सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१)

विकिस्रोतः तः
सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१)
भट्टोजीदीक्षितः
१९१०

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२ पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३ ॥ श्रीरस्तु । ॥ सिद्धान्तकौमुदी । श्रीमद्भट्रोजिदीक्षितविरचिता ॥ पूर्वार्धम् । श्रीमद्वासुदेवदीक्षितप्रणीतया श्रीबालमनोरमाख्यया व्याख्यया समुद्भरासिता । ७७ त्रिशिरःपुरवास्तव्येन आाद्न्नूर शं. चन्द्रशेखरशास्त्रिणा संशोध्य प्रकाशिता । १९१०. [एतद्वन्थस्य मुद्रणाधिकारस्सर्वोऽपि प्रकाशकेन खायत्तीकृतः ।] त्रिशिरःपुरविराजमाने सैण्ट् जोोजप्स् इण्डास्ट्रयल् स्कूल मुद्रालये मुद्रिता सती वजयततमाम् । १. साप्रकरणम् २. पारभाषाप्रकरणम् अच्सन्धिप्रकरणम् ४. हल्सान्धप्रकरणम् विसर्गसन्धिप्रकरणम् ६. स्वादिसन्धिप्रकरणम् अजन्तपुल्लङ्गा १. अदन्तप्रकरणम् २. अादन्तप्रकरणम् ३. इदन्तप्रकरणम् ४. ईदन्तप्रकरणम् ५. उदन्तप्रकरणम् ६. ऊदन्तप्रकरणम् ७. ऋदन्तप्रकरणम् ८. ऋदन्तप्रकरणम् ९. लठदन्तप्रकरणम् १०. एदन्तप्रकरणम् ११. ओदन्तप्रकरणम् १२. ऐदन्तप्रकरणम् १३. औदन्तप्रकरणम् ८. अजन्तस्रीलिङ्गाः १. ॥ कौमुदीपूर्वार्धगतविषयानुक्रमणिका ।। २. ४. ५. १. ३. इदन्तप्रकरणम् २. अादन्तप्रकरणम् इदन्तप्रकरणम् ६. ऋदन्तप्रकरणम् ओदन्तप्रकरणम् ८. एदन्तप्रकरणम् ९. ओदन्तप्रकरणम् ९. अजन्नन्नपुसकालङ्गाः उदन्तप्रकरणम् उऊदन्तप्रकरणम् अदन्तप्रकरणम् अादन्तप्रकरणम् १ १० १ - - - - - पार्श्वम् ७५९ १ ८४ ११ १४९ १५१ १६३ १७२ १७५ १७८ १७९ १८० १८१ १८२ १८४ १८४ १८५-२०६ १८५ १९३ १९७ २०४ २०५ ० २००७ -२२० २००७ २१२ ३' इदन्तप्रकरणम् ४. ईदन्तप्रकरणम् ५. उदन्तप्रकरणम् ६. ऊदन्तप्रकरणम् ७. ८. कौमुदीपूर्वार्धगतविषयानुक्रमणिका । ९. एदन्तप्रकरणम् १०. ओदन्तप्रकरणम् १०. हलन्तपुल्लिंङ्गाः १. हकारान्तप्रकरणम् ऋदन्तप्रकरणम् २. वकारान्तप्रकरणाम ३. रेफान्तप्रकरणम् ४. लकारान्तप्रकरणम् आदन्तप्रकरणम् ५. मकारान्तप्रकरणम् ६. णकारान्तप्रकरणम् ७. नकारान्तप्रकरणम् १३. ९. जवकारान्तप्रकरणम् १०. दकारान्तप्रकरणम् ११. थकारान्तप्रकरणम् १२. चकारान्तप्रकरणम् - ६. १४. पकारान्तप्रकरणम् - १५. शकारान्तप्रकरणम् १६. षकारान्तप्रकरणम् - १७. सकारान्तप्रकरणम् ११. हलन्तस्रीलिङ्गाः १. हकारान्तप्रकरणम् तकारान्तप्रकरणम् २. वकारान्तप्रकरणम् ३. रेफान्तप्रकरणम् ४. मकारान्तप्रकरणम् ५. जकारान्तप्रकरणम् दवकारान्तप्रकरणम् - - - २२१- - पाश्धम् २१३ २१६ २१ ऽ २१८ २१८ २१९ २२० २२ ३०३ २.२१ २३१ २३६ २ 3 ७ २५५ २५ २७९ २८० २८६ २९७ ३०४-३१० ३०४ ३०५ ३०६ ० ५७ ७. १५ वषय ८. पकारान्तप्रकरणम् ९. शकारान्तप्रकरणम् १०. षकारान्तप्रकरणम् ११. सकारान्तप्रकरणम् चवकारान्तप्रकरणम् कौमुदीपूर्वार्धगतविषयानुक्रमणिका १२. हलन्तनपुरसवकालङ्गाः १. हकारान्तप्रकरणम् २. वकारान्तप्रकरणम् ३. रेफान्तप्रकरणम् ४. मकारान्तप्रकरणम् ५. नकारान्तप्रकरणम् ६. जकारान्तप्रकरणम् ९. ७. दकारान्तप्रकरणम् ८. चकारान्तप्रकरणम् - तकारान्तप्रकरणम् १३• अव्ययप्रकरणम् १४. स्त्रीप्रत्ययप्रकरणम् १०. पकारान्तप्रकरणम् ११. सकारान्तप्रकरणम् १. प्रथमाविभक्तिप्रकरणम् २. द्वितीयाविभक्तिप्रकरणम् ३. तृतीयाविभक्तिप्रकरणम् ४. चतुर्थीविभक्तिप्रकरणम् ५. पञ्चमीविभक्तिप्रकरणम् षष्ठीविभक्तिप्रकरणम् ७. सप्तमीविभक्तिप्रकरणम् ३६• अव्ययीभावसमासप्रकरगम् १७. तत्पुरुषाः १. तत्पुरुषसमासप्रकरणम् २. कमेधारयसमासप्रकरणम् ३. नञ्तत्पुरुषसमासप्रकरणम् उतिसमासप्रकरणम् - पार्श्वम - ३०८ - ०८ ३०८ ३११-३२६ ३०९ ३०९ ३११ ३११ ३१३ ३१३ ३१४ ३१६ १७ ३१८ ३२५. - ३९७-४६६ ३२७ ३३५ ३९७ ४ ० ० ४२१ ४२६ ४३५ ४४५ ४५९ ४६७ ४८७ -५५१ ४८७ ५१७ ५२२ ५२५ ५. उपपदसमासप्रकरणम् ६. असाधारणसमासान्तप्रकरणम् १८. बहुत्राहसमासप्रकरणम् १९. द्वन्द्वसमासप्रकरणम् २१. सर्वसमासशेषप्रकरणम् २२. सवसमासान्तप्रकरणम् कौमुदीपूर्वार्धगतविषयानुक्रमणिका । २१ २३. अलुक्समासप्रकरणम् २४. समासाश्रयाविधिप्रकरणम् २५. तद्विताः अपत्यादिविका २. अपत्याधिकारप्रकरणम् ३. चातुरर्थिकप्रकरणम् ४. शैषिकप्रकरणम् ५. विकारार्थप्रकरणम् ६. ठगाधकारप्रकरणम् प्राग्घितीयप्रकरणम् ८. आहये छयद्विधिप्रकरणम् ९. आहायप्रकरणम् १०. ठञ्अधिकारे कालाधिकारप्रकरणम् ११. ठञ्विधिप्रकरणम् १२. नञ्स्रअधिकारप्रकरणम् १३. पा चमिकप्रकरणम् १४. मत्वर्थीयप्रकरणम् १५. प्राग्दिशीयप्रकरणम् १६. प्रागिवीयप्रकरणम् २८ १७ २७. सूत्रसूचिका प्रकरणम् -

- - - पार्श्वम् - ५३४ ५५ः ५९१ ६०७ ६१३ ६३४ ६६३-९४५ ६१६ ६२५ ७० ८ ७४० ७८४ ७९२ ८० ७ ८१३ ८१९ ८३६ ८४२ ८४६ ८५४ ८६६ ८९१ ८९७ ११९ ९४६ ९५७

९८९

श्रीरस्तु ।

॥ अथ तद्धिताधिकारप्रकरणम् ॥

अथापत्यादिविकारान्तार्थसाधारणप्रत्ययाः ।

१०७२ । समर्थानां प्रथमाद्वा । (४-१-८२)

इदं पदत्रयमधिक्रियते । “प्राग्दिशः-' (सू १९४७) इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसन्धिकार्यत्वमिति यावत् ।

१०७३ । प्राग्दीव्यतोऽण् । (४-१-८३)

'तेन दीव्यति-' (सू १५५०) इत्यतः प्रागणाधिक्रियते ।


अथ तद्धितापत्यादिविकारान्तार्थसाधारणप्रत्ययाः-समर्थानां प्रथमाद्वा ॥ विधेयस्यादर्शनान्नायं स्वतन्त्रविधिरिति मत्वा आह । इदं पदत्रयमधिक्रियते इति ॥ खरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह । प्राग्दिश इति यावदिति ॥ प्राग्दिशो विभक्तिः’ इति सूत्रम् उत्तरावधिरित्यर्थः । 'समर्थानाम्' इति निर्धारणषष्ठी । प्राथम्यञ्च 'तस्यापत्यम्’ इत्यादितत्तत्सूत्रेषु प्रथमोच्चारितत्वम् । समर्थानां मध्ये प्रथमोच्चारिता दित्यर्थः । 'समर्थात्प्रथमाद्वा' इति सुवचम् । केचित्तु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवञ्च 'प्राग्दिश:’ इत्यादिषु स्वार्थिकप्रत्ययविधिषु नास्य प्रवृत्तिरिति लभ्यते इत्याहुः। ननु सुबन्तात्तद्धितोत्पत्तेर्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया 'समर्थः पदविधिः' इति परिभाषयैव एकार्थीभावरूपसामर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह । सामर्थ्ये परिनिष्ठितत्वमिति ॥ समर्थः पटुः शक्त इति पर्यायाः । शक्तत्वञ्च कार्योत्पादनयोग्य त्वम् । शब्दस्य च कार्यमर्थप्रतिपादनमेव । तच्छक्तत्वञ्च कृतेष्वेव सन्धिकार्येषु सम्भवति । तथाच कृतसन्धिकार्यत्वमेव सामथ्यैमिह पर्यवस्यति । तदाह । कृतसन्धिकार्यत्वमिति यावदिति ॥ प्राग्दीव्यतोऽण् ॥ “तेन दीव्यति खनति जयति जितम्' इति सूत्रस्थ दीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्धटितं तत्सूत्रं लक्ष्यते । तदाह । तेन दीव्यतीत्यतः प्रागणधिक्रियते इति ॥ तथाच तस्यापत्यमित्याद्युत्तरसूत्रेषु केवल मर्थनिर्देशपरेषु विधेयप्रत्ययविशेषासंयुक्तेषु किम्भवतीत्याकाङ्क्षायामणित्युपतिष्ठते इति लभ्यते । कस्माद्रवतीत्याकाङ्कायां “समर्थात्प्रथमात्' इति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्यय

विशेषः श्रूयते तत्राणिति नोपतिष्ठते । अणित्यस्यौत्सर्गिकतया वैशेषिकेण इञादिना बाधात् ।
६६४
[अपत्यादिविकारान्तार्थ
सिद्धान्तकौमुदीसहिता

१०७४ । अश्वपत्यादिभ्यश्च । (४-१-८४)

एभ्योऽण्स्यात्प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्यापवादः ।

१०७५ । तद्धितेष्वचामादेः । (७-२-११७)

ञिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात् ।

१०७६ । किति च । (७-२-११८)

किति तद्धिते च तथा । अश्वपतेरपत्याद्याश्वपतम् । गाणपतम् । “गाण पत्यो मन्त्रः' इति तु प्रामादिकमेव ।

१०७७ । दित्यदित्यादित्यपत्युत्तरपदानण्ण्यः । (४-१-८५)

