सिद्धान्तलेशसङ्ग्रहः /द्वितीयः परिच्छेदः

विकिस्रोतः तः

   ।। द्वितीयः परिच्छेदः ।।
(1)अथ कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः, प्रत्यक्षा दिविरोधाद्? इति चेत्, न। आरम्भणाधिकरणो-(उo मीo अo 2 पाo 1 अधिo 6 सूo 14)दीहृतश्रुतियुक्तिभिः प्रत्यक्षाद्यधिगम्यस्य प्रपञ्चस्य ब्रह्मविवर्ततया मिथ्यात्वावगमात्। ननु न श्रुतियुक्तिभिः प्रपञ्चस्य मिथ्यात्वं प्रत्याययितुं शक्यते। `घटस्सन्' इत्यादिघटादिसत्त्वग्राहिप्रत्यक्षादिविरोधात्।

अत्राहुस्तत्त्वशुद्धिकाराः-न प्रत्यक्षं घटपटादि तत्सत्त्वं वा गृह्णाति, किं त्विधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रम्। तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैतसिद्ध्यनुकूलमेव। तथा सति `सद्' `सद' इत्येव प्रत्यक्षं स्यात्, न तु `घटः सन्' इत्यादि प्रत्यक्षमिन्द्रियान्वयव्यतिरेकानुविधायीति चेत्, न। यथा भ्रमेष्विदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणम्, इन्द्रियान्वयव्यतिरेकयोः तत्रैवोपक्षयः। रजतांशस्य त्वारोपितस्य भ्रान्त्या प्रतिभासः, तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण ग्रहणम्, तत्रैवेन्द्रियव्यापारः। रघटादिभेदवस्तुप्रतिभासो ब्रान्त्येत्यभ्युपगमात्।
ननु तद्वदिहु बाधादर्शनात् तथाऽभ्युपगम एव निर्मूल इति चेत्, न। बाधादर्शनेऽपि देशकालव्यवहितवस्तुवद् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात्।
तथाहि-इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते। तदा तत्र घटादिभेदे संशयविपर्ययादर्शनात्। यत्रापि स्थाण्वादौ पुरुषत्वादिसंशयः, तत्रापि तव्द्यतिरिक्तेभ्यो भेदोऽसन्दिग्धविपर्यस्तत्वात् प्रकाशते एव। भेदस्य च प्रतियोगिसहोपलम्भनियमवतो न प्रत्यक्षण ग्रहणं सम्भवति। देशकालव्यवधानेनासन्निकृष्टानामपि प्रतियोगिनां सम्भवात्। भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु प्रत्यभिज्ञानमिव तत्ताशे इति चेत् न। तथापि भेदगतप्रतियोगिवैशिष्ट्यांशे तदभावात्।
न च कनकाचलो भेदप्रतियोगी, वस्तुत्वादिति भेदे प्रतियोगिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसम्भवः। भेदे ज्ञानं विनाऽनुमित्यभावेना(1)त्माश्रयापत्तेः{(1)अनुमानप्रवृत्त्ययोगेनेति पाठः।}। पक्षासाध्यहेतुपक्षताद्यभेदभ्रमे सति सिद्धसाध)नादिनाऽनुमानाप्रवृत्त्या तदभेदज्ञानविघटनीयस्य तद्भेदज्ञानस्यापेक्षितत्वात्।
अस्तु तर्हि भेदांशे इव प्रतियोगिवैशिष्ट्यांशेऽपि प्रत्यक्षमिति चेत्, न। प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्यप्रत्यक्षायोगात् सम्बन्धिद्वयप्रत्यक्षं विना सम्बन्धप्रत्यक्षासम्भवात्। तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रान्तिरूप एव प्रतिभास इति तदेकवित्तिवेद्यत्वनियतस्य भेदस्य भेदैकवित्तिवेद्यत्वनियतस्य घटादेश्च भ्रमैकविषयत्वात् प्रत्यक्षं निर्विशेषसन्सात्रग्राह्याद्वैतसिद्ध्यनुकूलमिति।।
न्यायसुधाकृतस्त्वाहुः-घटादेरौन्द्रियकत्वेऽपि `सन् घटः' इत्यादिरधिष्ठानस्त्तानुवेध इति न विरोधः। एवं "नीलो घटः" इत्यादिरधिष्ठाननैल्यानुवेधः किं न स्यादिति चेत्, न। श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तमविरोधात् सर्वसम्मतमिति, तदनुवेधेनैव `सन् घटः' इत्यादिप्रतिभासोपपत्तौ घटादावपि सत्ताकल्पने गौरवम्। तस्य रूपादिहीनत्वाद् नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति।।

संक्षेपशारीरकाचार्यास्त्वाहुः - प्रत्यक्षस्य घटादिसत्त्वग्राहित्वेऽपि पराग्विषयस्य प्रत्यक्षादेस्तत्त्वावेदकत्वसक्षणप्रामाण्याभावाद् न तद्विरोधेनाद्वैतश्रुत्यादिबाधशह्का। अज्ञातबोधकं हि प्रमाणम्। न च प्रत्यक्षादिविषयस्य घटादेरज्ञातत्वमस्ति। जडे आवरणकृत्याभावेनाज्ञानविषयत्वानुपगमात्। स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैवाज्ञानविषय इति तद्बोधकमेव तत्त्वावेदकं प्रमाणम्। तदेव प्रमितिविषयः।
अत एव श्रुतिरपि "आत्मा वा अरे द्रष्टव्यः" इत्यात्मन एव प्रमेयत्वमिति नियच्छति। नहि "द्रष्टव्यः" इत्यनेन दर्शनं विधीयते, प्रामाणपरतन्त्रस्य तस्य विध्यगोचरत्वात् किं तु `आत्मा दर्शनार्हः' इति। अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं, नान्यस्येति नियम्यते इति।।

केचित्तु-घटादिसत्त्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणन्यूनताऽनवगमेऽपि तद्ग्राह्यं सत्त्वमनुगतप्रत्ययात् सत्ताजातिरूपं वा, `इहेदानीं घटोऽस्ति' इति देशकालसम्बन्धप्रतीतेः तत्तद्देशकालसम्बन्धरूपं वा, `नास्ति घटः' इति स्वरूपनिषेधप्रतीतेर्घटादिस्वरूपं वा पर्यवस्यति। तच्च स्वमिथ्यात्वेन न विरुध्यते। न हि मिथ्यात्ववादिनाऽपि घटादेः स्वरूपं वा, तस्य देशकालसम्बन्धो वा, तत्र जात्यादिकं वा नाभ्युपगम्यते, किं तु तेषामबाध्यत्वम्। न चाबाध्यत्वमेव सत्त्वं प्रत्यक्ष्ग्राह्यमस्त्विति वाच्यम्। `कालत्रयेऽपि नास्य बाधः' इति वर्तमानमात्रग्राहिणा प्रत्यक्षेण ग्रहीतुमशक्यत्वादित्याहुः।।

अन्येतु-अबाध्यत्वरूपसत्यत्वस्य प्रत्यक्षग्राह्यत्वेऽपि "प्राणा वै सत्यं तेषामेष सत्यम्" इति श्रुत्या प्रधनभूत प्राणग्रहणोपलक्षितस्य कृत्स्नस्य प्रपञ्चस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः, सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किञ्चित्कालमबाध्यत्वमित्येवंविधोत्कर्षापकर्षं विना`राजराजो मन्मथमन्मथः' इत्यादिशब्दतात्पर्यगोचरनियन्तृत्वसौन्दर्यादीनामिव भूयोविषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासम्भवाद्, विधान्तरेण तत्सम्भवेऽपि प्रपञ्चस्य ब्रह्मज्ञानब्ध्यत्वश्रुत्यन्तरैकार्थ्याद् उक्तोत्कर्षापकर्षे एव पर्यवसानाच्च प्रत्यक्षग्राह्यं घटादिसत्यत्वं यावद्बह्मज्ञानमवाध्यत्वरूपमिति न मिथ्यात्श्रुतिविरोध इत्याहुः।।

अपरे तु-प्रपञ्चस्य मिथ्यात्वसत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोर्विरोधेऽपि दोषशङ्काकलङ्कितात् प्रथमप्रवृत्तात् प्रत्यक्षाद् निर्दोषत्वादपच्छेदन्यायेन परत्वाच्च श्रुतिरेव बलीयसी।
प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्।। इति स्मरणाच्च।
न च वेदैकगम्यार्थविषयकमिदं स्मरणम्। तत्र प्रत्यक्षविरोधशङ्काऽभावेन शङ्कितप्रत्यक्षविरोधे एव वेदार्थे वेदस्य प्राबल्योक्त्यौचित्यात्।
तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव।।
न तलं विद्यते व्योम न खद्योतो हुताशनः।।1।।
तस्मात् प्रत्यक्षदृष्टेऽपि युक्तमर्थे परीक्षितुम्।।
परीक्ष्य ज्ञापयन्नर्थान्न धर्मात् परिहीयते।।2।।
इति नारदस्मृतौ साक्षिप्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षणीयत्वप्रतिपादनाच्च। नहि नभोनैल्यप्रत्यक्षं नभसः शब्दादिषु पञ्चसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमन्तरेण प्रत्यक्षादिना शक्यमपवादितुम्। न च `भासि समीपे नैल्यानुपलम्भाद् दूरे तद्धीर्दूरत्वदोषजन्या' इति निश्चयेन तद्बाधः। दूरे नैल्यदर्शनात् समीपे तदनुपलम्भस्तुहिनावगुण्ठनानुपलम्भवत् सामीप्यदोषजन्य इत्यपि सम्भवाद्। अनुभवबलाद् नभोनैल्यमव्याप्यवृत्तीत्युपपत्तेश्च।
नापि दूरस्थस्य पुंसो यत्र भूसन्निहिते नभःप्रदेशे नैल्यधीः, तत्रैव समीपं गतस्य तस्या नैल्यबुद्धेरभावप्रत्यक्षेण बाधः। उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिव दूरत्वदोषाद् भूसन्निधानावभास इत्युपपत्तेः। पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनाम्-
उपलभ्याप्सु चेद्गन्धं केचिद् ब्रूयुरनैपुणाः।
पृथिव्यामेव तं विद्यादपो वायुं च संक्षितम्।।1।।
इत्यादिभिरागमैरेव व्यवस्थाया वक्तव्यत्वेन प्रत्यक्षादागमप्राबल्यस्य निर्विशङ्कत्वाच्च। न ह्यचाजानसिद्धजलोपष्टम्भादिगतं गन्धादि`पृथिवीगुण एव गन्धः, न जलादिगुणः' इत्यादिरूपेणास्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम्। पृथिव्यादीनां प्रायः परस्परसंसृष्टतयाऽन्यधर्मस्यान्यत्रावभासः सम्भवति इकति शङ्कितदोषं प्रत्यक्षम्। अतस्तत्रागमेव शिक्ष्यत इति चेत्, तर्हि इहापि ब्रह्मपह्रपञ्चयोरुपादानोपादेयभावेन परस्परसंसृष्टतयाऽन्यधर्मस्यान्यत्रावभासः सम्भाव्यते इति शङ्कितदोषं प्रत्यक्षम्-
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्।।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्।।1।।
इति वृद्धोक्तप्रकारेणागमेन व्यस्थाप्यतामिति तुल्यम्। न चैवमुपजीवल्यविरोधः। आगमप्रमाणेन वर्णपदवाक्यादिस्वरूपांशप्रत्यक्षमुपजीव्यानुपजीव्यतत्सत्यत्वाशोपमर्दनादित्याहुः।।1।।

(2)नन्वागमस्य प्रत्यक्षाद् बलीयस्त्वे "यजमानः प्रस्तरः" इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणी वृत्तिर्न कल्पनीया। तथा "सोमेन यञेत" इत्यत्र त्रैयधिकरण्येनान्वये यागे इष्टसाधनत्वं, सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापत्तेः। सामानाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय `सोमवता यागेन' इति मत्वर्थलक्षणा न कल्पनीया। उभयत्रापि सत्यपि प्रत्यक्षविरोधे तदनादृत्यागमेन बलीयसा प्रस्तरे यजमानाभेदस्य, यागे सोमाभेदस्य च सद्धिसम्भवादिति चेत्,

अत्रोक्तं भामतीनिबन्धे-तात्पर्यवती श्रुति- प्रत्यक्षात् बलवती, न श्रुतिमात्रम्। मन्त्रार्थवादानां तु स्तुतिद्वारभूतेऽर्थे वाक्यार्थद्वारभूते पदार्थे इव न तात्पर्यम्। तातपर्याभावे मानान्तराविरुद्धदेवताविग्रहादिकं न तेभ्यः सिध्येत्। तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमादिति चेत्, न। "एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत" इति विशिष्टविधेस्तात्पर्यागोचरेऽपि विशेषणस्वरूपे प्रामाण्यदर्शनेन उक्तनियमासिद्धेः। अत्र हि रेवतीऋगाधारं वारवन्तीयं साम विशेषणम्। न चैतत् सोमादिविशेषणवल्लोकसिद्धम्। येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात्। नापि विशिष्टविधिना विशेषणाक्षेपः। आक्षेपाद्विशेषणप्रतिपत्तौ विशिष्टगोचरो विधिः, तस्मिंश्च सति तेन विशेषणाक्षेपः इति परस्पराश्रयापत्तेः। अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेऽपि प्रामाण्यं वक्तव्यम्। अथ च न तत्र तात्पर्यम्। उभयत्र तात्पर्ये वाक्यभेदापत्तेः।
एवमर्थवादानामपि विधेयस्तुतिपराणाँ स्तुतिद्वारभूतेऽर्थे न तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव बलवत्त्वात् तदविरोधाय तेषु वृत्त्यन्तरकल्पनम्। "सोमेन यजेत" इत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नपागरूपं विशिष्टं विधेयमित्युपगमे त्स्य विधेयस्य "दध्ना जुहोति" इत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विधिपराद्वाक्यादेव रेवत्याधारवारवन्तीय्विशेषणस्येव विना तात्पर्यं सिद्धिरेष्टव्या। न हि तात्पर्यविरहितादागमाद्यागसोमलताभेदग्राहिप्रत्यक्षविरुद्धार्थः सिध्यतीति तत्रापि तदविरोधायय मत्वर्थलक्षणारश्रयणम्।
अद्वैतश्रुतिस्तु उपक्रमोपसंहारैकरूप्यादिषड्विधालिङ्गावगमिताद्वैततात्पर्या प्रत्यक्षाद् बलवतीति ततः प्रत्यक्षस्यैव बाधः, न तदविरोधाय श्रुतेरन्यथानयनमिति।

