सामग्री पर जाएँ

सिद्धान्तलेशसङ्ग्रहः /चतुर्थः परिच्छेदः

विकिस्रोतः तः

चतुर्थः परिच्छेदः।

अथ कोऽयमविद्यालेशः, यदनुवृत्त्या जीवन्मुक्तिः?।
आवरणविक्षेपशक्तिमत्या मूलाविद्यायाः प्रारब्धकर्मवर्तमानदेहाद्यनुवृत्तिप्रयोजको विक्षेपशक्त्यंश इति केचित्।।
क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पो ऽविद्यासंस्कार इत्यन्ये।।
दग्धपटन्यायेनानुवृत्ता मूलाविद्यैवेत्यपरे।।
सर्वज्ञात्मगुरवस्तु-विरोधिसाक्षात्कारोदये लेशतोऽप्यविद्याऽनुवृत्त्यसम्भवाज् जीवन्मुक्तिशास्त्रं श्रवणादिविध्यर्थवादमात्रम्। शास्त्रस्य जीवन्मुक्तिप्रतिपादने प्रयोजनाभावात्। अतः कृतनिदिध्यासनस्य ब्रह्मसाक्षात्कारोदयमात्रेण सविलासवासनाऽविद्यानिवृत्तिरित्यपि कञ्चित् पक्षमाहुः।।1।।

(2) अथ केचमविद्यानिवृत्तिः?।
आत्मैवेति ब्रह्मरिद्धिकाराः।
न च तस्य नित्यसिद्धत्वाद् ज्ञानवैयर्थ्यम्। असति ज्ञानेऽनर्थहेत्वविद्याया विद्यमानतया अनर्थमपि तिष्ठेदिति तदन्वेषणाद्। `यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वम्, यद्व्यतिरेके चाभावः, तत् तत्साध्यम्'इति लक्षणानुरोधेनात्मरूपाया अप्यविद्यानिवृत्तेः ज्ञानसाध्यत्वाच्च। ज्ञाने सत्यग्रिमक्षणे आत्मरूपाविद्यानिवृत्तिसत्त्वम्, तद्व्यतिरेके तत्प्रतियोग्यविद्यारूपस्तदभाव इति उक्तलक्षणसत्त्वात्।।

आत्मान्यैवाविद्यानिवृत्तिः। सा च न सती, अद्वैतहानेः। नाप्यसती, ज्ञानसाध्यत्वायोगात्। नापि सदसद्रूपा, विरोधात्। नाप्यनिर्वाच्या, अनिर्वाच्यस्य सादेरज्ञानेपादनकत्वनियमने मुक्तावपि तदुपादानाज्ञानानुवृत्त्यापत्तेः, ज्ञाननिवर्त्यत्वापत्तेश्च। किं तु उक्तप्रकारचतुष्टयोत्तीर्णा पञ्चमप्रकारेत्यानन्दबोधाचार्याः।।

