्रन्थाभाग उपलभ्यते)

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-

श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये आत्मसिद्धिः ।।

अर्थेति । किञ्चिदर्थक्रियाकरणं क्रमेण, किञ्चिच्चाक्रमेण-युगपत् । यौगपद्यासंभवे क्रमः, तदभावे च यौगपद्यं नियतमिति क्रमयौगपद्यान्यतरव्याप्यैवार्थक्रिया भवतीत्यर्थः ।।44।

भवत्वेवम् । अथापि स्थिरे कथं न सा? तत्राह न चेति ।

ग्रन्थभागो%ग्रिमः क्वापि नेतः समुपलभ्यते ।

व्याख्यानं विहितं यावदुपलब्धस्य सारतः ।।

इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यांन्वयभूषणविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रान्तकीर्ति-दयामूर्ति-श्रीमद्भाष्यकारदिव्यवंशावतीर्ण-श्रीभूतपुरीनिवासरसिक-विद्वत्सार्वभौम-हारीत-श्रीमदासूरिरामानुजाचार्यदेशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.अण्णङ्गराचार्येण न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमात्मसिद्धेर्व्याख्यानं सिद्धाञ्जनं जयतात् चिरम् ।

श्व् । । ।

ईश्वरसिद्धिः[सम्पाद्यताम्]

सिद्धाञ्जननामकव्याख्योपेता ।

(सू0) तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते ।

इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ।। 1 ।।

तत्र मीमांसकाः प्राहुः - नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषो%भ्युपगममर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात्स्फुटविविधबाधकत्वाच्च । तथाहि - अस्य पप्रत्यक्षमन्यद्वा साधकं भवेत् ? प्रत्यक्षमपि लौकिकं यौगिकं वा ?

(व्याख्या) ध्यात्वा श्रीपतिचरणौ नत्वा चाचार्यपादद्मयुगम् ।

ईश्वरसिद्धेर्विवृतिं कुर्वे ललितां सुखावबोधार्थाम् ।। 1 ।।

त्रय्यन्तसिद्ध ईशो मतस्तु सद्युक्तिचिन्तकैरनिशम् ।

भक्त्या ध्यानाभ्यासात् प्रकटः प्रज्ञां तनोतु मे शुभ्राम् ।। 2 ।।

अथ खलु तत्रभवान् परमाचार्यः श्रीमद्भगवद्यामुनमुनिरात्मचिन्तां विधायात्मसिद्धौ परमात्मचिन्तां विदधदीश्वरसिद्धावीश्वरसाधकप्रमाणव्यवस्थापनायोपक्रममाणः प्रतिजानीते तत्रे ति । समस्तमं चेतनाचतनात्मकं जगत् एकस्य - सर्वेश्वरस्य वशे - इच्छायां सङ्कल्पलक्षणायां प्रवर्ततेप्रकर्षेण वर्तते - असङ्कीर्णस्वरूपस्वभावव्यवस्थमास्ते, प्रवर्तते च स्वे स्वे कर्मणि यथायथमिति कृत्स्नस्य सर्वेश्वरसङ्कल्पाधीनस्वरूपस्थितिप्रवृत्तिकत्वं साधयितुं - प्रमाणतो व्यवस्थापयितुं, प्रथमतः पूर्वपक्षं वर्णयाम इति कारिकार्थः । अत्र तत्रेति प्रकान्तपरामर्शकतच्छब्दनिर्देशादेतत्पूर्वतनः कश्चनेश्वरसिद्धग्रन्थभागः स्यात् , यो बहोः कालात्पूर्वमेवविलुप्त इत्यभ्यूह्यते 1

व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् ।

साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ।। 2 ।।

सर्वार्थदर्शनशक्तिशालिनमवगमयता हि देशकालस्वभावविप्रकर्षव्यवधानजुषः सर्व एवार्थास्तद्दर्शनं शक्तिश्च गोचरयितव्यानि । न च विद्यमानेन्द्रियसन्निकर्षयोग्यकतिपयविषयनिपतवृत्तेर्लौकिकप्रत्यक्षस्य निरवधिरयं महिमा संभावनाभूमिरिति कथमिव तदिह साधनमिति मन्येमहि।

"नाय" मिति । सर्वार्थसाक्षात्ककारसर्वकार्योपजननशक्ति सम्पन्नश्चेतनविशेष ईश्वरशब्दितः साधकाभावाद्बाधकबलाच्च नाङ्गीकर्तुं योग्य इत्यर्थः । " अतिपतिते " ति । अतिपतिता - अपक्रान्ता सकलसाधकप्रमाणसम्भावना यस्याः एवम्भूता भूमिर्विषयः, तत्त्वात् - व्यपेतसकलसाधकप्रमाणसम्भावनात्मकविषयत्वादित्यर्थः । अत्र इति "अतिपतितसकलसाधकप्रमाणसंभावनाभूमित्वत्वा" दिति "अतिपतितसकल साधकप्रमाणसंभावनाभूमित्वत्वा"दिति वा पाठः सम्भाव्यते । "स्फुटे" ति । स्फुटानि - प्रसिद्धानि विविधानि बाधकानि यस्यैवम्भूतत्वाच्चेत्यर्थः । उपक्षिप्तयोरीश्वरे साधकाभावबाधकभावयोः साधकाभावं तावदादौ समर्थयितुमुपक्रमते "तथाहि"त्यादिना । अन्यत् - अनुमानादि ।

लौकिकस्येन्द्रियार्थसन्निकर्षजस्य प्रत्यक्षस्येश्वरासाधकतामुपपादयति "व्यवस्थिते"ति । हेतुगर्भमिदं विशेषणम् । लौकिकप्रत्यक्षस्य विषया यतः परिमिता व्यवस्थिताश्च, अत इत्यर्थः । इह - ईश्वरे विषये । साधनंसाधकम् । प्रमाणमिति यावत् । तेन - लौकिकप्रत्यक्षेण । असिद्धितः -अप्रकाशतः । अयं भावः - चाक्षुषस्य तावत् प्रत्यक्षस्य रूपरूपिरूपैकार्थसमवेतसङ्ख्यादय एव विषयाः, न तु रसादय इति परिमितता । उद्भूतानभिभूतमेव रूपं महत्त्वैकाधिकरणं ग्राह्यं न तु परमाण्वादिगतमिति तत्रापि व्यवस्थितता । एवं रासनादिष्वपि बोध्यम् । एवंभूतस्य चैन्द्रियिकप्रत्यक्षस्य सर्वार्थादेरप्रकाशकत्वान्नेश्वरे प्रमाणत्वं सम्भवति । सर्वार्थदर्शनकरणसामर्थ्यविशिष्टो ह्यभिमतः सः । सर्वार्थस्य तद्ग्रहणस्य तच्छक्तेश्च ग्रहणमन्तरा च न तस्य ग्रहणं घटते । सर्वार्थेष्वयोग्यानामपि प्रविष्टत्वाच्छक्तेश्चातीन्द्रियत्वात् , ज्ञानस्य बहिरिन्द्रियाग्राह्यत्वाद्वाह्यार्थानां च केवलेन मनसा%ग्रहान्नेन्द्रियेण केनापि सर्वार्थादेर्ग्रहणम् । तद्ग्रहणमन्तरा च न विशिष्टेश्वरग्रहणम् ।

"नागृहीतविशेषणे" ति न्यायात् । तदैन्द्रियिकलौकिकप्रत्यक्षं नेश्वरे प्रमाणं भवितुमर्हतीति ।। 2 ।।

नापि योगिप्रत्यक्षमस्य साधकम् ; यतः -

प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् ।

भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ।। 3 ।।

तत् खलु योगिविज्ञानमैन्द्रियिकं न वा ? ऐन्द्रियिकमपि बहिरिन्द्रियसम्भवमान्तरकरणजनितं वा ? बहिरिन्द्रियाणि तावत्समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् । अतो न रसनादिभिरजातातिवृत्तव्यवहितादि सकलविषयवेदनप्रसङ्गः । न चाविद्यमानैरजातादिभिः संभवति सन्निकर्षः ; तस्य द्व्याश्रयत्वादाश्रयाभावे तदसम्भवात् । अतो%पेक्षितो%र्थसन्निकर्षः । सहकारिविरहे कथमिन्द्रियाण्यतीतादिविषयसाक्षात्काराय कल्पेरन्? । भवति च - यत् यत्सहकारि यत्कार्यजननम् , तत्तदभावे न तज्जनयति ; यथा क्षितिसलिलसहकारि अङ्करकार्यजननबीजं क्षित्याद्यभावे%ङ्करम् । अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्यपि नातीते%नागते वा%र्थे ज्ञानं जनयन्तीति न तदुपजनितं प्रत्यक्षं यथोक्तविषयनियममतिक्रामति । नाप्यान्तरकरणसम्भवम् , आन्तरगोचर एव सुखादौ स्वान्तस्वातत्र्यात् । बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश्च न कश्चिदन्धो बधिरो वा भवेत् । भवति चात्र - विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यद्यत्र यत्तन्त्रवृत्ति न तत्तन्निरपेक्षं तत्र प्रवर्तते, यथा%%लोकापेक्षप्रवृत्ति चक्षुः स्वगोचरे%न्धतमस इति । न च सिद्धौषधमत्प्रतपःसमाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिदपजहति समाधिगतविषयनियममिति सम्भवति ; सांसिद्धिकसामर्थ्याविर्भावैकफलत्वात्तेषाम् , सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभागावगमाय कल्पते । भवति च - विवादाध्यासितबाह्यभ्यन्तरकरणपाटवातिशयो%नुल्लङ्घितसीमा, ऐन्द्रियिकप्रकर्षत्वात् , दृश्यमानतत्प्रकर्षवत् इत्यैन्द्रियिकं ज्ञानं नातीतादि गोचरयति ।

भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनिर्भासत्वे प्राच्यानु भवगोचरादनधिकमधिकं वा%ध्यवस्यतः स्मृतिविभ्रमस्त्रोतसोरन्य तरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलम्भः ? कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? । प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः ? अतिक्रामतो वा कुतः प्रत्क्षत्वमिति न विश्वानुभवैश्वर्यशालिनि प्रत्यक्षं प्रमाणम् ।

(इतीश्वरे प्रत्यक्षप्रमाणनिरसनम्)

नापि प्रमाणान्तरम् । तत्स्वल्वनुमानमागमो वा ? अनुमानमपि विशेषतोदृष्टं सामान्यतोदृष्टं वा ? तत्र सकलपदवीदवीयसि भगवति न तावत्स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिदमनुमानमुदतुमलम् । न ह्यनवगतचरहुतभुजस्तदविनाभावितया धूममनुसन्धातुमीशते । नच सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतोदृष्टमपि किञ्चन लभ्यते।

(इतीश्वरे%नुमानस्य प्रामाण्यासम्भवोपक्षेपः)

"व्यवस्थिते"त्यादीकारिकार्थं स्वयमेव विवृणोति "सर्वार्थे"ति ।

अवगमयता - गृह्णता । अवगमयन्त इति पूर्वमुद्रितपाठो%शुद्धः । देशविप्रकर्षो दूरदेशस्थत्वम् । कालविप्रकर्षो%तीतत्वमनागतत्वं च । स्वभावविप्रकर्षो%योग्यत्वमतीन्द्रियत्वरूपम् । योग्यानामपि कुड्यादिव्यवहितानां चक्षुरादिना%ग्रहणं दृष्टम् । सर्वार्थेष्वेवम्भूता अपि पदार्थाः प्रविष्टा इति भावः । एवकारो%प्यर्थे । गोचरयितव्यानि - विषयीकरणीयानि । "नपुंसकमनपुंसकेने"ति क्लीबैकशेषनिर्देशो%यम् । " न चे " ति । विद्यमानेत्यनेन कालविप्रकृष्टस्य व्यवच्छेदः । इन्द्रियसन्निकर्षयोग्येत्यनेन व्यवहितस्य देशविप्रकृष्टस्य च । कतिपयेत्यनेनातीन्द्रियस्य । कतिपयविषयनियतवृत्तेः - निरुक्तविधककतिपयपदार्थमात्रग्रहणानुगुणव्यापारवतः । निरवधिर्महिमा अपकर्षासमानाधिकरणोत्कर्षः । स च ज्ञानस्य सर्वार्थगोचरत्वरूपः । तत् - लौकिकप्रत्यक्षम् । इह - सर्वदर्शित्वादिविशिष्टईश्वरे । साधनं - प्रमाणम् । शिष्टं स्पष्टम् ।

योगिप्रत्यक्षस्यापीश्वरासाधकत्वं साधयति "प्रत्यक्षत्व" इति । प्रत्यक्षत्वव्यापकत्वाद्वर्तमानार्थग्राहकत्वस्य योगिज्ञानमपि प्रत्यक्षं चेद्वर्तमानैकग्राहि

भवेदिति न तस्य सर्वार्थग्राहकत्वम् । अतीतादिलविषयत्वे वा न तत्प्रत्यक्षं भवेत् । किन्तु प्रतिभादिज्ञानवदुपनीतभानविशेषरूपमेव संशयादिसहमिति न प्रमाणतामनुभवितुमलमीश्वर इत्यर्थः।।3।।

नन्वेकचेतनाधीनं विवादाध्यासितं जगत् ।

अचेतनेनारब्धत्वादरोगस्वशरीरवत् ।। 4 ।।

तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् ।

कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ।। 5 ।।

सर्वं हि कार्यमुपादानोपकरणसम्प्रदानप्रयोजनसंवेदिचेतनरचितमवगतं घटमणिककगृहादि । कार्यं च विमतिपदमवनिगिरिमहार्णवादीति तदपि

तथाविधबुद्धिमद्धेतुकमध्यवसीयते । न च कार्यत्वमसिद्धमिति वाच्यम् , अवयवसन्निवेशादिभिर्हेतुभिस्तत्सिद्धेः । इह चान्त्यावयविभ्यः प्रभृति आद्व्यणुककमखिलमवयविक्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितमवगतमित्यन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषामादिपरिस्पन्दश्च तदमुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणकक इति उपकरणमपि समस्तभेत्रज्ञवर्तीनि धर्माधर्मलक्षणान्यदृष्टानि । प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश्चेतनोपकारप्रकारभेदो%पयन्तः । तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्र्दानम् । न चामी स्वसमवायिनावपि धर्माधर्मावलमवलोकयितुमिति तदतिरेकी निखिलभुवननिर्माण निपुणो%धिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदेश्वर्यशक्यत्यतिशयः पुरुषधौरेयकः किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ?

(इतीश्वरे सामान्यतोदृष्टानुमानस्य प्रमाणताप्रतिपादनम्) तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितमिति परिहसन्ति मीमासंकाः । तथाहि - किमिदमेकचेतनाधीनत्वं नामाभिप्रेतं तनुभूवनादेः ? तदायत्तत्वमिति चेत् ;

श्लोकार्थमेव प्रपञ्चयति "त" दित्यादिना । "समधिगते"त्यादि बहुव्रीहिवृत्तम् । यैः स्वयोग्यार्थसन्निकर्षरूपसहकारिकारणमधिगतम् , एवंभूतानि चक्षुरादीनि

स्वविषयप्रत्यक्षज्ञानजनकानीति लोके प्रसिद्धमित्यर्थः । "अत" इति । यतो%र्थसन्निकर्षस्य सहकारित्वं प्रसिद्धमन्वयव्यतिरेकाभ्याम् , अत इत्यर्थः । "रसनादिभि"रिति । "नयनादिभि"रिति पाठः स्याद्वा । अजातातिवृत्तौ - आगाम्यतीतौ । इन्द्रियेणातीतानागतयोरग्रहणे प्रयोजकं सन्निकर्षाभावमुपपादयति "न चे" ति । रजतादिभिरिति मुद्रितपाठस्तु न सुसङ्गतः । तस्य - सन्निकर्षस्य संयोगलक्षणस्य, द्व्याश्रयत्वात् - उभयसमवायिकत्वात् , आश्रयाभावे - अन्यतराश्रयविरहे, तदसम्भवात् - सन्निकर्षोत्पत्त्ययोगात् । "अतः" इति सहकारित्वादित्यर्थः । इन्द्रियेणातीतादिग्रहणासम्भवमुपपादयति सहकारीति । कारणाभावात्कार्याभाव इति भावः । अमुमर्थं प्रयोगारूढं प्रपञ्चयति भवति चेति । यदित्याद्युदाहरणवाक्यम् । यत्सहकारि यस्य तद्यत्सहकारीति बहुव्रीहिवृत्तम् । यादृक्सहकारिविशिष्टमित्यर्थः । एवमग्रे%पि बोध्यम् । जननम् - जनकम् । अर्थसन्निकर्षे त्याद्युपनयः । तान्यपीति निगमनम् । इन्द्रियाणि नातीतादिग्राहीणि, तदसन्निकृष्टत्वादिति प्रतिज्ञाहेतू चानुसन्धेयौ । एवं योगिप्रत्यक्षस्यबहिरिन्द्रियजत्वे न सर्वार्थगोचरत्वमित्युक्तम् । अतश्चेश्वरे तस्य साधनत्वायोगः फलितः ।

अथ तस्य मनोमात्रजन्यत्वे%पि न तत्प्रमाणत्वं सर्वार्थद्यग्राहकत्वादेवेत्याह " नाप्यान्तरे" ति । " आन्तरगोचर" इति । कर्मधारयो%यम् । अबाह्यविषये सुखादावेव मनसो बहिरिन्द्रयमद्वाहीकृत्य प्रत्यक्षजनकत्वादित्यर्थः । मनसः साक्षादेव बाह्यार्थग्राहकत्वे दोषमाह " निरङ्कुशे" ति । निरङ्कुशत्वमत्र बहिरिन्द्रियनिरपेक्षत्वम् । एवं मनसि हेतुमुपपाद्य साध्यं प्रयोगमुखतः साधयति " भवती " ति । प्रयोग इति शेषः । न प्रवर्ततेन ग्रहणानुगुणप्रवृत्तिमत् । तत्तन्त्रवृत्तित्वात् - बाह्यार्थेषु बहिरिन्द्रियसहकारद्वारकग्रहणव्यापृतिमत्त्वात् । तन्त्रं - प्रयोजकं, सहकारि वा । तत्तन्त्रं यस्याः, एवम्भूता वृत्तिर्यस्य तत्तत्तन्त्रवृत्ति, तस्य भावस्तत्त्वं तस्मादिति च

व्युत्पत्तिः । उदाहरणं " यद्यत्रे " ति । यद्यत्र कार्ये यत्सहकारिसमवधानाधीनजननव्यापारवत् तत्तदसमवधाने न तत्कार्यजनकतावत् , यथा%%लोकसहकारिकं जक्षुर्नालोकाभावे स्वार्थघटादिचाक्षुषजनकमित्यर्थः । शङ्कते " न चे " ति । आजन्मसिद्धेरपि प्राक्तनतपः फलत्वात्पृथगनुक्तिरत्र । सिद्धौषधादिसाध्यश्चेन्द्रियाणां पाटवातिशयः सूक्ष्मविप्रकृष्टादिग्रहणसामर्थ्यलक्षणः ।

समधिगतविषयनियमम् - औत्सर्गिकं वर्तमानयोग्यसन्निकृष्टार्थमात्रग्राहकत्वरूपनियमम् । अपजहति - परित्यजन्ति । परिहरति " सांसिद्धिके " ति । कर्मप्रतिबद्धसङ्कुचितप्रवृत्तिस्वाभाविककरणशक्तिविकासकत्वमेव सिद्धौष धादीनाम् , नत्वपूर्वशक्त्याधायकत्वमित्यर्थः । नन्वस्त्वेवम् । तावता योगिचक्षुरादिना सर्वार्थाग्रहणस्य किमायातम् ? अत्राह " शक्तेश्चे " ति । चक्षुषो हि स्वाभाविकं सामर्थ्यं रूपरूप्यादिग्रहण एव, न तु योगादिना%पि रसादिग्रहणे सामर्थ्यं तस्य संभवतीत्यर्थः । तथाच पाटवातिशयाद्धवीयो%पि सूक्ष्मतमं रूपं गृह्णातु नाम योगिचक्षुः । नैतावता%तीतादेः रसादेर्वा तद्ग्राहकं भवेदिति भावः । अत्र च न्यायमाह " भवती" ति । अनुल्लङ्घितसीमा - अनतिक्रान्तस्वमर्यादः । मर्यादा च चक्षुषो रूपादिषु चतुर्षु रूपस्यैव ग्राहकत्वमिति । एवं रसनादावपि अनुसन्धेयम् । " दृश्यमाने " ति । अयोगिनामपि चाक्षुषतेजोमान्द्यप्रकर्षाभ्यां रूपादिग्रहणतारतम्यं हि दृष्टम् । एवमेव योगिचक्षुस्तेजःप्रकर्षो%पि ततो%प्यधिकगोचरो%नतिक्रान्तमर्याद एव सिध्येदित्याशयः । एवमैन्द्रियिकत्वे योगिज्ञानस्य सर्वार्थाद्यग्राहकत्वमुपपाद्यानैन्द्रियिकत्वे%पि तस्य यथात्वमत एवेश्वरे प्रमाणत्वासंभवं चोपपादयति " भावने " ति । भावनाप्रकर्षप्रयन्ते जन्म यस्येति बहुव्रीहिः । विशदनिर्भासत्वे - विशदप्रकाशकत्वे - लौकिकविषयतानिरूपकत्वे । प्राच्यानुभवगोचरात् - पूर्वानुभवविषयात् । अध्यवस्यतः - प्रकाशयतः । पूर्वानुभूतादनधिकविषयत्वे स्मृतित्वम् । अधिकविषयत्वे तु भ्रमत्वम् , कामिनीभावयितुः कामिनः पुरोवर्तित्वेनासत्याः कामिन्याः प्रतिमानस्येवेत्यर्थः । समुदिताशयस्त्वयम् - अनुभूतस्य पौनःपुन्येन स्मृत्यभ्यासेन संस्कारप्रचयः संपद्यते । तत्पर्यन्ते स्मृत्यभ्यासे सति जायमाना स्मृतिरेवप्रत्यक्षवद्विशदविषयावभासा भवतीति प्रत्यक्षसमानाकारं स्मरणमेव चेद्योगिप्रत्यक्षं विवक्षितम् , तर्हि तस्य पूर्वानुभूतार्थमात्रगोचरत्वान्नेश्वरगोचरत्वम् । सर्वार्थग्रहणादिसमर्थस्येश्वरस्य प्रमाणाभावेन प्रागननुभूतत्वात् । स्मृतित्वे च यथार्थानुभवत्वलक्षणमज्ञातार्थज्ञापकत्वलक्षणं वा प्रामाण्यं तन्नार्हत्येव । अत एव प्रमाणविशेषप्रत्यक्षरूपत्वं तस्य न तरां घटत इति । " प्रत्यक्षत्वे " इति

श्लोकार्थोपसंहारः " प्रत्यक्षस्य वे " ति । विदितत्वं - प्रसिद्धत्वम् । " न विश्वे " ति । सर्वसाक्षात्कर्तरि सर्वकर्तरि सर्वनियन्तरि चेश्वरे%स्मदादीनां योगिनां वेन्द्रियरूपं प्रत्यक्षं न प्रमाणं - न प्रमितिजनकमित्यर्थः । ननु केवलस्य बहिरस्वातन्त्र्ये%पि योगजप्रकृष्टादृष्टसहकृतस्य तस्य बाह्येष्वतीन्द्रियेषु त्रैकालिकेषु चार्थेषु प्रवृत्तिः संभवेन्नाम । तत् प्रकृष्टादृष्टसहकृतमनोजन्यमेव प्रत्यक्षं योगिनां स्यादीश्वरे प्रमाणम् । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वमिति व्यवस्था चायोगिप्रत्यक्षैकगोचरेति चेत् ; अत्र ब्रूमः - प्रकृष्टादृष्टविशेषसहकारादपि प्रामाणिकसर्वार्थग्रहणमेव भवेन्नाम। सर्वेश्वरे चैकस्मिन् न प्रमाणं किञ्चित् । अतो न तत्सिद्धिर्योगजप्रत्यक्षेणापीति हार्दमाक्षेप्तुः । एतेन परमात्मध्यानजनितमेव परमात्मविषयमानसप्रत्यत्रं प्रमाणं तस्मिन्नित्यपि निरस्तम् । परमात्मनो ध्यानं हि तज्ज्ञानमन्तरा न संभवति । तच्चान्ततो गत्वा शास्त्रजनितमेवेति वक्तव्यम् । शास्त्रस्य च कार्यपरस्य न तत्र तात्पर्यम् । श्रुतिपौरुषेयत्वनये पुनरन्योन्यसंश्रयः स्पष्ट एवईश्वरसिद्धौ तदुक्तत्वाच्छास्त्रप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिरिति । अनुमानं च न प्रमाणं तत्रेत्यनन्तरमेव वक्ष्यते । तथा चेश्वरप्रमितेरेवाभावात्तन्मूलतद्ध्यानाद्यसिद्धिरेवेति । एवं लौकिकयौगिकभेदेन द्विविधस्य प्रत्यक्षस्येश्वरे न प्रमाणत्वमित्युक्तम् ।

किमस्य तस्मिन्नायत्तं किं नु जन्माथवा स्थितिः ।

प्रवृत्तिर्वा%%द्ययोस्तावत् साध्यहीनं निदर्शनम् ।। 6 ।।

न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपि च शरीरावयविनः स्वावयवसमवायलक्षणा स्थितिरवयवव्यतिषङ्गविशेषादृते न चेतयितारं परमपेक्षते । या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायिनीमुदीक्षामहे ।

एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैरुपलतरु रथादिभिर्व्यभिचारः । आरब्धत्वादेव चैतत्साध्यसिद्धावधिकमिदमुपादान विशेषवचनम्।

अनेनानुमानेनाभिमतेश्वराकारविशेषसिद्धिप्रकारं विशदयति " सर्व " मिति । उपादानं-समवायिकारणम् । उपकरणं-सहकाररिकारणम् । संप्रदानं-कार्यं यद्भोगार्थं सृष्टं, स उपभोक्ता । प्रयोजनं-क्रियमाणवस्तुसाध्यं फलम् । उपादानादीनां संवेदी-साक्षात्कर्ता यश्चेतनः तेन निमित्तहेतुना क्रियमाणं दृष्टं घटादिकार्यमित्यर्थः । मणिको-महाघटः । एतद्वाक्येन कार्यत्वस्य सकर्तृकत्वव्याप्यत्वं प्रतिपादितं भवति । उपादानादिगोचरापरोक्षज्ञान चिकीर्षाकृतिमत्त्वं कर्तृत्वमत्र विवक्षितम् । उपनयनिमने " कार्यं चे "ति । विमतिपदं सकर्तृकत्वाकर्तृकत्वविप्रतिपत्तिविषयीभूतम् । अनेन सन्दिग्धसाध्यकत्वलक्षणं पक्षत्वमवन्यादेरुपपन्नमिति सूचितम् । स्वरूपासिद्धिमाशङ्क्य परिहरति " न चे " ति । पक्षे मह्यादाविति शेषः । आकृतिमत्त्वादिभिः क्षित्यादेः कार्यत्वसिद्धिरिति भावः । पक्षधर्मताबलात्कर्तृविशेषसिद्धिरिति प्रतिपादनार्थं कार्यसामान्योपादानादि निर्धारयति " इहे " ति । अवयवत्वासमानाधिकरणावयवित्वामन्त्यावयवित्वम् । अन्त्यावयवित आरभ्याद्यावयविद्व्यणुकमभिव्याप्य सर्वमवयविकार्यद्रव्यजात मवयवसंयोगविशेषजनितं प्रसिद्धमित्यर्थः । उत्तरोत्तरापेक्षया पूर्वपूर्वकार्ये%वयवाल्पत्वं "क्रमनिहीयमाने"-त्युच्यते । अवयवसंश्लेषविशेषजनितत्वं च क्वचित्प्रत्यक्षादनुमानाच्चक्वचित् सिद्धमिति भावः । अन्त्येपादनत्वम् अवयवित्वासमानाधिकरणावयवत्वम् । चतुर्विधाः परमाणवः पृथिवीजलज्वलनपवनपरमाणवः । प्रपञ्चस्य-कार्यद्रव्यप्रपञ्चस्य । " तेषा " मिति । परमाणूनामादिपरिस्पन्दःसर्गाद्यकालीनारम्भकसंयोगजनकक्रियालक्षणः अदृष्ट वदात्मसंयोगरूपासमवायिहेतुज इत्यदृष्टानामुपकरणत्वमित्यर्थः । आद्यपरिस्पन्दस्यादृष्टहेतुकत्वं च कणादमुनिना सूत्रितम् " अग्रेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारित " मिति । " प्रयोजन "मिति । सृष्टिप्रयोजनमनवधिर्जीवोपकार प्रकारभेदः सृज्यपदार्थनिर्वाह्यनानाविधार्थक्रियारूपः नानाविधभोगनिष्पादन लक्षणो%सङ्ख्यात इत्यर्थः। सम्प्रदानं च साक्षात्परम्परया वा कार्यपदार्थनिष्पादितं भोगमनुभवन्तो जीवराशय इत्याह " तदुपभुज " इति । एवं सर्वविधपरमाणुसर्वजीवादृष्टसर्वजीवोपकारप्रकाररूपनिखिल जगदुपादानोपकरण- प्रयोजनसाक्षात्कर्तृत्वादि जीवेषि न स भवतीति कैमुतिकन्यायेन साधयितुं स्वीयादृष्टासाक्षात्कर्तृत्वमपि न तेष्वित्याह " न चामी " इति । तदतिरेकी-जीवविलक्षणः ।

" यत्सिद्धावन्यप्रकरणसिद्धिः सो%धिकरणसिद्धान्तः "इति न्यायसूत्रम् । यत्सिद्धिमन्तरा प्रकृतो%र्थों न सिध्यति, तथाभूतः प्रकृतार्थसिद्धेर्नान्तरीयकतया सिध्यन्नर्थो%धिकरणसिद्धान्तसिद्ध इत्यर्थः । तथाचनिखिलार्थसाक्षात्कारित्वाद्यन्तरा कर्तृः क्षित्यादेः सकर्तृकत्वरूपः प्रकृतार्थो न सिध्यतीति विशिष्टकर्तृलाभो%धिकरणसिद्धान्तनयेनेति फलितम् ।

तार्किकाभिमतमीश्वरानुमानप्रकारमिमं निरस्यन्ति मीमांसकाः " तदिद " मित्यादिना । दृष्टाजातीयस्यैव साधकमनुमानं, न त्वतीन्द्रियार्थस्येत्यनुमानवृत्तमजानतः स्वबुद्ध्यत्प्रेक्षिताव्यवस्थिततर्काभास मूलमिदंविलक्षणपुरुषसाधनमित्यर्थः । तर्कस्वभावानभिज्ञस्य तार्किकत्वव्यपदेशःसुशोभन इति चोपहासो गर्भितः । परोक्तस्य तर्कस्याभासत्वमुपपादयितुमुपक्रमते " तथाही " ति । " किमिद " मिति । तनुमुवनादेः-पिण्डब्रह्माण्डादेः । पिण्डो देहः । तथाच पुराणरत्ने " पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः "इति । पक्षसपक्षयोरिति वा%र्थः ।

एकचेतनायत्तत्वं जगतो विकल्प्य दूषयति " किमस्ये " ति कारिकया । आयत्तं-कार्यत्वेन संबद्धम् । एकचेतनहेतुकत्वं किं भुवनजन्मनः साध्यते, उत भुवनस्थितेः, आहोस्विद्भुवनप्रवृत्तेः ? आद्ययोः कल्पयोरन्वयदृष्टान्तो नीरोगदेहः साध्यविकल इत्यर्थः । तथाच व्याप्त्यसिद्धिर्व्यभिचारश्चेति भावः ।। 6 ।।

चेतनाधीनतामात्रसाधने सिद्धसाध्यता ।

चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ।। 7 ।।

युक्तं चैतत्-यदुभयवादिसिद्धानामेव चेतनानां कर्तृत्वाभ्युपगमः लाघवात् । न चोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः ।

दृष्टान्ते साध्यशून्यत्वमुपपादयति " न खल्वि " त्यादिना । स्वशरीरोत्पत्तिस्थित्योः स्वस्याप्यदृष्टद्वारा हेतुत्वं वाच्यम् । तच्छरीराधीनोपभोगोपकारभाजामन्येषां च तत्रादृष्टद्वारा हेतुत्वं तद्देहिन इवास्तीति एकचेतनायत्तोत्पत्तिस्थितिकत्वं दृष्टान्ते नास्तीत्यर्थः । द्वितीये कल्पे स्थितिशब्दार्थविकल्पनमुखेन दूषणान्तरमप्याह " अपि चे " ति। शरीरावयवुन इति

कर्मधारयवृत्तम् । आरम्भकसंयोगे%वयवसमवेते दृढे सति स्वावयवसमवेतत्वलक्षणा%वयविनः स्थितिः शरीरस्य निराबाधा घटादेरिव प्रसिध्यत्येवेति

नैवंविधस्थितेश्चेतनापेक्षता । प्राणवृत्त्यधीनाशैथिल्यावस्थानलक्षणा शरीरधृतिः परं जीवनयोनियत्नहेतुकत्वाद्भवेन्नाम चेतनापेक्षा दृष्टान्ते व्यापकत्वेन साधनस्य गृहीतैवंविधा स्थितिस्तु न पक्षे मह्यादौ । तथाच कार्यत्वावच्छेदेन एवंविधैकचेतनाधीनास्थितिकत्वसाधनें%शतो बाध इति भावः । तृतीये कल्पे एकचेतनायत्तप्रवृत्तिकत्वे%नैकान्यमाह " एके " ति । सरभसप्रयत्नः-तीव्रप्रयत्नः । बहुजनैकसाध्यचलनप्रवृत्तिमति महोपलादौ साध्यशून्ये सत्त्वादनेकान्तता हेतोरित्यर्थः । हेतोर्व्यर्थविशेषणत्वं चाह " आरब्धत्वादेवे " ति । जन्यत्वस्यैव हेतुत्वे व्यभिचाराप्रसक्तेरचेतनोपादाननिरूपितत्वस्य तद्विशेषणस्य वैयर्थ्यम् । तथा च व्याप्यत्वासिद्धिः । अधिकं नाम निग्रहस्थानं च प्रयुञ्जत इति भावः । यद्यपि समवेतद्रव्यत्वरूपे फलिते हेतौ न वैयर्थ्य प्रसक्तिः । अथापि यथाश्रुतहेत्वभिप्रायेण व्यर्थविशेषणत्वाबिधनम् । फलिते%पि हेतावनैकान्यं तु दुर्वारमेवेति दिक् ।

नन्वनैकान्त्यप्रसङ्गादेकत्वविशेषणं त्यज्यते । चेतनाधीनत्वमेव तु साध्यत इति चेत्तत्राह " चेतन " ति । यद्यप्युक्तहान्याद्येवं वदतः प्रसज्यत एव । अथापि तस्यक्तिदोषत्वत्तदुपेक्ष्यार्थदूषणमेवात्रोच्यते । " ही " ति प्रसिद्धौ । अस्माकमपि कार्यसामान्यस्य जीवादृष्टहेतुकत्वेन चेतनाधीनत्वस्य सम्प्रतिपत्तेः चेतनाधीनत्वमात्रसाधने जीवैः स्दिधसाधनम् । भवतश्चार्थान्तरमिति भावः ।। 7।।

उपादानं पृथिव्यादि यागदानादि साधनम् ।

साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ।। 8 ।।

अद्यवदेव विश्वम्भरादयः कर्मप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी ।

नन्वदृष्टद्वारा चेनप्रयोज्यत्वमात्रं न साध्यते। किं तु चेतनकर्तृकत्वम् । कर्तृत्वं च क्षित्यादौ जीवानां नसंभवतीति चेत् ; एवं सति द्वितीयानुमान एव विश्रान्तिः । तत्रापि सिद्धसाधनमेवेत्याह" युक्त "मिति । लाघवपक्षपातित्वादनुमानस्य सकर्तृकत्वानुमानस्यापि संप्रतिपन्नजीव मात्रविश्रान्तिरिति भावः । ननु जीवस्य जगत्कर्तृत्वमनुपन्नम् । अनुपपन्ने चार्थे लाघवमकिञ्चित्करम् । तदीश्वरसिद्धिरप्रत्यूहेति शङ्कां प्रतिक्षिपति " न चोपादाने "ति ।