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः।'यमाच्च' इति काशिकायाम् ।


अश्वपत्यादिभ्यश्च ॥ चकारात् 'प्राग्दीव्यतोऽणु 'इत्यनुकृष्यते । तदाह । एभ्योऽण् स्यात् प्राग्दीव्यतीयेष्वर्थेष्विति ॥ दीव्यतः प्राक् प्राग्दीव्यत् “अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्यथाभाव । ‘झयः’ इति टच् तु न । तस्य पाक्षिकत्वात् । प्राग्दीव्यत: भवाः प्राग्दीव्यतीया । वृद्धाच्छः। “अव्ययात्त्यप्' इति तु न । अव्ययीभावस्याव्ययत्वे ‘लुङ्मुखस्वरोपचाराः प्रयोजनम् इति परिगणनात् । अत एव ‘अव्ययानाम्भमात्रे टिलोपः’ इत्यपि न भवति। ननु 'प्राग्दीव्यतोऽण्' इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह । वक्ष्यमाणस्येति ॥ 'दित्यदित्यादित्यपत्युत्तर पदाण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः । तद्धिते ष्वचामादेः ॥ 'अचो ञ्णिति' इत्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । अचामिति निर्धारणषष्ठी । तदाह । ञितीति ॥ किति च ॥ तथेति । अचामादेरचो वृद्धिरित्यर्थः । इदं सूत्रम्प्रकृतानुपयुक्तमपि व्याख्यासौकर्याय इहोपन्यस्तम् । अपत्यादीति ॥ आदिना समूहाद्यर्थसङ्ग्रहः । आश्वपतमिति । अश्वपतेतराणि आदिवृद्धौ ‘यस्येति च' इति इकारलोपः। गाणपतमिति ॥ अश्वपल्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति ॥ गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति ॥ प्रमादादायातामित्यर्थः । गणपतिक्षेत्रपत्यादीनामश्वपत्यादिगणे पाठस्य वृत्तौ दर्शनादिति भावः । दित्यदित्यादित्य ॥ दित्यादिभ्य इति ॥ दिति, अदिति, आदित्य एतेभ्यः इत्यर्थः । पत्युत्तरपदादिति ॥ पति उत्तरपदं यस्य तस्मादिति विग्रहः । प्राग्दीव्यतीयेष्वर्थेष्विति ॥ प्राग्दीव्यत इत्यनुवृत्तेरिति भावः । अणोऽपवाद् इति ॥ विशेषविहितत्वादिति भावः । दैत्य इति ॥ दितेरपत्यमिति विग्रहः । दितेर्ण्यप्रत्ययः । “चुट्’ इति णकार इत्, आदिवृद्धिः, 'यस्येति च' इति इकारलोपः। अदितेः आदित्यस्य वेति ॥ अपत्यादीति शेषः । आदित्य इति ॥ जाताद्यर्थे आदिवृद्धौ यस्येति च' इति लोपे आदित्य इति रूपम् । आदित्यशब्दात् ण्ये आदिवृद्धौ “यस्येति च ' साधारणप्रत्ययाः] बालमनोरमा । ६६५ याम्यः। 'पृथिव्या ञञौ' (वा २५५४) । पार्थिवा-पार्थिवी । 'देवाद्य- ञञौ' (वा २५५५) । दैव्यम्-दैवम् । 'बहिषष्टिलोपो यञ्च' (वा २५५६)। ब्राह्यः । 'ईकक्च' (वा २५५७) । बाहीकः । 'स्थाम्नोऽकार:' (वा २५५९)। अश्वत्थामः । पृषोदरादित्वात्सस्य तः । 'भवार्थे तु लुग्वाच्यः' (वा २८८२) । अश्वत्थामा । 'लोम्नोऽपत्येषु बहुष्वकार:' (वा २५६०)। बाह्वादीञोऽपवादः। इति लोपे 'यणो मयः' इति पूर्वयकारस्य द्वित्वे सति 'हलो यमाम्' इत्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाभावे लोपे चासति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यत्वात् 'आपत्यस्य च' इति यलोपो न । अदितेरपत्ये ण्ये आदित्यशब्दात्पुनरपत्ये ण्ये 'आपत्यस्य च' इति यलोपः । प्राजापत्यः इति ॥ पत्युत्तरपदात् प्रजापतिशब्दात् ण्ये आदिवृद्धौ ‘यस्येति च' इति लोपः । दैतेया इति त्वसाध्वेव । साधुत्वश्रद्धाजाड्ये तु पृषोदरादित्वात् समाधेयम् । काशिकायामिति ॥ भाष्ये त्विदं न दृश्यत इति भावः । याम्य इति ॥ यमस्यापत्यादीति विग्रहः । पृथिव्या ञाञाविति ॥ ञश्च, अञ् च वक्तव्यावित्यर्थः । पार्थिवेति ॥ पृथिव्या अपत्यादीति विग्रहः । ञप्रत्यये 'चुटू' इति अकार इत् , आदिवृद्धि', 'यस्येति च' इति लोपः । स्त्रियामदन्तत्वाट्टाप् । पार्थिवीति ॥ अञि 'टिड्ढाणञ्' इति ङीप् , ञप्रत्ययस्यैव विधौ डीप् न स्यात् । अञ एव विधौ टाप् न स्यात् । तस्मादुभयविधिः । एतत्सूचनाय स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति ॥ देवशब्दात् यञ् अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यम्-दैवमिति ॥ देवस्यापत्यादीति विग्रहः । यञि अञि च आदिवृद्धौ ‘यस्येति च' इति लोपः। बहिष इति ॥ बहिस् इति सकारान्तमव्ययम् । तस्मात् प्राग्दीव्यतीयेष्वर्थेषु यञि प्रकृतेः टिलोपश्चेति वक्तव्य इत्यर्थः । बाह्य इति ॥ बहिर्भवः इत्यादिविग्रहः । यञि टिलोपे आदिवृद्धिः। अव्ययानां भमात्रे टिलोप इत्यस्यानित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन आराद्भवः आरातीयः इत्यादि सिद्ध्यति । ईकक् चेति ॥ बहिष ईकक् च स्यात् प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाहीक इति ॥ बहिष ईककि टिलोपे 'किति च' इत्यादिवृद्धिः । स्थाम्न इति ॥ स्थामन्शब्दात् अकारप्रत्ययः प्राग्दीव्यतीयेष्वर्थेषु वाच्य इत्यर्थः । अणोऽपवादः । अश्वत्थाम इति ॥ अश्वस्येव स्थामा स्थितिर्यस्येति विग्रहः । अश्वत्थाम्नोऽपत्यं जात इत्यादि विग्रहः । प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात् तदन्तविधिः । अश्वत्थाम- न्शब्दादकारप्रत्यये 'नस्तद्धिते' इति टिलोपः । अणि तु आदिवृद्धिः स्यात् । ननु उदः परत्वाभावात्कथमिह सकारस्य थकार इत्यत आह । पृषोदरादित्वादिति ॥ भवार्थे तु लग्वाच्य इति ॥ अकारप्रत्ययस्येति शेषः । लोम्न इति ॥ लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति ॥ बाह्वादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः । उडुलोमा इति ॥ उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा, तस्यापत्यमिति विग्रहः । केवलस्य लोम्नः अपत्ययोगासम्भवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये

P84
६६६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

उडुलोमाः । उडुलोमान् । “बहुषु' किम् । औडुलोमिः । “सर्वत्र गोरजादि प्रसङ्गे यत्' (वा २५६१)। गव्यम् । “ अजादिप्रसङ्गे' किम् । गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ।

९०७८ । उत्सादिभ्योऽञ् । (४-१-८६)

औत्सः । “ अन्निकलिभ्यां ढग्वक्तव्यः' (वा २६८९) । अग्रेरपत्यादि आग्नेयम्|कालेयम्| इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः| अथापत्याधिकारप्रकरणम् अथापत्याधिकारप्रकरणम्|

१०७९ । स्त्रीपुंसाभ्यां नञ्स्रञ्औौ भवनात् । (४-१-८७)

धान्यानां भवने-' (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमा न्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । ‘वत्यर्थे न' । 'स्री पुंवञ्च' (सू९३२) इति ज्ञापकात् । स्त्रीवत् । पुंवत् ।


सति ‘नस्तद्धिते' इति टिलोपः । औडुलोमिरिति ॥ उडुलोस्रोऽपत्यमिति विग्रहः । अत्रा पत्यबहृत्वाभावादकारप्रत्ययो न । किन्तु बाह्वादित्वादिञि टिलोप इति भावः । सर्वत्र गोरिति ॥ लोम्रोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थे सर्वत्रग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति ॥ गविभवङ्गोरागतमित्यादि विग्रहः। अणपवादो यत्। गोरूप्यम्-गोमयमिति ॥ हेतुमनुष्येभ्योऽन्यतरस्याम्' इति रूप्य इत्यर्थः । 'मयड्वैतयो.’ इति रूप्यमयटौ । हलादित्वा त्रैतयोर्यत्प्रत्ययो बाधक इति । उत्सादिभ्योऽञ् ॥ प्राग्दीव्यतीयेष्वर्थेष्विति शेषः । अणि ञाद्यपवादः । 'दृष्टं साम' इति सूत्रभाष्ये 'सर्वत्राग्निकलिभ्याण्ढग्वक्तव्यः’ इति वार्तिकं पठितम् । दृष्टं सामेत्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । तत्र सर्वत्रेति त्यक्त्वा लाघ वात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकम्पठन्ति । अग्विकलिभ्यामिति ॥ अपत्यादीति ॥ अग्नि र्देवता अस्य इत्यादिसङ्ग्रहः । आग्रेयम् । कालेयमिति ॥ ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति च' इति लोपः ॥-इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः । अथापत्याधिकारो निरूप्यते —स्त्रीपुंसाभ्याम्॥ भवनशब्देनैकदेशेन 'धान्यानाम्भवने क्षेत्रे खञ्’ इति सूत्र विवक्षितम् । प्राग्दीव्यत इत्यतः प्रागिल्यनुवृत्तम् । तदाह । धान्याना मिति ॥ स्त्रीपुंसाभ्यामिति ॥ “अचतुर' इत्यच् । स्त्रीशब्दात् पुंस्शब्दाचेत्यर्थः । स्त्रैण इति ॥ स्त्रिया अपत्यम्, स्त्रीषु, भवः, स्त्रीणां समूहः, इत्यादिविग्रहः। नञ्, वृद्धिः, णत्वम्। पौंस्न

इति ॥ पुसोऽपत्यम्, पुंसि भवः, पुंसां समूहः इत्यादि विग्रहः। पुंस्शब्दात् स्रञि 'स्वादिषु' इति
प्रकरणम्]
६६७
बालमनोरमा ।

१०८० । द्विगोर्लुगनपत्ये । (४-१-८८)

द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । “ द्विगोर्निमित्तम्' इति किम् । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । ' अजादिः' किम् । पञ्चगर्गे रूप्यम् । “ अनपत्ये' किम् । द्वयोर्मित्त्रयोरपत्यं द्वैमित्त्रि ।

१०८१ । गोत्रेऽलुगचि । (४-१-८९)


पदत्वात्सयोगान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसस्सकारस्य सयोगान्तलोपे पुन्नः इति स्यादिति भावः । वत्यर्थेनेति ॥ 'तेन तुल्यङ्कि याचेद्वतिः’ इति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यान्नञ्चन्नञ्जौ न भवत इत्यर्थः । कुत इत्यत आह । स्त्री पुंवचेति ज्ञापकादिति । अन्यथा पुंवदिति निर्देशोऽनुपपन्नः स्या दिति भावः । न च पुवदिति निर्देशः पुंस्शब्दाद्वत्यर्थे स्नञभाव ज्ञापयेत्, नतु स्रीशब्दान्नः ञाभावमपीति वाच्यम् । नञ्स्रजोरेकसूत्रोपात्ततया वत्यर्थ स्नञभावे ज्ञापिते सति स्त्रीशब्दान्न ञभावस्यापि लाभात् । ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तम्भाष्ये “योगापेक्षं ज्ञापकम्” इति । द्विगोर्लगनपत्ये ॥ द्विगेरिति हेतुत्वसम्बन्धे षष्ठी, लुक्श्रवणात् प्रत्ययस्येत्युपस्थितम्। प्रत्य यादर्शनस्यैव लुक्त्वात् । तथाच द्विगुनिमित्तस्य प्रत्ययस्य लुगिति लभ्यते । द्विगुनिमित्तश्च प्रत्यय तद्वित एव भवति । तद्धितार्थे विषये तद्विधानात् । ततश्च द्विगुनिमित्तस्य तद्धितस्येति लभ्यते । प्राग्दीव्यत इत्यनुवृत्तः प्राग्दीव्यतीयत्वन्तद्धितविशेषणम् । “गोत्रेऽलुगवि' इत्युत्तरसूत्रे सप्तम्य न्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहापकृष्यते । तच षष्ठया विपरिणतन्तद्वितविशेषणम् । तदाह । द्विगोर्निमित्तमित्यादिना । पञ्चकपाल इति ॥ ‘संस्कृतं भक्षाः’इत्यणि तद्धितार्थे द्विगुः अणोलुक् प्रत्ययलक्षणाभावान्नादिवृद्धिः|पञ्चकपालस्येद मिति ॥ पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासे अणेो लुकि निष्पन्नात् पञ्चकपालशब्दात् ‘तस्येदम्’ इत्याणि आदिवृद्धौ पाञ्चकपालमित्यत्राणो लुग्न भवति । निमित्तत्वा भावादिति भावः । पञ्चगर्गरूप्यमिति ॥ पञ्चभ्यो गर्गेभ्यः आगतमित्यर्थे 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । “तद्धितार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाभावात् न लुगिति भावः । द्वैमित्त्रिरिति । अत्र “ अत इञ्' इति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्रो विद्या अधीयानः त्रैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यम् । व्यवयवा विद्या त्रिविद्या। शाकपार्थिवादिः । त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाभावात् । प्राग्दीव्यतीयस्येति किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् । गोत्रेऽलुगचि ॥ अलुगिति च्छेदः । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच प्राग्दीव्यतीये प्रत्यये इति लब्धम्, अचीति तद्विशेषणं, तदादिविधिः, विषयसप्तम्येषा, नतु परसप्तमी । तदाह ।

६६८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक्स्यात् । गर्गाणां छात्त्राः । 'वृद्धाच्छः' (सू १३३७) ।

१०८२ । आपत्यस्य च तद्वितेऽनाति । (६-४-१५१)

हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । 'प्राग्दीव्यतीये' किम् । गर्गेभ्यो हितं गगयम् । “ अचि' किम् । गर्गेभ्यः आगतं गर्गरूप्यम् ।

१०८३ । यूनि लुक् । (४-१-९०)


अजादावित्यादिना । गोत्रप्रत्ययस्येति ॥ गोत्रार्थकप्रत्ययस्यत्यर्थः। लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लब्धम् । गगर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रत्ययदर्शनमिदम् । गर्गस्य गोत्रापत्यं गाग्र्यः । 'गर्गादिभ्यो यञ्' । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्य “यञञोश्च' इति लुकि गर्ग इति भवति । तथाच गर्गस्य गोत्रापत्यानि गार्ग्याः इति विग्रहवाक्यार्थः । वृद्धाच्छ इति ॥ गाग्र्यशब्दादुक्त्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परे “यञ्जोश्च' इति प्राप्तो लुड् न भवति । तथाच गार्ग्य ईय इति स्थिते 'यस्येति च' इति यञोऽकारस्य लोपे गार्ग्य् ई इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह । आपत्यस्य च ॥ अनातीति च्छेदः । “ढलापाऽकद्रा' इत्यतो लोप इत्यनुवर्तते । 'सूर्यतिष्य' इत्यतो य इति षष्ठ्यन्तमनुवर्तते । 'हलस्तद्धितस्य' इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह । हलः परस्यापत्ययकारस्येति ॥ अपत्यार्थ कयकारस्येत्यर्थः । यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नासध्छद्यत्वम्, आरम्भसामथ्यात् । 'हलस्ताद्धतस्य ' इति यलोपस्यात्र प्रसक्तावापि न्याय्यत्वादिदमेव भवति । गर्गीयमिति ॥ ‘तस्मै हितम्’ इति गार्ग्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाभावात् तस्मिन्परे “यञञोश्च' इति यञो लुग्भवत्येवेति नादिवृद्धिरिति भावः । गर्गरूप्यमिति ॥ हेतुमनुष्येभ्यः’ 'इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेऽप्यजादित्वाभावात्तस्मिन्परे यञः लुङ् न। यदि तु अजादौ प्राग्दीव्यतीये प्रत्यये परे इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृते अलुग्विधिः प्रवर्तत, नतु ततः प्राक् । एवञ्च छप्रवृत्तेः प्राक् 'यञञोश्च' इति यञो लुकि कृते आदिवृद्धेर्निवृत्तौ गर्गशब्दस्य वृद्धित्वाभावात् ततः छो न स्यात् । आणि सति गार्गाः छात्राः इत्येव स्यात् । अजादौ प्रत्यये विवक्षित इति व्याख्याने तु छप्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव याञि अलुग्विधेः प्रवृत्तौ यञ्जन्तस्य वृद्धत्वात् छो निर्बाधः । यलोपविधौ आपत्यस्येति किम् । सङ्काशेन निवृत्तं नगरं साङ्काइयं ‘सङ्काशादिभ्यो ण्यः’ ततो भवार्थे ‘ध०न्वयोपधात्’ इति वुञ् । तद्धिते किम्, गाग्र्ये-गाग्र्ययोः । अनातीति गाग्र्यायणः । यूनि लुक् ॥ प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच प्राग्दीव्यतीये प्रत्यये इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः, विषय सप्तम्येषा, नतु परसप्तमी । तदाह । अजादौ प्राग्दीव्यतीये विवक्षिते इति ॥

