सिद्धान्तसारसमुच्चयः
सिद्धान्तार्थसमुच्चयः
प्. ५७)
श्रीमत्पद्मरसाराध्यपदाभ्यां नमः ।
सिद्धान्तार्थसमुच्चयः ।
येनानादि मलादि पाश निवर्द्ध्वंसायबद्धात्मनां
सर्वज्ञेन सदोदितेन कृपया ज्ञानं समाविष्कृतम् ।
नत्वा तं परमं शिवं परगुरुन् सर्वान् गुरुंश्चापरान्
सिद्धान्तार्थसमुच्चयो गुरुमुखात्प्राप्तः स्फुटं लिख्यते ॥
प्रमाणश्चना तत्र क्रियते बहुधा यतः ।
सर्वेषु शिवशास्त्रेषु व्याख्यानेषु च दृश्यते ॥
तस्मादागमयुक्तिभ्यां यथा योऽर्थो गुरुत्तमैः ।
निर्णीतः स तथास्माभिः संक्षेपेण प्रदश्यते ॥
तत्र तावत् पारमेश्वरं ज्ञानं द्विरूपमवबोधरूपं शब्दरूपं च ।
तत्रावबोधरूपममलमनादिनिधनं सर्वार्थप्रकाशकं सर्वानुग्राहकं
शिवज्ञानात्मकं च । शब्दरूपं तु शास्त्रात्मकमेव । अवबोधरूपं पुनः
शब्दरूपारूढं परमकारुणिकः परमेश्वरः प्रतिसर्गं सृष्टिकाले
सर्वानुजिघृक्षया गुरुपरम्परया योग्येषु प्रवर्तयति । यदुक्तं
श्रिमत्स्वायम्भुवे -
अथात्ममलमायाख्य कर्मबन्धविमुक्तये ।
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ॥
मोक्षकारिकासु च -
अनादिकालसंसिद्धं तद्गुणत्वेऽपि शंकरे ।
प्. ५८)
तच्च सम्यक् परिच्छेदि शांकरं ज्ञानमीरितम् इति ॥
गुरुपरम्पराक्रमश्च द्विविधः महौघक्रमलक्षणः
प्रतिसंहितगुरुक्रमलक्षणश्च । तत्र महौघक्रमलक्षणः प्रदर्श्यते । तत्र
परमेश्वरः प्रथमं विद्येशांननुगृह्य तेभ्योऽष्टाविंशति संहिताः
प्रकाशयति । ते च पुनः श्रीकण्ठादि क्रमेण मुनिमनुष्यान्तं सर्व संहिता
अवतारयन्ति । सोयं महौघलक्षणः शास्त्रावतारः । तदुक्तं
श्रीमन्मालिनीविजये -
सिसृक्षुर्जगतः सृष्टेरादावेव निजेच्छया ।
विज्ञानकेवलानष्टौ बोधया मास पुद्गलानिति ॥
एष च गुरुक्रमः श्रीमद्रौरवादौ श्रूयते -
जगतः कारणं देवमनलेशं परं गुरुम् ।
तेनोक्तं परमेशेन श्रीकण्ठाय महात्मने ॥ इति ।
शिवोद्गीणमिदं ज्ञानं मन्त्र मन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥
तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीर्ढस्मरद्रुमः ।
ददावुमापतिर्मह्यं सहस्रैर्भव संमितैरिति । प्रतिसंहित गुरुक्रमः
प्रदर्श्यते । यतुक्तं श्रीमत्किरणे -
सृष्ट्यनन्तरमेवेशः शिवान् सृष्ट्वा दशात्मजान् ।
ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् ॥
कामिकं प्रणवाख्यस्य सुधाख्यस्य च योगजम् ।
प्. ५९)
दीप्ताख्यस्याप्यचिन्त्यं तु कारणाख्यस्य कारणम् ।
अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम् ॥
सूक्ष्मं तु सूक्ष्मसंज्ञस्य कालस्यापि सहस्रकम् ।
सुप्रभदं गणेशस्य अंशुसंज्ञस्य चांशुमत् ॥
एवं प्राथमिकं प्रोक्तं पुनरन्यो गुरुक्रमः ।
प्रणवात्रिकलः प्राप्तः कामिकं त्रिकलाद्धरः ॥
सुधाख्याद्योगजं तन्त्रं भस्मसंज्ञस्ततः प्रभुः ।
दीप्तसंज्ञादचिन्त्यं तु गोपतिश्च ततोऽम्बिका ॥
कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः ।
अजितं सुशिवात्प्राप्तो ह्युमेशो ह्यच्युतस्ततः ॥
ईशाद् दीप्तं त्रिमूर्तिस्तु ततः प्राप्तो हुताशनः ।
सूक्ष्मं सूक्ष्माद्भवः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः ॥
काल संज्ञात् सहस्राख्यं भीमो धर्मस्ततः खग ।
गणेशात् सुप्रभेदं तु विग्रहेशस्ततः शशी ॥
अंशुमच्चांशु संज्ञात् तु प्राप्तोह्युग्रस्ततो रविः ।
एवमेते समाख्याताः शिवभेदादशाद्यते ॥
दशाष्टसंख्ययाप्यन्यो रुद्रभेदोऽपरो मतः ।
दशाष्टसंख्यया रुद्रान् सृष्ट्वा पूर्वमुखाद्यतः ॥
शिवस्तत् संख्ययैवे च पुनस्तान् बोधयेत् खग ।
रुद्रस्यानादि संज्ञस्य विजयं तेन भाषितमित्यादिना
प्. ६०)
फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते इत्यन्तेन ।
अत्रायमर्थः - तन्त्राणां शिवभेदरुद्रभेदत्व भेदेन तावद्
द्वैविध्यं तत्र शिवभेदः प्रणवादीननुगृह्य सदाशिवतत्त्व वासिनः
कृत्वा तेषामेकमेवावबोधरूपं ज्ञानं यथाधिकारं शब्दरचना
सृष्टिपुरःसरं क्रियादि भेदेन दशधा विभिद्योपदिष्टः । रुद्रभेदस्तनादि
प्रभृभृतीनष्टादशरुद्रान् ज्ञानयुक्तानेवानुगृह्य शब्दरचनां
कृत्वा तथैव विजयादिरष्टादशभेदतन्त्रैः प्रकाशितः । ते च रुद्राः
सदाशिवतत्त्वाधो वर्तिनः । अत एव शिवभेदरुद्रभेदयोः परापरत्वमुक्तं
च श्रीमत्स्वतन्त्रे -
सकलस्तु वृतो देवैरोंकारद्यैरनुक्रमात् ।
रुद्राष्टादशकं ब्राह्म इति । तयोरपि पुनरध्ये तृप्रवक्तृभेदोऽप्युक्तः ।
एतेष्वपि भेदेषु अध्येतृभेदात् वक्तृभेदात् भेदोवक्तुमशक्य । अत एवास्य
शिवज्ञानस्यावतारभेदात् क्रियाभेदाच्च भेदो न त्वर्थव्यवस्था भेदाद्वा
फलभेदाद्वा । तदुक्तं श्रीमत्स्वायम्भुवे -
एकमेव शिवज्ञानं विभिन्नं दशधा पुनः ।
तथाष्टादशधा भूयो भेदान्तरविसर्पितम् इति ॥
एकमेव शिवज्ञानं विभिन्नं बहुधा पुनः ।
उपभेदोपभेदानामस्य संख्या न विद्यते ॥
भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि ।
दीक्षा संप्रत्ययार्थानि सिद्धिमुक्ति फलानि चेति ॥
प्. ६१)
अन्येप्याहु - सर्वशाखाप्रत्ययमेकं कर्मेति । एषां च तन्त्र भेदानां
गुरुपूर्वक संबन्धः क्वचित् पञ्चप्रकारः क्वचित् षट्प्रकारः ।
श्रीमतङ्गोक्तवत्पञ्चप्रकारः । तथा हि - शिवानन्तयोः परः
सम्बन्धः । अनन्त श्रीकण्ठयोः महान् । श्रीकण्ठमतङ्गयोर्दिव्यो
मतङ्गमुनिना मनुष्याणां दिव्यादिव्यो मनुष्यैश्च
मनुष्याणामदिव्यात्मकः । श्रीमन्मृगेन्द्रे तु षट्प्रकारः यथा -
शिवानन्तयोः परः सम्बन्धः अनन्तश्रीकण्ठयोः महान्
श्रीकण्ठशक्रयोरन्तराधः शक्रभरद्वाजयोद्धिव्यो भरद्वाज
हारीतयोर्दिव्यादिव्यो हारीतेन तच्छिष्याणामदिव्य इत्येव मन्येष्वपि यथायोगं
द्रष्टव्यम् । एवमापरमेश्वरादविच्छिन्न गुरु संप्रदायस्मरणात्
तत्कृतत्वेनस्य शास्त्रस्य प्रामाण्यं सिद्धम् । तदुक्तं श्रीमन्मतङ्गे -
प्रमाणमेकं तद्वाक्यं तत्त्वमीश्वर भाषितम् इति ।
ननु नित्यत्वेनागमस्य प्रामाण्यमिति केचित् । तदयुक्तम् अस्य कृतक आगमः
संभवति रचनावत्वादभिनव विरचितवाक्यवत् । रचना च सेत्वादिवत् । तस्या
कर्तारं न व्यभिचरति । तस्मादाप्त प्रणीतत्वेनैवागमस्य प्रामाण्यम् ।
परमेश्वरश्च परमाप्तः । नित्यनिर्मलनिरतिशय सर्वार्थ ज्ञानक्रिया
युक्तत्वाद्रागद्वेषा भावेन विप्रलम्भासंभवात् सर्वानुग्राहकत्वाच्च ।
तदुक्तं श्रीमन्मोहशूरोत्तरे - यद्यथावस्थितं वस्तु सर्वज्ञस्तत् तथा
वदेदिति । ईश्वरश्च योगि प्रत्यक्षादनुमानाच्च सिद्धः ।
प्. ६२)
तथा हि श्रीमन्मतङ्गे - शक्तिसिद्धिपूर्वमीश्वरसिद्धिमुक्त्वा योगि
प्रत्यक्षगम्यत्वमुक्तम् ।
शक्तश्च शक्तिमान् सिद्धोप्यथवा मुनिपुङ्गव ।
अक्षाणि प्रतिप्रत्यक्षं मनश्चाक्षमनुत्तमम् ॥
संकल्पविषयं सिद्धं संकल्पादेव केवलात् ।
प्रपत्तव्यं मुनिव्याघ्र किमन्यत् परिपृच्छसि ॥
इति न च योगिनोऽसिद्धा इति वाच्यम् । यच्छ्रुयते -
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवदिति ॥
अनुमानसिद्धत्वमप्युक्तं श्रीमन्मृगेन्द्रादौ -
अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् ।
कर्तारमस्य जानीमो विशिष्टमनुमानतः ॥
वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थितावपीति ।
आगमसीद्धत्वमप्युक्तं श्रीमन्मतङ्गे -
पञ्चमन्त्रतनुः श्रीमान् सकलः परिपठ्यते ।
सुप्रसन्नेन्द्रियग्रामः सर्वज्ञः सर्वगोचरः ॥
योगयोगेश्वरः स्वामी स्वतन्त्रः पशुपाशहा ।
तस्योक्तिः पौरुषैः स्थूलैः प्रमाणैर्न च बाध्यते ॥ इति ।
एषाचेश्वरसिद्धिः सर्वासु संहितासु न्यासादिषु च विस्तरेण साधितत्वान्नात्र
लिख्यते । न चेश्वर कृतादागमादीश्वरसिद्धा -
प्. ६३)
वितरेतराश्रयदोषः आशङ्कनीयः द्वयोरपि विसदृशक्रियत्वात् ।
ईश्वरोह्यागमस्य कर्ता आगमस्तु तं ज्ञापयतीति । किं च तदुक्तेषु च
दृष्टार्थेषु फलवत्त्वमुपलभ्यादृष्टार्थस्यापि तच्छास्त्रस्यावितथत्वं
मनुमीयते । तदुक्तं श्रीमन्मतङ्गेपि -
विशेषस्यानुमानस्य त्रिविधस्यापि निश्चयात् ।
आगमादाप्तवक्त्रोत्थान्नान्यथा मुनिपुङ्गव ॥
आप्तश्चैवागमात् सिद्धः सचेदानीं विचार्यते ।
आयुर्वेदात् सगणितान् मन्त्र वादाच्च सस्फुटात् ॥
रसोपनिषदाटोपादाप्तः संपरिगृह्यते इति ।
ननु देवतैव तावन्न सिद्धा । तत्संभवे हि तद्विशेषस्येश्वरस्य सिद्धिः । सा तु
शब्दमात्रैव । तथाहि - कर्मानुष्ठानादेव फलं न देवतायाः
तद्बाधकत्वेनाभिमतरुद्रेन्द्रादिशब्दभेदेन प्रमाणान्तरैरसिद्धेः । अत एव
तेन सह संबन्धग्रहणा संभवादागमेनाप्य सिद्धिः । तत एव च
संबन्धग्रहणेति तरेतराश्रयतोऽसिद्दिरेव । ततश्च रौद्रं चरुं
निवर्पेत्स्वर्गकाम इत्यादाबुद्देश्यकारकतया विशिष्टकर्माङ्गत्वेन स एव
देवताशब्दः प्रतीयत इति क्रियात एव फलं युक्तं न देवतात इति जैमिनीयाः ।
अत्रोच्यते । एवं हि देवतायाः शब्दमात्रत्वे फलमपि
प्. ६४)
शब्दमात्रमेव स्याद्यतो ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ
स्वर्गाद्यात्मकं फलमपि तद्वदेव प्रमाणान्तरसिद्धम् । अथ यदि शब्दादि
योगं विनापि नार्थरहित परः शब्दः संभवतीति पुराणेतिहासांदिप्रसिद्धं