विवरणवार्तिके तु प्रतिपादितम्-न तात्पर्यवत्त्वेन श्रुतेः प्रत्यक्षात् प्राबल्यम्। "कृष्णलं श्रपयेद्" इति विधेः श्रपणस्य कृष्णलार्थत्वप्रतिपादने तात्पर्येऽपि कृष्णले रूपरसपरावृत्तिप्रादुर्भावपर्यन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रपणशब्दस्य उष्णीकरणमात्रे लक्षणाऽभ्युपगमात्।
"तत्त्वमसि" इति वाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येऽपि त्वम्पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति तदविरोधाय निष्कृष्टचैतन्ये लक्षणाऽभ्युपगमाच्च।
अर्थवादानामपि प्रयाजाद्यङ्गविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थतया प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थतेति प्रयाजादिवाक्यवत्तेषामप्यवान्तरसंसर्गे तात्पर्यमस्त्येव। वाक्यैकवाक्यत्वात्। पदैकवाक्यतायामेव परमवान्तरतात्पर्यानभ्युपगमादिति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन "यजमानः प्रस्तरः" इत्यादीनामपि मुख्यार्थतात्पर्यप्रसक्तौ प्रत्यक्षाविरोधायैव लक्षणाऽभ्युपगमाच्च।
कथं तर्हि श्रुतेः प्रबल्यम्?। उच्यते-निर्दोषत्वात् परत्वाच्च। श्रुतिमात्रस्य(1){(1)श्रुतिमात्रं प्रत्यक्षात् प्रबलपमिति पाठः।} प्रत्यक्षात् प्राबल्यमित्युत्सर्गः। किं तु श्रुतबाधितमपि प्रत्यक्षं कथंचित् स्वोचितविषयोपहारेण सम्भावनीयम् निर्विषयज्ञानायोगात्। अत एवाद्वैतश्रुतिविरोधेन तत्त्वावेदनात् प्रच्यावितं सत्यत्वम् अर्थक्रियासमर्थव्यावहारिकविषयसमरह्पणेनोपपाद्यते। किं बहुना `नेदं रजतम्' इति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षमनुभवानुरोधात् पुरोदेशे शुक्तिसंभिन्नरजतोपगमेन समर्थ्यते। न तु तद्विरोधेन व्यवहितमान्तरमसदेव वा रजतं विषय इति परिकल्प्यते। एवं च प्रस्तरे यजमानभेदग्राहिणो यावद्ब्रह्मज्ञानमर्थक्रियासंवादेनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्युपगमेनोपपादनायोगाद् "यजमानः प्रस्तर" इति श्रुतिबाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहाराय उत्सर्गमपोद्य श्रुतिरेव तत्सिद्ध्यधिकरणादिप्रतिपादितप्परकारेणान्यथा नीयते।
न चाद्वैतश्रुतिप्रत्यक्षयोरिव इह श्रुतिप्रत्यक्षयोस्तात्त्विकव्यावहारिकविषयत्वोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यम्। ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादकषड्विधतात्पर्यलिङ्गोपपन्नानेकश्रुतिविरुद्धेन एकोनार्थवादेन प्रस्तरे यजमानतादात्म्यस्य तात्त्विकस्य प्रतिपादनासम्भवात्। एवं तत्त्वमसिवाक्येन त्वंपदवाच्यस्य सर्वज्ञत्वाभोक्तृत्वाकर्तृत्वादिविशिष्टब्रह्मस्वरूपत्वबोधने तत्रासर्वज्ञत्वभोक्तृत्वादिप्रत्यक्षमत्यन्तं निरालम्बनं स्यादिति तत्परिहाराय`अहंकारशबलितस्य भोक्तृत्वादि, ततो निष्कृष्टस्यशुद्धस्य उदासीनब्रह्मस्वरूपत्वम्' इति व्यवस्थामाश्रित्य भागत्यगलक्षणाऽऽश्रीयते। एवं "कृष्णलं श्रपयेद्" इत्यादावपि प्रत्यक्षस्यात्यन्त निर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा उष्णीकरणे। "नेह नानाऽस्ति किञ्चन" इत्यत्र प्रत्यक्षस्य कथंचिद्विषयोपपादनसम्भवे तु न प्रबलायाः श्रतेरन्यथानयनमिति न कश्चिदप्यव्यवस्थाप्रसङ्गः।

अथवा "कृष्णलं श्रपयेत्" "सोमेन यजेत"इत्यादौ न प्रत्यक्षानुरोधेन लक्षणाऽऽश्रयणम्, कि त्वनुष्ठानाशक्त्या। न हि कृष्णले उष्णीकरणमात्रमिव मुख्यः पाकोऽनुष्ठातुं शक्यते। न वा सोमद्रव्यकरणको याग इव तदभिन्नो यागः केनचिदनुष्ठातुं शक्यते। न चानुष्ठेयत्वाभिमतस्य प्रत्यक्षविरोध एवानुष्ठानाशक्तिरिति शब्दान्तरेण व्यवह्रियते इति वाच्यम्। `शशिमण्डलं कान्तिमत् कुर्याद्' इति विधौ अनुष्ठेयत्वाभिमतस्य शशिमण्डले कान्तिमत्त्वस्य प्रत्यक्षाविरोधेऽप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततो भिन्नत्वात्। तथा च तत्र एव लक्षणाऽऽश्रयणम्। तस्मादपच्छेदन्यायादिसिद्धस्य श्रुतबलीयस्त्वस्य न कश्चिद् बाध इति।
अथ कथमत्रापच्छेदन्यायप्रवृत्तिः?। उच्यते-यथा ज्योतिष्टोमे बहिष्पवमानार्थं प्रसर्पतामुद्गानुरपच्छेदे सति "यद्युद्गाताऽपरच्छिद्येतादक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत" इति श्रुतिनिरीक्षणेन जाता उद्गात्रपच्छेदनिमित्तकप्रायश्चित्तकर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रपच्छेदे सति "यदि प्रतिहर्ताऽपच्छचिद्येत सर्ववेदसं दद्याद्" इति श्रुतिनिरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रपच्छेदनिमित्तप्रायश्चित्तकर्तव्यताबुद्ध्या बाध्यते।
एवं पूर्व घटादिसत्यत्वप्रत्यक्षं परया तन्मिथ्यात्वश्रुतिजन्यबुद्ध्या बाध्यते। न चोदाहृतस्थले पूर्वनैमित्तिककर्तव्यताबुद्धेः परनैमित्तिककर्तव्यताबुद्ध्या बाधेऽपि पूर्वनैमित्तिककर्तव्यताजनकं शास्त्रं यत्रोद्गातृमात्रापच्छेदः, उभयोरपि युगपदपच्छेदौ वा, उद्गात्रपच्छेदस्य परत्वं वा, तत्र सावकाशम्, प्रत्यक्षं तु अद्वैतश्रुत्या बाधे विषयान्तराभावान्निरालम्बनं स्यादिति वैषम्यं शङ्कनीयम्। यत्र घटादौ श्रुत्या बाध्ये प्रत्यक्षं प्रवर्तते, तत्रैव व्यावहारिकं विषयं लब्ध्वा कृतार्थस्य तस्य परापच्छेदस्थले सर्वथा बाधितस्य पूर्वापच्छेदशास्त्रस्येव विषयान्तरान्वेषणाभावाद्। इहापि सर्वप्रत्ययवेद्यब्रह्मसत्ताया सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च।
यत्त्वेकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ तत्तन्नैमित्तिककर्तव्यतयोर्बदरफले श्यामरक्तरूपयेरिव क्रमेणोत्पादाद् रूपज्ञानद्वयवत्(1){(1)द्वयज्ञानेति पाठः।} कर्तव्यताज्ञानद्वयमपि प्रमाणसेवेति न परेण पूर्वज्ञानबाधे अपच्छेदन्याय उदाहरणम्।
अत एवापच्छेदाधिकरणे (पूoमीoअo6 पाo5 अधिo19) "नैमित्तिकशास्त्रस्य ह्ययमर्थः निमित्तोपजननात् प्रगन्यथाकर्तव्योऽपि क्रतुर्निमित्ते सत्यन्यथा कर्तव्यः" इति शास्त्रदीपिकावचनमिति, तन्न। अङ्गस्य सतः कर्तव्यत्वम्। न च पश्चाद्भाविप्रतिहर्त्रपच्छेदवति क्रतौ पूर्ववृत्तोद्गात्रपच्छेदनिमित्तकस्य पायश्चित्तस्याङ्गत्वमस्ति। आहवनीयशास्त्रस्य पदहोमातिरिक्तहोमविषयत्ववद् "यद्युद्गाताऽपच्छिद्येत" इति शास्त्रस्य पश्चाद्भाविप्रतिहर्त्रपच्छेदरहितक्रतुविषयत्वात्।
उक्तं हि न्यायरत्नमालायाम्-
`साधारणस्य शास्त्रस्य विशेषविषयादिना।
संकोचः क्लृप्तरूपस्य प्राप्तबाधोऽरभिधीयते।।'
इत्युक्तलक्षणप्राप्तबाधविवेचने, "तत्रैवं सति शास्त्रार्थो भवति, पश्चाद्भाव्युद्गात्रपच्छेदविधुरप्रतिहर्त्रपच्छेदवतः क्रतोस्सर्ववेदसदानमङ्गम्, एवमुद्गात्रपच्छेदेऽपि द्रष्टव्यम्" इति।
यत्तु शास्त्रदीपिकावचनमुदाहृतम्, तदपि तेनोत्पन्नमपि पूर्वप्रायश्चित्तज्ञानं मिथ्या भवति बाधितत्वाद्, उत्तरस्य तु न किञ्चिद्बाधकमस्तीति पूर्वकर्तव्यताबाध्यत्वप्रतिपादकग्रन्थोपसंहारपठितत्वाद् निमित्तोपजननात्प्रङ् निमित्तोपजननं विना निमित्तोपजननाभावे सति अन्यथा कर्तव्योऽपीति कृत्वाचिन्तामात्रपरम्। न तूत्तरनिमित्तोपजननात्प्राक्पूर्वनैमित्तिककर्तव्यता वस्तुत आसीदित्येवंपरम्। पूर्वग्रन्थसन्दर्भविरकोधापत्तेः।
आस्तां मीमांसकमर्यादा। श्यामतदुत्तररक्तरूपन्यायेन क्रमिककर्तव्यताद्वयोत्पत्त्युपगमे को विरोधः?।
उच्यते-तथाहि-किं तत् कर्तव्यत्वम्, यत् परनैमित्तिककर्तव्यतोत्पत्त्या निवर्तेत। न तावत् पूर्वनैमित्तिकस्य कृतिसाध्यत्वयोग्यत्वम्। तस्य पश्चादप्यनपायात्। नापि फलमुखं कृतिसाध्यत्वम्। तस्य पूर्वमप्यजननात्। नापि यदननुष्ठानक्रतोर्वैकल्यं, तत्त्वम्, अङ्गत्वं वा। अननुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य नियमविशेषरूपत्वेन कर्माङ्गत्वस्य फलोपकारितया सन्निपातितया वा कारणत्वविशेषरूपत्वेन च तयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय पश्चाद्भाविविरुद्धापच्छेदाभाववतः क्रतोः पर्वापच्छेदनैमित्तिकमङ्गम्, तत्रैव तदननुष्ठानं क्रतुवैकल्यप्रयोजकमिति विशेषणीयतया पाश्चात्त्यापच्छेदान्तरवति क्रतौ पृर्वापच्छेदनैमित्तिके क्रत्वङ्गस्य, तदननुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य वा पाश्चात्त्यापच्छेदोत्पत्तेः पूर्वमसम्भवात्। न हि वस्तु किञ्चचिद्वस्त्वन्तरं प्रति कञ्चित्कालं व्याप्य पश्चान्नेति वा, कञ्चित्कालं कारणं पश्चान्नेति वा, क्कचिद् दृष्टम्, युक्तं वा। नापि कर्तव्यत्वं नाम धर्मान्तरभेवागमापाययोग्यं कल्प्यम्। मानाभावात्। विरुद्धापच्छेदशास्त्रयोः पदाहवनीयशास्त्रवव्द्यवस्थोपपत्तेः। तस्मान्निरालम्बनं क्रमिककर्तव्यताद्वयोत्पत्तिवचः।।

