सामग्री पर जाएँ

सिद्धान्तलेशसङ्ग्रहः /तृतीयः परिच्छेदः

विकिस्रोतः तः

तृतीयः परिच्छेदः।

(1)ननु कथं विद्ययैव ब्रह्मप्राप्तिः। यावता कर्मणामपि तत्प्राप्तिहेतुत्वं स्मर्यते-
`तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने' इति।
सत्यम्। "नान्यः पन्था विद्यतेऽयनाय" इतिश्रुतेः, नित्यसिद्धब्रह्मावाप्तौ कण्ठगतविस्मृतकनकमालाऽवाप्तितुल्यायं विद्याऽतिरिक्तस्य साधनत्वासम्भवाच्च। ब्रह्मावाप्तौ परम्परया कर्मापेक्षामात्रपरा तादृशी स्मृतिः। क्व तर्हि कर्मणामुपयोगः?।

अत्र भामतीमतानुवर्तिन आहुः-"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेर्विद्यासम्पादनद्वारा ब्रह्मावाप्त्युपायभूतायां विविदिषायामुपयोगः। ननु इष्यमाणविद्यायामेवोपयोगः किं न स्यात्?। न स्याद्। प्रत्ययार्थस्य प्राधान्यात्। "विद्यासप्रयोगात् प्रत्यासन्नानि विद्यासाधनानि शमदमादीनि, विविदिषासंयोगात्तु ब्रह्मतराणि यज्ञादिनि" इति सर्वपेक्षाधिकरणभाष्याच्च (उo मीo अo3पाo4अधिo6सूo27)। ननु विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेच्छावत्त्वे विविदिषायां सिद्धत्वेन तदभावे वेदनोपायविविदिषायां कामनाऽसम्भवेन च विविदिषार्थं यज्ञद्यनुष्ठानायोगाद् न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेद्, न। अन्नद्वेषेण कार्श्यं प्राप्तस्य तत्परिहारायान्नविषयौत्कण्ठ्यलक्षणायामिच्छायां सत्यामप्युतकटाजीर्गादिप्रयुक्तधातुवैषम्यदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायते इति तद्रोचकौषधविधिवद् निरतिशयानन्दरूपं ब्रह्म तत्प्राप्तौ विद्या साधनमित्यर्थे प्राचीनबहुजन्मानुष्ठितानभिसंहितफलकनित्यनैमित्तिककर्मोपसञ्जातचित्तप्रसादमिहिम्ना सम्पन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौन्मुख्य(1){(1)केवलमूलपुस्तके औत्कट्यमित्युपलभ्यते परन्तु अर्थाभेदाट्टीकाऽनुरोधाच्चौन्मुख्येति पाठ एवात्रावस्थापितः।}लक्षणायामिच्छायां सत्यामप्यनादिभवसञ्चितानेकदुरितदोषेणास्तिककामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं सम्पादयचता प्रतिबन्धाद्विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धनिरासपूर्वं तत्सम्पादकयज्ञादिविधानोपपत्तेरेति।।

विवरणानुसारिणस्त्वाहुः-"प्रकृति प्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम्"इति सामान्यन्यायाद् `इच्छाविषयतया शब्दबोध्ये एव शाब्दसाधनतान्वयः' इति स्वर्गकामादिवाक्ये क्लृप्तविशेषन्यायस्य बलवत्त्वात्। `अश्वेन जिगमिषति' `असिना जिघांसति' इत्यादिलौकिकप्रयोगे अश्वादिरूपसाधनस्य, `तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं' मन्तव्यो निदिध्यासितव्य इत्यादिवैदिकप्रयोगे तव्यार्थभूतविधेश्च सन्प्रत्ययाभिहितेछ्छाविषये एव गमनादावन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः।
ननु तथा सति यावाद्विद्योदयं कर्मानुष्ठानापत्त्या "त्यजतैव हि तज्ज्ञेयम्" इत्यादिश्रुतिप्रसिद्धं कर्मत्यागरूपस्य सन्न्यासस्य विद्यार्थत्वं पीड्येतेति चेद्, न। प्राग् बीजावापात् कर्षणम्, तदनन्तरमकषर्णमिति कर्षणाकर्षणाभ्यां व्रीह्यादिनिष्पत्तिवद-
`अरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते।।'
इत्यादिवचनानुसारेण चेतसः शुद्धौ विवदिषादिरूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानम्, ततः सन्न्यास इति कर्मतत्सन्न्यासाभ्यां विद्यानिष्पत्त्यभ्युपगमात्।
उक्तं हि नैष्कर्म्यसिद्धौ-
`प्रत्यक्प्रवणतां बुद्धेः कर्माण्यापाद्य शुद्धितः।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव।।' इति ।।
कर्णणां विद्यार्थत्वपक्षेऽपि विविदिषापर्यन्तमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात् को भेद इति चेद्, अयं भेदः-कर्मणा विद्यार्थत्वपक्षे द्वारभूतविविदिषासिद्ध्यनन्तरमुपरतावपि फलपर्यन्तानि विशिष्टगुरुलाभान्निर्वघ्नश्रवणमननादिसाधनानि निवृत्तिप्रमुखानि सम्पाद्य विद्योत्पादकत्वनियमोऽस्ति। विविदिषार्थत्वपक्षे तु श्रवणादिप्रवृत्तिजननसमर्थोत्कटेच्छासम्पादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः। `यस्यैते चत्वारिंशत् संस्काराः' इति स्मृतिमूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधानलक्षणसंस्कारार्थत्वपक्षे इवेति वदन्ति।।1।।

ननु केषां कर्मणामुदाहृतश्रुत्या विनियोगो वोध्यते?। अत्र कैश्चिदुक्तम्-`वेदानुवचनेन'इति ब्रह्मचारिधर्माणाम्, `यक्षेन दानेन' इति गृहस्थधर्माणाम्, `तपसाऽनाशकेन' इति वानप्रस्थधर्माणां च उपलक्षणमित्याश्रमधर्माणामेव विद्योपयोगः। अत एव "विहितत्वाच्चाश्रमकर्मापि" (उo मीo अo 3 पाo 4 सूo 32) इति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोग इति।।

कल्पतरौ तु नाश्रमधर्माणामेव विद्योपयोगः। "अन्तराचापि तु तद्‌दृष्टेः" (उo मीo अo 3 पाo 4 सूo 36) इत्यधिकरणे आश्रमरहितविधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात्। न च विधुरादीनामनाश्रमिणा प्राग्जन्मानुष्ठितयज्ञाद्युत्पादितविविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणम्, न तु तदनुष्ठितकर्मणां विद्योपयोगनिरूपणपरमिति शङ्क्यम्। "विशेषानुग्रहश्च" इति (उo मीo अo 3 पाo 4 सूo 30) तदधिकरणसूत्रतद्भाष्ययोस्तदनुष्ठितानां जपादिरूपवर्णमात्रधर्मणामपि विद्योपयोगस्य कण्ठत ुक्तेः। "विहितत्वाच्चाश्रमकर्मापि" इति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वादित्यभिप्रायेणोक्तम्।
आश्रमधछर्मव्यतिरिक्तानामप्यस्ति विद्योपयोगः किं तु नित्यानामेव। तेषां हि फलं दुरितक्षयं विद्याऽपेक्षते, न काम्यानांम फलं स्वर्गादि। तत्र यथा प्रकृतौ क्लृप्तोपकाराणामङ्गानामतिदेशे सति न प्राकृतोपकारातिरिक्तोपकारकल्पनम्, एवं ज्ञाने विनियुक्तानां यज्ञादीनां क्लृप्तनित्यफलपापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकात्कल्पनमिति।।