जीवस्याप्युपादानादिसाक्षात्कार उपपन्न एवेत्याह " उपदान "मिति । अयमाशयः-तत्तद्वैदिककर्मणो%तिशयिततत्तत्फलसाधनत्वमवगत्य वेदाद्वैदिकानां वचनाच्च तदनुग्रहत एवानुष्ठाय तत्तत्कर्म यथाविधि समधिगतसामर्थ्यविशेषा जीवविशेषा एव पृथिव्यादिभूतचतुष्टयं भौतिककार्यवर्गोपादानभूतं सहकारिवर्गं च साक्षात्कृत्योपादाय च जगत्सृजेयुरिति न कर्त्रन्तरकल्पनावकाश इति । यत् यस्मात्, क्षमन्ते, अतोन तत्प्रतिक्षेप इत्यन्वयः पूर्वेण ।। 8 ।।

कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।

मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ।। 9 ।।

न खलु कुलालादयः कुम्भादिकार्यमारभमाणास्तदुपादानोपकरण- भूतमृद्दण्डचक्रादिकार्योत्पादनशकिं्त साक्षात्कृत्य तत्तदारभन्ते । यदि परं शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारो%नुपपन्नः, इह तु-

ननु प्रलये पृथ्व्यादेराद्यद्व्यणुकं विनाशाज्जीवानां च तदा करणकले वरविधुरत्वेन ज्ञानोपादानसामर्थ्यविरहान्न तेषां सर्गाद्यजगत्सृष्टिकर्तृत्वं संभवतत्यत्राह " अद्यव " दिति। न पृथिव्यादीनां सर्वाशेन प्रलयोत्पादौ । किंतु वर्तमान इव काले भागभेदेनैव तौ क्रमशः । आगन्तुकैकदेशवृद्धिह्रासलक्षणौ । तथाच जीवेष्वेव केषाञ्चित्साधनविशेषसमासादितज्ञानशक्त्यतिशयानां हीनांशप्रपूरणात्मकं सर्जनं पृथिव्याद्युपादानसाक्षात्कारादितः संभवेदेव विश्वामित्रादीनामिवेत्यर्थः । निरवशेषप्रलये न पुनःसर्गः । सावशेषलये तु जीवविशेषाणां तत्तद्भागभेदकर्तृत्वं संभविष्यतीति नेश्वरकल्पनावसर इति भावः।

नन्वदृष्टमप्यस्ति सहकारि पुण्यपापरूपम् । तत्साक्षाताकरमन्रा च न तदनुगुणकार्यसर्जनं संभवेत् । तत्साक्षात्कारो न च जीवानां घटत इत्यत्राह " कर्मणः " इति । अन्यकर्तृकयागादिधर्माणां चौर्याद्यधर्माणां च साक्षात्कारे

क्षमा एव साक्षिभूताजीवविशेषाः । शास्रतश्च तत्तत्कर्मणः फलविशेषजनन सामर्थ्यमधिगतवन्तस्ते । तथाच तत्तदनुगुणं सृजेयुर्नाम। शक्तिमतः साक्षात्कारः शक्तेर्ज्ञानमात्रं च कर्तृत्वोपयोगि, नतु शक्तेरपि साक्षात्करणम् । स्वस्य पुनः । करणसामर्थ्यं चापेक्षितम् । तथाच पुण्यपापशब्दितकर्मशक्त्यसाक्षात्कारे%पि नोपरोधः कर्तभावस्येति भावः ।। 9 ।।

आगमादवगम्यन्ते विचित्राः कर्मशक्तयः ।

तेन कर्मभिरात्मानाः स्वं निर्मिमतां पृथक् ।। 10 ।।

अपि च तदेव चेतनकर्तृकं जगति परिदृश्यते, यदेव शक्यक्रियं शक्यज्ञानोपादानादि च । न च तथा महीमहीधरमहार्णवादीति कथमिव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः साक्षात्कारगोचरता ? यादृशं हि कार्यमुपादानाद्यभिज्ञपूर्वकमवगतं घटमणिकादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति ।

अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवता%नवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं बोद्धारमुपस्थापयन् हेतुरभिमतपुरुष सार्वज्ञ्यसर्वैश्वर्यादिविपर्ययसाधानाद्विरुद्धः स्यात् । न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्ग शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलादापततो विपरीतविशेषांस्तत्प्रमाणमेव प्रतिरुणाद्धि । इह पुनरतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तो%न्वयव्यतिरेकावधारिताविनाभावभाजोधर्मास्तानप्यविशेषेणोपस्थाप यति ।

उपपादयत्येतदेव निदर्शनतः " ने " ति । तुशब्दार्थे%यं प्रयुक्तो%यं । यद्वा इहेत्यतः पूर्वं इति, सत्यम्, इति योज्यम् । " आगमा " दिति। तेन-कर्मनिष्ठशक्तीनां शास्रतो%वगमेन, कर्मभिः-नानाजीवीयकर्महेतुतः, कर्मानुगुणमिति यावत्, आत्मानः-शक्तिमन्तो जीवाः, पृथक्-विभागेन, तत्तदेकेशभेदेनेति यावत्, सर्वं जगत्कार्यद्रव्यजातम्, निर्मिमताम्-सृजन्तु इत्यर्थः ।। 10 ।।

अपि च-स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः ।

ईश्वरस्योभयाभावाज्जग्सर्गो न युज्यते ।। 11 ।।

अवाप्तकामत्वान्न तावदात्मार्थे सृजति ; प्रलयसमये प्रलीनसकलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावात् दुःखिदर्शनजनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्य

निवृत्तेर्व्याप्यभूतया प्रेक्षावत्प्रवृत्त्या%पि निवर्तितव्यम्।

अथ कार्यत्वहेतौ दोषानाह " अपिचे " त्यादिना । तत्रादौ स्वरूपासिद्धिरुपाधिमुखेन व्याप्यत्वासिद्धिश्च कीर्त्येते । शक्या क्रिया-करणं यस्य तच्छक्यक्रयम् । कर्तृं शक्यमिति यावत् । शक्यं ज्ञानं यस्य तच्छक्यज्ञानम्, शक्यज्ञानामुपादानादि यस्य कार्यस्य तच्छक्यज्ञानोपादानादि । एवंभूतमेव कार्यं सकर्तृकं भवितुमर्हतीत्यर्थः । चेतनकर्तृकत्वरहितं कार्यं नास्तीति चानुसन्धेम् । " न चे " ति । तत्तत्कार्यत्वम्-तस्य तस्य कार्यत्वं क्षित्यादेरशक्यक्रियस्येत्यर्थः । अनेन स्वरूपासिद्धिर्भागासिद्धिर्वाक्ता । " कथन्तरा " मिति । उपादानोपकरणपरमाण्वदृष्टादेःसाक्षात्कर्तुमशक्यतयोपादानादिसाक्षात्कारचिकीर्षाकृतिमत्पुरुषपूर्वकत्वं कथन्तरां घटते क्षितिद्व्यणुकादेरित्यर्थः । क्षित्यादेः कार्यत्वे चेदाग्रहः , इष्यताम् । सकर्तृकत्वं तु अ#ुपपन्नमेवेति भावः । सोपाधिकत्वमाह " यादृश " मिति । यादृशं-कृतिसाध्यत्वार्हं ज्ञेयत्वार्होपादानादिकं च । अनेन शक्यक्रियत्वं शक्यज्ञानोपादानदिकत्वं चोपाधिरित्युक्तं भवति । अस्य व्यभिचारोन्नायकत्वं सत्प्रतिपक्षोन्नायकत्वं वा बोध्यम् ।

एवं कार्यत्वहेतोरभिमतकर्तृपूर्वकत्वासाधकत्वमुक्त्वा%नभिमतापादकत्वं चाह " अपि चे "ति । सपक्षे हि घटादौ विग्रहवत्त्वस्वार्थापेक्षत्वानीश्वरत्वादिविशिष्टकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तिर्गृहीता । विशिष्टसाध्येन गृहीतव्याप्तिकं च शरीरादि विशिष्टमेव कर्तारं साधयेत् पक्षे ।ते चाकारा अभिमतविपरीता इति विरुद्धव्याप्यत्वाद्धेतोर्विरुद्धत्वमिति भावः । नन्वेवं सपक्षे महानसादौ कारीषत्वादिमता वह्निना गृहीतव्याप्तिना धूमेन पक्षे पर्वते कारीषादिवह्नेरेव साधनं स्यात् । स च तत्र नास्तीति अप्रामाण्यप्रसङ्गो%नुमानमात्रस्येत्यत्राह " नचैव " मिति । " प्रमाणान्तरे "ति । साध्यस्य प्रमाणान्तरग्रह्यत्वे लिङ्गबलात्प्रसक्तानां विरुद्धविशेषाणां प्रत्यक्षादिना%पवदनात् वह्निमात्रे प्रामाण्यमनुमानस्यव्यवस्थाप्यं भवेन्नाम । प्रमाणान्तरागोचरे तु साध्ये लिङ्गबलप्रसक्तानां विपरीतविशेषाणामपवादकाभावात्तथैवावस्थानं स्यादित्याशयः ।

अन्वयव्यतिरेकसहचारग्रहाद्यद्यद्धर्मावच्छिन्नकर्तृपूर्वत्वेन कार्यत्वस्य व्याप्तिर्गृहीता, ते कुलालाद्यनुगता अनीश्वत्वसंसारित्वादयो भवन्ति व्यापकतावच्छेदकत्वेन गृहीताः ।

व्यापकतावच्छेदकधर्मप्रकारेण साध्यानुमापकत्वस्वाभाव्याच्च लिङ्गस्यानीश्वरसंसारिकर्तृमात्रपर्यवसायित्वं कार्यत्वहेतुकसकर्तृकत्वानुमानस्येति " यावन्त " इत्यादिना विवक्षितम् ।

ईश्वरस्य जत्कर्तृत्वासंभवादपि निरुक्तानुमानमनीश्वर एव विश्राम्यतीत्यभिप्रयन्नाह " अपचे " ति । स्वार्थः-स्वप्रयोजनम् । कारुण्यम्-परप्रयोजनसम्पादनोपयोगिगुणविशेषः परार्थपर्ययवन्नः । स्वार्थेच्छायाः कारुण्यस्य वा सत्तया व्याप्यं बुद्दिमत्प्रवृत्तिसामान्यमिति पूर्वार्धस्यार्थः । सिषाधयिषितस्येश्वरस्य त्ववाप्तकामत्वान्न स्वार्थः साधनीयः कश्चन सम्भवति सृष्टिहेतुः,न वा कारुण्यम्, परदुःखदर्शनाधीनोद्धोधत्वात्तस्य प्रलये च परेषां दुःखस्यैवाभावात् । अतःस्वार्थाभिसन्धिसमुद्बुद्धकारुण्यान्यतररूपव्यापकनिवृत्त्या जगत्करणरूपप्रवृत्तेर्निवृत्तिरित्युत्तरार्धस्यार्थः ।। 11 ।।

सुखैकतानं जनयेज्जगतकरुणया सृजन् ।

तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ।। 12 ।।

न चोपादानादिसाक्षात्कारिण एव कर्तृत्वमित्यपि नियमः ; उपीदानमुपकरणं चाविदुष एवात्मनो ज्ञनादिषु कर्तृत्वात् ।

कारिकार्थमेव प्रपञ्चयति " अवाप्ते " त्यादिना । प्रकारान्तरेण कारुण्यस्यासंम्भवमाह " सुखैके " ति श्लोकार्धेन । प्रत्युतः दुःखालयं जगत्सृजतो न कारुण्यलेशो%पि घटत इति भावः । नन्वीश्वरः कारुण्येनैव स्रष्टुं प्रवृत्तं । अथापि सृज्यकर्मापेक्षया सर्जनान्न नैर्घृण्यादिप्रसङ्ग इत्यत्राह " तत्कर्मे " ति । तथा सति कर्मपारतन्त्र्यप्रसङ्गादीश्वरत्वं भज्येतेति भावः । ऊशअवरो यदि जगत्कर्ता स्यादनवाप्तकामत्वादिमान् स्यादिति प्रतितर्को%त्रा%नुसन्धेयः । प्रतिप्रयोगस्त्वग्रे वक्ष्यत एव ।। 12 ।।

अतः - असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् ।

कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ।। 13 ।।

प्रयोगश्च भवति-महीमहीधरादि कार्यंन भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत् ; अशक्यदर्शनोपादानोपकरणत्वाद्वा, व्यतिरेकेण घटादिवत् । परमाणवोन प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात् तथैव घटादिवत् । विमतिविषयः

कालो न लोकशून्यः, कालत्वादिदानीन्तनकालवत् । तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात्तद्वदेव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति ।

अथानैकान्त्यमप्याहोपादानाद्यभिज्ञकर्तृपूर्वकत्वसाधने " न चोपादानादी " ति । ज्ञनादिविशेषगुणोपरागेणैवात्मनः प्रत्यक्षत्वात् ज्ञानार्थप्रवृत्तिवेलायां नात्मनो ज्ञानोपादानभूतस्वात्मसाक्षात्कारित्वं नियमतो%स्ति । न वा तदुपकरणादृष्टमन आदिसाक्षात्कर्तृत्व म् । ज्ञानार्थ प्रवृत्तेर्ज्ञने कर्तृत्वं समवायित्वं च परमस्ति । तथा चोपादानाद्यभिज्ञपूर्वकत्वाभाववति ज्ञानादै कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यर्थः।

निरुक्तेश्वरानुमानदूषणानि सङ्गृह्णाति " असिद्धत्वा " दिति । कार्यत्वस्य क्षित्यादावसिद्धिरशक्यक्रियत्वादिना%कार्यत्वानुमानात्तस्य अनीश्वरत्वानवाप्त कामत्वशरीरित्वादिविपरीताकारक्षेपकत्वात् क्षित्यादौ कर्तुः सिषाधयिषितस्य कार्यत्वस्य विरुद्धत्वम् । अभिमतविपरीताकाराक्षेपकत्वं हेतोर्विरुद्धत्वमिति हि प्राचां परिभाषा । अनैश्वर्याद्यापादकत्वं चानैश्वर्यादिविशिष्टकर्तृकत्वेन व्याप्तेर्घटादौ कार्यत्वहेतोर्गृहीतत्वादेव । किञ्चचेतनजन्यत्वमात्रे साध्ये%दृष्टद्वारा जीवजन्यत्वस्य कार्यमात्रे%भिमतत्वात्सिद्धसाधनम् । तदुपादानादिसाक्षात्कर्तृकर्तृपूर्वकत्वं साध्यमित्युररीकार्यम् । तत्र चानुपदोक्तमनैकान्त्यं स्थितं ज्ञानाद्यन्तर्भावेन । एवमसिद्ध्यादिदोषदुष्टत्वात्कार्यत्वस्य तेन क्षित्यादौ उपादनोपकरणादिसाक्षात्कर्तृ कर्तृपूर्वकत्वं न साधयितुं शक्यत इत्यर्थः ।। 13 ।।

अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् ।

सभागत्वात् क्रियावत्त्वात् महत्त्वेनविशेषितात् ।। 14 ।।

तादृशादेव मूर्तत्वाद्बह्यप्रत्यक्षतान्वितात् ।

समामान्यवशेषत्वादित्यादिभ्यो घटादिवत् ।। 15।।

न चेदृश एव सन्निवेशः कार्यः नेतर इत्यवयवसन्निवेशविशेषप्रतिनियतं रूपभेदमुदीक्षामहे । यत्तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इत, तदस्तु नाम । किन्तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिगमनीये । ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः

प्रसिद्धप्राकारगोपुरादि कार्येभ्यस्तनुभुवनादेः । नचैतावानेव क्रियागोचर इति विषयनियमः कश्चित् क्रियाय दृष्टः ; येनेदमशक्यक्रियमध्यवस्येम । सिद्धे च कार्यत्वे तदुपादानादिसाक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेष सिध्यत्येव ।

अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्राज्ञेनेव स्वशरीरादौ । स च द्रव्यैः संयोगलक्षणः, तद्गुणैस्तिसंयुक्तसमवायरूपः । प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा ; धर्माधर्मयोस्तु फलोदयानुकूलतादृशदेशकालादिसहकारिसहितता । ताभ्यां धर्माधर्माभ्यामेव फलम्, चेतनानधिष्ठितानां सर्वेषामेतेषामचैतन्येनाकिञ्चित्करत्वात् । न हि चेतनेन वर्धकिना%नधिष्ठिता वासी । देशकालादिसहकारि शतसमधिगमे%पि यूपादीन्यापादयितुमलम् । बीजाङ्कुरादयस्तु पक्षान्तर्भूता इति तैर्व्यभिचारवचनमनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर्व्यभिचारो%पि प्रत्युक्तः । न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानामेवेदृशाधिष्ठातृत्वकल्पनमुचितम् ; तेषां सूक्ष्मव्यवहितादिदर्शना शक्तेर्निश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना ; न दृष्विरोधिनी । न चैवमीश्वरस्याशक्तिर्निश्चिता ; प्रमाणान्तरतस्त(द)त्सिद्धेः । यथोदितप्रमाणबलेन सिध्यम् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति ; कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् ।

यत्तु परिमितशक्तिज्ञानानैश्वर्याद्यापदनाद्धर्मविशेषविपरीसाधनत्व मुद्भावितम्, तदतिस्थधीयः, अप्रयोजकत्वात्तेषम् । न हि किञ्चित् क्रियमाणं कर्तुरर्थान्तरविषयमसामर्थ्यमज्ञानां वा स्वोत्पत्ते%पेक्षते ; स्वसभ्पादनसमर्थकर्तृमात्राक्षेपात् केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये सम्बन्दिनो%किञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्व कल्पनानुपपत्तेः । अपि च किं तदितरमस्तवस्तुवि, यमज्ञानादि व्यापकम्, उत कतिपयगोचरमिति विवेचनीयम् । न तावदशेषविषयम्, अनुपलब्धेः । न खलु कुम्भकारः कुम्भातिरेकि किमपि न विजानाति । अथ कतिपयविषयम् । तदपि न, अनियतविषयतया तस्य तस्यव्यभिचारदर्शनात् । न चास्तिकिञ्चिद्व्यवस्थितम्,

यदविद्यादिमानेव कर्तृतामनुभवति ।

न च शरीरिणैव कर्त्रा भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् । न खलु शरीरविशिष्टस्सन्नेवायमात्मा शरीरमुपादत्ते, अयोगिनोयुगपदनेकशरीर ग्रहणायोगात्।पूर्वद्हपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्युपपादितमात्मचिन्तायाम्।

किञ्चात्मनः शरीरमधितिष्ठतो%धिष्ठानक्रियातकर्मभूतस्य देहस्याधिष्ठातृदशा (देहा)नुप्रवेशो%नुपपन्नः, युगपदेकक्रियायामेकस्य कर्मकर्तृत्वविरोधात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुण प्रयत्नयोगलक्षणमधिष्ठानं दृष्टमिति चेत् ; अस्त्वेकतत्त्व (सत्व)सम्बद्धस्याधिष्ठानानुपपत्तेः प्रेर्यवस्तुसम्भन्धिना प्रेरकेण भवितव्यमिति ; न पुनर्देहसम्बन्धेन (न्धिना) भाव्यमिति । कुतो निर्णयः ? इत एव, यतो%न्यदप्यधिष्ठीयमानं मानजण्डादि स्वसम्बन्धिनौवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्भन्धमात्रातिरेकेण देहसम्बन्धो नामपरो नादर्तव्यः अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस्सम्बन्ध इत्युक्तमेव ।

अथ स्वदेहव्यतिरिक्त वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्येत ; तदपि न ; अभिध्यानमात्रेणैव परशरीरगतगरनिरसनविसारणदर्शनात् ।

कथमसति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत् ; किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत् ? । करणमिति चेन्न; मनसः करणत्वात् किमस्तीश्वरस्य मनः ? बाढम् । नन्वेवं वुग्रहधर्माधर्मानैश्वर्यादयः साधारणधर्माः प्रादुःष्युः । मैवम् ; कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वात् (त्त्वार्थ) द्रढिम्नैवापास्तत्वात् । मनसो नित्येन्द्रियतया देहापगमे%पि सम्बन्धाभ्युपगमादनैकान्तिकश्च । यावद्धि दृष्टानुगुणं व्याप्त्युपयोगि, तावदनुज्ञायते । नचास्मदादेर्मनसा%प्यचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानैश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः ।

ईदृशेन कर्त्रा घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत् ;

अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसम्बन्धिना हुतवहविशेषेण महानसादौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनात् गिरिशिखरे तथाविधाग्निरनुमीयते । यादृशो धूमो यत्रावगतः तत्रैव तादृशस्तत्सम्पादनसमर्थौ दृष्टान्तभूमावपरिदृष्टो%पि सामान्यव्याप्तिबलेन पक्षध्रमतावशात् सिध्यतीतित चेत् ; तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिहोहति भवताम् । इमापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्षित्यादिषु दृश्यमानं स्वसम्पादनसमर्थमदृष्टपूर्वमेव बुद्धिमत्कर्तारमुपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्ब्न्धनियमः,तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वमनुष्यत्वादि- विशेषप्रहाणेन कार्यस्य स्विनिर्माणसमर्खबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः ।

अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वाव्याभिचारे%पि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहितत्वम् ? कथं न वायवीयद्रव्यस्यमहिमगुणशालिनो नियताधिष्ठानस्पार्शनत्वनियमदर्शने%पि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य वा रूपस्पर्शयोरन्यत्तरस्य वा प्राकट्यनियमे%पि रूपोपलम्भसाधनता%नुमिततैजसभास्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? । अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावे%पि तत्तद्विशेषाणां योग्यानुपलब्धिबाधितत्वात् तदभ्युपगमे%नेकनियमभङ्गप्रसङ्गाच्च तथा%भ्युपगमः, हन्त तर्हि प्रकृविषये%पि प्रसढञ्जितधर्मविशेषाणामनुपलम्भबाधाविशेषात् अनेकनियमदर्शनविघातप्रसङ्गाच्च तथा%भ्युपगम इति सर्वं समानमन्यत्राभिनिवेशात् ।

दृश्यन्ते हि नीतयः । यथा-विवादास्पदं परमाण्वादि प्रेक्षावप्रेरितं चेष्टते, अचेतनत्वात् ; यदचेतनं तत्तथा, यथा तथाविधं कन्दुकादि । तथा विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तय-प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात्तद्वदेव ।

प्रतिप्रयोगानाह " प्रयोगश्चे " ति । अशक्यदर्शनोपादानत्वमुपादयति " परमाणव "

इति । तथैव-व्यतिरेकेणैव । कार्यत्वस्य पक्षे क्षित्यादौ असिद्धिसाधनाय प्रयोग उक्तः । अथ जीवैः सिद्धसाधनत्वसाधनार्थ प्रलयनिरासे प्रयोग उच्यते " विमती " ति । सति हि प्रलये सर्गारम्भेस्रष्टृत्वं जीवानां करणादिविधुरत्वान्न घटत इति कर्त्रन्तरं मन्तव्यं भवेत् । तत् सर्वकार्यद्रव्यविरहलक्षणः प्रलयो नास्त्येवेति साध्यते%त्र । विरुद्धत्वप्रदर्शनार्थः प्रयोगः " तनुबुनवनादी " ति । ईश्वरकर्तृकं न भवतीत्यनीश्वरकर्तृकं भवतीत्यर्थपर्यवसायि । तद्वदेव-अन्वयेन घटादिवदेव । विपरीतपर्यवसायित्वं कार्यत्वानुमानस्योक्तम् । अभिमतपर्यवसायित्वाभावं च स्फोरयति " ईश्वर " इति । ईश्वरःईश्वरत्वाभिमतः । अयं च सत्प्रतिपक्षरूपः ।

एवं मीमांसकैद्रूषितमेवेश्वरानुमानं तार्किकप्रक्रियामेवावलम्ब्य प्रायशो व्यवश्थापयितुमुपक्रमते दोषोद्धारमुखेन "
अत्र ब्रूम "इत्यादिना । कार्यत्वम्-उत्पत्तिमत्त्वम् । क्षित्यादेः कार्यत्वे हेतवः सभागत्वादयः । सभागत्वं-सावयवत्वम् । " वित्त्यादिभ्य "इति प्रचीनमुद्रितपाठस्तु न समीचीनः । क्रियावत्त्वं, परिच्छिन्नपरिमाणवत्त्वरूपं मूर्तत्वं च नित्यपरमाणुसाधारणमिति सामानाधिकरण्यसम्बन्धेन महत्त्वविशिष्टं तद्देतूकृतम् । सामान्यविशेषः-द्रव्यत्वादि पृथित्वादि च, तचच् केवलं नित्यपरमाण्वादिसाधारणमिति बाह्यप्रत्यक्षविषयत्वेन विशेषितं तद्धेतूकृतम् । आत्मनो मानसप्रत्यक्षत्वात्सामान्यविशेषवत्त्वाच्च तत्र व्यभिचार इति बाह्यत्वेन प्रत्यक्षं विशेषितम् ।। 14 ।। 15 ।।

प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् ।

एकेच्छानुविधायीदमचैतन्यात् स्वदेहवत् ।। 16 ।।

ननु कार्यत्वमस्तु निरुक्तहेतुभिः । तावता सकर्तृकत्वे किमायातम् ? कार्यसामान्ये कर्तुः कारणत्वे मानाभावात्, कर्तां विनापि कारणान्तरत एव क्षित्यादेरुत्पत्तिसम्भवादित्यत्राह " न चेदृश " इति । सावयवत्वं ह्यवयवसन्निवेशविशेषरूपाकृतिमत्त्वम् । तच्च पुरुशकृतिसाध्यमेव दृष्टमिति विचित्राकारस्य मह्यदेरपि सकर्तृकत्वमेष्टव्यमेव । कार्यविशेषत्वमेव सकर्तृकत्वव्याप्यमस्तु । स च विशेषो न क्षोण्यादिव्यावृत्त इति तस्यापि सकर्तृकत्वसिद्धिरप्रतिहता । किञ्च "यद्विशेषयो"रित्यादिन्यायेन कार्यविशेषए कुलालादेः कारणत्वात् कार्यत्वावच्छिन्ने%पि

कर्तृत्वावच्छिन्नस्य कारणत्वमस्त्येवेति कार्यत्वमेव सकर्तृकत्वव्याप्यं क्षित्यादौ कर्तारंसमर्थयतीति भावः । यद्वा क्षित्यादि न कार्यं प्रसिद्धकार्यविलक्षणत्वादित्यत्राप्रयोजकत्वमाह " न चेदृश " इति। कार्यः-कृतिजन्यः, उत्पत्तिमान् वा । कृतिजन्यत्वे वा प्रयोजकं क्षोण्याद्याकारव्यावृत्तंघटाद्याकारमात्रवृत्तिधर्मविशेषं न पश्याम इत्यर्थः । सति हि तस्मिन् विशेषे प्रसिद्धकार्यवैलक्षण्यस्याकर्तृकर्तृकत्वव्याप्तिः प्रसिध्येत् । अन्यथा त्वप्रयोजकत्वमेव अदृष्टकर्तृको राजप्रासादो न कार्यो दष्टकर्तृकघटादिकार्यविलक्षणत्वादित्यादिवदिति भावः । ननु शक्यक्रियत्वादिरेव तादृशोविशेषः क्षित्याद्याकृतिव्यावृत्त इति चेत्तत्राह " यत्तु " इति । " तदस्तुनामे " ति । क्षित्यादौ तादृशविशेषाभावो%सिद्ध इति हार्दम् । ते-क्रियाज्ञाने । " यथोक्ते "ति कार्यत्वहेतुकसकर्तृकत्वानुमानलक्षणेति यावत् । अयं भावः - उपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वं हि साध्येत मह्यादौ । तत्र च तद्विधेयककृतिः, तदुपादानाद्यपरोक्षज्ञानं च घटकमस्त्येव । ज्ञानक्रिययोरेवं प्रामाणिकत्वं तदनुगुणसामर्थ्यमपि कल्पनीयमेव जगत्कर्तुरित्यशक्यक्रियत्वादेरसिद्धिरिति भावः । क्रियागोचर-कृतिविधेयः । " सिद्ध " इति । प्रामाणिके च कार्यत्वे सति कार्यत्वस्य विशिष्टकर्तृपूकत्वव्याप्तिबलात् क्षित्यादौ कर्तृविशेषसिद्धिरप्रत्यूहैवेति भावः । "तदधिष्ठानतप्रेरणे" ति कर्मधारयः । यद्वा परप्रवृत्त्यनुगुणव्यापारः । प्रेरमम् । तादृशव्यापारवतः प्रेर्येण सन्निकर्षो%धिष्ठानमिति भिदा । एवं कार्यत्वं क्षित्यादेस्ततः सकर्तृकत्वं च साधितम् ।

अथ सकर्तृकत्वानुमानस्य जीवैः सिद्धसाधनतां परिहर्तुं कर्तृत्वेस्वरूपानुप्रविष्टमधिष्टानादि विवृणोति " अधिष्ठान " मित्यादिना । यथा जीवस्य शरीरावयवाद्यधिष्टानं तत्प्रवृत्त्यनुकूलसङ्कल्पेन, एवं परमाण्यदृष्टाद्यधिष्ठानं जगत्कर्तृरीश्वरस्य तत्प्रवृत्त्युनुकूलसङ्कल्पेनेति मन्तव्यमित्यर्थः । " स चे "ति । ईश्वरसन्निकर्षः परमाण्वादौ संयोगरूपः अदृष्टे च संयुक्तसमवायरूपो विभुद्धयसंयोगस्योपगमे । तदनुपगमे संयुक्तसंयोगिसमवायलक्षणो बोध्यः ।इदं च तार्किकप्रक्रियया । " प्रवृत्ति " रिति । आरम्भकसंयोगानुकूलक्रियारूपा च परमाणूनां प्रवृत्तिरित्यर्थः । अदृष्टस्य प्रवृतिं्त निर्वक्ति " धर्माधर्मयो" रिति। इदं पुण्यं पापं वा%स्मिन् देशे काले च फलं जनयत्वितीश्वरसङ्कल्पमूला%दृष्टस्य प्रवृत्तिः

फलोदयानुकूलतादृशदेशकालादिसहकारिसमासादनलक्षणा भवतीत्यर्थः । " ताभ्या " मिति। एवकारो भिन्नक्रमः । ताभ्यां-चेतनाधिष्ठिताभ्यामेव धर्माधर्माभ्यां पलमित्यान्वयः । ननु कर्तारमन्तरैव कारणान्तरतः क्षित्यादि भवेदिति शङ्कामन्तर्निधाय तत्परिहारमाह " चेतन "ति । अकिञ्चित्करत्वमेवोपपादयति " नही " ति । तथा चाधिष्ठातुः कारकचक्रप्रयोक्तः कर्तृश्चेतनस्यापेक्षा कार्यसामान्ये%स्येवेति क्षित्यादौ सकर्तृकत्वं नापह्नवार्हम् । अचेतनस्य कारणग्रामस्य चतनाधिष्ठानमन्तरा प्रवृत्त्यनुपपत्तेरिति भावः । उपादानदिगोचरापरोक्षज्ञानमन्तरा च तदधिष्ठानलक्षणस्य कर्तृत्वस्यासम्भवात् क्षित्यादिकर्तृः परमाण्वादिसाक्षात्कारो%प्यावश्यकः । चिकीर्षापूर्वकारकचक्रप्रवृत्तिहेतुकृतिनिरूप्यं च प्रेरणमिति कारकचक्रप्रयोक्तृत्वरूपाधिष्ठातृत्वलक्षणस्योपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वलक्षणस्य च कर्तृत्वस्य नात्यन्तभेदः । ततश्च पूर्वत्रोपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वमुक्तम् । अत्राधिष्ठातृत्वरूपं तत् समर्थ्यत इति परकृतासाङ्गत्यमिति शङ्काया नावसर इत्यवधेयम । एवंभूतस्य क्षित्यादिकर्तृत्वस्य सदा सर्वदर्शिनं सर्वसमर्थं चेश्वरं विना%न्यत्र जीवेष्वसम्भवान्न तैः सिद्धसाधनमिति चात्र विवक्षितम् । न चोभयवादी" त्यग्रिमग्रन्थे चैतद्वक्ष्यते । मध्ये%नैकान्त्यं परहरति प्रसंङ्गतः " बीजे " ति । यत्र यत्र कार्ये न दृष्टः कर्ता, ततत्सर्वमिप कार्यं प्रकृते पक्षीकृतम् । पक्षे च व्यभिचारशङ्का न दोषाय, अन्यथा%नुमानकथाया एव विलोपप्रसङ्गादिति भावः । " एतेने " ति । पक्षान्तर्भूतत्वेनैवेत्यर्थः । आदिपदेन ज्ञानादि ग्रह्यम् । न हि स्वसुखज्ञानाद्यर्थप्रवृत्तिमान् जीवस्तदोपकरणोपादानादृष्टस्वात्मसाक्षात्कर्ता । तत् उपादानादि साक्षात्कर्तृपूर्वकत्वरूपसाध्यभाववति सुखज्ञानादौ

कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यपि सुखादेरपि पक्षान्तर्भावत एव निरस्तमित्यर्थः । तत्राप्युपादानादिसाक्षात्कर्तृपूर्वकत्वमीश्वरेणैव निरूह्यते%स्माभिरिति हृदयम् । ननु तर्हि जीवस्य स्वसुखादौ कर्तृत्वं न स्यादिति वाच्यम् । सुखादिसम्पादनार्थतस्साधनदर्शनोपादानप्रवृत्तिमत्त्वादेवोपपत्तेः, कुलालादेरिव दृष्टोपकरणादिदर्शनोपादानादिना घटादौ । अदृष्टकारणाधिष्ठानं तु सर्वत्र कार्ये परमात्मन एवेति ध्येयम् । नन्वेवमपि स्वज्ञानाद्यर्थप्रवृत्तिपूर्वकाले नियमेन स्वस्य साक्षात्काराभावात् स्वज्ञानाद्युपादानभूतस्वात्मसाक्षात्कर्तृत्वं तदा तस्य नास्तीति चेत्, न, आत्मनः

स्वप्रकाशत्वनयेन तदा स्वात्मसाक्षात्कारस्यापि संमानयितव्यत्वात् । स्वज्ञानादौ स्वस्य कर्तृत्वस्य स्वस्मृतिमात्रेणापि अभ्युपगन्तव्यत्वाद्वा न दोषः । उपादानादिसाक्षात्कर्तृपूर्वकत्वमिति नियमस्तु ईश्वरेणैव तत्र तत्र निर्वाह्येति च न विस्मर्तव्यम । तदर्थमेव सुखाद्यपि पक्षीकृतमिति बोध्यम् । व्यभिचारं परिहृत्य सिद्धसाधनतां परिहरति " न चोभये " ति । परमाण्वदृष्टादिप्रवृत्त्यनुगुणाधिष्ठातृत्वकल्पनमित्यर्थः । अ#ुयुक्तत्वे हेतिमाह " तेषा " मिति । द्रष्टुमेव तदशक्तानांतदधिष्ठानकथा केति भावः । नन्वीश्वरस्यापि अधिष्ठानसामर्थमदृष्टं कथं कल्पते ? तत्राह " न चैव " मिति । अदृष्टमपि न दृष्टविरोधीति भावः । कुतो न दृष्टविरोधः ? अत्राह " प्रमाणान्तरत " इति । अत्र "तदसिद्धे" रिति पाठः स्याद्वेति सन्दिह्यते । प्रत्यक्षादिनेश्वरस्यासिद्धेरसामर्थ्यस्य तस्मिन्नदृष्टत्वादित्यर्थः । नन्वनेनैवानुमानेन तस्यासामर्थ्यं सेत्स्यतीत्यत्राह " यथोदिते " ति । "तत्सिद्धे" रिति पाठे तु शक्तिमदीश्वरस्यैव विलक्षणप्रमाणेन सिद्धेरित्यर्थः । किन्तत् ? तदाह " यथोदिते "ति । सिध्यन्नित्यस्याग्रे " हि " इति योज्यम् । " सांसिद्धिके " ति । सर्वस्यार्थस्य क्रियाकारकफलवर्गान्तः पातितया सर्वाधिष्ठानं तदर्थं सर्वसाक्षात्करणमपीश्वरस्य प्राप्ते । ते चाकरणकत्वान्नित्ये एवेति भावः । " कार्यत्वस्ये " ति । यत्र कार्यत्वं तत्र तत्र समर्थकर्तृजन्यत्वमिति व्याप्तेरित्यर्थः ।