ननु चोपक्रमाधिकरणन्यायेनासञ्चयातविरोधित्वात् प्रत्यक्षमेवागमाद् बलीयः किं न स्यात्?।
उच्यते-यत्रैकवाक्यता प्रतीयते, तत्रैकस्मिन्नेवार्थे पर्यवसानेन भाव्यम्, अर्थभेदे प्रतीतैकवाक्यताभङ्गप्रसङ्गात्। अतस्तत्क प्रथमसञ्जातप्रतिपक्षेण "प्रजापतिर्वरुणायाश्वमनयद्" इत्याद्युपक्रमेण परकृतिसरूपार्थवादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धार्थं "यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेद्" इत्युपसंहारगतं पदजातमुपजातप्रतिपक्षात्वाद्यथाश्रुतार्थसमर्पणेन तदेकवाक्यतामप्रतिपद्यमानमेकवाक्यतानिर्वाहाय णिजर्थमन्तर्भाव्य तदानुगुण्येनैवात्मानं लभते इति उपक्रमस्य प्राबल्यम्। यत्र तु परस्परमेकवाक्यता न प्रतीयते। तत्र पूर्ववृत्तमविगणय्य लब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्येवेति न तत्र पूर्ववृत्तस्य प्राबल्यम्।
अत एव षोडशिग्रहणवाक्यं पूर्ववृत्तमविगणय्य तदग्रहणवाक्यस्यापि स्वार्थबोधकत्वमुपेयते, किन्तुभयोर्विषयान्तराभावाद् अगत्या तत्रैव विकल्पानुष्ठानमिष्यते।
एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यत्वशङ्काऽभावात् पूर्ववृत्तमपि तदविगणय्य स्वार्थबोधकत्वमप्रतिहतम्।
तदर्थबोधजनने च-
पूर्वं परमजातत्वादबाधित्वैव जायते।
परस्यानन्यथोत्पादान्नाद्याबाधेन सम्भवः।।
इत्यपच्छेदन्यायस्यैव प्रवृत्तिः, नोपक्रमन्यायस्य।
अत एव लोकेऽपि प्रथमवृत्तं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति।।2।।

(3)ननु तथाऽप्युपजीव्यत्वेन प्रत्यक्षस्यैव प्राबल्यं दुर्वारम्। अपच्छेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाधः। इह तु वर्णपदादिस्वरूपग्रहकतया मिथ्यात्वबोधकागमं प्रति प्रत्यक्षस्योपजीव्यत्वाद् आगमस्यैव तद्विरुद्धमिथ्यात्वाबोधकत्वरूपो बाधो युज्यते। न च मिथ्यात्वश्रुत्या वर्णपदादिसत्यत्वांशोपमर्देऽपि उपजीव्यस्वरूपांशोपमर्दाभावान्नोपजीव्यविरोध इति वाच्यम्। "नेह नानास्ति किञ्चिन" इत्यादिश्रुतिभिः स्वरूपेणैव प्रपञ्चाभावाबोधनात्।।

अत्र केचिदाहुः-`वृषमानय' इत्यादिवाक्यं श्रवणदोषाद् `वृषभमानय' इत्यादिरूपेण शृण्वतोऽपि शाब्दप्रमितिदर्शनेन शाब्दप्रमितौ वर्णपदादिप्रत्यक्षं प्रमाभ्रमसाधारणमेवापेक्षितमित्यद्वैतागमेन वर्णपदादिप्रत्यक्षमात्रमुपजीव्यम्, न तत्प्रमा। तथा च वर्णपदादिस्वरूपोपमर्देऽपि नोपजीव्यविरोध इति।।

अन्ये त्वाहुः-शाब्दप्रमितौ वर्णपदादिस्वरूपसिद्ध्यनपेक्षायामप्ययोग्यशब्दात् प्रमित्यनुदयाद्योग्यतास्वरूपसिद्ध्यपेक्षाऽस्ति। तदपेक्षायामपि नोपजीव्यविरोधः। "नेह नानास्ति" इतिश्रुत्या निषेधेऽपि यावद्ब्रह्मज्ञानमनुवर्तमानस्यार्थक्रियासंवादिनोऽसद्विलक्षणप्रपञ्चस्वरूपस्याङ्गीकारात्। अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्वप्रसङ्गात्।
न च स्वरूपेण निषेधेऽपि कथं प्रपञ्चटस्वरूपस्यात्मलाभः। निषेधस्य प्रतियोग्यप्रतिक्षेपरूपत्वे व्याघातादिति वाच्यम्। शुक्तौ `इदं रजतम्,' `नेदं रजतम्' इति प्रतीतिद्वयानुरोधेनाधिष्ठानगताध्यस्ताभावस्य बाधपर्यन्तानुवृत्तिकासद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात्।
एतेन प्रपञ्चस्य स्वरूपेण निषेधे शशशृङ्गवदसत्त्वमेव स्यादिति निरस्तम्। पब्रह्मज्ञाननिवर्त्यस्वरूपाङ्गीकारेण वैषम्यात्।
न चास्याध्यस्तस्याधिष्ठाने स्वरूपेण निषेधे अन्यत्र तस्य स्वरूपेण निषेधः स्वतः सिद्ध इति तस्य सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वापत्त्या असत्त्वं दुर्वारम्। `सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमसत्त्वम्' इत्येवासत्त्वनिर्वचनाद्, विधान्तरेण तन्निर्वचनायोगादेति वाच्यम्। असतः सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमुपगच्छता, तस्य तथात्वे-प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन, आगमस्य तादृशागमानुपलम्भेन च प्रमाणयितुमशक्यतयाऽनुमानमेव प्रमाणयितव्यमिति तदनुमाने यत् सव्द्यावृत्तं लिङ्गं वाच्यम्, तस्यैव प्रथमप्रतीतस्यासत्त्वनिर्वचनत्वोपपत्तेरित्याहुः।।

अपरेतु "नेह नानास्ति" इति श्रुतेः सत्यत्वेन प्रपञ्चनिषेधे एव तात्पर्यम्, न स्वरूपेण। निषेधस्य स्वरूपाप्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात्। तत्प्रतिक्षेपकत्वे प्रत्यक्षविरोधात्।
न च सत्यत्वस्यापि `सन् घटः' इत्यादिप्रत्यक्षसिद्धत्वाद् न तेनापि रूपेण निषेधो युक्त इति वाच्यम्। प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूपव्यावहारिकसत्यत्वाविषयत्वोपपत्तेः। ने चैवं सति पर्रिमाखथकसत्यत्वस्य ब्रह्मगतस्य प्रपञ्चे प्रसक्त्यभावात् तेन रूपेण प्रपञ्चनिषेधानुपपत्तिः। यथा शुक्तौ रजताभासप्रतीतिरेव सत्यरजतप्रसक्तिरिति तन्निषेधः, अत एव `नेदं रजतम्, किं तु तत्,' `नेयं मदीया गौः' किं तु सैव,' `नात्र वर्तमानश्चैत्रः, किं त्वपवरके' इति निषिध्यमानस्यान्यत्र सत्त्वमवगम्यते, एवं सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपत्तेः। अतो वर्णपदयोग्यतादिस्वरूपोपमर्दशङ्काभावान्नोपजीव्यविरोध इत्याहुः।।

अन्ये तु ब्रह्मणि पारमार्थिकसत्यत्वम्, प्रपञ्चे व्यवहारिकसत्यत्वं सत्यत्वाभासरूपम्, शुक्तिरजतादौ प्रातिभासिकसत्यत्वं ततोऽपि निकृष्टमिति सत्तात्रैविध्यं नोपेयते, अधिष्ठानब्रह्मगतपारमार्थिकसत्ताऽनुवेधादेव घटादौ शुक्तिरजतादौ च सत्त्वाभिमानोपपत्त्या सत्यत्वाभासकल्पनस्य निष्प्रमाणकत्वात्। एवं च प्रपञ्चे सत्यत्वप्रतीत्यभावात्, तत्तादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेवाविवेकेन प्रपञ्चे तत्प्रसक्त्युपपत्तेश्च सत्यत्वेन प्रपञ्चनिषेधे नोपजीव्यविरोधः, न वा अप्रसक्तनिषेधनम्।
न च ब्रह्मगतपारमार्थिकसत्ताऽतिरेकेण प्रपञ्चे सत्त्वाभासानुपगमे व्यवहितसत्यरजतातिरेकेण शुक्तौ रजताभासोत्पत्तिः किमनर्थमुपेयत इति वाच्यम्। व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासम्भवात् तन्निर्वाहाय तदुपगमात्।।3।।

(4) नन्वेवं प्रतिबिम्बभ्रमस्थलेऽपि ग्रीवास्थमुखातिरेकेण दर्पणे मुखाभासोत्पत्तिरूपेया स्यात्। स्वकीये ग्रीवास्थमुखे नासाद्यवच्छिन्नप्रदेशापरोक्ष्यसम्भवेऽपि नयनगोलकललाटादिप्रदेशापरोक्ष्यायोगात्। प्रतिबिम्बभ्रमे नयनगोलकादिप्रदेशापरोक्ष्यदर्शनाच्च। न च बिम्बातिरिक्तप्रतिबिम्बाभ्युपगमे इष्टापत्तिः। ब्रह्मप्रतिबिम्बजीवस्यापि ततो भेदेन मिथ्यात्वापत्तेः।

अत्र विवरणानुसारिणः प्राहुः- ग्रीवास्थ एव मुखे दर्पणोपाधिसन्निधानदोषाद् दर्पणस्थत्वप्रत्यङ्मुखात्वबिम्बभेदानामध्याससम्भवेन न दर्पणे मुखस्याध्यासः कल्पनीयः। गौरवाद्। `दर्पणे मुखं नास्ति' इति संसर्गमात्रबाधात्। मिथ्यावस्त्वन्तरत्वे `नेदं मुखम्' इति स्वरूपबाधापत्तेः। `दर्पणे मम मुखं भाति' इति स्वमुखाभेदप्रत्यभिज्ञानाच्च।
न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासम्भवः। उपाधिप्रतिहतनयनरश्मीनां परावृत्य बिम्बग्राहित्वनियमाभ्युपगमाल्लता(1){(1)लतादिवदिति पाठः कुत्रचित्पुस्तके नास्ति।} दिवद्। तन्नियमानभ्युपगमे परमाणोः, कुह्यादिव्यवहितस्थूलस्यापिचाक्षुषप्रतिबिम्बभ्रमप्रसङ्गात्। नच `अव्यवहितस्थूलोद्भूतरूपवत एव चाक्षुषप्रतिबिम्बभ्रमः, नान्यस्य' इति नियम इति वाच्यम्। बिम्बस्थौल्योद्भूतरूपयोः क्लृप्तेन चाक्षुषज्ञानजननेन उपयोगसम्भवे विधान्तरेणोपयोगकल्पनानुपपत्तेः। कुड्यादिव्यवधानस्य प्रतिहतनयनरश्मिसम्बन्धविघटनं विनैवेह प्रतिबन्धकत्वे तथैव घटप्रत्यक्षादिस्थलेऽपि तस्य प्रतिबन्धकत्वसम्भवेन चक्षुःसन्निकर्षमात्रस्य कारणत्वविलोपप्रसङ्गाच्च। दर्पणे मिथ्यामुखाध्यासवादिनाऽपि कारणत्रयान्तर्गतसंस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्य स्वमुखग्राहकत्वकल्पनयैव पूर्वानुभवस्य समर्थनीयत्वाच्च। न च नासादिप्रदेशावच्छिन्नपूर्वानुभवादेव संस्कारोपपत्तिः। तावता नयनगोलकादिप्रतिबिम्बाध्यासानुपपत्तेः तटाकसलिले तटविटपिसमारूढाष्टचरपुरुषप्रतिबिम्बाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वाच्च। एवं चोपाधिप्रतिहतनयनरश्मीना बिम्बं प्राप्य तद्ग्राहकत्वे ऽवश्यं वक्तव्य फलबलाद्दर्पणाद्यभिहतानामेव बिम्बं प्राप्य तद्ग्राहकत्वम्, न शिलादिप्रतिहतानाम्। अनतिस्वच्छताम्रादिप्रतिहतानां मलिनोपाधिसम्बन्धदोषाद् मुखादिसंस्थानविशेषाग्राहकत्वं साक्षात्सूर्यं प्रेप्सूनामिव उपाधिं प्राप्य निवृत्तानां न तथा सौरतेजसा प्रतिहतिरिति न प्रतिबिम्बसूर्यावलोकने साक्षात्तदवलोकने इवाश्क्यत्वम्। जलाद्युपादिसन्निकर्षे केषा चिदुपाधिप्रतिहतानां बिम्बप्राप्तावपिकेषां चित्तदन्तर्गमनेनान्तरसिकतादिग्रहणमित्यादिकल्पनान्न कश्चिद्दोष इति।।