संक्षेपशरीरके तु नित्यानां काम्याना च कर्मणां विनियोग उक्तः, यज्ञादिशब्दाविशेषात्। प्रकृतौ क्लृप्तोपकाराणां पदार्थानां क्लृप्तप्राकृतोपकारातिदेशमुखेनैव विकृतिष्वतिदेशेन सम्बन्धः, न तु पदार्थानामतिदेशानन्तरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पनाप्रसक्तिः। इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टानामङ्गानामिव पश्चात् कल्पनीय उपकारः प्रथमावगतविनियोगनिर्वाहाय क्लृप्तोऽपि सामान्यशब्दोपात्तसकलनित्यकाम्यसाधारणः कथं न कल्प्यः। अध्वरेषु अध्वरमीमांसकैरपि हि `उपकारमुखेन पदार्थान्वये एव क्लृप्तोपकारनियमः। पदार्थान्वयानन्तरम् उपकारकल्पने त्वक्लृप्तोऽपि विनियुक्तपदार्थानुगुण एव उपकारः कल्पनीयः' इति सम्प्रतिपद्यैव बाधलक्षणारम्भसिध्द्यर्थमुपकारमुखेन विकृतिषु प्राकृतान्वयो दशमाद्ये समर्थितः। किं च `क्लृप्तोपकारालाभान्नित्यानामेवायं विनियोगः' इत्यभ्युपगमे नित्येभ्यो दुरितक्षयस्य तस्माच्च ज्ञानोत्पत्तेरन्यतः सिद्धौ व्यर्थोऽयं विनियोगः। अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं तेष्वक्लृप्तमित्यविशेषाद् नित्यकाम्यसाधारणो विनियोगो दुर्वारः। ननु नित्यानां दुरितक्षयमात्रहेतुत्वस्यान्यतः सिद्धावपि विशिष्य ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिर्वाहकत्वं न सिद्धम्, किं तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतोऽवश्यं ज्ञानं भवति। इतरथा शुद्धिमात्रम्, न नियता ज्ञानोत्पत्तिरिति सार्थकोऽयं विनियोग इति चेत्, तर्हि नित्यानामपि अक्लृप्तमेव ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हणत्वम्। ज्ञानसाधन विशिष्टगुरुलाभश्रवणमननादिसम्पादकापूर्वं च द्वारं क्ल्पनीयमित्यक्लृप्तोपकारकल्पनाऽविशेषान्न सामान्यश्रुत्यापादितो नित्यकाम्यसाधारणो विनियोगो भञ्जनीय इति।।2।

(3) नन्वेवमपि कथम्-
`कर्मणैव हि संसिद्धिमास्थिता जनकादयः।'
इत्यादिस्मरणनिर्वाहः?। न च तस्य विद्यार्थकर्मानुष्ठानपरत्वम्। विविदिषावाक्ये ब्राह्मणग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकारप्रतीतेः। अतो जनकाद्यनुष्ठितकर्मणां साक्षादेव मुक्त्युपयोगो वक्त्व्यः। मैवम्। विविदिषावाक्ये ब्राह्मणग्रहणस्य त्रैवर्णिकोपलक्षणत्वात्।
यथाऽऽहुरत्रभवन्तो वार्तिककाराः-
`ब्राह्मणग्रहणं चात्र द्विजानामुपलक्षणम्।
अविशिष्टाधिकारित्वात्सर्वेषामात्मबोधने।।'इति।।
न हि `विद्याकामो यज्ञादीननुतिष्ठेद्' इति विपरिणमिते विद्याकामाधिकारविधौ ब्राह्मणपदस्याधिकारिविशेषसमर्पकत्वं युज्यते। उद्देश्ये विशेषणायोगात्।
नापि "राजा स्वाराज्यकामो राजसूयेन यजेत" इति स्वाराज्यकामाधिकारे राजसूयविधौ `स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेत'इति कर्तृतया यागविशेषणत्वेन विधेयस्य राज्ञो राजकर्तृकराजसूयस्याराज्ञा सम्पादयितुमशक्यत्वाद् अर्थादधिकारिकोटिनिवेशवद्, इह यज्ञादिकर्तृतया विधेयस्य ब्राह्मणस्यार्थदधिकारिकोटिनिवेश इति युज्यते। "सर्वथाऽपि त एवोभयलिङ्गाद्" इति सूत्रे (3.4.34) `अन्यत्र विहितानामेव यज्ञादीनां विविदषावाक्ये फलविशेषसम्बन्धविधिः, नापूर्वयज्ञादित्रिधिः' इति व्यवस्थापितत्वेन प्राप्तयज्ञाद्यनुवादेन एकस्मिन् वाक्ये `कर्तृरूपगुणविधिः, फलसम्बन्धविधिश्च' इत्युभयविधानाद्वाक्यभेदाप्त्तेः।
नापि राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृत्वलाभवद् इह वाक्याभेदाय कर्तृतया ब्राह्मणाविधानेऽपि ब्राह्मणपदसमभिव्याहारमात्रेण ब्राह्मणकर्तृकत्वालाभात् तदधिकारपर्यवसानमित्युपपद्यते। अन्यत्र त्रैवर्णिकाधिकारिकत्वेन क्लृप्तानामिहापि त्रैवर्णिकाधिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारात्मविद्यार्थत्वेन विधिसंसर्गहीनब्राह्मणपदसमभिव्याहारमात्रादधिकारसंकोचासम्भवेन ब्राह्मणपदस्य यथाप्राप्तविद्याधिकारिमात्रोपलक्षणत्वौचित्यात्।।3।।

(4) ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादिसम्भवेन तस्यापि विद्यार्थकर्माधिकारप्रसङ्ग इति चेद्, न। `अध्ययनगृहीतस्वाध्यायजन्यतदर्थज्ञानवत एव वैदिकेष्वधिकारः' इत्यपशूद्राधिकरणे (1.3.34) अध्ययनवेदवाक्यश्रवणादिविधुरस्य शूद्रस्य विद्याधिकारनिषेधात्। `न शूद्राय मतिं दद्याद्' इति स्मृतेरापाततोऽपि तस्य विद्यामहिम्नाऽवगत्युपायासम्भवेन तदर्थित्वानुपपत्तेश्च तस्य विद्यायामनधिकारादिति केचित्।।

अन्ये त्वाहुः-शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः। तस्य वेदानुवचनाग्निहोत्राद्यसम्भवेऽपि कण्ठोक्तसर्ववर्णाधिकारश्रीपञ्चाक्षरमन्त्रराजविद्यादिजपपापक्षयहेतुतपोदानपाकयज्ञादिसम्भवाद् `वेदानुवचनेन यज्ञेन दानेन' इत्यादिपृथक्कारकविभक्तिश्रुतेः विधुरादीनां विद्यार्थजपदानादिमात्रानुष्ठानानुमतेश्च `वेदानुवचनादिसमुच्चयानपेक्षणात्। न च शूद्रस्य विद्यायामर्थित्वासम्भवः।
श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः'।
इतीतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुसणाद्यवगतविद्यामाहात्म्यस्य तस्यापि तदर्थित्वसम्भवात्। `न शूद्राय मतिं यद्याद्' इति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञानदाननिषेधपरत्वात्। अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासम्भवे `शूद्रश्चतुर्थो वर्ण एकजातिस्तस्यापि सत्यमक्रोधश्शौचमाचमनार्थे पाणिपादक्षालनमेवैके श्राद्धकर्म भृत्यभरणं स्वदारतुष्टिः परिचर्या चोत्तरेषाम्' इत्यादितद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापत्तेः। नचैवं सत्यपशूद्राधिकरणस्य निर्विषयत्वम्। तस्य-
`न शूद्रे पातकं किंचित् न च संस्कारमर्हति। इत्यादिस्मृतेर्गुरूपसदनाख्यविद्याङ्गोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासु निर्गुणविद्यासाधनवेदान्तश्रवणादिषु चाधिकारनिषेधपरत्वाद् निर्गुणविद्यायां शूद्रस्यापि विषयसौन्दर्यप्रयुक्तार्थित्वस्य निषेद्धुमशक्यत्वात्। अविधेयायां च तस्यां तदतिरिक्ताधिकाराप्रसक्त्या तन्निषेधायोगाच्च। न च तस्य वेदान्तश्रवणासम्भवे विद्यार्थकर्मानुष्ठानसम्भवेऽपि विद्यानुत्पत्तेस्तस्य तदर्थकर्मानुष्ठानं व्यर्थमिति वाच्यम्। तस्य वेदान्तश्रवणाधिकाराभावेऽपि भगवत्पादैः-"श्रावयेच्चतुरो वर्णान्" इति चेतिहासपुराणाधिगमे चातुर्वर्ण्याधिकारस्मरणाद् वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितम्' इति अपशूद्राधिकरणोपसंहारभाष्ये ब्रह्मात्मैक्यपरपुराणादिश्रवणे विद्यासाधनेऽधिकारस्य दर्शितत्वाद्। विद्योत्पत्तियोग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थत्वं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलकसगुणविद्यार्थकर्मानुष्ठानवद् वेदान्तश्रवणयोग्यत्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्त्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थकर्मानुष्ठानाविरोधाच्च। तस्माद्विविदिषावाक्ये ब्राह्मणपदस्य यथाप्राप्तविद्याऽधिकारिमात्रविषयत्वेन शूद्रस्यापि विद्यार्थकर्माधिकारः सिध्यत्येवेति।। 4 ।।

(5)नन्वस्तु कर्मणां चित्तशुद्धिद्वारा विद्योपयोगः। सन्न्यासस्य किंद्वारा तदुपयोगः?।