विशिष्टमेवात्र स्वर्गशब्दः फलत्वेनाभिदधातित्युच्यते तदिहापि समानमिति
न शब्द एव देवतापि तु तद्वाच्योऽर्थविशेष एव स्ववाचकाद्भिन्ना देवदत्रादि
शब्दवाच्यात्मवदिति सैव फलदान तु कर्ममात्रं तस्य कृष्यादि कर्मवत्
फलजननमात्र एव सामर्थ्यादचेतनत्वेनेदं फलमस्मै दास्यामीति
विवेकाभावात् । शब्दो हि विदितपदपदार्थ प्रत्यायकत्वेन भवतोपि सिद्ध इति
इन्द्रादि शब्दानामपि शब्दत्वेनैवार्थ प्रत्यायकत्व सिद्धेस्तत्प्रत्येयो देवता
लक्षणोऽर्थः स्वर्गलक्षण फलवत् सिद्ध एवमनुमानादि
सिद्धत्वमपीश्वरलक्षण देवतायाः प्रागेवोक्तमिति न प्रमाणान्तरासिद्धं
नापीतेस्तराश्रय दोषः । यदाहुः - श्रुतिसिद्ध्यर्थं श्रुतोपलब्धो
यत्नवता भवितव्यम् न श्रुतिसिद्धौ यत्न विशेषशैथिल्यमाचरणीयमिति ।
ततश्च सोमपाःशतक्रतुरित्यादि श्रुतिसिद्धस्य देवता विशेषस्य
कर्मणोनिरूपस्य च वज्रहस्तं सहस्राक्षमिन्द्रमीडे चतुर्भुजमित्यादि
श्रुतिसिद्धस्य शब्दमात्रस्यासंभवात् तत् तद् विशेषेण विशिष्टा देवता
सिद्धैव । श्रुतिरपि ताविशेषया देवमैत्रः
प्. ६५)
दृश्यते यथा - इन्द्रो दिव इन्द्र-ईशे पृथिव्या इत्यादि । न च देवताया
मूर्तत्वात् अस्मदादि वदनेक देशयागसन्निधिरनुपपन्नेति वाच्यम् । अस्या
अणिमाद्यैश्वर्य योगेन वासुदेव सौभार्यादिवत् प्राकाम्यशक्त्या
युगपदमेक देशसन्निधिर्युज्यत एव यतः । तदुक्तं श्रीमत्पराख्ये -
शब्दमात्रस्थिते मन्त्रे शब्दमात्रं फलं तथा ।
न चार्थरहितः शब्दः पदवाक्य गतक्रमः ॥
वाच्यश्च वाचकाद् भिन्नो देवदत्तादि शब्दवत् ।
प्रत्यायकश्च ते शब्दपत्ययेर्थ विवर्जितः ॥
तेन सा वाचकाद् भिन्ना वाच्या सा देवता ध्रुवम् ।
विशेषणं यतस्तस्यां कर्मरूपाभिधायकम् ॥
प्रतिपन्नं विशेषेण वेदवाक्यैस्तथाविधैः ।
स्तुतापि देवता यस्मात् स्तुत्या साभिमुखी भवेत् ॥
अथार्थवादतस्तस्या देवताया विशेषणम् ।
यदि तत्परमार्थेन विरोधः कतमो भवेदिति ॥
देवता श्रूयते शास्त्रे तत एव फलं महत् ।
महावीर्योपपन्नत्वात् तया स्थास्यति स कृतौ ॥
वेदान्त वादिनां यद्वदनन्तत्वं त्वनुग्रहः । इति च कः प्रत्येत्यर्थ वर्जितः ।
अर्थ विवर्जितः शब्दा इति को वेत्ति इत्थं श्रीमन्मृगेन्द्रे च - न जातु
देवतामूर्तिरस्मदादिशरीरवत् ।
प्. ६६)
विशिष्टैश्वर्य संपन्ना सातो नैतन्निदर्शनम् । इत्यादि ।
यद्येवमीश्वरस्यापि शरीरित्वादस्मदादिवदसर्वज्ञत्वमसर्वकर्तृकत्वं च
स्यात् । ततश्च परमाप्तत्वानुपपपत्तिः । अशरीरश्चेत् कर्तृत्वनुपपत्तिः ।
यदाहुः -
कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।
कार्यत्वात् तेन जगतः कर्ता देही प्रसज्यते ॥ इति ।
अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेदिति च । ततश्चेश्वरस्यापि
सावयवत्वेना नित्यत्वात् तस्यान्येन कर्त्रा भवितव्यम् । तस्यापि शरीरित्वेन
कर्त्रन्तरापेक्षाया मनवस्था । तन्न आत्मनः स्वदेहस्पन्दादौ
शरीरान्तरानपेक्षया इच्छामात्रेण कर्तृत्वदर्शनात् । नन्विच्छामात्रेण
कर्तृत्वं स्वाधिष्टितशरीरस्यन्दादौ दृष्टम् । न तु बाह्ये मृदादिजन्ये
घटादौ । सत्यम् । अत-एव सदाधिष्ठायकत्वेन विश्वमीश्वरस्य
शरीरमिवानुमीयते । तस्मादिच्छामात्रेणेश्वरः सृष्टादि तनोति । आत्मनां हि
मलादियोगादेव ज्ञान क्रिययोः शरीरेन्द्रियापेक्षा । ईश्वरस्य तु नित्य
निर्मलत्त्वातदपेक्षा नास्त्येव । यतुक्तं श्रीमत्किरणे -
यथा कालो ह्यमूर्तोपि दृश्यते फलसाधकः ।
एवं शिवो ह्यमूर्तोपि कुरुते कार्यमिच्छयेति ॥
मोहकारिकासु च -
अजात मलसंबन्धः सर्वज्ञः सर्वकृद्विभुः ।
प्. ६७)
सकलो निष्कलोऽनन्तः स्वेच्छानन्तरकार्य कृदिति ।
शक्तिस्तु शरीरेन्द्रियादि कार्यं कुर्वाणा भगवतः शरीरतया करण तयोच्यते ।
तदुक्तं श्रीमन्मृगेन्द्रादौ -
मूलाद्यसंभवाच्छाक्तं वपुर्नो तादृशं विभोः ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥
ईश तत्पुरुषाघोरवामाजैर्मस्तकादिकमित्युक्ता । इत्थं शक्तिः कुर्वती
देहकृत्यं देहाभावादुच्यते देहशब्दैः । तस्या भेदायेपि वामादयः स्युः
तेपि प्रोक्ता कृत्यभेदेन सद्भिः ॥ इति । करणं च न शक्त्यन्याच्छक्तिर्ना
चेतनाचित इत्यादिना च । श्रुतावपि तस्य * * करणं च दृश्यते न च
तत्संश्चाप्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी
ज्ञानबलक्रिया चेति । अत एव ज्ञानस्याप्यस्य न शरीरेन्द्रिया पेक्षा । यदुक्तं
श्रीमन्मृगेन्द्रे -
सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह ।
यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ॥
तच्चस्या वृत्ति शून्यत्वान्न व्यञ्जकमपेक्षते ।
तन्न सांशयिकं तस्माद् विपरीतं न जानुचित् ॥
यानिव्यञ्जकमीहन्ते वृतत्वान् मलशक्तिभिः ।
व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ॥
नाध्यक्षं नापि तल्लैङ्गं न शब्दमपि शांकरम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुष्विति ॥
प्. ६८)
कथं तर्हि पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिभिरीश्वरस्य शरीरमागमेषु
स्तूयते ध्यानार्थमेव । तन्न । ध्यानाकारे ध्यानपूजाद्युपपद्यते । यदुक्तं
श्रीमत्पौष्करादौ -
साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् ।
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ॥
इत्यादिना अन्यैरप्युक्तं -
आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैनिबुद्धिः । इति कथं तस्य
शास्त्रोपदेशकत्वम् । इच्छामात्रेण विद्येश्वरादीनां
शास्त्रावबोधकत्वमेवात्रोपदेशकत्वं न तु वागिन्द्रियव्यापारः । यदुक्तं
श्रीमत्पराख्ये -
सन्निधाने यतस्तस्मिन् सर्वकार्यस्य संभवः ।
अक्षहीनेपि सामर्थ्यं दृष्टं तत्कर्षकात्मनि ॥
सामर्थ्यं तद्वदीशस्य सर्वकृत्ये निसर्गजम् । इति ।
अन्येप्याहुः -
सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव ।
निस्सरन्ति यथाकामं कुड्यादिभ्यो निदेशनाः ॥ इति ।
तस्मादीश्वर प्रणीतत्वेनास्य शैवागमस्य प्रामाण्यम् ।
ननु दर्शनान्तरेष्वपि हिरण्यगर्भादय ईश्वराः श्रूयन्ते ।
तेभ्योस्य को विशेषः । अत्रोच्यते । तेषां पशुपाशरूपत्वेनेश्वरान्तर
पूर्वकत्वान्न सर्वेश्वरत्वं संभवति । तथा हि प्रकृतिरेव परत्र
शब्दवाच्यो नारायणः
प्. ६९)
यो वा ईश्वरः कैश्चिदध्यात्मविद्भिः पाञ्चरात्रिकैश्चेष्यते तस्योपादान
कारणत्वादितत्यारप्रकृतेदि * * * पिहिरण्यगर्भ समवर्तताग्रे
भूतस्य जातः पतिरेक आसीदित्यादि श्रुत्यर्थतया हिरण्यगर्भाख्येश्वरस्तस्याः
प्रकृतेर्विकारे ध्यात्मविद्भेदैरीश्वरः प्रोक्तः पाञ्चरात्रिक भेदैर्वा
चातुरात्मलक्षणः । यतुक्तं -
ईशास्तु ते समभवन् प्रकृतेः पदस्याः
कृष्णानिरुद्धमकरध्वजरौहिणेयाः इति तस्याप्युत्पत्त्यपवर्गयोगित्वाद्
ब्रह्मेन्द्रादेदिव धात्रन्तरेण भवितव्यम् । यश्चापि बुद्धिसंयोगादीश्वरः
पातञ्जलैरुक्तः तनः संयोगान्नैयायिक
वैशेषिकैस्तस्यापीश्वरत्वोपायभूतासौ संयोगः संयोगत्वादेव
घटपटादि संओगवदनित्योऽव्यापकश्चेति न सर्वत्र सर्वदा चेश्वरत्वम् । अतो
भुवनेश्वराणामपि दात्तन्तरेण भवितव्यम् । यश्चैवं सर्वेषामेव दाता स
एवास्माभिर्महेश्वरत्वेनाभ्युपगतस्तस्यैवं दातृपूर्वकत्वेनासिद्धे । ननु
दर्शनान्तर सिद्धाना विशेश्वराणां लोकवेदसिद्धत्वात्कथं
महेश्वरत्वं प्रतिक्षिप्यत इति चेत् । तन्न । वेदादिशास्त्रतो लोकप्रसिद्धाचारस्यैव
महेश्वरत्व प्रदर्शनात् । तथा च श्रुतिः -
एक एव रुद्रो न द्वितीयायतस्व इति अत्र अवधारणेन द्वितीय निषेधेन च रुद्रस्यैव
महेश्वरत्वं स्थाप्यते । रुद्रेष्वपि महेश्वराय शितिकण्ठाय त्र्यम्बकाय न
च नमो नम इति पुराणेष्वपि- नौषधीभिर्महेशानमन्त्रैर्न च रसायनैः
। प्राप्यते कुशलं तादृग्यादृक्त्वं नाम कीर्तनादिति । भारतादावपि
वासुदेवार्जुनादिकृतेषु सप्तशतरुद्रादि
प्. ७०)
स्तोत्रेषु तस्यैव महेश्वरत्वेन प्रसिद्धिः । अत एव - भगवद्गीतासु
दशमेऽध्याये- ये मामजमनादि च वेत्ति लोकमहेश्वरमित्यात्मनो
नारायण भट्टारक परिमिततरामेव भूरादिद्विसप्तलोकविषय
महेश्वरत्वमाह । न तु सर्वभुवनादि विषयमिति । कथं तर्हि शेरते न
दौवं केशवात्परं इत्युक्तम् । अत एव भौतिक सर्गविषयात्पिशाचादि
पितामहान्तादष्टविधाद् देवयोनिवर्गादसौ परः प्रोक्तः न तु महेश्वर इति को
विरोधः । यदुक्तम् - अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः । इति । एवमेव
चन्द्रब्रह्मादावप्यवसेयम् । यदुक्तम् - अग्निर्वै देवानामवमोऽपचर इति ।
लोकेऽपि ब्रह्म विष्ण्वादीनां चक्रस्वामि मधुरास्वाम्यादिपदैः स्वामित्वेन
प्रसिद्धिः । भगवत एव प्रयागादिषु स्वस्वभूक्षेत्रेषु महेश्वरस्थानेश्वर
भूतेश्वरादि पदैः प्रतिष्ठास्थानेष्वपि ब्रह्मेश्वरसोमेश्वरादिभिः
प्रसिद्धिः । अतश्च यद्यपि स * * र्यं पठ्यते तथाप्यन्यथैव
तत्साम्यं पदं प्राप्तबलादावपि धनादिके दृश्यते । अन्यच्चेश्वरत्वं
प्रभुरूपं यत्प्रचण्डतरनृपत्यादौ सिद्धमपि लोकप्रसिद्ध्यापि स एव