अद्वैतविद्याकृतस्तु प्रतिबिम्बस्य् मिथ्यात्वमभ्युपगच्छतां त्रिविधजीववादिनां विद्यारण्यगुरुप्रभृतीनामभिप्रायमेवमाहुः-
चैत्रमुखाद् भेदेन तत्सदृशत्वेन च पार्श्वस्थैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिम्बं ततो भिन्नं स्वरूपतो मिथ्यैव, स्वकरगतादिव रजताच्छुक्तिरजतम्। न च `दर्पणे मम मुखं भाति' इति बिम्बाभेदज्ञानविरोधः। स्पष्टभेद्वित्वप्रत्यङ्मुखत्वादिज्ञानविरोधेनाभेदज्ञानासम्भवाद्। `दर्पणे मम मुखम्' इति व्यपदेशस्य स्वच्छायामुखे स्वमुखव्यपदेशवद् गौणत्वाच्च। न चाभेदज्ञानविरोधाद् भेदव्यपदेश एव गौणः कि न स्यादिति शङ्क्यम्। बालानां प्रतिबिम्बे, रुरुषान्तरभ्रमस्य हानोपाद्त्साद्यर्थक्रियापर्यन्तस्यापलपितुमशक्यत्वात्। न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानाय दर्पणाद्युपादानदर्शनाद् अभेदज्ञानमप्यर्थक्रियापर्यन्तमिति वाच्यम्। भेदेऽपि प्रतिबिम्बस्य बिम्बसमानाकारत्वनियमविशेषपरिज्ञानादेव तदुपादानोपपत्तेः।
यत्तु `नात्र मुखम्' इति दर्पणे मुखसंसर्गमात्रस्य बाधः, न मुखस्येति। तन्न। `नेदं रजतम्' इत्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो, न रजतस्येत्यापत्तेः। यदि च इदमंशे रजतस्य तादात्म्येनाध्यासाद् `नेदं रजतम्' इति तादात्म्येन रजतस्यैव बाधः, न तादात्म्यमात्रस्य, तदा दर्पणे मुखस्य संसर्गितयाऽध्यासाद् `नात्र मुखम्' इति संसर्गितया मुखस्यैव बाधः, न संसर्गमात्रस्येति तुल्यम्।
यत्तु धर्मिणोऽप्यध्यासकल्पने गौरवमिति, तद् रजताभासकल्पनागौरववत् प्रामाणिकत्वान्न दोषः। स्वनेत्रगोलकादिप्रतिबिम्बभ्रमस्थले बिम्बापरोक्ष्यकल्पनोपायाभावात्। नयनरश्मीनामुपाधिप्रतिहतानां बिम्बप्राप्तिकल्पने हि दृष्टविरुद्धं बह्वापद्यते। कथं हि जलसन्निकर्षे केषुचिन्नयनरश्मिषु प्रतिहतमन्तर्गच्छत्सु अन्ये जलसम्बन्धेनापि प्रतिहन्यमाना नितान्तमृदवः सकलनयनरश्मिप्रतिघातिनं किरणसमूहं निर्जित्य तन्मध्यगतं सूर्यमण्डलं प्रविशेषुः। कथं च चन्द्रावलोकन इव तत्प्रतिबिम्बावलोकनेऽपि अमृतशीतलं तद्विम्बसन्निकर्षविशेषे लोचनयोः शैत्याभिव्यक्त्या आप्यायनं न स्यात्। कथं च जलसम्बन्धेनापि प्रतिहन्यमानाः शिलादिसम्बन्धेन न प्रतिहन्येरन्। तत्प्रतिहत्या परावृत्तौ वा नयनगोलकादिभिर्न संसृज्येरन्। तत्संसर्गे वा संसृष्टं न साक्षात्कारयेयुः। दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते, न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि।
प्रतिमुखाध्यासपक्षे तु न कञ्चिद् दृष्टविरुद्धं कल्पनीयम्।
तथाहि-अव्यवहितस्थूलोद्भूतरूपस्येव चाक्षुषाध्यासदर्शनाद्बिम्बगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारणत्वेन क्लृप्तयोः स्वाश्रयप्रतिबिम्बाध्यासेऽरपि कारणात्वम्, कुड्याद्यावरणद्रव्यस्य त्वगिन्द्रियादिन्यायेन प्राप्यकारितयाऽवगतनयनसन्निकर्षविघटनद्वारा व्यवलहितवस्तुसाक्षात्कारप्रतिबन्धकत्वेन क्लृप्तस्य व्यवहितप्रतिबिम्बाध्यासेऽपि विनैव द्वारान्तरं प्रतिबन्धकत्वं च कल्पनीयम्। तत्र को विरोधः क्कचित् कारणत्वादिना क्लृप्तस्य फलबलादन्यत्रापि कारणत्वादिकल्पने।
एतेनोपाधिप्रतिहतनयनरश्मीनां बिम्बप्राप्त्यनुपगमे व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिम्बभ्रमप्रसङ्ग इति निरस्तम्।
किं च तदुपगमे एव इक्तदूषणप्रसङ्गः। कथम्?। साक्षात् सूर्यावलोकन इव विना चक्षुर्विक्षेपमवनतमौलिना निरीक्ष्यमाणे सलिले ततः प्रतिहतानां नयनरश्मीनामूर्ध्वमुत्प्लुत्य पबिम्बसूर्यग्राहकत्ववत् निर्यक्चक्षुर्विक्षेपं विना ऋजुचक्षुषा दर्पणे विलोक्यमाने तत्प्रतिहतानां पार्श्वस्थमुखग्राहकत्ववच्च वदनसाचीकरणाभावेऽप्युपाधिप्रतिहतानां पृष्ठाभागव्यवहितग्रलाहकत्वं तावद्दुर्वारम्। उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृत्तिनियमं विहाय यत्र बिम्बं तत्रैव गमनोपगमात्। तथा मलिनदर्पणे श्यामतया गौरमुखप्रतिबिम्बस्थले बिद्यमानस्यापि बिम्बगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितया पीतशङ्खभ्रमन्यायेनारोप्यरूपवैशिष्ट्येनैव बिम्बमुखस्य चाक्षुषत्वं निर्वाह्यमिति, तथैव नीरूपस्यापि दर्पणोपाधिश्यामत्ववैशिष्ट्येन चाक्षुषप्रतिबिम्बभ्रमविषयत्वमपि दुर्वारम्। स्वतो नीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्वसंप्रतिपत्तेः। तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयान्।

न च तत्रापि पूर्वानुभवसंस्कारदौर्घट्यम्। पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेष्वदृष्टचरपुरुषाध्यासवन्मुखसामान्यानुभवसंस्कारमात्रेण दर्पणेषु मुखविशेषाध्यासोपपत्तेः।
इयांस्तु भेदः-स्वप्नेषु शुभाशुभहेत्वलदृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः, इह तु बिम्बसन्निधानानुरोधेन मुखाकृकतिविशेषाध्यास इति।
न च प्रतिबिम्बस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिम्बजीवस्यापि मिथ्यात्वापत्तिर्दोषः। प्रतिबिम्बजीवस्य तथात्वेऽप्यवच्छिन्नजीवस्य सत्यतया मुक्तिभाक्त्वोपपत्तेरिति।।

यत्तु प्रतिबिम्बं दर्पणादिषु मुखाच्छायाविशेषरूपतया सत्यमेवेति कस्याचिन्मतम्, तन्न। छाया हि नाम शरीरादेस्तत्तदवयवैरालोके कियद्देशव्यापिनि निरुद्धे तत्र देशे लब्धात्मकं तम एव। न च मौक्तिकमाणिक्यादिप्रतिबिम्बस्य तमोविरुद्धसितलोहितादिरूपवतस्तमोरूपच्छायात्वं युक्तम्। न वा तमोरूपच्छायारहिततपनादिप्रतिबिम्बस्य तथात्वमुपपन्नम्।
ननु तर्हि प्रतिबिम्बरूपच्छायायास्तमोरूपत्वासम्भवे द्रव्यान्तरत्वमस्तु, क्लृप्तद्रव्यानन्तर्भावे तमोवद् द्रव्यान्तरत्वकल्पनोपपत्तेरिति चेत्। तत् किं द्रव्यान्तरे प्रतीयमानरूपपरिमाणसंस्थानविशेषप्रत्यङ्मुखत्वादिधर्मयुक्तम्, तद्रहितं वा स्यात्?। अन्त्ये न तेन द्रव्यान्तरेण रूपविशेषादिघटितप्रतिबिम्बोपलम्भनिर्वाह इति व्यर्थं तत्कल्पनम्। प्रथमे तु कथमेकस्मिन्नल्पपरिमाणे युगपदसंकीर्णतया प्रतीयमानानां महापरिमाणानामनेकमुखप्रतिबिम्बानां सत्यतानिर्वाहः?। कथं च निबिडावयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदन्तर्हनुनासिकाद्यनेकनिम्नोन्नतप्रदेशवतो द्रव्यान्तरस्योत्पत्तिः?। किं च सितपीतरक्ताद्यनेकवर्णादिमतः प्रतिबिम्बस्योत्पत्तौ दर्पणमध्ये स्थितं तत्सन्निहितं न तादृशं कारणमस्ति।
यद्युच्येत-`उपाधिमध्यविश्रन्तियोग्यपरिमाणानामेव प्रतिबिम्बानां महापरिमाणज्ञानं तादृशनिम्नोन्नतादिज्ञानं च भ्रम एव। यथापूर्वं दर्पणतदवयवावस्थानाविरोधेन तादृक्प्रतिबिम्बोत्पादनसमर्थं च किञ्चयित् कारणं कल्प्यम्' इति। तर्हि शुक्तिरजतमपि सत्यमस्तु। तत्रापि शुक्तौ यथापूर्वं स्थितायामेव तत्तादात्म्यापन्नरजतोत्पादनसमर्थं किञ्चित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेन्द्रियग्राह्यत्वनियमवर्णनोपपत्तेः किं `शुक्तिरजतमसत्यम्, प्रतिबिम्बः सत्यः' इत्यर्धजस्तीयन्यायेन। न च तथासति `रजतम्' इति दृश्यमानायाः शुक्तेरग्नौ प्रक्षेपे रजतवद् द्रवीभावापत्तिः। अनलकस्तूरिकादिप्रतिबिम्बस्यौष्ण्यसौरभादिराहित्यवच्छुक्तिरजतस्य द्रवीभावलयोग्यताराहित्यो पपत्तेः।
अथोच्येत-"नेदं रजतम्", `मिथ्यैव रजतमभाद्' इति सर्वसंप्रतिपन्नबाधान्न शुक्तिरजतं सत्यम् इति। तर्हि `दर्पणे मुखं नास्ति, मिथ्यैवात्र दर्पणे मुखमभाद्' इत्यादिसर्वसिद्धबाधात् प्रतिबिम्बमप्यसत्यमित्येव युक्तम्। तस्मादसङ्गतः प्रतिबिम्बसत्यत्ववादः।।

ननु तन्मिथ्यात्ववादोऽप्ययुक्तः। शुक्तिरजत इव कस्य चिदन्वयव्यतिरेकशालिनः कारणस्याज्ञानस्य निवर्तकस्य च ज्ञानस्य चानिरूपणात्।।

अत्र केचित्-यद्यपि सर्वात्मनाऽधिष्ठानज्ञानानन्तरमपि जायमाने प्रतिबिम्बाध्यासे नाधिष्ठानावरणमज्ञानमुपादानम्, न वाऽधिष्ठानविशेषांशज्ञानं निवर्तकम्, तथाऽप्यधिष्ठानाज्ञानस्यावरणशक्त्यंशेन निवृत्तावपि विक्षेपशक्त्यंशंनानुवृत्तिसम्भवात् तदेवोपादानम्। बिम्बोपाधिसन्निधिनिवृत्तिसचिवं चाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकमिति।।

अन्ये तु ज्ञानस्य विक्षेपशक्त्यंशं विहायावरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकम्। ब्रह्मज्ञानेन मूलज्ञानस्य शुक्त्यादिज्ञानेनाऽवस्थाऽज्ञानस्य चावरणशक्त्यंशमात्रनिवृत्तौ तस्य विक्षेपशक्त्या सर्वदाऽनुवृत्तिप्रसङ्गात्। न च बिम्बोपाधिसन्निधिरूपविक्षेपशक्त्यंशनिवृत्तिप्रतिबन्धकप्रयुक्तं तत्। बिम्बोपाधिसन्निधानात् प्रागेव बिम्बे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोऽवगम्यमाने विक्षेपशक्त्यंशस्यापि निवृत्त्यवश्यम्भावेन तत्काले तयोस्स्न्निधाने सति उपादानाभावेन प्रतिबिम्बभ्रमाभावप्रसङ्गात्। अतो मूलाज्ञानमेव प्रतिबिम्बाध्यासस्योपादानम्। न चात्राप्युक्तदोषतौल्यम्। पराग्विषयवृत्तिपरिणामाना स्वस्वविषयावच्छिन्नचैतन्यप्रदेशे मूलज्ञानावरणशक्त्यंशाभिभावकत्वेऽपि तदीयविक्षेपशक्त्यंशानिवर्तकत्वात्। अन्यथा तत्प्रदेशस्थितव्यावहारिकविक्षेपाणामपि विलयापत्तेः।
न च प्रतिबिम्बस्य मूलाज्ञानकार्यत्वे व्यावहारिकत्वापत्तिः।
अविद्यातिरिक्तदोषाजन्यत्वस्य व्यावहारिकत्वप्रयोजकत्वात्। प्रकृते च तदतिरिक्ताबिम्बोपाधिसन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपत्तेः।

न चैवं सति बिम्बोपाधिसन्निधिनिवृत्तिसहकृतस्याप्यधिष्ठानज्ञानस्य प्रतिबिम्बाध्यासानिवर्तकत्वप्रसङ्गः, तन्मूलाज्ञाननिवर्तकत्वाभावादिति वाच्यम्। विरोधाभावात्। ब्रह्माज्ञानानिवर्तकत्वेऽपि तदुपादानकप्रतिबिम्बाध्यासविरोधिविषयकतयाऽधिष्ठानयाथात्म्यज्ञानस्य प्रतिबन्धकविरहसचिवस्य तन्निवर्तकत्वोपपत्तेः। अवस्थाऽज्ञानोपादानत्वपक्षेऽपि तस्य प्राचीनाधिष्ठानज्ञाननिवर्तितावरणशक्तिकस्य समानविषयत्वभङ्गेन प्रतिबन्धकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिम्बाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात्। अथवा स्वोपादानाज्ञाननिवर्तकब्रह्मज्ञाननिवर्त्य एवायमध्यासोऽस्तु। व्यावहारिकत्वाप्त्तिस्तु अविद्यातिरिक्तदोषजन्यत्वेन प्रत्युक्तेत्याहुः।।4।।

(5)एवं स्वप्नाध्यासस्याप्यनवच्छिन्नचैतन्ये अहङ्कारोपहितचैतन्ये वाऽवस्थारूपज्ञानशून्येऽध्यासात्,
`सूषुप्त्याख्यं तमोऽज्ञानं यद् बूजं स्वप्नबोधयोः'। इति-
आचार्याणां स्वप्नजाग्रत्प्रपञ्चयोरेकाज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादाननिवर्तकब्रह्मज्ञानैकबाध्यस्य अविद्याऽतिरिक्तनिद्रादिदोषजन्यतयैव प्रातिभासिकत्वामिति केचिदाहुः।।

अन्ये तु `बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे' इति भाष्योक्तेः, `अविद्यात्मकबन्धप्रत्यनीकत्वाद् जाग्रद्बोधवद्' इति विवरणदर्शनाद्, उत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधस्स्वाप्नाध्यासनिवर्तक इति ब्रह्मज्ञानेतरज्ञानबाध्यतयैव तस्य प्रातिभासिकत्वम्। न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यम्। रज्जुसर्पाध्यासस्य स्वोपादानाज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानन्तरोत्पन्नदण्डभ्रमेणापि निवृत्तिदर्शनादित्याहुः।