केचिदाहुः-विद्योत्पत्तिप्रतिबन्धकदुरितानामनन्तत्वात् किञ्चिद् यज्ञाद्यनुष्ठाननिवर्त्यम्, किञ्चित् सन्न्यासापूर्वनिवर्त्यमिति कर्मवाच्चित्तशुद्धिद्वारैव सन्न्यासस्यापि तदुपयोगः। तथा च गृहस्थादीनां कर्मच्छिद्रेषु श्रवणाद्यनुतिष्टतां न तस्मिन् जन्मनि विद्यावाप्तिः, किं तु जन्मान्तरे मन्न्यासं लब्ध्वैव। येषां तु गृहस्थानामेव सतां जनकादीनां विद्या विद्यते, तेषां पूर्वजन्मनि सन्न्यासाद्विद्याऽवाप्तिः। अतो न विद्यायां सन्न्यासापूर्वव्यभिचारशङ्काऽपीति।

अन्ये तु "शान्ते दान्त उपरतः" इत्यादिश्रुतौ उपरतशब्दगृहीततया सन्न्पाससस्य साधनचतुष्टयान्तर्गतत्वात्, "सहकार्यन्तरविधिः" इति (उo मीo अo 3 पाo 4 सूo 47) सूत्रभाष्ये "तद्वतो विद्यावतः सन्न्यासिनो बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं विधीयते। "तस्मात् ब्राह्मणः पाण्डित्यम्" इत्यादिश्रुतौ ततः प्राग् "भिक्षाचर्यं चरन्ति" इति सन्न्यासाधिकाराद्" इति प्रतिप्रादनात्,
`त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः।
जिज्ञासेरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता।।' इति-
वार्तिकोक्तेश्च सन्न्यासापूर्वस्य ज्ञानसाधनवेदान्तश्रवणाद्यधिकारिविशेषणत्वमिति तस्य विद्योपयोगमाहुः।।

अपरे तु `श्रवणाद्यङ्गतयाऽऽत्मज्ञानफलता सन्न्यासस्य सिद्धा' इति विवरणोक्तेरनन्यव्यापारतया श्रवणादिनिष्पादनं कुर्वतस्यस्य विद्यायामुपयोगः। दृष्टद्वारे सम्भवति अदृष्टकल्पनाऽयोगात्। यदि त्वनलसस्य धीमतः पुरुषधौरेयस्याश्रमान्तरस्थस्यापि कर्माच्छिद्रेषु श्रवणादि सम्पद्यते, तदा `चतुर्ष्वाश्रमेषु सन्न्यासाश्रमपरिग्रहेणैव श्रवणादि निर्वर्तनीयम्' इति नियमोऽभ्युपेय इति ।। 5।।

(6) नन्वस्मिन् पक्षद्वये क्षात्त्रियवैश्ययो- कथं वेदान्तश्रवणाद्यनुष्ठानम्। सन्न्यासस्य ब्राह्मणाधिकरित्वाद् "ब्राह्मणोनिर्वेदभायाद्" "ब्राह्मणो व्युत्थाय" "ब्राह्मणः प्रव्रजेद्" इति सन्न्यासविधिषु ब्राह्मणग्रहणात्।
`अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः।
न सन्न्यासविधिर्यस्माच्छुतौ क्षत्रियवैश्ययोः।।' इति-वार्तिकोक्तेश्चेति चेत्,

अत्र केचित्-"यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्, गृहाद्वा, वनाद्वा" इत्याद्यविशेषश्रुत्या(1){(1)ब्राह्मणादीनामधिकारिविशेषाणामबोधिकयेत्यर्थः।},
ब्रह्मणः क्षत्रियो वाऽपि वैश्यो वा प्रव्रजेद् गृहात्।
त्रयाणामपि वर्णानाममी चात्वार आश्रमाः।।'
इतिस्मृत्यनुगृहीतता क्षत्रियवैश्ययोरपि सन्न्यासाधिकारसिद्धेः श्रुत्यन्तरेषु ब्राह्मणग्रहणं त्रयाणामुपलक्षणम्। अत एव वार्तिकेऽपि "अधिकारिविशेषस्य" इति श्लोकेन भाष्याभिप्रायमुक्त्वा-
`त्रयाणामविशेषेण सन्न्यासः श्रूयते श्रुतौ।
यदोपलक्षणार्थं स्याद् ब्राह्मणग्रहणं तदा।।'
इत्यनन्तरश्लोकेन स्वभते क्षत्रियवैश्ययोरपि सन्न्यासाधिकारो दर्शित इति तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयन्ते।।

अन्ये त्वनेकेषु सन्न्यासाविधिवाक्येषु ब्राह्मणग्रहणाद् उदाहृतजाबालश्रुतौ सन्न्यासविधिवाक्ये ब्राह्मणग्रहणाभावेऽपि श्रुत्यन्तरसिद्धं ब्राह्मणाधिकारमेव सिद्धं ब्राह्मणाधिकारमेव सिद्धं कृत्वा "सन्न्यासावस्थायामयक्षोपवीती कथं ब्राह्मणः" इति ब्राह्मणपरामर्शाच्च ब्राह्मणस्यैव सन्न्यासाधिकारः। (1)विरोधाधिकरणन्यायेन{(1)अस्मिन्नधिकरणे श्रुतिस्मृत्योर्विरोधे श्रुतेरेव प्रामाण्यं न तु स्मृतेरित्युक्तम्। तथा हि-ज्योतिष्टोमे सदोनामकमण्डपमध्ये काचिदौदुम्बरशाखा निखन्यते तस्याश्च वाससा वेष्टनं स्मर्यते-`औदुम्बरी सर्वा वेष्टयितव्या' इति। श्रुतौ तु-"औदुम्बरीं स्पृष्ट्वोद्गायेद्" इत्यौदुम्बरशाखायाः स्पर्शो विहितः। तत्र युगपदुभयानुष्ठानासम्भवादन्यतरनिषेधावश्यकत्वे सन्देहः-किमत्र स्मृतिप्रामाण्यादौदुम्बर्याः सर्ववेष्टनं कार्यमाहोस्विच्छ्ररुत्यनुरोधेन स्पशार्थं कश्चन भागः परित्याज्य इति। तत्र पूर्वाधिकरणन्यायेनाष्टकादिस्मृतिवदस्या अपि प्रामाण्येन सर्ववेष्टनं कार्यमिति प्राप्ते सिद्धान्तः-स्मृतेर्मूलभूतवेदानुमानद्वारा प्रामाण्येन यावदियं स्मृतिर्मूलभूतं वेदमनुमापयितुं प्रवर्तते तावदेव विरोधिना प्रत्यक्षेण वेदवचनेन तस्याः कल्पकत्वशक्तेर्व्याघातान्मूलप्रमाणभावान्न तस्याः स्मृतेः प्रामाण्यमिति। एवं च सर्ववेष्टनस्य स्मूत्पर्थस्य स्पर्शश्रुतिबिरुद्धत्वेन नानुष्ठेयतेत्यर्थः।} (पूo मीo अo 1 अo 2) श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य सङ्गाह्यत्वात्। यत्तु सन्न्यासस्य सर्वाधिकरित्वेन वार्तिकवचनं तद् विद्वत्सन्न्यासविषयम्, न तु आतुरविविदिषासन्न्यासे भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरम्।
`सर्वाधिकारविच्छेदि विज्ञानं चेदुपेयते।।
कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात्।।'
इत्यनन्तरश्लोकेन ब्रह्मज्ञानोदयानन्तरं जीवन्मुक्तिकाले विद्वत्सन्न्यास एवाधिकारनियमनिराकरणात्। एवं च ब्राह्मणानामेव श्रवणाद्यनुष्ठाने सन्न्यासोऽङ्गम्। क्षत्रियवैश्ययोस्तन्निरपेक्षः श्रवणद्यधिकार इति तयोः श्रवणाद्यनुष्ठाननिर्वाहः। न हि सन्न्यासस्य श्रवणपेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षा नियन्तुं शक्यते। क्रममुक्तिफलकसगुणोपासनया देवभावं प्राप्तस्य श्रवणादौ सन्न्यासनैरपेक्ष्यस्यावश्यं वक्तव्यत्वाद् देवानां कर्मानुष्ठानाप्रसक्त्या तत्त्यागरूपस्य सन्न्यासस्य तेष्वसम्भवादित्याहुः।।