कुलालदेः किञ्चिद्विषयाज्ञानाशक्ती अपि विद्येते । तदल्पज्ञाल्पशक्तिकर्ती व्याप्तिः कार्यत्वस्य गृह्यते भूयःसहचारदर्शनबलात् । तदभिमतविपरीतापादकत्वाद्विरुद्धत्वामिति शङ्कां " यत्तु " इत्यादिनानूद्य परिहरति " त " दिति । अप्रयोजकत्वात्-कार्यकरणोपयुक्तत्वाभावात्किञ्चिद्विषयाज्ञानादेः । अयं भावः-येनाकरेण कर्तुः कारणत्वं तद्रूपावच्छिन्नकर्तृपूर्वकत्वेनैव कार्यत्वस्य घटादौ व्याप्तिर्गृहीता । किञ्चिद्विषयाज्ञानादिमत्त्वेन च न घटादौ कारणत्वं कुलालादेः । किन्तु तदुपादानादिसाक्षात्काराधिष्ठानक्षमत्वविशिष्टत्वेनैव । अन्यविषये ज्ञानाज्ञाने शक्त्यशक्ती वा अप्रयोजके प्रकृतकार्योत्पादे । तत्समर्थकर्तृकत्वेनैव व्याप्तिः कार्यत्वस्य । यथा धूमस्याद्रैन्धनसंयोगविशिष्टवह्नित्वावच्छिन्नेन्नैव संबन्धनियमः, न तु रक्तत्वकारीषत्वाद्यनुपयुक्तधर्मावच्छिन्नेन, तद्वदिति । अप्रयोजकत्वमेवोपपादयति " नही " ति । अज्ञानम्-अर्थानत्रोपकरणाद्यज्ञानम् । " स्वे " ति । स्वकारणत्वेनानुमीयमानस्य

कर्तुःस्वनिष्पत्त्युपयोगिसामर्थ्याद्येवाक्षिप्यते कार्यत्वस्य मसर्थकर्तृकत्वव्याप्तेरिति केवलव्यरिरेकस्य-केवलस्य पूर्ववर्तिमात्रस्यानुपयोगिनो व्यतिरेकस्य-अर्थान्तरगोचरशक्त्याद्यभावस्य प्रकृतकार्ये प्रयोजकतया%सिद्धेरित्यर्थः । अर्थान्तरविषयशक्त्याद्यभावस्य व्यतिरेके प्रकृतकार्यस्य व्यतिरेक इति व्यतिरेकसहचारस्यासिद्धेरिति वा%र्थः । मूलपाठो%त्रान्यथा स्याद्वा । तावतैव-स्वनिष्पादनोपयोगिज्ञानशक्तित एव । अर्थान्तरो विषयो यस्येति बहुत्रीहिः । अन्यपदार्थो ज्ञानादिरर्थसिद्धः । तस्य प्रतियोगितया%भावे%न्वयः । सम्बन्धिनः-कार्यनियतपूर्ववर्तिनः । अकिञ्चित्करस्य-प्रकृतकार्यानुपयोगिनः । अन्यथासिद्धस्येति यावत् । अथ विकल्पमुखेनार्थान्तरविषयकाज्ञानादेः नियतपूर्ववृत्तित्वमपि प्रतिक्षिपति " अपि चे " ति । व्यापकं-कार्यस्य नियतपूर्ववृत्ति । " न ताव " प्रकृतकार्यातिरिक्तसकलकार्योपयोगिज्ञानसामर्थ्यविरहः कर्तरि कुत्राप्यसिद्ध एवेति भावः । ननु प्रकृतकार्यातिरिक्तकतिपयविषयाज्ञानादि कर्तुरिष्टं दृष्टं चेत्यत्राह " अथे " ति । अर्थान्तरयत्किञ्चिदज्ञानादि न व्यवस्थितम् । यथा कश्चित्पटकारः घटं न जानाति कश्चित्तु जानाति, कश्चित्त्वन्यन्न जानाति अन्यस्तु तज्जानातीति प्रकृतकर्तुरन्यान्यविषयं ज्ञानमज्ञानं चाव्यवस्थितं दृश्यते । पटाद्यज्ञानं घटाद्यज्ञानं वा नियतं कर्तुर्दुर्वचमिति तत्तदज्ञानस्य तत्र तत्रानैकान्त्यान्न हेतुत्वमिति भावः । सर्वस्यापि कर्तुः किञ्चिद्वस्तु नियमेन न ज्ञायते इति तु दुर्वचमेवेत्याह " न चास्ती " ति । ननु स्वविशिष्टज्ञानाभावत्वेनाज्ञानस्य हेतुत्वमुपेयते । स्वपदं प्रकृतकार्यपरम् । वैशिष्ट्यं च ज्ञाने स्वनिष्ठविषयत्वानिरूपकत्वस्वान्य निष्ठविषयतानिरूपकत्वोभयसम्बन्धेन । तथा च तत्तदज्ञानस्य तत्र तत्र व्यभिचारे%पि निरुक्तरूपावच्छिन्नज्ञानाभावस्य नियतपूर्ववृत्तित्वसम्भव एवेति चेत्, एवमपि पूर्वोक्मन्यथासिद्धत्वं दुर्वारमेवेति ध्येयम् ।

कार्यत्वस्याज्ञात्वादिविरुद्धाकाराक्षेपकत्वं क्षित्यादिकर्तरि परिहृतमेतावता ।

अथ शरीरत्वलक्षणविपरीताकाराक्षेपकत्वं परिहरति " न चे " ति । कर्तुः शरीरवत्त्वमेवेति न नियमः । एकं देहं परित्यज्य देहान्तरपरिग्रहणं कुर्वतो जीवस्य तदा।डशरीरित्वादित भावः । योगिनो योगबलाज्जीवतो देहान्तरग्रहणं कुर्वतो जीवस्य तदा%शरीरित्वादिति भावः । योगिनो योगबलाज्जीवतो देहान्तरग्रहणं सशरीरस्यैव दृष्टमित्ययोगिन इत्युक्तम् । ननु अयोगिनो%पि सूक्ष्मशरीरवत एव स्थूलदेहान्तरग्रहणं

प्रेत्येति न व्यभिचार इत्यत्राह " पूर्वेति " । ननु श्रुतिबलाद्भूतसूक्ष्मैः परिष्वक्तस्यैव जीवस्य गत्यादिरेष्टव्या । तान्येवेन्द्रियप्राणसंसृष्टानि सूक्ष्मदेह उच्यते । तथा च कर्तुः शरीरत्वनियमे न व्यभिचार इति चेत् ; अत्र ब्रूमः । एवमपि स्थूलशरीरवत्त्वनियमे%नैकान्त्यं स्थितमेव । सूक्ष्मस्य तु न मुख्यं शरीरत्वम् । अमुख्यं च तदीश्वरं प्रति परमाणूनामप्यक्षुण्णमेव । तथाहि न्यायाचार्योदयनः परमाणूनामीश्वर शरीरत्वमुशतीति ।

एवं शरीरोपादाने कर्तृत्वं जीवस्या शरीरस्यैवेति समर्थ्य शरीरप्रेरणे कर्तृत्वमप्यशरीरस्यैवेत्याह " किंचे " ति । अधितिष्ठतः-प्रवर्तयतः अधिष्ठातृदेहानुप्रवेशः अधिष्ठातृतावच्छेदकघटकता । शरीरमधितिष्ठतो%धिष्ठातृतावच्छेदकं सङ्कल्पादिरेव, न तु तच्छरीरमपि । अधिष्ठानकर्मीभूतस्य काष्ठादे स्तच्छेत्तृतावच्छेदकत्वं यथा न तद्वदिति भावः । ननु स्वाधिष्ठातृसम्बद्धस्य देहस्य कथं नाधिष्ठातृतावच्छेदकता ? इति शङ्कते " अधितिष्ठासिते " ति । परिहरति " अस्त्वेके " ति । "एकतत्त्वे" ति प्राचीनमुद्रितपाठो न संशुद्धः । "एकतस्त्वसंबद्धस्ये" ति वा%न्यथा वा पाठः संभाव्यते । अत्यन्ततो%सम्बद्धस्याधिष्ठेयेन तदधिष्ठातृत्वस्य काष्ठासंबद्धस्य कुठारस्य च्छेत्तृत्वस्येवासंभवादधिष्ठेयसम्बन्धिना%धिष्ठात्रा भवितव्यमित्येव नियमः, न तु देहसंबन्धिना भाव्यमितीति भावः । प्रेरणं प्रति प्रेर्यसम्बन्ध एव हेतुः न देहसम्बन्ध इत्यत्र नियामकं पृच्छति " कुत " इति । तद्वदति " यत " इति । अधिष्ठीयमानं-प्रवर्त्यमानम् । स्वसंबन्धिना-प्रेर्यसंयोगिना । हस्तादि विशेष्यमत्र । अयमाशयः-शरीरिण एव प्रवर्तकत्वमिति न नियमः । हस्तादेरपि मानदण्डादिप्रवर्तकत्वात् । प्रेर्यसंबन्धिन एव प्रेरकत्वमिति त संभवति, हस्तादेरपि प्रेर्यसम्बन्धादिति ।

शङ्कते " अथे " ति । प्रवर्तनं नाम परव्यापारप्रयोजकप्रयत्नवत्त्वम् । तच्च पुरुषस्यैव । स च स्वहस्तव्यापारेण मानदण्डादि प्रवर्तयति । तथा च देहतदवयवभिन्नवस्तुप्रवर्तने देहहस्तादिव्यापारापेक्षा%स्येवेति नेश्वरस्यानाकृतेः परमाण्वाद्यधिष्ठातृत्वं संभवतीत्याशयः शङ्कितुः । इममपि नियममनैकान्त्येनैव दूषयति " तदपि ने " ति । सङ्कल्पगरुडध्यानादिमानसव्यापारमात्रेण हस्तादिव्यापारं विनापि परशरीरस्थविषनिवर्तनादिदर्शनाद्देहतदवयवव्यतिरिक्ताधिष्ठाने देहादिव्यापारापेक्षानियमो नास्तीत्यर्थः । प्रेर्यसंबन्धो%प्यत्र प्रेरकस्य ज्ञानद्वारक एवेति च बोध्यम् । पुनः शङ्कते

" कथ " मिति । जन्यज्ञानादौ देहस्य हेतुत्वादिति भावः । अन्तर्निहितोत्तर आक्षिपति " कि " मिति । देहस्य किं सङ्कल्पे कर्तृत्वम् ? येन येन तदभावे सङ्कल्पो न घटेतेत्यर्थः । शङ्कते " करण " मिति । तत्र करणं शरीरमिति चेन्न, मनस एव करणत्वादित्यर्थः । तथा च शरीराभावे%पि स्वहेतोरेव सङ्कल्पो भविष्यतीति भावः । ननु मनसः करणत्वे%पि जन्यज्ञानादौ देहस्याप्यस्त्येवापेक्षा%वच्छेदकतयेति चेदत्र ब्रूमः-बद्धज्ञानादावेव देहापेक्षा, नान्यत्र । " मनसैवैतान् कामान् पश्यन् रमतेय एते ब्रह्मलोके " " मनसैव जगत्सृष्टि "-मित्यादिना मुक्तस्येश्वरस्य च मनोवत्त्वं, तत एव ज्ञानसङ्कल्पादिकं च प्रतीयते । तद्देहविगमे%पि मनसो नित्येन्द्रियत्वोपगमादेव शरीरानपेक्षसङ्कल्पाद्युपपत्तिरिति । ईश्वरे नित्यज्ञानचिकीर्षाप्रयत्नवादिनां तार्किकाणां मते तु न तरां शरीराद्यपेक्षा । अत्र मनोवत्त्वागन्तुकसङ्कल्पादिसमर्थनं तु तदेकदेशिमतेन वा सिद्धान्तच्छायया वेति बोध्यम् । मनोवत्त्वे%निष्टप्रसङ्गं शङ्कते " नन्वेव " मिति । मनोवत्त्वस्य शरीरित्वादिव्याप्यतया शरीरित्वाद्यापद्येतेश्वरस्येत्यर्थः । परिहरति " मैव " मिति । समर्थकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तेर्गृहीतत्वात् ततः क्षित्यादौ सिध्यतः कर्तुरीश्वरस्याशरीरित्वैश्वर्याद्येव सेत्स्यति "
यक्षानुरूपो बलि " रिति न्यायात् । शरीरित्वाद्युपगमे चासामर्थ्यप्रसङ्गात् । यथाचैतत्तथा "नचास्मदादे" -रित्यनन्तरवाक्ये वक्ष्यते । तथा चेश्वरे शरीरत्वानैश्वर्याद्यापादनं धर्मिग्राहकमानबाधितमित्यर्थः । द्रढिम्नैव-दृढतयैव । "समर्थकर्तृकत्वार्थद्रढिम्नैवे"ति समस्तपाठः साधीयान् । मनसः शरीरित्वादिव्याप्यत्वमपि निराकरोति " मनस " इति । सरीराभावे%पि प्रायणावान्तरलयादौ नित्येन्द्रियतया मनसः सत्त्वात्कालावच्छेदेन शरीरव्याप्यत्वं मनसो नास्तीत्यर्थः । नन्वेवमपि सशरीरस्यैव कर्तृत्वं तत्र तत्र दृष्टामिति

शरीरिकर्तृकत्वेन व्याप्तिः कार्यत्वस्य कुतो न गृह्यत इत्यत्राह " यावद्धी " ति । दृष्टानुगुणं कार्यानुगुमत्वेन दृष्टमत एव व्याप्त्युपयोगि थद्रूपं तदवच्छिन्नेनैव व्याप्तिरेष्टव्या । ज्ञानशक्त्योरेव च कार्यानुगुमता । ते यद्यपि कर्मपरवशे कुलालादौ शरीराधीने ; नैतावता शरीरादेर्व्यापकतावच्छेदककोटिनिवेश इति भावः । एवमनभिमतापदकत्वं परिहृतम् । अथाभिमतविशेषसिद्धिप्रकारं प्रपञ्चयति " न चास्मदादे " रिति । अपर्यन्तविस्तारस्य अनवधिकायामवतो%परिच्छिन्नस्य प्रादेशिकशरीरकः परिमितदेशवर्तिपरिच्छिन्नमूर्तिमान् । अलं-समर्थः । शिष्टं स्पष्टम् ।

शङ्कते " ईदृशेने " ति । अकर्मवश्यत्वाशरीरित्वसर्वज्ञत्वादिविशिष्टकर्त्रा कार्यत्वस्याविनाभावो घटादौ न दृष्ट इति शङ्कितुर्भावः । सामान्यधर्मावच्छिन्नव्याप्तिग्रहादेव पक्षधर्मताबलसहकारात्पक्षीयसाध्य विशेषसिद्धिरिति हार्देन प्रतिबन्दीमाह " अतिगहने " ति । शङ्कितुर्मुखेनैव परहारं वाचयति " यादृश " इति । यादृशः-अतिजडिलगनतलनिचुम्बिसन्तत- सन्तन्यमानधारारूपः । तादृशःमहावह्निः । " त " दिति । निरुक्तविधमहाधूमजननसमर्थ इत्यर्थः । अत्र " तादृशतत्संपादनसमर्थ " इति समस्तपाठः स्याद्वा । उत्तरतौल्यमाह " तदिद " मिति । यथा देशकालपरिमाणादिविशेषो वह्नेरनैकान्त्याद्धूमव्यापकतावच्छेदकघटको न भवति, किन्त्वाद्रेन्धनयुग्वह्नित्वमात्रं तथा, एवं मनुष्यत्वादि सहचरितमिपि न कर्तृतावच्छेदककोटिघटकम् । अन्यत्रापि कर्तृत्वदर्शनात् । किन्तु सामर्थ्यमात्रं तथेत्याह " यथैवे " ति । धूमात्पर्वते वह्निविशेषानुमानात् कार्यत्वात् क्षित्यादौ कर्तृविशेषानुमानस्य न वैलक्षण्यम् । यथा तत्राभिमतविशेषसिद्धिस्तथा प्रकृते%पीते भावः ।

अथ सपक्षदर्शनमात्रेण सर्वधर्मापादने प्रतिबन्दी विवक्षुराह " अपि चे " ति । विभुद्रव्यसंयोगिन इत्यनेनाविभुत्वं मनसो विवक्षितम् । विभुद्वयसंयोगस्य तार्किकैरनुपगमात् । ज्ञानाद्यसमवायिकारणसंयोगाश्रयतया मनःसिद्धिरित ज्ञानेत्यादिविशेषणम् । आत्ममनःसंयोगस्यैव हि ज्ञानादावसमवायिहेतुत्वं तन्मतम् । ज्ञानायौगपद्याच्च तस्याणुत्वं मतम्, निःस्पर्शत्वं च । स्पर्शवत्त्वे भूतत्वप्रसङ्गात् । भूतत्वे चाभूतविशेषगुणग्रहकत्वासंभवात् । अत्रायं प्रतितर्को विवक्षितः-मनो यदि परिच्छिन्नपरिमामवत् स्यात् क्रियावद्वा तर्हि स्पर्शवद्भवेदिति । भूयः सहचारदृष्टस्यापि क्वचिद्व्यभिचार इत्यस्येदमेकं निदर्शनम् । अथ निदर्शनमन्यत्प्रदर्शयति " कथं चे " ति । अनियताधिष्ठानेति पदन्छेदः । यद्यपि महतो वायोर्गतिशीलस्यानियताधिष्ठानत्वमुद्भूतस्पर्शवत्त्वात् स्पार्शनप्रत्यक्षत्वं च भूयो दृष्टम् । अथापि वायवीयत्वेनानुमितस्य देहव्यापिनस्त्वगिन्द्रियस्य नियताधिष्ठानत्वमस्पार्शनत्वं चाभिमतम् । अत्र प्रतितर्कः-त्वचो वायवीयमहत्कार्यत्वे उद्भूतस्पर्शवत्त्वादि भवेदिति । निदर्शनान्तरं " तैजसस्ये " ति । कार्यतेजसो महिमगुणवतो रूपस्पर्शयोरुद्भूतत्वं ज्वलनादौ । स्पर्शमात्रस्योद्भूतत्वं भÐज्जतकपालवह्न्यादौ । रूपमात्रस्योद्भूतत्वं प्रभादौ । एवं रूपस्पर्शौभयतदन्यतरोद्भवस्य भूयो दृष्टत्वे%पि चक्षुषो रूपदिषु रूपादिषु

रूपमात्रव्यञ्जकत्वेनानुमिततैजसभावस्य तदुभयानुद्भवः कथमित्यर्थः । चक्षुषः तैजसमहत्कर्यत्वे रूपस्पर्शान्यतरोद्भवः स्यादिति प्रसङ्गो%त्र बोध्यः । प्रतितर्काणामाभासत्वमित्याशयेन प्रतिवक्ति परः " अथ "ति । तत्तद्विशेषाणाम्-उद्भूतरूपस्पर्शान्यतरस्पार्शनत्वस्पर्शवत्त्वादीनां भूयः । सहचारदर्शनमात्रेण चक्षुरादावापाद्.मानानां योग्यानुपलम्भबाधितत्वमिति नापादकव्यापकत्वमापाद्यस्येति भावः । यद्यपि मनसो%णुत्वात्तत्र स्पर्शवत्त्वस्य योग्यानुपलम्भबाधो दुर्वचः । तथापि तत्र तदुपगमे%नेकनियमभङ्गप्रसङ्गोस्त्येव । तदाह " तदभ्युपगम " इति । यथा- मनसः स्पर्शवत्त्वे भूतत्वप्रसङ्गः । भूतत्वानुपगमे स्पर्शवतो भूतत्वमेवेति नियमभङ्ग। भूतत्वोपगमे चेन्द्रियान्तरवदभूतात्मविशेषगुणाग्राहक्तवात्तिः । तद्ग्राहकत्वोपगमे चाभूतविशेषगुणाग्राहकत्वनियमस्यापि भङ्ग । इति । एवं चक्षुरादावपि उद्भूतरूपवत्त्वादिस्वीकारे नानानियमभङ्गप्रसङ्गो%नुसन्धेयः । विपक्षे बाधकविरहेणापाद्यापादकयोर्व्याप्यव्यापकभावासिद्धिः । तथा च प्रतितर्काणां छिन्नमूलत्वं च विवक्षितम् । " तथा%भ्युपगम " इति मन-प्रभृतेर्निःस्पर्शत्वाद्यभ्युपगम इत्यर्थः । तुल्यनयेन क्रतृत्वे सशरीरत्वमिति नियमो%पि नास्तीत्याशयवानाहेश्वरवादी " हन्ततर्ही " ति । स्वस्मिन् प्रसञ्जितप्रतितर्कनिराकरमयुक्तेः परमुखेनैवानुवाचनजनितहर्षद्योतको%यं । हन्तशब्दः । सशरीरत्वे शरीरद्वारोपलम्भप्रसङ्ग ईश्वरस्य । क्रमवत्त्वे चासार्वज्ञ्यादिप्रसङ्गः । प्रकृतष्टधर्मवत्त्वात् सार्वज्ञ्याद्युगमश्च न संभवति । साधानानुष्ठानराहित्यात्प्रकृष्टधर्मस्यानुपपत्तेः । ईश्वरस्य स धर्मो नित्य एवोपेयत इति पक्षे च धर्मसामान्यस्य विहितक्रियाजन्यत्वनियमभङ्गः । अकर्मत्वे चेश्वरस्य सशरीरत्वायोगः । तच्छरीरस्य नित्यत्वोपगमे च सावयवत्वस्य कार्यत्वव्याप्यत्वनियमभङ्गः । तथा च क्षित्यादेरपि कार्यत्वासिद्धेस्तत्कर्तृत्वेनेश्वरानुमानायोग इति बहुरमूहनीयम् ।

सहचारमात्रेण कर्तृत्वस्य न सशरीरत्वादिव्याप्तिः, विपक्षे बाधकविरहादिति च हार्दम् ।

ननु चक्षुरादेस्तैजसादिभावे%पि तत्तद्विशेषस्य प्रमाणसिद्धत्वान्न तद्विरुद्धापादानसम्भवः । नैवं त्वीश्वरीयविशेषाणां मानसिद्धत्वमिति चेत्तत्राह " दृश्यन्त " इति । नीतयः-न्यायाः, अनुमानानि । ईश्वरे%प्यभिमतविशेषेषु सन्ति प्रमाणानीत्यर्थः तान्येव प्रपञ्चयति " यथा " इति । "तथे" ति पाठे तु तथा हि नीतयो दृश्यन्त इत्यन्वयः । तथा-ईश्वरीयाभिमतविशेषसाधकाः । ईश्वरस्य स्रष्टृत्वे तादनुमानमुक्तं पूर्वम् । तस्य

प्रवर्तयितृत्वे तदाह " परमाण्वादी " ति । विवादास्पदमिति पक्षतासम्भवद्योतकं विशेषणम् । साध्यतदभावान्यतरनिर्णये हि पक्षता%तिवर्तते । साध्यतदबाववत्त्वविप्रतिपत्तिविषयीभूतमिति ।तदर्थः । साध्यवत्त्वेन सन्दिह्यमानमिति फलितम् । साध्यसन्देहस्य पक्षतात्वं प्राचां मतम् । सिद्धिस्थले%प्याहार्यसंशयादेवानुमित्सया भवत्यनुमानमिति बोध्यम् । प्रेरणं च परप्रृत्त्यनुगुणसङ्कल्पप्रयन्नवत्त्वलक्षणम् । परमाण्वादिगोचरावीश्वरस्य सङ्कल्पप्रयत्नौ प्रसाध्य साक्षात्कारमपि तादृशं साधयति " तथे " ति । तद्वदेव-कन्दुकादिप्रवृत्तिवदेव । कन्दुकादिप्रवृत्तावुपादानं कन्दुकादि, उपकरणं दण्डादि । तत्साक्षात्कारी दण्डेन कन्दुकादि प्रवर्तयति । ततश्च तत्र प्रवृत्तिरूत्पद्यते । एवं परमाण्वादिप्रवृत्तेर्ज्ञानाद्यर्थान्तरात्मप्रवृत्तेरप्युपादानोपकरणपरमाण्वाद्यदृष्टादिसाक्षात्कर्ता%त्र साध्यते । न चैतत्साक्षात्कर्तृत्वं जीवानामिति न तैः सिद्धसाधनम् । अतीन्द्रियार्थानामपि साक्षात्कारः फलितो%त्रानुमाने ।

अथ साक्षादेवातीन्द्रियार्थान् पक्षीकृत्य प्रत्यक्षविषयत्वं साधयति " प्रत्यक्ष " मिति । तत्-परमाण्वादि । अतीन्द्रियार्थसाक्षात्कर्ता कश्चित् संभवतीत्यत्रैव तात्पर्यमेवंवधानुमानप्रतिपादकानां परमाचार्याणाम् । क्षित्यादिकर्तुरभिमत एकत्वे प्रयोगमाह " एकेच्छे " ति । इदमचेतनप्रपञ्चजातम्, अचैतन्यातम्, अचैतन्यात् अचेतनत्वात्, एकेच्छानुविधायि एकचेतनसङ्कल्पनुसारि । अत्रान्वय्युदाहरणं स्वदेहः ।। 16 ।।

एकेनाधिष्ठिताः कार्यं-कुर्वते स्रवचेतनाः ।

देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ।। 17 ।।

एकप्रधानपुरुषं विवादाध्यासितं जगत् ।

चेतनाचेतनात्मत्वादेकराजकदेशवत् ।। 18 ।।

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीभगवद्यामुनमुनि समनुगृहीतेसिद्धित्रये ईश्वरसिद्धिः ।।

अचेतनप्रपञ्चस्येश्वरेच्छानुविधायिप्रवृत्तित्वं प्रसाध्य चेतनप्रपञ्चस्यापि तत्साधयति

" एकेने " ति । त्वगादिवत्-त्वगादीन्द्रियवत् ।। 17 ।।

सर्वजगत्स्वामित्वसर्वेश्वरत्वरूपविशेषसाधकमनुमानमाह " एके " ति । एकः प्रधानपुरुषो यस्य तदेकप्रधानपुरुषम् । एकप्रधानपुरुषविशिष्टमित्यर्थः । पुरुषस्यैकस्य प्राधान्यं नियन्तृत्वस्वामित्वलक्षणम् । वैशिष्ट्यं नियाम्यत्वशेषत्वादिना ।। 18 ।।

(व्या0) निष्प्रयोजनत्वात्कर्तृत्वामीश्वरस्य न संभवतीत्यादेरपि परासो%त्र विभाव्यः । यथा-जीवरक्षार्थमेव ताववदीश्वरस्य जगद्व्यापारः । ननु तर्हि सुखोत्तरमेव जगत् सृजेत् । मैवम् । जीवीयकर्मापेक्षया तथा तथा सर्जनात् । ननु कर्मापेक्षित्वे%नैवश्वर्यं तस्य प्रसज्येत । न । अपराधानुगुणदण्डधरस्येव राज्ञः तत्तत्कर्मफलनिष्पादकस्येश्वरस्यापि ऐश्वर्यातिशयस्यैव प्रसिद्धेः । अदृष्टादीनामधिष्ठातृत्वादि हि तस्य महते वैभवाय । यथाकर्म फलप्रदत्वात् स्वामित्वमपि सर्वस्य तस्मिन् प्रतितिष्ठत्येव । सर्वप्रधानत्वादृष्टाधिष्ठातृत्वादिसाधनप्रमाणोपन्यासकानां चाचार्यचरणानामेतद्धार्दग्र मित्युन्नयाम इति दिक् ।।

ग्रन्थभागो%ग्रिमः क्वापि नेतः समुपलभ्यते ।

यावल्लब्धस्य विहिता व्याख्येयं सरला मया ।।

इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यान्वयभूषणविद्वद्वर्य श्रीकृष्णमाचार्या ख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रन्तकीर्ति-दयामूर्ति-श्रीमद्भाष्यकारदिव्यवंशावतर्णश्रीभूतपुरूनिवासरसिक-विद्वत्सार्वभौम-

हारीत- श्रीमदासूरिरामानुजाचार्य देशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ. अण्णङ्गाचार्येण न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमीश्वरसिद्धेर्व्याख्यानं सिद्धाञ्जनं विजयतांतराम् ।



श्रीः ।

श्रीहरिर्जयति ।

श्रीमते रामानुजाय नमः ।

परमाचार्यश्रीमद्यामुनमुनिसमनुगृहीते सिद्धित्रये -

संवित्सिद्धिः[सम्पाद्यताम्]

सिद्धाञ्जननामकव्याख्योपेता ।

एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः ।

ब्रह्मणो%न्यस्य सद्भावं ननु तत्प्रतिषेधति ।। 1 ।।

(व्याख्या) ईष्टे विश्वस्य नित्यं

व्यपगततुलनायोग्यवस्त्वन्तरो यो

विद्ये यस्याधिगत्यै

विदुरुपनिषदो द्वे परां चापरां च ।

यो विश्वस्वान्तवासी

प्रथयति च धियं तस्य तस्यानुरूपां

देवः श्रीमान् स मह्यं

प्रदिशतु दयया धीविकासं समन्तात् ।। 1 ।।

यामुनाशयविज्ञं तं ध्यात्वा लक्ष्मणयोगिनम् ।

यामुनार्यकृतिं संवित्सिदिं्ध व्याकरवाण्यहम् ।। 2 ।।

प्रमाणफलरूपायाः संविदः प्रमेयतत्त्वव्यवस्थापिकायाः स्वरूपादिविशोध्यते%त्र संविस्तिद्धौ । इयमादिमा सिद्धित्रये श्लोकवार्तिकच्छ्लोकमालिकारूपा । तन्त्रवार्तिकवच्चात्मेश्वरसिद्धी । अत्र चोपक्रममध्यावसानेषु भूयान् ग्रन्थभागो लुप्तः। उपलभ्यमानसंवित्सिद्धिभागे च बहुलमद्वैतिमतनिरासो दृश्यते ।

अद्वैतिनो हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय मिति कारणीभूतस्य सच्छब्दितस्य परब्रह्मणो%द्वितीयत्वश्रवणात् सत्यं ज्ञानमनन्तं ब्रह्मे ति ज्ञानमात्रत्वश्रवणाच्च सजातीयविजातीयस्वगतभेदसामान्यशून्यं ब्रह्मैव चिन्मात्रं सत् परमार्थः, अन्यत्सर्वं तत्रैवाविद्यया परिकल्पितं मिथ्याभूतमित्यामनन्ति । तत्राद्वितीयश्रुतेस्तदभिमतार्थप्रतिपादकत्वासम्भवं वर्णयितुमादौ तन्मतमनुवदति एकमेवे ति । यत्तदोर्नित्यसंबन्धात्पूर्वार्धे यदि

त्यनुषज्यते । यत् उपनिषद्वचः, तदित्यन्वयः । यद्वा उत्तरार्धे तच्छद्बः प्रसिद्धपरामर्शी न तु यच्छब्दनिर्दिष्टप्रतिनिर्देशरूपः । तद्ब्रह्मे त्यत्र सद्ब्रह्मे ति पाठः संभाव्यते । ब्रह्मवाचिसत्पदविशेषणमद्वितीयपदं ब्रह्मणो%न्यस्यासत्त्वपरमिति पूर्वपक्षिणामाशयः ।। 1 ।।

अत्रे ब्रूमो%द्वितीयोक्तौ समासः को विवक्षितः ।

किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ।। 2 ।।

तमिमं दूषयितुमद्वितीयपदे वृतिं्त विकल्पयति सिद्धान्ती अत्रे ति । अद्वितीयोक्तौ - अद्वितीयपदे । अथवा किं बहुव्रीहिरित्यन्वयः ।। 2 ।।

पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते ।

पदार्थस्तत्र तद्ब्रह्म ततो%न्यत्सदृशं तु वा ।। 3 ।।

तद्विरुद्धमथो वा स्यात्रिष्वप्यन्यन्न बाधते ।

अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ।। 4 ।।

अद्वितीयपदस्य तत्पुरुषवृत्तत्वे न द्वितीयस्य बाध इत्याह पूर्वस्मिन् इत्यादिना श्लोकचतुष्टयेन । तत्पुरुष इति प्रथमकल्पे तावदुत्तरपदार्थः प्राधान्येन विवक्ष्यते, उत्तरपदार्थप्रधानत्वात्तत्पुरुषस्येत्यर्थः । तत्रे ति। न द्वितीयमद्वितीयम् । नञ्तत्पुरुषे चारोपितत्वस्य पूर्वपदार्थत्वं तस्य चोत्तरपदार्थविशेषणत्वमिष्यते शाब्दिकैः । आरोपश्च सदृशादौ । तत्फलितकथनं तदन्याद्यर्थे नञ् इति । नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगति रिति च शाब्दिकानां परिभाषा । तथा

चाद्वितीयपदेनारोपितद्वितीयत्ववद्ब्रह्मेति बोधे तत्र द्वितीयान्यत्वस्य द्वितीयसदृशत्वस्य द्वितीयविरुद्धत्वस्य वा प्रतीतिः फलति । अर्थत्रये%पि ब्रह्मभिन्नस्य द्वितीयपदार्थस्य न बाधः । द्वितीयप्रतियोगिकस्य भेदस्य सादृश्यस्य वा प्रतिबोधने प्रतियोगितया द्वितीयसिद्धेर्निष्प्रत्यूहत्वादिति भावः ।। 3।।4 ।।

विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ।

ब्रह्म प्राप्नोति यस्मात्तत् द्वितीयेन विरुध्यते ।। 5 ।।

नन्वेवमपि द्वितीयविरुद्धत्वे ब्रह्मणो बोधिते कथं न द्वितीयस्य बाध इत्यत्राह विरुद्धत्व इति । अयमाशयः - द्वितीयत्वं अत्र द्वित्वसङ्ख्यापूरकत्वरूपम् । द्वितीयविरुद्धत्वं च द्वितीयत्वविरुद्धधर्मवत्त्वात् । स च धर्मः प्रथमत्वं नियमतः तृतीयत्वादि वा । नैतावता द्वितीयस्य कस्यचिद्बाध इति ।। 5 ।।

अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः ।

द्वितीयेन तथा स्पृष्ट्वा स्वस्थास्तिष्ठन्त्यबाधिताः ।। 6 ।।

तदाह अत इति । द्वितीयेन - द्वित्वसङ्ख्यापूरकेण, तथा स्पृष्ट्वा - विरोधसंबन्धेन सम्बध्य, स्वस्थाः - स्वस्वप्रमाणाधीनसिद्धिकाः सन्तः, अद्वितीयोक्त्या%बाधिताः प्रथमतृतीयाद्यर्थराशयो वर्तन्त एवेत्यर्थः । स्पृष्टा इति पाठः संभाव्यते ।। 6 ।।

ननु नञ् ब्रह्मणो%न्यस्य सर्वस्यैव निषेधकम् ।

द्वितीयग्रहणं यस्मात्सर्वस्यवोपलक्षणम् ।। 7 ।।

अत्र शङ्कते पूर्वपक्षी ननु न ञिति । अयमाशयः-द्वितीयपदं न मुख्यार्थकम् । किन्तु भेदप्रपञ्चमात्रलक्षकम् । नञ्पदं चात्यन्ताभावार्थकम् । द्वितीयस्याभावो%द्वितीयम् । अर्थाभावे%व्ययीभावः । तथा च भेदप्रपञ्चबाधः सिध्यत्यद्वितीयश्रुत्येति ।। 7 ।।

नैवं विषेधो न ह्यस्माद्विदीयस्यावगम्यते ।

ततो%न्यत्तद्विरुद्धं वा सदृशं वा%त्र वक्ति सः ।। 8 ।।

परिहरति नैव मिति । हिर्हेतौ । यतो%स्मादद्वितीयपदाद्ब्रह्मपदसमानाधिकरणात् द्वितीयतो भिन्नत्वादिरेव बोध्यते ब्रह्मणः । न तु प्रपञ्चनिषेधमात्रम् । अतो नात्राव्ययीभावो युक्त इति भावः । अविकल्पितो%प्ययं प्रसङ्गात्प्रतिक्षिप्यते%त्र । सः-अद्वितीयशब्दः ।। 8 ।।

द्वितीयं यस्य नैवास्ति तद्ब्रह्मेति विवक्षिते ।

सत्यादिलक्षणोक्तीनामपलक्षणता भवेत् ।। 9 ।।

अनुपपन्नश्च ब्रह्मभिन्नस्य सर्वस्य निषेधः । तथा सति ब्रह्मलक्षणवाक्यानामसङ्गतिप्रसङ्गादित्याह द्वितीय मिति । यत्संबन्धिनो%न्यस्य-यतो भिन्नस्य सर्वस्याभावः, तद्ब्रह्मेत्यर्थकथने लक्ष्यवृत्त्यसाधारणधर्मरूपस्य लक्षणस्याप्यसत्त्वात्सत्यज्ञानादिलक्षणवाक्यमपलक्षणंभवेदिति भावः ।। 9 ।।

अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे ।

स्वनिष्ठत्वान्नञर्थस्य न स्याद्ब्रह्मपदान्वयः ।। 10 ।।

अव्ययीभावस्य सत्पदेनानन्वयमप्याह अद्वितीय इति । अद्वितीये-अद्वितीयपदे । स्वनिष्ठत्वात्स्वप्रधानत्वात् । इतरपदार्थाविशेषणत्वादिति यावत् । ब्रह्मवाचिसत्पदे विशेषणतया%न्वयो न स्यात् । तत्समानाधिकरणं तद्विशेषणं हीदम् । तन्नेष्टापत्तिः कर्तुं शक्या । वाक्यभेदप्रसङ्गश्च तथासतीति भावः ।। 10 ।।

द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ।

विशेषणे वा तद्ब्रह्म तृतीयं प्रथमं तु वा ।। 11 ।।

ननु द्वितीयाभावो ब्रह्मस्वरूपमेव । तद्ब्रह्मपदसामानाधिकरण्यं घटत इति चेत्तत्राह द्वितीये ति । द्वितीयाभावो%भेदेन ब्रह्मणो न विशेषणं भवितुमर्हति । अभावस्य तुच्छत्वाद्ब्रह्मणः सत्यत्वात् सत्यतुच्छयोरैक्यायोगादिति पूर्वार्धस्यार्थः । ब्रह्मविशेषणत्वे%पि वदामः द्वितीयं प्रतीयोगि प्रथमम् । तदभावत्वं द्वितीयम् । तृतीयं च विशेष्यं ब्रह्म । यद्वा ब्रह्म प्रथमम् । द्वितीयं प्रतियोगि द्वितीयम् । तृतीयं तदभावत्वविशेषणमिति प्रथमत्वं तृतीयत्वं वा ब्रह्मणो%वर्जनीयमित्युत्तरार्धार्थः । एवमव्ययीभावपक्षे%प्यनुपपत्तिरुक्ता ।। 11 ।।

प्रसक्तं पूर्ववत्सर्वं बहुर्वीहौ समस्यति ।

ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्र्त्रये ।। 12 ।।

ब्रह्म प्रत्यद्वितीयत्वात्स्वस्थास्तिष्ठन्त्यबाधिताः ।

किञ्च तत्र बहुव्रीहौ समासे संश्रिते सति ।। 13 ।।

वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ।

सत्या(त्य)र्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ।। 14 ।।

अथ बहुव्रीहिपक्षे दूषणमाह प्रसक्त मिति । बहुव्रीहिवृत्ते%प्यद्वितीयपदेतत्पुरुष इव प्रथमतृतीयादिसर्वसद्भावो%निवार्यः प्रसक्त एवेत्यर्थः । तदेवोपपादयत्यर्धाभ्यां ब्रह्मण इति, ब्रह्मे ति च । नास्ति द्वितीयं यस्य तद्ब्रह्मेत्यत्र पक्षे विग्रहः । ब्रह्मनिष्ठद्वित्वसङ्ख्यापूरकं नास्तीत्यर्थः । तथा च ब्रह्मण एव द्वितीयत्वं लभ्येत । ततश्च ब्रह्मापेक्षया प्रथमस्य तृतीयादेश्च न बाधो%द्वितीयश्रुत्येत्यर्थः । आद्यसङ्ख्यापूरकत्वं प्रथमत्वम् , त्रित्वादिसङ्ख्यापूरकत्वं च तृतीयत्वादीति बोध्यम् । ब्रह्म प्रत्यद्वितीयत्वात्-ब्रह्मापेक्षया द्वितीयत्वाभावात् । तच्च ब्रह्मापेक्षया प्रथमत्वात्तृतीयादित्वाद्वा । स्वस्था इत्यादि पूर्वपद्व्याख्येयम् । ननु बहुव्रीहिघटकस्य द्वितीयपदस्य द्वित्वसङ्ख्यापूरकार्थत्वं, द्वित्वे च यच्छब्दार्थस्य ब्रह्मणो निष्ठत्वसंबन्धोनान्वयो नोपेयते; येन प्रथमतृतीयादिप्रसक्तिः । किन्तु द्वितीयपदं भिन्नपरम् । भेदे च ब्रह्मप्रतियोगिकत्वस्यान्वयः । यतो ब्रह्मणो भिन्नं नास्ति तद्ब्रह्माद्वितीयमिति द्वितीयबाधो%द्वितीयश्रुत्या लभ्यत एवेत्यत्राह किञ्चे ति । अन्यपदार्थप्रधानो हि बहुव्रीहिः । तथा च बहुव्रीहिवृत्तपदोपस्थाप्यद्वितीयाभावस्यान्यपदार्थब्रह्मविशेषणत्वं वक्तव्यम् । तन्न घटते । ब्रह्मभिन्नसर्वशून्यवादे द्वितीयाभावस्यापि शून्यतया ब्रह्मपदार्थविशेषणत्वायोगादित्यर्थः ।

वृत्त्यर्थस्य बहुव्रीह्यर्थस्य, नञर्थस्य द्वितीयाभावस्य । कुतो न पदार्थान्तरान्वयासम्भवः ? तत्राह सत्ये ति । यस्येति षष्ठी प्रकृत्यर्थान्विते%र्थान्तरसंबन्धे प्रामाणिके सति सङ्गच्छते । निर्विशेषे च ब्रह्मणि प्रकृत्यर्थे पदार्थान्तरसंबन्धस्यासत्यत्वात् षष्ठीबहुव्रीहिश्च प्रकृते न घटत इत्यर्थः ।। 12।।13।।14 ।।

द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् ।

असत्त्वान्न ह्यसद्ब्रह्म भवेन्नापि विशेषणम् ।। 15 ।।

राहोः शिर इत्यादावभेदे%पि षष्ठ्या दृष्टेर्यदभिन्नो द्वितीयाभावस्तदद्वितीयं ब्रह्मेति विवक्षां प्रतिक्षेपति, द्वितीये ति । असतः सत्पदार्थाभेदस्तद्विशेषणत्वमपि न युज्यते इति भावः ।। 15 ।।

तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ।

स्वप्रमाणबलात्सिद्धः श्रुत्या चाप्यनुमोदितः ।। 16 ।।

पराभिमताद्वितीयश्रुत्यर्थानुपपत्तिनिरूपणं निगमयति तस्मा दिति । निर्दोषप्रत्यक्षादिप्रमाणसिद्धः श्रुत्या%पि परमार्थत्वेनानुवर्णितो भेदप्रपञ्चसद्भावो नाद्वितीयश्रुतिबाध्यः, उपपादितप्रकारेणाद्वितीयश्रुतेः ब्रह्मभिन्ननास्तिताप्रतिपादनासामर्थ्यादित्यर्थः ।। 16 ।।

( इत्यद्वितीयश्रुतेः पराभिमतार्थे दूषणनिरूपणम् )

तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थो%यमुच्यते ।

द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ।। 17 ।।

समो वा%भ्यधिको वा%स्य यो द्वितीयस्तुगण्यते ।

यतो%स्य विभवव्यूहकलामात्रमिदं जगत् ।। 18 ।।

द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् ।

यथा चोलनृपः सम्राडद्वितीयो%द्य भूतले ।। 19 ।।

इति तत्तुल्यनृपतिनिवारणपरं वचः ।

न तु तद्भृत्यतत्पुत्रकलत्रादिनिषेधकम् ।। 20 ।।

तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः ।

क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः ।। 21 ।।

ज्ञानादिषाङ्गुण्यनिधेरचिन्त्यविभवस्य ताः ।

विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः ।। 22 ।।

कस्तर्ह्यद्वितीयश्रुत्यर्थः ? तत्राह तेने ति । पराभिमतार्थस्यानुपपत्त्या%न्यादृशो%र्थः सुसङ्गत उपन्यस्यते%स्माभिरित्यर्थः । उच्यत इति प्रतिज्ञानमुच्यमानार्थस्यापूर्ववदाश्चर्यावहत्वद्योतनार्थमवधेयत्वार्थं च । तमेवार्थमाह द्वितीये ति । प्रथमतो ब्रह्मणो गणने कृते तेन सह गणनार्हो द्वितीयः समो वा%धिको वा पदार्थः कालत्रये%पि नास्तीत्यर्थः । ननु विविधविचित्रानन्तचिदचित्प्रपञ्चे कथं कस्यचिदपि ब्रह्मसमस्याभावः ? तत्राह यत इति । अस्य परमात्मनो%नन्तमहाविभूतेर्विभूत्येकदेशांशमात्रत्वाच्चतुर्दशभुवनात्मकब्रह्माण्डकोटेरपि तदन्तर्गतस्योदुम्बरमशकवत्परिच्छिन्नस्वरूपस्वभावादेर्भवब्रह्मादेरपि न तेन साम्यगन्धप्रसङ्ग इति द्वितीयवागास्प दतां-द्वितीयपदवाच्यतां, ब्रह्मणा सह गणनायोग्यत्वम् , कथं तत्-जगत् प्रतिपद्येत-प्राप्नुयादित्यर्थः । सिद्धान्ते%द्वितीयपदस्य वृत्तिद्वयमपि संभवतीत्यभिप्रेतम् । तथा चानुगृहीतं शतदूषण्यां श्रीमद्वेदान्तदेशिकचरणैः अस्मत्पक्षे तु वृत्तिद्वयमपि सम्यक् । द्वितीयव्यतिरेकोक्त्या सतः स्यादग्रगण्यता । द्वितीयशून्यतोक्त्या च तत्समाननिषेधकम् ।। इति । एतद्व्याकुर्महे-अतिशयितवस्तुगणनाप्रस्तावे ब्रह्मण एव प्रथमपरिगणनं न्याय्यम् । तस्यैव मुख्यातिशयवत्त्वात् । मुख्यस्यैव प्रथमपरिगणनस्य लोके शास्त्रे च दृष्टेः । कविकुलगणनाप्रसङ्गे कालिदासस्यैव हि प्राथम्येन गणनं कविलोकप्रसिद्धम् । यथोच्यते पुराकवीनां गणनाप्रसङ्गे कनिष्ठिका%धिष्ठितकालिदासा इति । शास्त्रकृतो जैमिनेराचार्यस्यापि संमतं मुख्यस्य प्रथमपरिगणनम् । तथा हि सूत्रयामास मुख्यं वा पूर्वचोदनाल्लोकव दिति । एवं नञ्तत्पुरुषे ब्रह्मण एवाग्रगण्यता स्थिता । ततः सर्वाधितकत्वसिद्धिः । ततश्चाधिकनिषेधः फलति । समस्यैव द्वितीयगणनायोग्यत्वमित्याशयमूलकं च पुरा कवीना मितिश्लोकस्योत्तरार्धं परिपठ्यते अद्यापि तत्तुल्यकवेरभावादनामिका सा%र्थवती बभूव इति । तथा च बहुव्रीहिवृत्त्या समनिषेधः फलति ब्रह्मण इति । मुक्तानामपि भोगमात्रसाम्यमिति न ब्रह्मणा सह गणनं मुख्यपरिगणनप्रस्तावे युक्तम् । तन्मुख्यं वस्तु वस्तुतो ब्रह्मैकमेवेति अद्वितीयत्वं तस्य प्रतितिष्ठतीति च बोध्यम् । एवमद्वितीयश्रुतेः ब्रह्मणः समाभ्यधिकराहित्यप्रतिपादनपरत्वं व्यवस्थापितम् । न तत्समश्चाभ्यधिकश्च दृश्यते इति श्रुत्यन्तरानुसारात् न त्वत्समो%स्त्यभ्यधिकः कुतो%न्यो लोकत्रये%प्यप्रतिमप्रभाव इत्युपबृंहणानुसाराच्चैदमर्थ्यमेव तस्य न्याय्यमिति हार्दम् । अथाद्वितीयपदस्य समान्तरनिषेधपरत्वे लौकिकप्रयोगं च निदर्शयति यथे ति । चोलनृपस्यास्थानपण्डितं विजित्यवादाहवेराजासनं राज्यार्धं च तत्समर्पितमधिगतवन्त इमे परमाचार्याः पूर्वाश्रमे ।

तत्प्रसङ्गस्मारकश्चायं चोलनृपप्रस्तावो%त्र । यथा राज्ञो%द्वितीयत्ववर्णनं राजविभूत्यादेर्निषेधकं न, किन्तु तत्समनृपान्तरनिषेधकमेव, एवं ब्रह्मणो%द्वितीयत्वश्रुतिर्न तद्विभूतेर्निषेधिकेत्याह तथे ति । अत्र या इत्यपतितम् । याः सुरासुरनरब्रह्मगर्भब्रह्माण्डकोटयः, ता वेष्णवमहाविभूत्यर्णवविशीर्यमाण जलकणिकायमानाः तदद्वितीयत्वश्रुत्या न बाध्यन्त इति यावत् । औपनिषदं परं तत्त्वं परं ब्रह्म श्रीमन्नारायण एवेति च विष्णोरिति निर्देशेन ज्ञापितम् ।। 17।।18।।19।।20।।21।।22 ।।

कः खल्वङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्या ।

गणयन् गणयेदूर्मिफेनबुद्बुदविप्रुषः ।। 23 ।।

यथैक एव सविता न द्वितीयो नभःस्थले ।

इत्युक्ता न हि सावित्रा निषिध्यन्ते%त्र रश्मयः ।। 24 ।।

यथा प्रधानसङ्ख्येयसङ्ख्यायां नैव गण्यते ।

सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ।। 25 ।।

नन्वतुल्यत्वे%पि सहगणनेष्यतामित्यत्राह क इति । तत्स्वरूपान्तर्गतस्य तेन सह गणनायोग इत्यत्रेदं निदर्शनम् , सवितृनिदर्शनं च । गुणस्य गुणिना सह गणनायोग इत्यत्र यथा प्रधाने ति । पृथक्सती-सङ्ख्येयाद्भिन्नत्वेन स्थिता । यद्वा अपृथक्सतीतिच्छेदः । अपृथक्सिद्धविशेषणभूतेत्यर्थः । सङ्ख्येयान्यपदार्थवदिति तु वैधर्म्यदृष्टान्तः । सङ्ख्येयद्रव्यगणनायां सङ्ख्येयो%न्यः पदार्थो यथा गण्यते न तथा तद्गुणभूता सङ्ख्या तेन सह गण्यत इत्यर्थः । यद्वा सङ्ख्येयत्वेनाप्रस्तुतवस्त्वन्तरवदित्यर्थः । साधर्म्यदृष्टान्तत्वमिदानीं घटते ।। 23।।24।।25 ।।

तथा, पादो%स्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।

इति ब्रुवन् जगत्सर्वमित्थम्भावे न्यवेशयत् ।। 26 ।।

ननु सर्वं तदा शोभनम् ; यदि ब्रह्मविभूतित्वादौ प्रमाणं स्यादित्यत्राह तथे ति । पादो%स्ये ति । यथा ब्रह्मगुणत्वं सिध्येज्जगतः

तथैव ब्रह्मांशत्वं प्रतिपादयच्छØतिजातं सर्वं जगत ब्रह्मापृथक्सिद्धप्रकारत्वे व्यवार्थापयदित्यर्थः । गुणत्वं चात्यन्तपारतन्त्र्यरूपमित्थम्भावशब्दितमपृथक्सिद्धप्रकारत्वलक्षणमेव । इत्थम्भाव इत्यनेन न स्वरूपैकदेशत्वलक्षणमंशत्वम् । किन्तु विशिष्टब्रह्मस्वरूपान्तर्गतप्रकारतैकरूपत्वलक्षणमेव जगतो ब्रह्मांशत्वमिति व्यज्यते ।। 26 ।।

तथा, एतावानस्य महिमा ततो ज्यायस्तरो हि सः ।

यत्रान्यन्न विजानाति स भूमोदरमन्तरम् ।

कुरुते%स्य भयं व्यक्तमित्यादिश्रुतयः पराः ।। 27 ।।

मेरोरिवाणुर्यस्येदं ब्रह्माण्डमखिलं जगत् ।

इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ।। 28 ।।

ब्रह्मस्वरूपैकदेशत्वमेव जगतः कुतो नेत्यत्राह तथे ति । एतावा निति । महिमा इत्यनेन जगतो विभूतित्वं ब्रह्मणो%तिशयावहत्वाद्गुणत्वं च ज्ञायते । ततो ज्यायांश्च पूरुष इति ब्रह्मणो जगदपेक्षया%तिवैलक्षण्यं च । अतो न ब्रह्मस्वरूपैकदेशता मृदंशतेव तत्परिणामघटादेर्जगतो युक्ता । अतो%पृथक्सिद्धविशेषणतया विशिष्टैकवस्त्वेकदेशत्वरूपमेव ब्रह्मांशत्वं जगतो%भिमतमिति भावः । सर्वस्य ब्रह्मस्वरूपान्तर्गतत्वे श्रुतिमुदाहरति यत्रे ति । यत्र विशिष्टे ब्रह्मणि समनुभूयमाने%न्यत्स्वतन्त्रं वस्तु न पश्यति, सर्वस्य तदन्तर्भावात् , स भूमेत्यर्थः । सर्वप्रकारकः सर्वात्मा परं ब्रह्म परमपुरुषो नारायण एव भूमा, अन्यः सर्वो%प्यल्पक इति प्रोक्तं भवति । स्वनिष्ठप्रञ्चदर्शननिन्दया च ब्रह्मनिष्ठत्वमेव तस्य गम्यत इत्याशयेन श्रुत्यन्तरमुपादत्ते उदर मिति । यदा ह्येवैष एतस्मिन्नु दरमन्तरं कुरुते, अथ तस्य भयं भवती ति तैत्तिरीयोपनिषदि । एतस्मिन् प्रपञ्चे दरमल्पमपि अन्तरमन्तरालं ब्रह्मसंबन्धविच्छेदं यदा पश्यति तदैवास्यैवं जानतः संसारभयमुपस्थितमग्रे भवतीत्यर्थः । परप्रक्रियाच्छाययैवमत्रार्थो विवक्षितो भेदमिथ्यात्वं न सिध्यत्येतद्वाक्यत इति बोधनाय । परमात्मनि निष्ठाशब्दितस्य ध्रुवानुस्मरणस्य पूर्ववाक्यप्रस्तुतस्याल्पकालविच्छेदे%पि संसारभयप्रसङ्ग एवेति तु सिद्धान्तिसम्मतो%र्थः । विष्णुमहाविभूत्येकदेशत्वे जगतः स्मृतिवाक्यं मेरो रित्यादि । इत्यादय इत्यस्याग्रे स्मृतयश्चेति योज्यम् । तदित्थम्भावतापराः- ब्रह्मापृथक्सिद्धप्रकारत्वप्रतिपादनतत्पराः ।। 27।।28 ।।

वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् ।

विकारजातं, कूटस्थं मूलकारणमेव सत् ।। 29 ।।

ननु विरुक्तेषु वचनेषु ब्रह्मविभूतित्वादौ जगतः प्रतिपादिते%पि वचनान्तरेषु कारणमात्रस्य सत्यत्वम् अन्यस्य सर्वस्यासत्यत्वं च प्रतीयते इति तदनुरोधेनेषां व्यावहारिकविषयत्वमेव मन्तव्यमिति चेत्तत्राह वाचे ति । वचनान्तरेष्वपि मिथ्यात्वं नोच्यते भेदप्रपञ्चस्य, किन्तु ब्रह्मात्मकत्वेन सत्तैवेति भावः । श्रौतकतिपयपदघटितं श्रौतार्थानुवादरूपं

वाचारम्भणमात्र मित्यादि । तत्तत्पदस्मारितानि श्रुतिवाक्यानि विवक्षितानि । वाचा%%सम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य मिति च्छान्दोग्ये षष्ठप्रपाठके । वाचा इति तृतीया प्रयोजनस्य हेतुत्वविवक्षया । आरम्भणम्-आलम्भवम्-स्पृष्टम् । आलम्भः स्पर्शहिंसयोः । गृहीतमिति यावत् । आरम्भते इत्यारम्भणं-सृष्टमिति वा । नपुंसकैकशेषैकवद्भावौ । किन्तत् ? विकारो नामधेयं च । केन स्पृष्टमित्याकाङ्क्षायां त्वेथ यथा सोम्यैकेन मृत्पिण्डेने ति पूर्वप्रकृतो मृत्पिण्डो योग्यत्वात्कर्तृतया%न्वेति । घटत्वाद्यवस्थारूपो विकारः तत्तदवस्थायोगप्रयुक्तं घटादिनाम च मृत्पिण्डेनैव गृहीतं वाक्पूर्वकव्यवहारायेति फलितम् । एवं कारणद्रव्यस्यैव नानावस्थाभाक्त्वेन नानाकार्यात्मकत्वात्कार्याणां कारणानन्यत्वमित्याह मृत्तिकेत्येव सत्य मिति । अत्र सर्वं मृण्मयं विशेष्यम् । इतिशब्दः प्रकारवाची । सर्वं मृण्मयं मृत्तिकात्वप्रकारेणैव प्रामाणिकम् । न तु मृदनात्मकत्वेनेत्यर्थः । अनेन काणादाभिमत उपादानोपादेययोरत्यन्तभेदो निरस्तः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनार्थं प्रवृत्तत्वादस्य वाक्यस्योपादानोपादेययोरनन्यत्व एव तात्पर्यमुक्तदिशा । न तु कार्यमात्रस्य मिथ्यात्वे। तथा सति सर्वस्य ज्ञातव्यस्याभावादेव सर्वं ज्ञातं स्यादित्यसङ्गतमापद्येत । समस्तपदत्वे पराभिमते वागारम्भणमिति भवेत् । वाचारम्भणशब्दस्य मिथ्यार्थकत्वं चाप्रसिद्धमेव पराभिमतमिति बोध्यम् । तत्सत्य मित्यस्यार्थतो%नुवादः कूटस्थ मित्यादिः । उपादानत्वे%पि ब्रह्मणो निर्विकारत्वं कूटस्थशब्देन विवक्षितम् । सत्सत्यम्-सततैकरूपम् । ननु निर्विकारत्वे कथमुपादानत्वम् ? सर्वचिदचिच्छरीरकत्वात् सूक्ष्मचिदचिद्विशिष्टत्वेनोपादानत्वं ब्रह्मण उपपन्नमेव । सो%यं शरीरात्मभावो जगद्ब्रह्मणोः सदायतनाः ऐतदात्म्यमिदं सर्व मिति निर्दिष्टः । नचैवं स्वरूपपरिणामाभावे मृण्मयदृष्टान्तासङ्गतिः, कार्यकारणयोरनन्यत्वमात्रे दृष्टान्तसङ्गतेः । ननु

चेतनाचेतनप्रपञ्चस्य ब्रह्मानन्यत्वं वा कथम् ? ब्रह्मात्मकत्वेन ब्रह्मरूपत्वेनानन्यत्वोपपत्तेः । तदिदमेव प्रामाणिकमिति चोच्यते ऐतदात्म्यमिदं सर्वं तत्सत्य मित्येकवाक्यतया%न्वयात् । दृष्टान्तवाक्यानुगुणश्चायमेवार्थं इति ध्येयम् । परव्याख्याच्छायया तु तद्ब्रह्म सत्यं सदैकरूपमित्यर्थो वर्णितः । श्लोके वाचारम्भणमात्र मित्यस्य वाक्पूर्वव्यवहारायैव निष्पन्नं कार्त्स्न्येनेत्यर्थः ।। 29 ।।

अनन्यत्कारणात्कार्यं पावकाद्विस्फुलिङ्गवत् ।

मृत्तिकालोहबीजादिनानादृष्टान्तविस्तरैः ।। 30 ।।

समानप्रकरणेषूपादानोपादेययोरैक्यस्यैव प्रतिपादनाच्च न कार्यस्य मिथ्यात्वं वाचारम्भणश्रुतेरर्थः

। किन्तु कारणात्मकतैवेति प्रतिबोधयन्नाह अनन्य दिति । पापकाद्व्युच्च रितानां विस्फुलिङ्गानामग्न्यंशत्वेनाग्न्यनन्यत्ववद्ब्रह्मण उद्भूतस्य प्रपञ्चस्यापि ब्रह्मांशभूतस्य ब्रह्मानन्यत्वमेव विवक्षितम् । इदं चानन्यत्वं मृदादिदृष्टान्तैश्च श्रुतिषु निरूपितमिति यावत् ।। 30 ।।

नाशकद्दग्धुमनलस्तृणं मज्जयितुं जलम् ।

न वायुश्चलितुं शक्तः तच्छक्त्याप्यायनादृते ।। 31 ।।

कार्याणां कारणात्मकत्वे उपत्तिरुक्ता । अर्थवादरूपमपि तात्पर्यलिङ्गमस्तीत्याह नाशक दिति । केनोपनिषदि प्रसिद्धो%यमर्थः ।। 31 ।।

एकप्रधानविज्ञानाद्विज्ञातमखिलं भवेत् ।

इत्यादिवेदवचनतन्मूलाप्तागमैरपि ।। 32 ।।

ब्रह्मात्मना%%त्मलाभो%यं प्रपञ्चश्चिदचिन्मयः ।

इति प्रमीयते ब्राह्मी विभूतिर्न निषिध्यते ।। 33 ।।

ननु उत तमादेशमप्राक्ष्योयेनाश्रतं श्रुतं भवती ति प्रतिज्ञातमेकविज्ञानेन सर्वविज्ञानं ब्रह्मण एकस्यैव पारमार्थ्ये घटते । नतु तद्भिन्नानां बहूनां पारमार्थ्ये । तत्प्रपञ्चस्यापारमार्थ्यमकामेनापि स्वीकर्तव्यमिति चेत्तत्राह एके ति । ब्रह्मणो निखिलजगदन्तरात्मत्वेन निखिलजगत्प्रधानतया निखिलस्य च तच्छरीरत्वेन तत्प्रकारतैकस्वरूपतया तस्मिन् ज्ञाते तदनन्तर्गतं किमपि ज्ञातव्यं मुख्यं नावशिष्यत इति एकविज्ञानेन सर्वविज्ञावाक्यस्यार्थ इति भावः । इत्यादी ति । निरुक्तार्थपरैः श्रुतिवचनैस्तन्मूलोपबृंहणस्मृतिवचनैश्च ब्रह्मात्मकत्वेन लब्धस्वरूपः प्रपञ्च इत्येव बोध्यते । न तु ब्रह्मणो विभूतिभूतः स निषिध्यत इत्यर्थः । ब्रह्मात्मना%%त्मलाभ इति । आत्मनो लाभो यस्येति बहुव्रीहिः। ब्रह्माभिन्नान्तरात्मना प्रयोज्यस्वरूपलाभवानित्यर्थः । ब्रह्मतात्मलाभो%य मिति समस्तपाठः संभाव्य । तत्र च आत्मनो लाभः आत्मलाभः-स्वरूपसत्ता ब्रह्मत्मतया-ब्रह्मत्मकत्वेन आत्मलाभो यस्येति बहुव्रीहिः । ब्रह्माविभूतिभूतस्य प्रपञ्चस्य न निषेधः कृतः शास्त्रेष्विति निरूपितमेतावता ।। 32।।33 ।।

तन्निषेधे समस्तस्य मिथ्यात्वाल्लोकवेदयोः ।

व्यवहारास्तु लुप्येरन् तथा स्याद्ब्रह्मधीरपि ।। 34 ।।

अथ प्रपञ्चनिषेधस्यानुपपन्नत्वादपि निषेधपरतयेवापाततः प्रतिपन्नातां श्रुतिवाक्यानामप्यान्यपर्यमेवैष्टव्यमित्याशयवानाह तन्निषेध इति । प्रपञ्चनिषेधे विवक्षिते शास्त्रवचनतः तत्तदर्थविशेषप्रतिपादनोपादानाद्यर्थाः सर्वे व्यवहारा लौकिका वैदिकाश्च लुप्येरन्-अप्रामाणिका विसंवादिनश्च

भवेयुः, सर्वस्य मिथ्यात्वादित्यर्थः । ननु भेदव्यवहाराणामप्रामाणिकत्वमिष्टमेवेति चेत्तत्राह तथे ति । ब्रह्मभिन्नसर्वमिथ्यात्वे ब्रह्मविषयकधिय औपनिषद्या अपिविलोपो%सत्यता प्रसज्यत इत्यर्थः । असत्यकारणजन्यत्वादसत्यत्वमसत्यविषयत्वं च भवेत्तस्या इति भावः ।। 34 ।।

व्यावहारिकसत्यत्वान्मृषात्वे%प्यविरुद्धता ।

प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ।। 35 ।।

ननु परमार्थदृष्ट्या ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वे%पि ततः प्राक् अविद्यातः प्रमाणप्रमेयव्यवहारादि निरूह्यत इति चेत्तत्राह व्यावहारिके ति । एतद्दूषणभागो विलुप्तः । व्यावहारिकसत्तया प्रमाणप्रमेयव्यवहारोपपादने व्यावहारिकप्रमाणभावेन श्रुत्यादिना जनिता परब्रह्मबुद्धिरपि भवतभिमता व्यावहारिकार्थमात्रगोचरा भवेत् ; निर्विशेषब्रह्ममात्रपारमार्थ्यस्यापि

व्यवहारैकशरणत्वात् । तथा च ब्रह्ममात्रपारमार्थ्यमपि परमार्थसाधकाभावान्न सिध्येत् । एतद्विषये पूर्वाचार्यैः सूरिभिरेव पराक्रान्तं नितरामिति विसम्यते%त्रेति बोध्यम् ।। 35 ।।

अतश्चोपनिषज्जातब्रह्माद्वैतधितधिया जगत् ।

न बाध्यते विभूतित्वाद्ब्रह्मणश्चेत्यवस्थितम् ।। 36 ।।

( इति प्रपञ्चस्य ब्रह्मविभूतित्वस्थापनपूर्वकमद्वितीयश्रुत्यर्थवर्णनम् )

अद्वितीयश्रुतेः प्रपञ्चाबाधकत्वनिरूपणं निगमयति अतश्चे ति । ब्रह्मणो विभूतित्वाच्च जगद्ब्रह्माद्वैतधिया न बाध्यते । सविभूतिकस्यैव तस्याद्वितीयत्वधिय उपनिषत्सिद्धत्वात् । चकारो%बाधितप्रतीतिसिद्धत्वादिहेत्वन्तरसमुच्चायकः । यद्वा चस्त्वर्थे । समो%धिको वा बाध्यते । न तु जगद्विभूतिभूतमित्यर्थः ।। 36 ।।

ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ।

असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् ।। 37 ।।

प्रपञ्चस्याद्वितीयश्रुत्या बाध इति परपक्षो निरस्तः । अथ तस्य सदसदनिर्वचनीयत्वमपि पराभिमतं निरसितुं विचारमुपक्रमते
ननु सत्त्वे इति । सत्त्वे प्रपञ्चस्य नास्तीति बाधविषयत्वं कथं घटतेत्याक्षेपो माध्यमिकादीनाम् । अत्र प्रतीपक्षः साङ्ख्यादीनाम् असत्त्वेवे ति । असत्त्वे सद्बुद्धिबोध्यत्वं प्रतिपन्नं तस्य कथं घटेतेति ।। 37 ।।

सदसत्त्वं तथैकस्य विरुद्धत्वादसम्भवि ।

सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसङ्गमे ।। 38 ।।

तयोरन्यतरार्थस्य निश्चयाभावहेतुतः ।

सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिपेदिरे ।। 39 ।।

ननु अस्तिनास्तिबुद्धिबलात्सदसत्त्वं वाच्यमिति जैनाः । तत्राह सदसत्त्व मिति । विरुद्धद्वयमसम्भवदेकस्मिन्नोपगमार्हमिति यावत् । विचारप्रसक्तिमाह सदस दिति । विरुद्धाकारद्वयप्रसङ्गे परस्परविरोधादुभयस्यान्यतरस्याकारस्य वा%निर्णयाद्धेतोर्विचारः प्राप्तावसर इति यावत् । अत्र विचारः प्रक्रम्यत इति शेषपूरणेन वाक्यार्थो वक्तव्यः । तत्रादावनैकान्त्यवादिनां जैनानां मतमाह सदसत्व मिति । प्रतीयमानत्वादेवैकस्मिन् सदसत्त्वयोर्न विरोध इत्यभिमानः । यद्वा जैनमतानुवादः सदसत्प्रत्ययप्राप्ते त्यारभ्य जैनास्तु प्रतिजानत इत्यन्तेन । सदसत्त्वयोः प्रतीययोर्मध्ये एकस्यैव निर्णये हेत्वभावाद्यथाप्रतीति प्रपञ्चस्योभयमेवैष्टव्यमिति जना आस्थिता इत्यर्थः । निश्चयाभावहेतुत इत्यनेन निश्चयहेत्वभावो विवक्षितः । पाठान्तरं वा संभाव्यते ।। 38।।39 ।।

सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् ।

सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास्तु प्रतिपेदिरे ।। 40 ।।

एतद्विरोधिसत्त्वेकान्तवादिकापिलमतमाह सत्त्वप्राप्ति मिति । प्रसक्तिपूर्वकत्वान्निषेधस्योपजीव्यत्वात्सत्त्वप्रतीतिः प्रबला । तत्सदा सत्त्वमेव प्रपञ्चस्य । नास्तीति त्वभिव्यक्त्यभावपरा प्रतीतिरित्येतेषामाशयः ।। 40 ।।

सदसत्प्रत्यय प्राप्तविरुद्धद्वन्द्वसङ्कटे ।

विरोधपरिहारार्थं सत्त्वासतत्वांशभङ्गतः ।

सदसद्भ्यामनिर्वाच्यं प्रपञ्चं केचिदूचिरे ।। 41 ।।

मतद्वयप्रत्यनीकं मायावादिनां मतमाह सदस दिति । प्रतीतिबलात्सत्त्वासत्त्वरूपविरुद्धधर्मद्वयापत्तिरूपसङ्कटे प्रसक्ते विरुद्धयोरैकाधिकरण्यानुपपत्तिबलात्सत्त्वमसत्त्वं च विरुद्धं धर्मद्वयं परित्यज्य न सत् नाप्यसदिति सदसदनिर्वचनियं प्रपञ्च निर्वचन्ति शाङ्करा इत्यर्थः ।। 41 ।।

सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ।

घटादेरिति मन्वाना व्यवस्थामपरे जगुः ।। 42 ।।

नैयायिकादीनां पक्षमाह सदसत्त्वे इति । विभागेनेति तृतीयेत्थम्भावे । विभक्तदेशकालादिविशेषतः सत्त्वमसत्त्वं च प्रतीतं व्यवस्थितं घटादेर्घटत एवेति भावो%मीषाम् ।। 42 ।।

तदेवं वादिसम्मर्दात् संशये समुपस्थिते ।

निर्णयः क्रियते तत्र मीमांसकमतेन तु ।। 43 ।।

तदेव मिति । वादिसंमर्दात्-वादिविवादात् । विप्रतिपत्तेरिति यावत् । विप्रतिपत्तेः सन्देहोदयात् सन्दिग्धार्थनिर्णयाय विचार उपचिक्रमिषितः । तत्र पक्षान्तराणां सदोषत्वप्रतिपादनपूर्वकं सोपाधिकसत्त्वासत्त्वपक्षो मीमांसकाभिमतो निर्णीयते सद्युक्त्येति भावः । क्रियत इति वर्तमानव्यपदेशस्तत्सामीप्यात् । प्रतिज्ञाचेयं श्रोतृबुद्धिसमाध्यर्था ।। 43 ।।