प्रकरणम्]
६६९
बालमनोरमा ।

अजादौ प्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक्स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् । ग्लौ चुकायनः :। तस्य च्छात्त्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ।

१०८४ । पैलादिभ्यश्च । (२-४-५९)

एभ्यो युवप्रत्ययस्य लुक् । ' पीलाया वा' (सू ११२१) इत्यण् । तस्मात् 'अणो द्व्यचः' (सू ११८०) इति फिञ् । तस्य लुक् । पैलः पिता पुत्त्रश्च । 'तद्राजाच्चाण:' (ग २१) । “ व्द्यञ्मगध' इत्यण्णन्तादाङ्गशब्दात् अणो व्द्यचः' (सू ११८०) इति फिञो लुक् । आङ्गः पिता पुत्त्रश्च ।

१०८५ । इञः प्राचाम् । (२-४-६०)


युवप्रत्ययस्येति ॥ युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लौचुकायनिरिति कथम् । ‘अत इञ्’ इति इञः प्राप्तरित्यत आह । वक्ष्यमाण इति ॥ “प्राचामवृद्धात् फिन् बहुळम्’ इत्यनेनेति शेषः । आयन्नादेश ग्लुचुकायनिरिति रूपमिति भावः । तत इति ॥ ग्लुचुकायनेरपत्यार्थे ‘तस्यापत्यम्’ इत्यणि आदि वृद्धौ “यस्येति च' इति लोपे ग्लौचुकायन इति रूपमित्यर्थः । ननु युवापत्यस्याणः “यस्येति च ' इति लोपेनैव छात्रार्थे ग्लैौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह । अणो लुकीति ॥ छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनि शब्दस्य वृद्धत्वाभावात् छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वात् छः स्यात् । एतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुरर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्वैतीयीको युवप्रत्ययलुगनुक्रम्यते|पैलादिभ्यश्च| 'ण्यक्षात्रियार्ष' इत्यतो यूनि लुक् इत्यनुवर्तते तदाह । एभ्यो युवप्रत्ययस्य लुगिति ॥ अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति ॥ पीलाया गोत्रापत्यमित्यर्थे ‘स्त्रीभ्यो ढक्' इति ढकम्बाधित्वा “पीलाया वा इत्यणित्यर्थः । तस्मादिति ॥ पैलस्यापत्यं युवेत्यर्थे 'पैलादिभ्यश्च' इति लुक् । 'अणो द्यचः इति फिञः इत्यर्थः । पीलाया गोत्रापत्यस्यापत्यं पीलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य युवार्थकफिञ्प्रत्ययस्य अनेन लुगित्यर्थ पीलाया गोत्रापत्ये युवापत्ये च पैलशब्द इत्याह । पैलः पिता पुत्त्रश्चेति ॥ यूनः पिता युवा चेत्यर्थः । 'तद्राजाच्चाणः’ इति पैलादिगणसूत्रम् । तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याणो लुगित्यर्थः । द्व्यञ्मगधेति । अङ्गशब्दो देशविशेषे । तस्य राजा आङ्गः । तस्य गोत्रापत्यमप्याङ्गः । ' द्यञ्जमगध' इत्यण्। तस्यापत्य युवाप्याङ्ग एव । ' अणो द्व्यचः' इति फिञ् । तस्यानन लुक् । इअः प्राचवाम् ॥ इञः इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् । “ण्यक्षत्रिय' इत्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः । अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह । गोत्रे

६७०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात् । तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । ' अत इञ्' (सू १०९५) “यञिञोश्च' (सू ११०३) इति फक् । पान्नागरिः पिता पुत्त्रश्च । ' प्राचाम्' किम् । दाक्षिः पिता । दाक्षायणः पुत्रः| [अपत्याधिकार

१०८६ । न तौल्वलिभ्यः । (२-४-६१)

तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुङ्नस्यात् । पूर्वेण प्राप्तः । तुल्वलः । तत इञि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्त्रः ।

१०८७ । फक्फिञोरन्यतरस्याम् । (४-१-९१)

' यूनि' (सू १०८३) इत्येव पूर्वेण नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्त्राः कातीयाः—कात्यायनीया: “ यस्कस्यापत्यं यास्क: ।


य इञ् तदन्ताद्युवप्रत्ययस्य लुगिति ॥ प्राचाम् इति गोत्रादिविशेषणम्, न तु विकल्पार्थम्। व्याख्यानात् । तदाह । तच्चेद्गोत्रं प्राचां भवतीति ॥ प्राग्देशीयमित्यर्थः । पन्नागार स्येति ॥ प्राग्देशे पन्नागारो नाम कश्चित्, तस्य गोत्रापत्यमित्यर्थे “अत इञ्’ इति इञि पान्नागारेरपत्यं युवेत्यर्थे पान्नागारिशब्दात् “यञिञोश्च' इति फक् । तस्यानेन लुक् । एवञ्च पन्नागारस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमित्यर्थः । प्राचां किमिति ॥ गोत्रविशेषणङ्किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्त्र इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ् । तस्यापल्यं युवा दाक्षायणः । “यञिञोश्च' इति फक् । तस्य लुड् न भवति । दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगो त्रार्थकादिञः परत्वम् । न तौल्वलिभ्यः ॥ बहुवचनात्तौल्वल्यादीनाङ्ग्रहणमित्याह । तौल्वल्यादिभ्यः परस्येति ॥ पूर्वेणेति ॥ 'इञः प्राचाम्' इत्यनेन प्राप्तो लुगनेन प्रतिषिध्यते इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्रापत्यं तौल्वलिः । अत इञ् । तस्यापत्यं युवा तौल्वलायनः । “यञिञोश्च ' इति फक् । तस्य 'इञः प्राचाम्' इति लुङ् नेत्यर्थः । अथ प्रकृतञ्चातुरर्थिकं लुग्विधिमनुसरति । फक्फिञो रन्यतरस्याम् ॥ यूनीत्येवेति । 'यूनि लुक्' इति पूर्वसूत्रमनुवर्तते इत्यर्थः । ‘यूनि लुक्’ इत्युक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः । तदाह । पूर्वेणेति ॥ कात्यायनस्येति ॥ कतस्य गोत्रापत्यङ्कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा कात्यायनः । “यञिञोश्च' इति फक् । कात्यायनस्य छात्राः इत्यर्थे 'तस्येदम्' इत्यनुवृत्तौ ‘वृद्धाच्छ:’ इति छः । ईयादेशः । अत्र छात्रार्थकछप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य ईय इति स्थिते 'यस्यति च' इत्यकारलोपे ' आपत्यस्य च' इति यलोपे कातीया इति रूपम् । फको लुगभावे तु कात्यायनीया इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थे 'अत इञ् ’

प्रकरणम्]
६७१
बालमनोरमा ।

शिवाद्यण् । तस्यापत्यं युवा यास्कायनि । “ अणो द्व्यचः’ (सू ११८०) इति फिञ् । तस्य छात्त्राः यास्कीयाः-यास्कायनीया : ।

१०८८ । तस्यापत्यम् । (४-१-९२)

षष्ट्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यमौपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ।


इति इञपवादः शिवाद्यणित्यर्थः । तस्येति । यस्कस्यापत्यं युवेत्यर्थे “अणो द्व्यचः' इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति ॥ यास्कायनेः छात्राः इत्यर्थे ‘तस्येदम्’ इत्यनुवृत्तौ ‘वृद्धाच्छः' इति छः । तस्य ईयादेशः । यास्कायनीया इति रूपम् । अत्र छात्रार्थकछप्रत्यये विवक्षिते युवार्थकफिञो लुकि “यस्येति च' इति इकारलोपे यास्कीया इति रूपमित्यर्थः । तस्यापत्यम् ॥ तद्धिता इति, प्रत्ययः, परश्च, इति चाधिकृतम् । तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः । तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते । कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायां ‘समर्थानाम्प्रथ माद्वा' इत्यधिकारात् प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धेपग्वादेरिति लभ्यते । प्रातिपदिकादित्य धिकृतम् । “घकालतनेषु कालनाम्रः’ इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलु ग्विधानात्सुपस्तद्धितोत्पत्तेर्ज्ञापितत्वात् सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोचारिते पदे उपस्थितत्वात् षष्ठयेव गृह्यते । ततश्च षष्ठयन्तादिति फलति । सामर्थ्यङ्कृत- सन्धिकार्यत्वमित्युक्तमेव । तदाह । षष्ठयन्तात्कृतसन्धेरिति 'सभर्थः पदविधिः’ इति परिभाषया लब्धमाह। समर्थादिति । विशिष्टैकार्थप्रतिपादकादित्यर्थः सुबन्तात्तद्धितोत्पत्त्या । तद्धितविधीनाम्पदविधित्वादिति भावः । उक्ता इति । 'प्राग्दीव्यतोऽण्’ इत्याद्या औत्सर्गिका इत्यर्थः ।वक्ष्यमाणाश्चेति । “ अत इञ्' इत्याद्या वैशेषिका इत्यर्थः । वा स्युरिति ॥ समर्थानाम्प्रथमाद्वा' इत्यधिकृतत्वादिति भावः । “अपत्यं पौत्रप्रभृति गोत्रम्' इति उत्तरसूत्र व्याख्यावसरे अपत्यशब्दो व्याख्यास्यते । औपगवः इति । उपगोरणि आदिवृद्धिः । ओर्गुणः । अवादेशः । अत्र प्रकृत्यैव उपगोर्लाभात् अपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणात्परत्वात् “अचो ञ्णिति' इति वृद्धिः स्यात् । ओर्गुणस्य पशव्य इत्यादौ चरितार्थत्वात् । कृते च गुणे अवादेशे सति * अत उपधायाः' इति वृद्धिर्दुर्निवारा । त्वष्टुरपत्यन्त्वाष्ट्रः, मघवतोऽपत्यं माघवतः, इत्यादौ गुणाप्रसक्त्या अन्त्योपधावृध्द्योर्निर्बाधत्वाच । नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाद्येते इति वाच्यम् । विप्रतिषेधे हि परस्य पूर्व बाधकता नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसम्भवात् | नाप्यन्त्योपधावृध्द्योरपवादः आदिवृद्धिरिति वक्तुं शक्यम् । सुश्रुतोऽपत्यं सौश्रुतः इत्यादौ अन्त्योपधावृद्योरप्राप्तयो रप्यादिवृद्धेः प्रवृत्तेः । तस्मादादिवृद्धिस्थले अन्त्योपधावृद्धी स्यातामित्यत आह । आदिवृद्धि रिति ॥ “अचो ञ्णिति' इत्यन्त्यवृद्धिम् “ अत उपधायाः' इत्युपधावृद्धिं च आदिवृद्धिर्बाधते इत्यर्थः । पुष्करसदोऽपत्यमित्यर्थे बाह्वादित्वादिञ्, ‘अनुशतिकादीनाञ्च' इत्युभयोः पदयोरादिवृद्धिः।

६७२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

तस्येदमित्यपत्येऽपि बाधनार्थे कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥' (वा २५८१-२५८४)


पुष्करसद्शब्दस्य अनुशतिकादौ पाठात् तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत तदा आदिवृद्या उपधावृद्या च पौष्करसादेः सिद्धत्वात् अनुशतिकादौ पुष्करसच्छब्दपाठो ऽनर्थकः स्यात् । अतस्तक्रकौण्डिन्यन्यायात् “सत्यपि सम्भवे बाधनं भवति, इति विज्ञायते’ इति भाष्ये स्पष्टम् । तस्येदमित्यपत्येऽपीत्यादि । श्लोकवार्तिकमिदम्। तत्र प्रथमचरणस्यायमर्थः। तस्येदमिति विहितः अण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्य मित्यण्विधानं व्यर्थमित्याक्षेपः । नच 'अत इञ्' इत्याद्युत्तरसूत्रार्थं 'तस्यापत्यम्' इत्यावश्य कमिति वाच्यम् । एवं हि सति “तस्यापत्यमत इञ्' इत्येकमेव सूत्रमस्तु । तथा च तस्यापत्यम्’ इति पृथक्सूत्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति । अत्र समाधत्ते। बाधनार्थे कृतम्भवेदिति । “तस्येदम्’ इत्यणम्बाधित्वा “वृद्धाच्छः ’ इति छः अपत्ये प्राप्तः, तद्वाधनार्थे तस्यापत्यम्’ इति पृथक्सूत्रङ्कृतमित्यर्थः । ननु ‘वृद्धाच्छः’ इति सूत्रं शेषाधिकारस्थम्, अपल्या दिचतुरर्थ्यन्तेभ्योऽन्यः शेषः । तथाच अपत्यार्थस्य शेषाधिकारस्थत्वाभावात् तस्मात्तत्र छप्रत्ययस्याप्रसक्तेस्तद्वाधनार्थत्व ' तस्यापत्यम्' इत्यस्य कथमित्यत आह । उत्सर्गः शेष एवासाविति । उत्सृज्यते अदन्तबाह्यादिप्रकृतिभ्यो वियुज्यते इत्युत्सर्गः । कर्मणि घञ् । अदन्तबाह्वादिभिन्नप्रकृतिसम्बद्धः अपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः । आक्षेप्तुर्हि 'तस्यापत्य मत इञ्' इत्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः, अदन्तबाह्यादिप्रकृतिसंयुक्तापत्यार्थ एव विनियुक्तः । न तु तद्रिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततश्च तस्य शेषत्वात्तस्मिन्नपयत्ये छस्य प्रसक्त त्वात् तद्वाधनार्थे 'तस्यापत्यम्’ इति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे अदन्तबाह्यादि रूपप्रकृतिसामान्यसयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसम्पादनद्वारा छबाधकत्वं 'तस्यापत्यम्’ इति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते । नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वात् छस्य नैव प्रसक्तिरिति किम्पृथक्सूत्रेणेत्यत आह । वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यम्भानवः इत्यादौ यानि भान्वादिप्रातिपदि कानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वादृद्धानि, तेभ्यः छप्रत्ययबाधनार्थे तस्यापत्यम्' इति पृथक्सूत्रमित्यर्थः । ननु “तस्येदम्' इत्यणि इदन्त्वेन बोधः । “तस्या पत्यम्’ इत्यणि तु अपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात्, “तस्येदमित्यपत्येऽपि इत्याक्षेप एवायमनुपपन्न इति चेन्न । एतद्वार्तिकभाष्यप्रामाण्येन “तस्येदम्' इति इदंशब्देन अपत्यस्य इदन्त्वेन ग्रहणाभावविज्ञानात् । “प्रदीयतान्दाशरथाय मैथिली ” इति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत् । कृतसन्धेः किमिति ॥ 'समर्थानाम्प्रथमाद्वा' इत्यधिकारसूत्रस्थ समर्थग्रहणलब्धं कृतसन्धेरित्येतत् किमर्थमिति प्रश्रः । सौत्थितिरिति ॥ सु शोभनः उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः । सूत्थितस्यापत्य सौत्थितिः, अत इञ्, सुब्लुक्, आदिवृद्धिः यस्येति च' इत्यकारलोपः । कृतसन्धेरित्यभावेतु सु उत्थित इत्यस्यामेव दशायां सवर्णदीर्घ त्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीर्घ