अपरे तु "ब्रह्मसंस्थोऽमृतत्वमेति" इतिश्रुत्युदिता यस्य ब्रह्मणि संस्था समाप्तिः, अनन्यव्यापारत्वरूपं तन्निष्ठत्वं तस्य श्रवमादिषु मुख्याधिकारः।
`गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा।
न विचारपरं चेतो यस्यासौ मृत उच्यते।।
आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया।
इत्यादिस्मृतिषु सर्वदा विचारविधानात्। सा च ब्रह्मणि संस्था विना सन्न्यासमाश्रमान्तरस्थस्य न सम्भवति। स्वस्वाश्रमविहितकर्मानुष्ठानवैयग्यादिति सन्न्यासरहितयोः क्षत्रियवैश्ययोर्न मुक्यः श्रवणाद्यधिकारः। किं तु "दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिषु" इति "अन्तराचापि तु तद्‌दृष्टेः" इत्याधिकरणभाष्योक्तन्यायेन शूद्रवदप्रतिषिद्धयोस्तयोर्विधुरादीनामिव देहान्तरे विद्याप्रापकेणामुख्याधिकारमात्रेण श्रवणाद्यनुमतिः। न हि "अन्तरा चापि तु तद्‌दृष्टेः" इत्यधिकरणे विधुरादीनामङ्गीकृतश्श्रवणाद्यधिकारो मुख्य इति वक्तुं शक्यते। "अतस्त्वितरज्ज्यायो लिङ्गाच्च" (उo मीo अo 3 पाo 3 सूo 39) इति सूत्रकारेणैव तेषाममुख्याधिकारस्फुटीकरणात्। न च तत्र तेषां श्रवणाद्यधिकार एव नोक्तः, किं तु तदीयकर्मणां विद्याऽनुग्राहकत्वमिति शङ्क्याम्। "दृष्टार्था च विद्या" इत्युदाहृततदाधिकरणभाष्यविरोधात्। न च क्षत्रियवैश्ययोः सन्न्यासाभावाद् अमुख्याधिकारे तत एव देवानामपि श्रवणादिष्वमुख्य एवाधिकारः स्यात्। तथा च क्रममुक्तिफलकसगुणविद्यया देवदेहं प्राप्य श्रवणाद्यनुतिष्ठता विद्याप्राप्त्यर्थं सन्न्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति "ब्रह्मलोकमभिसम्पद्यते" "न च पुनरावर्तते" "अनावृत्तिश्शब्दाद्" इत्यादिश्रुतिसूत्राविरोध इति वाच्यम्। देवानामनुष्ठेयकर्मवैयग्त्याभावात् स्वत एवानन्यव्यापारत्वं सम्भवतीति क्रममुक्तिफलकसगुणविद्याभिधायिशास्त्रप्रामाण्याद्विनाऽपि सन्न्यासं तेषां मुख्याधिकाराभ्युपगमादित्याहुः ।। 6 ।।

(7)नन्वमुख्याधिकारिणा दृष्टफलभूतवाक्यार्थावगत्यर्थमविहितशास्त्रान्तरविचारवत् क्रियमाणो वेदान्तविचारः कथं जन्मान्तरविद्याऽवाप्तावुपयुज्यते। न खलुविचारस्य दिनान्तरीयविचार्यावगतिहेतुत्वमपि युज्यते। दूरे जन्मान्तरीयतद्धेतुत्वम्। न च वाच्यं मुख्याधिकारिणा परिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव। अवगतेर्दृष्टार्थत्वात्। तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबन्धदिह जन्मनि फलमजनयतो जन्मान्तो प्रतिबन्धकापगमेन फलजनकत्वम् "ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनाद्" इत्यधिकरणे (उ o मीo अo 3 पाo 4 सूo 41) तथा निर्णयाद्, एवममुख्याधिकारिकृतस्यापि स्यादिति। यतश्शास्त्रीयाङ्गविधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मान्तरीयविद्योपयोगित्वमुपपद्यते। घटकादृष्टं विना जन्मान्तरीयप्रमाणव्यापारस्य जन्मान्तरीयावगतिहेतुत्वोपगमे अतिप्रसङ्गात्।

उच्यते-अमुख्याधिकारिणाऽपि उत्पन्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादकप्राचीनविद्यार्थयज्ञाद्यनुष्ठानजन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितश्रवणस्य उपकारकतां घटयतीति नानुपपत्तिः। श्रवणादौ विध्यबावपक्षे तु सन्न्यासपूर्वकं कृतस्यापि श्रवणस्यादृष्टानुत्पादक्तवात् सति प्रतिबन्धे तस्य जन्मान्तरीयविद्याहेतुत्वमित्थमेव निर्वाह्यम्।।

आचार्यास्तु नियमविधिपक्षेऽपि अयमेव निर्वाहः। श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रायेण तन्नियमादृष्टानुत्पत्तेः। तस्य फलपर्यन्तावृत्तिगुणकश्रवणानुष्ठाननुयमसाध्यत्वात्। न हि नियमादृष्टजनकश्श्रवणनियमः फलपर्यन्तमावर्तनीयस्य श्रवणस्योपक्रममात्रेण निर्वर्तितो भवति। येन तज्जन्यनियमादृष्टस्यापि फलपर्यन्तश्रवणावृत्तेः प्रागेवोत्पत्तिः सम्भाव्येत। अवघातवदावृत्तिगुणकस्यैव श्रवणस्य फलसाधनत्वेन फलसाधनपदार्थनिष्पत्तेः प्राक् तन्नियमनिर्वर्तिवचनस्य निरालम्बनत्वात्, श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पत्तौ तावत्रैव नियमशास्त्रानुष्‌ठानं सिद्धमिति तदनावृत्तावप्यवैकल्यप्रसङ्गाच्चेत्याहुः।।

केचित्तु दृष्टार्थस्यैव वेदान्तश्रवणस्य-
`दिने दिने तु वेदान्तश्रवणाद् भक्तिसंयुतात्।
गुरुशुश्रूषया लब्धात् कृछ्राशीतिफलं लभेद्'।।
इत्यादिवचनप्रामाण्यात् स्वतन्त्रादृष्टोत्पादकत्वामप्यस्ति। यथा अग्निसंस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगणनात् तदर्थत्वमपि, एवं वचनबलादुभयार्थत्वोपपत्तेः। तथा च प्रतिदिनश्रवणजनितादृष्टमहिम्नैवामुष्मिकविद्योपयोगित्वं श्रवणमननादिसाधनानामित्याहुः।।7।।

(8)एवं `श्रवणमननादिसाधनानुष्ठानप्रणाल्या विद्याऽवाप्तिः' इत्यस्मिन्नर्थे सर्वसम्प्रतिपन्ने स्थिते भारतीतीर्थाः ध्यानदीपे विद्याऽवाप्तौ उपायान्तरमप्याहुः। "तत् कारणं साङ्ख्ययोगाभिपन्नम्", `यत्साङ्ख्यैः प्राप्यते स्थानं तद्येगैरपि गम्यते।' इतिश्रुतिस्मृतिदर्शनाद् यथा साङ्ख्यं नाम वेदान्तविचारः श्रवणशब्दितो मननादिसहकृतो विद्याऽवाप्त्युपायः, एवं योगशब्दितं निर्गुणब्रह्मोपासनमपि। न च निर्गुणस्योपासनमेव नास्तीति शङ्क्यम्। प्रश्नोपनिषादि शैब्यप्रश्ने "यः पुनरेतं त्रिमात्रेणोङ्कारेण(1) {(1)ओमित्येतेनैवाक्षरेणेति पाठः।} परं पुरुषमभिध्यायीति" इति निर्गुणस्यैवोपासनप्रतिपादनात्। तदनन्तरम्-"स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते" इति उपासनाफलवाक्ये "ईक्षतिकर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्म, तदेवोपासनावाक्येऽपि ध्यायतिकर्म, नान्यत्। ईक्षतिध्यानयोः कार्यकारणभूतयोरेकविषयत्वनियमाद्" इत्यस्यार्थस्य ईक्षातिकर्माधिकरणे भाष्यकारदिभिरङ्गीकृतत्वात्। अन्यत्रापि तापनीयकठवल्लयादिश्रुत्यन्तरे निर्गुणोपास्तेः प्रपञ्चितत्वात्। सूत्रकृताऽप्युपास्यगुणपरिच्छेदार्थमारब्धे गुणोपसंहारपादे निर्गुणेऽपि "आनन्दादयः प्रधानस्य" इति सूत्रेण (उo मीo अo 3 पाo 3 सूo 11) भावरूपाणां ज्ञानानन्दादिगुणानाम्, "अक्षरधियां त्ववरोधः" इत्यादि सूत्रेण (उo मी अo 3 पाo 3 सूo 33) अभावरूपाणामस्थूलत्वादिगुणानां चोपसंहारस्य दर्शितत्वाच्च। ननु आनन्दादिगुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेद्, न। आनन्दादिभिरस्थूलत्वादिभिश्तचोपलक्षितमखण्डैकरसं ब्रह्मास्मीति निर्गुणत्वानुपमर्देन उपासनासम्भवात्। ननु "तदेव ब्रह्म त्वं बिद्धि नेदं यदिदमुपासते" इतिश्रुतेः न परं ब्रह्मोपास्यमिति चेत्, "अन्यदेव तद्विदिताद्" इति श्रुतेस्तस्य वेद्यत्वस्याप्यसिध्द्यापातात्। श्रुत्यन्तरेषु ब्रह्मवेदनप्रसिद्धेरवेद्यत्वश्रुतिर्वास्तवावेद्यत्वपरा चेद्, आथर्वणादौ तदुपासनाप्रसिद्धेस्तदनुपास्यत्वश्रुतिरपि वस्तुवृत्तपराऽस्तु। एवं च "श्रवणायापि बहुभिर्यो न लभ्यः" इति श्रवणाद् येषां बुद्धिमान्द्यद, न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा श्रवणादि न सम्भवति, तेषामध्ययनगृहीतैः वेदान्तैरापाततोऽधिगमितब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तमार्षग्रन्थेषु ब्राह्मवासिष्ठादिकल्पेषु पञ्चीकरणादिषु चानेकशाखाविप्रकीर्णसर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवन्निर्धारितानुष्ठानप्रकारं निर्गुणोपासनं सम्प्रदायमात्रविद्भयो गुरुभ्योऽवधार्य तदनुष्ठानात् क्रमेणोपास्यभूतनिर्गुणब्रह्मसाक्षात्कारः सम्पद्यते। अविसंवादिभ्रमन्यायेन उपास्तेरपि क्कचित् फलकाले प्रमापर्यवसानसम्भवात्। पाणौ पञ्च वराटकाः पिधाय केनचित् "करे कति वराटकाः?" इति पृष्टे "पञ्च वराटकाः" इति तदुत्तरवक्तुर्वाक्यप्रयोगमूलभूतसङ्ख्याविशेषज्ञानस्य मूलप्रमाणशून्यस्याहार्यारोपरूपस्यापि यथार्थत्ववन्निर्गुणब्रह्मोपासनस्यार्थतथात्वविवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनवदुपासनाशास्त्रमात्रमवलम्ब्य क्रियमाणस्यापि वस्तुतो यथार्थत्वेन तहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषय साक्षात्कारस्य श्रवणादिप्रणालीजन्यसाक्षात्कारवदेवव तत्त्वार्थविषयत्वावश्यंभावाच्च।
इयांस्तु विशेषः-प्रतिबन्धरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो झटिति सिध्यतीति साङ्ख्यमार्गो मुख्यः कल्पः, उपास्त्या तु विलम्बेनेति योगमार्गोऽनुकल्प इति ।। 8 ।।