घटस्वरूपे नास्तित्वमस्तित्वं यद्यबूबुधत् ।

स्यादेव युगपत्सत्त्वमसत्त्वं च घटादिषु ।। 44 ।।

इदानीमिदमत्रास्ति नास्तीत्येवंविधा यतः ।

देशकालदशाभेदादस्तिनास्तीति नो धियः ।। 45 ।।

अतो देशादिभेदेन सदसत्त्वं घटादिषु ।

व्यवस्थितं निरस्तत्वा(स्या)द्वादस्येह न सम्भवः ।। 46 ।।

तत्र निरुपाधिकसत्त्वासत्त्वसमुच्चयपक्षनिरसनेन सिद्धान्तः समनुवर्ण्यते घटस्वरूप इत्यादिना श्लोकत्रयेण । अयमर्थः - घटस्वरूपे नास्तित्वं प्रतीयमानमेव, नास्तीतिप्रतीतिरेवेति यावत् , यद्यस्तित्वमपि तस्य प्रत्यपादयिष्यत् , यद्वा प्रतीतिः सत्त्वमसत्त्वं च निरूपाधि यदि प्रत्यपादयिष्यत् , तर्हि सदसत्त्वसमुच्चयो%भ्युपागंस्यत । नचैवम् । किन्तु किञ्चिद्देशकालावस्थादिविशेषेण सत्त्वम् , अन्यदेशाद्यौपाधिकमसत्त्वमेव च प्रतिपादयन्ति प्रतीतयः । अतो देशादिभेदतः सदसत्त्वे व्यवस्थिते घटादौ । तत् वादस्यान्यवादस्य बाधादिदोषदूषितत्वान्न सम्भव इत्यर्थः । निरस्तस्याद्वादस्ये ति पाठः सम्भाव्यते । तदा%यमर्थः - निरस्तस्य व्याघातबाधितस्य स्याद्वादस्य स्यादस्ति, स्यान्नास्तीति जैनानामनैकान्त्यवादस्य न सम्भव इति । अत्र च नैयायिकादिमतं, ततः सिद्धान्ते विशेषश्च शतदूषण्यां व्यव्रियत षष्टितमे वादे श्रीमन्निगमान्ताचार्यचरणैः । यथा उपाधिभेदादुभयव्यवस्थेति पक्षमदूरविप्रकर्षात्परिगृह्णीमहे । उपाधिभेदस्तु स्वात्मना सत्त्वम् , अन्यात्मना%सत्त्वम् । स्वकाले सत्त्वम् , अन्यकाले पुनरसत्त्वम् । तथा स्वदेशे सत्त्वम् , अन्यदेशे पुनरसत्त्वमिति । इह तादात्म्यं संसर्गो वा सत्त्वमिति व्यपदिश्यते । तद्विरुद्धवेषेण वस्तुन्येवासद्व्यपदेशः । षष्ठे तु पक्षे विरुद्धधर्मयोग एव वस्तुन्यसद्व्यवहारहेतुतया व्यपदिश्यते । घटो हि घटात्मना सन् पटात्मना पुनरसन्निति निर्दिश्यते । सन्नेव स्वदेशकालयोः स्वविरोधिदेशकालयोरसन्निति । उपलम्भानुकूलत्वाल्लाघवाच्चेदमेवाद्रियन्ते वृद्धाः इति । अत्रायं विवेकः - सत्ता तादात्म्यतदितरसंबन्धान्यतरलक्षणा । अयं घटो%स्तीत्यत्र घटतादात्म्यलक्षणा सत्ता प्रतीयते । अत्रेदानीं घटो%स्तीत्यत्र चैतद्देशकालसंयोगलक्षणा । तथा अयं

पटो नास्तीत्यत्र पटतादात्म्याभावलक्षणा पटात्मना%सत्ता प्रतीयते । तत्र तदा घटो नास्तीत्यत्र च तद्देशकालसंयोगाभावलक्षणा%सत्ता प्रतीयते । एवं भावाभावरूपयोः सदसत्त्वयोर्देशादिभेदेनोपपत्तिर्घटादाविति एकः पक्षः । अभावो%पि भावान्तररूप एवेति पक्षान्तरण्। यथा घटत्वमेव हि अयं घटो%स्तीत्यत्र प्रतीतं घटस्य सत्त्वम् । तदेवायं पटो नास्तीत्यत्रापि प्रतीयते पटाद्भेदरूपम् । एवं स्वदेशकालसंबन्धलक्षणा सत्तैवान्यदेशकालनास्तिताप्रतीतावपि विषयो भवति देशान्तरादिसंबन्धाभावत्वेनेति । तथा च धर्मविशेष एव भावानामस्तिनास्तिप्रतीतिगोचर इति सिद्धम् । इदमेव सिद्धान्तिनामपि संमतमिति ।। 44।।45।।46 ।।

ननु देशादिसम्बन्धः सत एवोपपद्यते ।

न देशकालसम्बन्धादसतः सत्त्वमिष्यते ।। 47 ।।

सम्बधो द्व्याश्रयस्तस्मात्सतः सत्त्वं सदा भवेत् ।

असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ।। 48 ।।

आद्यन्तवान् प्रपञ्चो%तः सत्कक्ष्यान्तर्निवेश्यते ।

उक्तं च - आदावन्ते च यन्नास्ति नास्ति मध्ये%पि तत्तथा इति ।

अतो निश्चितसद्भावः सदा सन्नभ्युयेयताम् ।। 49 ।।

अविरोधेन सदसत्त्वसमर्थनसमहमानः सत्त्वैकान्त्यवादी कापिलो%त्र प्रत्यवतिष्ठते ननु देशादी ति । पूर्वमसतो घटादेः स्वदेशकालसंबन्धेन सत्तोत्पत्त्या दुरुपपादा । संबन्धस्य संयोगस्य संबन्धिद्वयजन्यस्यासति संबन्धिन्यतरस्मिन्नपि समुत्पत्तेरयोगात् । तथा च स्वदेशकालसंबन्धात्सत्त्वम् । सत्त्वे च स्वदेशकालसंबन्ध इत्यन्योन्यसंश्रयः । अतः सत्त्वमेव सदा मन्तव्यं भावानामिति सतः सत्त्वं सदा भवे दित्यन्तस्यार्थः । ननु सदा सत्त्वे कारकचक्रव्यापारानर्थक्यं प्रसज्येत ।

तत्पूर्वमसत एव कारकव्यापारेणोत्पत्तिर्वाच्येत्यत्राह असत इति । असतः प्रयत्नशतेनापि निष्पत्त्या सत्त्वं दुरुपपादं सिकताभ्यस्तैलस्येव । किञ्चासत उत्पत्तौ दण्डचक्रादितो%सत्त्वाविशेषाद्घटस्येव पटस्याप्युत्पादप्रसङ्गः । केनचिदेद्व्यापारेण शशे%पि शृङ्गस्य कदाचिदुदयप्रसङ्गश्च । एतदनुसन्धानेनोक्तमिति । ननूपादानविशेषे कार्यविशेषोत्पादनसामर्थ्यप्रतिनियमान्नातिप्रसङ्ग इति चेन्मैवम् , कार्यगर्भत्वमन्तरा सामर्थ्यनियमस्यापि दुर्निरूपत्वात् । तत्सदेव कार्यं कारकव्यापारेणाभिव्यज्यत इत्येष्टव्यमित्याह आद्यन्तवा निति । आविर्भावतिरोभावलक्षणावेव चाद्यन्तौ उत्पादविनाशाविति भावः । अत्र संवादः आदा विति । अत इति। सत्त्वेन निञ्चितः सदा सन्नेवेतीष्यतामित्यर्थः ।। 47।।48।।49 ।।

असतः सर्वदा%सत्त्वं जन्ययोगात् खपुष्पवत् ।

असत्त्वे न विशेषो%स्ति प्रागत्यन्तासतोरिह ।। 50 ।।

( इति प्रपञ्चस्य सत्त्वपक्षसमर्थनम् )

असत इति । जन्ययोगात् - उत्पत्त्ययोगात् । प्रागत्यन्तासतोः - पूर्वमसतोत्यन्तास तश्च। इति कापिलमतमुपपादितम् ।

अत्रोपपादितस्य कापिलमतस्य प्रतिक्षेपपरः, मतान्तरोपपादनप्रतिक्षेपपरश्च ग्रन्थभागो विलुप्त इत्यूह्यते । बुद्धिसौकर्याय साङ्ख्यपक्षप्रतिक्षेपप्रकारो दिड्मात्रं प्रदर्श्यते%त्र । द्वव्यं तावत् नित्यमेव । अवस्थाभेदास्तु घटत्वकपालत्वादय आगन्तुकाः । अवस्थाविशेषसम्पत्त्यर्थ एव च कारकव्यापारः । द्रव्यस्य सत्त्वादेव कारकव्यापारगोचरत्वमवस्थान्तरभाक्त्वं च घटते । अन्वयव्यतिरेकाभ्यां च कारकचक्रस्य तस्य तस्य तत्र तत्र कार्ये सामर्थ्यनियमः सिध्यतीति नातिप्रसङ्गः । तत्तदवस्थाविशिष्टवेषेण जातत्वनष्टत्वादिप्रतीतिश्चोपपद्यते । कारकचक्रस्याभिव्यञ्जकत्वमिति पक्षे तु कारकज्ञापकविभागायोगः । अभिव्यक्तेर्ज्ञानाद्भेदे प्रकारान्तरेणोत्पत्तिरेवापतिता । किञ्च अभिव्यक्तेर्नित्यत्वे कारकव्यापारवैयर्थ्यमेव । तस्या अपि अभिव्यक्त्यन्तरस्वीकारे%नवस्था । तस्या उत्पाद्यत्वे त्वसत्कार्यवादप्रसङ्गः । तदभिव्यक्तेरुत्पत्त्युपगमतो यथोपलम्भं तस्योत्पत्तिरुपगन्तुमुचिता । सदेव द्रव्यमवस्थान्तरभाक्सत्कार्यं भवतीत्येव सत्कार्यवादः संरक्षणीयः । अयमेव च त्रय्यन्तसिद्धो%पीति । आविद्यो भेदप्रपञ्चो मिथ्या । अद्वितीयश्रुत्या च मिथ्यात्वं गम्यते । तच्च प्रतीतिबाधाभ्यां सदसद्विलक्षणत्वसिद्धेः सुप्रतिष्ठितमिति हि मायावादिनां मतम् । तच्च पूर्वोत्तरप्रघट्टकैः प्रतिक्षिप्तप्रायमेवेतिबोध्यम् ।। 50 ।।

श्वेतकेतुमुपादाय तत्त्वमित्यपि यच्छØतम् ।

षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ।। 51 ।।

अथ निर्विशेषचिन्मात्रब्रह्मात्मैक्यज्ञानमेवाविद्यानिवर्तकम् । निर्विशेषचिन्मात्रब्रह्मात्मैक्यं च तत्त्वमसि वाक्यप्रतिपन्नमिति वादमद्वैतिनां प्रतिक्षेप्तुं तत्त्वमसिवाक्यार्थविचारमुपक्रमते श्वेतकेतु मिति । उपादायसम्बोध्य । छान्दोग्य इत्यादिः । जीवब्रह्मैक्ये तत्त्वमसिवाक्यमेव मुख्यं प्रमाणमभिमन्यते तैः । अस्यापि समानाधिकरणवाक्यस्य मुख्यार्थत्वं तन्मते न संभवतीत्यह तस्ये
त्यादिना ।। 51 ।।

कार्पण्यशोकदुःखार्तश्चेतनस्त्वंपदोदितः ।

सर्वज्ञस्सत्यसङ्कल्पो निस्सीमसुखसागरः ।

तत्पदार्थस्तयोरैक्यं तेजस्तिमिरवत्कथम् ।। 52 ।।

कार्पण्ये ति । कार्पण्यं-दैन्यम् , गतिशून्यता । शोकः गतदुःखानुसन्धानजा चित्तवैयाकुली । दुःखं वर्तमानानिष्टानुभवलक्षणम् । समानविभक्त्या प्रतिपन्नमैक्यं जीवेश्वरयोर्विरुद्धस्वभावयोर्न घटत इति मुख्यार्थासंभव एवेत्याशयः ।। 52 ।।

त्वमर्थस्थे तटस्थे वा ..... ( तदेर्थस्थे विभेदके ) ।

गुणे तत्त्वंपदश्रुत्योरैकार्थ्यं दूरवारितम् ।। 53 ।।

त्वमर्थस्थे इति । त्वमर्थनिष्ठो गुणो%ज्ञत्वदुःखित्वादिः । तदर्थनिष्ठश्च सर्वज्ञत्वजगत्कारणत्वादिः । स च ब्रह्मणस्तटस्थलक्षणत्वेन पराभिमतः । अनयोर्धर्मयोराश्रयभेदकत्वात्तत्त्वमर्थयोरैक्यं सुदूरनिरस्तमश्वगर्दभयोरिवेत्यर्थः ।। 53 ।।

अज्ञत्वसर्ववेदित्वदुःखित्वसुखितादिके ।

विशेषणे वा चिद्धातोरथवा%प्युपलक्षणे ।

विरुद्धगुणसङ्कान्तेर्भेदः स्यात् त्वंतदर्थयोः ।। 54 ।।

नन्वज्ञत्वादि सर्वज्ञत्वादि चोपलक्षणतयैवोच्यते, न तु विशेषणतया । उभयोपलक्षितं वस्त्वेकमेवेत्यर्थः । अतो न विरोध इत्यत्राह अज्ञत्वे ति । चिद्धातोः - चित्तत्त्वास्य । उपलक्षणत्वे%पि अज्ञत्वादिनोपलक्ष्यस्य जीवभावस्य सर्वज्ञत्वादिनोपलक्ष्यस्येश्वरभावस्य च वैयधिकरण्यादेव त्वंतदर्थयोरैक्यं न सिध्यतीत्यर्थः ।। 54 ।।

वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता ।

सो%यं गौरिवत्तत्त्वंपदयोरित्यपेशलम् ।। 55 ।।

ननु विरोधान्मुख्यार्थस्त्यज्यते । चिन्मात्रे तु पदद्वयलक्षणोपेयते, यथा सो%यं रौरित्यत्र तत्तेदन्तोपलक्षिते वस्तुमात्रे लक्षणा पदद्वयस्य तथेति शङ्कते वाच्ये ति । वाच्यैकदेशस्य प्रवृत्तिनिमित्तभेदस्य त्यागेन विशेष्यमात्रे चिन्मात्रे पदद्वयस्य वृत्तिः जहदजहल्लक्षणयेति । एतत्प्रतिक्षिपति इत्यप्यपेशल मिति । अपेशलम् - असुन्दरम् । एकपदलक्षणयैव विरोधपरिहारे पदद्वयलक्षणाकल्पना न मनोरमेत्यर्थः ।। 55 ।।

देशकालदशाभेदादेकस्मिन्नपि धर्मिणि ।

विरुद्धद्वन्द्वसङ्कान्तेः सो%यं गौरिति युज्यते ।। 56 ।।

दृष्टान्ते पदद्वयस्यापि न लक्षणेत्याह देशकाले ति । तत्ता नाम तद्देशकालयोगिता । इदन्तैतद्देशकालयोगिता । तत्ताविशिष्टे इदन्तान्वयस्य बाधे%पि एकस्मिन् धर्मिण्युभयान्वये न विरोधः

। देशद्वयसंबन्धः परिच्छिन्नस्य वस्तुनः कालभेदात्परिह्रियते । कालद्वयसम्बन्धस्तु स्थिरत्वादेव निरूह्यते । प्रातिपदिकाभ्यां देशद्वयकालद्वयसंबन्धस्य समानविभक्त्या तदाश्रयद्रव्यैक्यस्य च प्रतिपादने न विरोधलेशो%पि । अस्मिन्नेवार्थे सोय मिति वाक्यस्य तात्पर्यम् । तन्न पदद्वयलक्षणा दृष्टान्ते इत्यर्थः ।। 56 ।।

स्वप्रकाशस्य चिद्धातोर्विरुद्धद्वन्द्वसङ्गतौ ।

न व्यवस्थापकं किञ्चिद्देशकालदशादिके ।। 57 ।।

न त्वेवं भवता वक्तुं शक्यत इत्याह स्वप्रकाशस्ये ति । निर्विशेषे चिन्मात्रे विरुद्धधर्मद्वयसम्बन्धस्याविरोधोपपादकं देशकालावस्थाभेदादौ किञ्चिदपि न घटते । स्वयम्प्रकाशस्वरूपत्वादज्ञानमप्यविरोधोपपादकं न शक्यशङ्कतस्मिन्निति भावः ।। 57 ।।

निर्धूतनिखिलद्वन्द्वस्वप्रकाशे चिदात्मनि ।

द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ।। 58 ।।

ब्रह्मण्यविद्यान्वयायोगादेवाविद्याकृतभेददर्शननिरसनार्थत्वं शास्त्रस्य निर्विशेषचिन्मात्र ब्रह्मात्मैक्यविषयत्वं च पराभिमतं न संभवीत्याह निर्धूते ति । द्वन्द्वशब्दो भेदवाच्यत्र । अज्ञानेनैव भेदभ्रमो वक्तव्यः । न च निर्विशेषे स्वप्रकाशे च तत्प्रसक्तिः । तन्निरसनीयस्यासिद्धेस्तन्निरासकत्वाभिमतैक्यज्ञाने शास्त्रतात्पर्यं न कल्पयितुं शक्यम् । तन्निरर्थकमापद्येताध्यात्मशास्त्रं तत्त्वमसिमहावाक्यं वेत्यर्थः । एतेनाविद्याकृतान्तःकरणभेद एव जीवेश्वरभावकल्पकोपाधिश्चिन्मात्रे इत्यपि परस्तम् । अविद्याया एवासम्भवात्तत्रेति बोध्यम् ।। 58 ।।

एतेन सत्यकामत्वजगत्कारणतादयः ।

मा ... परे ( मायोपाधौ परे )%ध्यस्ताः शोकमोहदयः पुनः ।। 59 ।।

अविद्योपाधिके जीवे विनाशे नेति यन्मतम् ।

क्षुद्रब्रह्मविदामेतन्मतं प्रागेव दूषितम् ।। 60 ।।

चिन्मात्रे ब्रह्मण्यविद्यान्वयानुपपत्तिपर्यालोचनया कैश्चिदद्वैतिभिः कल्पितं माया%विद्योपाधिभेदं तत एवेशेशितव्यभेदं चापरमार्थमुपपाद्यमानं निरस्यति एतेने ति । एतेन-निर्धूतत्रिविधभेदे चिन्मात्रे माया%विद्योपाधिभेदासिद्ध्यैव । मायोपाधौ-मायोपहितचिन्मात्रे परे-ईश्वरे । विनाशेने ति । तत्त्वमसिवाक्यजन्यैक्यसाक्षात्कारेण माया%विद्योपाधिनाशे तत्कल्पित ईशजीवभावो%पि निवृत्तो नावतिष्ठत इत्यर्थः । प्रागेव दूषित मिति । एतद्दूषणभागो विलुप्तः । अपरमार्थत्वेनाभिमतयोस्तयोः कल्पकाभावादसिद्धिरेव । स्वतःकल्पनायामात्माश्रयः । ब्रह्मण

एव तत्कल्पकत्वे ब्रह्मस्वरूपस्य नित्यत्वात्तयोर्नित्यत्वप्रसक्तिः । ऐक्यज्ञानेन निवृत्त्युपगमे%पि तस्य क्षणिकत्वादेव पुनरपि

ब्रह्मस्वरूपबलात्तयोः कल्पनाप्रसङ्गः । किञ्च मायाया भ्रान्तिजनकत्वे दुःखादिजनकत्वे चाविद्यातो विभागासिद्धिः । तस्या यथार्थबुद्धिजनकत्वे क्रीडारसमात्रपरिकरत्वे चापुरुषार्थत्वायोगात्तन्निरसनानुपपत्तिः । अनादिभावरूपायास्तस्या ज्ञानमात्रतो निरसनायोगश्चेत्यादि दूषणमनुसन्धेयम् । अविद्याया एव बहुसंमतत्वान्मायाविद्योपाधिभेदवादिनो%मी क्षुद्रा ब्रह्मविदो%द्वैतिष्विति च बोध्यम् ।। 59।।60 ।।

चित्स्वरूपे विशिष्टे वा माया%विद्याद्युपाधयः ।

पूर्वस्मिन् सर्वसाङ्कर्यं परजीवाविभागतः ।। 61 ।।

उत्तरस्मिन्नपि तथा विशिष्टमपि चिद्यदि ।

चित्स्वरूपं हि निर्भेदं माया%विद्याद्युपाधिभिः ।

विभिन्नमिव विभ्रान्तं विशिष्टं च ... (मतं तव ) ।। 62 ।।

उपाधिभेदोपगमासम्भव इत्युक्तम् । तदुपगमेन दूषणान्तरं चोच्यते चित्स्वरूपे इति । किं चिन्मात्रेमाया%विद्याद्युपाधयः संबन्धन्ते, उत विशिष्टे । निरंशे चिन्मात्रे माया%विद्यासम्बन्धे तत्प्रयुक्तस्वभावभेदा एकस्मिन्नेव प्रसज्यन्ते इति जीवेश्वरस्वभावसाङ्कर्यप्रसङ्गः । विशिष्टे चेत् किं तद्विशेषणम् ? माया%विद्या चेति चेदात्माश्रयः, जीवत्वेश्वरत्वे इति चेदन्योन्याश्रयः, अन्यत्तु विशेषणं दुर्वचमेव । किंच मायया%विद्यया वा संवित्स्वरूपस्य च्छेदासम्भवादेकमेव तत्तदुपहितं भवेद्गगनमिव मठान्तवर्तिघटेन मठेन चोपहितम् । तथा च हस्तपादाद्यवच्छिन्नसुखदुःखभोग एकस्यैव यथा जीवस्य, तथा तत्तदुपाधिप्रयुक्तैश्वर्यदुःखादिभोग एकस्यैव ब्रह्मणः प्रसज्यत इति जीवपरस्वभावाव्यवस्थितिरेवेत्यर्थः ।। 61।।62 ।।

तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ।

न हि दण्डिशिरश्छेदाद्देवदत्तो न हिंसितः ।। 63 ।।

नन्वौपाधिकप्रदेशभेदोपगमाद्ब्रह्मणि न जीवेशस्वभावसाङ्कर्यमिति चेत्तत्राह तटस्थे ति। मायया%विद्यया वोपहितं तटस्थमित्युच्यते ब्रह्म । तन्निष्ठस्य सार्वज्ञ्यादेरज्ञत्वादेश्च दण्डेन कुण्डलेन वोपहिते कादाचित्कदण्डादिविशेषणवत्तया तटस्थशब्दिते देवदत्ते वर्तमानस्य सुखस्य दुःखस्य च देवदत्तात्मनीव ब्रह्मणि सम्बन्धो दुर्वार एवेति भावः । तत्रानन्दित्वप्रसङ्गस्य सह्यत्वात्कथञ्चिहुःखित्वस्यासह्यस्य प्रसङ्गे निदर्शनमाह नही ति । उपाधिभेदे%पि विरुद्धसमावेशप्रसङ्गो दुर्वारः । वस्तुभेदमन्तरा कल्पितप्रदेशभेदमात्रेण व्यवस्था दुर्घटा । तथाच मायाविद्योपाधिभे

दकल्पना%पार्थेति स्थितम् ।। 63 ।।

अचिदंशव्यपोहेन चिदेकपरिशेषता ।

अतस्तत्त्वमसीत्यादेरर्थ इत्यप्यसुन्दरम् ।। 64 ।।

( इति तत्त्वमसिवाक्यस्य पराभिमतब्रह्मात्मैक्यपरत्वे%नुपपत्त्युपपादनम् )

एतेन माया%विद्योपाधिरूपविशेषणभेदपरित्यागेन विशेष्यीभूतचिन्मात्रैक्यं तत्त्वमसिवाक्यार्थ इत्यपि निरस्तमित्याह अचिदंशे ति । पदद्वयलक्षणा, ब्रह्मण्येव दोषापत्तिश्चेत्युक्तमेतावता ।। 64 ।।

अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते ।

तत्त्वंपदद्वयं जीवपरतादात्म्यगोचरम् ।

तन्मुख्यवृत्ति तादात्म्यमपि वस्तुद्वयाश्रयम् ।। 65 ।।

अथ परमते सामानाधिकरण्यार्थस्य तादात्म्यस्याप्यनुपपत्तिमुपपादयति अब्रह्मे ति । ब्रह्मभिन्नस्यानात्मत्वे तत्त्वंपदद्वयलक्ष्यार्थ एक प्रत्यक्तत्वं चिन्मात्रमव शिष्यते । तत्र च समानाधिकरणवाक्यार्थस्य तादात्म्यस्यनुपपत्तिरित्यर्थः । अत्रोत्तरार्धं विलुप्तमित्यूह्यते । तच्च एकशेषे तु तादात्म्यं चिन्मात्रे नैव सम्भवेत् इति स्यात् । एकशेषे तादात्म्यानुपपत्तिमेव विवृणोति
तत्त्व मिति । समानाधिकरणमिति शेषः । तस्य मुख्यवृत्तिर्यत्र तत् तन्मुख्यवृत्ति । वस्तुद्वयाश्रय मिति । भेदसमानाधिकरणाभेदस्य तादात्म्यस्यात्यन्तायाभेदे%सम्भव इति भावः । अत्र यादवप्रकाशप्रक्रियया भाट्टप्रक्रियया वा निरूप्यते तादात्म्यमिति बोध्यम् । सिद्धान्ते तु वस्तुद्वयाश्रय मित्यस्य प्रवृत्तिनिमित्तधर्मभेदवदेकवस्त्वाश्रितमित्यर्थः । धर्मद्वारकभेदविशिष्टस्वरूपाभेद एव च तादात्म्यं मतमिति विवेकः ।। 65 ।।

भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः ।

अभेदाभेदिनो%सत्ये बन्धे सति निरर्थकः ।। 66 ।।

ननु भेदाभेदस्तादात्म्यमिति न संभवति । भेदाभेदयोरभेदे%त्यन्तभेदे%पि भेदाभेदस्यासिद्धेः । भेदाभेदे वा तत्रापि तथेत्यनवस्थेति चेत्तत्राह भेदाभेदे ति । अयं विकल्पनप्रकारो नोपलभ्यमानग्रन्थभागे%स्ति । तद्भागो विलुप्तः स्याद्वा । भिन्नयोस्तादात्म्यमुताभिन्नयोः । आद्ये घटः पट इति प्रसज्यते । अन्त्ये घटो घट इतीति वा भेदाभेदविकल्पो बोध्यः । अभेदाभेदिनः-भेदाभेदिभिन्नस्य, अत्यन्तभिन्नस्यात्यन्ताभिन्नस्य वा बन्धे - तादात्म्यसम्बन्धे असति-अप्रामाणिके सति भवत्कृतो%यं विकल्पो%पार्थ इत्यर्थः । न हि घटो घट इति वा

घटः पट इति वा सामानाधिकरण्यं दृष्टम् । किन्तु नीलो घट इत्येव । तद्भेदाभेद एव तादात्म्य मेष्टव्यम् । भेदाभेदयोर्भेद एव । न च भेदे तयोर्विरोधादेकत्र समावेशो न घटत इति वाच्यम् , नीलघटयोः प्रतीतत्वादेव तयोर्विरोधाभावात् । धर्मतो भेदः स्वरूपतो%भेद इति वा%विरोध इति भावः ।। 66 ।।

अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः ।

भेदः परस्परानात्म्यं भावानामेवमेतयोः ।। 67 ।।

स्वरूपमभ्युपेत्यैव भेदाभेदविकल्पयोः ।

भेदाभेदं विकल्पयतः स्वव्याघातो%पीत्याह अभेद इति श्लोकद्वयेन । भेदमर्दीति इति क्वचित्पाठः । तत्र इतिशब्दस्य एवमित्यनेना%न्वयः इत्येवमिति । भेदमर्दी-अत्यन्तभेदनिरासकः । एतयोः-भेदाभेदयोः स्वरूपं स्वरूपभेदमुपगम्यैव भेदो%भेदो वेति विकल्पकोट्योर्बाधनं दूषणं क्रियते । तेनस्वाभ्युगमेन, वाग्बाधा-भवदुक्तदूषणवचनोपरोधः। प्रसज्यत इति शेषः । त्वं च स्वाभ्युपगमविरुद्धवचनत्वेन निगृह्यस इत्यर्थः ।। 67।।68 ।।

भिन्नाभिन्नत्वसम्बन्धसदसत्त्वविकल्पनम् ।

प्रत्यक्षानुभावापास्तं केवलं कण्ठशोषणम् ।। 69 ।।

भिन्नाभिन्नत्वे ति । भिन्नाभिन्नत्वस्य धर्मिणा सम्बन्धो%स्ति न वा । आद्ये तत्सम्बन्धे%पि सम्बन्धान्तरं वाच्यम् । तत्रापि तथेत्यनवस्था । अन्त्ये असम्बद्धस्य विशिष्टबुद्धिनिर्वाहकत्वं तस्य न स्यादिति विकल्पनमपि कण्ठशोषणमात्रफलकं प्रत्यक्षानुभवबाधितं चेत्यर्थः ।। 69 ।।

नीले नीलमतिर्यादृगुत्पले नीलधीर्हि सा ।

नीलमुत्पलमेवेदमिति साक्षाच्चकास्ति नः ।। 70 ।।

नील इति । नीलरूपवति घटादौ नीलबुद्धिर्यथा नीलसमवायावगाहिनी विदिता नापलप्या, एवं नीलमुत्पलमिति विदिताप्रसिद्धा नीलतादात्म्यमतिरपि नापलप्या । स्वपरनिर्वाहकसमाधिना स्वरूपसम्बन्धेन वा%नवस्था परिहार्येति भावः ।। 70 ।।

यथा विदितसंयोगसम्बन्धे%प्यक्षगोचरे ।

भेदाभेदादिदुस्तर्कविकल्पाधानविभ्रमः ।। 71 ।।

तद्वत्तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके ।

श्रुतिदण्डेन दुस्तर्कविकल्पभ्रमवारणम् ।। 72 ।।

तादात्म्यसम्बन्धविद्वेषिप्रयुक्तानां दुस्तर्काणां प्रत्यक्षशास्त्रपराहतत्वमेव प्रपञ्चयति यथे ति। संयोगे भेदाभेदादितुस्तर्को यथा-भिन्नयोः संयोग उताभिन्नयोः । आद्ये हिमवद्विन्ध्ययोरपि संयोगप्रसङ्गः । अन्त्ये स्वेनैव स्वस्य सः । संयोगो धर्मिणो भिन्नो न वा । भेदे तस्यापि सम्बन्धान्तरं तस्यापि तथेत्यनवस्था । अभेदे संयोग एव न सिध्यतीत्यादिः । स्फुटप्रतिपन्ने संयोगे दुस्तर्कतन्मूलविकल्पनादि यथा भ्रमलक्षणं कण्ठशोषणमात्रम् , प्रत्यक्षपराहतं च ; एवं नीलोत्पलादितादात्म्ये प्रत्यक्षे जीवब्रह्मतादात्म्ये च शास्त्रसिद्धे दुस्तर्कविकल्पनादि प्रत्यक्षशास्त्रदण्डनिवारितमिति भावः । श्रुतिदण्डेनेति प्रकृततत्त्वमसिवाक्यार्थाभिप्रायेणोक्तम् ।। 71।।72 ।।

निर्दोषा%पौरुषेयी च श्रुतिरत्यर्थमादरात् ।

असकृत्तत्त्वमित्याह तादात्म्यं ब्रह्मजीवायोः ।। 73 ।।

जीवपरयोस्दात्म्ये%भ्यासरूपं तात्पर्यलिङ्गमप्यस्तीत्याह निर्दोषे ति । प्रवृत्तिनिमित्तरूपधर्मभेदेन धर्मिस्वरूपाभेदेन च तादात्म्यं तत्त्वमसीत्यादौ त्वमादिशब्दानां तत्तच्छरीरकब्रह्मपर्यन्ततया निरूपणीयम् , तदादिपदानां ब्रह्मात्मकपरतया वा ।

यादवप्रकाशादिमते तु जीवब्रह्मस्वरूपगतावेव भेदाभेदाविति विवेकः ।। 73 ।।

ब्रह्मानन्दह्रदान्तःस्थो मुक्तात्मा सुखमेधते ।

फले च फलिनो%भावान्मोक्षस्यापुरुषार्थता ।

एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ।। 74 ।।

( इति परमते सामानाधिकरण्यार्थायोगवर्णनम् )

एतावता परमते प्रातिपदिकयोरिव समानविभक्तेरपि न मुख्यार्थतेति व्यवस्थापितम् । यद्यपि अभेदमात्रस्य समानविभक्त्यर्थत्वं सम्भवति । तथा%पि प्रवृत्तिनिमित्तधर्मभेदप्रहाणान्न सामानाधिकरण्यमुख्यार्थता परमत इति बोध्यम् । अथ चिन्मात्रपरिशेषे%पि न युक्तः । तथा सति मोक्षस्यापुरुषार्थताप्रसक्तेरित्याह ब्रह्मे ति । एष ब्रह्म प्रविष्टो%स्मि ग्रीष्मे शीतमिव ह्रदम् इतिवचनानुसारेण ब्रह्मानन्दस्य ह्रदत्वरूपणम् , सकलसंसारतापक्लेशहरत्वान्निरतिशयाह्लादकरत्वाच्च तस्य । ब्रह्मानन्दं हृदन्तःस्थ इति पूर्वमुद्रितपाठस्तु न समीचीनः । मुक्तात्मा%परिच्छिन्नब्रह्मानन्दसागरे निमग्नो नित्यप्रवृद्धसुखो वरीवर्तितरामिति शास्त्रमर्यादा । परमफले मोक्षे भोक्तृत्वावस्थापन्नस्य स्वस्य विलयं चेज्जानीयान्नाभिलष्येत्तामित्यर्थः । एकशेषे-निर्विशेषचिन्मा

त्रपरिशेषे, कस्य-ब्रह्मणो जीवस्य वा मोक्षः फलम् ? न ब्रह्मणः, नित्यमुक्तत्वात् , नापि जीवस्य, तस्यैव तदा विलयादिति भावः । चिन्मात्रमेव ब्रह्म जीवस्य स्वरूपमिति चेत्तर्हि ब्रह्मण एवाविद्याजीवभावादि वक्तव्यम् । तच्च श्रुतियुक्तिपराहतमिति ध्येयम् । एवमविद्यापरिकल्पितजीवेश्वरत्वादिविकल्पपरित्यागेन निर्विशेषचिन्मात्रैक्यं तत्त्वमसि वाक्यार्थ इत्यत्र दूषणजातं प्रोक्तम् ।। 74 ।।

किञ्च प्रपञ्चरूपेण को नु संविद्विवर्तते ।

न तावद्घटधीस्तस्यामसत्यामपि दर्शनात् ।। 75 ।।

न हि तस्यामजातायां नष्टायां वा%खिलं जगत् ।

नास्तीति शक्यते वक्तुमुक्तौ प्रत्यक्षबाधनात् ।

नाप्यन्यसंवित् तन्नाशे%प्यन्येषामुपलम्भनात् ।। 76 ।।

अथ प्रपञ्चभ्रमाधिष्ठानस्य तद्भ्रमहेतोश्च स्वरूपविमर्शेनापि परमते%सामञ्जस्यमुद्भावयति किञ्चे त्यादिना । विवर्तते अयथाकारेण भासते । दर्शनात् - भेदप्रपञ्चस्य दृष्टेः । अधिष्ठानमन्तरा%%रोप्यप्रतीत्ययोगान्न घटपटादिधियामागमापायिनीनां प्रपञ्चभ्रमाधिष्ठानत्वं सम्भवतीति भावः । जगत् - भेदप्रपञ्चः । तद्भानमिति यावत् । नापी ति । पटज्ञाननाशे%पि अन्येषां घटादिभेदानामुपलम्भान्न पटज्ञानादेरपि प्रपञ्चाध्यासाधिष्ठानत्वं संभवतीत्यर्थः । संविदेव प्रपञ्चभ्रमाधिष्ठानमिति परेषां मतम् । तत्र घटपटादिसंविदां नाधिष्ठानत्वं सम्भवतीत्युक्तं भवति ।। 75।।76 ।।

ननु संविदभिन्नैका न तस्यामस्ति भेदधीः ।

घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ।। 77 ।।

घटधीः पटसंवित्तिसमये नावभाति चेत् ।

नैवं, घटो हि नाभाति सा स्फुरत्येव तु स्फुटम् ।। 78 ।।

घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् ।

तद्व्यावृत्तिपदेनापि किं सैवोक्ता%थ वेतरत् ।

सैव चेद्भासते%न्यच्चेन्न ब्रूमस्तस्य भासनम् ।। 79 ।।

अत्र परेषामाशङ्का ननु इति । अखण्डा संविदेका नित्याविभ्वी च । घटादीनामेवान्यज्ञानेष्वभासमानानां भेदः । संविदस्तु सर्वज्ञानेषु प्रकाशमानत्वादेकत्वमेव । तस्यां भेदबुद्धिस्त्वौपाधिकविषया न यथार्थसंवित्स्वरूपभेदविषया । सैव प्रपञ्चभ्रमाधिष्ठानं

भवति। घटबुद्धिः पटज्ञानकाले न भासते, किन्तु पटधीरेवेति चेत् , मैवम् । तदा घट एव न भासते । ज्ञानं तु भासत एव । ननु घटविषयकत्वविशिष्टसंविदः पटज्ञाने%भानमिति चेत् , मैवम् । घटविषयकत्वरूपं घटव्यावृत्तत्त्वमपि संवित्स्वरूपमेव । अतः पटज्ञाने तस्य भानमेव। घटः परं न भासते । तस्यातिरिक्तत्वे तु पटज्ञाने तदभाने%पि संविदोभानमक्षतमेवेति समुदिताशयः ।। 77।।78।।79 ।।