महेश्वरः सिद्धः । उक्तश्च श्रीमत्पराख्ये - ईश्वरो रूढितो गम्य इति । न
च प्रमाणसिद्धः यदाहुः -
द्रव्यजाति क्रियाशब्दो गुणशब्दस्तथापरः ।
यौगिको योगरूढश्च प्रसिद्ध्यैव व्यवस्थितः ॥
प्. ७१)
सूर्यो गौश्चलनं शुक्लं पङ्कजं पङ्कजं यथा ।
तत्तदर्थाभिधायित्वाच्छब्दः प्रोक्तस्तु तद्विधेति ॥
ननूक्तं प्रसिद्धिः वटयक्षवदप्रमाणमिति तदप्ययुक्तम् । यतः
प्रसिद्धिनिबन्धनो हि सर्वः पदार्थसंबन्ध इत्युक्तम् । तस्याश्चाप्रामाण्ये
वेदार्थस्या प्रतिष्ठेति सर्वमसमञ्जसमिति शास्त्रतो लोकतश्चात एव
महेश्वरः सिद्ध इति उक्तं चास्माभिः पाषण्डपराजये -
श्रुतिभिः स्मृतिभिः पुराणवाक्यैः
मुनिमुख्यैरपरैश्च पूज्यमानाम् ।
प्रभुतामवधार्य चन्द्रमौलेः
कथमेवं मनुजाः पुनर्विमूढाः ॥
परमेष्ठिमुखैः पिपीलिकान्तैः
भुवनेऽस्मिन्निखिलैश्च जन्तुवर्गैः ।
गिरिशः परिपूजीताङ्घ्रिपद्मो
न तु कश्चिद्गिरिशेन पूजनीयः ॥ इति ।
तस्मात् सर्वज्ञेन सर्वकर्त्रा परमाप्तेन परमेश्वरेण
प्रतीतत्वाछैवागमाख्यं प्रमाणं सर्वोत्कृष्टतयाज्ञेयम् । अत एव
वर्णाश्रमाचारव्यवस्थापकवेद
विरुद्धबौद्धादिशास्त्रवन्नास्यानुपादेयत्वप्रसङ्गः ।
वर्णाश्रमस्थानामेवात्राधिकारश्रुतेर्वेदाविरोधाद्वेदवित्परिग्रहाच्च ।
यदुक्तं श्रीमत्पराख्ये -
कार्या दीक्षापि सर्वेषां तच्छक्तिविधियोगिनाम् ।
प्. ७२)
त्रयाणामपि वर्णानां न तु शूद्रान्त्यजादिषु ।
अमद्यपास्तु ये शूद्राः शैवाचार क्रियादशः ॥
शिवभक्ताश्च तेषां सा दीक्षा कार्यान्यथा नहि इति ।
श्रीमत्सर्वज्ञानोत्तरेपि -
यस्मिन्वर्णे स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् ।
तत्रैव संस्थितो नित्यं शिवधर्मं च पालयेदिति ॥
उक्तं च श्रीमन्मतङ्गेन्द्रादौ -
स्नानमाशिरसः कृत्वा समाचम्योदगाननः ।
प्राङ्मुखो वा भजेत् संध्यां वेदसिद्धां द्विराश्रमीति ॥
धर्माधर्मसाधनसंसिद्धिराम्नायादेव ज्ञायते । तन्मूलत्वात्
स्मृतेश्चापि श्चामेवापरस्य त्विति । तथाचम्य पुरा ब्राह्मीं भजेत् सन्ध्यां
द्विराश्रमीति तथा इति वर्णाश्रमाचारान्मनसापि न लक्षयेत् । यो यस्मिन्नाश्रमे
तिष्ठन् प्राप्तो दीक्षां शिवात्मिकाम् । स तस्मिन् नेव सन्तिष्ठंश्छिवधर्मं च
पालयेदिनि पुराणेतिहासादौ श्वेतोपमन्युप्रभृतीनां
महर्षीणामत्रानुष्ठानं श्रूयते । भारते च
नरनारायणयोरश्वत्थाम्रञ्च आभ्यां लिङ्गेऽर्चितो देवस्तस्यार्चायां युगे
युगे । इति स्वर्णाक्षे च भगवतो वासुदेवस्य परमेश्वराराधनसिद्धिः ।
रामायणेपि कार्तवीर्यादि स्तुतिषु च प्रतिष्ठापूर्वको धर्मः श्रूयते ।
पक्वेष्टकथितं सम्यग् यः करोति शिवालयम् इत्यादि -
प्. ७३)
सूत्रे मोक्षं विनिर्दिशेदिति च उपनिषत्सु श्वेताश्वतरादिष्वथर्वशिरः
प्रभृतिषु च शिवस्याराध्यत्वं श्रूयते । सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् । शिवस्य चैकं परिवेष्टितारं ज्ञात्वा शिवं
शान्तमत्यन्तमेतीत्यादि शिव एकोध्येयः शिवंकरः सर्वमन्यत् परित्यज्येत्यादि
च ततोऽस्य न विगानता वापि च्छिन्नमूलता न कैश्चिदेव परिग्रहः ।
तस्माद्वेदविद्भिरन्यैश्च तत्प्रमाणतयाग्राह्यम् । तदुक्तं मोक्षकारिकासु -
na cAnyena pramANena saMruddhastasya gocaraH |
zrotriyairapyato grAhyaM tatphalAdhikasAdhanam || iti |
tasmAt paramezvara eva paramAptaH | kapilAdayastu
parasparaviruddhArthAbhidhAyitvAt na paramAptAH | yadAhuH -
sugato yadi sarvajJaH kapilo neti kA pramA |
atho bhAvapi sarvajJau matibhedastayoH kathamiti ||
tatazca sarvAvirodhena sarvAnyAgamaprApya sthAna pradarzanapUrvakaM
tadanadhigatArtha pradarzakatvAdyathAdhikAraM vedAdi sAmAnyazAstrokta
phalasAdhakatvAt tadaviSayasyApi viziSTasya bhogamokSAtmanaH
phalasAdhanatvAcca zivAgamAkhyaM pramANamavyAhatam | yadAhuH -
anadhigatArthagantR pramANam iti | ata evoktaM siddhagurubhiH |
azeSaphalasAdhakamiti | yaduktamA(gama?)zAstreSu -
p. 74)
vidyate yacchivAgame | na dRSTaM yacchivajJAne tadanyatra na vidyate | iti |
tasmAdetadvirodhe tAni bAdhyante | tadvinAzya(sya?)bAdhA yaduktaM
sarvajJAnottare -
na puMbhirArSakaM vAkyaM daivikaM munibhistadA |
na devairbrahmaNo vAkyaM vaiSNavaM padmajanmanA ||
na zaivaM vaiSNavAadvAkyAdbAdhyate na kadAcane ti |
zrImanmohazUrottarepi -
purANaM bAdhyate vedairAgamaizca taduktayaH |
sAmAnyaM ca vizeSaM ca zaivaM vaiziSTikaM vacaH iti ||
mokSakArikAsu sa tAbhirabhibhAvyAbhiH sAmAnyAbhizca bAdhyate | tAbhyo
vilakSaNatvAt tu tathA cAviSayatvataH iti | yadyevamanyAni zAstrANi na
pramANAni bhaveyuH | maivam | nAnyapi svaviSaye pramANAnyeva
tattatpraNenRRNAM sarvajJatvAbhAve'pi svaviSaye jJAnAdiyogAt | ata eva
tairasarvArtha dazibhiH svazAstrAdanyadapramANamityuktam | sarvArtha
darzitAnAtu zivena sarveSAM svasvaviSaye prAmANyamuktaM
zrImatsarvajJAnottarAdau jJAnacaryAnvito bauddhau
buddhitattvamavApnuyAdityAdi | te ca tattvaprAptimeva paraM mokSam manyante |
tadayuktam | tadUrdhva bhuvana bhogyAnAM karmaNAM yuktyAgamasiddhAnAM
malAdipAzAnAM cAparikSayAn paramaprAptihetubhUtazivAdivastvaparijJAnAcca
|
p. 75)
taduktaM zrImanmRgendre -
yatkaivalyaM puMprakRtyorvivekAt
yo vA sarvaM brahma matvA virAmaH |
yA vA kAzcin muktayaH pAzajanyA
stAstA sarvA bhedamAyAnti sRSTau || iti |
zrImadavadhUtaguruNApi -
tvanmate bhavavijJAnaniSpannA api muktayaH |
bhajante nAvisaMvAdamAmbhasA iva vRSTayaH || iti |
kAni punardarzanAntaraistatracchAstrasiddhAnAM prApyAni sthAnAni?
atrocyate -
lokAyatastvAt - pRthivyApastejovAyuriti catvAritatvAdi caitanyaviziSTaH
kAyaH puruSaH madazaktivadvijJAnaM pratyakSameva
pramANamityAdidyabhyupagamAt
pratyakSaparidRzyamAnabrahmANDodaragatapRthivyAdibhUtavyatirikta-
चैहिकमेव सुखं मोक्ष इति मन्यते । यदाहुः -
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
इत्यादि । ते च भूतचैतनिकाः कथ्यन्ते । एषां चतुर्भूतविषयं ज्ञानं
प्रमाणमेव । इतरवस्तु कथनं भ्रान्तिरेवमन्येषामपि वादिनां
स्वस्वविषयवस्तु कथने प्रामाण्यम् । स्वविषय स्वभावकथन मां -
प्. ७६)
तदि स्वरूपान्यथा भाव कथनं च भ्रान्तिरेव ।
केचित् पुनरात्मवादिनोऽनादिरेव पुरुषः कार्यकरणैः प्रवाहतः संसारबन्ध
तस्थानादेः शरीरेन्द्रिययोगस्य विनाशाभावात् केवलं परिदृश्यमानानि
दुःखशरीरनिवृत्यावशिष्टकर्मतः प्रकृष्टतरशरीरयोगेन नक्षत्र
मार्गेऽवस्थानं मोक्षमाहुः ।
अन्ये त्वाग्नेय सौरवैष्णवादयोग्न्यादि देवतासाम्यं मोक्षः । ततः परं न
प्राप्यस्थानमस्तीत्याहुः । तेषामपि
ब्रह्माण्डान्तर्गततत्तद्भुवनदेवताप्राप्तिरेव स्यात् । ततस्तेपि भूतसिद्धा एव ।
अपरे तु हिंसामैथुनादिकमेव पुरुषार्थोपायं मन्यमानाः कौलाः
घटपटन्यायेन भौतिकशरीरविनाशात् विशिष्टपदप्राप्तिमेव मोक्षं
मन्यन्ते । तेपि वस्तुतः पिशाचादि पदावस्थितत्वात् भूतसिद्धाः । एवं
कर्ममीमांसकाः जैमिनीयाः पुनर्न कदाचिदनीदृशं जगन्नास्य कर्ता
कश्चिदस्ति आत्मानस्तु नित्यास्ते च स्वानुष्ठितैः कर्मभिरेव स्वर्गनरकादि
फलभोक्तारः । एषां च श्रुतिस्मृति
विहितनित्यनैमित्तिकानुष्ठानात्परगतिप्राप्तिरित्याहुः ।
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।
मोक्षार्थि न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति ।
मन्वादयोऽपि भूताण्डकारणं यत्तदेवं परं ब्रह्म ज्ञानात्प्राप्यं च ।
नान्यतः संभवादित्याहुः ।
ततः स्वयंभूर्भगवान् व्यक्तो व्यञ्जयन्निदम् ।
प्. ७७)
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदे । इत्यादि ।
एते च सत्त्वादीनामपि ब्रह्माण्डमध्यजन्यत्वेनाभ्युपगमान् प्रकृतिजन्यानि
गुणादीनि तत्त्वानि नैव सन्ति । ते सर्वे वस्तुतस्तन्मात्रासिद्धा इत्यत्रोच्यन्ते ।
इन्द्रियचैतनिकास्तु शरीरव्यतिरिक्तानीन्द्रियाण्येवात्मशब्दवाच्यानि
नान्यदित्याहुस्तेचेन्द्रियसिद्धाः कथ्यन्ते । तत्त्वेपि पुनरिन्द्रियाणां
प्रवृत्तिकारणम् मन एवात्मा तदेव परमं ब्रह्म तस्माज्जगत्सर्वं
प्रवर्तते । तदेव ज्ञानात् प्राप्यमित्याहुः । यदुक्तं तैः -
चित्तमेव हि संसारो रागादिक्लेशदुषितम् ।
तदेव तद्विनिर्मुक्तो मोक्ष इत्यभिधीयत ॥ इति ।
तेप्यन्तः करण चैतनिकेषु मनश्चैतनिकाः । ये पुनर्निरूपाख्यमहं
प्रत्ययस्वरूपमेव ज्ञानात्प्राप्यमित्युपगछन्ति तेप्यहं कारचैतनिकाः । ये
त्वहंकारवृत्तिरूपं प्राणाख्य वायुमेवात्मानं मन्यन्ते
तेप्यहंकारचैतनिकाः तेप्यहंकारसिद्धाः एव ।
बौद्धास्तावन्नैरात्म्यवादिनश्चतुर्विधाः । तत्र वैभाषिक सौत्रान्तिकौ