(9)नन्वस्मिन् पक्षद्वयेऽपि ब्रह्मसाक्षात्कारे किं करणम्?।

के चिदाहुः-प्रत्ययाभ्यासरूपं प्रसङ्ख्यानमेव। येगमार्गे आदित आरभ्यापासनरूपस्य साङ्ख्यमार्गे मननानन्तरनिदिध्यासनरूपस्य च तस्य सत्त्वात्। न च तस्य ब्रह्मसाक्षरात्कारकारणत्वं मानाभावः। "ततस्तु तं पश्यते निष्कलं ध्यायमानः" इति श्रवणात्। कामातुरस्य व्यवहितकामिनीसाक्षात्कारे प्रसङ्ख्यानस्य कारणत्वक्लृप्तेश्च। "आ प्रायणात् तत्रापि हि दृष्टम्" (उoमीo अo 4 पाo 1 सूo 12) इत्यधिकरणे, "विकल्पोऽविशिष्टफलत्वाद्"(उoमीoअo 3 पाo 3 सूo59) इत्यधिकरणे च दहराद्यहंग्रहोपासकानां प्रसङ्ख्यानादुपास्यसगुणब्रह्मसाक्षात्काराङ्गीकाराच्च। ननु च प्रसङ्ख्यानस्य प्रमाणपरिगणनेष्वपरिगणनात् तज्जान्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात्। न च काकतालीयसंवादिवराटकसङ्ख्याविशेषाहार्यज्ञानवद् अर्थाबाधेन प्रमात्वोपपत्तिः। प्रमाणामूलकस्य प्रमात्वायोगात्। आहार्यवृत्तेश्च उपासनावृत्तिवज् ज्ञानभिन्नमानसाक्रियारूपतया इच्छादिवद् अबाधितार्थविषयत्वेऽपि प्रमाणत्वानभ्युपगमात्। मैवम्। क्लृप्तप्रमाकरणामूलकत्वेऽपीश्वरमायावृत्तिवत् प्रमात्वोपपत्तेः। विषयाबाधतौल्यात्। मार्गद्वयेऽपि प्रसङ्ख्यानस्य विचारितादविचारिताद्वा वेदान्ताद्ब्रह्मात्म्यैक्यावगतिमूलकतया प्रसङ्ख्यानजन्यस्य ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च। उक्तं च कल्पतरुकारैः-
`वेदान्तवाक्यजज्ञानभावनाजाऽपरोक्षधीः।
मूलप्रमाणदार्ढ्येन न भ्रमत्वं प्रपद्यते।।
न च प्रामाण्यपरतस्त्वापात्तिस्ति प्रसज्यते।
अपवादनिरासाय मूलशुद्ध्यनुरोधनाद्।।इति।'

अन्ये तु "एषोऽणुरात्मा चेतसा विदितव्यः", "दृश्यते त्वग्त्यया बुद्ध्या" इत्यादिश्रुतेर्मन एव ब्रह्मसाक्षात्कारे करणम्। तस्य सोपाधिकात्मनि अहंवृत्तिरूपप्रमाकरणत्वक्लृप्तेः। `स्वप्नप्रपञ्चविपरीतप्रमात्रादिज्ञानसाधनस्यान्तःकरणस्य' इत्यादिपञ्चपादिकाविवरणग्रन्थैरपि तथा प्रतिपादनात्। "अहमेवेदं सर्वं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः" इतिश्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षरात्कारे एव मनसः करणत्वसम्प्रतिपत्तेश्च। तदा करणान्तराभावात्। प्रसङ्ख्यानं तु मनस्स्हकारिभावेनापि उपयुज्यते। `वाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामाविर्भवयति'इति भामतीवचनात्। "ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कल ध्यायमानः" इति श्रुतावपि ज्ञानप्रसादशब्दितचित्तैकाग्त्यहेतुतयैव ध्यानोपादानात्। न तु प्रसङ्ख्यानं स्वयं करणम्। तस्य क्कचिदपि ज्ञानकरणत्वाक्लृप्तेः। कामातुरकामिनीसाक्षात्कारादावपि प्रसङ्ख्यानसहकृतस्य मनस एव करणत्वोपपत्त्या ऽक्लृप्तज्ञानकरणान्तरकल्पनायोगादित्याहुः।।

अपरे तु "तद्धास्य विजाज्ञौ" "तमसः पारं दर्शयति आचार्यवान् पुरुषो वेद तस्य तावदेव चिरम्" इत्यादिश्रुतिषु आचार्योपदेशानन्तरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणाद् "वेदान्तविज्ञानसुनिश्चितार्थाः" इति ज्ञानान्तरनैराकाङ्क्ष्यश्रवणात् "तं त्वौपनिषदं पुरुषम्" इति ब्रह्मण उपनिषदेकगम्यत्वश्रवणाच्च औपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणम्, न मनः। "यन्मनसा न मनुते" इति तस्य ब्रह्मसाक्षात्कारकरणत्वनिषेधात्। न चापक्कमनोविषयमिदम्। "येनाहुर्मनो मतम्" इतिवाक्यशेषे मनोमात्रग्रहणात्। न चैवं "यद्वाचाऽनभ्युदितम्" इति शब्दस्यापि तत्करणत्वं निषिध्यते इति शङ्क्यम्। मनःकरणत्ववादिनामपि शब्दस्य निर्विशेषपरोक्षज्ञानकरमत्वस्याभ्युपगतत्वेन तस्य "यतो वाचो निवर्ततन्ते अप्राप्य मनसा सह" इति श्रुत्यनुरोधेन शब्दार्थप्राप्तिरूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतया शक्यसम्बन्धरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात्। न च "मनसैवानुद्रष्टव्यम्" इति श्रुतिसिद्धं मनसोऽपि तत्करणत्वं न पराकर्तुं शक्यमिति वाच्यम्। शाब्दसाक्षात्कारजननेऽपि तदैकाग्त्यस्यापेक्षितत्वेन हेतुत्वमात्रेण तृतीयोपपत्तेः। "मनसा ह्येष पश्यति मनसा शृणोति" इत्यादौ तथा दर्शनात्। गीतविवरणे भाष्यकारीयमनःकरणत्ववचनस्य मतान्तराभिप्रायेण प्रवृत्तेरित्याहुः ।। 9 ।।
(10)ननु तथाऽपि शब्दस्य परोक्षज्ञानजनकत्वस्वभावस्यापरोक्षज्ञानजनकत्वं न सङ्गच्छते इति चेत्।