अविद्यावत्तन्निवृत्तिरप्यनिर्वाच्यैव। न च तदनुवृत्तौ तदुपादानाज्ञानस्याप्यनुवृत्तिनियमाद् अनिर्मोक्षप्रसङ्गः। तदनुवृत्तौ प्रमाणाभावात्। उत्पत्तेः प्रथमसमयमात्रसंसर्गिभावविकारत्ववद् निवृत्तेरपि चरमसमयमात्रसंसर्गिभावविकारत्वोपपत्तेः। अत एव यथा पूर्वं पश्चाच्च `निवर्तिष्यते, निवृत्तः' इति भाविभूतभावेन व्यवह्रियमाणाया निवृत्तेश्चरमसमयमात्रे `निवर्तते, नश्यति, ध्वंसते' इति वर्तमानव्यपदेशः। निवृत्तेरनुवृत्तौ तु चिरशकलितऽपि घटे `इदानीं निवर्तते' इत्यादिव्यवहारः स्यात्। आख्यातानां प्रकृत्यर्थगतवर्तमानत्वाद्यर्थाभिधायित्वात्।
ननु च तेषां स्वाभिहितसङ्ख्याश्रयप्रकृत्यर्थकर्तृकर्मगतवर्तमानत्वाद्यर्थाभिधायकत्वम्, स्वाभिहितप्रकृत्यर्थानुकूलव्यापारगतवर्तमानत्वाद्यर्थाभिधायकत्वं वाऽस्तु। तथा च निवृत्तिकियाकर्तुश्चिरचूर्णितस्य घटस्य, तद्गतनिवृत्त्यनुकूलव्यापारस्य चावर्तमानत्वाद् नोक्तातिप्रसङ्ग इति चेद्, न। आद्ये उत्पन्नेऽपि घटे `उत्पद्यते' इति व्यवहारापत्तेः। उतपत्तिक्रियाकर्तुर्घटस्य वर्तमानत्वात्। द्वितीये आमवातजडीकृतकलेवरे उत्थानानुकूलयत्नवति उत्थानानुदयेऽपि `उत्तिष्ठति'इति व्यवहारापत्तेः। आख्यातार्थस्य प्रकृत्यर्थभूतोत्थानानुकूलस्य यत्नरूपव्यापारस्य वर्तमानत्वात्। तस्मात् प्रकृत्यर्थगतमेव वर्तमानत्वादि आख्यातार्थ इति ध्वंसस्य स्थायित्वे चिरनिवृत्तेऽपि घटे `निवर्तते' इति व्यवहारो दुर्वारः।
यदि च मुद्गरादिशकलिते घटे ध्वंसो नाम कश्चिदभावस्तत्प्रतियोगिकः स्थायी भूतलाद्याश्रित उपेयते, तदा कपालमालापसरणं तदनपसरणेऽपि मणिकशरावादिकपालव्यावृत्तकपालसंस्थानविशेषादर्शने न किमिति स प्रत्यक्षो न स्यात्. कपालसंस्थानविशेषादिनाऽनुमेयो घटादिध्वंसो न प्रत्यक्ष इति चेत्, तर्हि तेन मुद्गरपातकालीनस्य उतपत्तिवद् भावविकाररूपतया प्रतियोग्याश्रितध्वंसस्यानुमानं सम्भवतीति न ततः पश्चादनुवर्तमानप्रतियोग्यधिकरणाश्रिताभावरूपध्वंससिद्धिः। `इह भूतले घटध्वंसः' इति भूतले ध्वंसाधिकरणत्वव्यवहारस्य `इह भूतले घट उतपन्नः' इतिवत् भावविकारयुक्तप्रतियोग्यधिकरणत्वविषयत्वोपपत्तेः। घटध्वंसानन्तरं भूतले घटाभावव्यवहारस्य घटापसरणानन्तरं तदभावव्यवहारवत् समयविशेषसंसर्ग्यत्यन्ताभावालम्बनतोपपत्त्या ध्वंसविषयत्वस्याकल्पनीयत्वाच्च। एवं सति घटोत्पत्तेः पूर्वं तदभरावव्यवहारोऽप्यत्यन्ताभावेन चरितार्थ इति प्रागभावोऽपि न स्यादिति चेत्, सोऽपि मा भूत्। नन्वेवं `प्रागभावाधारकालः पूर्वकालः, ध्वंसाधार उत्तरकालः' इति निर्वचनासम्भवात् काले पूर्वोत्तरादिव्यवहारः किमालम्बनस्स्यात्। घटादिषु प्रतियोगित्वादिव्यवहारवदखण्‍डकिञ्चिद्धर्मगोचरोऽस्तु। अभावरूपस्थायिध्वंसाभ्युपगमेऽपि तेषु ध्वंसत्वादेरखण्डस्य वक्तव्यत्वात्। न च जन्याभावत्वरूपं सखण्डमेव ध्वंसत्वम्। ध्वंसप्रागभावरूपस्य घटस्य तद्‌ध्वंसत्वापत्तेः।
न च सप्तमपदार्थरूपाभावत्वं विवक्षितम्। घटस्य प्रागभावं प्रत्यपि ध्वंसत्वाभावप्रसङ्गेन घटकाले प्रागभावोत्तरकालत्वव्यवहारस्य निरालम्बनत्वापत्तेः। न च प्रतियोग्यतिरिक्तः प्रागभावध्वंसः। तथा सति तुल्यन्यायतया ध्वंसप्रागभावोऽपि प्रतियोग्यतिरिक्तः स्यादिति प्रागभावध्वंसस्यापि प्रागभावोऽन्यः, तस्यापि कश्चिद्, ध्वंसः, तस्यापि प्रागभावोऽन्य इत्यप्रामाणिकानवधिकध्वंसप्रागभावकल्पनापत्तेः। न चान्यद् ध्वसत्वमात्माश्रयादिशून्यं निर्वक्तुं शक्यम्। एवं प्रागभावत्वमपीत्यन्यत्र विस्तरः।
तस्मान्न पूर्वं प्रागभावः, न च पश्चात् ध्वंसाभावः। मध्ये परं कियत्कालमनिर्वचनीयोत्पत्तिस्थितिध्वंसरूपभावविकारवान् घटाद्यध्यासः. एवं चाविद्यानिवृत्तिरपि ब्रह्मसाक्षात्कारोदयानन्तरक्षणवर्ती कश्चिद्भावविकार इति तस्या मुक्तावनुवृत्त्यभावान्न तदनिर्वाच्यत्वे कश्चिद्दोष इत्यद्वैतविद्याचार्याः ।। 2 ।।