प्रकरणम्]
६७३
बालमनोरमा ।

योगविभागस्तु । भानोरपत्यं भानवः । “कृतसन्धेः' किम् । सौत्थितिः । अकृतव्यूहपरिभाषया साबुत्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगो रपत्यं चैत्रस्य । “ प्रथमात्' किम् । अपत्यवाचकात्षष्ठयर्थे मा भूत् । वा ग्रहणाद्वाक्यमपि । “दैवयाज्ञि–’ (सू १२०१) इति सूत्रादन्यतरस्याङ्कहणा नुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान्डीष् । औपगवी । आश्वपतः । दैत्यः | औत्सः | स्त्रैणः | पौस्नः |


कृते तदुत्तरमेव इञ्प्रत्यय उचितः । परादन्तरङ्गस्य बलवत्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्ते रप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह । अकृतेति ॥ अन्तरङ्गपरिभाषाया अप्यपवादभूतया अकृतव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृष्टद्यपेक्षया अन्तरङ्गोऽपि सवर्ण दीर्घः अकृतव्यूहपरिभाषया आदिवृद्धेः प्राक् न प्रवर्तते । एवञ्च सवर्णदीर्घत्प्रागेवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः । नच इञि सति कृते सवर्णदीर्घे उकारस्य जायमानया वृद्ध्या सवर्णदीर्घनिमित्तस्य कस्य चिद्विनाशाभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यम् । यदि सवर्णदीर्घो न स्यात्तदा सु उत्थित इत्यवस्थायां सकारादुकारस्य वृध्द्या औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्यादिति सम्भावनया अकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव । भाष्ये काप्यव्यवहृतत्वात् । प्रत्युत भाष्यविरुद्धत्वाच्च । 'विप्रतिषेधे परङ्कार्यम्' इति सूत्रभाष्ये हि परादन्तरङ्गं बलीयः इत्युक्ता सौत्थितिरित्यत्र परामप्यादिवृद्धिम्बाधित्वा अन्तरङ्ग एकादेश इत्युक्तम् । पदस्य विभज्यान्वा ख्याने सु उत्थित इति स्थिते परत्वाद्वृद्धिः प्राप्ता । अन्तरङ्गत्वादेकादेश इति कैयट: । अकृत व्यूहपरिभाषासत्वे तदसङ्गतिः स्यष्टैव । सेदुष इत्यादौ अकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितैवेत्यास्तान्तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । वस्त्रमुपगोरपत्यञ्चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण् न भवति । उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्सम्बन्ध्यपत्ये प्रत्ययावधानात् इह च अपत्यस्य तच्छब्दवाच्पयोगुसम्बन्धाभावादेव अत्र प्रत्ययस्य न प्रसक्तिः । तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामथ्र्यमेकार्थीभावलक्षण माश्रयणीयामिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तस्येत्यर्थे औपगवो देवदत्तः इति माभूदित्यर्थेः । प्रथमादित्युक्तौ तु “तस्यापत्यम्’ इति सूत्रे षष्ठयन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तात् न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति ॥ वाग्रहणाभावे हि तद्धितस्य नित्यत्वादुपगोरपत्यमिति वाक्यं स्यादिति भावः । ननु उपग्वपत्य मिति कथं षष्ठीसमासः । तद्वितानां समासापवादत्वात् । नच तद्धितानाम्पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निबोध इति वाच्यम् । “ अपवादेन मुक्ते उत्सर्गो न प्रवर्तते ' इति “पारमध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादित्यत आह । दैवयज्ञीति सूत्रादिति ॥ जाति त्वादिति ॥ अपत्यार्थकाणन्तस्य औपगवशब्दस्य “गोत्रञ्च चरणैः सह” इति जातित्वात् डीषित्यर्थः । आश्वपत इति ॥ अश्वपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं ण्यं बाधित्वा 85

६७४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१०८९ । अपत्यं पौचप्रभृति गोत्रम् । (४-१-१६२)

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञ स्यात् ।

१०९० । जीवति तु वंश्ये युवा । (४-१-१६३)

वंश्ये पित्त्रादौ जीवति पौत्त्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव, न तु गोत्रसज्ञम्


अश्व।त्यादिभ्यश्च' इत्यणिति भावः । दैत्य इति ॥ दितेरपत्यमिति विग्रहः। 'दित्यदिति' इति ण्यः अणपवादः। औत्स इति । उत्सः कश्चित्, तस्यापत्यमिति विग्रहः । 'उत्सादिभ्योऽञ् इत्यञ् । इजाद्यपवादः। स्वरे विशेषः । त्रैणः। पौंस्न इति । स्त्रिया अपत्यं, पुंसोऽपत्यमिति विग्रहः । ‘स्त्रीपुंसाभ्याम्' इति नञ्स्नौ । अणोऽपवादः । अपत्यम् ॥ अपत्याधि कारात् सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह । अपत्यत्वेन विवक्षितमिति ॥ एवञ्च पौत्त्रत्वेन विवक्षितानां पौत्त्रादीनां न गोत्रसज्ञेति भावः । “सन्ततिर्गेत्रजननकुलान्य भिजनान्वयौ ” इति कोशतः गोत्रशब्दस्य सन्ततिवाचकत्वात् पुत्त्रस्यापि गोत्रत्वे प्राप्ते पैौत्त्रादिग्रहणादिह शात्रे पुत्त्रस्य न गोत्रत्वम् । ननु “ आत्मजस्तनयः सूनुः सुतः पुत्त्रस्त्रि यान्त्वमी । आहुदुहितरं सर्वेऽपत्यन्तोकन्तयोः समे” इत्यादिकोशात् अपत्यशब्दस्य पुत्त्र एव रूढत्वात् कथम् “अपत्यं पौत्त्रप्रभृति' इति सामानाधिकरण्यमिति चेन्मैवम् । अपत्यशब्दो हि नात्मजपर्यायः, किन्तु पुत्तूपौत्तादिसन्ततिपर्यायः । न पतन्ति नरके पितरो येन तदपत्यमिति 'पङ्क्तिविंशति' इति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्त्रादयोऽपि पितामहादीनान्नरका दुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति “एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच महा भारतादौ च जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वात् उपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्त्वाद्रोत्रं स्यादिति वाच्यम् । यस्य यः पौत्रादिः तस्य तद्भोत्रमिति व्याख्यानादित्यलम् । जीवति । वंशः उत्पादकपित्रादिपरम्परा । तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह । वंश्ये पित्त्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौतूादीत्यनुवृत्त षष्ठया विपरिणम्यते इति भावः । यदपत्यमिति ॥ “तस्यापत्यम्' इत्यतस्तदनुवृत्तेरिति भावः । तुरवधारणे युवेत्यनन्तरं । द्रष्टव्यः । तदाह । युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन् न समावेश इति भावः । युवसंज्ञया सह गोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः इञ् । पैलादिगणे शालङ्कीति पाठात् प्रकृतेः शालङ्कादेशश्च । शालङ्करपत्यं युवापि शालङ्किरेव । 'यञञोश्च' इति फक् । पैलादिभ्यश्च' इति तस्य लुक् । शालङ्केर्यूनः छात्रा इत्यर्थे ‘इञश्च' इत्यणि शालङ्का इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । 'पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव ।'अणो द्व्यचः' इति फिञ् ‘। 'पैलादिभ्यश्च' इति तस्य लुक् । पैलस्य यूनः छात्राः इत्यर्थे वृद्धाच्छः । पैलीया इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति

प्रकरणम्]
६७५
बालमनोरमा ।

१०९१ । भ्रातरि च ज्यायसि । (४-१-१६४)

ज्येष्ठ भ्रातरि जीवति कनीयांश्चतुर्थादिर्युवसंज्ञश्च स्यात् ।

१०९२ । वान्यस्मिन्सपिण्डे स्थविरतरे जीवति । (४-१-१६५)

भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्त्रप्रभृतेरपत्यं जीवदेव युव संज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहभ्रातरि वा जीवति । गार्ग्यस्यापत्यं गार्ग्यायण:-गार्ग्यो वा । “ स्थविर-' इति किम् । स्थानवयोन्यूने गार्ग्य एव । “ जीवति' इति किम् । मृते मृतो वा गार्ग्य एव । ' वृद्धस्य च पूजायामिति वाच्यम् ' (वा २६५४) । गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्र भवान्गार्ग्यायणः| ' पूजा-' इति किम् । गार्ग्यः ।' यूनञ्च कुत्सायां गोत्रसंज्ञेति वाच्यम् (वा २६५१) । गार्ग्यो जाल्म : । “कुत्सा-' इति किम् । गार्ग्यायणः ।


फक्फिञोः अलुक् प्रसज्येतेत्यलम् । भ्रातरि च ज्यायसि ॥ जीवतीत्यनुवर्तते । तदाह । ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः । पौत्रप्रभृतीत्यनुवृत्तं षष्ठया विपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्त्रादेरपत्यमित्यर्थः । फलितमाह । चतुर्था दिरिति ॥ मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् । वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे । पौत्त्रप्रभृतेरपत्यञ्जीवदेव युवसंज्ञं स्यादिति । सपिण्डास्तु स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषा: । एवम्मातृवंशेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः अतिवृद्धः । जीवतीति सप्तम्यन्त मनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रत्यन्तु जीवतिपदं तिडन्तम् अपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति साति पौत्रप्रभृते रपत्यञ्जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीय मिति । अनुवर्तमानमित्यर्थः । उभयोरिति हेतुत्वसम्बन्धे षष्ठी । उभयहेतुकोत्कर्षवाचक स्तरबित्यर्थः । तदेव विवृणोति । स्थानेन वयसा चेति । स्थानतः उत्कृष्टः पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो मातामहः । भ्रातरीति सन्निहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित्, पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति ॥ जीवतिद्वयस्य किम्प्रयोजनमिति प्रश्रः । मृते मृतो वा गाग्र्य एवेति । मृते सपिण्डे चतुर्थो गार्ग्य एव । मृतश्च चतुर्थो गार्ग्य एवेत्यर्थः । वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति । गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेव वृद्धमिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः । तथाच वार्ति कस्य फलितमर्थमाह । गोत्रस्य युवसंज्ञा पूजायाङ्गम्यमानायामिति । उदाहरति ।

६७६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१०९३ । एको गोत्रे । (४-१-९३)

गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोगर्योत्रापत्यमौपगवः । गार्ग्यः । नाडायनः|


तत्रभवान् गाग्र्यायण इति । तत्रभवानिति पूज्यवाची , युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । ताङ्गोत्रप्रभृतिस्तृतीयोऽपि मन्यते । अत्र युवसंज्ञाविधि सामर्थ्यात्स्वार्थे युवप्रत्ययो बोद्यः । गार्ग्यो जाल्म इति । यो वृद्धाननादृत्य स्वातन्त्र्य म्भजते तद्विषयमिदम् । एको गोत्रे । सङ्ख्याविशेषोपादाने तदितरसङ्खयाव्यवच्छेदस्य स्वभावसिद्धत्वात् एक एवेति गम्यते । अपत्याधिकारात्प्रत्ययाधिकाराच्च अपल्यप्रत्यय इति तद्विशेष्यलाभः | तदाह | गोत्रे एक एवापत्यप्रत्ययः स्यादिति || औपगव इति || उपगोगोत्रापत्ये “तस्यापत्यम्’ इत्यण् । गार्ग्य इति ॥ गर्गस्य गोत्रापत्ये गर्गादिभ्य इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये 'नडादिभ्यः' इति फक् । गोत्रे एक एव प्रत्ययः स्यादित्येवोक्तौ तु अनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिञ्प्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्येत । अतोऽपत्यग्रहणमित्याहुः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमिति चेन्मैवम् । अपत्यशब्दो हि पुत्त्र एव रूढ इत्येकः पक्षः । पुत्त्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत् “अपत्यं पौत्तूप्रभृति' इति सूत्रव्याख्यावसरे प्रपञ्चितश्चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुम्प्रत्यपत्यत्वाभावात् तस्यापत्यम्’ इत्यण् न सम्भवति । ततश्च उपगुपुत्त्रे वाच्ये 'तस्यापत्यम्’ इत्यणा औपगव शब्दे व्युत्पादिते सति औपगवस्यापत्ये वस्तुतः उपगोः तृतीये गोत्रे विवक्षिते औपगवशब्दात् अत इञ्' इति इञि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगो स्तृतीये विवक्षिते उपगोरण् औपगवादिञिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्य निष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतः अणेव, न त्विञ्, अदन्तत्वाभावात् । विहिते च तस्मिन् औपगवादिञपि निवर्तते। गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वयमाला निवर्तते । एवमुपगोश्चतुर्थे विवक्षिते तस्य उपगुन्तत्पुत्रञ्च प्रत्यपत्यत्वा भावात् पौत्तूम्प्रत्येवापत्यत्वादौपगविशब्दात् “यञिञोश्च' इति फकि प्रकृतित्रयादनिष्टा औप गवायन इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिञि औपगवायनिः इत्येवं प्रकृतिचतुष्टयात् प्रत्ययचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दा त्फकि औपगवायनायन इत्येवं प्रकृतिपञ्चकात् पञ्च प्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः अत्र तृतीयप्रभृति कस्मिश्धिद्गोत्रे विवक्षिते उपगुम्प्रत्यनपत्येऽपि तस्मिन् “एको गोत्रे' इत्यणेव