अपरे तु जाग्रद्भोगप्रदमर्मोपरमे सति जाग्रत्प्रपञ्चद्रष्टारं प्रतिबिम्बरूपं व्यावहारिकं जीवं तद्दृश्यं जाग्रत्प्रपञ्चमप्यावृत्य जायमानो निद्रारूपो मूलाज्ञानस्यावस्थाभेदः स्वाप्नप्रपञ्चाध्यासोपादानम्, न मूलाज्ञानम्। न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः। मूलाज्ञानेनावृतस्य जाग्रत्प्रपञ्चद्रष्टुः प्यावहारिकजीवस्य `मनुष्योऽहम्, ब्राह्मणोऽहम्, देवदत्तपुत्रोऽहम्' इत्यादिना स्वात्मानमसन्दिग्धाविपर्यस्तमभिमन्यमानस्य तदीयचिरपरिचयोन तं प्रति सर्वदा अनावृतैकरूपस्यानुभूतस्वपितामहात्ययादिजाग्रत्प्रपञ्चवृत्तान्तस्य च स्वप्नसमये केनचि णाभावे जागरण इव स्वप्नेऽपि `व्याघ्रोऽहम्, शूद्रोऽहम्, त्तपुत्रोऽहम्' इत्यादिभ्रमस्य स्वपितामहजीवदृशादिभ्रमस्य चाभावप्रसङ्गेन निद्राया एव तत्कालोत्पन्नव्यावहारिकजगज्जीवावारकाज्ञानावस्थाभेदरूपत्वसिद्धेः। न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपञ्चस्य द्रष्ट्भावप्रसङ्गः। स्वप्नप्रपञ्चेन सह द्रष्टुर्जीवस्यापि प्रातिभासिकाध्यासात्। एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिकजीवस्वरूपज्ञानात् स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपञ्चबाधः। न चैवं तद्द्रष्टुः प्रातिभासिकजीवस्यापि ततो बाधे `स्वप्ने करिणमन्वभूवम्' इत्यानुसन्धानं न स्यादिति वाच्यम्। व्यावहारिकजीवे प्रातिभासिकजीवस्याध्यस्ततया तदनुभवाव्द्यावहारिकजीवस्यानुसन्धानोपगमेऽप्यतिप्रसङ्गाभावादित्याहुः।

नन्वनवच्छिन्नचैतन्ये अहङ्कारोपहितचैतन्ये वा स्वाप्नप्रपञ्चाध्यासि इति प्रागुक्तं पक्षद्वयमप्ययुक्तम्। आद्ये स्वाप्नगजादेरहङ्कारोपहितस्क्षिणो विच्छिन्नदेशत्वेन सुखादिवदन्तः-परणवृत्तिसंसर्गमनपेक्ष्य तेन प्रकाशनस्य, चक्षुरादीनामुपरततया वृत्त्युदयासम्भवेन तत्संसर्गमपेक्ष्य तेन प्रकाशनस्य चायोगात्। द्वितीये `इदं रजतम्' इतिवद् `अहं गजः' इति वा `अहं सुखी'इतिवद् `अहं गजवान्' इति वाऽध्यासप्रसङ्गात्।।

अत्र केचिदाद्यपक्षं समर्थयन्ते-अहङ्कारानवच्छिन्नचैतन्यं न देहाद्बहिः स्वाप्नप्रपञ्चस्याधिष्ठानमुपेयते, किं तु तदन्तरेव। अत एव दृश्यमानपरिमाणोचितदेशसम्पत्त्यभावात् स्वाप्नगजादीना मायामयत्वमुच्यते। एवं चान्तःकरणस्य देहाद्बहिरस्वातन्त्र्याज्जागरणे बाह्यशुक्तीदमंशादिगोचरवृत्त्युत्पादाय चक्षुराद्यपेक्षायामपि देहान्तरन्तःकरणस्य स्वतन्त्रस्य स्वयमेव वृत्तिसम्भवाद्देहान्तरन्तःकरणवृत्त्यभिव्यक्तस्यानवच्छिन्नचैतन्यस्याधिष्ठानत्वे न काचिदनुपपत्तिः। अत एव यथा जागरणे सम्प्रयोगजन्यवृत्त्यभिव्यक्तशुक्तीदमंशावच्छिन्नचैतन्यास्थिताऽविद्या रूप्याकारेण विवर्तते, तथा स्वप्नेऽपि देहस्यान्तरन्तःकरणवृत्तौ निद्रादिदोषोपहितायामभिव्यक्तचैतन्यस्थाविद्या अदृष्टोद्बोधितनानाविषयसंस्कारसहिता प्रपञ्चाकारेण विवर्ततामिति विवरणोपन्यासे भारतीतीर्थवचनमिति।।

अन्ये त्वनवच्छिन्नचैतन्यं न वृत्त्यभिव्यक्तं सत् स्वाप्नप्रपञ्चस्याधिष्ठानम्। अशब्दमूलकानवच्छिन्नचैतन्यगोचरवृत्त्युदयासम्भवाद् अहङ्काराद्यवच्छिन्नचैतन्य एवाहमाकारवृत्त्युदयदर्शनात्। तस्मात् स्वतोऽपरोक्षमहङ्काराद्यनवच्छिननचैतन्यं तदधिष्ठानम्।
अत एव संक्षेपशारीरके-(संo शाo श्लोo41)
`अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत्।'
मनसा स्वतोनयनतो यदि वा स्वपनभ्रमादिषु तथा प्रथितेः।।
इति श्लोकेनापरोक्षाध्यासापेक्षितमिधिष्ठानापरोक्ष्यं क्वचित् स्वतः, क्वचिन्मानसवृत्त्या, क्वचिद् बहिरिन्द्रियवृत्त्येत्यभिधाय,
`स्वतोऽपरोक्षा चितिस्त्र विभ्रमस्तथाऽपि रूपाकृतिरेव जायते।
मनोनिमित्तं स्वपेन मुहुर्मुहुर्विनाऽपि चक्षुर्विषयं स्वमास्पदम्।।
मनोऽवगम्येऽप्यपरोक्षताबलात्तथाऽम्बरे रूपमुपोल्लिखन् भ्रमः।
सितादिभेदैर्बहुधा समीक्ष्यते यथाऽक्षगम्ये रजतादिविभ्रमे'।।
इत्याद्यनन्तरश्लोकेन स्वप्नाध्यासे स्वतोऽधिष्ठानापरोक्ष्यमुदाहृतम्। न चाहङ्कारानविच्छिन्न चैतन्यमात्रमावृतमिति वृत्तिमन्तरेण न तदभिव्यक्तिरिति वाच्यम्। ब्रह्मचैतन्यमेवावृतमविद्याप्रतिबिम्बजीवचैतन्यमहङ्कारानवच्छिन्नमप्यनावृतमित्युपगमाद्। एवं चाहङ्कारानवच्छिन्नचैतन्येऽध्यस्यमाने स्वाप्नगजादौ तत्समनियताधिष्टानगोच्यरान्तःकरणादिवृत्तिकृताभेदाभिव्यक्त्या प्रमातृचैतन्यस्यापि `इदं पश्यामि' इति व्यवहार इत्याहुः।।

अपरे तु समर्थयन्ते - अहङ्कारावच्छिन्नचातन्यमधिष्ठानमित्यहङ्कारस्य विशेषणभावेनाधिष्ठानकोटिप्रवेशो नोपेयते, किं त्वङ्कहारोपहितं तत्प्रतिबिम्बरूपचैतन्यमात्रमधिष्ठानमिति। अतो `नाहं गजः' इत्याद्यनुभवप्रसङ्ग इति।

एवं शुक्तिरजतमपि शुक्तीदमंशावच्छिचैतन्यप्रतिबिम्बे वृत्तिमतदन्तःकरणगतेऽध्यस्यते। शुक्तिदमंशावच्छिन्नबिम्बचैतन्ये सर्वसाधारणरे तस्याध्यासे सुखादिवदनन्यवेद्यत्वाभावप्रसङ्गादिति केचित्।।

केचित्तु बिम्बचैतन्य एव तदध्यासमुपेत्य `यदीयाज्ञानोपादानकं यत्, तत्तस्यैव प्रत्यक्षम्, न जीवान्तरस्य' इत्यनन्यवेद्यत्वमुपपादयन्ति।।5।।

(6)ननु शुक्तिरजताध्यासे चाक्षुषत्वानुभवः साक्षाद्वाऽधिष्ठानज्ञानद्वारा तदपेक्षणाद्वा कथ्सर्यते। स्वाप्नगजादिचाक्षुषत्वानुभवः कथं समर्थनीयः।

उच्यते। न तावत् तत्समर्थनाय स्वाप्नदेहवद्विषयवच्च इन्द्रियाणामपि प्रातिभासिको विवर्तः शक्यते वक्तुम्। प्रातिभासिकस्याज्ञातसत्त्वाभावात्। इन्द्रियाणां चातीन्द्रियाणां सत्त्वेऽज्ञातसत्त्वस्य वाच्यत्वात्। नापि व्यावहारिकाणमेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते। स्वप्नसमये तेषां व्यापारराहित्यरूपोपरतिश्रवणात्। व्यावहिकस्य स्पर्शनेन्द्रियस्य स्वोचितव्यावहारिकदेशसम्पत्तिविधुरान्तःशरीरे स्वाधिकपरिमाणकृत्स्नस्वाप्नशरीरव्यापित्वायोगच्च। तदेकदेशाश्रयत्वे च तस्य स्वाप्नजलावगाहनजन्यसर्वाङ्गीणशीतस्पर्शानिर्वाहात्।
अत एव `स्वप्ने जाग्रदिन्द्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि शूक्ष्मेन्द्रियाणि सन्तीति तैस्स्वाप्नपदार्थनामैन्द्रियकत्वम्, इत्युपपादनशङ्काऽपि निरस्ता। जाग्रदिन्द्रियव्यतिरिक्तसूक्ष्मेन्द्रियाप्रसिद्धेः।
किञ्च `अत्रायं पुरुषः स्वयञ्ज्योतिः' इति जागरे आदित्यादिज्योतिर्व्यतिकराच्चक्षरुरादिवृत्तिसञ्चाराच्च दुर्विवेकमात्मनः स्वयंज्योतिष्ट्वमिति स्वप्नावस्थामधिकृत्य तत्रात्मनःस्वयञ्ज्योतिष्ट्वं प्रतिपादयति। अन्यथा तस्य सर्वदा स्वयञ्ज्योतिष्ट्वेनात्रेति वैयर्थ्यात्। तत्र यदि स्वप्नेऽपि चक्षुरादिवृत्तिसञ्चारः कल्प्येत, तदा तत्रापि जागर इव तस्य स्वयञ्ज्योतिष्ट्वं दुर्विवेचं स्यादित्युतदाहृता श्रुतिः पीड्येत।
ननु स्वप्ने चक्षुराद्युपरमकल्पनेऽपि अन्तःकरणमनुपरतमास्त इति परिशेषासिद्धेर्न स्वयञ्ज्योतिष्ट्वविवेकः। मैवम्। `कर्ता शास्त्रार्थवत्त्वाद्' इत्यधिकरणे (2..3.33) न्यायनिर्णयोक्तरीत्याऽन्तःकरणस्य चक्षुरादिकरणान्तरनिरपेक्षस्य ज्ञानसाधनत्वाभावाद्वा, तत्त्वप्रदीपिकोक्तरीत्या स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयाऽवस्थितत्वेन तदानीं ज्ञानसाधनत्वायोगाद्वा परिशेषोपपत्तेः।
न च स्वप्नेऽन्तःकरणवृत्त्यभावे उत्थितस्य स्वप्नदृष्टगजाद्यनुसन्धानानुपपत्तिः। सुषुप्तिक्लृप्तया अविद्यावृत्त्या तदुपपत्तेः। सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यमज्ञानसुखादिप्रकाशः उत्थितस्यानुसन्धानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेणेति वेदान्तकौमुद्यभिमते सुषुप्तावविद्यावृत्त्यभावपक्षे इहापि स्वाप्नगजादिभासकचैतन्योपाधिभूतस्वप्नावस्था-विनाशजन्यसंस्कारादनुसन्धानोपपत्तेश्च।
अथवा "तदेतत् सत्त्वं येन स्वप्नं पश्यति" इत्यादिश्रुतेरस्तु स्वप्नेऽपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरान्तःकरणवृत्तिः। न च तावता परिशेषासिद्धिः। अन्तःकरणस्य `अहम्'इतिगृह्यमाणस्य सर्वात्मना जीवैक्येनाध्यस्ततया लोकदृष्ट्या तस्य तव्द्यतिरेकाप्रसिद्धेः परिशेषार्थं चक्षुरादिव्यापाराभरावमात्रस्यैवापेक्षितत्वात्। `प्रसिद्धदृश्यमात्रं दृगवभासयोग्यम्' इति निश्चयसत्तेन परिशेषार्थमन्यानपेक्षणात्।

तस्मात् सर्वथाऽपि स्वप्ने चक्षुरादिव्यापारासम्भवात् स्वाप्नगजादौ चाक्षुषत्वाद्यनुभवो ब्रम एव।

ननु स्वप्नेऽपि चक्षुरुन्मीलने गजाद्यनुभवः, तन्निमीलने नेति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलनाद्यनुविधानं प्रतीयते इति चेत्। `चक्षुषा रजतादिकं पश्यामि' इत्यनुभववदयमपि कश्चित् स्वप्नभ्रमो भविष्यति यत् केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुगद्यनुविधानं तदनुविधायिनी वृत्तिर्वाऽध्यस्यते। किमिव हि दुर्घटमपि भ्रमं माया न करोति विशेषतो निद्रारूपेण परिणता, यस्या माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्यः प्रतीयते, स च क्षणेन मार्जारः। स्वप्नद्रष्टुश्च न पूर्वापरविरोधानुसन्धानम्। तस्मादन्वयाद्यनुविधानप्रतीतितौल्येऽपि जाग्रद्गजाद्यनुभव एव चक्षुलादिजन्यः, न स्वाप्नगजाद्यनुभवः।।