बाह्यार्थसद्भाववादिनौ सर्वेवस्तूनां क्षणिकत्वमभ्युपगम्य
बुद्धिवृत्त्यात्मिकामध्यवसायरूपां ज्ञानसन्ततिमेवात्मानं मन्यन्ते ।
माहायनिकमाध्यमिकौ तु बाह्यार्थशून्याज्ञानसन्ततिरेव परमार्थभूत ।
सैव च क्लेशादि वासनायोगात् संसारहेतुर्न तु ततोऽन्यदात्मादिकं
वस्त्वस्तीत्याहुः । एतेषु मध्यात् केचिज्ज्ञानचर्याभ्यां शुद्धचित्संतति
प्. ७८)
समुत्सादो मोक्ष इत्याहुः । प्रदीपनिर्वाण वादिनस्तु तस्याप्युपशमं मोक्षं
मन्यन्ते । ते बुद्धिचैतनिकाः प्रोक्ताः । नैयायिकवैशेषिकास्तु जगतः कर्ता
परमेश्वरस्तस्योपादानं परमाणवः ते च नित्याः ।
अत्मानस्तुनित्याव्यापकाश्चं । तेसां च कर्मभोगार्थं मनः संयोगादेव
ज्ञानमुत्पद्यते इत्याहुः । तत्र नैयायिकाः
षोडशपदार्थज्ञानादात्मगुणविशेषेण बुद्ध्यादि विरहमेव मोक्षमाहुः
। वैशेषिकास्तु पदपदार्थज्ञानादिति भेदः । यदाहुः - प्रमाणप्रमेय
संशयप्रयोजन दृष्टान्त सिद्धन्तावयव
तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेयसावाप्तिरिति । द्रव्यगुणकर्मसामान्य
विशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यज्ञानं
निःश्रेयसहेतुरिति च । बुद्धि सुखदुःखेच्छा प्रयत्न
धर्माधर्मसंस्काराणां नवानामात्मगुणानां अत्यन्ताभावो मोक्ष इति च
परमार्थस्तेप्यात्मनां नित्यत्वाभ्युपगमेपि जडत्वाभ्युपगमात्
धर्माद्यष्टगुणानां बुद्धिमेवात्मत्वेममन्यमाना बुद्धिसिद्धा एव ।
आर्हतास्तु अनेकान्तवादमभ्युपगम्य चलं गुणवृत्तमिति
पातञ्जलोक्तन्यायेन गुणतत्त्वमेव
तादृग्रूपमव्यापकमव्यापकशरीरपरिमितं परिणामिनं चात्मानं
नित्यं मन्यमानास्तस्यानादि मोहादि संक्षयादिति ततस्ते गुणसिद्धा कथ्यन्ते ।
अन्ये तु पुरुषाणामनादिरेव प्रकृतिः । प्रकृतिसंबन्धो भोक्तृत्वं च । न
चानादेर्नित्यस्य स्वभावस्य
प्. ७९)
विनाशोयुक्तस्तस्मान्मुक्तावपि भोक्तृभोग्य संबन्धः
पुंप्रकृत्योरेष्टव्यः । केवलं चानादिकर्मक्षयान्मुक्तौ
शुद्धनिरन्तरानतिशयानवछिन्नसदात्म सुखरूपा सा भोग्या भवतीत्याहुः
। ते च सत्व भुजः कथ्यन्ते । तेषां च गुण भुवने स्थितिः सांख्याः पुनः
पुरुषाः प्रतिशरीरं भिन्नाः नित्याः निर्विकाराः निर्गुणा निर्मलाश्चित्स्वरूपा
व्यापका उदासीना अनाद्य विद्यादि क्लेशयुक्ताश्च प्रकृतिरप्येका
सत्वरजस्तमोरूपा नित्या चैतन्यरहिता व्यापिका समस्तजगदुपादानभूता च । सा
च महदादि पृथिव्यन्त तत्त्व तात्त्विक कॢप्तिरूपेण परिणता स्वात्मानं
भोग्यतया पुरुषेभ्यो दर्शयतीति स एव तेषां संसारः । तेषां मध्ये यदा तु
व्यक्ताव्यक्तात्मविषयेण ज्ञानेन प्रकृतिपुरुष विवेकपुरःसरं
सत्त्वान्यथाख्यातिर्भवति तदा सातं प्रत्युपरताधिकारा तस्मान्निवर्तते ।
तदापदृष्टस्वरूपाद्यवस्थात्मकं कैवल्यं भवतीत्याहु । यदुक्तं तैः
-
वत्सविवृद्धि निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति ॥
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् ।
प्. ८०)
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिरिति च । तदेकदेशास्तु
पात"ञ्जलाः प्रागुक्तमभ्युपगम्य पुरुषेषु मध्यात् कस्यचित्
क्लेशादिवर्णितत्वं शास्त्रोपदेशकत्वं चोक्त्वा
ज्ञानयोगाभासान्मोक्षमिच्छन्ति । यदाहुः -
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इश्वरः । स पूर्वेषामपि
गुरुः । इत्यादि । तेषां ज्ञानादिना गुणतत्वान्तभोग्यकर्मक्षयात्
तदूर्ध्वबुवनप्राप्तिरेव मोक्षः । ततुक्तम् परमोक्षनिरासकारिकासु -
गुणतत्त्वोध्वभोग्यस्य कर्मणोनुपलब्धितः ।
कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् ॥ इति ।
पाञ्चरात्राच्च गुणव्यतिरिक्ताया नारायणाख्यायाः परस्थाः
प्रकृतेश्चिदचितोः वस्तूनां सर्वेषां साक्षात्परम्परयाचोत्पत्तिस्तेषां च
जीवानां विद्या न कर्मानुबन्धेन संसारोज्ञानादिना तत्क्षयतः
समुपशान्तकार्यभेदरूपे तस्मिन् परमात्मनि कारणलयः परश्रेय इति
वदन्ति । यदाहुः -
भगवान् वासुदेवोसौ गुणेभ्यः प्रकृतिः परा ।
अव्यक्तं व्यक्तमाहुस्तं परमस्मान्न विद्यते ॥ इति ।
ईशांस्तु ते समभवन् प्रकृतेः परस्याः
कृष्णानिरुद्ध मकरध्वजरौहिणेयाः ।
इत्याति च । तेत्राव्यक्त सिद्धाः कथ्यन्ते । तद्विकार भूतानां कृष्णादीनां
तत्साधकानां
प्. ८१)
च गुणतत्त्वस्थे विष्णुभुवने वस्थितिः । तदुक्तं श्रीमत्पौष्करे -
अकृतं च कृतं चैव रैभवं ब्राह्मंमेव च ।
वैष्णवं वाथ कौमारमौमं श्रैकण्ठमेव च ॥
भुवनानि गुणेष्वष्टाविति । एते च सांख्यादयो माया महामाययोरपरिज्ञानात्
सविषयामेव प्रकृतिं परप्रकृतितया परव्योमतया च मन्यन्ते ।
तदेकदेशास्तु प्रकृति मेव परब्रह्मत्वेनाभ्युपगम्य तद्विवर्तं
जगदित्याहुः परिणामं वेदान्तिनः परमात्मलषणायाः पर
प्रकृतेर्जीवात्मनां प्रपञ्चस्य चोत्पत्तिमुक्त्वा तेषां
जीवात्मनामात्मज्ञानादिना परमात्मनिलयो मोक्ष इत्याहुः । मायावादिनस्तु
सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादि श्रुतिसिद्धस्य ब्रह्मण एव
सत्यतया तदन्येषां च
भेदरूपाणामविद्यानिर्माणैकसारत्वेनासत्यत्वाज्जीवात्मनामपि
प्रमाणसिद्धप्रोक्तसत्यभूतपरमात्मासारत्वेनप्यविद्याकलुषितत्वेन
भ्रान्तत्वात् स्वप्नानुभवसंसाराभिधानो भेदप्रपञ्चस्वरू * *
सम्यग् ज्ञानोदयात्तत्प्रतिपक्षभूत भ्रान्तिकारणप्रोन्मूलनेन
तिरस्कृताखिलभ्रान्तिः परमात्मबोधः सुप्तप्रबुद्धस्य
स्वरूपमात्रप्रतिष्ठो जीवात्मनः पूर्वप्रवाह विलयो भवति । सैव
परामुक्तिरित्याहुः । तस्मात् ते पुरुषतत्त्व एवावस्थिताः । यच्छ्रूयते -
प्. ८२)
बुद्धितत्त्वे स्थिता बौद्धा गुणेषु त्वार्हताः स्थिताः ।
स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ॥ इत्यादि ।
शब्दब्रह्मवादिनस्तु त आत्मनः क्रियाशक्तिमेव परं ब्रह्म
परव्योमादिशब्दवाच्यामभिधाय तत एव शब्दार्थरूपस्य
प्रपञ्चस्योत्पत्तिः । तत्परिज्ञानाल्लय एवापवर्ग इत्यहुः । तेपि परमार्थतः
पुरुषतत्त्व एवावस्थिताः पौराणिकास्तु सांख्योक्तवत्प्रकृत्यादि तत्त्वजातं
प्रकृतिपुरुषाधिष्ठातारं षड्विंशतिकमीश्वरं चाभ्युपगम्य
तत्सालोक्यादि रूपां तद्गणेश्वर प्राप्तिं चैव परां मुक्तिमाहुः । तेषां
वस्तुतः प्रेर्यत्वात् तदूर्ध्ववस्त्वपरिज्ञानाच्च न परा मुक्तिः । यदुक्तम्
परमोक्षनिरासकारिकासु - गणेन्द्राग्निसमो प्रेर्यावसंपूर्ण
मनोरथावित्यादि । एवं परमादित्यादि साम्यमोक्षवादिनोपि तत्तद्भुवनेषु
तत्तत्सालोक्यादिरूपां मुक्तिं व्रजन्तीत्यर्थतः सिद्धमेव । पाशुपताः पुनः
मायाव्यतिरिक्त मलमनभ्युपगच्छन्तो दीक्षाज्ञानादिना सर्वबन्धक्षये सति
परमेश्वारात् सिद्धे सर्वज्ञत्वादि गुणसंक्रान्तिस्तत्साम्यं मुक्तिरित्याहुः ।
तेषां तु परमार्थतो मलापरिज्ञानात्तद्विनाशाभावेन मायातत्त्व
एवावस्थितिः । यच्छ्रूयते - पाशुपतास्तु मायायां विद्यायां तु
महाव्रताः इति । एवं तद्विशेषाणां शैवपुराणाद्युपन्यस्तानां
वैदिकयाशुपतावामप्यत्रैवावस्थितिः । केचिदुत्पत्त्या साम्यमोक्षवादिनः
शिवप्रसादा सिद्धे सर्वज्ञत्वाद्युत्पद्यत इत्याहुः । अपरे परमेश्वरावेशात्
सिद्धे सर्वज्ञत्वादि
प्. ८३)
स्यादित्याहुः । तेषामपि समलत्वेन पारमार्थिकस्वगुणव्यक्त्य भावात्
तत्रैवावस्थितिः स्यात् । महाव्रताश्च
सांख्यपक्षवद्बद्धदशायामप्यात्मना न कर्तृत्वं मुक्तौ च
सिद्धानां सर्वज्ञत्वमेवासर्वकर्तृत्वं तु
परमेश्वरस्यैवेत्यभ्युपगछन्ति । यदुक्तं पदयक्षिण्याम् -
परमशिवसिद्धात् प्रत्युपरनाधिकारोप्यन्येष्वनुपरताधिकारः सिद्धः
पुनरेकान्ते न सर्वत एवोपरताधिकार इति भेद इति । एवं भूते च विद्यातत्वान्त
एवाध्वनि तत्वान्तराप्त * * * रतन संज्ञाया कथयन्ति
परमार्थतस्तत् तत् तत्त्ववासिनामिव । सर्वकर्तृत्वानभ्युपगमात् ते
विद्यायामेवावस्थिताः इत्युक्तम् - विद्यायां तु महाव्रताः । अन्ये पुनः
सिद्धस्य सर्वज्ञत्वमभ्युपगम्य परमेश्वरप्रेर्यत्वमिच्छन्ति । परे तु
प्रवाहनित्येश्वरवादिनः सिद्ध एव सर्वकर्तृत्वमीश्वरेप्यन्यस्मिन्नेत्याहुः ।
तेषामीश्वरप्रेर्यत्व सिद्धेर्वस्तुत ईश्वरतत्त्वेऽवक्ष्यानम् । शक्त्यद्वैतवादिनः
केचिच्छक्तिमेव परमकारणत्वेनाभ्युपगम्य तत्परिणामं जगदिच्छन्ति । ते
च वेदान्तवादिवज्ज्ञानादिना तल्लयमेव मोक्षं मन्यन्ते । ते परमार्थतः
शक्तेरूपादानत्वाभ्युपगमात्कुण्डलिनीय शक्तितत्वेऽवस्थिताः कौलादीनां तु
कैश्चित् पुरुषार्थसाधनत्वेन स्वीकृतानन्दतन्त्राणां मत्स्यादिभिः सर्वैः
स्वमनिषया प्रणीतत्वेना फलत्वान्नात्र शैवे स्वीकारः । एवमुक्तेन
प्रकारेणान्येपरमपिवामदक्षिण
प्. ८४)
गारुड भूततन्त्राख्यस्रोतोन्तराणामपि स्वस्वविषये प्रामाण्यमस्त्येव । एवं
सर्वागमानां स्वस्वविषये प्रामाण्यमभ्युपगम्य तदविषयाणि शिवादि
वस्तूनि प्रदृश्य तछास्त्रोपदिष्टमोक्षेभ्यः
प्रकृष्टतरस्यापुनरावृत्तेः परमशिव साम्यरूपस्य
स्वरूपव्यक्तिलाभात्मनः परस्य मोक्षस्य प्रदर्शना तदेव
प्रमाणमित्युक्तम् । एतत्सर्वागमप्रामाण्यं तत्र भवता रामकण्ठेन