(3) नन्वेवमविद्यानिवृत्तेः क्षणिकत्वं मोक्षः स्थिरपुरुषार्थो न स्यादिति चेद्, भ्रान्तोऽसि। न ह्यविद्यानिवृत्तिः स्वयमेव पुरुषार्थ इति तस्या ज्ञानसाध्यत्वमुपेयते। तस्याः सुखदुःखाभावेतरत्वात्। किं त्वखण्डानन्दावरकसंसारदुःखहेत्वविद्योच्छेदे अखण्डानन्दस्फुरणम्, संसारदुःखोच्छेदश्च भवतीति तदुपयोगितया तस्यास्तत्त्वज्ञानसाध्यत्वमुपेयते।।

चित्सुखाचार्यास्तु-दुःखाभावोऽपि मुक्तौ न स्वतःपुरुषार्थः। सर्वत्र दुःखाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभरावतया सुखशेषत्वात् सुखस्यैव स्वतःपुरुषार्थत्वम्। अन्येषां सर्वेषामपि तच्छेषत्वमिति सुखसाधनताज्ञानस्यैव प्रवर्तकत्वे सम्भवति दुःखाभावस्यापि स्वतःपरुषार्थत्वं परिकल्प्य तत्साधनप्रर्वतकसङ्ग्रहाय इष्टसाधनताज्ञानस्य इच्छाविषयत्वप्रवेशेन गुरुघटितस्य प्रवर्तकत्वकल्पनायोगात्।
न च दुःखाभाव एव स्वतःपुरुषार्थः। तच्छेषतया सुखं काम्यमिति वैपरीत्यापत्तिः। बहुकालदुःखसाध्येऽपि क्षणिकसुखजनके निन्दितग्राम्यधर्मादौ प्रवृत्तिदर्शनात्। तत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्थत्वे तदर्थं बहुकालदुःखानुभवायोगात्। न च तत्र क्षणिकसुखस्य पुरुषार्थत्वेऽपि दोषतौल्यम्। भावरूपे सुखे उत्कर्षपकर्षयोरनुभवसिद्धत्वेन क्षणमप्यत्युत्कृष्टसुखार्थं बहुकालदुःखानुभवोपपत्तेः। दुःखाभावे चोत्कर्षापकर्षासम्भवात्। तस्मान्मुक्तौ संसारदुःखनिवृत्तिरप्यविद्यानिवृत्तिवत् सुखशेष इत्यनवच्छिन्नानन्दप्राप्तिरेव स्वतःपुरुषार्थ इत्याहुः ।। 3 ।।

(4) नन्वनवच्छिन्नानन्दः प्रत्यग्रूपतया नित्यमेव प्राप्तः। सत्यम्। नित्यप्राप्तोऽपि अनवच्छिन्नानन्दस्तमावृत्य नीत इत्यकृतार्थताऽभूत्। निवर्तितायां च तस्यां निरस्तनिखिलानर्थविक्षेपे स्वकण्ठगतविस्मृतकनकाभरणवत् प्राप्यते इवेत्यौपचारिकी तस्य प्राप्तव्यतेति(1){(1)प्राप्तिर्वक्तव्येति पाठः।} केचित्।।

अन्ये तु-संसारदशायां `नास्ति न प्रकाशते' इति व्यवहारयोग्यत्वरूपाज्ञानावरणप्रयुक्तस्य `मम निरतिशयानन्दो नास्ति' इति प्रत्ययस्य सर्वासिद्धत्वात् तदालम्बनभूतः कश्चिद् ब्रह्मानन्दस्याभावः काल्पनिको यावदविद्यमनुवर्तते। अविद्यानिवृत्तौ च तन्मूलत्वान्निवर्तते इति `यस्मिन् सत्यग्रिमक्षणे' इत्यादिलक्षणानुरोधेन मुख्यमेव तस्य प्राप्यत्वमित्याहुः।।