दृष्टिसृष्टिवादिनस्तु कल्पितस्याज्ञातसत्त्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपञ्चस्य दृष्टिसमसमयां मृष्टिमुपेत्य घटादिदृष्टेश्चक्षुःसन्निकर्षानुविधानप्रतीतिं दृष्टेः पूर्वं घटाद्यभावेनासङ्गच्छमानां स्वप्नवदेव समर्थयमानाः जाग्रद्गजाद्यनुभवोऽपि न चाक्षुष इत्याहुः।।

(7)ननु, दृष्टिसृष्टिमवलम्बय कृत्स्नस्य जाग्रत्प्रपञ्चस्य कल्पितत्वोपगमे कस्तस्य कल्पकः-निरुपाधिरात्मा वा, अविद्योपहितो वा?। नाद्यः। मोक्षेऽपि साधनान्तरनिरपेक्षस्य कल्पकस्य सत्त्वेन प्रपञ्चानुवृत्त्या संसाराविशेषप्रसङ्गात्। न द्वितीयः। अविद्याया अपि कल्पनीयत्वेन तत्कल्पनात्प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात्।

अत्र केचिदाहुः-पूर्वपूर्वकल्पिताविद्योपहित उत्तरोत्तराविद्याकल्पकः। अनिदंप्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्थादोषः। न चाविद्याया अनादित्वोपगमाच्छुक्तिरजतवतू कल्पितत्वं न युज्यते, अन्यथा साद्यनादिविभागानुपपत्तेरिति वाच्यम्। यथा स्वप्ने कल्प्यमानं गोपुरादि किञ्चित् पूर्वसिद्धत्वेन कल्प्यते, किञचित्तदानीमुत्पाद्यमानत्वेन, एवं जागरेऽपि किञ्चित् कल्प्यमानं सादित्वेन कल्प्यते, किञ्चिदन्यथेति तावता साद्यनादिविभागोपपत्तेः। एतेन कार्यकारणविभागोऽपि व्याख्यात इति।

अन्ये तु वस्तुतोऽनाद्येवाविद्याऽऽदि। तत्र दृष्टिसृष्टिर्नोपेयते, किं तु ततोऽन्यत्र प्रपञ्चमात्रे इत्याहुः।।

नन्वेवमपि श्रुतिमात्रप्रतीतस्य वियदादिसर्गतत्क्रमादः कः कल्पकः?। न कोऽपि। किमालम्बना तर्हि "आत्मन आकाशः सम्भूतः" इत्यादिश्रुतिः?।निष्प्रपञ्चब्रह्मात्मैक्यावलम्बनेत्यवेहि। अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपत्तिर्भवतीति तत्प्रतिपत्त्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासः, न तात्पर्येणेति भाष्याद्युद्धोषः। व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादिसर्गतत्क्रमादिविषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः?। न व्यर्थः। न्यायव्युत्पत्त्यर्थमभ्युपेत्य तात्पर्यं तत्प्रवृत्तेः।
उक्तं हि शास्त्रदर्पणे-
`श्रुतीनां सृष्टितात्पर्यं स्वीकृत्येदमिहेरितम्।
व्रह्मात्मैक्यपरत्वात्तु तासां तन्नैव विद्यते।।'इति।
ज्योतिष्टोमादिश्रुतिबोधितानुष्ठानात् फलसिद्धिः स्वाप्न श्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या। ज्योतिष्टोमादिश्रुतीना च सत्त्वशुद्धिद्वारा ब्रह्मणि तात्पर्यान्नाप्रामाण्यमित्यादिदृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपञ्चस्त्वाकरग्रन्थेषु द्रष्टव्यः। अयमेको दृष्टिसमसमया विश्वसृष्टिरिति दृष्टिसृष्टिवादः।

अन्यस्तु दृष्टिरेव विश्वसृष्टिः। दृश्यस्य दृष्टिभेदे प्रमाणाभावात्।
`ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः।
अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ते कुदूष्ट्यः।।' इति-
स्मृतेश्चेति सिद्धान्तमुक्तावल्यादिदर्शिनो दृष्टिसृष्टिवादः।

द्विविधेऽपि दृष्टिसृष्टिवादे मनःप्रत्ययमलभमानाः के चिदाचार्याः सृष्टदृष्टिवादं रोचयन्ते। श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टमज्ञातसत्तायुक्तमेव विश्वं तत्तद्विषयप्रमाणावतरणे तस्य तस्य दृष्टिसिद्धिरिति।
न चैवं प्रपञ्चस्य कल्पितत्वाभावे श्रुत्यादिप्रतिपन्नस्य सृष्टिप्रलयादिमतः प्रत्यक्षादिप्रतिपन्नार्थाक्रियाकारिणस्छ तस्य सत्यतद्वमेवाभ्युपगतं स्यादिति वाच्यम्। शुक्तिरजतादिवत् सम्प्रयोगसंस्कारदोषरूपेण, अधिष्ठानज्ञानसंस्कारदोषरूपेण वो कारणत्रयेणाजन्यतया कल्पनासमसमयत्वाभावेऽपि ज्ञानैकनिवर्त्यत्वरूपस्य, सदसद्विलक्षणत्वरूपस्य, प्रतिपन्नोपाधिगतत्रैकालिकनिषेधप्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात्। सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वाभावेन ततो भेदात्।।

नन्वेवमहङ्कारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत् कल्पितत्वाभावेऽपि सिध्यतीति भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितयसम्पादनादियत्नो व्यर्थ इति चेद्।

अहङ्कारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः।।

अभ्युपेत्यवादमात्रं तत्। `अद्वितीयाधिष्ठानब्रह्मात्मप्रमाणस्य चैतन्यस्य' इत्यादितत्रत्यकारणत्रितयसम्पादनग्रन्थस्य चैतन्यस्य प्रमाकरणत्वे वेदान्तकरणत्वादिकल्पनाभङ्गप्रसङ्गेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्व्याचार्याः।।7।।

(8)ननु दृष्टिसृष्टिवादे, सृष्टिदृष्टिवादे च मिथ्यात्वसम्प्रतिपत्तेः कथं मिथ्याभूतस्यार्थक्रियाकारित्वम्?।
स्वप्नवादिति ब्रूमः। ननु स्वाप्नजलादिसाध्यावगाहनादिरूपाऽर्थक्रिया असत्यैव, किं तु जाग्रज्जलादिसाध्या सा सत्या? अविशिष्टमुभयत्रापि स्वसमानस्त्ताकार्थक्रियाकारित्वमिति केचित्।।

अद्वैतविद्याचार्यास्त्वाहुः-स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वम्। स्वाप्नाङ्गनाभुजङ्गमादीनां तदबाध्यसुखभयादिजनकत्वस्यापि दर्शनात्। स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानन्तरं न बाधोऽनुभूयते, प्रत्युत प्रबोधानन्तरमपि मनःप्रसादशरीरकम्पनादिना सह तदनुवृत्तिदर्शनात् प्रागपि सत्त्वमेवावसीयते। अत एव प्राणिनां पुनरपि सुखजनकविषयगोचरस्वप्ने वाञ्छा, अतादृशे च स्वप्ने प्रद्वैषः। सम्भवति च स्वप्नेऽपि ज्ञानवद् अन्तःकरणवृत्तिरूपस्य सुखभयादेरुदयः। न च स्वाप्नाङ्गनादिज्ञानमेव सुखादिजनकम्, तच्च सदेवेति वाच्यम्। तस्यापि दर्शनस्पर्शनादिवृत्तिरूपस्य स्वप्नप्रपञ्चसाक्षिण्यध्यस्तस्य कल्पनामात्रसिद्धत्वात्। न ह्युपरतेन्द्रियस्य चक्षुरादिवृत्तयः सत्याः सम्भवन्ति। न च तद्विषयापरोक्ष्यमात्रं सुखजनकम्, तच्च साक्षिरूपं सदेवेति वाच्यम्। दर्शनात् स्पर्शने कामिन्याः, पदा स्पर्शनात्पाणिना स्पर्शने; भुजङ्गस्यामर्मस्थले स्पर्शनाद् मर्मस्थले स्पर्शने सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेऽपि तत्तत्सुखभयादिविशेषस्य कल्पितदर्शनस्पर्शनादिवृत्तिविशेषजन्यत्वस्य वक्तव्यत्वादिति।

तथा जागरे घटादिप्रकाशनक्षमतत्रात्युपुरुषान्तरनिरीक्ष्यमाणालोकवत्यपवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य सन्तमसस्य प्रसिद्धसन्तमसोचितार्थक्रियाकारित्वं दृष्टम्। तेन तं प्रति घटाद्यावरणम्, दीपाद्यानयने तदपसरणम्, तन्नयने पुनरावरणमित्यादेर्दर्शनादित्यपि केचित्।।

अन्ये तु पानावगाहनाद्यर्थक्रियायां जलादिस्वरूपमात्रमुपयोगि, त तद्गतं सत्यत्वम्। तस्य कारणत्वतदवच्छेदकत्वयोरभावादिति किं तेन। न चैवंसति मरुमरीचिकोदकशुक्तिरजतादेरपि प्रसिद्धोदकाद्युचितार्थक्रियाकारित्वप्रसङ्गः। `मरीचिकोदकादावुदकत्वादिजातिर्नास्तीति तद्विषयकभ्रमस्य उदकशब्दोल्लेखित्वं तदुल्लेखिपूर्वानुभवसंस्कारजन्यत्वप्रयुक्तम्' इति तत्त्वशुद्धिकारादिमते तत्तदर्थक्रियाप्रयोजकोदकत्वादिजात्यभावादेव तदप्रसङ्गात्।

तत्राप्युदक्त्वादिजातिरस्ति। अन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधाद्, उदकाद्यर्थिनस्तत्र प्रवृत्त्यभावप्रसङ्गाच्चेति प्रातिभासिके पूर्वदृष्टसजातीयत्वव्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेषज्ञानेन समूलाध्यासनाशात्, क्वचिदधिष्ठानसामान्यज्ञानोपरमेण केवलाध्यासनाशात्, क्कचित् गुञ्जापुञ्जादौ चक्षुषा वह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योष्णस्पर्शादेरनध्यासाच्च तत्र तत्रार्थक्रियाभावोपपत्तेः। क्वचित् कासां चिदर्थक्रियाणामिष्यमाणत्वाच्च। मरीचिकोदकादिव्यावर्तकस्यार्थक्रियोपयोगिरूपस्य वक्तव्यत्व च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहं त्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च। तस्मान्मिथ्यात्वेऽप्यर्थक्रियाकारित्वसम्भवान्मिथ्यैव प्रपञ्चः, न सत्य इति।।8।।

(9) ननु मिथ्यात्वस्य प्रपञ्चधर्मस्य सत्यत्वे ब्रह्माद्वैतक्षतेस्तदपि मित्यैव वक्तव्यमिति कुतः प्रपञ्चस्य सत्यत्वक्षतिः?। मिथ्याभूतं ब्रह्मणः सप्रपञ्चत्वं न निष्प्रपञ्चत्वविरोधीति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधात्।।

अत्रोक्तमद्वैतदीपिकायाम्-वियदादिप्रपञ्चसमानस्वभावं मिथ्यात्वम्। तच्च धर्मिणः सत्यत्वप्रतिक्षेपकम्। धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादिसिद्धं धर्मिसमसत्त्वं तन्त्रम्, न पारमार्थिकत्वम्। अघटत्वादिप्रतिक्षेपके पटत्वादावस्माकं पारमार्थिकात्वासम्प्रतिपत्तेः। ब्रह्मणः सप्रपञ्चत्वं न धर्मिसमसत्ताकमिति न निष्प्रपञ्चत्वप्रतिक्षेपकम्।
अत एव मिखथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपञ्चसत्यत्वस्य पारमार्थिकत्वं स्यादिति निरस्तम्। धर्मिसमसत्ताकस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोऽपि व्यावहारिकत्वनियमात्।

अथवा यो यस्य स्वविषयसाक्षात्कारनिवर्त्यो धर्मः, स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः। शुक्तौ शुक्तितादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यम् अशुक्तित्वविरोधि, तत्रैव रजततादात्म्यं तन्निवर्त्यरज(1){(1)रजतभेदेतिपाठः पुस्तकान्तरे, निस्सन्देहश्च स यद्यपि, तथाऽपि टीकाकारेण `अरजतत्व-'इत्यस्यैव रजतभिन्नत्वेन विवरणात्तदनुमत्या स एवात्रावस्थापितः।}तत्वाविरोधीति व्यवस्थादर्शनात्। एवं च प्रपञ्चमिथ्यात्वं कल्पितमपि प्रपञ्चसाक्षात्कारानिवर्त्यमिति सत्यत्वप्रतिक्षेपकमेव। ब्रह्मणः सप्रपञ्चत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति न निष्प्रपञ्चत्वप्रतिक्षेपकमिति।

एतेन शब्दगम्यस्य ब्रह्मणः सत्यत्वे शपब्दयोग्यतायाः, शाब्दधीप्रामाण्यस्य च सत्यत्वं वक्तव्यम्। प्रातिभासिकयोग्यतावताऽनाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोग्यतावताऽग्निहोत्रादिवाक्येन तात्त्विकार्थस्य वा सिद्धयभावेन योग्यतासमानसत्ताकस्यैव शब्दार्थस्य सिद्धिनियमात्। अर्थाबाधरूपप्रामाण्यस्यासत्यत्वे अर्थस्य सत्यत्वायोगाच्च। तथा च ब्रह्मातिरिक्तसत्यवस्तुसत्त्वेन द्वैतावश्यम्भाव इति वियदादिप्रपञ्चोऽपि सत्योऽस्विति निरस्तम्।
व्यावहारिकस्यार्थक्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिक,योग्यताया अपि सत्यब्रह्मसिद्धिसम्भवात्। ब्रह्मपरे वेदान्ते सत्यादिपदसत्त्वाद् ब्रह्मसत्यत्वसिद्धेः। अग्निहोत्रादिवाक्ये तादृशपदाभावात्, तत्सत्त्वेऽपि प्रबलब्रह्माद्वैतश्रुतिविरोधात् तदसिद्धिरित्येव वैषम्योपपत्तेः। शब्दार्थयोग्यतयोःसमानसत्ताकत्वानियमस्य निष्प्रमाणकत्वात्। घटज्ञानप्रामाण्यस्याघटत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपत्तेश्च। तस्माद् (2.1.6) आरम्भणाधिकरणोक्तन्यायेन कृत्स्नस्य वियदादिप्रपञ्चस्य मिथ्यात्वं वज्रलेपायते।।9।।