श्रीमद्रौरववृत्तिविवेके प्रोक्तम् । यदुक्तं -
परस्पर विरोधेन प्राप्यबाधामनानताम् ।
सर्वागमानामाहुर्ये तत्प्रतिक्षेप उच्यते ॥
शक्तितत्त्वे तदद्वैतामुक्तिमिच्छन्ति ये स्थिताः ।
विद्येशतत्त्वे पूर्वे तत्प्रेर्यमीश्वरमेव ये ॥
मन्त्रेशशुद्धविद्यायां ये सर्वज्ञं मुनीश्वरम् ।
मायायां ये स्वचिद्धीनं संक्रान्तगुणमीश्वरम् ॥
ते स्थिता मुक्ति भेदोयं शुद्धोयं पशुदृक्कृतः ।
पशौ ब्रह्मत्वमाहुर्ये चिद्विवर्तादनिर्मलात् ॥
तत्रैव च-
ये प्राक् प्रपञ्चां क्रियाशक्तेः पराहि वाक् ।
अव्यक्ते येऽप्युपादानं गुणानां ब्रह्म चात्मनाम् ॥
अत्रैव करणं तेषां ये तु नारायाणाभिधम् ।
गुणपृष्ठे गुणेभ्यो ये विवेकोक्तबलान्नरम् ॥
गुणेषु येप्यनेकान्तं स्याद्वादचलवृत्तिषु ।
प्. ८५)
बुद्धौ भ्रान्ताः पुमांस्ते ये ज्ञानादि गुणशान्तितः ।
बुद्धिवृत्तौ क्षणध्वंसि ज्ञानमात्रं तु ये भ्रमात् ॥
अहंकृतौ तु तद्वर्त्ति प्राणमात्रं भ्रमेण ये ।
मनसीन्द्रियवृत्तौ यो हेतुमात्रं भ्रमान्तरम् ॥
इन्द्रियेष्विन्द्रियाण्येव ज्ञात्वा ह्यात्मेति ये विदुः ।
तन्मात्रेष्वाप्य माहुर्ये ब्रह्मभूताण्डकारणम् ॥
हिंसामैथुनतः सिद्धाः पिशाचादिपदे स्थिताः ।
भूतेषु येपि चैतन्यं प्राप्यं भूतात्मकं विदुः ॥
तेपि मुक्तौ स्थिता स्वेच्छा मन्ये ये परदर्शनात् ।
मुक्तिमिच्छन्ति तज्ज्ञेयास्तत्तत्तत्त्व युजो बुधैः ॥
यच्चित्तस्तत्र योपेतो भवतीत्युच्यते बुधैः ।
शश्वत्प्राप्य चितश्चैतं व्याप्नुवन्त्येव ते स्वतः ॥
तत्त्वेभ्यो दक्षिणेभ्योन्यत्तैः प्राप्यं यद्यपीष्यते ।
तथापि च तदेवोक्तं कार्यैकाध्यवसायतः ॥
परोक्षस्यार्थतो भेदो भेदोयं कारणस्य वा ।
कार्याद्भिन्नादभिनाच्च सिद्धवत्सिद्धिमेतियत् ॥
कार्यैरेभिस्थितैर्यस्मात्तानि ज्ञानि तैः परैः ।
तान्येव नामभिस्तत्त्वैर्न च नामार्थ भेदकम् ॥
तत्रापि तेषामंशेन भ्रान्तिर्यद्यपि विद्यते ।
सत्यकार्यानुमानैस्तैस्तथाप्य भ्रान्तबुद्धयः ॥
प्. ८६)
भ्रान्तिरर्थान्तरारोपान् सत्यधर्मावलम्बिनि ।
कार्यापैतीति सर्वस्य न विहन्तुं क्षमायतः ॥
काचोग्निहेतुरिति यैः सूर्यकान्तः प्रतीयते ।
काच भ्रान्त्यापि किं तत्र ते भ्रान्ताः परमार्थतः ॥
अतः स्वसंकल्पनाभिस्तैः कल्पितं वस्तु यद्यपि ।
तथाप्यन्ते विसंवादात्तद्रूपत्वं विशन्ति ते ॥
तेषां भ्रान्तिस्तु सा प्रोक्ता तत्प्राप्तौ यानि वर्जिता ।
तत्सचित्र विपक्षत्वात् प्राप्तेरपि विरोधिनी ॥
षट्त्रिंशत् तत्त्वरूपस्य आत्मनोस्य क्रमस्थितेः ।
तदेकदेशतत्त्वाप्तिर्न सत्त्वा न च निष्फला ॥
इत्थं प्रत्यागमं येन भिन्नं प्राप्यमवस्थितम् ।
सर्वागमानां तेनोक्तं प्रामाण्यमविरोधतः ॥
प्रामाण्यमित्थं सकलागमानामीशेन गीतं क्वचिदेवयञ्च ।
एतद् गुरुणामुपदेशसिद्धं युक्त्योक्तवांस्तद्वतरामकण्ठः ॥ इति ।
सर्वं च शास्त्रजातं लोकिकादि भेदात् पञ्चधा भिन्नं तत्र लौकिकं
शास्त्रमायुर्वेददण्डनीत्यादि दृष्टफलम् । वैदिकं तु मीमांसादि
दृष्टादृष्टफलम् । आध्यात्मिकं तु वेदान्तसांख्याद्यात्मज्ञानफलम् ।
अतिमार्गं पुनः पाशुपतादि मायादि तत्त्वप्राप्ति फलं च । मान्त्रं तु
शैवाख्यं परापरभोगमोक्षफलम् । ततुपायोपदेशकं च तस्मादन्येषु
शास्त्रेषु शिवादिपरिज्ञानं भोगमोक्षं स्वरूपं तदुपाय कथनं च
चास्फुटं
प्. ८७)
यदुक्तं श्रीमन्मृगेन्द्रे -
प्रणेत्र सर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः ।
उपायाः सफलास्तद्वच्छैवे सर्वमिदं परमिति ॥
ननु स्रोतोऽन्तराणां वामदक्षिण गारुडभूत तन्त्राणामपि शैवत्वेन
प्रसिद्धेः कथं तेषु वस्तुसंग्रस्य भेदः । उच्यते । तेषां परस्पर
विरुद्धार्थ प्रतिपादकत्वेन सांख्यादिवदेककर्तृत्वा संभवात् सर्वज्ञस्य
सर्वानुग्राहकस्य रागद्वेषादि रहितस्य शिवस्य विरुद्धार्थाभिधायित्वा योगात्
परमेश्वरात्कामिकादि ज्ञानावतारकत्वेन प्रसिद्धानां प्रणवादीनामिव
स्रोतोऽन्तराणामपि परमशिवादवतारकत्वेन कस्य चिदस्मिन् शास्त्रोक्त
वचनादर्शनाच्च न तानि परमशिवकृतानि किंतु
तत्पुरुषशिवशक्त्यधिष्ठितैर्मलपरिणति
तारतम्याधिकारमनुगृतीतैर्वामादिवच्छिवशब्दवाच्यैरागमानन्तरैः
प्रणीतमित्यविरोधः । तानि च स्वविषये प्रमाणान्येव । तदुक्तं रत्नत्रये -
सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे ।
आगमाः शिव एवैकः शिवोऽन्येत्व शिवा मताः ॥ इति ।
श्रीमन्मृगेन्द्रेपि -
स्रोतांसि कामिकायुर्ध्वमसिताङ्गादि दक्षिणम् ।
संमोहाद्युत्तरं प्राच्यां तन्त्रं तालादिविस्तरम् ।
आद्यं चण्डासि धारादि चण्डनाथ परिग्रहम् ॥
इति कथं पुनस्तत्रैव -
सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये ।
विधत्ते विमलं ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तम् ॥
प्. ८८)
अत एव विमलमित्युपदेशातपञ्चमन्त्र परिग्रहत्वात्पञ्चकृत्य
प्रतिपादकत्वात् मञ्चमन्त्रात्मक शिवदेहाभिव्यक्तत्वाच्च सिद्धान्तरूपमेव
ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तं । अत एव स्रोतोऽन्तरस्थानां सर्वत्र
शैवत्वेन प्रसिद्धिः । तदुक्तं श्रीमत्ष्ट्सहस्रिकालोत्तरे -
शान्त्यतीते कामिकाख्यं शान्तेर्वै योगजं विभोः ।
अचिन्त्यं विद्धि विद्यातः प्रतिष्ठा कारणात्मिका ॥
निवृत्तेरजितं नाम शिवस्य वदनानि तु ।
दीप्तं शिवस्य हृदयं सूक्ष्माख्यं तु शिरस्तथा ॥
सहस्रं तु शिखा शम्भोरंशुमत्स्यात् तनुत्रम् ।
सुप्रभं लोचनं ज्ञेयं सोमसूर्याग्निसन्निभमिति ॥
मूर्धतो विजयं जातं ललाटात् पारमेश्वरम् ।
नेत्रेभ्यश्चैव निश्वासं त्रिखण्डं निर्गतं पुरा ॥
श्रवणाभ्यामयोद्गीतं द्विखण्डं भुक्तिमुक्तये ।
त्रिंशत्प्रकारं विज्ञेयं मुखाच्च मुखबिम्बकम् ॥
त्रिशतं तु तथा सैद्धं ग्रीवां साभ्यां समुत्थितम् ।
द्विकाण्डं चैव संतानं तालु देशाद्विनिर्गतम् ॥
एकभेदं नारसिंहं वक्षोदेशाद् विनिर्गतम् ।
स्तनाभ्यां चन्द्रहासाख्यं तद्विभेदाद् विनिर्गतम् ॥
प्. ८९)
हृद्ग्रीवाद्वीरभद्राख्यं तद्विभेदादिविनिर्गतम् ।
आग्नेयं वातुलाज्ज्ञेयं जठरादेकभेदकम् ॥
स्वायंभुव नाभिदेशात् भेदेनैकेन सर्पितम् ।
विसरं पार्श्वयोर्जातं द्विभेदं शिवकायतः ॥
रौरवं ब्रह्मदेशात्तु भेदैकेन व्यवस्थितम् ।
प्राकुटं कटितो जातं त्रिभेदं तच्च शाङ्करि ॥
एकभेदं तु किरणं प्रजननाद् विनिर्गतम् ।
ऊरुयुग्मानु ललितं सिद्धान्तं तद्विभेदजम् ॥
द्विभेदं सौरभेयं च जानुभ्या परमेष्ठिनः ॥ इति ।
तस्मात् सिद्धान्ताख्यं शास्त्रं सर्वोत्कृष्टमित्यनेन च सर्वाणि ज्ञेयानि
वस्तूनि प्रतिपाद्यन्ते ।
अत्र हि पशुपति पाशाख्यं पदार्थत्रयं मुख्यतया ज्ञेयत्वेनोच्यते ।
एतेष्वेवान्येषामप्यन्तर्भावात् । यदुक्तं श्रीमन्मृगेन्द्रे -
त्रिपदार्थं चतुःपादं महातन्त्रं जगत्पतिः ।
सूत्रेणैकेन संगृह्य प्राह विस्तरशः पुनः ॥ इति ।
तत्र मन्त्र मन्त्रेश्वर मन्त्र महेश्वर मुक्तात्मशक्ति शिवानां
क्रियादिपादवाच्यस्य दीक्षादेर्भोगमोक्षसाधनकलापस्य च पतिपदार्थे
संग्रहः । पशुपदार्थे च विज्ञानाकल प्रलयाकल सकलान । तद्भेदानां
संग्रहः । पशुपदार्थे तु मलतिरोधानशक्तिकर्ममायामहामायारूपाः
पाशाः संगृह्यन्ते । अत्रापि च श्रीमन्मतङ्गादौ
प्. ९०)
पदार्थानां संज्ञाभेदाः संख्याभेदाश्च श्रूयन्ते । तत्राप्येतानि वस्तूनि
प्रकाशन्तरेणोच्यन्त इत्यविरोधः । पशुपतिपाशलक्षणं चोक्तं
श्रीमत्पराख्यादौ -
सर्वकर्ता महान् छक्तः सर्ववेत्ता महेश्वरः ।
मन्त्राङ्गोऽनुग्रहोत्साहः शान्तो विद्येश बोधकः इत्यादि ॥
देहान्यो नश्वरोव्यापी विभिन्नः समलो जड ।
स्वकर्मफलभुक्कर्ता किञ्चिज्ज्ञः सेश्वरः पशुरित्यादि ।
तथा प्रावृतीशबले कर्ममाया कार्यं चतुर्विधम् ।
पाशजालं समासेन धर्मानाम्नैव कीर्तिता । इत्यादि च ।
पशवस्त्रिविधाः तत्र मलमात्रयुतो विज्ञानाकलः मलकर्मयुतः प्रलयाकलः
मलमायाकर्मयुतः सकलः मलश्चैकोनात्मविद्या विद्यावारकोनेकशक्तियुक्तो
नित्यो व्यापकश्च । कर्मापि प्रतिपुरुषभिन्नं प्रवाहानाद्यात्मकर्तृकं
सुखदुःखादिप्रदं च । माया शुद्धाशुद्धा च । तत्राशुद्धा च
तत्राशुद्धा कलादिक्षित्यन्तत्रिंशत्तत्व तद्गतभुवनभुवनभूतभावानां
परमकारणभूता नित्या स्वकार्यव्यापिका शुद्धविद्यादि शक्तितत्त्वान्त
तत्त्वतात्विक भुवनादि परमकारण रूपा शब्दोपादान भूता च रोधशक्तिस्तु
मलपाकात्पूर्वं तत्पाकार्यं पशूनां तिरोधानभावनां कुर्वाणोपचारेण
पाश इत्युच्यते । किं च महामाया भुवनप्राप्तेरपरमुक्तित्वेपि तत्प्राप्तानां
परमुक्त्यपेक्षया पारतन्त्र्यादि योगात्रयाणां पाशत्वमुच्यते । एतच्च
प्. ९१)
सर्वं शास्त्रेषु विस्तरेण साधितत्वान्नात्र प्रपञ्चते ।
ननु नित्य एव शब्दः । कथं तदुपादानतयात्र सिद्धा महामायोच्यते ।
अत्रोच्यते वर्णानामाचैतन्ये सत्यनेकत्वेन तत्कारणतया विद्याख्या महामाया
सिद्धा । तदुक्तं श्रीमत्पराख्यादौ -
उपादानमतो बिन्दुर्यस्माद्वर्णा न तद्विना ।
बहुसंख्याः स्मृता यस्मात् कृतास्ते चेतनायतः ॥
निमित्तमीश्वरस्तेषामुपादानं स बिन्दुरा ॥ इति ॥