किञ्चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः ।

ऋते विषयनानात्वान्नानात्वावग्रहभ्रमः ।। 80 ।।

ननु संविदिभेदाभावे घटज्ञानमिदं, पटज्ञानं तत् , एकमुत्पन्नमपरं विनष्टमित्याद्यनुपपन्नं भवेदित्यत्राह किञ्चे ति । नीरूपायाः-निराकारायाः । निर्विशेषाया इति यावत् । नानात्वावग्रहभ्रमः-नानात्वरूपासदाकारोपहितत्वभ्रमः । स्वप्रकाशाया इति हेतुगर्भम् । संविन्न नाना स्वप्रकाशत्वात् , यन्नाना तदस्वप्रकाशं यथा घटादीति । संविदि नानात्वप्रतीतिरपि विषयभेदौपाधिकी भ्रान्तिरेव । न तु वास्तवो भेदस्तस्यामिति भावः ।। 80 ।।

न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लैङ्गिकः ।

घटादिवेद्यभेदो%पि केवलं भ्रमलक्षणः ।। 81 ।।

ननूपाधिभेदेनैव भेदो%पि तत्र वास्तवो भवेत् । सांसर्गिकस्य धर्मस्य तत्र तत्रोदयदर्शनादित्यत्राह ने ति । विषयभेदस्यैवावास्तविकत्वात्तत्प्रयुक्तं संविन्नानात्वमप्यवास्तविकमेवेति भावः । भेदस्य चावास्तविकत्वं दुर्निरूपत्वात् । तथाहि-भेदो न तावद्वस्तुस्वरूपम् । प्रतियोगिग्रहापेक्षग्रहस्य भेदस्य तदनपेक्षग्रहस्वरूपत्वायोगात् । नापि वस्तुधर्मो%यम् । भेदस्य धर्मिभेदो धर्मान्तरम् । तस्यापि स्वधर्मिभेदो धर्मान्तरम् , एवमुपर्यपि । एवं घटस्य पटभेदो धर्मः, पटभेदभेदो%पि तथा, एवं तद्भेदो%पीति चानवस्थाप्रसक्तेः । एवं स्वरूपतो दुर्निरूपस्य प्रमाणतो%पि दुर्निरूपत्वम् । यथा-प्रत्यक्षं तावन्न भेदग्राहि, क्षणिकस्य तस्य स्वरूपप्रतियोगिग्रहणपूर्वकभेदग्रहणपर्यन्तावस्थानाभावाद्विरम्य व्यापारायोगाच्च । युगपदेव त्रितयं गृह्णाति चेत् , समूहालम्बनवदुपश्लेषविशेषासिद्धिः । प्रत्यक्षेण भेदग्रहणाभावादेव तन्मूलाविनाभावग्रहाधीनोदयमनुमानमपि न भेदे प्रमाणं भवेदिति हृदयम् । ननु तर्हि भेदग्रहः कथम् ? तत्राह केवलं भ्रमलक्षण इति ।। 81 ।।

यदा, तदा तदायत्तो धीभेदावग्रहोदयः ।

कुतः, कुतस्तरां तस्य परमार्थत्वसम्भवः ।। 82 ।।

यदे ति । संविदिनानात्वस्य स्वाभाविकत्वकथा सुदूरे । औपाधिकमपि नानात्वं न । उपाधिभेदस्याभावात् । किन्तु अनाद्यविद्यादोषमूलापरमार्थोपाधिभेदाधीननानात्व भ्रममात्रमित्यर्थः । एवं ज्ञाने विषयभेदेन भेदबुद्धिरयथार्थेत्युक्तम् ।। 82 ।।

किञ्च स्वयंप्रकाशस्य स्वतो वा परतो%पि वा ।

प्रागभावादिसिद्धिः स्यात् , स्वतस्तावन्न युज्यते ।। 83 ।।

स्वस्मिन् सति विरुद्धत्वादभावस्यानवस्थितेः ।

स्वनिमित्तप्रकाशस्य स्वस्याभावे%प्यसम्भवात् ।।

अनन्यगोचरत्वेन चितोन परतो%पि च ।। 84 ।।

अथोत्पत्त्यादिप्रतीत्या भेदबुद्धिरपि तत्रायथार्थैवेति निरूपयितुमुत्पत्त्याद्ययोगमाह किञ्चे ति। संविदः प्रागभावः प्रध्वंसाभावो वा किं तयैव गृह्यते ? उत संविदन्तरेणेति विकल्प्य प्रथमं कल्प प्रतिक्षिपति स्वत इति । स्वेन सता स्वाभावो गृह्यत ? उतासता ? आद्यंदूषयति स्वस्मि न्निति । अन्त्यं दूषयति स्वनिमित्ते ति । स्वाधीनस्य प्रकाशस्य स्वस्य ग्राहकस्याभावे%सम्भवादित्यर्थः । परत इति कल्पं दूषयति अनन्ये ति । प्रतियोगिनमुल्लिख्य ह्यभावो ग्राह्यः । ज्ञानस्य ज्ञानान्तरगोचरत्वाभावान्न ज्ञानान्तरेणापि तत्प्रागभावग्रहणं सम्भवतीत्यर्थः । संविन्नानात्वोपगमे%पि न तत्प्रागभावग्रहसम्भव इत्यभ्युपगम्य वादः कृतः । नत्वद्वैतिनामभिमतं वस्तुतः तन्नानात्वमिति बोध्यम् ।। 83 ।।84 ।।

किञ्च वेद्यस्य भेदादेर्न चिद्धर्मत्वसम्भवः ।

रूपादिवत् , अतः संविदद्वितीया स्वयंप्रभा ।। 85 ।।

संविदि नानात्वाभावे प्रमाणमाह किञ्चे ति । भेदो न चितो वेद्यत्वाद्रूपादिवदित्यनुमानमत्र विवक्षितम् । अत इति । भेदस्य दुर्निरूपत्वात्संविद्धर्मत्वासम्भवाच्च सा%द्वितीया-सजातीयविजातीयस्वगतभेदशून्यैव, स्वयम्प्रकाशत्वाच्च तुच्छव्यावृत्तेति भावः ।। 85 ।।

अतस्तद्भेदमश्रित्य यद्विकल्पादिजल्पितम् ।

तदविद्याविलासो%यमिति ब्रह्मविदो विदुः ।। 86 ।।

( इति परकीयसंविदेकत्वव्यवस्थापनानुवादः )

अत इति । यतो निर्भेदत्वं संविदः, अतः किं घटसंविदधिष्ठानमाहोस्वित्पट-

संविदित्यादिविकल्पजल्पनं यत् , सो%यं संविद्भेदावलम्बी विकल्पादिवादः संवित्स्वरूपयाथात्म्याज्ञानकार्य इत्यद्वैतिनो मन्यन्त इत्यर्थः ।। 86 ।।

हन्त ब्रह्मोपदेशो%यं श्रद्दधानेषु शोभते ।

वयमश्रद्दधानाः स्मो ये युकिं्त प्रार्थयामहे ।। 87 ।।

अनूदितं परमतं प्रतिक्षेप्तुमुपक्रमते हन्ते ति । हन्तेति व्यामोहवत्सु परेषु खोदो व्यज्यते । श्रद्धामात्रशरणेषु विनेयबुद्धिषु निरूपणासमर्थेषु भवदभिमतो%यं ब्रह्मोपदेशः शोभते नाम । युक्तिविमर्शका वयं तु नात्र भवदीये ब्रह्मोपदेशे श्रद्धालवः । अतो%स्मान् रञ्जयितुं सत्प्रमाणतर्का एवोपादेयाः, न तु शुष्कोपदेशा इति भावः ।। 87 ।।

प्रतिप्रमातृविषयं परस्परविलक्षणाः ।

अपरोक्षं प्रकाशन्ते सुखदुखादिवद्धियः ।। 88 ।।

आदौ तावत् संविन्नानात्वमनुभवसिद्धं नापलापार्हं कूटयुक्तिभिरित्याह प्रतिप्रमात्रि ति । पुरुषभेदेन, एकस्मिन्नपि पुरुषे विषयभेदेन, एकस्मिन्नेव विषये कालभेदेन करणभेदेन च धियो नाना प्रत्यात्ममध्यक्षसिद्धाः सुखदुःखादिवदित्यर्थः । ज्ञाननानात्वापलापे तुल्यनयेन सुखदुःखनानात्वस्याप्यपलापप्रसङ्गः । इष्टश्चेदनुभवविरोध इति भावः ।। 88 ।।

सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः ।

न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च सम्मतः ।। 89 ।।

ननु यथा निर्भेदे%प्याकाशे सम्बन्धिव्यङ्ग्यो भेदो घटाकाशो%यमयं तु मठाकाश इति प्रतीयते, एवं संविद्यपि विषयाश्रयव्यङ्ग्यो भेदो न वास्तव इति चेत्तत्राह सम्बन्धी ति । यथा भूतलघटसंयोगो%यम् , स तु कुड्यमुसलसंयोग इति सम्बन्धिभेदेनैव व्यावृत्ततया प्रतीयमानः संयोगभेदो वास्तव एव सम्बन्धिजन्यत्वात्तस्य, यथा वा चैत्रस्य घटेच्छा, मैत्रस्य पटेच्छेत्येवं सम्बन्धिभेदेन भिन्नतया प्रतीयमाना भिन्नभिन्नैवेच्छा तत्तत्पुरुषीया तदा तदा जायमाना, एवं विषयाश्रयभेदेन प्रतीयमीनः संविद्भेदो%पि वास्तविक एव कालादिभेदेन जायमान इति भावः । सिद्धान्ते तत्तत्पुरुषे वर्तमानस्य धर्मभुतज्ञानस्यैकत्वे नित्यत्वे%पि तत्तदर्थप्रकाशनार्थप्रसरणावस्थाभेदविशिष्टवेषेण नानात्वमनित्यत्वं च संमतं, प्रकृतेर्नित्यैकत्वे%पि तत्परिणामभेदानामिवेत्यवधेयमत्र ।। 89 ।।

यदि सर्वगता नित्या संविदेवा(का%)भ्युपेयते ।

ततः सर्वं सदा भायात् , न वा किञ्चित्कदाचन ।। 90 ।।

एवमुपलम्भबलात् संविन्नानात्वं समार्थ्य तदैक्ये बाधकमप्याह यदी त्यादिना । नित्यविभुनः प्रकाशकस्यैकस्य ज्ञानस्य सर्वविषयसम्बन्धे समाने सदा सर्वार्थस्य भानप्रसङ्गः । प्रकाशकज्ञानसम्बन्धे%प्यभाने तु कस्यचिदपि कदा%पि भानं न स्यात् । प्रकाशेज्ञानसंबन्धातिरेकिणो हेत्वन्तरस्यासम्भवादित्यर्थः ।। 90 ।।

तदानीं न हि वेद्यस्य सन्निधीतरकारिता ।

व्यवस्था घटते, वित्तेर्व्योमवद्वैभवाश्रयात् ।। 91 ।।

तदानी मिति । सन्निधीतरत्-असन्निधानम् । ज्ञानसन्निध्यसन्निधिप्रयुक्ता%र्थभेदे भानाभानव्यवस्था दुरुपपदा । ज्ञानस्य सर्वदा सर्वसम्बद्धत्वाद्गगनवदित्यर्थः । सिद्धान्ते तु सङ्कोचविकासाभ्यां ज्ञानस्य विषयभेदे सन्निध्यसन्निधी व्यवस्थिते इति बोध्यम् ।। 91 ।।

नापि कारणभेदेन, नित्यायास्तदभावतः ।

न च स्वरूपनानात्वात् , तदेकत्वपरिग्रहात् ।। 92 ।।

एतत्करणजन्यं ज्ञानमेतमेवार्थं गृह्णातीत्येवं करणभेदेनापि व्यवस्था दुर्वचा भवद्भिरित्याह नापी ति । नित्यत्वे ज्ञानस्य करणासम्भवादिति यावत् । अर्थभेदेन ज्ञानभेदो%पि दुर्वचः संविदद्वैतवादिभिरित्याह न चे ति ।। 92 ।।

ततश्च बधिरान्धादेः शब्दादिग्रहणं भवेत् ।

गुरुशिष्यादिभेदश्च निर्निमित्तः प्रसज्यते ।। 93 ।।

( इति संविदैक्यमतदूषणेन संविन्नानात्वोपपादनम् )

प्रकाशकसंविदैक्यवादे लौकिकवैदिकमर्यादाभङ्गप्रसङ्गमप्युद्भावयति ततश्चे ति । ननु प्रकाशकस्य चैतन्यस्यैकत्वे%पि चक्षुरादिप्रसृतया%%न्तरकरणवृत्त्या विषयसम्बद्धया%विद्यावरणनिवर्तन एव चैतन्यं तं तमर्थं प्रकाशयतीति व्यवस्था घटत

इति चेत् ; नैतत्साधु ; वृत्तेर्जडाया अविद्यावरणनिवर्तकत्वायोगात् । तथात्वे वा तस्या एवार्थप्रकाशकत्वमपि भवतु । किमन्तर्गडुना चैतन्येनेत्यन्यत्र विस्तरः । तद्ग्राह्यग्राहकभेदेन ज्ञानभेदो मन्तव्य एवेति भावः ।। 93 ।।

ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन ।

अतः सर्वं सदा भायादित्यकाण्डे%नुज्यते ।। 94 ।।

सर्वस्य सर्वदा भानप्रसङ्गं सिद्धान्तिनोद्भावितमाक्षिपति परः ननु इति । संविद्भिन्नस्य सर्वस्य विरहादेवास्मन्मते सर्वं सदा भायादित्य स्थानं%नुयोगो भवतामित्यर्थः ।।

94 ।।

इदमाख्याहि भोः किं नु नीलादिर्न प्रकाशते ।

प्रकाशमानो नीलादिः संविदो वा न भिद्यते ।। 95 ।।

प्रतिवक्ति सिद्धान्ती इद मिति । किं नीलादिप्रतीतिरेव नास्तीत्युच्यते, उत नीलादेः संविदभिन्नत्वेन तत्प्रतीतिः संवित्प्रतीतिरेवाभिमन्यत इत्यर्थः ।। 95 ।।

आदौ प्रतीतिसुभगो निर्वाहो लोकवेदयोः ।

यतः पदपदार्थादि न किञ्चिदवभासते ।। 96 ।।

आद्यः कल्पो न कल्पत इत्याह आदा विति । नानाप्रतीतिनिह्निवे नानापदपदार्थप्रतीतिनिर्वाह्यः सर्वो लौकिको वैदिकश्च व्यवहारः प्रतीतिसुभगः-अबाधितानुभवसिद्धः सम्यङ् निर्व्यूढो भवेद्भवद्भिरित्युपालम्भः । कथ मिति शेषपूरणेन व्याख्येयम् ।। 96 ।।

द्वितीये संविदो%द्वैतं व्याहन्येत समीहितम् ।

यद्ययं विविधाकारप्रपञ्चः संविदात्मकः ।

सा%पि संवित्तदात्मेति यतो नाना प्रसज्यते ।। 97 ।।

द्वितीयं दूषयति द्वितीय इति । प्रतीयमाननानाप्रपञ्चैक्ये संविदो नानात्वं प्रसज्यत इत्यभिमततदद्वैतहानिरित्यर्थः । एवं वदतो%पसिद्धान्तश्चेति हार्दम् ।। 97 ।।

नचाविद्याविलासत्वाद्भेदाभेदानिरूपणा ।

सा हि न्यायानपस्पृष्टा जातुषाभरणायते ।। 98 ।।

अत्र शङ्कते नचे ति । नीलादिभिदेति विशेष्यमध्याहार्यमत्र । भिन्नत्वेनाभिन्नत्वेन वा निरूपयितुमशक्यत्वं च तस्या अविद्याविलासत्वात् भेदाभेदयोरनिरूपणं यस्या भेदाभेदानिरूपणा । आविद्यास्य नीलादिभेदस्य मिथ्यात्वात् मिथ्यार्थे च दुर्घटत्वस्य भूषणत्वाद्भेदाभेदानिरूपणोपपत्तिः । उपपत्त्यननुवर्तित्वादेव च सर्वं सदा भायादित्याद्यापत्तेरप्यनवकाश इति हृदयम् । परिहरति सा ही ति । जतुनो विकारो जातुषम् । त्रपुजतुनोः षुक् इत्यण् षुक् च । अविद्या हि न्यायानलस्पृष्टा जातुषवन्न जीवितुं प्रभवति । तत्तद्विलासत्वं प्रपञ्चस्य न सेत्स्यतितरामित्याशयः ।। 98 ।।

तथाहि यद्यविद्येयं विद्याभावात्मिकेष्यते ।

निरुपाख्यस्वभावत्वात्सा न किञ्चिन्नियच्छति ।। 99 ।।

अर्थान्तरमविद्या चेत्साध्वी भेदानिरूपणा ।

अर्थानर्थान्तरत्वादिविकल्पो%स्या न युज्यते ।

विद्यातो%र्थान्तरं चासाविति सुव्याहृतं वचः ।। 100 ।।

न्यायपराहतत्वमेवाविद्यायाः प्रपञ्चयति तथाही त्यादिना । अत्र विकल्पः-किं विद्या%भावो%विद्या, उत विद्याभिन्नं भावान्तरमिति । आद्ये दूषणमाह निरुपाख्ये ति । निरुपाख्यस्वभावत्वं शून्यस्वरूपत्वम् । तथा च स्वयमेवालब्धसत्ता%विद्या कथं प्रपञ्चव्यवस्थापिका भवेदित्याकूतम् । कल्पान्तरमनूद्यदूषयति अर्थान्तर मिति । साध्वी-उपपत्त्यसहा, भेदानिरूपणा-भिन्नत्वेनाभिन्नत्वेन वा%शक्यनिरूपणा चाविद्या%र्थान्तरं चेदित्यन्वयः । अत्र स्ववाग्विरोधमाह अर्थानर्थे ति । सुव्याहृतमिति विपरीतलाक्षणिकम् । अर्थानर्थान्तरत्वादिविकल्पो%स्या न युज्यत इति वचनं विद्यातो%र्थान्तरमसा विति च वचनं मिथो विरुद्धमिति यावत् ।। 99।।100 ।।

अथार्थान्तरभावो%पि तस्यास्ते भ्रान्तिकल्पितः ।

हन्तैवं सत्यविद्यैव विद्या स्यात्परमार्थतः ।। 101 ।।

अविद्याया अर्थान्तरत्वमपि कल्पितमेवेति चेत्तत्राह अथे ति । भेदानिरूपणे भवदभिमता विद्यैव स्यादविद्येति भावः ।। 101 ।।

किञ्च शुद्धा%जडा संवित् , अविद्येयं तु नेदृशी ।

तत्केन हेतुना सेयमन्यैव न निरूप्यते ।। 102 ।।

वस्तुतो भिन्नत्वेनैव निरूपणमर्हत्यविद्येत्याह किञ्चे ति । तथा च शुद्धाजडसंविदपेक्षया विकारास्पदाशुद्धजडाविद्याया भेद एव परमार्थतः कुतो न निरूप्यत इत्यर्थः । तथा च परमार्थाविद्याविलासो भेदः सर्वो%पि संविद एकस्या एव सकलार्थप्रकाशकत्वे सर्वदा भासेतेति दोषस्तदवस्थ इति भावः ।। 102 ।।

अपि चेयमविद्या ते यदभावादिरूपिणी ।

सा विद्या किं नु संवित्तिर्वेद्यं वा वेदिता%थवा ।। 103 ।।

अविद्याया भिन्नाभिन्नत्वाभ्यामनिर्वचनीयत्वं निरस्य तस्याः स्वरूपानुपपत्तिमप्याह अपिचेय मिति । विद्या%भावरूपा विद्याभिन्नरूपा वा%विद्या%स्तु । तत्र प्रतियोगिभूता विद्या किंरूपेति विकल्पनं विमर्शनार्थम् ।। 103 ।।

वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ।

न हि ज्ञानादृते%ज्ञानमन्यतस्ते निवर्तते ।।

संविदेवेति चेत्तस्या ननु भावादसम्भवः ।। 104 ।।

तत्र विद्याया वेद्यरूपत्वे वेदितृस्वरूपत्वे वा दोषमाह वेद्यत्वे इति । तयोरविद्यानिवर्तकत्वाभावात्तद्रूपाया विद्याया अप्यविद्यानिवर्तकत्वाभावप्रसङ्ग इत्यर्थः । ते इत्यस्याग्रे मते इति शेषः । संवित्तिरूपत्वे दोषमाह संविदेवेती ति । संविदो नित्यसिद्धत्वात्सर्वगतत्वाच्च तदभावरूपाविद्याया असिद्धिरेवेति भावः ।। 104 ।।

किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः ।

यतो%खिलं जगद्व्याप्तं विद्ययवाद्वितीयया ।। 105 ।।

विद्या संवित् , तद्विरुद्धा%विद्येत्यत्र दूषणमाह किञ्चेय मिति । दिवाकरकरव्याप्ते देशे दिवाकरे वा तद्विरोधिनो%न्धतमसस्येव विभ्व्या संविदा व्याप्ते सर्वत्र संविदि वा नाविद्यायाः समावेशसम्भव इत्यर्थः । विद्याभिन्ना%विद्येत्यपि दुर्वचमेवाद्वैतवादिभिरिति सूच्यते अद्वितीयये त्यनेन ।। 105 ।।

अभावो%न्यो विरुद्धो वा संवितो%पि यदीष्यते ।

तदानीं संविदद्वैतप्रतिज्ञां दूरतस्त्यज ।। 106 ।।

( इत्यविद्यायाः स्वरूपानिर्वचनीयत्वानुपपत्तिवर्णनम् )

कल्पत्रये%पि दूषणमाह अभाव इति । संविदभावादिरूपा%नादिरविद्या%स्ति चेत् , संविदेवैका%स्तीति भवदभिमतमद्वैतं न सिध्येदिति भावः । ननु संविन्मात्रं परमार्थसदिति परमार्थैक्यमेवास्माकमभिमतम् । अविद्याया अपरमार्थत्वेन तदनादित्वे%पि नास्मदभिमताद्वैतोपरोध इति चेदत्र ब्रमः-अनादित्वेनोपगम्यमानाया अविद्यायाः कल्पकदोषान्तरायोगेनापारमार्थ्यायोगः । ब्रह्मण एव तत्कल्पकदोषत्वे दुर्घटत्वेन हेत्वन्तरानपेक्षत्वे वा मुक्तावपि तत्प्रसङ्गः । अनादिभावस्यात्यन्तनाशायोगाज्ज्ञाननिवर्त्यत्वस्याप्ययोग इति दिक् । एवमविद्यास्वरूपानुपपत्तिरुक्ता ।। 106 ।।

किञ्चासौ कस्य ? जीवस्य, को जीवो यस्य सेति चेत् ।

नन्वेवमसमाधानमन्योन्याश्रयणं भवेत् ।। 107 ।।

न ते जीवादविद्या स्यात् , न च जीवस्तया विना ।

न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ।। 108 ।।

अथ तस्या आश्रयानुपपत्तिमाह किञ्चासा विति । न विद्यते समाधानं यस्य तदसमाधानम् - असमाधेयम् । अविद्याकल्पितो जीवभावः, तस्मिन् सिद्ध

एवाविद्यासिद्धिरिति जीवाविद्यापक्षे परमते%न्योन्याश्रयो%समाधेयः प्रसजतीत्यर्थः । अस्मन्मते%कल्पितत्वाज्जीवस्य तत्राविद्योपगमे न दोषः । किन्तु भवतामेवेति द्योत्यते ते इति निर्देशेन । जीवादित्यस्याग्रे%पि विनापदं योज्यम् ।
नर्ते इति वा पाठः सम्भाव्यते । बीजाङ्कुर न्यायेन स दोषः परिहार्य इत्यत्राह ने ति । बीजाङ्कुरप्रवाहे त्वन्यान्यस्य

बीजस्याङ्कुरस्य चोत्पाद्योत्पादकभावः । नैवं प्रकृते सम्भवति । एकजीवस्थाने%नेकजीवप्रसङ्गाज्जीवानामुत्पादविनाशप्रसङ्गाच्चेतिभावः ।।107।।108।।

ब्रह्मणश्चेन्न सर्वज्ञं कथं तत् बंभ्रमीति ते(भोः) ।

अविद्याकृतदेहात्मप्रत्ययाधीनता न ते ।

ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ।। 109 ।।

नन्वस्तु तर्हि ब्रह्मैवाश्रयो%विद्यायाः । तत्राह ब्रह्मण इति । सर्वं सर्वदा सर्वथा यथावस्थितं स्वतः साक्षात्कुर्वतस्तस्य नानाविधभ्रान्तिलक्षणाविद्याश्रयत्वं विरुद्धत्वान्न सम्भवतीत्यर्थः । ब्रह्म बम्भ्रमीतीति ते%भिमतं कथं घटते ? तस्य सर्वज्ञत्वेन भ्रमायोगादिति भावः । ननु संविन्मात्रं ब्रह्म । तस्य सार्वज्ञ्यमप्यविद्याकल्पितं मिथ्याभेदप्रपञ्चसद्भावगोचरं भ्रान्तिलक्षणं मिथ्यैवेत्यत्राह अविद्याकृते ति । ते इत्यस्याग्रे%भिमतेति शेषः । अविद्यामूलाहङ्कारनिबन्धनता च ब्रह्मनिष्ठस्य सार्वज्ञ्यस्य न घटते, परा%स्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति तस्यानन्योपाधिकत्वश्रवणादित्यर्थः । ब्रह्मणः स्वभावो%विद्या, तन्मूलत्वात्स्वा- भाविकत्वमित्यर्थकरणं तूपहास्यम् । स्वभावस्य दुरतिक्रमत्वात्सदा ब्रह्मणो%ज्ञत्वादनिर्मोक्षप्रसङ्गश्च तथासतीति बोध्यम् ।। 109 ।।

भेदावभासगर्भत्वादथ सर्वज्ञता मृषा ।

तत एवामृषा कस्मान्न स्याच्छब्दान्तरादिवत् ।। 110 ।।

एवमविद्याकल्पितत्वं निरस्य सार्वज्ञ्यस्य भेदावभासगर्भत्वादयथार्थत्वमित्यपि निरस्य ति भेदे ति । अथशब्दो यद्यर्थकः । तत एव-भेदावभासगर्भत्वादेव । अमृषा यथार्थविषया । पूर्वोत्तरार्धाभ्यां पूर्वोत्तरपक्षप्रतिपादनम् । भेदस्य मिथ्यात्वमेवासिद्धम् । येन तदवभासकस्यायथार्थत्वं मिध्येदित्याशयः ।। 110 ।।

यथा शब्दान्तराभ्याससङ्ख्यादायाः शास्त्रभेदकाः ।

भेदावभासगर्भाश्च यथार्थाः, तादृशी न किम् ।। 111 ।।

शब्दान्तरादिव दित्युक्तमेव विवृणोति यथे ति । पूर्वमीमांसायां

शब्दान्तराभ्याससङ्ख्यासंज्ञागुणप्रकरणान्तरैः कर्मभेदो निरूप्यते । ते शब्दान्तरादयः शास्त्रभेदकाः-तत्तद्विधिवाक्यस्य विभिन्नविभिन्नविधेयकत्वेन भेदव्यवस्थापकाः भेदकप्रमाणभूतास्तान्त्रिकैर्मताः, तन्मूला विधेयभेदप्रत्ययाश्च यथार्था एव यथा ; तथा सर्वज्ञता%पि पारमार्थिकार्थभेदगोचरा यथार्थैव किं न स्यादित्यर्थः ।। 111 ।।

सर्वज्ञे नित्यमुक्ते%पि यद्यज्ञानस्य सम्भवः ।

तेजसीव तमस्तस्मान्न निवर्तेत केनचित् ।। 112 ।।

परब्रह्मणि परमेश्वरे स्वतः सर्वज्ञे%विद्याया असम्भव उक्तः । तत्र तदुपगमे बाधकं चाह सर्वज्ञ इति । नित्यमुक्तस्वभावत्वात्सर्वज्ञत्वाच्च बन्धकाविद्याप्रतिभटे सर्वेश्वर एव यद्यविद्या विन्देत पदं गभस्तिमालिनीवान्धतमसं तर्हि न तस्या निवर्तकमन्यत्किञ्चिदपि सम्भवेदित्यनिवृत्तिप्रसङ्ग इत्यर्थः । ननु तत्त्वमसीतिवाक्यजन्यापरोक्षचिन्मात्रब्रह्मात्मैक्यसाक्षात्कारेणैवाविद्यानिवृत्तिरिति चेत् , नैतत्साधु, वाक्यस्यापरोक्षजनकत्वाभावात् , शुकादेः साक्षात्कारेणैवाविद्यानिवृत्तेः संसारोपलम्भविरोधात् , एकजीववादस्य च निराकरिष्यमाणत्वात् । किञ्च ब्रह्म स्वाविद्यया बम्भ्रमीति, जीवः स्वविद्यया तदुन्मोचयतीति विपरीतमिदमध्यात्मदर्शनं वेदान्तिविख्यातानाम् । स्वरूपव्याक्रियैवैतन्मतस्य पराक्रिया । तथा चामनन्ति स्म पराशरभट्टपादाः एतद्रामास्त्रं दलयतु कलिब्रह्ममीमांसकांश्च ज्ञप्तिर्ब्रह्मैतज्जवलदपि निजाविद्यया बम्भ्रमीति । तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो यद्यद्दृश्यं तद्वितथमिति ये ज्ञापयांचक्रुरज्ञाः ।। इ#िति ।। 112 ।।

प्रमाणत्वमद्वैतवचसामिति ।

नियामकं न पश्यामो निर्बन्धात्तावकादृते ।। 113 ।।

ननु भेदकप्रमाणानां सर्वज्ञत्वादिवचनानामपि व्यावहारिकार्थभेदगोचराणां व्यावहारिकमेव प्रमाण्यम् । परमार्थप्रमाणत्वं त्वद्वैतवचसामेव ।परमार्थस्तु परं ब्रह्म निर्विशेषसच्चिन्मात्रमेव । तत्र जीवेश्वरादिभेदो%प्यविद्यया विना%नुपपन्न इति ब्रह्माश्रितैव सा%नायत्या मन्तव्येति शङ्कते सर्वज्ञत्वादी ति । एतद्दूषयति नियामक मिति । त्वत्कल्पितसङ्केतबलेन विना नैवंविधव्यवस्थायां किञ्चन प्रमाणमस्ति । शास्त्रं तु न त्वदुक्तार्थे प्रमाणम् । तथाहि-द्वैताद्वैतश्रुत्योः

प्रकारनानात्वप्रकार्येकत्वपरत्वान्नन्यतरस्यापि मिथ्यार्थकत्वम् । सामानाधिकरण्यश्रुतीनां च सर्वशरीरकसर्वात्मभूतब्रह्मैक्यपरत्वमिति न जीवभावादिकल्पिका%विद्या ब्रह्मण्युपगन्तव्येति च हार्दम् । विस्तृतं चैतदाकरादाविति

विरम्यते ।। 113 ।।

आश्रयप्रतियोगित्वे परस्परविरोधिनी ।

कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते ।। 14 ।।

प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् ।

रूपभेदः कुतस्त्यो%यं यद्यविद्याप्रसादजः ।

ननु सा%पि तदायत्तेत्यन्योन्याश्रयणं पुनः ।। 115 ।।

ब्रह्मणो%विद्याश्रयत्वे दूषणान्तरं चाह आश्रये ति । प्रतियोगित्वमत्र विषयत्वरूपम् । कर्तृकर्मभावविरोधो युगपदेकत्रैकस्याभिप्रेतः । परस्परविरोधिनी ति । सदिति सत्तामात्रमेकरसं स्वप्रकाशरूपं ब्रह्म कथं स्वविषयकाविद्यायतनं भवेदाकारभेदाभावादिति भावः । आकारभेदेनाविरोधमाशङ्कते प्रत्यक्त्वेने ति । सन्मात्रमेव ब्रह्म स्वप्रकाशत्वरूपेणाहन्त्वरूपेण वा प्रत्यक्त्वेनाश्रयो%विद्यायाः, ब्रह्मत्वेन विषय इति चेदयं रूपभेदः कथमायातस्तत्र ? यद्यविद्यया, अन्योन्याश्रयप्रसङ्गः । स्वाभाविको%यमिति तु न वक्तुं शक्यते सविशेषत्वभिया परैरिति भावः जीवाविद्यापक्ष इवात्राप्यन्योन्याश्र इति पुनरित्यनेन द्योत्यते ।। 114।।115 ।।

अवस्तुत्वादविद्यायाः .....(नेदं तद्दूषणं यदि) ।

वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ।। 116 ।।

अत्र शङ्कते अवस्तुत्वा दिति । अपरमार्थाविद्याया दुर्घटत्वं भूषणमेव । नातो%न्यान्याश्रयणं दोषरूपमिति पूर्वोर्धेन शङ्कानुवादः । परिहरति वस्तुन इति । व्यावहारिक एव प्रपञ्चे%न्योन्याश्रयादिर्दोषस्तत्र तत्र कथ्यते । न तु परमार्थे । तस्य व्यवहारागोचरत्वोपगमात् । तथा चाविद्यायामपि स दोषो भवेदेवेत्यर्थः ।। 116 ।।

ससा.....उक्तारा ( स्वसाध्यस्य पुरस्कारा ) द्दोषो%न्योन्यसमाश्रयः ।

न वस्तुत्वादवस्तुत्वादित्यतो नेदमुत्तरम् ।। 117 ।।

ससा इति । अत्राशुद्धिर्ग्रन्थपातश्च वर्तते । वस्तुत्वमवस्तुत्वं वा%प्रयोजकम् । स्वसाध्यस्य-स्वाधीनसिद्धिकस्यार्थस्य स्वसिद्धौ हेतूकारादन्योन्याश्रयो दोषः प्रसज्यते । अतो%वस्तुत्वादित्युत्तरं न समीचीनमित्यर्थः ।। 117 ।।

किञ्चाविद्या न चेत् ... (वस्तु व्यवहार्यं कथं भवेत् ) ।

नाप्यवस्त्विति चो....... (क्तौ तु वस्तुत्वं सिध्यति ध्रुवम् ) ।

समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते ।

प्रतिप्रसूतं व्यस्तेन पुनस्तदिति वस्तुता ।। 120 ।।

अतो न वस्तु ना... (वस्तु न सद्वाच्यं न चाप्यसत् ) ।

( इत्यविद्याया आश्रयानुपपत्तिनिरूपणम् )

किञ्चे ति । अत्र कतिपये श्लोकावलुप्तभूयों%शका उपलभ्यन्ते%शुद्धिबहुलाश्च । दृश्यमानशकलानुसन्धानतः अविद्याया न वस्तुत्वं नाप्यवस्तुत्वमिति पक्षस्य प्रतिक्षेपः कृतो%त्रेत्युन्नयामः । यथामति पूरितं शोधितं चास्माभिर्मूल एव ( ) चिह्नमध्ये प्रदर्शितमित्यनुसन्धेयम् ।। 118।।119।।120।।121 ।।

किञ्च प्रपञ्चनिर्वाहजननी येयमाश्रिता ।

अविद्या सा किमेकैव नैका वा तदिदं वद ।।

तदाश्रयश्च संसारी तथैको नैक एव वा ।। 122 ।।

ब्रह्मणो%विद्याश्रयत्वे%नुपपत्तिमुक्त्वा जीवाविद्यापक्ष एव दूषणान्तरमाह किञ्चे त्यादिना । अविद्या एका, उताहो अनेका, तदाश्रयो जावो%प्येको%नेको वेति विकल्पः ।। 122 ।।

सा चेदेका, ततस्सैका शुकस्य ब्रह्मविद्यया ।

पूर्वमेव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ।। 123 ।।

( इत्यविद्याया एकानेकत्वविकल्प एकाविद्यापक्षदूषणं च )

तत्रैकाविद्यापक्षे दूषणमाह सा चे दिति । शुको मुक्तो, वामदेवो मुक्त इति खलु श्रौतीप्रसिद्धिः । तथा च शुकस्य ब्रह्मविद्ययैव प्रपञ्चहेतुरेका%विद्या विनष्टेति प्रपञ्चानुवृत्तिरनुपपन्ना । बाधितानुवृत्तिपक्षे%पि भवादृशानामर्वाचीनानां पुनर्मुक्त्यर्थतत्त्वज्ञानसम्पादनायासो विफल एव । बाधितं हि स्वयमेव निवत्र्स्यति कञ्चित्कालमनुवर्तमानमपीति भावः ।। 123 ।।

स्यान्मतं नैव ते सन्ति वामदेवशुकादयः ।

यद्विद्यया निरस्तत्वान्नाद्याविद्येति चोद्यते ।। 124 ।।

मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया ।

दृश्यत्वान्मामकस्वप्नदृश्यभेदप्रपञ्चवत् ।। 125 ।।

यत्पुनर्ब्रह्मविद्यातस्तेषां मुक्तिरभूदिति ।

वाक्यं तत्स्वाप्नमुक्त्युक्तियुक्त्या प्रत्यूह(ह्य)तामिति ।। 126 ।।

( इत्येकाविद्याकल्पितैकजीववादानुवादः )