(10) ननु आरम्भणशब्दादिभिरचेतनस्य वियदादिप्रपञ्चस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां मिथ्यात्वायोगाद् अद्वितीये ब्रह्मणि समन्वयो न युक्तः। न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः। परस्परभिन्नानां तेषाम् एकेन ब्रह्मणा ऽभेदासम्भवात्। न च तद्भेदासिद्धिः। सुखदुःखादिव्यवस्थया तत्सिद्धेरिति चेद्, न। तेषामभेदेऽपि उपाधिभेदादेव तव्द्यवस्थोपपत्तेः।।10।।

(11) ननु उपाधिभेदेऽपि तदभेदानपायात् कथं व्यवस्था। न ह्याश्रयभेदेनोपपादनीयो विरुद्धधर्मासङ्करस्तदतिरिक्तस्य कस्यचिद्भेदोपगमेन सिध्यति।
अत्र केचिदाहुः-सिध्यत्येवान्तःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था। "कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एव" "विज्ञानं यज्ञं तनुते" इत्यादिश्रुतिभिस्तस्यैव निखिलानर्थाश्रयत्वप्रतिपादनात्।"असङ्गो ह्ययं पुरुषः" "असङ्गो न हि सज्जते" इत्यादिश्रुतिभिः चेतनस्य सर्वात्मनौदासीन्यप्रतिपादनाच्च।
न चैवं सति कर्तृत्वादिबन्धस्य चैतन्यसामानार्धिकरण्यानुभवविरोधः। अन्तःकरणस्य चेतनतादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपत्तेः। न चान्तःकरणस्य कर्तृत्वादिबन्धाश्रयत्वे चेतनः संसारी न स्यादिति वाच्यम्। `कर्तृत्वादिबन्धाश्रयाहङ्कारग्रन्थितादात्म्याध्यासाधिष्ठानभाव एव तस्य संसारः' इत्युपगमात्। तावतैव भूषणत्वाश्रयसर्पतादात्म्याध्यासाधिष्ठाने रज्ज्वादौ "अयं भूषणः" इत्यभिमानवद् आत्मनोऽनर्थाश्रयत्वाभिमानोपपत्तेः। एतदभिप्रायेणैव "ध्यायतीव लेलायतीव" "अहङ्काराविमूढात्मा कर्ताऽहमिति मन्यते" इत्यादिश्रुतिस्मृतिदर्शनाच्च।
न चैकस्मिन्नेवात्नि विचित्रसुखदुःखाश्रयतत्तदन्तःकरणानामध्यासाद् आत्मन्याभिमानिकसुखदुःखादिव्यवस्थैवमपि न सिध्यतीति वाच्यम्। आध्यासिकतादात्म्यापन्नान्तःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्यापि अभिमानत आत्मीयतया आत्मनो यादृशमनर्थभाक्त्वम्, तादृशेन भेदेन तव्द्यवस्थोपपत्तेः।
एतेन सुखदुःखादीनामन्त;करणधर्मत्वेऽपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखानुभवरूपभोगव्यवस्था न सिध्यतीति निरस्तम्।
तत्तदन्तःकरणतादात्म्यापत्त्या तत्तदन्तःकरणभेदेन भेदवत एव साक्षिणस्तत्तदन्तःकरणसुखदुःखाद्यनुभवरूपत्वेन तव्द्यवस्थाया अप्युपपत्तेरिति।।

अन्ये तु जडस्य कर्तृत्वादिबन्धाश्रयत्वानुपपत्तेः "कर्ता शास्त्रार्थवत्तवाद" इति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेणान्तः-करणे चिदाभासो बन्धाश्रयः। तस्य चासत्यस्य बिम्बाद्भिन्नस्य प्रत्यन्तःकरणभेदाद्विद्वदविद्वत्सुखिदुःखिकर्त्रादिव्यवस्था। न चैवमध्यस्तस्य बन्धाश्रयत्वे बन्धमोक्षयोर्वैयधिकरण्यापत्तिः। अस्य चिदाभासस्यान्तःकरणावच्छिन्ने स्वरूपंतस्स्त्यतया मुक्त्यन्वयिनि परमार्थजीवेऽध्यस्ततया कर्तृत्वाश्रयचिदाभासतादात्म्याध्यासाधिष्ठानभावस्तस्य बन्ध इत्यभ्युपगमादित्याहुः।।
अपरे तु--
`आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः'।
इति सहकारित्वेन देहेन्द्रियैस्तादात्म्येन मनसा च युक्तस्य चेतनस्य भोक्तृत्वश्रवणादन्तःकरणभेदेन तद्विशिष्टभेदाव्द्यवस्था। न चैवं विशिष्टस्य बन्धः, शुद्धस्य मोक्ष इति वैयधिकरण्यम्। विशिष्टगतस्य बन्धस्य विशेष्येऽनन्वयाभावाद् विशिष्टस्यानतिरेकादित्याहुः।।

इतरे तु अस्तु केवलश्चेतनः कर्तृत्वादिबन्धाश्रयः। स्फाटिकलैहित्यन्यायेनान्तःकरणस्य, तद्विशिष्टस्य वा कर्तृत्वाद्याश्रयस्य सन्निधानाच्चेतनेऽपि कर्तृत्वाद्यन्तरस्याध्यासोपगमात्। न च तस्यैकत्वाव्द्यवस्थाऽनुपपत्तिः। उपाधिभेदादेव तदुपपत्तिः। नचान्यभेदादन्यत्र विरुद्धधर्मव्यवस्था न युज्यते इति वाच्यम्। मूलाग्ररूपोपाधिभेदमात्रेण वृक्षे संयोगतदभावव्यवस्थादर्शनात्। तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र तत्र श्बोदपलम्भकत्वानुपलम्भकत्वतारमन्द्रेष्टानिष्टशब्दोपलम्भकत्वादिवैचित्र्यदर्शनाच्चेत्याहुः।।

एके तु यद्याश्रयभेदादेव विरुद्धधर्मव्यवस्थोपपादननियमः, तदा चेतनेे निष्कृष्टे एवोपाधिवशाद् भेदकल्पना ऽस्तु। अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्काप्यसम्प्रतिपत्तेः। मणिमुकुरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामावदातवर्तुलदीर्घभावादिधर्माणामङ्गुल्युपष्टम्भोपाधिकल्पतेन भेदेन दीपे पाश्चात्त्यपौरस्त्यादिधर्माणां च व्यवस्थासम्प्रतिपत्तेरित्याहुः।।11।।

(12) एवमुपाधिपशाव्द्यवस्थेपपादने सम्भाविते जीवानां परस्परसुखाद्यननुसन्धानप्रयोजक उपाधिः क इति निरूपणीयम्।।

अत्र केचिदाहुः-भोगायतनाभेदतद्भेदावनुसन्धानाननुसन्धानप्रयोजकोपाधी। शरीरावच्छिन्नवेदनायास्तदवच्छिन्नेनानुसन्धानात् चरणावच्छिन्नवेदनाया हस्तवच्छिन्नेनाननुसन्धानाच्च। `हस्तवच्छिन्नोऽहं पादावच्छिन्नवेदनामनुभवामि' इत्यप्रत्ययात्। कथं तर्हि चरणलग्नकण्टकोद्धाराय हस्तव्यापारः। नायं हस्तव्यापारः हस्तावच्छिन्नानुसन्धानात्, किं त्ववयवावयविनोश्चरणशरीरयोर्भेदासत्त्वेन चरणावच्छिन्नवेदना शरीरावच्छिन्नेन `अहं चरणे वेदानावान्' इत्यनुसन्धीयते इति तदनुसन्धानात्। एवं चैत्रमैत्रशरीरयोरभेदाभावात् चैत्रशरीरावच्छिन्नवेदना न मैत्रशरीरावच्छिन्नेजानुसन्धीयते। नाप्युभयशरीरानुस्यूतावयव्यन्तरावच्छिन्नेनानुतन्धीयते। उभयानुस्यूतस्यावयविनो भोगायतनस्यैवाभावादिति न चैत्रशरीरलग्नकण्टकोद्धाराय मैत्रशरीरव्यापारप्रसङ्ग इति।।

अन्ये तु विश्लिष्टोपाधिभेदोऽननुसन्धानप्रयोजकः। तथा च हस्तावच्छिन्नस्य चरणवच्छिन्नवेदनानुसन्धानाभ्युपगमेऽपि न दोषः। न चैवं सति गर्भस्थस्य मातृसुखानुसन्धानप्रसङ्गः। एकस्मिन्नवयविन्यवयवभावेनाननुप्रविष्टयोर्विश्लिष्टशब्देन विवक्षितत्वाद् मातृगर्भशरीरयोस्तथात्वादित्याहुः।।
न च--
`उद्यतायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः।'
पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीनिह।। इति--
भारतोक्त्या विश्लेषेऽप्यनुसन्धानमवगतमिति वाच्यम्। तत्रापि शिरःकबन्धयोरेकस्मिन् अवयविन्यवयवभावेनानुप्रविष्टचरत्वात् शिरश्छेदनानन्तरं मूर्छामरणयोरन्यतरावश्यंभावेन दृष्टविरुद्धार्थस्य तादृशवचनस्य कैमुत्यन्यायेन योधोत्साहातिशयप्रशंसापरत्वात्। तादृक्प्रभावयुक्तपुरुषविशेषविषयतद्वेन भूतार्थवादत्वेऽपि निरुक्तस्योत्सर्गतोऽननुसन्धानतन्त्रत्वाविघाताच्च। अत एवोक्तवक्ष्यमाणपक्षेषु योगिनां जातिस्मराणा च शरीरान्तवृत्तान्तानुसन्धाने न दोषप्रसक्तिः।

अपरे तु शरीरैक्यभेदावनुसन्धानतदभावप्रयोजकोपाधी। बाल्यभवान्तरानुभूतयोरनुसन्धानतदभावदृष्टेः। न च बाल्ययौवनयोरपि शरीरभेदः शह्कनीयः। प्रत्यभिज्ञानात्। न च परिमाणभेदेन तद्भेदावगमः। एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपत्तेः।
नन्ववयवोपचयमन्तरेण न परिमाणभेदः। अवयवाश्च पश्चादापतन्तो न पूर्वसिद्धं शरीरं परियुज्यन्ते इति परिमाणभेदे शरीरभेद आवश्यक इति चेत्, न। प्रदीपारोपणसमसमयसौधोदरव्यापिप्रभामण्डलविकासतात्पिधानसमसमयतत्सङ्कोचाद्यननुरोधिनः परमाणुप्रक्रिययोरसम्भवादस्यानभ्युपगमात्। विवर्तावादे चैतन्द्रजालिकदर्शितशरीरवद् विनैवावयवोपचयं मायया शरीरस्य वृद्ध्युपपत्तेरित्याहुः।।

इतरे त्वन्तःकरणाभेदतद्भेदाभ्यामनुसन्धानाननुसन्धानव्यवस्थामाहुः।।
अयं च पक्षः प्रागुपपादितः।।

केचित्तु `अज्ञानानि जीवभेदोपाधिभूतानि नाना' इति स्वीकृत्य तद्भेदाभेदाभ्याम् अनुसन्धानाननुसन्धानव्यवस्थाप्ताहुः।।12।।

(13)अत्र केचिद् (2.3.43) "अंशो नानाव्यपदेशाद्" इत्यधिकरणे "अदृष्टानियमात्" ( 2.3 .41) "अभिसन्ध्यादिष्वपि चैवम् ( 2.3 .52)" "प्रदेशादिति चैन्नान्तर्भावाद्" ( 2.3 .53) इतिसूत्रतद्गतभाष्यरीतिमनुसृत्य एकस्मिन्नात्मन्युपाधिभेदेन व्यवस्थानुपगमे कणबुगादिरीत्याऽऽत्मभेदवादेऽपि व्यवस्थाऽनुपपत्तितौल्यमाहुः।
तथा हि-चैत्रचरणलग्नकण्टकेन चैत्रस्य वेदनोत्पादनसमये अन्येषामप्यात्मनां कुतो वेदना न जायते। सर्वात्मना सर्वगतत्वेन चैत्रशरीरान्तर्भावाविशेषात्। न च `यस्य शरीरे कण्टकवेधादि, तस्यैव वेदना, नान्येषाम्' इति व्यवस्था। सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव, नान्येषामिति नियन्तुमशक्यत्वात्।
न च `यददृष्टोत्पादितं यच्छरीरं, तत्तदीयम्' इति नियमः। अदृष्टस्यापि नियमासिद्धेः। यदा हि तददृष्टोत्पादनाय केन चिदात्मना संयुज्यते मनः, संयुज्यत एव तदाऽन्यैरपि। कथं कारणसाधारण्ये क्वचिदेव तददृष्टमुत्पद्येत। ननु मनस्संयोगामात्रसाधारण्येऽपि `अहमिदं फलं प्राप्नवानि' इति अभिसन्धिरदृष्टोत्पादककर्मानुकूलकृतिरित्येवमादि व्यवस्थतमिति तत एवादृष्टनियमो भविष्यतीति चेत्, न। अभिसन्ध्यादीनामपि साधारणमनस्संयोगाद्निष्पाद्यतया व्यवस्थित्यसिद्धेः। ननु स्वकीयमनस्संयोगोऽभिसन्ध्यादिकारणमिति मनस्संयोग एवासाधारणो भविष्यतीति, न। नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वमिति नियन्तुमशक्यत्वात्। न चादृष्टविशेषादात्मविशेषाणां मनसस्स्वस्वामिभावसिद्धिः। तस्याप्यदृष्टस्य पूर्ववव्द्यवस्थित्यसिद्धेः।
नन्वात्मनां विभुत्वेऽपि तेषां प्रदेशविशेषा एव बन्धभाज इति आत्माऽन्तराणां चैत्रशरीरे तत्प्रदेशविशेषाभावात् सुखदुःखादिव्यवस्था भविष्यतीति, न। यस्मिन् प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात् प्रदेशादपक्रान्तस्तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादिदर्शनेन शरीरान्तरे आत्मान्तरप्रदेशविशेषस्याप्यन्तर्भावात्। तस्मादात्मभेदेऽपि व्यवस्था दुरुपपादैव। कथंचित्तदुपपादने च श्रुत्यनुरोधाल्लघवाच्चैकात्म्यमङ्गीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति।।13।।