अपरे तु-अवेद्यस्यापुरुषार्थत्वात्संसारदशायां सदप्यनवच्छिन्नसुखमापरोक्ष्याभावान्न पुरुषार्थः। न च स्वरूपज्ञानेनापरोक्ष्यं तदाऽप्यस्ति, तस्य सर्वदा स्वरूपसुखाभिन्नत्वात्। वृत्तिज्ञानेनापरोक्ष्यं तु न मुक्तावपीति वाच्यम्। न हि स्वव्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम्। घटावच्छिन्नचैतन्याभिव्यक्तौ तदभिन्नस्य घटगन्धस्यापि आपरोक्ष्यापत्तेः। किं त्वनावृतार्थस्य तदभेदः. तथा चानावृतत्वांशस्तत्त्वसाक्षात्कारे सत्येवेति निरतिशयसुखापरोक्ष्यस्य पुरुषार्थस्य विद्याप्राप्यत्वं युक्तमित्याहुः।।

इतरे तु- अस्तु व्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम्। तथाऽप्यज्ञानमहिम्ना जीवभेदवच्चिदानन्दभेदोऽपि अधयस्त इति संसारदशायां पुरुषान्तरस्य पुरुषान्तरचैतन्यापरोक्ष्यवद् अनवच्छिन्नसुखापरोक्ष्यमपि नास्ति। अज्ञाननिवृत्तौ तु चिदानन्दभेदुप्रविलयात्तदापरोक्ष्यमिति तस्य विद्यासाध्यत्वमित्याहुः।।4।।

(5)अथ विद्योदये सत्युपाधिविलयादपेतजीवभावस्य किम् ईश्वरभावापत्तिर्भवति, उत शुद्धचैतन्यमात्ररूपेणावस्थानम्? इति विवेचनीयम्। उच्यते-
एकजीववादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदयो विलयान्निर्विशेषचैतन्यरूपेणैवावस्थानम्।

अनेकजीववादमभ्युपगम्य बद्धभुक्तव्यवस्थाऽङ्गीकारेऽपि यद्यपि कस्यचिद्विद्योदये तदविद्याकृतप्रपञ्चऽनुवर्तते, तथाऽपि `जीव इवेश्वरोऽपि प्रतिबिम्बविशेषः' इतिपक्षे मुक्तस्य बिम्बभूतशुद्धचैतन्यरूपेणैवावस्थानम्। अनेकोपाधिष्वेकस्य प्रतिबिम्बेसति एकोपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावेनैवावस्थानौचित्येन प्रतिबिम्बान्तरत्वापत्तेरपि दुर्वारत्वेनावच्छेदपक्ष इव मुक्तस्य पुनर्बन्धापत्तेः। अत एवानेकजीववादे अवच्छेदपक्षो नाद्रियते। यदवच्छेदेन मुक्तिस्तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः।

`प्रतिबिम्बो जीवः, बिम्बस्थानीय ईश्वरः, उभयानुस्यूतं शुद्धचैतन्यम्' इति पक्षे तु मुक्तस्य यावत्सर्वमुक्ति सर्वज्ञत्वसर्वकर्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणपरमेश्वरभावापत्तिरिष्यते। यथा अनेकेषु दर्पणेषु एकस्य मुखस्य प्रतिबिम्बे सति एकदर्पणापनये तत्प्रतिबिम्बो बिम्बभावेनावतिष्ठते, न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तरसन्निधानप्रयुक्तस्य मुखे बिम्बत्वस्यानपायात्, तथैकस्य ब्रह्मचैतन्यस्यानेकेषूपाधिषु प्रतिबिम्बे सति ए स्मिन् प्रतिबिम्बे विद्योदये तेन तदुपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावेनावस्थानावश्यम्भावात्। न च मुक्तस्याविद्याऽभावात् सत्यकामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः। तदविद्याऽभावेऽपि तदानीं बद्धपुरुषान्तराविद्यासत्त्वात्। न हीश्वरस्येश्वरत्वं सत्यकामादिगुणवैशिष्ट्यं च स्वाविद्याकृतम्, तस्य निरञ्जनत्वात्, किं तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमेष्टव्यम्।