प्रकरणम्]
६७७
बालमनोरमा ।

गोत्रे खैकोनसङ्ख-यानां प्रत्ययानां परम्परा ।
यद्वा स्वद्व-यूनसङ्खयेभ्योऽनिष्टोत्पत्तिः प्रसज्यते ।
अपत्यं पितुरेव स्यात्तत: प्राचामपीति च
मतभेदेन तद्वान्यै सूत्रमेतत्तथोत्तरम् ।


पितुरेवापत्यमिति पक्षे ह्यपगोस्तृतीये वाच्ये औपगवादिञ्स्यात् । चतुर्थे त्व जीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे


भवति । नतु इञादि । यदा त्वपत्यशब्दः पुत्त्रपौत्त्रादिसाधारणः तदा यद्यपि उपगोरनन्तरा पत्ये पुत्र इव पौत्त्रादिष्वपि विवक्षितेषु ‘तस्यापत्यम्’ इत्यणि औपगव इतीष्ट सिद्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययः अनिष्टः इति पर्यवस्यति |एवमुपगोश्चतुर्थे विवक्षिते उपगोरणा इष्टे उपगोरणि औपगवः, तस्मादिञि औपगविः तस्मात्फकि औपगवायनः, इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत| तत्रापि उपगोर्मूलप्रकृतेरणिष्ट एव| इञ्फकौ तु प्रत्ययावनिष्टौ । तथाच उपगो श्रतुर्थे तु विवक्षिते द्वितीयस्मादेक: अनिष्टप्रत्ययः तृतीयस्मादन्य इत्येवं प्रकृतिद्वया दनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवम्पञ्चमे प्रकृतित्रयात् त्रयः प्रत्ययाः । षष्ठे प्रकृति चतुष्टयात् चत्वारः प्रत्ययाः इत्येवम्मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः । तत्र “एको गोत्रे' इति नियमविधिः । गोत्रे एक एव प्रत्ययः स्यादिति । तत्रापि प्रथमातिक्रमे कारणाभावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः “एके मुख्यान्यकेवलाः इत्यमरः । मुखे भवो मुख्यः प्रथमः |" एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा” इति कोशान्तरम् । तथाच प्रथमः मूलप्रकृतेरिव गोत्रे विवक्षिते स्वयोग्यप्रत्ययलम्भ इति व्याख्यान्तरम् । तदेतत्सर्वं श्लोकद्वयेन सङ्गृण्हाति । गोत्रे स्वैको नेति । अत्र प्रथमश्लोकान्ते श्रुतं प्रसज्यते इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि सम्बध्यते| तत्र स्वं गोत्रं मूलपुरुषोपग्वपेक्षया यत्सङ्खयाकं तदपेक्षया एकोनसङ्खयाकानां अनिष्टप्रत्ययानां पर म्परैवोक्तरीत्या प्रसज्येत । नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिद्यतीत्यर्थः । यद्वेति ॥ स्वं गोत्रं तत्मूलपुरुषोपग्वपेक्षया यत्सङ्खयाकं तदपेक्षया द्वयूनसङख्याकप्रकृतिभ्यः तावतां प्रत्यया। नामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्य इत्यर्थः । ननु कथमिदम्पक्षद्वयमित्यत आह । अपत्यमि त्यादि मतभेदेनेत्यन्तम् । पुत्र एवापत्यमिति पक्षे प्रथमः पक्ष उन्मिषति । पुत्रपैौत्रादि साधारणोऽपत्यशब्द इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः| तद्धान्यै इति ॥ तस्य उक्तप्रकाराभ्याम् अनिष्टोत्पादनस्य हानिः निवृत्तिः तदर्थमिदमित्यर्थः । तथोत्तरमिति । गोत्राद्यून्यस्त्रियाम्' इत्युत्तरसूत्रमपि तथा योज्यमित्यर्थः| तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टम्प्रपञ्चयति | पतुरेवेत्यादिना ॥ औपगवादिञ् स्यादिति । 'अत इञ् इत्यनेनेति शेषः । औपगवादेव इञ् स्यात् नतु उपगोरणित्यर्थः । तृतीयस्य उपगुम्प्रत्यपत्य त्वाभावादिति भावः| चतुर्थे त्वित्यतः पूर्वमुपगेोरिति शेषः । अजीवज्ज्येष्ठे इति ॥ जीवन्

६७८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽप्यण्णन्तादिञपि स्यात्। ततश्चतुर्थे फगिति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतेरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् ।

१०९४ । गोत्राद्यून्यस्त्रियाम् । (४-१-९४)

यून्यपत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ।


ज्येष्ठो यस्येति विग्रहः। जीवति तु ज्येष्ठ चतुर्थस्य ‘भ्रातरि च ज्यायसि’ इति युवसंज्ञथा गोत्रत्व म्बाध्येतेति भावः । मृतवंश्ये इति । मृतः वंश्यो यस्येति विग्रहः । वश्ये 'जीवति तु वंश्ये युवा इति युवसज्ञया गात्रत्वम्बाध्येतेति भाव |औपगवे फगिति ||'यञिञोश्च' इत्यनेनेति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतम्प्रत्यया अनिष्टाः स्युरित्यर्थः । अथापत्यशब्दः पुत्तूपौत्तादिसाधारण इति पक्षे अनिष्टम्प्रपञ्चयति । पिता महादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात् “अपत्यं पौत्त्रप्रभृति इति सूत्रस्वरसाञ्च बोद्यम् । इष्टे सिद्धेऽपीति ॥ तृतीयादीनामप्यपत्यत्वेन तत्र “तस्या पत्यम्’ इत्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति ॥ प्रकृतिभ्यः इति शेषः । अनिष्टप्रत्ययाः स्युरिति । अष्टनवतिरिति शेषः । नियमार्थ मिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपक्षे । तथाऽपि गर्गात्तृती यादिषु विवक्षितेषु गोत्रविहितगर्गादियञा गाग्र्यायणशब्दश्येष्टस्य सिद्धावपि गर्गादिञि ततः फिञित्येवम्प्रत्ययपरम्पराप्यनिष्टा प्राप्तोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः । एवमुत्तरसूत्रऽप्यूह्यामिति || तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते । गोत्रायून्यस्त्रियाम् । गर्गस्य गोत्रं गार्ग्यः, गर्गस्य तृतीयः 'गर्गादिभ्यः' इति गोत्रे यञ् । गार्ग्यस्य तृतीयः स गर्गस्य पञ्चमो युवापत्यं, तस्मिन्बुबोधयिषिते गार्ग्यशब्दात् गोत्रप्रत्ययान्तात् “यञञोश्च' इति फकि गार्ग्यायण इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु गार्ग्यायण इत्येवेष्यते । तदिदमपत्यशब्दःपुत्रपौत्रादिसाधारणपक्षे यद्यपि सुलभमेव । गर्गात्तृतीयङ्गार्ग्यम्प्रति पञ्चमादीना मप्यपत्यत्वात् । तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथाच गर्गस्य अनन्तरापत्ये इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि गार्गायण इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाभावात् यञभावे इञि गार्गिः। तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि गार्गायण इति स्यात् । गोत्रप्रत्य यान्तादेव गार्ग्यशब्दात् गर्गस्य पञ्चमाद्यपत्ये यूनि फकि गार्ग्यायण इत्येवेष्यते । तदर्थङ्गोत्र प्रत्ययान्तादेव यूनि प्रत्यय इति नियमः क्रियते गोत्रायूनीति । तदाह । यून्यपत्ये गोत्र प्रत्ययान्तादेवेति ॥ नतु मूलप्रकृतेस्तदनन्तरापत्यात् 'यूनश्च' इति शेषः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात् । नतु

प्रकरणम्]
६७९
बालमनोरमा ।

१०९५ । अत इञ् । (४-१-९५)

अद्न्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठयन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ।

१०९६ । बाह्वादिभ्यश्च । (४-१-९६)

बाहविः । औडुलोमिः । आकृतिगणोऽयम् ।

१०९७ । सुधातुरकड् च । (४-१-९७)


चतुर्थतृतीयवाचिगोत्रप्रत्ययान्तादिति । तत्र विध्यर्थमेवेदं स्यात्, नतु नियमार्थमिति वाच्यम् । पुत्रपौत्रादिसाधारणोऽपत्यशब्द इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । स्त्रियान्तु न युवसंज्ञेति ॥ इह अस्रियामिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते तथाच स्त्री उक्तयुवसंज्ञका नेति फलितमिति भावः | नच स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते । एवं सत्येकवाक्यत्वलाभादिति वाच्यम् । पञ्चमादिषु युवतिषु प्रत्ययमालाप्रसङ्गात् । नच “एको गोत्रे' इति नियमात्तन्निवृत्तिः सम्भवतीति वाच्यम् । युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागे स्त्रियान्न युवप्रत्यय इति व्याख्यायतामिति वाच्यम् । गोत्रप्रत्ययेन युवत्यभिधानानापत्ते रित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गार्ग्यशब्दात् गोत्रे यञन्तात्फकि गार्ग्यायण इति रूपमित्यर्थः । स्त्रियो युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति । स्त्रिया मिति । पञ्चमादियुवतीनां युवसंज्ञाविरहेण गोत्रत्वात् “एको गोत्रे' इति नियमा द्गार्गीत्येव भवति, नतु गार्ग्यायणीति रूपमित्यर्थः । स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थाश्रयणे तु युवसंज्ञया गोत्रसज्ञाया बाधात् 'एको गोत्रे' इत्यस्याप्रवृत्तेः प्रत्ययमाला स्यादिति भावः । अत इञ् । प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः । तदाह । अदन्तं यत्प्रातिपदिकमिति । “तस्यापत्यम्' इयनुवृत्तं “समर्थानां प्रथमाद्वा' इति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धम् । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात् षष्ठेघव विवक्षिता । तथाच षष्ठयन्तात्प्रातिपदि कादिति लभ्यते । यद्यपि प्रातिपदिकन्न षष्ठयन्तम् । प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमु दायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिकषष्ठयन्तादित्यर्थो विवक्षितः । तदाह । तत्प्रकृतिकात्षष्ठयन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ्, आदि वृद्धिः, 'यस्येति च' इत्यकारलोपः । “प्रदीयतान्दाशरथाय मैथिली' इति त्वार्षमिति ‘तस्या पत्यम्' इत्यत्र निरूपितम् । प्रातिपदिकग्रहणाननुवृत्तौ तु अदन्तात्षष्ठयन्तादिति लभ्येत । तथाच दक्षयोपरत्यं दाक्षिरिति न सिद्येदिति भावः । बाह्वादिभ्यश्च । अपत्ये इञिति शेषः। बाहविरिति ॥ बाहुर्नाम कश्चिदृषिः, अथ ऋषय इत्यधिकृत्य “बाहविः गार्ग्यगौतम” इत्याश्वलायनसूत्रे दर्शनात् । बाहोरपत्यमिति विग्रहः । इजि ओर्गुणः । औडुलोमिरितिस्थूलाक्षरैः युक्तः भागः ॥ उडुलोस्रोऽपत्यमिति विग्रहः । इञि 'नस्तद्धिते' इति टिलोपः । आदिवृद्धिः, अदन्तत्वाभावा दप्राप्तिः । सुधातुरकङ्च ॥ चादिञिति ॥ सुधातृशब्दात्षष्ठयन्तादपत्येऽर्थे इञ्प्रत्ययः ।

६८०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

चादिञ् । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचाण्डालबि म्बानां चेति वक्तव्यम्' (वा २६११) ।

१०९८ । न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् । (७-३-३)

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः । किं तु ताभ्यां पूर्वो क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः इत्यादि ।

१०९९ । गोत्रे कुञ्जादिभ्यः च्फञ् । (४-१-९८)

११०० । ब्रातच्फञोरस्त्रियाम् । (५-३-११३)

ब्रातवाचिभ्यश्फञ्न्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जा यन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्य: । स्त्रियां कौञ्जायनी । गोत्रत्वेन जातित्वान्ङीष्। अनन्तररापत्ये कौञ्जिः ।


प्रकृतेरकडादेशश्चेत्यर्थः । अकडो डकार इत्, अकार उच्चारणार्थः । डिचेत्यन्तादेशः । तदाह । सौधाताकेिरिति ॥ व्यासेति । व्यास, वरुड, निषाद, चण्डाल, बिम्ब, एभ्यश्च इञि प्रकृतेरकडादेश इत्यर्थः । न य्वाभ्याम् ॥ थ् च वश्च य्वाविति विग्रहः । वकारादकार उच्चार णार्थः । तदाह । यकारवत्काराभ्यामिति ॥ परस्येत्यध्याहारलभ्यम् । न वृद्धिरिति ॥ मृजेर्वृध्दिरित्यस्तदनुवृत्तेरिति भावः । तुशब्दो विशेषप्रदर्शनार्थः इत्याह । किन्त्विति । ताभ्याति ॥ यकारवकाराभ्यामित्यर्थः । पूर्वाविति ॥ पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते । तदाह । ऐचवावागमाविति ॥ ऐच् प्रत्याहारः । यथासङ्खयं यकारात्पूर्व ऐकार वकारात्पूर्व औकारः । वैयासकिरिति ॥ वेदान्व्यस्यति विविधमस्यति शाखाभेदेन विभ जतीति वेदव्यासः, कर्मण्यण् | नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः प्रकृतेरडादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदि वृद्धिः प्राप्ता न भवति । किन्तु यकारात्पूर्वः ऐकार आगमः । वैयासकिरिति रूपम् । स्वश्वस्या पत्यं सौवश्विरित्यत्र वकारात्परस्य न वृद्धिः, ततः पूर्व औकारः । नच ऐचोर्वृध्यपवादत्वादेव वृध्द्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यम् । यत्र य्वाभ्याम्परस्य प्रसक्ताया वृद्धेः निषेधः तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात् । तेन दाध्यश्चिरित्यादौ न वृद्धिनिषेधोऽयं येन नाप्राप्ति न्यायेन आदिवृद्धेरेव । तेन द्वे अशीतिभृतो द्यशीतिक इत्यत्र 'सङ्ख्यायाः संवत्सरसङ्खयस्य च' इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः, नैषादकिः, चाण्डालकिः, बैम्बकिः । गोत्रे कुञ्ज ॥ स्पष्टम् । इञोऽपवादः । च्फाञि चञावितौ । व्रातच्फञोः ॥ व्रातश्च च्फञ्च इति द्वन्द्वाद्यत्ययेन पञ्चम्यर्थे षष्ठी । तदाह । व्रातवाचिभ्य इतिस्वार्थे ञ्यः स्यादिति ॥ “पूगाञ्ञ्यो ग्रामणीपूर्वात्' इत्यतः ञ्य इत्यनुवर्तते । स च स्वार्थिकः । “ञ्यादयः प्राग्वुनः’ इति स्वार्थिकेषु परिगणनादिति भावः । कौञ्जायन्य इति ॥ कुञ्चस्य गोत्रापत्य मिति विग्रहः । च्फञि चञावितौ आयन्नादेशः, आदिवृद्धिः, ततो ञ्यः ञकार इत् “यस्येति च इत्यकारलोपः । तद्राजत्वादिति ॥ ‘ज्यादयस्तद्राजाः' इति वचनादिति भावः। लुग्वक्ष्यते