अत्रैकजीववादेन परः प्रत्यवतिष्ठते स्यान्मत मिति । एक एव तु जीवः । स एव स्वाप्नवत्प्रपञ्चं पश्यति । स्वप्नदृश्यपुरुषतुल्याः शुकादयः । तन्मुक्तिवचनमपि स्वाप्नदेवदत्तमुक्तिवचनतुल्यमप्रमाणमेव । तस्य तत्त्वसाक्षात्कारत एवाविद्यानिवृत्तिर्भवितेति समुदिताशयः । अहमेवोक्तो जीवो मूलाविद्याकल्पितः । मदीयतूलाविद्याकल्पितास्त्वन्ये जीवाः । मुक्तामुक्तादिभेदो%प्येवम्भूतएवेति मदविद्यये त्यनेनाभिप्रेतम् । प्रत्यूहतामिति पाठे तद्वचनं कर्म, स्वाप्नमुक्त्युक्तियुक्तिबलेन सिद्धं प्रत्यनुमानं प्रत्यूहतां बाधतामित्यर्थः । प्रत्यूह्यतामिति पाठः सम्भाव्यते । तत्र च तद्वचनं निरुक्तयुक्त्या प्रतिरुध्यतामित्यर्थः । स्वाप्नमित्युक्तियुक्ता इति प्राचीनमुद्रितपाठस्तु न शुद्धः ।। 124।।125।।126 ।।

नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् ।

प्रपञ्चं साधयत्य(न्न)न्यः कथं प्रत्युच्यते त्वया ।। 127 ।।

त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः ।

स एव हेतुस्तस्यापि भवेत्सर्वज्ञसिद्धिवत् ।। 128 ।।

प्रतिक्षिपति वादमेनं नन्वीदृशे ति । स्वाविद्यापरिकल्पितत्वं तव प्रपञ्चस्य च साधयन्नन्यस्तुल्यनयेन त्वया कथं प्रतिक्षेप्य इत्यर्थः । तदीयानुमानस्याप्रयोजकत्वं चेत्तुल्यं तत्त्वदनुमाने%पीति भावः। सर्वज्ञसिद्धिव दिति । सुगतो यदि सर्वज्ञः

कपिलो नेति का प्रमा । उभौ च यदि सर्वज्ञौ बुद्धिभेदः कथं तयोः ।। इति न्यायेन परस्परविरोधादुभयमपि परमार्थतो न सिध्यतीति यावत् । यद्वा सर्वेषां ज्ञाना जीवानामैक्यस्य सिद्धिरिवान्यस्य सर्वस्यैकाविद्याकल्पितत्वस्यापि सिद्धिर्न सेत्स्यति । साधकत्वाभिमतस्याभासत्वादिति भावः ।। 127 ।। 128 ।।

इत्यन्योन्यविरुद्धोक्तिव्याहते भवतां मते ।

मुखमस्तीति यत्किञ्चित्प्रलपन्निव लक्ष्यसे ।। 129 ।।

परिहसति परमतं इत्यन्योन्येति । त्वमन्यान् बाधसे त्वदीयान् , त्वां चान्ये त्वदीया एवेति सुन्दोपसुन्दन्यायपराहतं युष्मन्मतमिति भावः ।। 129 ।।

यथा च स्वाप्नमुक्त्युक्तिसदृशी तद्विमुक्तिगीः ।

तथैव भवतो%पीति व्यर्थो मोक्षाय ते श्रमः ।। 130 ।।

प्रकारान्तरेणापि वादे%स्मिन् दूषणमाह यथे ति । तद्विमुक्तिगीः - शुकादेर्मुक्तिवाणी । शुकादिभिरप्यनधिगता मुक्तिर्युष्याभिः प्राप्येत्यसम्भवम् । स्वाप्नकल्पैव सा भवन्त्यपि। तद्वृथा प्रयासो युष्माकमित्यर्थः ।। 130 ।।

यथा तेषामभूतैव पुरस्तादात्मविद्यया ।

मुक्तिर्भूतोच्यते तद्वत्परस्तादात्मविद्यया ।। 131 ।।

अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् ।

सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ।। 132 ।।

मुक्त्यर्थप्रयासं परित्यज्य मुक्तिर्न भवितेत्येव साधयतेत्याह यथे ति । यथा%ध्यात्मविद्यया शुकादीनां भूतैव मुक्तिरभूतेत्युच्यते, तथा भवतां ततः पश्चाद्भाविन्यपि सा मिथ्या, न भाविन्येव वस्तुत इत्युच्यतामित्यर्थः । सामर्थ्याभाविनी तिप्राचीनमुद्रितपाठस्तु न समन्वितः ।

ननु मदीयतत्त्वज्ञाननिष्पद्यमानमुक्तिमिथ्यात्वं कथमित्यत्राह सन्ती ति । भवदीयं तत्त्वज्ञानं नाविद्यानिवर्तकं तत्त्वज्ञानत्वात् , स्वाप्नतत्त्वज्ञानवदिति हि सुवचं भवदुपदर्शितदिशैवेति भावः ।। 131।।132 ।।

ननु नेदमनिष्टं मे यन्मुक्तिर्न भविष्यति ।

आत्मनो नित्यमुक्तत्वान्नित्यसिद्धैव सा यतः ।। 133 ।।

मुक्तेरभावित्वप्रसङ्गो%स्माकमिष्ट एवेति शङ्कते ननु नेद मिति । सा-मुक्तिः ।।133।।

तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ।

येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ।। 134 ।।

परिहासमुखेन परिहरति तदिद मिति । भवत्प्रवृत्तिविरुद्धं भवदीयं मुक्त्यभावित्वसाधनमिति भावः ।। 134 ।।

अविद्याप्रतिबद्धत्वादथ सा नित्यसत्यपि ।

असतीवेति तद्व्यक्तिर्विद्याफलमुपेयते ।। 135 ।।

हस्तस्थमेव हेमादि विस्मृतं मृग्यते यथा ।

यथा तदेव हस्तस्थमवगम्योपशाम्यति ।। 136 ।।

तथैव नित्यसिद्धात्मस्वरूपानवबोधतः ।

संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया ।। 137 ।।

अत्र परिहारं शङ्कते परः अविद्ये ति । अयं भावः - यद्यपि मुक्तिर्नित्यसिद्धा ब्रह्मविद्यया नोत्पाद्या, अथाप्यविद्याप्रतिबद्धायास्तिरोभूतायास्तस्या अभिव्यक्त्यर्थ एव सफले ब्रह्मविद्यापरिश्रमः, सत एवाप्रकाशमानत्वेनासत इव

स्थितस्याभिव्यक्त्यर्थः प्रयत्नो यथा लोके सफलो दृष्टस्तथेति ।। 135।।136।।137 ।।

हन्त केयमभिव्यक्तिर्या विद्याफलमिष्यते ।

स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता ।। 138 ।।

संवित् किं सैव किं वा%हं ब्रह्मास्मीतीति कीदृशी ।

यदि स्वरूपसंवित् सा, नित्यैवेति न तत्फलम् ।। 139 ।।

अत्र यद्यप्येकाविद्यापक्षे शुकस्य ब्रह्मविद्ययैवाविद्याप्रतिबन्धनिवृत्तेरन्यदीयप्रयत्नवैफल्यं स्थितम् । अथापि दूषणान्तरमाह हन्ते त्यादिना । नाना%विद्यापक्षसाधारणमिदम् । किमितरानपेक्षप्रकाशैकरूपस्य चित्तत्त्वस्य स्वरूपमेव विद्यासाध्या%भिनिष्पत्तिः, प्रत्युताहं ब्रह्मास्मीति वृत्तिधीः

साक्षात्काररूपेत्यर्थः । ब्रह्मास्मीतीत्यस्याग्रे वृत्तिधीरित्याहार्यम् । इति कीदृशी-इत्येवं जिज्ञासितप्रकारा ब्रह्मास्मीतीति वृत्तिधी रिति वा पाठः स्यात् । अपर इतिकारो विकल्पसमाप्तौ । आद्ये कल्पे दूषणमुच्यते यदी त्यर्धेन ।। 138।।139।।

अथ ब्रह्माहमस्मीति संवित्तिर्व्यक्तिरिष्यते ।

ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ।। 140 ।।

द्वितीये दूषणमुच्यते अथे
ति । संवित्तिः - साक्षात्कारः । न हि ब्रह्मविद्यासाध्यं प्रकाशान्तरं मुक्तौ भवतेष्यते । तत्सैव तस्याः फलमिति वक्तव्यम् । तन्न संभवीति भावः ।। 140 ।।

किञ्च सा तत्त्वमस्यादिवाक्यजन्या भवन्मते ।

उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् ।। 141 ।।

अत्र कल्पे दूषणान्तरं चाह किञ्चे ति । नित्यशुद्धबुद्धमुक्तात्मस्वभावस्याभिव्यक्तिर्वृत्तिरूपा चेत्तस्या उत्पादविनाशयोगित्वात्तन्निवृत्तौ पुनरविद्या समुन्मिषेदिति संसृतिभयानतिवृत्तिप्रसङ्ग इत्यर्थः । ननु पूर्वाविद्यां विनाश्य विद्या स्वयमपि नश्यति । अविद्यानिवृत्त्या च न पुनर्भवप्रसङ्ग इति चेत् ; अत्र ब्रूमः - अनादिभावस्य नाशायोगात् तत्त्वसाक्षात्कारेणाविद्याया नात्यन्तिकोच्छेदः शक्यक्रियः । सावशेषोच्छेदे तु सूक्ष्मरूपेणावस्थितायास्तस्या अभिव्यक्तेर्निवृत्तौ पुनः स्थूलतयोन्मेषप्रसङ्गः । न चानादिभावरूपाया अपि मिथ्यात्वादेव आत्यन्तिकोच्छेदः क्रियते विद्ययेति वाच्यम् , तन्मिथ्यात्व एव विगानात् ; युक्तेराभासत्वाच्छास्त्रस्य चान्यपर्यायादिति दिकू ।। 141 ।।

अपि च व्यवहारज्ञाः सति पुष्कलकारणे ।

कार्यं न जायते येन तमाहुः प्रतिबन्धकम् ।। 142 ।।

इह किं तद्यदुत्पत्तुमुपक्रान्तं स्वहेतुतः ।

अविद्याप्रतिबद्धत्वादुत्पतिं्त न प्रपद्यते ।। 143 ।।

न मुक्तिर्नित्यसिद्धत्वात् , न ब्रह्मास्मीतिधीरपि ।

न हि ब्रह्माय(ह)मस्मीति संवित्पुष्कलकारणम् ।

संसारिणस्तदा%स्तीति कथं सा प्रतिबध्यते ।। 144 ।।

यतः सा कारणाभावादिदानीं नोपजायते ।

न पुनः प्रतिबद्धत्वादस्थाने तेन तद्वचः ।। 145 ।।

( इत्येकजीववादे मुक्त्यर्थप्रवृत्तिवैयर्थ्यादिनिरूपणम् )

अथाविद्यायाः नित्यमुक्तभावव्यक्तिप्रतिबन्धकत्ववचनमपि परेषामनुपपन्नमित्याह अपिचे ति । सति पुष्कलकारणे कार्योत्पत्तेर्विघटकत्वं हि प्रतिबन्धकत्वम् । मुक्तेरनिष्पाद्यत्वात्तत्प्रतिबन्धकत्वमविद्याया न घटते । संसारिणश्च विषयप्रावण्यदसायां तत्त्वसाक्षात्कारपुष्कलकारणसम्पत्तेतेवासिद्ध्या तदनुदय इति न तत्रापि प्रतिबन्धकत्वं तस्या घटत इत्यर्थः । संविदः पुष्कलकारणमिति तत्पुरुषः । सिद्धान्ते तु विद्याप्रागभावरूपाया अविद्याया न विद्याप्रतिबन्धकत्वम् । कर्मणस्तु विद्यानुत्पत्तिप्रयोजकस्य निष्कामकर्मभिर्निरासे स्वकारणाद्विद्यानिष्पत्तिः । विद्यामाहात्म्याच्च बन्धककर्मनिवृत्तौ कर्मणा सङ्कुचितप्रसरणस्य स्वाभाविकमसङ्कुचितं प्रसरणं धर्मभूतज्ञानस्य सदा मुक्ताविति विशेषो बोध्यः । अत्र परे प्रत्यवतिष्ठेरन् - नन्वस्मन्मते%पि वस्तुतत्त्वाविशदप्रकाशकरी नानाभ्रमहेतुरविद्या%नादिरिष्यते । विद्यया तन्निवृत्तौ च

स्वाभाविको विशदावभासः । विशदप्रकाशप्रतिरोधकरत्वादेव च प्रतिबन्धकत्ववाचोयुक्तिस्तस्या इति । तान् प्रति ब्रूमः-विशदप्रकाशप्रतिरोधकत्वं किन्तदुत्पत्तिनिरोधकत्वम् , उताहो तन्निवृत्तिकरत्वम् । ब्रह्मस्वरूपभिन्नत्वे विशदप्रकाशस्य ब्रह्मणः सविशेषत्वप्रसङ्गात्तदभिन्नत्वे वाच्ये%नुत्पाद्यत्वादेव तस्य तत्प्रतिरोधकत्वायोगान्नाद्यः कल्पः । द्वितीये च ब्रह्मस्वरूपस्यैव निवृत्तिप्रसङ्गः । वैशद्यमेव निवर्तते, प्रकाशस्त्वनुवर्तत इति च निर्विशेषवादिना वक्तुं न शक्यते । किञ्च विशदप्रकाशप्रतिरोधिकायां सत्यामविद्यायां कथं साक्षात्कारो भवेत् ? सो%प्यविशदश्चेत्प्राथमिकश्रावणज्ञानस्येवाविद्यानिवर्तकत्वायोगः । किञ्चाविद्यानिवृत्तौ विशदसाक्षात्कारः, तेनैव चाविद्यानिवृत्तिरित्यन्योन्याश्रयः । किञ्चाविद्यानिवृत्त्यनन्तरबाविनो विशदानुभवस्य प्रागसत्त्वे मुक्तेरनित्यत्वम् , सत्त्वे च संसारानुपपत्तिः संसारानुपपत्तिः प्रसज्यते । नच निवृत्ताविद्यत्वमेव स्वरूपप्रकाशस्य स्वरूपप्रकाशस्य वैशद्यमिति वाच्यम् , स्वप्रकाशमात्रवपुषि सदा विद्योतमाने निर्विशेषे चिन्मात्रे ब्रह्मणि अविद्यान्वयायोगात्प्रगपि वैशद्यस्यैवोपगन्तव्यत्वात् । दुर्घटत्वात्तत्र पदमञ्चत्यविद्येति चेत्तर्हि तत एव मुक्तावप्यविद्यान्वयप्रसक्तिरिति मुक्तस्यापि भयं भवेदेवेति ।। 142।।143।।144।।145 ।।

किञ्चैको जीव इत्येतद्वस्तुस्थित्या न युज्यते ।

अविद्यातत्समाश्लेषजीवत्वादी मृषा हि ते ।। 146 ।।

एकजीववादे दूषणान्युक्तानि । अथ तस्योपलम्भबाधितत्वमाह किञ्चैक इति । एको वा जीवः परमार्थोनेष्यते । मिथ्या%विद्याकल्पितत्वेन जीवभावस्य मिथ्यात्वात् । तथा च मिथ्याभूतस्यैकस्यानेकस्य वा जीवस्योपगमे न विशेषो विना%भिनिवेशादित्यर्थः ।। 146 ।।

प्रातिभासिकमेकत्वं प्रतिभासपराहतम् ।

यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ।। 147 ।।

एको जीव इति किमेकस्यैव प्रतिभासादुपगम्यते, आहोस्विन्नानात्वेन भासमानस्यापि तस्य युक्त्यैकत्वं निष्कृष्यत इति विकल्पमभिप्रेत्याद्यं कल्पं दूषयति प्रादिभासिक मिति । स्पष्टो%र्थः ।। 147 ।।

आसंसारसमुच्छेदं व्यवहाराश्च तत्कृताः ।

अबाधिताः प्रतीयन्ते स्वप्नवृत्तविलक्षणाः ।। 148 ।।

नानाजीवभानस्य न व्यवहाहकाल एव बाध्यत्वं शुक्तिरूप्यादेरिवेत्याह आसंसारे ति । तत्कृताः-जीवभेदप्रयोज्याः । स्वप्नवृत्तविलक्षणाः-स्वाप्नार्थव्यवहारविलक्षणाः ।अयमाशयः-यथा स्वाप्नार्थव्यवहाराणां स्वप्न एवासत्त्वं पाश्चात्यबाधान्निश्चीयते व्यवहारदशायामेव, नैवं तदैव जीवभेदप्रयुक्तव्यवहारभेदानां बाधो निश्चितः । किन्त्वन्यजीवकृतस्योपकारस्यापकारस्य वा सत्त्वप्रतीत्यैव आप्राज्ञादाबालगोपालं तदनुगुणप्रवृत्तिसंरम्भो दृश्यते%नुवर्तमान आप्रलयात् । व्यवहारकाले%बाध्यत्वाच्च जीवभेदस्य व्यावहारिकत्वमेव परप्रक्रियया%पि, न प्रातिभासिकत्वम् । जीवभेदोमिथ्या प्रतिभासमानत्वात्स्वाप्नपुंभेदवदित्यनुमानं च व्यवहारदशाबाध्यत्वेन सोपाधिकम् । तथा च सूत्रं वैधर्म्याच्च न स्वप्नादिव दितीति ।। 148 ।।

तेन यौक्तिकमेकत्वमपि युक्तिपराहतम् ।

प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ।

तत्तत्स्वात्मवदन्ये%पि देहिनो%शक्यनिह्नवाः ।। 149 ।।

उक्तेनैव हेतुना यौक्तिकैकत्वनिष्कर्षमपि निराकरोति तेने ति । तेन-जीवभेदस्य व्यवहारकालाबाधेन । सर्वे जीवा अहमेव जीवत्वादहमिव, सर्वाणि शरीराणि मयैवात्मवन्ति शरीरत्वात् मच्छरीरवदिति जीवैक्ययुक्तिर्जीवभेदसाधकयुक्तिपराहतेत्यर्थः । जीवभेदयुक्तेः प्राबल्यं च व्यवहाराभाध्यविषयत्वादुपलम्भानुगुण्याच्चेति बोध्यम् । ननु का सा जीवनानात्वयुक्तिः ? तामाह प्रवृत्तिभेदे ति । तत्तद्देहगतविलक्षणप्रवृत्तिभेदानुमिताः तत्तदनुगुणविरुद्धज्ञानसङ्कल्पप्रयत्नवन्तो%न्ये देहिनो%पि स स स्वात्मेव स्वशरीरप्रवृत्त्यनुगुणज्ञानादिमान् प्रत्यात्मसिद्धो न

निह्नोतु शक्यन्ते इत्यर्थः । मितिवृत्तिग्रहणं सङ्कल्पस्याप्युपलक्षणम् । परशरीराणिसात्मकानि चेष्टावत्त्वात् स्वशरीरवदिति सात्मकत्वे%नुमिते तदात्मनां स्वात्मभेदः परिशेषात् सिध्यति, परशरीरप्रवृत्तिहेतुभूतसङ्कल्पप्रयत्नस्य स्वासमवेतत्वे सति गुणत्वात्स्वभिन्नसमवेतत्वानुमानात् । स्वासमवेतत्वं च तस्य स्वस्य तदा भिन्नसङ्कल्पप्रवृत्तिमत्त्वादेव सुनिश्चेयमिति

बोध्यम् ।। 149 ।।

यथा%नुमेयाद्वह्न्यादेर(रा)नुमाना विलक्षणाः ।

प्रत्यक्षं ते (क्ष्यन्ते)तथा%न्येभ्यो जीवेभ्यो न पृथक् कथम् ।। 150 ।।

साध्यानां परात्मनां निदर्शनीभूतस्वात्मभिन्नत्वे निदर्शनं प्रदर्शयति यथे ति । आनुमानाः अनुमानप्रयोजकाः सपक्षदृष्टाः वह्नयो%नुमेयात्पर्वतीयवह्नेर्यथा भिन्नाः व्याप्तिग्रहणकाले%ध्यक्षिताः, तथा%नुमेयेभ्यः परदेहस्थात्मभ्यः शरीरप्रवृत्तिचेतनसह्कल्पप्रयत्नपूर्वकत्वव्याप्तिग्रहकाले गृहीतं त्वदीयात्मस्वरूपं त्वच्छरीरप्रवृत्तिहेतुसङ्कल्पादिमद्भिन्नत्वेन कुतो न प्रत्यक्षम् ? अपि तु प्रत्यक्षमेवेति यावत् । जीवानामैक्यसाधनं वह्नीनामैक्यसाधनवदप्रयोजकमुपलम्भबाधितं चेति हार्दम् ।। 150 ।।

न चेञ्चेष्टाविशेषेण परो बोद्धा%नुमीयते ।

व्यवहारो%वलुप्येत सर्वो लौकिकवैदिकः ।। 151 ।।

परात्मसु साधकमुक्तम् । तदनुपगमे बाधकमप्याह न चे दिति । परदेहेषु परात्मनश्चेष्टाविशेषैरनुकूलप्रतिकूलोदासीनानूहित्वैव हि तत्तदनुगुणा व्यवहाराः दृष्टा लोके, जीवभेदप्रयुक्ता एव चाधिकार्यनधिकारिविभागादिव्यवहाराः शास्त्रीया दृष्टाः । तेषामुपरोधः प्रसज्यते जीवभेदानुपगम इति भावः ।। 151 ।।

न चौपाधिकभेदेन मेयमातृविभागधीः ।

स्वशरीरे%पि तत्प्रप्तेः शिरःपाण्यादिभेदतः ।। 152 ।।

ननु संविन्मात्रमेकमेव नानोपाधियोगान्नानाजीवतया भाति ।औपाधिकजीवभेदप्रयुक्त एव व्यवहारभेदः, स्वभावासङ्करश्च । उपाधिभेदो%पि कल्पित तवेत्याशङ्कामनूत्या परिहरति न चौपाधिके ति । मेयविभागनिर्देशो निदर्शनार्थः प्रासङ्गिकः । औपाधिकभेदेन व्यवस्थोपगमे शिरःपाणिपादोपाधिभेदेनापि तत्तदवच्छिन्नचितो भेदप्रसङ्गः । तथा च पादे मे वेदना, शिरसि सुखमित्यादिप्रतिसन्धानानुपत्तिरिति यावत् ।। 152 ।।

त(य)था तत्र शिरःपाणिपादादौ वेदनोदये ।

अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ।। 153 ।।

ननूपाधिभेदे%प्यभेदाच्चितः प्रतिसन्धानमिति चेत्तत्राह तथे ति । तथेत्यनिष्टसमुच्चयार्थः । यथेति वा स्यात् । वस्तुतः सर्वशरीरेषु चित ऐक्यात्सर्वगतसुखादिप्रतिसन्धानप्रसङ्ग इत्यर्थः । न च शरीरभेदस्यै वात्मभेदकत्वम् , ननु करचरणादिभेदस्येति वाच्यम् , सौभर्यादौ शरीरभेदे%पि प्रतिसन्धानस्य दृष्टत्वात्तस्यापि भेदकत्वायोगात् । नच तत्तत्पुरुषीयकर्माधीनदेहस्यैव तत्तद्भोगावच्छेदक्त्वमिति व्यवस्था । सौभर्यादेर्युगपन्नानादेहयोगो%पि तक्तर्मकृत एव । नत्वस्मदादेस्तथेति वाच्यम् , औपाधिकात्मभेदवादे प्रतिकर्मव्यवस्थाया अपि दुर्घटत्वात् ; उपाधेस्तदीयत्वं तत्कर्मणा, उपाधिव्यवस्थयैव च तत्कर्मव्यवस्थितिरिति परस्पराश्रयाच्चेति दिक् । अतो जीवभेदेनैव वास्तवेन भोगादिसाङ्कर्यं परिहार्यमित्याशयः ।। 153 ।।

प्रायणान्नरकक्लेशात् प्रसूतिव्यसनादपि ।

चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः ।। 154 ।।

ननु शरीरभेदे%प्यात्मैक्यात्प्रतिसन्धाने जन्मान्तरे%नुभूतस्यापि जन्मान्तरे प्रतिसन्धानं स्यादित्यत्राह प्रायणा दिति । प्रबलदुःखानुभवस्य संस्कारप्रमोषकत्वं दृष्टं लोके प्रबलज्वराद्यर्दितस्याधीतविस्मरणादिना । जन्मभेदे च मरणनरकगर्भवासजन्मकालप्रभवक्लेशबाहुल्येन संस्कारविनाशात्पूर्वजन्मानुभूतस्मरणं जन्मान्तरे च जायत इत्यर्थः । कालदैर्घ्यस्यापि संस्कारप्रमोषकत्वमभिप्रेत्योक्तं चिरातिवृत्ता इति । जीवनादृष्टबलात्तु संस्कारविशेषस्याविनष्टत्वं जातमात्र उद्भूतत्वं च कल्प्यते । केषाञ्चित्तु पुण्यातिशयेन संस्काराप्रमोषात्पूर्वजन्माद्यविस्मरणमपि लोकशास्त्रसम्प्रतिपन्नमेवेति बोध्यम् ।। 154।।

युगपज्जायमानेषु ...... (सुखदुखादिषु स्फुटः) ।

आश्रयासङ्करस्तत्र कथमैकार्थ्यविभ्रमः ।। 155 ।।

( इत्येकाविद्याकल्पितैकजीववादनिरासः )

युगप दिति । एकक्षण एव जायमानेषु नानासुखदुःखानुभवेषु कालदैर्घ्यादिसंस्कारप्रमोषकविरहे%पि अस्मरणादि

आत्मनामसङ्करात् अनक्यादेव व्यवस्थाप्यम् । तथा चैकात्म्यधियो भ्रान्तिरूपाया अपि नोदयावसरः, आत्मभेदस्यैव स्फुटप्रतिभानादितिभावः । एकमेकाविद्याकल्पितैकजीववादे दूषणानि प्रपञ्चितानि ।। 155 ।।

न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकैः ।

जीवैरनेकैरप्येषा लोकयात्रोपपद्यते ।। 156 ।।

परवार्ता%नभिज्ञास्ते स्वस्वस्वप्नेकदर्शिनः ।

कथं प्रवर्तयेयुस्तां सङ्गाद्येकनिबन्धनाम् ।। 157 ।।

नाना%विद्याकल्पितनानाजीववादमपि दूषयति न चे ति । अविद्याकल्पिताश्चितो नानाजींवभेदाः । ते च स्वस्वाविद्याकल्पितं पदार्थजातं पश्यन्ति पृथक् पृथक् स्वप्न इव । व्यावहारिका अन्ये जीवा अन्येन न ज्ञायन्ते । स्वेन दृश्या जीवास्तु स्वाप्नवत्प्रातिभासिका एवेत्येतत्पक्षसारः । अत्र चान्यं जीवं तद्गुणदोषादि वा व्यावहारिकमन्यो जीवस्तथाभूतो न जानाति चेत्तर्हि तत्समागमादिप्रसङ्गाभावात् सहानुभूतयैकसाध्यो%नुवृत्तो लोकव्यवहारः कथं निर्वर्त्येतेत्यर्थः । स्वाविद्याकल्पितमेव पश्यन्तीत्युक्त्या परवार्ता%नभिज्ञत्वं-व्यावहारिकजीवान्तरवृत्तानभिज्ञत्वं सिध्यति । न हि ते जीवान्तराविद्याकल्पिताः । किन्तु मूलाविद्याकल्पिता एव । लोकव्यवहारो%पि प्रातिभासिक एवेति चेत्तर्हि एकजीववादोन्मेषः । तत्र च दोष उक्त एवेति हार्दम् ।। 156।।157 ।।

किञ्च स्वयंप्रकाशत्वविभुत्वैकत्वनित्यताः ।

त्वदभ्युपेता बाधेरन् संविदस्ते%द्वितीयताम् ।। 158 ।।

संविन्मात्रे%विद्याकल्पितो मेयमातृभेद इति परमतं विस्तरेण प्रतिक्षिप्तमेतावता । अथ संविदि पराभिमतं निर्विशेषत्वं प्रतिक्षिपति किञ्चे त्यादिना । ते इत्यस्याग्रे मतामिति शेषः । भवदभिमतैरेव धर्मैः सविशेषत्वं संविदः प्रसज्यत इति भावः ।। 158 ।।

संविदेव न ते धर्माः, सिद्धायामपि संविदि ।

विवाददर्शनात्तेषु ; तद्रूपाणां च भेदतः ।। 159 ।।

स्वरूपाभेदात्तेषां न संविदः सधर्मत्वमिति शङ्कामनूद्य निराचष्टे संविदेवे ति । सम्प्रतिपन्ने%पि संवित्स्वरूपे तन्नित्यत्वविभुत्वैकत्वस्वप्रकाशत्वादौ बौद्धनैयायिकमीमांसकादीनां विवादात् स्वरूपभेदाच्च तेषां धर्माणां संवित्तो न संप्रतिपन्नसंविदभिन्नत्वं तेषां युज्यत इत्यर्थः । स्वरूपभेदश्चात्मसिद्धौ निरूपितो%नुसन्धेयः ।। 159 ।।

न च ते भ्रान्तिसिद्धास्ते येनाद्वैताविरोधिनः ।

तत्त्वावेदकवेदान्तवाक्यसिद्धा हि ते गुणाः ।। 160 ।।

नन्वेवमपि तेषामपरमार्थत्वात्परमार्थद्वितीयराहित्यं सुरक्षितमेवेति चेत्तत्राह न च ते इति । तवापि तत्त्वेदम्परश्रुत्यन्तसिद्धास्ते धर्मास्संविदो नित्यत्वादय इत्येव मतम् । तत्तैः सविशेषत्वं दुर्वारम् । तेषां बाधे तुल्यनयेन संविदो%पि बाधः स्यादिति द्योत्यते तत्त्वावेदके त्यादिना ।।

160 ।।

आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्यथ ।

ब्रह्मस्वरूपमेवेष्टं, तत्रा#ीदं विविच्यताम् ।। 161 ।।

ब्रह्मस्वरूपाभेदस्यैव तद्धर्मेषु पराभिमतत्वात्तत्र प्राकारान्तरेणापि दूषणमाह आनन्दे ति । आनन्दशब्दो भावप्रधानः । महिमा-विभुत्वम् । आदिपदादेकत्वादि ग्राह्यम् । अथेति यद्यर्थकम् । अव्ययानामनेकार्थत्वात् ।। 161 ।।

ब्रह्मेति यावन्निर्दिष्टं तन्मात्रं किं सुखादयः ।

अथवा तस्य ते, यद्वा त एव ब्रह्मसंज्ञिनः ।। 162 ।।

विकल्पयति परमतं ब्रह्मेती ति । किमानन्दत्वादयो ब्रह्मस्वरूपमात्रम् , उत तन्निष्ठा धर्माः, आहोस्वित्तेषामेव प्रत्येकं ब्रह्मसंज्ञा, समुदितानां वेति विकल्पः ।। 162 ।।

आद्ये तत्तत्पदाम्नानवैयर्थ्यं वेदलोकयोः ।

पूर्वोक्तनीत्याभेदश्च, जगज्जन्मादिकारणम् ।। 163 ।।

अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् ।

द्वितीये सैव तैरेव ब्रह्मणः सद्वितीयता ।। 164 ।।

आद्ये इति । अत्यन्ताभेदे%नतिरिक्तार्थकत्वात् आनन्दो ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्मेत्यादौ सहपाठस्यानर्थक्यं प्रसज्यते । न हि घटः कलश इति सहपाठः । ब्रह्मस्वरूपैक्यासम्भवं च तेषु धर्मेषु स्मारयति पूर्वोक्ते ति । द्वितीये कल्पे तु ब्रह्मणः सविशेषत्वप्रसङ्ग इत्याह द्वितीय इति । सैव-भवदभिमतविरुद्धैव ।। 163।।164 ।।

तृतीये ब्रह्म भिद्येत तन्मात्रत्वात्पदे पदे ।

तत्समूहो%थवा ब्रह्म तरुवृन्दवनादिवत् ।। 165 ।।

तृतीये प्रत्येकसमुदायकोट्योः प्रत्येककोटिं दूषयति तृतीये इति । प्रत्येकशो ब्रह्मत्वमित्यत्र नाना ब्रह्म प्रसज्यते सत्यं ब्रह्म, ज्ञानं ब्रह्म, अनन्तं ब्रह्म, आनन्दो ब्रह्मेति ; खण्डो मुण्डः पूर्णशृङ्गोगौरित्यत्रेवेत्यर्थः । तन्मात्रत्वात्-तत्तन्मात्रस्वरूपत्वाद्ब्रह्मणः । सत्यत्वादिसमुदायो ब्रह्मेत्यत्र दोषमाह तत्समूह इति । विनाशव दिति मुद्रितः पाठो%शुद्धः । तरुवृन्दस्य वनत्ववत्सत्यादिसमुदायस्य ब्रह्मत्वे, समुदायस्य समुदाय्यनन्यत्वे प्रत्येकपक्षोक्तदूषणानतिवृत्तिः, अतिरिक्तत्वे सांशत्वं गुणत्वं च प्रसज्यते ब्रह्मण इति भावः ।। 165 ।।

प्रकर्षश्च प्रकाशश्च भिन्नावेवार्कवर्तिनौ ।

तेन न क्वापि वाक्यार्थो विभागो%स्ति निदर्शनम् ।। 166 ।।

ननु सत्यादिवाक्यमखण्डार्थपरं स्वरूपलक्षणवाक्यत्वात् , दिवा दिवि प्रकृष्टप्रकाशः सूर्यः, निशि च तथाभूतश्चन्द्र इतिवदिति निर्विशेषब्रह्मसिद्धिरित्यत्राह प्रकर्षश्चे ति । दृष्टान्तो%पि न केवलरव्यादिस्वरूपमात्रपरः, किन्तु रव्यादिव्यपदेशगोचरार्थस्यासाधारणाकारप्रदर्शनपर इति निर्विशेषाद्वैतरूपो%खण्डः समानाधिकरणवाक्यार्थो निदर्शनभूतो नैवास्तीतिभावः । क्वापि-क्वचिदपि समानाधिकरणवाक्ये । अविभागः-अखण्डः ।। 166 ।।

जाड्यदुःखाद्यपोहेन यद्येकत्रैव वर्तिता ।

ज्ञानानन्दादिशब्दानां न सतस्सद्वितीयता ।। 167 ।।

अत्र शङ्कते परः जाड्ये ति । ज्ञानादिपदं न ज्ञानत्वादिविशेषं प्रतिपादयति । किन्तु जडत्वाद्यपोहमेव । अपोहस्तु व्यावृत्तिरभावो%धिकरणस्वरूपमेवेति न ब्रह्मणः सविशेषत्वप्रसङ्गः । जडादितत्तत्पदार्थप्रतियोगिकव्यावृत्तिस्वरूपत्वबोधनेन चार्थवत्ता पदानामिति शङ्कितुराशयः । नेत्यतः पूर्वम् अतश्चे ति योज्यम् । परपक्षानुवादकः श्लोको%यम् ।। 167 ।।

अपोहाः किं न सन्त्येव, सन्तो वा, नोभये%पि वा ।

सत्त्वे सत्सद्वितीयं स्यात् जडाद्यात्मकतेतरे (ता परे) ।। 168 ।।

अत्र विकल्प्य दोषमाह अपोहा इति । नोभये-न सन्तो नाप्यसन्तः, सदसद्विलक्षणा इति यावत् । अपोहानां सत्त्वे दोषमाह सत्त्वे इति । अपोहानां सत्त्वे तैः सतः सद्वितीयता स्यादित्यर्थः । असत्त्वे दूषणं जडाद्यात्मके ति । जाड्याद्यपोहानामभावे जाड्यादिप्रसङ्ग इति यावत् । सत्त्वसत्सद्वितीयः स्वाज्जडाद्यात्मकतेतरे इति । मुद्रितपाठो%शुद्धः ।। 168 ।।

सदसद्व्यतिरेकोक्तिः पूर्वमेव पराकृता ।

तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ।। 169 ।।

तृतीयं प्रतिक्षिपति सदस दिति । सद्व्यतिरेके%सत्त्वम् , असद्व्यतिरेके च सत्त्वं व्यवस्थितमिति सदसद्भिन्नत्वं कस्यापि न सम्भवतीति पूर्वमेवोक्तमित्यर्थः । दूषणान्तरमाह तथात्व इति । अपोहानां ब्रह्मस्वरूपत्वे सदसद्विलक्षणत्वे च ब्रह्मणः सदसद्विलक्षणत्वं प्रसज्यते प्रपञ्चस्येवेति भावः ।। 169 ।।