न च "यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" "तं यथायथोपासते" इत्यादिश्रुतिषु सगुणोपासकानामपीश्वरसायुज्यश्रवणाद् मुक्तेः सगुणविद्याफलाविशेषपत्तिः। सगुणोपासकानामखण्डसाक्षात्काराभावाद् नाविद्यानिवृत्तिः, न वा तन्मूलाहङ्कारादेर्विलयः। आवरणानिवृत्तेर्नाखण्डानन्दस्फुरणम्। `जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च' (उ. मी. अ. 4 पा. 4 सू. 17) `भोगमात्रसम्यालिङ्गाच्च' (उ. मी. अ. 4 पा. 4 सू. 21) इत्यादिसूत्रोक्तन्यायेन तेषां परमेश्वरेण भोगसम्येऽपि सङ्कल्पमात्रात् स्वभोगोपयुक्तदिव्यदेहेन्द्रियवनितादिसृष्टिसामर्थ्येऽपि सकलजगत्सृष्टिसंहारादिस्वातन्त्र्यलक्षणं न निरवग्रहमैश्वर्यम्। मुक्तानां तु निस्साधिबन्धमीश्वरभावं प्राप्तानां तत्सर्वमिति महतो विशेषस्य सद्भावात्। न च परमेश्वरस्य रघुनाथाद्यवतारे तमस्वित्वदुःखसंसर्गादिश्रवणाद् मुक्तानामीश्वरभावे पुनर्बन्धापत्तिः। तस्य विप्रशापामोघत्वादिस्वकृतमर्यादापरिपालनाय कथंचिद् भृगुशापादिसत्यत्वं प्रत्याययितुं नटवदीश्वरस्य तदभिनयमात्रपरत्वात्। अन्यथा तस्य नित्यमुक्तत्वनिरवग्रहस्वातन्त्र्यसमाभ्यधिकराहित्यादिश्रुतिविरोधात्। तस्माद्यावत्सर्वमुक्ति परमेश्वरभावो मुक्तस्येति बिम्बेश्वरभावे न कश्चिद्दोषः।।

अयमेव पक्षः श्रुतिसूत्रभाष्याद्यनुगुणः। तथा हि-समन्वयाध्याये तावद् "दहर उत्तरेभ्यः" (उo मीo अo 1 पाo 3 सूo 14) इत्याधिकरणे "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः" इत्यादिश्रुतिनिर्दिष्टो दहराकाशो न भूताकाश, नापि जीवः, किं तु परमेश्वरः, उत्तरेभ्यो वाक्यशेषेभ्यः। "उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" इत्यादिना प्रतिपाद्यमानेभ्यो द्यावापृथिव्याद्याधारत्वलक्षणगुणेभ्यो हेतुभ्य इति निर्णीय `उत्तराच्चेदाविर्भूतस्वरूपस्तु' (उo मीo अo 1 पाo 3 सूo 19) इतिसूत्रान्तरेण दहरविद्यानन्तरमिन्द्रप्रजापतिसंवादे "य आत्माऽपहतप्राप्मा" इत्यादिना अपहतपाप्मत्वादिगुणाष्टकयुक्तमात्मानमुपदेश्यमुपक्षिप्य "य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा"इति जाग्रदवस्थायां द्रष्टृत्वेनाक्षिसन्निहितस्य "य एष स्वप्ने महीयमानश्चरति एष आत्मा" इति स्वप्नावस्थापन्नस्य "तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः स्वप्नं न विजानाति एष आत्मा" इति सुषुपब्त्यवस्थापन्नस्य "एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः" इत्यवस्थात्रयोत्तीर्णस्य च जीवस्योपदेशाज् जीवेऽप्यस्ति अपहतपाप्मत्वादिगुणाष्टकमिति न तद्दहराकाशस्य परमेश्वरत्वनिर्णायकम्।
"य एष स्वप्ने" इत्यादिपर्यायेषु प्रतिपर्यायम् "एतं त्वेव ते भूयोऽनुव्याख्यास्यामि" इति श्रवणेन स्फुटस्वप्नादिजीवलिङ्गानां द्वितीयादिपर्यायणामेव जीवविषयत्वम्, प्रथमपर्यायस्य च ब्रह्मविषयत्वमिति चोद्यानवकाशादित्याशङ्क्य तत्र चतुर्थपर्याये निरूप्यमाणः सकलबन्धविनिर्मुक्तत्वेनाविर्भूतस्वरूपो जीवः प्रतिपाद्यः। न तु संसारिकावस्थाभेदकलुषितः। तत्र सत्यसङ्कल्पत्वादिगुणबाधात्। अवस्थात्रयोपन्यासस्य तत्तदवस्थादोषाभिधानेन चतुर्थपर्यायोपदेशशोषत्वप्रतिपत्तेरिति समादधानः सूत्रकारश्चतुर्थपर्याये प्रतिपाद्यस्य मुक्तस्येश्वरभावापत्तिं स्पष्टमाह। तदभावे मुक्तेऽपि सत्यसङ्कल्पत्वाद्ययोगाद् अनुक्रान्तस्य गुणाष्टकस्य ईश्वरादन्यत्रापि भावे कृतशङ्कापरिहारालाभाच्च। तस्मिन् सूत्रे `तस्मादविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन ताद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं रूपं विद्यया प्रतिपद्यते' इति भाष्यकारोऽप्यतिस्पष्टं मुक्तस्य सगुणेश्वरभावापत्तिमाह।