प्रकरणम्]
६८१
बालमनोरमा ।

११०१ । नडादिभ्यः फक् । (४-१-९९)

गोत्रे' इत्येव । नाडायनः । चारायण: । अनन्तरो नाडिः ।

११०२ ॥ हरितादिभ्योऽञः । (४-१-१००)

एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सा मर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः ।

११०३ । यञिञोश्च । (४-१-१०१)

गोत्रे यौ यञिञौ तदन्तात्फक्स्यात् । “ अनाति इत्युक्तेः * आपत्य स्य–' (सू १०८२) इति यलोपो न । गार्ग्यायणः । दाक्षायणः ।

११०४ । शरदृच्छुनकदर्भाद्भृगुवत्साग्रायणेषु । (४-१-१०२)

गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्ग वश्चेत्, शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत्, शौनकोऽन्यः । दार्भायणः आग्रायणश्चेत्, दार्भिरन्यः


इति ॥ 'तद्राजस्य बहुषु' इत्यनेनेति शेषः । ब्रान्धायन्य इति ॥ ब्रान्धस्य गोत्रापत्यमिति विग्रहः । च्फञादि पूर्ववत् । ञ्यविधावस्त्रियामित्यस्य प्रयोजनमाह । स्त्रियाङ्कौञ्जायनीति ॥ कुञ्चस्यापत्यं स्त्री इति विग्रहः । स्त्रीत्वादिह नञ्प्रत्यय इति भावः । अदन्तत्वादिह टापमाशङ्कय आह । गोत्रत्वेनेति ॥ कृते तु ञ्यप्रत्यये योपधत्वाज्जातिलक्षणङीषभावे टाप् स्यादिति भावः । च्फञ्विधौ गोत्रग्रहणस्य प्रयोजनमाह । अनन्तरापत्ये कौ ञ्जिरिति ॥ नडादिभ्यः फक् ॥ इञोऽपवादः । अनन्तरो नाडिरिति ॥ अनन्तरा पत्यस्य गोत्रत्वाभावात् फगभावे इञेवेत्यर्थः । हरितादिभ्योऽञः ॥ इत्यादि स्पष्टम् । यञिञोश्च ॥ गोत्रे इत्यधिकृतं याञिञोर्विशेषणम्, नतु विधेयस्य फकः, व्याख्या नात् । तदाह । गोत्रे यौ यञिञाविति ॥ सामर्थ्याद्यून्ययम् । न हि गोत्रापत्यात् गोत्रप्रत्ययोऽस्ति । “एको गोत्रे ' इति नियमात् । अनातीति ॥ गर्गस्य गोत्रङ्गार्ग्यः गर्गादित्वाद्यञ् । गार्ग्यस्यापत्यं युवेत्यर्थे यञन्तात् फकि आयन्नादेशे अनातीति पर्युदासात् 'आपल्यस्य च' इति यलोपाभावे णत्वे गार्ग्यायण इति रूपमित्यर्थः । दाक्षायण इति ॥ दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः, इञन्तात्फक् । गोत्रे किम् । सुतङ्गमस्यादूरभवः इत्यर्थे 'सुतङ्गमादिभ्य इञ्’ इति इञि सौतङ्गमेरपत्ये न फक् । शरद्व च्छुनक ॥ शेषपूरणेन सूत्रं व्याचष्टे । गोत्रे फगिति ॥ आद्यौ बिदादी इति ॥ शरद्ध च्छुनकशब्दौ बिदादी । अतः तदुभयविषये अपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः कश्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेति कश्चिदृषिः,

६८२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११०५ । द्रोणपर्वतजीवन्ताद्न्यतरस्याम् । (४-१-१०३)

एभ्यो गोत्रे फग्वा । द्रौणायणः-द्रौणिः । पार्वतायनः-पार्वतिः । जैव न्तायनः-जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।

११०६ । अनृष्यानन्तर्ये बिदादिभ्योऽञ् । (४-१-१०४)

एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्त्रादयस्तेभ्य आनन्तर्ये । सूत्रे स्वार्थे ष्यञ् । बिद्स्य गोत्रापत्यं बैदः । अनन्तरो बैदिः । बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्य पौत्त्रः । दौहित्रः ।

११०७ । गर्गादिभ्यो यञ् । (४-१-१०५)

' गोत्रे ' इत्येव । गार्ग्य: । वात्स्य: ।

११०८ । यञ्ञोश्च । (२-४-६४)


नडादिफगन्तोऽयम् । द्रोणपर्वत। अनादिरिति। अश्वत्थान्नः पिता यो महाभारते कल्पादौ प्रसिद्धः तदपेक्षया अन्य एवायं अनादिर्द्रोण इत्यर्थः । अश्वत्थाम्नीति ॥ द्रोणाचार्यस्यान न्तरापत्ये अश्वत्थान्नि द्रौणायन इति प्रयोग इत्यर्थः । तदिदं “बाह्वादिभ्यश्च' इति सूत्रे भाष्ये स्पष्टम् । अनृष्यानन्तर्ये ॥ अनृषीति लुप्तपञ्चमीकम् । बिदादिभ्योऽञ् इति द्विरावर्तते । तथाच 'अमृष्यानन्तर्ये बिदादिभ्योऽञ्’ इति कृत्स्रमेक वाक्यम् । बिदादिभ्योऽञ् इति वाक्यान्तरम् । तत्र द्वितीयं वाक्यं व्याचष्टे । एभ्योऽञ् गोत्रे इति ॥ गोत्रे विवक्षिते बिदादिभ्यः अञ् स्यादित्यर्थः । अथ प्रथम वाक्यं कृत्नसूत्रं व्याचष्टे । ये त्विति ॥ अनृषिः भ्यो बिदादिभ्यः अनन्तरापत्ये अञ् स्यादित्यक्षरार्थः । बिदादौ हि ऋषयः अनृषयश्च पठिताः । तत्र ये अनृषयः तेभ्योऽनन्तरापत्य अञिति फलितमिति भावः । ननु आनन्तर्ये इति श्रवणा दनन्तर इति कथमित्यत आह । सूत्रे स्वार्थे ष्यञिति ॥ अनन्तरशब्दादिति शेषः । चतुर्वर्णादित्वादिति भावः । बिद्रस्य गोत्रापत्यं बैद इति ॥ बिदस्य ऋषित्वात्ततो गोत्र एवाञिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । ननु अनन्तरापत्ये अञभावे इञपवादः ऋष्यणेवोचित इति कथमनन्तरो बैदिरित्यत आह । बाह्वादेरिति ॥ बिदादिगणस्थादनृषेः रनन्तरापत्ये अञदाहरति । पौत्त्रः । दौहित्र इति ॥ पुत्रस्यानन्तरापत्यमिति दुहितुरनन्त रापत्यमिति च विग्रहः । यथायथमणिञोरपवादः अञ् । गर्गादिभ्यो यञ् ॥ गार्ग्यः । वा त्स्य इति ॥ गर्गस्य गोत्रापत्यमिति वत्सस्य गोत्रापत्यमिति च विग्रहः । रामो जामदग्न्यः पाराशर्यो व्यासः इत्यादैौ तु अनन्तरापत्ये गोत्रत्वारोपाद्यञित्याहुः । यञञोश्च । द्वितीय चतुर्थपादे इदं सूत्रम् । नत्विदञ्चातुरर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजस्येति वर्जमनुवर्तते । ण्यक्षत्रिय' इत्यतो लुगिति 'यस्कादिभ्यो गोत्रे' इत्यतो गोत्रे इति च । तदाह । गोत्रे

प्रकरणम्]
६८३
बालमनोरमा ।

गोत्रे यद्यञन्तमञन्तं च तद्वयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गा: । वत्साः । बिदाः । उर्वा: । “तत्कृते' इति किम् । प्रिय गार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । “' । गात्र किम् । द्वैप्याः । औत्साः प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्त्राः । दौहित्राः ।

११०९ । मधुबोर्वाह्मणकौशिकयोः । (४-१-१०६)

गोत्रे यञ् । माधव्यो ब्राह्यण: । माधवोऽन्य: । बाभ्रव्यः कौशिकार्षिः । बाभ्रवोऽन्यः । बभ्रशब्दस्य गर्गादिपाठात्सिद्धेऽपि नियमार्थमिदम् । गर्गादि पाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ।

१११० । कपिबोधादाङ्गिरसे । (४-१-१०७)

गोत्रे यञ्स्यात् । काप्यः । बौध्यः । 'अङ्गिरसे' किम् । कापेयः । बौधिः |


यदिति ॥ एतयोरिति ॥ यञञोरित्यर्थ । प्रत्ययादर्शनस्यैव लुक्त्वादिति भावः । तत्कृते इति ॥ यञञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गा इति ॥ गर्गस्यापत्यानीत्यादि विग्रहः । प्रियगाग्र्या इति ॥ प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यञ्जर्थगतबहुत्वाभावान्न लुगिति भावः । द्वैप्या इति ॥ द्वीपे भवा इत्यर्थः । “द्वीपादनुसमुद्रम्' इति यञ् । औत्सा इति ॥ उत्से भवा इत्यर्थः । “उत्सादिभ्योऽञ्' इहोभयत्रापि यञ्जोगत्रवाचित्वाभावान्न लुगिति भावः । ननु पौत्ताः दौहित्राः इत्यत्राप्यनृषिबिदादिलक्षणाओो लुक् स्यात् । नच तस्यानन्तरा पत्यवाचित्वाद्गोत्रवाचित्वाभावान्न लुगिति वाच्यम् । 'यूनि लुक्' इति सूत्रभाष्ये अपत्याधि कारादन्यत्र लौकिकमेव गात्रं गृह्यते इति सिद्धान्तितत्वादित्यत आह । प्रवरेति ॥ “कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः । जमदन्निर्वसिष्ठश्च सतैते ऋषयः स्मृताः ॥ तेषां यदपत्यं तद्रेोत्रमित्याचक्षते' इति बोधायनीयादिप्रवराध्द्यायप्रसिद्धाः भार्गवादय एवेह गोत्र त्वेन विवक्षिता इत्यर्थः । कैयटेन लौकिकस्य गोत्रस्य ग्रहणमिति भाष्यमुपादाय तथैव व्याख्यात त्वादिति भावः । एवञ्च पौत्राः दौहित्राः इत्यादौ पौत्रदौहित्रयोः तथाविधगोत्रवावित्वाभावान्न लुगिति स्थितम् । विस्तरस्तु शब्दन्दुशेखरे ज्ञेयः । मधुबभ्रोः ब्राह्मणकौशिकयोः ॥ शेषपूरणेन सूत्रं व्याचष्टे । गोत्रे यञिति ॥ मधुशब्दाद्वभ्रशब्दाच गोत्रापत्ये यञ् स्यात् । ब्राह्मणे कौशिके च यथासङ्खयं वाच्ये इत्यर्थः । लोहितादिकार्यमिति ॥ ष्फ इत्यर्थः । लोहि तादिर्गर्गाद्यन्तर्गण इति भावः । बाभ्रव्यायणीति ॥ बभ्रोगोत्रापत्यं स्त्रीति विग्रहः । गर्गादि यञि बाभ्रव्यशब्दात् 'सर्वत्र लोहितादिकतन्तेभ्यः' इति ष्फः । आयन्नादेशः, षित्वात् डीषिति भावः । कपिबोधादाङ्गिरसे ॥ गोत्रे यञ् स्यादिति ॥ शेषपूरणमिदम् । कपिशब्दाद्बो धशब्दाच आङ्गिरसात्मके गोत्रे गम्ये यञ् स्यादित्यर्थः । कापेय इति ॥ अत्र गोत्रस्य

६८४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११११ । वतण्डाच । (४-१-१०८)

“आङ्गिरसे' इत्येव । वातण्ड्यः । अनाङ्गिरसे तु गर्गादौ शिवादौ च पाठाद्यञणौ । वातण्डय:-वातण्डः ।

१११२ । लुक्स्त्रियाम् । (४-१-१०९)

वतण्डाच' (सू ११११) इति विहितस्य लुक्स्यात्स्त्रियाम् । शार्ङ्ग रवादित्वान्डीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वा त्ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ।

१११३ । अश्वादिभ्यः फञ् । (४-१-११०)

गोत्रे । आश्वायनः । 'पुंसि जाते' (ग सू ६९) । पुंसीति तु प्रकृति विशेषणम् । जातस्य गोत्रापत्यं जातायनः । 'पुंसि ' इति किम् । जाताया अपत्यं जातेयः |

१११४ । भर्गात्रैगर्ते । (४-१-१११)

गोत्रे फव् । भार्गायणखैगर्तः । भागिरन्यः ।


अनाङ्गिरसत्वात् यञ्जभावे 'इतश्चानिञः' इति ढक्। बौधिरिति ॥ अत्राप्यनाङ्गिरसत्वात् यञभावे ऋष्यणम्बाधित्वा बाह्वादित्वादिञिति भावः । कपेर्गादौ पाठेऽपि अङ्गिरस एवेति नियमार्थङ्ग हणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी। बोधशब्दातु प्राप्ते विधिः। वत ण्डाञ्च ॥ वतण्डस्य गर्गादौ शिवादौ च पाठात् यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थ मिदम् । लुक् स्त्रियाम् ॥ वतण्डाचेति विहितस्येति ॥ यञ इति शेषः । वतण्डीति ॥ वतण्डस्य गोत्रापत्यं स्री आङ्गीरसीति विग्रहः । यञौ लुकि आदिवृद्धिनिवृत्तौ ङीनिति भावः । वातण्ड्यायनीति ॥ यञि आदिवृद्धौ लाहितादिलक्षणः ष्फः षित्वात् ङीषिति भावः । वतण्डाच' इति विहितस्येत्यस्य प्रयोजनमाह । आणि तु वातण्डीति ॥ शिवादित्वादणि गोत्रत्वेन जातित्वाज्जातिलक्षणे ङीषि तस्याणो वतण्डाद्विहितत्वेऽपि “वतण्डाञ्च' इति विहितत्वा भावान्न भावः । ननु वतण्डादणि तस्य 'अणिजेोरनार्षयोः' इति वक्ष्यमाणः ष्यङ् लुठागात स्यादित्यत आह । ऋषित्वादिति । अश्वादिभ्यः ॥. गोत्रे इति ॥ शेषपूरणमिदम् । आङ्गिरसे इति निवृत्तम् । आश्वायन इति ॥ अश्वस्य गोत्रापल्यमिति विग्रहः । इअपवादः फञ् । पुंसि जाते इति ॥ गणसूत्रम् । प्रकृतिविशेषपामिति ॥ पुंसि विद्यमानो यो जातशब्दः तस्माद्रोत्रे फञित्यर्थः । जातेय इति ॥ 'स्त्रीभ्यो ढक्' । भगत्त्रैगर्ते ॥ इदमपि गणसूत्रम्। त्रिगर्त नाम भर्गस्य पुत्रः । तस्यापत्य त्रैगर्तः । ऋष्यण् । तस्मिन्गोत्रे भर्गात् फञ् ।