(14) सन्तु तर्ह्यणव एवात्मानः। यदि विभुत्वे व्यवस्था न सुवचा। मेवम्। आत्मनामणुत्वे कदाचित् सर्वाङ्गीणसुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपत्तेः।
यदत्रार्वाचीनकल्पनम्-उत्क्रान्तिगत्यागतिश्रवणान्यथानुपपत्त्या "अणुर्ह्येवैष आत्मा यं वा एते सिनीतः पुण्यं च पापं च" "वालाग्रशतभागस्य" इत्यादिश्रुतिषु साक्षादणुत्वश्रवणेन च अणव इव जीवः। तेषामणुत्वेऽपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेन आश्रयातिरिक्तप्रदेशविशेषव्यापिगुणतया न सवांङ्गाणसुखानुपलब्धिः। `द्रोणं बृहस्पतेर्भागम्' इत्यादिस्मृत्यनुरोधेन जीवानामंशसत्त्वात्। करशिरश्चरणाद्यनुगतेषु सुखदुःखादयौगपद्यं कायव्यूहगतेषु योगिनां भोगवैचित्र्यं चैति न काचिदनुपपत्तिः। एवं च जीवानुमणुत्वेनासङ्करात् सुखदुःखादिव्यवस्था विभोरीश्वराद् भेदश्चेति।
अत्रोक्तमद्वैतदीपिकायाम्-एवमपि कथं व्यवस्थासिद्धिः। चैत्रस्य `पादे वेदना शिरसि सुखम्' इति स्वांशभेदगतसुखदिःखानुसन्धानवद् मैत्रगतसुखदुःखानुसन्धानस्यापि दुर्वारत्वात्। अविशेषो हि चैत्रजीवात्तदंशयोः मैत्रस्य च भेदः। कायव्यूह स्थले वियुज्यान्यत्र प्रसरणसमर्थानामंशानां जीवाद्भेदावश्यंभावाद् अंशांशिनोस्त्वया भेदाभेदाभ्युपगमाच्च। न च शुद्धभेदोऽननुसन्धानप्रयोजक इति वाच्यम्। शुद्धत्वं हि भेदस्यांशांशिभावासहचरितत्वं वा अभेदासहचरितत्वं वा स्यात्?। नाद्यः। "अंशो ह्येष परमस्य" "ममैवांशो जीवलोके" "अंशो नानाव्यपदेशात्" इति श्रुतिस्मृतिसूत्रैर्जीवस्य ब्रह्माशत्वप्रतिपादनेन ब्रह्मजीवयोर्भोगसांकर्यप्रस्गात्।
ननु जीवांशानां जीवं प्रतीव जीवस्य ब्रह्म प्रति नाशत्वम्, किं तु `चन्द्रबिम्बस्य गुरुबिम्बः शतांशः' इतिवत् `सदृशत्वे सति ततो न्यूनत्वमात्रम्' औपचारिकांशत्वमिति चेत्। किंतदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रति, यदत्राननुसन्धानप्रयोजकशरीरे निवेश्यते?। न तावत् पटं प्रति तन्तूनामिवारम्भकत्वम्। जीवस्यानादित्वात्। नापि महाकाशं प्रति घटाकाशादीनामिव प्रदेशत्वम्, टङ्कच्छिन्नपाषाणशकलादीनामिव खण्डत्वं वा। अणुत्वेन निष्प्रदेशत्वादच्छेद्यत्वाच्च। भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेद्, न। तथा सति जीवेश्वरयोर्जीवानां च भोगसाङ्कर्यप्रसङ्गात्। स्वतो भिन्नानां तेषां चेतनत्वादिना अभेदस्यापि त्वयाऽङ्गीकारात्, समूहसमूहिनोर्भेदाभेदवादिनस्तव मते एकसमूहान्तर्गत्जीवानां परस्परमप्यभेदसत्त्वाच्च स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात्। यदि संयोगादीनां जातेश्चानेकाश्रितत्वं स्यात्, तदा गुणगुण्यादेरभेदाद् घटाभिन्नसंयोगाभिन्नपटोदेरपि घटाभेदः प्रसज्येतेत्यादि वदना त्वया तदभिन्नाभिन्नस्य तदेदनियमाभ्युपगमात्।
न च जीवान्तरसाधारणचेतनत्वादिधर्मैकरूप्यैकसमूहान्र्गतत्वादिप्रयुक्ताभेदविलक्षणमभेदान्तरमंशांशिनोरस्ति भेदेऽपेयनुसन्धथानप्रयोजकम्, यदत्रानतिप्रसङ्गाय विवक्ष्यत। तथा सति तस्यैव विशिष्य निर्वक्तव्यत्वापत्तेः। धर्मैकरूप्याद्यप्रयुक्तत्वमंशांशिनोरभेदे विशेष इति चेत्, न। जीवतदंशयोश्चेतनत्वादिधर्मैकरूप्यसत्त्वेन एकशरीरावच्छेदे कायव्यूहमेलने च समूहत्वेन च तयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्वस्यापि सद्भावात्। धर्मैकरूप्यादि प्रयुक्ताभेदान्तरसत्त्वेऽपि जीवतदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेद्, न। तयोरभेदेद्वयाभावात् त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वा अनेकत्वानभ्युपगमात्। तस्मादाद्यपक्षे सुस्थोऽतिप्रसङ्गः।
एतेनैव द्वितीयपक्षोऽपि निरस्तः। अभेदासहचरितभेदस्याननुसन्धानप्रयोजकत्वे उक्तरीत्या त्वन्मते जीवब्रह्मणोर्जीवानां चाभेदस्यापि सत्त्वेनातिप्रसङ्गस्य दुर्वारत्वात्।
ननु `अभेदप्रत्यक्षमनुसन्धाने प्रयोजकम्' इति तदभावेऽननुसन्धानम्। स्वस्य स्वाभेदः स्वाशाभेदश्च प्रत्यक्ष इति तद्द्रष्टुर्दुःखाद्यनुसन्धानम्, जीवान्तरेणाभेदसत्त्वऽपि तस्याप्रत्यक्षत्वान्न तदुदुःखाद्यनुसन्धानम्। जातिस्मरस्य प्राग्भवीयात्मनाऽपि अभेदस्य प्रत्यक्षसत्त्वात् तद्वृत्तान्तानुसन्धानम्, अन्येषां तदभावाद् नेत्यादि सर्वं सङ्गच्छते इति चेत्, तर्ह्यैकात्म्‌यवादेऽपि सर्वात्मतावरकाज्ञानावरणाच्चैत्रस्य न मैत्रात्माद्यभेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपत्तेर्व्यर्थः श्रुतिविरुद्ध आत्मभेदाभ्युपगमः।
न चेत्थमपि प्रपञ्चतत्त्ववपादिनस्तव व्यवस्थानिर्वाहः। सर्वज्ञस्येश्वरस्य वस्तुसज्जीवान्तराभेदप्रत्यक्षावश्यंभावेन जीवेषु दुःखवत्सु `अहं दुःखी' इत्यनुभवापत्तेः। अस्मन्मते त्वीश्वरः स्वाभिन्ने जीवे संसारं प्रतिबिम्बमुखे मालिन्यमिव पश्चन्नपि मिथ्यात्वनिश्चयान्न शोचतीति नैष प्रसङ्गः।
स्यादेतत्-मा भूदंशभेदः करशिरश्चरणादीनां कायव्यूहस्य चाधिष्ठानम्, आत्मदीपस्यानपायिनी ज्ञानप्रभाऽस्ति व्यापिनीति सैव सर्वाधिष्ठानं भविष्यतीति चेद्, न। ज्ञानवद् आत्मधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्य उत्पत्त्यसम्भवेन करचरणाद्यवयवभेदेनावयविनः, कायव्यूहवतः कायभेदेन च भोगवैचिञ्याभावप्रसङ्गात्। `सुखदुःखभोगादि ज्ञानधर्म एव, नात्मधर्मः' इत्यभ्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञामस्य भेदसिद्धावप्यात्मनो भेदासिद्धथा भोगवैचित्र्यादिनाऽ।डत्माभेदप्रतिक्षेपायोगात्। `भोगाद्याश्रयस्यात्मनोऽणुत्वेन प्रतिशरीरं विच्छिन्नतया तव्द्यापित्ववाद इव तदभेदवाद इव च न सर्वधर्मसङ्करापत्तिः' इति मतहानेश्च। तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनं न युक्तमिति।
नापि ते नतस्येश्वराद् भेदसाधनं युक्तम्। उत्क्रान्त्यादिश्रवणात्, साक्षादणुत्वश्रवणाच्च `अणुर्जीवः' इति वदतः तव मते "तत् सृष्ट्वा तदेवानुपराविशत्" "अन्तः प्रविष्टश्शास्ता जनानाम्" "गुहां प्रविष्टौ परमे परार्ध्ये" इत्यादिश्रुतिषु प्रवेशादिश्रवणात्, "स एषोऽणिमा एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा" इति श्रुतौ साक्षादणुत्वश्रवणाच्च परोऽप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः।
ननु "आकाशवत् सर्वगतश्च नित्यः" "ज्यायान् दिवो ज्यायानन्तरिक्षाद्" इत्यादिश्रवणात्, सर्वप्रपञ्चोपादानत्वाच्च परस्य सर्वगतत्वसिद्धेः तदणुत्वश्रुतयः उपासनार्थाः, दुर्ग्रहत्वाभिप्राया वा उन्नेयाः। प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः। न च जीवोत्क्रान्त्यादिश्रुतयोऽपि बुद्ध्या उपाधिना निर्वोढुं शक्या इति शङ्क्यम्। "तमुक्रामन्तं प्राणोऽनूत्क्रामति" इति प्राणाख्यबुद्ध्युत्क्रान्तेः प्रागेव जीवोत्क्रान्तिवचनात्। तथा "विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति नामरूपविमोक्षानन्तरमपि गतिश्रवणाच्च। "तद्यथाऽनस्सुसमाहितमुत्सर्जन् यायादेवमेवायं शरीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याति" इति स्वाभाविकगत्याश्रयशकटदृष्टान्तोक्तेश्चेति चेद्, नैतत्सारम्।
"स वा एष महानज आत्मा योऽयं विज्ञानमयः।"
`घटसंवृतमाकाशं नीयमाने घटे यथा।
घटो नीयेत नाकांशं तद्वज्जीवो नभेपमः'।।
इत्यादिश्रुतिषु जीवस्यापि वुभुत्वश्रवणात्। त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वाभावाज्जीवस्य कायव्यूहगतविचित्रसुखदुःखोपादानत्ववदणुत्वेऽपि जगदुपादानत्वसम्भवाच्च, ततस्तस्य सर्वगतत्वासिद्धेः। तत्प्रवेशश्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रान्त्यादिश्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसम्भवात्। `पञ्चवृत्तिर्मनोवव्द्यपदिश्यते' (उo मी o अo 2 पाo 4 सूo 12) इतिसूत्रभाष्ये बुद्धिप्राणयोः कार्यभेदाद्भेदस्य प्रतिपादितत्वेन बुद्ध्युपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपत्तेः। नामरूपविमोक्षानन्तरं ब्रह्मप्राप्तिश्रवणस्य प्राप्तरि जीव इव प्राप्तव्ये ब्रह्मण्यपि विभुत्वविरोधित्वात्। प्राकृतनामरूपविमोक्षानन्तरमपि अप्राकृतलोकविग्रहाद्युपधानेन ब्रह्मणः प्राप्तव्यत्ववादिमते प्राप्तुर्जीवस्याप्यप्राकृतदेहेन्द्रियादिसत्त्वेन तदुपधानेन ब्रह्मप्राप्तिश्रवणाविरोधात् स्वाभाविकगत्याश्रयशकटदृष्टान्तश्रवणमात्राद् जीवस्य स्वाभाविकगतिसिद्धौ "गुहां प्रविष्टौ" इति स्वाभाविकप्रवेशाश्रयजीवसमभिव्याहारेण ब्रह्मणोऽपि स्वाभाविकप्रवेशसिद्धिसम्भवाद्। ब्रह्मजीवोभयान्वयिन एकस्य प्रविष्टपदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात्। तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुतवव्यवस्थित्यसिद्धेर्न ततो भेदसिद्धिं प्रत्याशा। अस्मन्मते ब्रह्मातमैक्यपरमहावाक्यानुरोधेनावान्तरवाक्यानां नेयत्वात्स्वरूपेण जीवस्य विभुत्वम्, औपाधिकरूपेण परिच्छेद इत्यादिप्रकारेण जीवब्रह्मभेदप्रापकश्रुतीनामुपपादनं भाष्यादिषुव्यक्तम्।
तस्मादचेतनस्य प्रपञ्चस्य मिथ्यात्वात् चेतनप्रपञ्चस्य ब्रह्मभेदाच्च न वेदान्तानामद्वितीये ब्रह्मणि विद्यैकप्राप्येसमन्वयस्य कश्चिद्विरोध इति।।

       इति शास्त्रसिद्धान्तलेशसङ्ग्रहे द्वितीयः परिच्छेदः।