अविरोधाध्यायेऽपि "एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते" इत्यादिश्रुतेस्तत्तत्कर्मकर्तृत्वेन तत्तत्कर्मकारयितृत्वेन च उपकार्योपकारकभावेनावगतयोर्जीवेश्वरयोरंशांशिभावरूपसम्बन्धनिरूपणार्थत्वेनावतारिते `अंशो नानाव्यपदेशात्' (उo मीo अo 2 पाo 3 सूo 43)इत्यधिकरणे `जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखभोगेन ईश्वरस्यापि दुःखित्वं स्यात्। यथा लोके हस्तपादाद्यन्यतमांशगतेन दुःखेनांशिनो देवदत्तस्यापि दुःखित्वं, तद्वत्। ततश्च तत्प्राप्तानां महत्तरं दुःख प्राप्नुयात्, ततो वरं पृर्वावस्था संसार एवास्त्विति सम्यग् ज्ञानानर्थक्यप्रसङ्गः' इति शङ्काग्रन्थेन भामत्यादिषु स्पष्टीकृतम्। बिम्बप्रतिबिम्बभावकृतासङ्करमुपादाय समाहितेन भाष्यकारो मुक्तस्य ईश्वरभावापत्तिं स्पष्टीचकार।

साधनाध्यायेऽपि `सन्ध्ये सृष्टिराह हि'(उo मीo अo 3 पाo 2 सूo 1) इत्यधिकरणे स्वप्नप्रपञ्चस्य मिथ्यात्वे व्यवस्थापिते तत्र मिथ्याभूते स्वप्नप्रपञ्चे जीवस्य कर्तृत्वमाशङ्क्य `पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ'(उo मीo अo 3 पाo 2 सूo 5) इतिसूत्रेण `जीवस्येश्वराभिन्नत्वात् सदपि सत्यसङ्कल्पत्वादिकमविद्यादोषात्तिरोहितमिति न तस्य स्वप्नप्रपञ्चे स्रष्ट्टत्वं सम्भवति' इति वदन् सूत्रकारः `तत्पुनस्तिरोहितं सत् परमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्छक्तिरौषधविर्यादीश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव सर्वेषां जन्तूनाम्' इति तत्सूत्राभिप्रायं वर्णयन् भाष्यकारश्च मुक्तस्य स्वप्नसृष्ट्याद्युपयोगिसत्यसङ्कल्पत्वाद्यभिव्यक्त्यङ्गीकारेण परमेश्वरभावापत्तिं स्पष्टीचकार।