प्रकरणम्]
६८५
बालमनोरमा ।

१११५ । शिवादिभ्योऽण् । (४-१-११२)

गोत्रे' इति निवृत्तम् । शिवस्यापत्यं शैव: । गाङ्गः । पक्षे तिकादि त्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाद्ढक् । गाङ्गेयः ।

१११६ । अवृद्धाभ्येो नदीमानुषीभ्यस्तन्नामिकाभ्यः । (४-१-११३)

अवृद्धेभ्यो नदीमानुषीनामभ्योऽण्स्यात् |ढकोपवादः | यामुनः | नार्मदः । चिन्तिताया अपत्यं चैन्तितः । “ अवृद्वाभ्यः' किम् । वासवदत्तेय नदी इत्यादि किम् । वैनतेय तन्नामिकाभ्यः' किम् । शोभनाया अपत्यं शौभनेय

१११७ ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च । (४-१-११४)

ऋषयो मन्त्रदृष्टारः | वासिष्ठः | वैश्वामित्रः | अन्धकेभ्यः | श्वाफल्कः | वृष्णिभ्य वासुदेवः । आनिरुद्ध | 'शैौरिः' इति तु बाह्वादित्वादिञ्


शिवादिभ्योऽण् ॥ निवृत्तमिति ॥ वृत्तिकैयटयोः तथोक्तत्वादिति भाव | 'यूनि लुक्' इति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तङ्गोत्राधिकार इति लभ्यन्ते । तत्तु मतान्तर मिलेयेके । ‘तदेव युक्तम्’ इति शब्दन्दुशेखरे प्रपञ्चितम् । अवृद्धाभ्यो नदी ॥ नदीमानुषीशब्दा पेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तु “अवृद्धेभ्यो नदीमानुषीनामभ्यः' इत्येव सूत्रयितु मुचितमिति व्याचष्टे । अवृद्धेभ्य इत्यादि । ननु “तस्यापत्यम्' इत्येव सिद्धे किमर्थमिदमित्यत आह । ढकोऽपवाद इति ॥ चिान्तता नाम काचिन्मानुषी । वासवदत्तेय इति ॥ वासवदत्ता नाम काचिन्मनुष्यस्त्री तस्या अपत्यामिति विग्रहः । वृद्धसंज्ञकत्वादणभावे ढगिति भावः । वैन्तेय इत विनताया अपत्यमिति विग्रह विनता नाम गरुडमाता, सा न मानुषी नापि नदीति भावः । शौभनेय इति ॥ शोभनाशब्दोऽयन्तु न नदीमानुषीनामेति भावः । ऋष्यन्धक ॥ प्रलीनाः वेदाः तपोबलवशात् यान् आर्षन्ति प्राप्नुवन्ति ते ऋषयः । तथाच तैत्तिरीये श्रुतम् अजान्हवै पृश्रींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्, त ऋषयो ऽभवन्, तदृषीणामृषित्वम्” इति । अजाः नित्याः, पृश्रयः शुकृाः शुद्धाः इति यावत् । तान् तपस्यमानान् तपश्चरतः स्वयम्भु अनादि ब्रह्म वेदः अभ्यानर्षत् “ऋष गतौ' आभिमुख्येन प्राप्तोत् । ते वेदस्य अर्षणात् ऋषिशब्दवाच्याः अभवन्निति वेदभाष्यम् । “सर्गादिसमये वेदान्त्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा इति पुराणेषु प्रसिद्धम् कात्यायनप्रणीतसर्वानुक्रमणिकाख्यप्रन्थे स्पष्टमेतत् तदाह । ऋषयो मन्त्रद्रष्टार इति अन्धकशब्दन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्यः | अन्धकादिवश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवाद ऋषिभ्यः उदाहरति वासिष्ठः । वैश्वामित्त्र इति ॥ अन्धकेभ्य इति ॥ अन्धकवंश्यवाचिभ्यः उदाह्रियते इत्यर्थः । श्वापफल्क इति ॥ श्वफल्कस्यापत्यमिति विग्रहः । वृष्णिभ्य इति ॥ वृष्णिवंश्य वाचिभ्य उदाह्रियते इत्यर्थः । वासुदेव इति ॥ वासुदेवस्यापत्यमिति विग्रहः । आनिरुद्ध ४४

६८६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

कुरुभ्यः । नाकुलः । साहदवः । इञ एवायमपवाद :, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाढ्ढक् । आत्रेय |

१११८ । मातुरुत्सङ्खयासम्भद्रपूर्वायाः । (४-१-११५)

सङ्खयादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । षा ण्मातुरः । साम्मातुरः । भाद्रमातुरः । आदेशार्थे वचनम् । प्रत्ययस्तूत्सर्गेण आदेशार्थं सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः । तेन धान्यमातुर्न । * सङ्खया-' इति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ।

१११९ । कन्यायाः कनीन च । (४-१-११६)

ढकोऽपवादोऽण् । तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्ण श्च । अनूढाया एवापत्यमित्यर्थ


इति ॥ अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चित् वृष्णिवंश्यः । तस्यापत्यं शैौरिः कथम् । अण्प्रसङ्गादित्यत आह । शौरिरिति त्विति ॥ बाह्वादित्वादित्यनन्तरम् इञा समाधेयमिति शेषः । कुरुभ्य इति ॥ कुरुवंश्यवाचिभ्यः उदाह्रियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । ननु अत्रेरपत्यमित्यर्थे 'इतश्वानिजः' इति ढकि आत्रेय इति कथम् । ऋष्यणा इञ इव ढकोऽपि बाधौचित्यादित्यत आह । इञ एवेति ॥ नतु ढकः इत्यर्थः । मातु रुत्सङ्खयासम्भद्रपूर्वायाः ॥ द्वमातुर इति ॥ द्वयोर्मात्रेोरपत्यमिति विग्रहः । “तद्धितार्थ' इति समासः । अणु ऋकारस्य उकारः, रपरत्वम् । एवं षाण्मातुरः । साम्मातुर इति । समीचीना माता सम्माता, सम्मातुरपत्यं साम्मातुरः । अण्, उत् , रपरत्वम् । भाद्रमातुर इति ॥ भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननु तस्यापत्यम्' इत्येव सिद्धे अण्विधिव्यैर्थ एवेत्यत आह । आदेशार्थ वचनमिति ॥ उदादेशस्य अण्णसन्नियोगेन विद्यर्थमित्यर्थः । ननु धान्यमातुरपत्यं धान्यमातुरः इति स्यादित्यत आह । स्त्रीलिङ्गनिर्देशोऽर्थापेक्ष इति ॥ मातृगतं स्त्रीत्वं शब्दे आरोप्य सङ्खयासम्भद्र पूर्वाया इति निर्दिश्यते । अतः त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति ॥ अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुल्लिङ्गत्वादिति भावः । सौमात्र इति ॥ सुमातुरपत्यमित्यर्थे 'तस्यापल्यम्' इत्यण् । सङ्खयासम्भद्रपूर्वत्वाभावात् नायमण् । उक्त्वमपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेयः इति कथम् । सङ्खयापूर्वकतया अणः उत्त्वस्य च दुर्वारत्वादित्यत आह । शुभ्रादित्वादिति ॥ ‘शुभ्रादिभ्यश्च' इति ढकि रूपमित्यर्थः । कन्यायाः कनीन च ॥ कनीनेति लुप्तप्रथमाकम् । ढक इति ॥ ‘स्त्रीभ्यो ढक्क्' इति विहितस्येत्यर्थः । कनीनादेशश्चेति । प्रकृतेरिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रासद्धम् । ननु कन्याया अप्रादुर्भूतयौवन त्वात् पुसंयोगाभावात् कथमपत्यसम्बन्ध इत्यत आह । अन्नृढाया इति ॥ अलब्धविवाहाया

प्रकरणम्]
६८७
बालमनोरमा ।

११२० । विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु । (४-१-११७)

अपत्येऽण्, वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गि रन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शैौङ्गेयः ।

११२१ । पीलाया वा । (४-१-११८)

तन्नामिकाणं बाधित्वा 'द्व्यचः' (सू ११२४) इति ढकि प्राप्त पक्षे ऽण्विधीयते । पीलाया अपत्यं पैलः-पैलेय

११२२ । ढक्च मण्डूकात् । (४-१-११९)

चाद्ण् । पक्षे इञ् । माण्डूकेयः-माण्डूकः—माण्डूकिः ।

११२३ । स्त्रीभ्यो ढक् । (४-१-१२०)

स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् |वैनतेयः | बाह्वादित्वात्सौमित्रिः । शिवा दित्वात्सापत्र

११२४ । द्व्यचः । (४-१-१२१)


इत्यर्थः । एतच भाष्ये स्पष्टम् । विकर्ण ॥ वत्सादिशब्दैस्तद्वंश्या विवक्षिताः । विकर्ण, शुङ्ग, छगल, एभ्येोऽण् स्यात् । वत्सवंश्ये भरद्वाजवश्ये अत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनाम्मूलपुरुषत्वात् विकर्णादीन्प्रत्यपल्यत्वासम्भव इति निरस्तम् । विकर्णादिभ्यो वात्स्यादिष्वेव ‘ऋष्यणु' इति नियमार्थ सूत्रम् । पीलाया वा ॥ अपत्येऽणिति शेषः । पीला नाम काचिन्मानुषी । तन्नामिकाणमिति ॥ वाग्रहणाभावे तु अनेनाणा नित्यमेव ढको बाधः स्यात् । नच महाविभाषया अणः पाक्षिकत्वात्तदभावे ढक् भवत्येवेति वाच्यम् । महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तते इति ज्ञापनात् । अन्यथा शैबः शैबिरित्यादि स्यात् । ढक् च मण्डूकात् ॥ मण्डूको नाम ऋषिः । पक्षे इञिति ॥ पूर्वसूत्राद्वाग्रहणा नुवृत्तरिति भावः । स्त्रीभ्यो ढक् ॥ स्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्यन्ते । न त्वन्येऽपि स्त्रीवाचकाः । व्याख्यानादित्याह । स्त्रीप्रत्ययान्तेभ्य इति ॥ विनता नाम गरुडमाता, तस्याः अपत्यामिति विग्रहः । प्रत्ययग्रहणङ्किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्री दरत् । “द्व्यञ्मगध' इत्यण् । “ अतश्च' इति तस्य लुक् । तस्यापत्यं दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः सपन्नाया अपत्यं सापन्न इति कथं, ढक्प्रसङ्गादित्यत आह । बाह्वादित्वादित्यादि ॥ सापन्न शब्दे पुंवत्वन्नेति प्रागेवोक्तम् । द्यचः ॥ ननु ‘स्त्रीभ्यो ढक्' इत्येव सिद्धे किमर्थमिदमित्यत

६८८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

व्यचः स्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवाद । दात्तेयः । पार्थ इत्यत्र तु 'तस्येदम्' (सू १५००) इत्यण् ।

११२५ । इतश्चानिञः । (४-१-१२२)

इकारान्ताद्व्द्यचोऽपत्ये ढक्स्यात् । न त्विञन्तात् । दौलेयः । नैधेयः ।

११२६ । शुभ्रादिभ्यश्च । (४-१-१२३)

ढक्स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ।

११२७ । विकर्णकुषीतकात्काश्यपे । (४-१-१२४)

अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्यो वैकर्णिः । कौषीतकिः ।

११२८ । भ्रुवो बुक्च । (४-१-१२५)

चाड्ढक् । भ्रौवेयः ।

११२९ । प्रवाहणस्य ढे । (७-३-२८)

प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वपदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ।

११३० । तत्प्रत्ययस्य च । (७-३-२९)


आह । तन्नामिकेति ॥ दात्रेय इति ॥ दत्ता नाम काचिन्मानुषी, तस्या अपत्य मिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम् । तन्नामिकाणम्बाधित्वा 'व्द्यचः’ इति ढक्प्रसङ्गादित्यत आह । पार्थ इत्यत्रेति ॥ शिवादित्वादपत्य एवाणित्यन्ये । इतश्चानिञ्जः ॥ अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च कश्चित् । आत्रेय इति ॥ अत्रिः प्रसिद्धः । परत्वा दयमृष्यणमपि बाधते इति भावः । शुभ्रादिभ्यश्च ॥ ढक् स्यादिति ॥ शेषपूरणम् । इञाद्यप वादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढागिति भावः । विकर्णकुषीतकात्का श्यप ॥ अपत्ये ढागिति । शेषपूरणम् । काश्यप एवेति नियमार्थे शुभ्रादिभ्यः पृथक् पाठः । भ्रुवो वुक् च ॥ चाड्ढगिति ॥ भ्रूशब्दादपत्ये ढक् स्यात् प्रकृतेर्तुगागमश्च । वुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । भ्रौवेय इति ॥ भ्रूर्नाम काचित् तस्या अपत्य मिति विग्रहः । ढकि एयादेशे प्रकृतेर्व्रुकि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धौ आवादेशे भ्रावेय इति स्यात् । प्रवाहणस्य ढे ॥ उत्तरपदस्येल्यधिकृतम् । ‘तद्धितेष्वचामादेः’ इत्यतः अचामादे रित्यनुवर्तते । 'मृजेद्धिः’ इत्यतो वृद्धिरिति ‘अर्धात्परिमाणस्य पूर्वस्य तु वा' इत्यतः पूर्वस्य वेति । तदाह । प्रवाहणशब्दस्येति । प्रावाहणेयः-प्रवाहणेय इति ॥ शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलन्तु प्रावाहणेयीभार्य इत्यत्र “वृद्धिनिमित्तस्य च' इति पुवत्वप्रतिषेध एव । तत्प्रत्ययस्य च ॥