किञ्चापोह्यजडत्वादिविरुद्धार्थासमर्पणे ।

नैव तत्तदपोह्येत तदेकार्थैः पदैरिव ।। 170 ।।

दूषणान्तरमाह किञ्चे ति । जडादिव्यावर्तकधर्मबोधनमन्तरा जडादिव्यावृत्तिर्न प्रतिपादयितुं

शक्यते सत्यादिपदैर्जडादिपर्यायपदैरिवेति व्यावर्तकधर्मबोधकत्वमवर्जनीयम् । तथाच तैर्धर्मैः सविशेषत्वं ब्रह्मणो दुर्वारमित्यर्थः । तत्तत्-जडत्वादि, अपोह्येत-व्यावर्त्येत ।। 170 ।।

प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ।

सैवाभाव इतीहापि सद्भिस्ते सद्वितीयता ।। 171 ।।

( इति सविशेषत्वोपपादनेन संविदो निर्विशेषत्वनिरसनम् )

ननु व्यावर्तकधर्मवत्त्वं न बोध्यते । किन्तु जडादिव्यावृत्तिरूपत्वमेव बोध्यते ज्ञानादिपदैर्ब्रह्मणः । तन्न जडत्वादिप्रसङ्ग इति चेत्तत्राह प्रतियोगिनी ति । योग्ये प्रतियोगिन्यनुपलभ्यमाने%धिकरणमात्रज्ञानमेव तदभाव इति ज्ञानविशेषरूपत्वादभावस्य ज्ञानविशेषरूपैः सत्यादिपदलक्ष्यार्थैरभावैर्भावरूपैः सविशेषता ब्रह्मणः प्रसज्यत इत्यर्थः । अभावस्य ज्ञानविशेषरूपत्वमिति मतविशेषेणेदम् । यद्वा भावान्तरमात्रधीरिति उपलभ्यमानं भावान्तरमित्यर्थे पर्यवसन्नम् । योग्ये प्रतियोगिन्यनुपलभ्यमाने तत्राधिकरणे यद्भावान्तरमुपलभ्यते तदेव प्रतियोगिव्यपेक्षया%भावव्यपदेशभागिति अधिकरणवृत्तिधर्मान्तररूपत्वादभावानां तैः सविशेषत्वं प्रसज्यत इति भावः । द्वव्ये%भावो धर्मरूपः । धर्मस्य तु स्वपरनिर्वाहकत्वेन स्वरूपमेवाभावः, सति सम्भवे धर्मान्तरं वेति यथोपलम्भं व्यवस्था । यस्मिन् प्रतीयमाने इतरारोपो न घटते, तस्यैव तदभावरूपत्वम् । सत्स्वरूपे प्रतीयमान एव भेदानामध्यासाच्च तत्र तस्यैव नेतराभावरूपत्वं सम्भवि । न चाविद्यया%विशदं भासमाने सति भेदभ्रमः । अविद्यानिवृतौ विशदं भासमाने तु न स इति विशदस्वरूपस्याभावरूपत्वं सम्भवतीति वाच्यम् । वैशद्यस्य स्वरूपत्वे पूर्वमप्यविद्यादिभेदारोपायोगात् । स्वरूपातिरिक्तत्वे तु तस्यैवाभावरूपत्वं न स्वरूपस्येति प्रसङ्गात् । किञ्च निर्विशेषे स्वप्रकाशे वस्तुनि विशादाविशदभानमेव दुर्वचम् । सविशेषे तु कतिपयाकारेण भानमविशदम् , सर्वाकारभानं विशदमिति विशेषः । किञ्च ब्रह्मणो द्रव्यत्वे सधर्मकत्वम् , अद्रव्यत्वे तु कस्यचिद्धर्मरूपत्वं प्रसज्यते । द्रव्याद्रव्यविलक्षणत्वं तु न सम्भवीत्यादिकमनुसन्धेयमत्र । इहापीत्यपिना सत्यादिपदानामपोहलक्षणायामपि न निर्विशेषत्वसिद्धिः । लक्षणाकल्पनायास एव विशिष्यच इति द्योत्यते । एवमपोहरूपाणामपि सत्यत्वादीनां सदसदनिर्वचनीयत्वं निरस्तम् ।। 171 ।।

भूतभौतिकभेदानां सदसद्व्यतिरेकिता ।

कुतो%वसीयते किं नु प्रत्यक्षादेरुतागमात् ।। 172 ।।

प्रत्यक्षादीनि मानानि स्वस्वमर्थं यथायथम् ।

व्यवच्छिन्दन्ति जायन्त इति या (ता) वत् स्वसाक्षिकम् ।। 173 ।।

अथ प्रपञ्चस्यापि प्रसङ्गात्सदसदनिर्वचनीयत्वं परमतं निरस्यति भूते त्यादिना । प्रत्यक्षादीनी ति । स्वस्वप्रमेयं यथायथं तत्तदसाधारणाकारतो विजातीयसजातीयान्तरव्यत्तमवगमयन्ति प्रत्यक्षादीनीति प्रसिद्धम् । तदसाधारणाकारेण सद्भाव एव वस्तूनां प्रमाणानितानि , न तु सदसदनिर्वचनीयत्व इति भावः ।। 172 ।। 173 ।।

यथा%ग्रतः स्थिते नीले नीलिमान्यकथा न, धीः ।

एकाकारा , न हि तथा स्फटिके धवके मतिः ।। 174 ।।

क्षीरे मधुरधीर्यादृक् नैव निभ्बकषायधीः ।

व्यावहाराश्च नियताः सर्वे लौकिकवैदिकाः ।। 175 ।।

एतदेवोपपादयति यथेति । नीले नीलमतिः , स्फटिके धवलमतिश्च नैकविषया , किन्तु परस्परव्यावृत्तगुणविषयैव ; तथा क्षीरे मधुरधीः , निम्बे कषायधीश्च । तथा चार्थभेदालम्बनत्वं ज्ञानानां स्थितमिति भावः । नीले नीलबुद्धिरेकाकारा एकविषया । तत्र नीले न नीलान्यगुणप्रसङ्गः । धवलमतिस्तु ततो भिद्यते भिन्नाकारेत्यर्थः । नैवेत्यस्याग्रे तादृगिति आक्षिप्यते । नैवमिति वा पाठः स्यात् । तत्तद्वस्त्वसाधारणाकारभेदे%बाधितप्रतीतिमुक्त्वा व्यवहारमपि तादृशमुपन्यस्यति प्रमाणतया व्यवहारा इति । अबाधितप्रत्यक्षादिप्रमाणतन्मूलव्यवहारबलाद्वस्तूनां तत्तदसाधारणाकारेण सत्त्वमेवोपेयमिति भावः ।। 174 ।। 175 ।।

सत्यं प्रतीतिरस्त्यस्या मूलं नास्तीति चेन्न तत् ।

सा चेदस्ति तस्या मूलं कल्प्यतां कार्यभूतया ।। 176 ।।

शङ्का%त्रानूद्यते सत्यमिति । परिहरति न त दिति । साघु इति शेषः । कार्यबलात्तदनुगुणं मूलमबाधितप्रतीतीनां यथार्थ्यव्यवस्थापकमनुमीयतामिति भावः ।। 176 ।।

क्लृप्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ।

यौगपद्यक्रमायोगाद्व्यवच्छेदविधानयोः ।। 177 ।।

ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ।

भेदेतरेतराभावविवेकाग्रहणेन सः ।। 178 ।।

अदुष्टेन्द्रियादेरेव मितियाथार्थ्ये हेतुत्वमन्वयव्यतिरेकसिद्धं नापलप्यं चेत्याह क्लृप्त मिति । वस्तुभेदो निर्दुष्टेन्द्रियरूपेण प्रत्यक्षप्रमाणेनैव गृह्यते इति यावत् । अत्र शङ्कते यौगपद्ये ति । व्यवच्छेदो भेदग्रहणम्। विधानं स्वरूपग्रहणम् । प्रात्यक्षिकप्रमितेर्युगपदेवाधिकरणतन्निष्ठभेदोभयग्राहित्वं न सम्भवति , अधिकरणग्रहणस्य प्रतियोगिग्रणनैरपेक्ष्यात् , भेदग्रहणस्य तु तत्सापेक्षत्वात् । प्रथममधिकरणस्वरूपं गृहीत्वा%थं भेदं गृह्णातीति क्रमो%पि न सम्भवति , प्रमितेः क्षणिकत्वाद्विरम्य व्यापारायोगाद्वा । स्वरूपभेदयोस्तद्ग्रहणयोश्चैक्यमपि न सम्भवति । अतः स्वरूपग्रहस्यैव प्रत्यक्षप्रमितिरूपत्वम् , भेदग्रहस्य तु भ्रान्तिलक्षणत्वमेवेति भावः। शङ्कां प्रतिक्षिपतीमाम् इती त्यादिना । भेदो%न्योन्याभावः , इतरेतराभावः - अन्यस्मिन्नन्यस्य संसर्गाभावः । यद्वा भेदः - संसार्गाभावभेदः प्रागभावादिः । इतरेराभावः - भेदः । तयोः स्वरूपयाथात्म्याज्ञानप्रयुक्तो निरुक्तविधः परेषां भ्रम इत्यर्थः ।। 177 ।। 178 ।।

स्वरूपमेव भावानां प्रत्यक्षेण परिस्फुरत् ।

भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ।। 179 ।।

भेदस्य याथात्म्यं तावदाह स्वरूपमेवे ति । स्वरूपं - स्वासाधारणाकारः

। तदेव गृह्यमाणां प्रतियोगिस्मरणसहकारेणेतरस्माद्भेदव्यवहारनिदानम् , यथा कम्बुग्रीवादिमत्त्वमेव घटस्य पटाद्भेद इति भावः ।। 179 ।।

यथा तन्मात्रधीर्नानानास्तिव्याहारसाधनी ।

ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ।। 180 ।।

अत्र निदर्शनं यथेति । यथा भूतलस्वरूपज्ञानमेव घटाद्यनुपलम्भे सति तत्तत्स्मरणसहकारि घटादिशून्यताव्यवहारसाधनं मतमभावस्याधिकरणस्वरूपत्ववादिनां तथेत्यर्थः । सिद्धान्ते त्वधिकरणवृत्तिधर्मविशेषरूपत्वं भेदादेरिति विवेकः । एकस्यैव प्रितयोगिभेदेन नानाव्यवहारसाधनत्वं निदर्शनमुखेन द्रढयति ह्रस्वे ति । एकत्रैव षडङ्गुलिमिते वस्तुनि तदपेक्षयादीर्घं पादर्थान्तरमपेक्ष्य ह्रस्वव्यवहारं ह्रस्वं तदपेक्ष्य दीर्घव्यवहारं च तद्वस्तुज्ञानमेव तत्तत्प्रतियोगिस्मरणसहकारेण जनयति हीति भावः ।। 180 ।।

एवं व्यवस्थितानेकप्रकाराकरवत्तया ।

प्रत्यक्षस्य प्रपञ्चस्य तद्भावो%शक्यनिह्नवः ।। 181 ।।

एव मिति । स्वरूपलक्षणस्य भेदस्याद्यक्षण एव धर्मिग्रहणे ग्रहसम्भवाद्भेदव्यवहार एव प्रतियोगिस्मरणस्यापेक्षितत्वाच्च नानाकारविभिन्नपदार्थस्वरूपस्य तत्त्वं प्रत्यक्षप्रमाणप्रमितं नापलपनार्हमिति भावः । असाधारणाकाररूपस्य भेदस्य स्वपरनिर्वाहकत्वान्नानवस्था । तत्प्रागभावस्तत्पूर्वावस्थारूपः । ध्वंसस्तदुत्तरावस्थारूपः । तदत्यन्ताभावस्तदधिकरणस्वभावविशेषात्मकः । सामयिकाभावः । कालविशेषावच्छिन्नतत्तदधिकरणस्वरूपात्मकः । एषां च तत्तत्प्रतियोग्युपरक्तत्वेन व्यवहारे पुनस्तत्तत्प्रतियोगिस्मरणापेक्षेति विवेको%त्र बोध्यः ।। 181 ।।

आगमः कार्यनिष्ठत्वादीदृशे%र्थे न तु प्रमा ।

प्रामाण्ये%प्यन्वयायोग्यपदार्थत्वान्न बोधकः ।। 182 ।।

एवं भेदप्रपञ्चस्य सत्त्व एव प्रत्यक्षं प्रमाणम् , न सदसदनिर्वचनीयत्व इति स्थापितम् । शास्त्रस्यापि न तत्र प्राणाण्यमित्याह आगम इति । आगमः - शास्त्रं , कार्यनिष्ठत्वात् - कार्यार्थप्रतिपादनतत्परत्वात् , ईदृशेष%र्थे -कार्यानन्वयिनि सिद्धे प्रपञ्चानिर्वचनीयत्वादौ , न प्रमा - न प्रमाणम् । मीमांसकमतेनेदम् । सिद्धान्तिमतेनाप्याह प्रामाण्ये%पीति । सिद्धार्थे शास्त्रस्य प्रमाणभावे सत्यपि शास्त्रस्य प्रमाणशब्दमात्रस्य वा नानिर्वचनीयत्वादौ प्रमाणत्वम् , न सन्नाप्यसन्नित्यादेरनन्वितार्थकत्वेन शब्दबोधाजनकत्वादित्यर्थः। तत् तत्प्रतिपादकतयेव प्रतीयमानो%पि सन्दर्भो%विरुद्धार्थपरतया नेय इति हार्दम् ।। 182 ।।

नासत् प्रतीतेः , बाधाच्च न सदित्यपि यन्न तत् ।

प्रतीतेरेव सत् किं न , बाधान्नासत् कुतो जगत् ? ।

तस्मादविद्ययैवेयमविद्या भवता%%श्रिता ।। 183 ।।

अथानुमानस्यापि सदसदनिर्वचनीयत्वे न प्रमाणत्वमित्याह नास दिति । प्रपञ्चः सदसद्भिन्नः प्रतीयमानत्वे सति बाध्यमानत्वादिति युक्तिरपि न सती, प्रपञ्च सदसत्त्ववान् तत एवेत्याभास समानयोगक्षेमत्वादिति भावः । निरुपाधिकसत्त्वासत्त्वयोर्विरोधो%त्रा भिप्रेतः । तस्मा दिति । अनिर्वचनीयत्वस्याप्राणाणिकत्वात्तदुपपादकाविद्याकल्पनं भवदज्ञानकार्यमेवेत्यर्थः ।। 183 ।।

किञ्च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ।

मिथ्या वा परमार्थो वा नाद्यः कल्पो%यमञ्जसा ।। 184 ।।

तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् ।

पारमार्थ्यै%पि तेनैव तवाद्वैतं विहन्यते ।। 185 ।।

(इति प्रपञ्चस्य सदसद्व्यतिरेकित्वरूपमिथ्यात्वनिरसनम् )

प्रमाणाभावाद्दूषितं सदसदनिर्वचनीयत्वरूपं मिथ्यात्वं प्रकारान्तरेणापि दूषयति किञ्चेति । भेदमिथ्यात्वस्य मिथ्यात्वे भेदस्य सत्यत्वं सिद्धम् । भेदमिथ्यात्वस्य सत्यत्वे ब्रह्मभिन्नस्यापि कस्यचित्सत्यत्वोपगमादपसिद्धान्तो%द्वैतव्याघातश्चेत्यर्थः । नच भेदमिथ्यात्वं सत्यं ब्रह्मस्वरूपमेवेति नाद्वैतहान्यादीति वाच्यम् । । तथासति ब्रह्मणो मिथ्यावस्तुगुणत्वप्रसङ्गादित्यन्यत्र विस्तरः ।। 184।। 185 ।।

सर्वाण्येव प्रमाणानि स्वं स्वमर्थं यथोदितम् ।

असतो%र्थान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति न ।। 186 ।।

एवं मिथ्यात्वं निरस्य भेदप्रपञ्चस्य सत्यत्वं व्यवस्थापयन् पराभिमतं सदद्वैतं प्रतिक्षेप्तुमुपक्रमते सर्वाण्येवेति । यथोदित मित्यत्र यथायथ मिति स्याद्वा । यथोदितमित्यस्य न प्रत्यक्षादेरनिर्वचनीयप्रत्यायकत्वमति पूर्वनिरूपितानतिक्रमेणेत्यर्थः ।। 186 ।।

तथाहीह घटो%स्तीति येयं धीरुपजायते ।

सा तदा तस्य नाभावं पटत्वं वा%नुमन्यते ।। 187 ।।

स्वस्वप्रमेयस्यासतो%भावाद्भावान्तरेभ्यश्च व्यावृत्ताकारताप्रत्यायकत्वं प्रमाणानां प्रसिद्धमिति यदुक्तम् , तदेवोपपादयति तथा हीहे ति । इहेदानीं घटो%स्तीति प्रतीतिस्तदानीं तत्र स्वासाधारणाकारेण घटस्य सत्तामेवावगाहते , नाभावम् -नासत्ताम् , न वा पटत्वाद्यर्थान्तरधर्मवत्तामित्यर्यर्थः । तथा चासद्व्यावृत्तं सदन्तरव्यावृत्तं च वस्तुनः सन्तं घटादिकमेव प्रतिपादयन्ति प्रतीतयः घटो%स्ति , पटो%स्तीत्यादय इति सन्नानात्वमेव सिध्यति , न सदद्वैतमिति भावः ।। 187 ।।

नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि ।

अर्थान्तरं वा , तन्मात्रे सदद्वैतं प्रसज्यते ।

अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ।। 188 ।।

अत्र चोदयति नन्वस्तीति । घटपटादिपदेनापि अस्तीत्युक्तं सन्मात्रमुच्यते चेत्सिद्धं सद्द्वैतम् । स्तो%र्थान्तरं चेत्तेन बोध्यते तर्हि घटादेरापतितं सदसद निर्वाच्य

त्वम् प्रतीतिबलाच्चासद्व्यावृत्तिरिति भावः ।। 188 ।।

यद्येवमस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ।

घटवत्सदसद्भ्यामनिर्वाच्यं तवापतेत् ।। 189 ।।

एत द्दूषयति यद्येवमिति । अस्ति ब्रह्मे त्युपनिषत्प्रतिपाद्यमपि ब्रह्मतुल्यनयात्सदसदनिर्वचनीयं प्रसज्यते इत्यर्थः ।। 189 ।।

आनन्दसत्यज्ञानादिनिर्देशौरेव वैदिकैः ।

ब्रह्मणो%प्यतथाभावस्त्वयैवैवं समर्थितः ।। 190 ।।

एवं सर्वत्र समानाधिकरणवाक्ये%नभिमतविरुद्धाकारप्रसङ्ग इत्याह आनन्देति । आनन्दो ब्रह्मेत्यादौ आनन्दादिमात्रं ब्रह्मपदेनोच्यते चेत्पदान्तराम्नानवैयर्थ्यम् , तदतिरिक्तबोधने त्वानन्दानानन्दविलक्षणत्वादि ब्रह्मणः

प्रसज्यत इत्यर्थः । आनन्दपदेनानानन्दव्यावृत्तिः ब्रह्मपदेन चानन्दव्यावृत्तिर्भवेदिति यावत् ।। अतथाभावः - अनानन्दत्वादिः ।। 190 ।।

सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ।

यद्यथाकिञ्चिदुच्येत तत्सर्वस्य तथा भवेत् ।। 191 ।।

परस्यानिष्टान्तरं च प्रसञ्जयति सदस दिति । सदसद्व्यतिरिक्तः प्रपञ्च इत्यपि स्वार्थात्प्रच्यवेत । निरुक्तरीत्या सदसद्व्यतिरिक्तान्यत्वमेव प्रपञ्चस्य सिध्येदिति भावः । य दिति । यत्किञ्चिदपि वस्तु यथा - येन प्रकारेणोच्यते , तस्य सर्वस्य तथा - त्वदुपदर्शितरीत्या तत्प्रकारराहित्यं प्रसज्यता इत्यर्थः ।। 191 ।।

तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ।

तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी ।। 192 ।।

घटो%स्तीत्यादौ सत्तामात्रस्य विशेष्यत्वं , तत्र घटादेर्भेदस्यारोपितत्वं च पराभिमतं प्रतिक्षिपन्निव स्वाभिमतार्थं प्रतिपादयति तस्मादिति । स्पष्टो%र्थः ।। 192 ।।

सजातीयविजातीयव्यवच्छेदनिबन्धनैः ।

स्वैःस्वैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ।

सा सत्ता न स्वतन्त्र%न्या तत्राद्वैतकथा कथम् ।। 193 ।।

(इति सदद्वैतनिरासेन भेदप्रपञ्चस्य पारमार्थिकत्वसमर्थनम् )

सजातीये ति । विजातीय सजातीयान्तरव्यावर्तकेन स्वस्वासाधारणाकारेण

तस्य तस्य पदार्थस्य या स्थितिः - कालसम्बन्धः प्रमाणसम्बन्धो वा , सा तत्तत्पदार्थस्य सत्ता । सा च प्रतिपदार्थं व्यवस्थिता , धात्वर्थत्वात्कर्तृपरतन्त्रा च । तत्सत्तायां स्वतन्त्रत्वमद्वैतं च भवदभिमतं नैव युक्तमिति भावः ।। 193 ।।

न च नानाविधाकारप्रतीतिः शक्यनिह्नवा ।

न वेद्यं वित्तिधर्मः स्यादिति यत्प्रागुदीरितम् ।। 194 ।।

तेनापि साधितं किञ्चित् संविदो%स्ति न वा त्वया ।

अस्ति चेत् पक्षपातः स्यात् न चेत्ते विफलः श्रमः ।। 195 ।।

एवं प्रमेयभूतसन्नानात्वं व्यवस्थाप्य प्रमितिनानात्वमपि व्यवस्थापयति पराभिमतचिदद्वैतनिरासेन नचेति । विषयाश्रयविशेषैः प्रत्यक्षादिस्वगतविशेषैश्चानुभूयमानं संविन्नानात्वमपि न क्षेप्तुं शक्यमित्यर्थः । अत्र परैः संविदो निर्विशेषत्वे प्रोक्तमनुमानमनूद्य प्रतिक्षिपति न वेद्य मिति । संविदि निर्विशेषत्वरूपः साध्यधर्म उपगम्यते न वा , उपगम्यते चेन्निर्निमित्त एकस्मिन् धर्मे पक्षपातस्ते प्रसज्यते - एको धर्म उपदम्यते , अन्ये प्रामाणिका अपि नोपदम्यन्त इतीत्यर्थः । तथा चाभ्युपगतनिर्विशेषत्वविरोधप्रसङ्ग इति हार्दम् । पक्षबाधःस्या दिति पाठान्तरम् । नोपेयते चेत्साध्यधर्मः , तर्हि

तत्साधनार्थसंरम्भवैयर्थं प्रसज्यत इत्यर्थः ।। 194 ।। 195 ।।

अतःस्वरसविस्पष्टदृष्टभेदास्तु संविदः।

यथारथादिभिर्वाह्यै (यथावस्थायिभिर्बाह्यै) र्नैक्यं यान्ति घटादिभिः ।। 196 ।।

अत इति । यथा रथादिभिर्वाह्यैर्नैक्यं याती ति पूर्वमुद्रितपाठो%शुद्धः। अतः - संविन्निर्विशेषत्वाद्यनुमानप्रतिक्षेपात् , स्वरस्तो विषयाश्रयस्वगतविशेषैर्विशिष्टा विलक्षणत्वेन स्फुटं प्रतीयमानाः संविदः यथावस्थितैर्वबाह्यै र्घटादिभिरर्थैर्नैक्यं यान्तीत्यर्थः। वेद्यवेदित्रोर्वित्त्यभेदमतं प्रतिक्षेप्तुमयमुपक्षेपः ।। 196 ।।

सहोपलम्भनियमो न खल्वैकैकसंविदा ।

नचेदस्ति ससामान्यं सर्वं संवेदनास्पदम् ।। 197 ।।

सहोपलम्भनियम इति । एतच्छ्लोकस्योत्तरार्धं न चास्ति चितिसामान्यं सर्वसंवेदनास्पद मिति वा न चिदस्ति ससामान्यं सर्वसंवेदनास्पद मिति वा सम्भाव्यते । संविदा सहैवोपलभ्यमानत्वाज्ज्ञेयज्ञात्रोस्तदभेद इति न युक्तम् , तत्तत्संवेदनविशेषेण सहोपलम्भनियमाभावात् , एकं ज्ञानं विना ज्ञानान्तरेणाप्यर्थोपलब्धेः । विशेषेण

सहोपलम्भस्य व्यभिचारे%पि चित्सामान्येन सहोपलम्भनियमो%स्तीति चेत् , तदपि न सम्यक् , विशेषव्यतिरिक्तस्य चित्सामान्यस्यैवानुवृत्तस्य सर्वविषयविज्ञानविषयस्याभावदित्यर्थः । यथामुद्रितपाठे त्वयमर्थः - सहोपलम्भनियमो न सिद्धयति चेत् सर्वं ससामान्यविसेषं ज्ञातृज्ञेयात्मकं ज्ञेयजातं ज्ञानभिन्नतया%स्त्येवेत्यर्थः । एवं मितिमातृमेयभिदायाथार्थ्यं समर्थितं भवति । अयं श्लोकः सहोपलम्भनियमा दित्यादिना प्रपञ्च स्फुटमञ्चती त्यन्तेन अनूद्यमानपरपक्ष प्रतिक्षेपभागे सुसङ्गतः । तस्मादुपलभ्यमानसंवित्सिद्धिभागान्तिमश्लोकानन्तरं संयोजनीयः । अयं च श्लोको

ज्ञेयज्ञात्रोः संविदैक्यसाध कसहोपलम्भनियमरूपहेतोरसिद्धिप्रतिपादक इति ध्येयम् ।। 197 ।।

सहोपलम्भनियमान्नान्यो%र्थः संविदो भवेत् ।

यदेतदपराधीनस्वप्रकाशं तदेव हि ।

स्वयभ्प्रकाशताशब्दमिति वृद्धाः प्रचक्षते ।। 198 ।।

यस्मिन्नभासमाने%पि यो नामार्थो न भासते ।

नासावर्थान्तरस्त(रं त) स्मान्मिथ्येन्दुरिव चन्द्रतः ।। 199 ।।

अभासमाने विज्ञाने न चात्मार्थावभासनम् ।

इति संविद्विवर्तत्वं प्रपञ्चः स्फुटमञ्चति ।। 200 ।।

अत्र निरसनीयमतानुवादः सहोपलम्भनियमा दित्यादिना । अर्थप्रकाशे नियमेन संविदो भानासिद्ध्यर्थं तस्याः स्वप्रकाशत्वमाह यदेतदिति । स्वयम्प्रकाशताप्रवृत्तिनिमित्तकः शब्दो यस्य तत् स्वयंप्रकाशताशब्दं स्वयंप्रकाशशब्दवाच्यम् । अनेन सहोपलम्भनियमः सिद्धः । यस्मि न्निति । संवित्प्रकाशाभावे%र्थस्यापि न प्रकाश इति संवित्प्रकाशाभावव्यापकाभावप्रतियोगिप्रकाशस्यार्थस्य संविदनन्यत्वं सिध्यति, बिम्बाप्रकोशे%प्रकाशमानस्य प्रतिबम्बस्येव बिम्बानन्यत्वमित्यर्थः । अभासमान इति । आत्मा - ज्ञाता , अर्थ - ज्ञेयम् । संविद्विवर्तत्वम संविदधिष्ठानकारोपविषयत्वं प्रपञ्चः - वेद्यवेदितृप्रपञ्चः , अञ्जतिच्छति , प्राप्नोतीति यावत् । अधिष्ठानसत्तातिरिक्तसत्ताशून्यत्वलक्षणं संविदनन्यत्वं प्रपञ्चस्य विवक्षितम् । नीलपीतादिबाह्यकारो वासनाकल्पितो ज्ञाने इति योगाचारपक्षः , नीलापीताद्यर्थो%विद्याकल्पितस्तत्रेति मायिपक्षश्च निराचिकीर्षितो%त्रेति बोध्यम् ।। 198 ।। ।। 199 ।। 200 ।।

संरक्ष्यमाणभेदास्ते नानुमानानुवर्तिनः।। 201 ।।

एतत्पक्षं प्रतिक्षिपति मैव मित्यादिना । एवं ज्ञातृज्ञेयलक्षणार्थान् मा स्म परिभवः, न प्रतिक्षिपेरित्यर्थः । प्रतिक्षेपएषां कुतो न घटते ? तत्राह प्रत्यक्षेणे , ति । बलवत्तरप्रत्यक्षप्रमाणसंरक्ष्यमाणा एते न त्वदीयसंविदैक्यानुमानानुवर्तिनो ज्ञातृज्ञेयभेदा इत्यर्थः। बलीयस्त्वं च प्रत्यक्षस्योपजीव्यत्वेन । अर्थेषु संविदैक्यसाधनार्थं हि अर्थानां संविदश्च स्वरूपग्रहणं तावदपेक्षितम् । तत एव च मिथस्तेषां भेदो%पि सिद्ध इति प्रत्यक्षबाधितमनुमानं न प्रवर्तत इत्यर्थः । अत्र ज्वालाभेदानुमानवैषम्यप्रकारो विवृत आत्मसिद्धौ , तत एवानुसन्धेयः ।। 201 ।।

तथा हीदमहं वेद्मीत्यन्योन्यानात्मना स्फुटम् ।

त्रयं साक्षाच्चाका स्तीति सढर्वेषामात्मसाक्षिकम् ।। 202 ।।

तथा हि ति । अन्योन्यानात्मना - परस्परभिन्नत्वेन , त्रयं ज्ञातृज्ञेयज्ञानलक्षणपदार्थत्रयम् । अत्र श्रीपरशरभट्टार्यश्रीसूक्तिरनुसन्धेया अहमिदमभिवेद्मीत्यात्मबित्त्योर्विभेदे स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु । प्रमितिरपि मृषा स्यातन्मेयमिथ्यात्ववादे यदि तदपि सहेरन् दीर्धमस्मन्मतायुः इति ।। 202 ।।

प्रत्यक्षप्रतिपश्रं च नानुमानं प्रवर्तते ।

न हि वह्नेरनुष्णत्वं द्रव्यत्वादनुमीयते ।। 203 ।।

प्रत्यक्षेति । प्रतिपक्षं - विरुद्धम् । वह्नेरनुष्णत्वानुमानमिव प्रत्यक्षबाधितमर्थज्ञात्रोः संविदैक्यानुमानं भवदीयमिति प्रोक्तं भवति ।। 203 ।।

किञ्च हेतुर्विरुद्धो%यं सहभावो द्वयोर्यतः ।

तवापि न हि संवित्तिः स्वात्मना सह भासते ।। 204 ।।

कञ्चि साहित्यं भेदनियतं ज्ञानार्थयोर्हेतुघटकं तदभेदसाधने विरुद्धमित्याह

किञ्चे ति । संवित्संविदा सहोपलभ्यत इति हि तवापि न सम्मतम् । तत्संविदा तत्संविदा सहोपलभ्यमानमर्थजातं नियमेन तद्भिन्नमेव भवेदिति यावत् ।। 204 ।।

नीलाद्युपप्लवापेतस्वच्छचिन्मात्रसन्ततिः ।

स्वापादौ भासते , नैवमर्थः संवेदनात् पृथक् ।।

तेन संवेदनं सत्यं संवेद्यो%र्थस्त्वसन्निति ।। 205 ।।

अत्र शङ्कते नीलाद्युपप्लवे ति । अर्थोपरागमन्तरा ज्ञानं भासते स्वापादौ । नैवमर्थो ज्ञानाद्विना कदा%पि भासते । तत्प्रतिबिम्बस्येवार्थजातस्यमिथ्यात्वं संविदि कल्पितस्येति भावः ।। 205 ।।

तदेतदपरामृष्ट स्ववाग्बाधस्य जल्पितम् ।

सहोपलम्भनियमो येनैवं सति हीयते ।। 206 ।।

परिहरति तदेतदिति । अर्थं विना संविदो भाने तां विना%र्थस्यापि भानं सिद्धिप्रायमिति सहोपलम्भनिरूपभवदुक्तहेत्वसिद्धिरिति पूर्वापरस्ववचनविरोधमपि न परामृष्टवान् भवानेवंवदन्निति यावत् ।। 206 ।।

यस्मादृते यदाभाति भाति य(त) स्मादृते%पि तत् ।

घटादृते%पि निर्भातः पटादिव घटः स्वयम् ।। 207 ।।

(इति चिदद्वैतनिरासेन मितिमातृमेयभिदायाथार्थ्यसमर्थनम् )

( एतावानेव संविस्तिद्धिभाग उपलभ्यते )

इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीमद्भगवद्यामुनमुनिसमनुग-हीते सिद्धित्रये संवित्सिद्धिः ।।

हेत्वसिद्धिमेवोपपादयति यस्मादिति । निर्भात इति शत्रन्तात्पञ्चमी। निर्भातादित्यर्थः । घटादृते भातातत्पटादृते भानं घटस्य यथा सिध्यति , तथा%र्थं

विनाभाताज्ज्ञानाद्विना भानसर्थस्य सिध्यतीति सहोपलम्भनियमो ननीलदितद्धियां सिध्यतीत्यर्थः । ननु ज्ञानेनैवार्थप्रकाशस्य वाच्यत्वाज्ज्ञानस्य च स्वप्रकाशत्वाज्ज्ञानभानं विनां%र्थभानं न युज्यत इति चेदेवमपि सहोपलम्भनियमो न युज्यत एव ज्ञानविशेषेण ज्ञानसामान्येन वा , पूर्वत्र व्यभिचारात् उत्तरत्र परमते%सिद्धश्चे । इदमर्थ एव सहोपलम्भनियम इति 197 तमः श्लोकः , स चात्रानुसन्धेय इति प्रागेवोक्तम् । ए#ेवं मितिमातृमेयभिदायाथात्म्यं न निह्नोतुं शक्यत इति व्यवस्थापि तमत्रेति ध्येयम् ।। 207 ।।

(व्या 0) ग्रन्थभागो%ग्रिमः क्वापि नेत- समुपलभ्यते ।

व्याख्यानं विहितं यावदुपलब्धस्य सारतः ।।

श्रीभाष्यकारवारवंशकृतावतारः श्रीभाष्यभावविशदीकरणप्रवीणः ।

प्रज्ञानिधिर्गुरुवरो मम भूतपुर्यां रामानुजार्य उरुकीर्तीरयं समिन्धे ।।

तत्पादपङ्कजनिषेवणलब्धबोधः कृष्णार्यसंज्ञगुरुतातपदाश्रितो%हम् ।

अण्णङ्गरार्य इति च प्रथिताभिधानो व्याख्याभिमामकरवं प्रतिवादिभीकृत

गुरुपादप्रसादेन यामुनोक्त्यर्णवे तरिः ।

व्यख्येयं विहिता रम्या तुष्टये गुरुपादयोः ।।

यद्यत्र तु गुणाः केचित्ते त्वाचार्यप्रसादजाः ।

मामकीनाः पुनर्दोषा इति ध्येयं विवेकिभिः ।।

वचः कुसुमहारो%यं श्रीवक्षसि समर्प्यते ।

लक्ष्मीनारायणो%नेन प्रीयतां पुरुषोत्तमः ।।

ऋतुव्योमखनेत्रा (2006) ङ्के वैक्रमे%ब्दे कृतिस्त्वियम् ।

आषाढपौर्णमास्यां संपूर्णा वृत्तालये पुरे ।।

इति श्रीनगपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यान्वय -

भूषणाविद्वद्वर्य श्रीकृष्णमाचार्याख्याचार्यवर्यरुत्ररत्रेन चतुस्तन्त्रीपा-

रावरपारीणदिगन्तविश्रन्तकीर्ति-दयामूर्ति-श्रीमद्भाष्यकार-

दिव्यवंशावतीर्ण-श्रीभूतपुरीनिवासरसिक-विद्वत्सार्व-

भोम-हारीत-श्रीमदासूरिरामानुजाचार्यदेशि-

केन्द्रचरणकमलवरिवस्यासंमधिगतपदवाक्य -

प्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.

अण्णङ्गराचार्येण न्यायव्याकरण -

शिरोमणिनोभयवेदान्तविदुषा

प्रमीतं संवित्सिद्धर्व्याख्यानं

सिद्धाञ्जनं संपूर्णं

विजयतांतमाम् ।।


"https://sa.wikisource.org/w/index.php?title=सिद्धित्रयम्&oldid=402946" इत्यस्माद् प्रतिप्राप्तम्