अमेनाक्षरबिन्दोः परमकारणस्य परबिन्दोर्विशेषमाह । ततश्च परमेश्वरो
बिन्द्वाख्यात्परमकारणान्नादादि क्रमेण समस्तपदादिरूप-
शब्दकारणत्वान्मातृकाशब्दवाच्यान्वर्णानुत्पादयति । तदुक्तं
श्रीमन्मृगेन्द्रे -
शक्तेर्नादो भवद्बिन्दुरक्षरं मातृका तत इति ।
ननूच्चरिते ध्वंसिनां वर्णानां ताल्वोष्ठपुटसंयोगादुत्पत्तिर्दृश्यते ।
उक्तं च -
आकाशवायुप्रभवः शरीरात्समुच्चरन्वक्रमुपैति नादः ।
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागछति यः स शब्दः ॥
इति । तत्कथं महामायाजन्या मातृकोच्यते । अत्र ब्रूमः । परमेश्वरः
सर्गादौ नादादिक्रमेण मातृकामन्त्रं मन्त्रात्मकं च
सिद्धान्तशास्त्रमुत्पादयामास । स च शुद्धशब्द उच्यते । तदुक्तं
श्रीमत्पराख्यादौ -
बिन्दुः शुद्धस्तदिच्छातः शब्दराशिरभूत्तदेत्यादि ।
तदुत्पन्नाश्च नादास्तत्वान्तरवत्प्रतिपुरुषमर्थप्रत्यायकत्वेन शिवेच्छया
संयुज्यन्ते । नादसिद्धिश्च नादकारिकासु द्रष्टव्या । तदुक्तं श्रीमत्कालोत्तरे
-
प्. ९२)
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् इति ।
ते च नादा विद्येश्वरादिषु वर्तमानाः शुद्धबैन्दवशरीरादिसहकारेण
शुद्धशब्दोच्चारहेतवो भवन्ति । सकलेषु तु बद्धात्मसु वर्तमाना मायीय
कार्यकरण सहकारेणं परमाक्षरबिन्द्वादि क्रमेण शब्दोच्चारभेदेनार्थ
प्रतिपत्तिहेतवश्च भवन्ति तदुच्चरितशब्दो मायीयाकाशादिजन्यत्वादशुद्ध
उच्यते । ततश्चास्मदाद्युच्चरितेषु शुद्धवर्ण सदृशेष्वङ्गारस्थानीयेषु
वर्णेषु परमेश्वराद्यवधानादिना तद्द्धिच्छया नादद्वारेणाभिव्यक्ता
अग्निस्थानीयाः शुद्धवर्णाः फलहेतवो भवन्ति । अत एव घटादिशब्देभ्यो
मन्त्र राजस्य विशेष । उक्तं च श्रीमन्मतङ्गे -
वाच्यवाचकभेदे यः सुप्रसिद्धौ महामुने ।
तेषां व * * संनियुक्तानां वाच्यानां कारणेच्छया । नियुक्ता
वाचकत्वेन वर्णाः शास्त्रे शिवोदये । अस्वतन्त्रं जगद्यस्मात् स्वतन्त्रः
परमेश्वरः ।
ददीरिताः साधकानां नित्यं संनिहिता गिरः ।
पुरुषाणामचैतन्याद्वर्णानामप्यमूर्तता ॥
मन्ये च परतन्त्रत्वात् साधकस्यापि शासने ।
शक्त्यावेशात् ततः सिद्धा वाच सांनिध्यता मनोरिति ॥
तस्माच्छब्दार्थ संघस्य नित्यत्वाच्छब्दोपि नित्य इत्ययमपि पक्षो निरस्तः ।
वाच्यवाचकसंबधस्य परमेश्वरसंकेतकृतत्वान्त च संकेतः
सर्वशब्दानामेकेन कर्तुमशक्यमिति वाच्यामपरिमित शक्तित्वेन
प्. ९३)
परमेश्वरस्योक्तत्वात् । तदुक्तं श्रीपराख्ये -
तगदेतद्यथा सृष्टमिच्छया क्रमवर्जितम् ॥
संकेतोपि तया सृष्टो जनैर्ज्ञातस्तदिच्छया ।
अस्वतन्त्रं जगद्यस्मात्कर्मपाशतमोवृतम् ॥
या काचित् तद्गताचेष्टा सा सर्वा तत्कृता यतः ।
तेन संकेतकृत्सर्वो कुलहेतुर्यतः स्थितः ॥
मन्त्राणामपि संकेतास्तेनैव परिकल्पिताः ।
बहवस्तत्र ये सिद्धा मातृकापदलक्षिताः ॥ इति ।
तथा मन्त्रवार्तिके च -
विद्याविद्येशानां सामान्यविशेषविच्छम्भु ।
मन्त्रानकरोद्यस्मादर्य विदभिधान कृद्दृष्टः ॥ इति ।
तस्मादितरशब्दरचनाया मायीयकार्यकरणे पशुकृतत्वात्
स्रोतोन्तराणामप्यात्मान्तर प्रणीतत्वाच्च सिद्धान्ताख्यमेव शास्त्रं
सर्वोत्कृष्टमिति स्थितम् । तत्प्रणेतुः परमेश्वरस्य कृत्यानि पञ्च
सूक्ष्मादीनि । यदुक्तं श्रीमन्मृगेन्द्रे - जगज्जन्मास्थितिध्वंसतिरोधान
विमुक्तयः कृत्यं सकारक फलं ज्ञेयमस्यैतदेव हीति । तत्र शिवस्य
साक्सात् सृष्टिः विन्द्वाख्यादुपादानाच्छुद्धतत्व भुवनाद्युत्सादनपूर्वं
विद्याविद्येश्वरादीनां बैन्दवशरीरादि योगजननादि क्रमेण शब्दोत्पादनं
च अनन्तादि द्वारात् मायाख्यादुपादानादशुद्धतत्त्वभुवनाद्युत्पादन
पूर्वमपद मन्त्रेश्वराणां सकलानां च मायीय कार्य करणादि
संयोजनम् । तदुक्तं श्रीमत्किरणे -
प्. ९४)
शुद्धे ध्वनि शिवः कर्ता प्रोक्तोऽनन्तोसिते प्रभुः । इति ।
स्थितिः स्वेच्छया निरुद्धस्य सर्वस्य जगतः स्वेषु कार्येषु
नियमेनावस्थापनम् । संहारः पुनः शुद्धाशुद्धयोः सृष्टिप्रातिलोम्येन
माया महामाययोरूपसंहारः । तिरोभावेप्यात्मनां
यथानुगुणभोगभोजनं । अनुग्रहस्तु पाशच्छेदः शिवत्वाभिव्यक्तिश्च
ततश्च परमेश्वरः सृष्ट्यादिभिरात्मनां मलं परिपाच्यानुग्रहेण
मोक्षं करोति । तदुक्तं श्रीमत्स्वायम्भुवे -
अथात्मबन्धसंतान पशुत्व विनिवृत्तये ।
व्यक्तये च शिवत्वस्य षड्विधोध्वेह कीर्त्यते ॥
तत्त्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः ।
मन्त्राध्वा च कलाध्वा च विशत्येकं शिवं पदमिति ॥
ते च प्रत्येकं क्रमेण शिवपदप्राप्ति हेतुत्वात् अध्वानः कथ्यन्ते । तत्र
कलाध्वा शान्त्यतिता शान्तिविद्याप्रतिष्ठा निवृत्त्यात्मक पञ्चकलात्मा ।
वर्णाध्वाप्यकारादि क्षकारान्तपञ्चाशद्वर्णमातृकात्मा । पदाध्वा
पुनर्व्योम व्यापिपदरूपस्तत्पदानि च क्वचिदेकाशीतिसंख्यानि क्वचित्
षण्णषतिसंख्यानि । मन्त्राध्वा तु क्वचिन्नेत्र वर्जिताङ्ग
ब्रह्मशिवमन्त्रात्मा क्वचिन्नवव्यूह मन्त्ररूपः शिवादि मन्त्राश्च
प्रतितन्त्रं भिद्यन्ते । तेन च मन्त्रभेदः क्रियाभेदश्च तन्त्रविरोधस्य हेतुः ।
क * * * त्र भेदस्यैव बोधायनादिसूत्रेषु यथा । यदुक्तं -
क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः ।
प्. ९५)
तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः ।
शब्दसामर्थ्यलभ्यं यदर्थसामर्थ्यतोऽपि वा ॥
वस्तुशक्त्या यथाप्राप्तं तद्वाक्यं संहितान्तरात् ॥ इति ।
याज्ञसूत्रेऽपि - यः स्वसूत्रमतिक्रम्य परं सूत्रेण वर्तते ।
अप्रमाणमृषिं कृत्वा सोऽप्यधर्मेण युज्यते ॥ इति ।
भुवनानि शुद्धाशुद्धानि भोगस्थानानि । सवप्रतितन्त्रं संख्याभेदेन
श्रूयते । तत्र केषुचिद्भुवनेषु केषां चिदन्तर्भावाभ्युपगमादविरोधः ।
तत्त्वाध्वा तु पूर्वोक्तमुक्तिस्थानतारतम्य प्रदर्शनार्थं विस्तरेण लिख्यते ।
स च द्विविधोऽशुद्धः शुद्धश्च । तत्राशुद्धाध्वसृष्टिः
साधारणासाधारणोभयरूपेण त्रिधा । तत्रासाधारणसृष्टिः
प्रतिपुरुषनियता सूक्ष्मदेहात्मिका । साधारणानु भुवनाद्यात्मिका ।
उभयरूपा तु भुवनजशरीरात्मिका । तत्र मायातत्वमशुद्धाध्व
परमकारणमित्युक्तम् । तस्मात् कलादिक्षित्यन्तानि । तस्मात् कालकलेरागविद्याद्
व्यक्तं गुणाद्धियं । बुद्धितत्त्वादहंकारः तन्मात्राणीन्द्रियाणि च ।
तन्मात्रेभ्यश्च भूतानि सर्वं च क्रमशोऽसृजदिति । तत्र कलाशब्देन तन्त्रेण
न्यायेन नियतिरपि संगृहीतेति वृत्तिकारेणोक्तम् । ग्नियतेरपि सर्वत्र तद्वत्तेन
श्रवणात् । उक्तं च तत्रैवाध्वनि मायाधः कलातत्त्वं तु संस्थितम् ।
तत्पदद्वये नियतिश्च परेऽन्यस्मिन् कालविद्या ततः पुनरिति तत्र संहारक्रमेण
पृथिव्यादीनि महाभूतानि पञ्च । तदुक्तं सृष्टिक्रमेण श्रीमन्मृगोन्दे
-
प्. ९६)
व्योमप्रभञ्जनाग्न्यम्बु भूमयो भूतपञ्चकम् ।
शब्दाह्येकोत्तरगुणमवकाशादि वृत्तिमदिति ॥
तदुपादानानि पञ्चतन्मात्राणि । तदुक्तं श्रीमन्मृगेन्द्रे -
शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चकम् ।
गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोगिता इति ।
तत्त्वसंग्रहे च - तद्भूतसमानगुणं कारणमापूरकं च तस्यैव ।
तन्मात्रं भूतस्य ह्ययं विशेषो विशेषरहितं तदिति एतानि
स्थूलसूक्ष्मरूपेणेन्द्रियाधाराणि स्थितानि । तदुक्तं श्रीमन्मृगेन्द्रे -
तन्मात्राणीह कट्वन्महाभूतानि लेपवदिति । तत्त्वसंग्रहेपि -
एतत् कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् ।
अविभुत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते ॥ इति ।
तानि च करणानि कर्मेन्द्रिय बुद्धिन्द्रियान्तः करण भेदानिधा । तत्र
कर्मेन्द्रियाणि श्रीमन्मतङ्गोतवत्संहार क्रमेणानन्दादि क्रियाकरणत्वेन
सिद्धान्युपस्थपायुपादपाणि वागाख्यानि पञ्च । उक्तं च श्रीमन्मृगेन्द्रे
- वाणी पाणी भगः पायुः पादौ चेति रजोभवाः । इति । वचनादान संवाद
विसर्गविहृति क्रिया । इति च । बुद्धिन्द्रियाणि गन्धादि ग्रहणान्यथानुपपत्ति
सिद्धानि । तदुक्तं तत्त्वसंग्रहे -
श्रोत्रस्पर्शनदर्शनजिह्वा घ्राणानि बुद्धिकरणानि ।
प्रत्येकं शब्दादिष्वेषामालोचनं वृत्तिरिति ॥
प्. ९७)
दशधा करणं बहिरिच्छासंरम्भ बोध वृत्त्यन्यत् ।
अन्तःकरणं त्रिविधं चित्ताहंकारबुद्धिनिर्वाच्यमिति ॥
अतश्चान्तः करणत्रयं मनोहंकारबुद्ध्याख्यं तत्र मनोऽवधानवृत्ति
सिद्धं । उक्तं च श्रीमन्मृगेन्द्रे -
देवप्रवर्तकं शीघ्रचारि संकल्प धर्मि च ।
मनः शब्दादि विषयग्राहकाः श्रवणादयः ॥ इति ।
अहंकारस्तु संरम्भवृत्त्यहं प्रत्ययहेतुः । तदुक्तं भोगकारिकासु -
संरम्भोहं कृतेर्वृत्तिः इति । श्रीमन्मृगेन्द्रेपि -
अथ व्यक्तान्तराद्बुद्धेर्गर्वोभूत्करणाञ्चितः ।
व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः ॥ इति ।
अहं प्रत्ययहेतुत्वं च श्रीमन्मतङ्गे विस्तरेण साधितम् । स चाहंकारः
सत्त्वादिगुणाधिक्यात्तैजसवैकारिकभूतादि संज्ञया त्रिधा भिद्यते । तत्र
सात्त्विकात्तैजसात्प्रकाशकानां बुद्धीन्द्रियाणां मनसश्चोत्पत्तिः ।