अत्र केचित्-स्वतोऽसमर्थोऽपि शब्दः शास्त्रश्रवणमननपूर्वकप्रत्यपाभ्यासजनितसंस्कारप्रचयलब्धब्रह्मैकाग्त्यचित्तदर्पणानुगृहीतोऽपरोक्षज्ञानमुत्पादयति शास्त्रीयसंस्कारसंस्कृताग्न्यधिकरणक इव होमोऽपूर्वमिति कल्प्यते।। "तरति शोकमात्मविद्" इति शास्त्रप्रामाण्याद्। अपरोक्षस्य कर्तृत्वाध्यासस्यापरोक्षाधिष्ठानज्ञानं विना निवृत्त्ययोगाद् औपनिषदे ब्रह्मणि मानान्तराप्रवृत्तेः शब्दादप्यपरोक्षज्ञानानुत्पत्तौ अनिर्मोक्षप्रसङ्गादित्याहुः।।

अन्ये तु भावनाप्रचयसाहित्ये सति बहिरसमर्थस्यापि मनसो नष्टवनितासाक्षात्कारजनकत्वदर्शनाद् निदिध्यासनसाहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्यटानुगेधेन समर्थयन्ते।।

अपरे तु अपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्षत्वं नाम। अन्यानिरुक्तेः अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वम्, येनान्योन्याश्रयो भवेत्। किं तु तत्तत्पुरुषीयचैतन्याभेदः। अन्तःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्त्वाद्। बाह्मचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृत्तिकृततत्तत्पुरुषीयचैतन्याभेदाभिव्यक्त्या तदभेदसत्त्वाच्च न क्काप्यव्याप्तिः। न चान्तःकरणतद्धर्माणां ज्ञानदीनामिव धर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वाविशेषाद् आपरोक्ष्यपत्तिः। तेषामनुद्भूतत्वाद् उद्भूतस्यैव जडस्य चैतन्याभेद आपरोक्ष्यमित्यभ्युपगमात्। एवं च सर्वदा सर्वपुरुषचैतन्याभिन्नत्वाद् "यत्साक्षादपरोक्षाद् ब्रह्म" इति श्रुत्या स्वत एवापरोक्षं ब्रह्मेति अपरोक्षार्थविषयत्वात् शाब्दस्यापि ब्रह्मज्ञानस्यापरोक्षत्ववाचोयुक्तिर्युक्तेत्याहुः।।

अद्वैतविद्याचार्यास्तु नापरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यम्। स्वरूपसुखापरोक्षरूपस्वरूपज्ञानाव्यापनात् स्वविषयत्वलक्षणस्वप्रकाशत्वनिषेधात्। किं तु यथा तत्तदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोऽर्थापरोक्ष्यम्, एवं तत्तव्द्यवहारानुकूलचैतन्यस्य तत्तदर्थाभेदो ज्ञानापरोक्ष्यम्। तथा च चैतन्यधर्म एवापरोक्ष्यम्, न त्वनुमितित्वादिवद् अन्तःकरणवृत्तिधर्मः। अत एव सुखादिप्रकाशरूपे साक्षिणि, स्वरूपसुखप्रकाशरूपे चैतन्ये चापरोक्ष्यम्। न च घटाद्यैन्द्रियकवृत्तौ तदनुभवविरोधः। अनुभवस्य वृत्त्यवच्छिन्नचैतन्यगतापरोक्ष्यविषयत्वोपपत्तेः।
ननूक्तं ज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचरशाब्दवृत्तिशाब्दविषययोरतिप्रसक्तम्। तत्र दैवात् तदाचित् वृत्तिविषयसंसर्गे सति वृत्त्यवच्छिन्नचैतन्यस्य विषयावच्छिन्नचैतन्यस्य चाभेदाभिव्यक्तेरवर्जनीयत्वादिति चेद् न। परोक्षवृत्तेर्विषयावच्छिन्नचैतन्यगताज्ञाननिवर्तनाक्षमतया तत्राज्ञानेनावृतस्य विषयचैतन्यस्यानावृतेन वृत्त्यवच्छिन्नसाक्षिचैतन्येनाभेदाभिव्यक्तेरभावादापरोक्ष्याप्रसक्तेः। अत एव जीवस्य संसारदशायां वस्तुतस्सत्यपि ब्रह्माभेदे न तदापरोक्ष्यम्। अज्ञानावरणकृतभेदसत्त्वात्। न चैवं ब्रह्मणो जीवापरोक्ष्यासम्भवादसर्वज्ञत्वापत्तिः। अज्ञानस्य ईश्वरं प्रत्यनावारकतया तं प्रति जीवभेदानापादनात्। यद् अज्ञानं यं प्रत्यावरकम्, तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात्। अत एव चैत्रज्ञानेन तस्य घटाज्ञाने निवृत्ते अनिवृत्तं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुभवानुपपत्तिरपि। नन्वेवं वृत्तिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्ष्यस्य स्वविषयचैतन्यगताज्ञाननिवृत्तिप्रयोज्यत्वे तस्याज्ञाननिवृत्तिप्रयोजकत्वायोगाद् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेद्, न। "यद् ज्ञानमुत्पद्यमानं स्वकारणमहिम्ना विषयसंसृष्टमेवोत्पद्यते, तदेवाज्ञाननिवर्तकम्" इति विशेषणाद्, ऐन्द्रियकज्ञानानां तथात्वात्। एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूतस्वविषयब्रह्मसंसृष्टमेव उत्पद्यत इति तस्याज्ञाननिवर्तकत्वमज्ञाननिवृत्तौ तन्मूलभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतराम्।

नन्वेवमध्ययनगृहीतवेदान्तजन्येनापि तज्ज्ञानेन मूलाज्ञाननिवृत्त्या आपरोक्ष्यं किं न स्यात्। न च तत्सत्तानिश्चयरूपत्वाभावाद् नाज्ञाननिवर्तकमिति वाच्यम्। तथाऽपि कृतश्रवणस्य निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्त्या मननादिवैयर्थ्यापत्तिरिति चेद्, न। सत्यपि श्रवणाद् निर्विचिकित्सज्ञाने चित्तविक्षेपदोषेण प्रतिबन्धाद् अज्ञानानिवृत्त्या तन्निराकरणे मनननिदिध्यासननियमविध्यर्थानुष्ठानस्यार्थवत्त्वाद् भवान्तरीय मननाद्यनुष्ठाननिरस्तचित्तविक्षेपस्य उपदेशमात्राद् ब्रह्मापरोक्ष्यस्य इष्यमाणत्वाच्चेत्याहुः ।। 10 ।।

(11)अथैवमपि कृतनिदिध्यासनस्य वेदान्तजन्यब्रह्मज्ञानेनेव घटादिज्ञानेनापि ब्रह्माज्ञाननिवृत्तिः किं न स्यात्। न च तस्य ब्रह्माविषयत्वाद् न ततो ब्रह्माज्ञाननिवृत्तिरिति वाच्यम्। `घटस्सन्' इत्यादिबुद्धिवृत्तेः सद्रूपब्रह्मविषयत्वोपगमात्। न च तत्र घटाद्याकारवृत्त्या तदज्ञाननिवृत्तौ स्वतः स्फुरणादेव तदवच्छिन्नं चैतन्यं सदिति प्रकाशते, न तस्य घटाद्याकारवृत्तिविषयत्वमिति वाच्यम्। तदभावे घटविषयं ज्ञानं तदवच्छिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तदज्ञाननिवृत्तेरयोगाद् जडे आवरणकृत्याभावेन घटस्याज्ञानाविषयत्वात्। न च घटादिवृत्तेस्तदवच्छिन्नचैतन्यविषयत्वेऽपि अखडानन्दाकारत्वाभावाद् न ततो मूलाज्ञाननिवृत्तिरिति वाच्यम्। वेदान्तजन्यसाक्षरात्कारेऽपि तदभावात्। न हि तत्राखण्डत्वमानन्दत्वं वा कश्चिदस्ति प्रकारः। वेदान्तानां संसर्गगोचरप्रमाजनकत्वलक्षणाखण्डार्थत्वहानाप्त्तेः। न च वेदान्तजन्यज्ञानादेव तन्निवृत्तिनियम इति वाच्यम्। क्लृप्ताज्ञाननिवर्तकत्वप्रयोजकस्य रूपस्य ज्ञानान्तरेऽपि सद्भावे तथा नियन्तुमशक्यत्वात्। नच घटाद्याकारवृत्तिविषयस्यावच्छिन्नचैतन्यस्यापि कल्पितत्वेन यन्मूलाज्ञानविषयभूतं सत्यमनवच्छिन्नं चैतन्यम्, तद्विषयत्वाभावाद् घटादिवृत्तीनां निवर्त्यत्वाभिमताज्ञानसमानविषयत्वलक्षणं क्लृप्तं प्रयोजकमेव नास्तीति वाच्यम्। तत्रावच्छेदकांशस्य कल्पितत्वेऽप्यवच्छेद्यांशस्याकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् तस्य कल्पितत्वे घटवज्जडतया अवस्थाऽज्ञानं प्रत्यपि विषयत्वायोगेनावस्थाऽज्ञानस्य मूलाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तकघटादिज्ञानस्यापि तद्विशषयत्वावश्यम्भावेन तत्पक्षेऽपि ततो मूलाज्ञाननिवृत्तिप्रसङ्गस्यापरिहारात्।