फलाध्यायेऽपि "स्वेन रूपेणाभिनिष्पद्यते" इति मुच्यमानविषयायां श्रुतौ `केन रूपेणाभिनिष्पत्तिर्विवक्षिता' इति बुभुत्साया `ब्राह्मेण जैमिनिरुपन्यासादिभ्यः' (4.4.5) इतिसूत्रेण ब्राह्मं रूपमपहतपाप्मत्वादि सत्यसङ्कल्पत्वाद्यवसानं सर्वज्ञत्वसर्वेश्वरत्वादि च, तेनाभिनिष्पत्तिः "य आत्माऽपहतपाप्मा" इत्याद्युपन्यासेन "स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा" इत्याद्यैश्वर्यावेदनेन चेति जैमिनिमतम्। `चितितन्मात्रेण तदात्मकत्वादित्यौड्डलोमिः' (4.4.6) इत्यनन्तरसूत्रेण "एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव" इत्यादिश्रुत्या `चैतन्यमात्रमात्मस्वरूपम्' इत्यवगतेः `तन्मात्रेणाभिनिष्पत्तिः'इति मतान्तरं चोपन्यस्य `एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः'(4.4.7) इति सिद्धान्तसूत्रेण `वस्तुदृष्ट्याचैतन्यमात्रत्वेऽपि पूर्वोक्तगुणकलापस्य उपन्यासाद्यवगतस्य मायामयस्य बद्दपुरुषव्यवहारदृष्ट्या सम्भवाद न श्रुतिद्वयविरोधः' इति अविरोधं वदन् सूत्रकारः, सूत्रत्रयमिदमुक्तार्थपरत्वेन व्याकुर्वन् भाष्यकारश्च मुक्तस्येश्वरभावापत्तिं स्पष्टमनुमेने। भाभतीनिबन्धप्रभृतयश्च श्रुत्युपबृंहितमिदं सूत्रजातं, भगवतो भाष्यकारस्य उदाहृतं वचनजातं च तथैवान्ववर्तन्त। न च श्रुत्युपबृंहितस्य एतावतः सूत्रभाष्यवचनजातस्य-
ऐश्वर्यमज्ञानतिरोहितं सद् ध्यानादभिव्यज्यत इत्यवोचत्।।
शरीरिणः सूत्रकृदस्य यत्तु तदभ्युपेत्योदितमुक्तहेतोः।।(3.175) इति संक्षेपशारीरकोक्तरीत्याऽभ्युपेत्यवादत्वं युक्तं वक्तुम्।
तस्मान्मुक्तानामीश्वरमावापत्तेरवश्याभ्युपेयत्वादेतदसम्भव एव प्रतिबिम्बेश्वरवादे दोषः। तदाहुः कल्पतरुकाराः-`न मायाप्रतिबिम्बसक्य विमुक्तैरुपसृप्यता' इति। एतदसम्भवश्च एकजीववादपारमार्थिकजीवभेदवादयोरपि दोषः।