वैकारिकाद्राजसात् प्रवृत्ति हेतूनां कर्मेन्द्रियाणां तामसात्तु
भूतादेस्तन्मात्राणामिति ज्ञेयम् । तदुक्तं भोगकारिकासु -
स मनोबुद्धि देवानां गणो यस्मात् प्रकाशकः ।
तस्मात् स सात्त्विकाज्जातः स्वानुरूपादहंकृतेः ॥
राजसाद्वैकृताद्वर्गः कर्माक्षाणां तु कर्मकृत् ।
जातः कार्यस्य येनेह काराणानु विधायिता ॥
मात्रा संघोप्यहंकाराद्वर्गद्वय विलक्षणं ।
प्. ९८)
प्रकाश्यस्तामसस्तस्माज्जातीभूतादि संज्ञकात् । इति ।
तदुपादानतया बार्ह्यार्थाध्यवसायहेतुत्वेन च बुद्धिः सिद्धा । सा च
गुणतत्त्वादुत्पना । तदुक्तं श्रीमन्मतङ्गे -
क्षुब्धेभ्यः सहसा पूर्वं गुणेभ्यो भूतगोचरा ।
बुद्धिरध्यवसायेन भावानां जननी शुभेति ॥
सा च धर्मादीनामात्मसंस्कारकत्वेन तद्गुणत्वादभ्युपगन्तव्यं विकारित्व
प्रसङ्गात् । कृष्यादि कर्मणां च प्रकृतिसंस्कारकत्वेनैव
दर्शनाद्बुद्धिरेव धर्माद्यष्टगुणोपेतात्र कथ्यते । तदुक्तं
श्रीमन्मृगेन्द्रे -
भावाबुद्धि गुणाधर्म ज्ञानवैराग्य भूतयः ।
सात्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ॥ इति ।
भोगकारिकासु च -
अधर्मादित्रयं रागो धर्मादि च चतुष्टयम् ।
तमोरजःसत्त्वमयं रूपं तत्कर्मजन्मनामिति ॥
गुणतत्त्वं सत्त्वरजस्तमोरूपैस्त्रिभिः प्रकाशप्रवृत्ति नियमाख्यैः धमैः
सिद्ध्यति । तदुक्तं श्रीमन्मृगेन्द्रे -
ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ॥
त्रयोगौणास्तथाप्येकं तत्त्वं तदवियोगतः ।
एकैकश्रुतिरेतेषां वृत्त्याधिक्य निबन्धनेति ॥
प्. ९९)
ततश्च गुणानामाचैतन्ये सत्यनेकत्वात्तत्कारणतया गुणमस्तकस्य
क्रोधेशादिभुवनोपादनत्वेन चाव्यक्ता एषा प्रकृतिः सिद्धा । तदुक्तं
श्रीपराख्ये -
प्रकृतेर्गुणहेतुत्वाद्गुणानां कार्यता ध्रुवमिति ।
तेषां येनात्मकार्याणि पृथक् सिद्धानि कार्यतः ॥ इति ।
अत्र कलादिपञ्चकञ्चुकयुक्तस्य पुंसो भाक्तत्वेन
पुंस्त्वमलयोगाद्दिक्षायां तच्छुद्ध्यर्थं शोध्यः पुरुषः सर्वाध्वोत्तीर्ण
शोधकशिववच्छास्त्रेषु पठ्यते । तस्य तु चेततत्वात् व्यापकत्वादविकारित्वेन
तत्त्वान्तरोपादानत्वायोगात् भुवनाधारत्वाभावाच्च नाध्वरूपत्वम् । ततः
पञ्चकञ्चुकसंबन्धयोजनं भोगाधिकारात्मकं पुंस्तत्त्वं
मायाजन्यत्वेनात्रोच्यते । तदुक्तं श्रीमन्मतङ्गे -
अथ पुंस्तत्त्वनिर्देशं स्वाधिष्ठानोपसर्पतः ।
न च तत्त्वं मुनिव्याघ्र द्वितीयं पुरुषाह्वयम् ॥
कञ्चुकत्रितयाविद्धं कालेन कलितं शनैः ।
निपत्यालिङ्गितं यान्ति पुंभावेनात्मवर्तिनेति ॥
तथा तस्यात्मनः तत्वविभागस्थो यया सहोक्तेति समर्थितात्मा सेयं मया ते
कथिता यथावत् भोग्यसनं जगच्च विभौ विधास्येति । ननु पुरुषतत्त्वेपि
केषुचिच्छास्त्रेषु भुवनानि श्रूयन्ते । सत्यम् । तदधिपतीनां
रुद्राणामाश्रयत्वेन भुवनानि श्रूयन्ते एव । तानि तु पुरुषस्य चेतनत्वेन
भुवनाधारत्वायोगात् पुंस्त्वमलसंबन्ध
प्. १००)
समानदेशरागतत्व एवावस्थितानि । अत एव श्रीमन्मृगेन्द्रे पुंस्तत्त्वं तत
एवाभुत्पुंप्रत्ययनिबन्धनम् आपूरकं प्रधानादेर्भौवने
रुद्रसंश्रयमित्युक्तम् । श्रीमत्किरणे -
रागतत्त्वे स्थिता एते रुद्रास्तीव्रबलोत्कटाः ।
तत्रैव पुरुषोज्ञेयः प्रधानगृहपालकः ॥ इति ।
कला विद्याभ्यां समर्थितज्ञानक्रियस्यात्मनोभिलाष जनको रागः सिद्धः ।
तदुक्तं श्रीमन्मृगेन्द्रे -
तदभिव्यक्तदृक्छक्तिर्दृष्टार्थोप्यनुपासितः ।
नैति तज्जनकं रागं तस्मादेवासृजत्प्रभुरिति । भोगकारिकासु च -
भोग्यानुभवमासाद्य भोगे सक्तिः प्रवर्तते ।
तत्सिद्ध्यर्थमतस्तस्य रागो भोगानुरञ्जकः ॥ इति ।
अथा अन्तःकरण बहिःकरणानां संनिहिता संनिहिते
विषयोपस्थापकत्वेनोपयोगादध्यवसितविषयाया बुद्धेः साक्षाद्भोग्यत्वाच्च
तद्ग्रहणे पुरुषस्य करणत्वेन विद्या वेदितव्या । तदुक्तं श्रीमन्मृगेन्द्रे
-
एवं व्यक्तक्रियाशक्तिद्दिदृक्षुर्गोचरं दृशः ।
भवत्यनुग्रहापेक्षां स्वयं द्रष्टुमशक्नुवन् ॥
तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् ।
तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ॥
तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना ।
प्. १०१)
सर्वकारक निष्पाद्यमवैति विषयं परम । इति ।
तत्त्वसंग्रहेपि -
बुद्धिर्विषयाकारा सुखादिरूपासमासतो भोग्या ।
रविवत्प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् ॥
कारणान्तरसापेक्षः शक्तो ग्राहयितुमात्मानम् ॥ इति ।
एतच्चाव्यक्तरागविद्याख्यतत्त्वत्रयं कलातत्त्वादजनि । यदुकं श्रीमद्रौरवे
-
कलातत्त्वाद्रागविद्ये द्वे तत्वे संवभूवतुः ।
अव्यक्तं चेति तथा प्रलकेवलावस्थायां पुंसो मलावृतत्वेन
किञ्चिज्ज्ञत्वस्याप्यसंभवात्तदेकदेशमलप्रोत्सारणाय मायातत्त्वादुत्पन्ना
कला बोद्धव्या । यदुक्तं श्रीमन्मृगेन्द्रे -
कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् ।
नमश्छन्नतयार्थेषु नाभानि निरनुग्रहा ॥
तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः ।
मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ॥
तेन प्रदीपकल्पेन तथा स्वच्छचितेरणोः ।
प्रकाशय ह्येकदेशे विदार्य तिमिरं घनम् ॥ इति ।
श्रीमन्मतङ्गेपि -
सुसूक्ष्मा विमला सा या सा ज्ञानक्रियात्मिका ।
समर्थीकृत्यकलया भोगेषु विनिपात्यते ॥ इति ।
अपि च व्यापकत्वेनात्मनं सर्वत्र सन्निहितत्वात्सर्वेषां
सर्वकर्मफलयोगप्रसंगात् स्वकर्मफलभोगनियामकत्वेन नियतिः सिद्ध्यति ।
प्रवृत्तभोगस्याप्यवध्यपेक्षत्वात्तत्परिच्छेदक चिरक्षिप्रादि
प्. १०२)
प्रत्ययलिङ्गश्च कालः सिद्धः । तौ च मायातः सहैवोत्पन्नावित्युक्तं
श्रीमन्मृगेन्द्रे -
तृप्त्यादि प्रत्ययस्यार्थः कालो माया समुद्भवः ।
कलयन्नासमुत्थानान्नियत्यानियतं पशुम् ॥ इति ।
श्रीमन्मतङ्गेपि -
अथ कालः क्रमात् प्राप्तः कञ्चकत्रयदर्शनात् ।
येनासौ कल्प्यते सूक्ष्मः शिवसामर्थ्ययोगतः ॥ इति ॥
तथा शक्तिर्नियामिका पुंसः सहतत्त्वेन सर्पितेत्यादि च । अत्र कालनियत्योः
श्रीमन्मृगेन्द्रादौ प्रवृत्तिक्रमेण रागतत्त्वादधः पाठस्तु सिद्धिश्च
श्रूयते श्रीमत्स्वायम्भुवादौ तूत्पत्तिक्रमेणेत्यविरोधः ।
एषकलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः सूक्ष्मदेहः प्रतिपुरुषनियतो
साधारणः सर्ग इत्युक्तम् । उक्तं च श्रीमन्मृगेन्द्रे -
प्रयोक्त्र्यादिं महीप्रान्तमेतदष्वर्थसाधकम् ।
प्रत्यात्मनियतं भोगभेदतोप्यवसीयते ॥ इति ।
तत्त्वसंग्रहेऽपि -
वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयं पर्यटनि कर्मवशतो
भुवनजदेहेष्वयं च सर्वेष्विति । अत्र केचित् सांख्यवत्प्रकृति
गुणयोरेकत्वमभ्युपगम्य पुरुषं तत्त्वमध्ये पठित्वा त्रिंशकसंख्यां
कथयन्ति । तदयुक्तम् । प्रोक्तमूलश्रुतिविरोधात् एवं च
समस्ताशूधतत्त्वपरमकारण मत एव नित्यं स्वकार्यव्यापकमचेतनं
मायातत्त्वं श्रूयते यदुक्तं श्रीमन्मृगेन्द्रे -
तदेकमशिवं बीजं जगतश्चित्त्रशक्तिमन् ।
प्. १०३)
सहकार्यधिकारान्तसंरोधि व्याप्य नश्वरम् ।
कर्तानुमीयते येन जगद्धर्मेण हेतुना ॥
तेनोपादानमप्यस्ति न परस्तन्तुभिर्विनेति ।
अत्र च मायाया नित्यत्वेन भुवनाद्याधारत्वायोगात् तद्भुवनानि कलामस्तक
एव स्थितानि । तदुक्तं श्रीमन्मृगेन्द्रे -
मायायामपि पठ्यन्ते गहनेशादयोधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ॥ इति ।
अत्र च कलादिक्षित्यन्तस्य सूक्ष्मदेहस्य दीक्षायां प्रकृतितत्त्वान्त
भोगप्रदत्वमात्रं विच्छिद्य कलातत्त्वादूर्ध्वं
वर्तमानशरीरभोगप्रदत्वमात्रमवस्थाप्य सर्वथाविच्छेदः कार्यः
सद्योनिर्वाण इत्युच्यते । तदधिष्ठाय शिवोपि शिव एव च निर्वाण दीक्षायां तु
तदविच्छेदः कर्तव्यः माया तत्त्वादूर्ध्वं मलस्यापि तथा विच्छेदः कार्यः
। एवमनेकानि मायातत्त्वस्त्रोतांसि । यदुक्तं बृहस्पतिपादैः अपि
सर्वसिद्धिवाचः क्षीयेरन् दीर्घकालमुद्गीर्णः मायायामानन्त्यान्नोच्येत
स्रोतसां संख्येति । उक्तं च श्रीमन्मतङ्गे -
मधुकोशपुटाकारा निचिना परमाणुभिदिति । शुद्धाध्वात्वेक रूप एव ।
एवमशुद्धाध्वा प्रदर्शितः । शुद्धाध्वा प्रदर्श्यते । तत्र यस्मिंस्तत्त्वे
सप्तकोटिसंख्यातानां मन्त्राणामवस्थितिः तद्विद्यातत्त्वं तदूर्ध्वं
यस्मिन्ननन्तादयो विद्येश्वरास्थितास्तदीश्वरतत्त्वं तदुक्तं
श्रीमत्सर्वज्ञानोत्तरे -
प्. १०४)
तदूर्ध्वं तु भवेदन्यद्विद्यातत्वं षडाननेत्यादिनाविद्यातत्वमुक्त्वा -
विद्योर्ध्वात्तु भवेदन्यद्विश्वेशावरणं पुनः ।
दीप्तपावकवर्णाभं किञ्चिद् वृत्तं सुनिर्मलम् ।
अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन्विभूतिदाः इति ॥
श्रीपराख्येपि -
शम्बरः सर्वविद्यायामनन्ताख्यस्तथेश्वर ॥ इति ।
तस्मादूर्ध्वं सदाशिवतत्त्वमधिकारावस्थेन प्रवृत्तशिवेनाधिष्ठितं
सदाशिवभुवनाधारः । तदुक्तं श्रीमत्सर्वज्ञानोत्तरे -
अथोर्ध्वं तु भवेदन्यत्सर्वैश्वर्यमयं शुभम् ।
सदाशिवं परं तत्त्वं शुद्धस्फटिकनिर्मलेमित्युपक्रम्य ॥
तत्रास्ते भगवान् देवः सर्वतत्त्वेश्वरो हरः ।