अत्राहुराचार्याः-न चैतन्यं चक्षुरादिजन्यवृत्तिविषयः।
"न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्"।।
इत्यादिश्रुत्या तस्य परमाण्वादिवत् चक्षुराद्ययोग्यत्वोपदेशाद्, `औपनिषदम्' इतिविशेषणाच्च। न च -
`सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते'।
इत्यादिवार्तिकविरेधः। तस्य घटाद्याकारवृत्त्युदये सति आवरणाभिभवात् स्वप्रभं सद्रूपं ब्रह्म `घटस्सन्'इति घटवद् व्यवहार्यं भवतीत्यौपचारिकघटादिवृत्तिवेद्यत्वपरत्वात्। आवरणाभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेव उपपन्नम्। घटादेरप्यज्ञानविषयत्वाद् `घटं न जानामि' `घटज्ञानेन घटाज्ञानेन घटाज्ञानं नष्टम्'इति अवस्थाऽज्ञानस्य घटादिविषयत्वानुभवात्। न च तत्रावरणकृत्याभावादज्ञानाङ्गीकारो न युक्तः, तद्भासकस्य यतदवच्छिन्नचैतन्यस्यावरणादेव तदप्रकाशोपपत्तेरिति वाच्यम्। उक्तभङ्ग्या जडस्य साक्षादज्ञानविषयत्वप्रतिक्षेपेऽपि जडावच्छिन्नचैतन्यप्रकाशस्याज्ञानेनावरणम्, ततो नित्यचैतन्यप्रकाशसंसर्गेऽपि जडस्प `नास्ति', `न प्रकाशते' इत्यादिव्यवहारयोकग्यत्वमिति परम्परया अज्ञानविषयत्वमिति परम्परया अज्ञानविषयत्वाभ्युपगमात् साक्षात्परम्परया वा यदज्ञानावरणीयम्, तद्विषयत्वस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्वप्रयोजकशरीरे निवेशात्। न चैवं घटादीनामुक्तरीत्या मूलाज्ञानविषयत्वमपीति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्त्यापातः। फलबलात्तदज्ञानकार्यातिरिक्ततद्विषयविषयकत्वस्यैव तन्निवर्तकत्वे तन्त्रत्वात्।।

अथवा मूलाज्ञानस्यैव जडं न विषयः। अवस्थाऽज्ञानानां त्ववच्छिन्नचैतन्याश्रितानां तत्त्ज्जडमेव विषयः। अन्यथा चाक्षुषवृत्त्या चन्दनखण्डचैतन्याभिव्यक्तौ तत्संसर्गिणौ गन्धस्याप्यापरोक्ष्यापत्तेः। तदनाभिव्यक्तौ चन्दनतद्रूपयोरप्यप्रकाशापत्तेः। न च चाक्षुषवृत्त्या चन्दनतद्रूपावच्छिन्नचैतन्ययोरभिव्यक्त्या तयोः प्रकाशः, गन्धाकारवृत्त्यभावेन गन्धावच्छिन्नचैतन्यस्यानभिव्यक्त्या तस्याप्रकाशश्चेति वाच्यम्। चैतन्यस्य द्विगुणीकृत्य वृत्त्ययोगेन एकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक् पृथग् गगनावच्छेदकत्वस्येव चैतन्यावच्छेदकत्वस्याप्यसम्भवात्। तेषां स्वाश्रयद्रव्यावच्छिन्नचैतन्येनैव शुक्तीदमंशावच्छिन्नचैतन्येन शुक्तिरजतवत प्रकाश्यतया तस्याभिव्यक्तौ गन्धस्यापि प्रकाशस्य, अनभिव्यक्तौ रजतादेरप्यप्रकाशस्य चापत्तेः। न च गन्धांकारवृकत्त्युपरक्ते एव चैतन्ये गन्धः प्रकाशते इति नियमः, प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेनासत्यामपि तदाकारवृत्तावनावृतप्रकाशसंसर्गे अप्रकाशमानत्वकल्पनस्य विरुद्धत्वात्। अभिव्यक्तस्य गन्धोपादानचैतन्यस्य गन्धासंसर्गोक्त्यसम्भवात्। तस्माद् यथा चैत्रस्य घटवृत्तौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृत्तिरिति तस्यैव विषयप्रकाशो, नान्यस्य, तथा तत्तद्विषयाकारवृत्त्या तत्तदावरकाज्ञानस्यैव निवृत्तेर्न विषयान्तरस्यापरोक्ष्यम्, `अनावृतार्थस्यैव संविदभेदाद आपरोक्ष्यम्' इत्यभ्युपगमादिति। प्रमातृभेदेनेव विषयभेदेनाप्यकेत्र चैतन्ये अवस्थाऽज्ञानभेदस्य वक्तव्यतया अवस्थाऽज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृत्तीनां नावस्थाऽज्ञाननिवर्तकत्वे का चिदनुपपत्तिः। न वा मूलाज्ञाननिवर्तकत्वापत्तिः।

न चैवमपि जीवविषयाया अहमाकारवृत्तेर्मूलाज्ञाननिवर्तकत्वापत्तिः। तस्याः स्वयंप्रकाशमानचित्संवलिताचिदंशमात्र विषयत्वात्। `सोऽहम्' इति प्रत्यभिज्ञाया अपि स्वयम्प्रकाशचैतन्ये अन्तःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावादिति।।

केचित्तु घटादिवृत्तीनां तत्तदवच्छिन्नचैतन्यविषयत्वमभ्युपगम्य-
`सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात्।
श्रोतव्येतिवचः प्राह वेदान्तावरुरुत्सया'।। इति वातेर्कीक्तेः श्रोतव्यवाक्यार्थवेदान्तनियमविध्यनुसारेण वेदान्तजन्यमेव नियमादृष्टसहितं ब्रह्मज्ञानप्रतिबद्धं ब्रह्माज्ञाननिवर्तकमिति घटादिज्ञानान्न तन्निवृत्तिप्रसङ्ग इत्याहुः।।

अन्ये तु तत्त्वमस्यादिवाक्यजन्यं जीवब्रह्माभेदगोचरमेव ज्ञानं णूलाज्ञाननिवर्तकम्, मूलाज्ञानस्य तदभेदगोचरत्वादिति न चैतन्यस्वरूपमात्रगोचराद् घटादिज्ञानात्तन्निवृत्तिप्रसङ्गः। न चाभेदस्य तत्त्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापत्तेः `चैतन्यमात्रमभेदः' इति तद्गोचरं घटादिज्ञानमप्यभेदगोचरमिति वाच्यम्। न ह्यभेदज्ञानमिति विषयतो विशेषं ब्रूमः, किं तु तत्त्वंपदवाच्पार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसंबन्धविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वम्। यथा हि विशेषणविशेष्यतत्सम्बन्धगाचरत्वाविशेषेऽपि विशिष्टज्ञानस्य विशेषणज्ञ्ानादिकारणविशेषाधीनस्वरूपसम्बन्धविशेषेण तत्त्रितयगोचरत्वभेव समूहालम्बनव्यावृत्तं विशिष्टज्ञानत्वम्, यथा वा `स्थाणुत्वपुरुषत्ववान्' इति आहार्यवृत्तिव्यावृत्तं संशयत्वं विषयतो त्रिशेषानिरूपणात्, तथा घटादावपि `सोऽयं घटः' इत्यादिज्ञानस्य स्वरूपसम्बन्धविशेषेण घटादिविषयत्वमेव केवलघटशब्दादिजन्यज्ञानव्यावृत्तं तदभेदज्ञानत्वम्। अतिरिक्ताभेदानिरूपणात् अभावसादृश्यादीनामधिकरणप्रतियोग्यादिभिः स्वरूपसम्बन्धयुक्तानामधिकरणेनाधाराधेयभावरूपः स्वरूपसम्बन्धविशेषः, प्रतियोगिना प्रतियोग्यनुयोगिभावरूप इत्यादिप्रकारेण स्वरूपसम्बन्धे अवान्तरविशेषकल्पनावद् वृत्तीनां विषयेऽपि संयोगदादात्म्ययोरतिप्रसक्त्या विषयैर्विषयविषयिभावरूपस्वरूपसम्बन्धवतीनां विषयविशेषनिरूपणासम्भवे क्लृप्ते एव स्वरूपसम्बन्धे अवान्तरविशेषकल्पनेनाभेदज्ञानत्वादिपरस्परवैलक्षण्यनिर्वाहाच्च। एवं ब्रह्मज्ञानस्याभेदाख्यकिञ्चित्संसर्गगोचरत्वानभ्युपगमाद् न वेदान्तानामखण्डार्थत्वहानिरपीत्याहुः।।