यत्तु कैश्चित् द्वैतिभिरुच्यते-भेदस्य पारमार्थिकत्वेन मुक्तौ जीवस्येश्वरभावाभावेऽपि तत्रापीश्वर इव पृथगपहतपाप्मत्वादिगुणसम्भवादविरोध इति। तत्तुच्छम्। तथा सति जीवस्यापहतपाप्मत्वादिकमस्तीति न तस्य ब्रह्मलिङ्गत्वमिति शङ्कापरिहारालाभेन `उत्तराच्चेदाविर्भूतस्वरूपस्तु'इति सूत्रविरोधात्। `ब्राह्मेण जैमिनिः' इतिसूत्रे जीवगतस्यापहतपाप्मत्वादेः `उपन्यासाधिभ्यः'इत्यात्रादिशब्दार्थत्वेन परेषामप्यभिमतस्य "जक्षन् क्रीडन् रममाणः"इत्यादिश्रुत्युदितस्य जक्षणादेश्च ब्राह्मत्वनिर्देशविरोधाच्च। भेदे तेषां गुणानां सत्यत्वेन `चितितन्मात्रेण'इतिसूत्रोक्तस्य मुक्तजीवानां चैतन्यमात्रत्वस्य `एवमपि' इति सिद्धान्तसूत्रेऽङ्गीकारविरोधाच्च, `सम्पद्याविर्भावः' इत्यधिकरणविरोधाच्च। तत्र हि `स्वेन रूपेणाभिनिष्पद्यते', इति श्रुतौ आगन्तुना केनचिद्रूपेणाभिनिष्पत्तिर्नोच्यते स्वेनशब्दवैयर्थ्यापत्तेः। येन रूपेण आगन्तुना स्वयमभिनिष्यद्यते तस्यात्मीयत्वस्यावक्तव्यत्वात्। तस्मादात्मवाचिस्वशब्दोपादानाद नित्यसिद्धेन स्वस्वरूपेणैवाभिनिष्पत्तिर्विवक्षिता, न तु केन चिद्धर्मेणेति व्यवस्थापितम्।
किञ्चेदमपहतपाप्मत्वादि जावस्य मुक्तावागन्तुकं चेत्, `सम्पद्याविर्भावः' इति मुक्तावागन्तुकरूपनिषेधेन `पराभिध्यानात्तु तिरोहितम्' `उत्तराच्चेदाविर्भूतस्वरूपस्तु' इत्यपहतपाप्मत्वादेर्बन्धमुक्त्योस्तिरोभावाविर्भावप्रतिपादनेन च विरोधः स्यादिति नित्यसिद्धं वाच्यमिति बन्धस्य मिथ्यात्वं दुर्वारम्।
नित्यसिद्धमपहतपाप्मत्वं हि सर्वदा पाप्मरहितत्वम्। न च वस्तुतः सर्वदा पाप्मरहिते पाप्मसम्बन्धः, तन्मूलककर्तृत्व भोक्तृत्वसम्बन्धो वा पारमार्थिकः सम्भवति। एवं च जीवस्येश्वराभेदोऽपि दुर्वारः। श्रुतिबोध्यतदभेदविरोधिबन्धस्य सत्यत्वाभावात्। अन्यथा संसारिणि नित्यासिगद्धसत्यसङ्कल्पतिरोधानोक्त्ययोगाच्च। न हि जावस्य संसारदशायामनुवर्तमानो यत्किञ्चिदर्थगोचरः कश्चिदस्त्यवितथसंकल्पस्तिरोहि त इति परैरपीष्यते। किं त्वीश्वरस्य यन्नित्यसिद्धं निरवग्रहं सत्यसङ्कल्पत्वम्, तदेव जीवस्य संसारदशायामीश्वराभेदनभिव्यक्त्या स्वकीयत्वेनानवभासमानं तं प्रति तिरोहितमित्येव समर्थनीयमिति घट्टकुटीप्रभातवृत्तान्तः।
नन्वपहतपाप्मत्वं न पाप्मविरहः किं तु पाप्महेतुकर्माचरणेऽपि पापोत्पत्तिप्रतिबन्धकशक्तियोगित्वमि न तस्य नित्यसिद्धत्वेन बन्धस्य मिथ्यात्वप्रसङ्गः। एवं सत्यसङ्कल्पत्वमपि शक्तिरूपेण निर्वाच्यमिति नेश्वराभेदप्रसङ्ग इति चेत्, मैवम्। एवं शब्दार्थकल्पने प्रमाणभावात्। न हि पापजननप्रतिबन्धिका शक्तिः संसाररूपपरिभ्रमणदशायां पापानुत्पत्त्यर्थं कल्पनीया। तदानीं तदुत्पत्तेरिष्टत्वात्। विद्योतयप्रभृति तु विद्यामाहात्म्यादेवाश्लेषः `तदधिगम उत्तरपूर्वघयोरश्लेषविनाशौ तद्व्यपदेशात्' (4.1.13) इति सूत्रेण दर्शितः। तत एव मुक्तावप्यश्लेष उपपद्यत इति व्यर्था शक्तिकल्पना।
तस्मादुदाहृतश्रुतिसूत्रानुसारिभिर्मुक्तजीवानां यावत्सर्वमुक्ति वस्तुसच्चैतन्यमात्रत्वाविरोधिबद्ध-पुरुषविद्याकृतनिरवग्रहैश्वर्यतदनुगुणगुणकलापविशिष्टनिरतिशयानन्दस्फुरणसमृद्धनिस्सन्धिबन्धपरमेश्वरभावापत्तिरादर्तव्येति सिद्धम्।।
विद्वद्गुरोर्विहितविश्वजिदध्वरस्य
श्रीसर्वतोमुखमहाव्रतयाजिसूनोः।
श्रीरङ्गराजमखिनः श्रितचन्द्रमौले-
रस्त्यप्पदीक्षित इति प्रथितस्तनूजः ।। 1 ।।
तन्त्राण्यधीत्य सकलानि सदाऽवदात-
व्याख्यानकौशलकलाविशदीकृतानि।
आम्नायमूलमनुरुध्य च सम्प्रदायम्
सिद्धान्तभेदलवसङ्ग्रहमित्यकार्षीत् ।। 2 ।।
सिद्धान्तरीतिषु मया भ्रमदूषितेन स्यादन्यथाऽपि लिखितं यदि कञ्चिदस्य।।
संशोधने सहृदयाः सदया भवन्तु
सत्सम्प्रदायपरिशीलननिर्विशङ्काः(1)।।3।।
{(1)अयं श्लोकः कचित् पुस्तके नास्ति।}

।। इति शास्त्रसिद्धान्तलेशसङ्ग्रहे चतुर्थः परिच्छेदः।।
।। समाप्तोऽयं ग्रन्थः।।