सदाशिवो विभुर्व्यापी मन्त्रमूर्तिमयः परः ॥ इति ।
तस्मादप्यूर्ध्वं भोगावस्थेनानेन कार्यमुक्तेन शिवेनाधिष्ठितो
निवृत्त्यादिबिन्दुकलाभुवनचतुष्टयाधारो बिन्दुपरिणतिविशेषः
शक्तितत्त्वमुच्यते । यदुक्तं श्रीमन्मृगेन्द्रे -
सदाशिवे पवित्राङ्गः सकलादिपरिच्छिदः ।
देवः सदाशिवो बिन्दौ निवृत्यादिकलेश्वरः इति ।
अत्र च निवृत्यादि कलेश्वरकेवलसद्योजाताद्याकारेण भोगावस्थेन
शिवेनाधिष्ठितत्त्वाद् बिन्दुशब्देन बिन्दुकलाभुवनाधारः शक्तितत्त्वमुच्यते ।
उक्तं च सर्वज्ञानोत्तरे -
अथोर्ध्वं बैन्दवं तत्त्वं विमलं सर्वतो मुखमिति ।
प्. १०५)
श्रीमन्मतङ्गे च -
चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् ।
तस्मिन् भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदेति ॥
तदूर्ध्वं शुद्धाध्वपरमकारणरूपो बिन्दुर्नयावस्थस्य परमशिवस्य
नित्याधिष्ठेयत्वात् परिग्रह शक्तित्वाच्च शुद्धाध्वपरशोध्य इत्युच्यते ।
तदधिष्ठाय शिवोपि शिव एव शिवतत्त्वमिति व्युत्पत्त्या शिवं शिवत्वमित्युच्यते
। स बिन्दुः शान्त्यतीतकला महामाया कुण्डलिनीत्यादि शब्देनाप्युचते । तदुक्तं
श्रीमन्मतङ्गे- शान्त्यतीतं परं तत्त्वमविनाश्यव्ययात्मकमिति ।
नादकारिकासु च - सिद्धो नादः परमः सुमङ्गला मालिनी महामाया
समनानाहतबिन्दुरघोषावाग्छद्म कुण्डली तत्त्वं विद्याख्यं चेत्युक्तं
तैस्तैः शब्दैस्तदागमेष्वित्थमिति । तत्कार्यभूतं
केवलेशानाकारशिवाधिष्ठेयं शान्त्यतीतभुवनं
तदूर्ध्वस्थंधिकादिनादकलाभुवनवृन्दं च भोगावस्थ
शिवाधिष्ठितशक्तितत्त्वमस्तकस्थमेव । यदुक्तं श्रीमन्मृगेन्द्रे -
शुद्धाध्वनापि मायायाः परस्याः हि * * * तौ ।
ये तस्यामपि पठ्यन्ते ते पि तत्कृतिमस्तक इति ।
नादकलाभुवनाधिष्ठितः शिवो नादपतिरित्युच्यते । तदुक्तं
श्रीमन्मृगेन्द्रे- नादेध्वनि पतिःशक्तौ सर्वशक्तिमतांवरः इति ।
प्. १०६)
एतच्च शक्तिशिवाख्यं तत्त्वद्वयं कलाध्वनि शान्त्यतीतकलाव्याप्त्या
शोध्यमित्याचार्याः । यदुक्तं सोमशम्भुपद्धत्याम् शान्त्यतीतकलाव्याप्तौ
उभे शक्तिशिवतत्त्वे भुवनाष्टकमण्डिते इत्यादि । रत्नत्रयेऽपि पञ्चमी तु कला
पराशिवतत्त्वात्मकं तत्र पुराणि दश पञ्चचेति । एवं चाधिष्ठेयस्य
चेतनस्य शोध्यस्य बिन्दुतत्परिणामविशेषान्मनस्तत्त्वत्रयस्य भेदे । वास्तव
एव अधिष्ठातुस्तस्य शिवस्यात्रौपचादिको भेदः । यदुक्तं
श्रीमन्मृगेन्द्रादौ -
किं तु यः पतिभेदेस्मिन् सशास्त्रे शिक्तिभेदवत् ।
कृत्यभेदोपचारेण तद्भेदस्थानभेदज इत्यादि ॥
अधिकारि स भोगी च लयी स्यादुपचारत इति ।
ईशः सदाशिवः शान्तः कृत्यमेदाद्विभिद्यते । इति च ।
तद्भेदः कृत्यभेदेन न भेदः परमार्थतः ॥ इति ।
एवं च बद्धात्मनः शोध्यान्यशुद्धानि तत्त्वानि मायया सहैकत्रिंशत् ।
शुद्धानि तु महामायया सह पञ्च । ततश्च दीक्षायां मायातत्त्वादूर्ध्वं
मलविच्छेदान्तं पाशच्छेदं कृत्वा शुद्धविद्यादिषु पञ्चसु तत्त्वेषु
क्रमात् क्रियाशक्त्युत्कर्षक्रमेण शिवतत्त्वाभिव्यक्तिः कार्या । पश्चात् तु
शिखाछेदेन पाशानुग्राहिकायास्तिरोधानशक्तेः प्रेर्यत्वम् ।
निवर्त्यशिवसाध्या पादनाय निरुपाधिशक्तियुक्ते निष्कले परमशिवे *
प्. १०७)
कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता ।
उपादनत्वतो हेतोः कुलाले मृत्तिका यथेति ॥
समवेतशक्तेस्तु तस्या एकत्वात् ज्ञेयकार्यादि भेदादौपचारिको भेदः शास्त्रेषु
श्रूयते । यदुक्तं सर्वज्ञानोत्तरे -
निष्कलस्था पराशक्तिरचिन्त्या सर्वतो मुखी ।
सुसूक्ष्मा निर्मला नित्यानन्ता निर्वाणदायिनी ॥
या विजृम्भति तत्त्वेषु सर्वतत्त्वेषु चैव हि ।
तया धृतं जगत्सर्वमेकयानेक रूपये ति ॥
उक्तं च मोक्षकारिकादौ -
सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः । इति ।
एकैवानेकतां याति शिवशक्तिरूपाधित इति ।
अत्र च श्रीमत्सर्वज्ञानोत्तरादौ बैन्दवविद्यात्मनोः शक्तिशिवतत्त्वयोः
तत्त्वदीक्षायामेकोद्यमेन शुद्ध्यर्थमेकत्वमुक्त्वा परमशिवे
संयोजनमुक्तम् । श्रीमत्स्वायम्भुवे - न शोध्यं शिवतत्त्वादि
तत्त्वत्रयं तदर्थमेव शिवसंबन्धित्वाद्यतिरिक्ताधिष्ठात्तन्तराभावाच्च
सदाशिवतत्त्वेनोक्त्वा बिन्द्वधिष्ठायकशोधकं परमशिवं शिवतत्त्वेन
प्रतिपाद्य तत्त्व संयोजन मुक्तम् । यतुक्तं तत्र -
अप्रमेयमनिर्देश्य मनौपम्य मनामयम् ।
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् ॥
अप्रमेयमन्तन्तत्वादनिर्देश्यमलक्ष्यतः ।
प्. १०८)
अनौपम्यमसादृश्याद्विमलत्वादनामयम् ।
सूक्ष्मं चानुपलक्ष्यत्वाद्व्यापकत्वाच्च सर्वगम् ॥
नित्यं कारणशून्यत्वादचलत्वाच्च तद्ध्रुवम् ।
अव्ययं परिपूर्णत्वात् स्वामिभावात्तथेश्वरम् ॥
शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरिसंस्थितम् । इति ।
ततः सदाशिवं तत्त्वं स्थितं पदचतुष्टयम् ॥ इति ।
एतदभिप्रायेणैव श्रीमन्मृगेन्द्रे भुवनाध्वनिभेदे नैवोक्त्वा तत्त्वाध्वनि
सदाशिवादि तत्त्वस्य त्रयस्य सदाशिवसंज्ञोक्ता । यदुक्तं तत्रैव -
ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतं ।
भुवनान्यपि नादादि कलानान्यः पतिः शिवात् ॥ इति ।
तत्रैव संहारक घने विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः ।
नादमत्ति पराशक्तिः शक्तिमीष्टे स्वयं हर इति । श्रीमन्मतङ्गादौ तु
शिवस्याधिष्ठातुर्लयाद्यवस्था भेदमेव तत्त्वत्रयेणोक्त्वा शोध्ययोः
शक्तिशिवयोः भोगतत्त्वे सदाशिवतत्त्वेश्वरतत्त्वयोर्विचारतत्त्वे
चान्तर्भावमुक्त्व तद्भुद्ध्यालयावस्थानात्मनि परमशिवे संयोजनमुक्तम्
। एवमन्येष्वपि तन्त्रेषु यथायथं कस्यचिदन्तर्भावो बोद्धव्यः । एवं च
संहितानामविरोधः सर्ववचनानां च प्रामाण्यं स्थितम् । तेनैक्यं च
सिद्ध्यति । अन्यथा एकतन्त्रोक्तार्थाभ्युपगमेनान्यतन्त्रोक्तार्थाभावकथने
प्. १०९)
पररूपख्याहते सर्वसंहितायां न प्रामाण्यं भवेत् । एवं स्थितेनैक्येपि
तत्तत्संहितानुसारिभिस्तत् तत् संहितोक्तेनैव क्रमेण नित्यादिकर्मवद्दिक्षायां
शुद्ध्यादिकं कार्यम् । पूर्वमेव क्रियादिभेदेन तन्त्रभेदो यतः स्मृतः ।
तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः ।
समस्तपाशविच्छित्तिः सर्वविषयशिवत्वाभिव्यक्ति कारिण्या
मलपरिपाकशक्तिपातपूर्विकया दीक्षयैव परमेश्वरसाम्यरूपः
परमोक्षः सिद्ध्यति । यदुक्तं श्रीमत्स्वांभुवादौ -
शिवेच्छया पुरानन्ता शैवी शैवार्थदायिनी ।
सा शक्तिरायतत्याद्या पुंसो जन्मन्य पश्चिमे ॥
तन्निपातात् क्षरत्यस्य मलं संसारकारणं ।
क्षीणे तस्मिन्नियासास्यात्परं निःश्रेयसंप्रति ॥
स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः ।
प्रयाति शिवसायुज्यं निर्मलो निरूपप्लवः ॥
अनेन क्रमयोगेन परां केवलतां गतः ।
अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् ॥ इति ।
दिक्षिताः परमं शान्तं प्रदिशन्ति तनुक्षयादिति च ।
ननु सदाशिव पदं योगाच्चर्याभोगद्य दीक्षया प्राप्यते । चित्तभेदेन मोक्षो
वाथ चतुष्टयादिति श्रीमन्मतङ्गश्रुतेर्दीक्षा ज्ञानचर्या योगाख्यानि
चत्वार्यपि समविकल्पानि
प्. ११०)
भोगमोक्षसाधनानि प्रतीयन्ते । नैवं वाक्यार्थानभिज्ञानत् । एवं हि तत्र
वाक्यार्थः । सदाशिवपदस्य तत्रोपलक्षणत्वात्तत्तद्भुवनेश्वर साक्षात्कार
फलाद्योगात् तत् तदाराधनात्मिकया वा चर्यया तत्तद्भुवन योजनात्मिकया वा
दीक्षया तत् तद्भुवनेश्वररूप निष्ठेन वा चित्तभेदेन ज्ञानेन तत्तद्भुवन
प्राप्तिर्भवत्येव न तु समविकल्पतया वक्ष्यमाणवज्ज्ञानादिष्वपि दीक्षया
विनानधिकारात्तस्या एव प्राधान्यं यतः । ततश्च मोक्षो वाथ चतुष्टयादिति
मोक्ष चतुष्टयादस्मात् समुच्चितादेकैका * * भोगो न वेति वा
शब्दार्थः । तथा हि चर्यायोगयोस्तावत् ज्ञानं विनानुष्ठानमेव नोपपद्यते
। न ह्यज्ञानेर्थे योगः समाधिश्चर्यावानित्याका संभवति । ज्ञानमपि
द्रव्यत्वान्मलादिबन्धानां चक्षुःपटलानामिव चक्षुर्वैद्यव्यापादं विना
न तेभ्यः पुंसां मोक्षं कर्तुं क्षममित्युक्तमतो दीक्षैव मोक्षहेतुरिति ।
उक्तं च तत्रैव प्रकरणान्तरे - तस्मान्मन्त्रक्रियामुख्यासेश्वरी
भुक्तिम्क्तिदेति । श्रीमत्स्वायम्भुवेपि -
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्पीति ।
श्रीमत्षट्सहस्रिकालोत्तरे -
दीक्षैव मोक्षदा पुषां चिदभिव्यक्तिकारणं ॥ इति ।
ज्ञानादीनां चाचार्य संस्कारद्वारेण दीक्षायां विनियोगदर्शनाच्च ।
यदुक्तं तत्रैव श्रीमन्मतङ्गे -
विद्यापादार्घ्य कुशलः क्रियापादगतक्रमः ।
योगपादकृताभ्यासः चर्यापादानुवर्तकः ॥
प्. १११)
गुरुदीक्षां प्रकुर्वीतेति । केवलं सद्यो निर्वाण
दीक्षयारब्धकार्याणामनपेक्षया भोगोपरोधेन मलमायीययोर्वासयोर्थ इति
सकलागमसारसंग्रहे सिद्धान्तसारसमुच्चये
(अत्र ग्रन्थः समाप्तिमगमत् । न ज्ञायते संपूर्णो वासम्पूर्णोवेति । आदौ
ग्रन्थ नाम सिद्धान्तार्थसमुच्चय इति दत्तम् । चरमपङ्क्तिदर्शनात्
सिद्धान्तसारसमुच्चय इति सकलागमसारसंग्रह इति वा भवेदिति सन्दिह्यते ।
)