ननु घटादिज्ञानवद् ब्रह्माज्ञानस्यापि न मूलाज्ञानानिवर्तकत्वं युक्तम्। निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तन्त्रत्वात्, कार्यस्य चोपादनेन सह तादृशविरोधाभावादिति चेन्न। कार्यकारणयोरन्यत्र तादृशविरोधादर्शनेऽपि एकविषयज्ञानाज्ञानप्रयुक्तस्य तादृग्विरोधस्यात्र सत्त्वात् कार्यकारणयोरप्यग्निसंयोगपटयोस्तादृशविरोधस्य दृष्टेश्च। न चाग्निसंयोगादवयवविभागप्रक्रियया असमवयिकारणसंयोगनाशादेव पटनाशः, नाग्निसंयोगादिति वाच्यम्। दग्धपटेऽपि पूर्वसंस्थानानुवृत्तिदर्शनेन मुद्गरचूर्णीकृतघटवद् अवयवविभागादर्शनात् तत्रावयविभागादिकल्पनाया अप्रामाणिकत्वात्। नापि तत्र तन्तूनामपि दाहेन समवायिकारणनाशात् पटनाश इति युक्तम्। अंशुतन्त्वादिभिस्सह युगपदेव पटस्य दाहदर्शनेन क्रमकल्पनायोगात्। यतोऽधस्तान्नावयवनाशः, तत्रावयवे अग्निसंयोगादेव नाशस्य वाच्यत्वात्।।11।।
(12)नन्वस्त्वेतदेवम्, तथाऽपि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येद्, नाशकान्तरस्याभावादिति चेद्,

यथा कतकरजः सलिलेन संयुज्य पूर्वयुक्तरजोऽन्तरविश्लेषं जनयत् स्वविश्लेषमपि जनयति, तथाऽ।डत्मन्यध्यस्यमानं ब्रह्मज्ञानं पूर्वाध्यस्तसर्वप्रपञ्चं निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित्।।
अन्ये तु अन्यन्निवर्त्य स्वयमपि निवृत्तौ दग्धलोहपीताम्बुन्यायमुदाहरन्ति।।
अपरे त्वत्र दग्धतृणकूटदहनोदाहरणमाहुः। न च ध्वंसस्य प्रतियोग्यतिरिक्तजन्यत्वनियमः। अप्रयोजकत्वात्। निरिन्धनदहनादिध्वंसे व्यभिचाराच्च। न च ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽतिप्रसङ्गात् कारणान्तरमवश्यं वाच्यम्, निरिन्धनदहनादिध्वंसेऽपि कालादृष्टेश्वरेच्छादिकारणान्तरमस्तीति वाच्यम्। अतिप्रसङ्गापरिज्ञानात्। न च घटादिध्वंसस्यापि कारणान्तरनिरपेक्षत्वं स्यादित्यतिप्रसङ्गः. ध्वंसमात्रे कारणान्तरनैरपेक्ष्यानभिधानात्। न च घटध्वंसदृष्टान्तेन ब्रह्मज्ञानध्वंसस्य कारणान्तरापेक्षासाधनम्। तद्दृष्टान्तेन मुद्गरपतनापेक्षाया अपि साधनापत्तेः। नापि ज्ञानध्वंसत्वसाम्याद् घटज्ञानादिध्वंसस्यापि कारणान्तरनैरपेक्ष्यं स्यादित्यतिप्रसङ्गः। सेन्धनानलध्वंसस्य जलसेकादिदृष्टकारणापेक्षत्वेऽपि निरिन्धनानलध्वंसस्य तदनपेक्षत्ववद्, जाग्रज्ज्ञानध्वंसस्य विरेधिविशेषगुणान्तरापेक्षत्वेऽपि सुषुप्तिपूर्वज्ञानध्वंसस्य तदनपेक्षत्वेऽपि तन्निवर्तकज्ञानध्वंसस्य तदनपेक्षत्वोपपत्तेः। नापि कारणान्तरनैरपेक्ष्ये स्वोत्पत्त्युत्तरक्षणे तएव ब्रह्माध्यस्तनिखिलप्रपञ्चदाहेन तदन्तर्गतस्य तस्यापि तदेव दाहाभ्युपगमात्। निरिन्धनदहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालदृष्टेश्वरेच्छादिकारणान्तरजन्यत्वेऽप्यविरोधाच्च। सर्वप्रपञ्चनिवृत्त्यनन्तरमेकशेषस्य ब्रह्मज्ञानस्य निवृत्तिरित्यनभ्युपगमेन युगपत् सर्वदाहे पूर्वक्षणे चिदविद्यासम्बन्धरूपस्य द्रव्यान्तररूपस्य वा कालस्य, ईश्वरप्रसादरूपस्यान्तःकरणगुणविशेषस्य वाऽदृष्टस्य, अन्येषां च सत्त्वात्। न च तत्रज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्यामिथ्यात्वप्रसङ्गः, ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यभ्युपगमादिति वाच्यम्। ज्ञानाघटितसामग्त्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात्। "नान्यः पन्थाः" इतिश्रुतेरपि तत्रैव तात्पर्यात्। अतो युक्त एव दग्धदाह्यदहनादिन्यायः।।

केचित्तु वृत्तिरूपं ब्रह्मज्ञानं नाज्ञानतन्मूलप्रपञ्चनिबर्हकम्। अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृत्तिनिवर्त्यत्वायोगात्। किं तु तदारूढचैतन्यप्रकाशस्तन्निवर्तकः। स्वरूपेण तस्याज्ञानादिसाक्षितया तदनिवर्तकत्वेऽप्यखण्डाकारवृत्त्युपारूढस्य तस्य तन्निवर्तकत्वोपपत्तेः।
`तृणदेर्भासिकाऽप्येषा सूर्यदीप्तिस्तृणं दहेत्।
सूर्यकान्तमुपारुह्य तन्न्यायं तत्र योजयेत्।।'-

इत्यभियुक्तोक्तेः। एवं च यथा किञ्चित् काष्ठमुपारुह्य ग्रामनगरादिकं दहन् वह्निर्दहत्येव तदपि काष्ठम्, तथा चरमवृत्तिमुपारुह्य निखिलप्रपञ्चमुन्मूलयन्नखण्चैतन्यप्रकाशस्तन्निवर्तनेऽपि प्रकल्पते इति न तन्नाशे का चिदनुपपत्तिरित्याहुः।।

अन्ये तु ब्रह्मज्ञानमज्ञानस्यैव निवर्तकम्। ज्ञानाज्ञानयोरेव साक्षाद्विरोधात्। प्रपञ्चस्य तूपादाननाशान्नाश इति प्रपञ्चान्तर्गतस्य ब्रह्मज्ञानस्यापि तत एव नाशः। न च प्रपञ्चस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपत्तिः। प्रपञ्चनिवृत्तेस्साक्षाद् ज्ञानजन्यत्वाभावेऽपि ज्ञानजन्याज्ञाननाशजन्यत्वात्। `साक्षरात् परम्पराया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वम्' इत्यङ्गीकारात्। एवं च तत्त्वसाक्षात्कारोदयेऽपि जीवन्मुक्तस्य देहादिप्रतिभास उपपद्यते। प्रारब्धकर्मणा प्रतिबन्धेन तत्त्वसाक्षात्कारोदयेऽपि प्रारब्धकर्मतत्कार्यदेहादिप्रतिभासानुवृत्त्योपादानाविद्यालेशानुवृत्त्युपपत्तेः। अज्ञानवत् प्रपञ्चस्यापि साक्षाद् ब्रह्मसाक्षात्कारनिवर्त्यत्वे नायमुपपद्यते। विरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमेवावस्थानासम्भवेनाविद्यालेशनिवृत्तिप्रतिबन्धकत्वायोगादित्याहुः।।