प्रकरणम्]
६८९
बालमनोरमा ।

ढप्रत्ययान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यम्, प्रावाहणेयिः-प्रवाहणेयि: । बाह्यतद्वितानिमित्ता वृद्धिर्ढा श्रयेण विकल्पेन बाधितुं न शक्यते इति सूत्रारम्भः ।

११३१ । कल्याण्यादीनामिनङ् च । (४-१-१२६)

एषामिनङादेशः स्यात्, ढक्च । काल्याणिनेयः । बान्धकिनेयः ।

११३२ । कुलटाया वा । (४-१-१२७)

इनङ्मात्रं विकल्प्यते । ढक्तु नित्यः पूर्वेणैव । कौलटिनेयः-कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः अत्र क्षुद्राभ्यो वा' (सू ११३७) इति पक्षे ढ़क् । कौलटेरः ।

११३३ । ह्यञ्जगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१९)

हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिञिति णिति किति च । सु हृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धव सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ।


पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तच्छब्देन ढप्रत्ययः परामृश्यते । तदाह । ढप्रत्यया न्तस्येति। प्रावाहणेयिः-प्रवाहणेयिरिति ॥ शुभ्रादिढगन्तादिञ् । ननु पूर्वसूत्रेणैव सिद्ध त्वादिदं व्यर्थमित्यत आह । बाह्यति ॥ ढक्प्रत्ययान्तात् बहिर्भूतो य इञ् तन्निमित्ता. तद्धितेष्वचा मादेः' इति निल्या आदिवृद्धिः । ढाश्रयेणेति ॥ ढप्रत्यये परे विहितेनेति यावत् । तथाविधेन वृद्धिविकल्पेन पूर्वसूत्रविहितेन बाधितुन्न शक्यते । भिन्ननिमित्तकत्वादित्यर्थः । पूर्वसूत्रं हि केवलढप्र त्ययान्ते ढप्रत्ययम्परनिमित्तत्वेनाश्रित्य प्रवृत्तं, ढन्निमित्तामादिवृद्धिम्बाधते इति युक्तं, नात्विञ् प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम्, अतस्तस्या अपि बाधनार्थमिदं सूत्रमित्यर्थः । इदं वृद्धिविधिद्वयमपि “शुभ्रादिभ्यश्च' इत्यत्रैव वक्तुं युक्तम् । कल्याण्यादीनामिनङ् च ॥ इनडि डकार इत् । काल्याणिनेय इति ॥ कल्याण्या अपल्यामिति विग्रहः । बान्धकि नेय इति ॥ बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठ्यन्ते । तेभ्यो ढक् सिद्ध एव । इनङेव तु विधीयते । कुलटाया वा ॥ इनङ्मात्रमिति ॥ व्याख्यानादिति भावः । पूर्वेणैवेति ॥ ‘स्त्रीभ्यो ढक्’ इत्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति कुलटा । शकन्ध्वादित्वात्पररूपम् । अत्रेति ॥ ‘कुलटाया वा' इति सूत्रे इत्यर्थः । पक्षे ढगिति ॥ ड्रगपि कदाचिद्रवतीत्यर्थः । कौलटेर इति ॥ कुलटाया कि ढकारस्य एयादेशे “लोपो व्यो इति यकारलोप इति भावः । हृद्भग ॥ हृदाद्यन्ते इति । हृत्, भग, सिन्धु, एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह । पूर्वोत्तरपद्योरिति ॥ सौहार्द इति ॥ आणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः । सौभागिनेय इति ॥ 87

६९०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११३४ । चटकाया ऐरक् । (४-१-१२८)

चटकादिति वाच्यम्' (वा २६२४) । लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः । * स्त्रियामपत्ये लुग्वक्तव्य (वा २६२५) । तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ।

११३५ । गोधाया टूक् । (४-१-१२९)

गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ।

११३६ ।। आरगुदीचाम् । (४-१-१३०)

गौधारः । रका सिद्धे आकारोचारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ।

११३७ । क्षुद्राभ्यो वा । (४-१-१३१)

अङ्गहीनाः शीलहीनाश्च क्षुद्राः ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः काणेयः । दासेर:-दासेयः ।

११३८ । पितृष्वसुश्छण । (४-१-१३२)

अणोऽपवादः । पैतृष्वस्रीयः ।


कल्याण्यादित्वात् ढाकि इनङि उभयपदादिवृद्धिरिति भावः । एतत्प्रसङ्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्रात्रादित्वाद्भावे अञ् । उत्तरपदादिवृध्द्यभावश्छान्दसः । सिन्धव इति ॥ अश्वा इत्यर्थः । चटकाया ऐरक् ॥ चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्रीलिङ्गनिर्देशात् पुल्लिङ्गान्नस्यात् इत्यत आह । चटकादिति ॥ सूत्रे वटकाया इत्यपनीय चवटकादिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह । लिङ्गेति ॥ स्रिया अपीति ॥ स्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति ॥ चटकस्य चटकायाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वात् डीष्प्रसङ्गादित्यत आह । अजादित्वादिति । गोधाया ढक् । गौधेर इति ॥ गोधाया अपत्यमिति विग्रहः । ढ़कि ढकारस्य एयादेशे “लोपो व्योः' इति यलोपः, कित्वादादिवृद्धिरिति भावः । आरगुदीचाम् ॥ गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति ॥ आकारान्तादन्यत् अदन्तं, तस्मादपि.कचिद्विधानार्थमित्यर्थः । जाडार इति ॥ रग्विधौ आकारो न श्रूयेतेति भावः । पण्डो नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना । क्षुद्राभ्यो वा ॥ अङ्गहीना इति ॥ चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति ॥ सद्वृत्तहीनाः इत्यर्थः । यथेष्टपुरुषसञ्चारिण्य इति यावत् । “ अनियतपुंस्का अङ्गहीना वा क्षुद्राः' इति भाष्यम् । पितृ ष्वसुश्छण् ॥ पैतृष्वस्रीय इति ॥ पितृष्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे

प्रकरणम्]
६९१
बालमनोरमा ।

११३९ । ढकि लोपः । (४-१-१३३)

पितृष्वसुरन्यस्य लोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ।

११४० । मातृष्वसुश्च । (४-१-१३४)

पितृष्वसुर्यदुक्तं तद्स्यापि स्यात् । मातृष्वस्रीयः-मातृष्वसेयः ।

११४१ । चतुष्पाद्रद्यो ढञ् । (४-१-१३५)

११४२ । ढे लोपोऽकद्वाः । (६-४-१४७)

कद्रभिन्नस्योवर्णान्तस्य भस्य लोपः स्याड्ढे परे । कामण्डलेयः । कमण्ड लुशब्दश्चतुष्पाज्जातिविशेषे |

११४३ । गृष्टयादिभ्यश्च । (४-१-१३६)

एभ्यो ढञ् स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम्, ऋष्यणि प्राप्ते ढञ् ।


आदिवृद्धिः । सकारादृकारस्य यण् । ढकि लोपः ॥ पितृष्वसुरित्यनुवर्तते । अलोऽन्त्यपरि भाषया अन्त्यस्य लोपः । तदाह । पितृष्वसुरन्त्यस्य लोप इति ॥ ननु पितृष्वसुरपत्ये ढक एव दुर्लभत्वात्कथं तस्मिन् परे लोपविधिरित्यत आह । अत एवेति ॥ शुभ्रादित्वात् ढगि त्यन्ये । पैतृष्वसेय इति ॥ ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः । 'मातृपितृभ्यां खसा' इति षत्वम् । मातृष्वसुश्च । चकाराच्छण् ढकि लोपश्चानुकृष्यते । तदाह । पितृष्वसुर्यदुक्तमिति । चतुष्पाद्भयो ढञ् । चतुष्पादः पशवः । तद्विशेषवाविभ्य अपत्ये ढञित्यर्थः । ढे लोपोऽवकद्राः । भस्येत्यधिकृतम् ' ओर्गुणः' इत्यतः ओरिति षष्ठयन्तनानुवृत्तेन विशेष्यते । तदन्तविधिः । तदाह । कद्रभिन्नस्येति । अलोऽन्त्यस्य इत्यन्त्यलोपः ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यामिति विग्रहः । ढकि एयादेशे आदिवृद्धौ उकारलेोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याचेतनस्य कथम पत्ययोगः । तत्राह । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एव कमण्डलु पदे आदधीत' इति बह्वदृचब्राह्महणं सङ्गच्छते इति भावः । गृष्ट्यादिभ्यश्च । अण्ढको रिति ॥ गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्त्रयु एते गृष्टयादयः । अत्र अन्त्ययोः ऋषित्वादण् प्राप्तः । अन्येभ्यस्तु “इतश्चानिजः' इति ढक् प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गौरेव । ततश्च “चतुष्पाद्भयः' इत्यनेन न प्राप्तिः । केकयमित्त्रयु ॥ 'तद्धिते ष्वचामादेः' इत्यतस्तद्धितग्रहणामित्यनुवर्तते । “ अचो ञ्णिति, किति च' इत्यतः ञ्णितीति, कितीति च । तदाह । एषामिति । आदेशे यकारादकार उच्चारणार्थ । केकयस्या पल्यं स्री कैकेयी । ‘जनपदशब्दात्' इत्यञ् । मैत्त्रेयिकया श्लाघते, मित्त्रयोर्भाव इत्यर्थे 'गोत्र चरणात्' इति वुञ् । प्रलयादागतम्प्रालेयम् । अण् । अत्र सर्वत्र यादेरियादेशः। इत्युदाहरणानि ।

६९२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११४४ । केकयमित्रयुप्रलयानां यादेरियः । (७-३-२)

एषां यकारादेरियादेशः स्यात् ञिति णिति किति च तद्विते परे । इति इयादेशे प्राप्त ।

११४५ । दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशि नायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि । (६-४-१७४)

एतानि निपात्यन्ते । इति युलोपः। मैत्त्रेयः। मैत्रेयौ ।

११४६ । यस्कादिभ्यो गोत्रे । (२-४-६३)

एभ्योऽपत्यप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । मित्रयवः ।


प्राप्त इति ॥ मित्रयोरपये ढनि एयादेशे मित्त्रयु एय इति स्थिते ओर्गुणम्बाधित्वा यु इत्यस्य इयादेशे सति आदुणे मैत्त्रेयेय इति प्राप्त सतीत्यर्थः । दाण्डिनायन । एतानि नि पात्यन्ते इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः, हास्तिनायनः । नडादित्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्तो ग्रन्थः उपचारादथर्वा । तमधीते आथर्वणिकः । वसन्ता दित्वात् ठक् । निपातनान्न टिलोपः । जिह्मशिनोऽपत्यजैह्माशिनेयः । शुभ्रादित्वाड्ढक् । निपात नान्न टिलोपः। वाशिनोऽपत्यं वाशिनायनिः । “उदीचां वृद्धात्' इति फिञ् । निपातनान्न टिलोपः । भ्रूणहन् धीवन्, एतयोर्भावे ष्यञ् । नकारस्य तकारश्च निपात्यते । नच 'हनस्तोऽचि एणलेोः' इत्यनेनैव तकारस्सिद्ध इति शङ्कयम् । 'धातोः कार्यमुच्यमानन्तत्प्रत्यये विज्ञानम् इति परिभाषया “हनस्तः' इति तत्वस्य धातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकार निपातनमस्याम्परिभाषायां ज्ञापकामिति 'मृजेवृद्धिः' इत्यत्र भाष्ये स्पष्टम् । तेन वार्त्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् उदकम् । आणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाको रपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्त्रियादञ् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाकेत्यत्र अणन्तयाग्रहणम् । बहुत्वे तद्राजत्वादञ्जा लुक् । अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि णकाराद्यकाराकारयोलॉपः । इति युलोप इति । मित्त्रयु एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्त्रेयीति 'टिड्ढाणञ्' इति डीप् । यस्कादि भ्यो गोत्रे ॥ नेदं सूत्रमपत्याधिकारस्थम्, किन्तु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्याय प्रसिद्धमेव गोत्रमिह विवक्षितम् । “अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते” इति 'यूनि लुक्, स्त्रीपुंसाभ्याम्' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वात् । “ण्यक्षात्रियार्ष' इत्यतो लुगिल्यनु वर्तते । “तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रन्तद्राजवर्जमनुवर्तते । तदाह । एभ्योऽपत्य प्रत्ययस्येति ॥ मित्त्रयव इति ॥ मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टयादिढको लुकि

प्रकरणम्]
६९३
बालमनोरमा ।

११४७ । अत्रिभृगुकुत्सवसिष्ठगौतमाङ्गिरोभ्यश्च । (२-४-६५)

एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ।

११४८ । बह्वच इञः प्राच्यभरतेषु । (२-४-६६)

बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः |

११४९ । न गोपवनादिभ्यः । (२-४-६७)

एभ्यो गोत्रप्रत्ययस्य लुग्र स्यात् । बिदाद्यन्तर्गणोऽयम्। गौपवनाः । शैग्रवाः ।

११५० ॥ तिककितवादिभ्यो द्वन्द्वे । (२-४-६८)

एभ्यो गात्तप्रत्ययस्य बहुत्वे लुक्स्याद्वन्द्वे । तैकायनयश्च कैतवायनयश्च तिकादिभ्यः फिञ्’ (सू ११७८) । तस्य लुक् । तिककितवाः ।

११५१ । उपकादिभ्योऽन्यतरस्यामद्वन्द्वे । (२-४-६९)

एभ्या गात्रप्रत्ययस्य बहुत्वे लुग्वा स्याद्वन्द्वे चाद्वन्द्वे च । औपकाय नाश्च लामकायनाश्च । “नडादिभ्यः फक्' (सू ११०१) । तस्य लुक् । उप कलमकाः—औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः-भ्राष्ट्रकिकापिष्ठलयः । उपकाः–औपकायनाः । – लमकाःलामकायनाः ।


आदिवृद्धिनिवृत्तिः । अत्रिभृगु । पूर्वसूत्राद्भोत्र इति तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह । एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गौतमस्य, अङ्गिरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अखेः “इतश्वानिञ्जः’ इति ढकोऽनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः । बह्वच इञः ॥ प्राच्ये उदाहरति । पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इञो लुक् । भरतगोत्रे उदाहरति । युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यम्बाधित्वा वाह्वादित्वात् इञ् । तस्य लुक् । अबहुत्वे तु यौधिष्ठिरिः । न गोपवनादिभ्यः । बिदाद्यन्तर्गणोऽय मिति । ततश्च अञः “यञञोश्च' इति प्राप्तस्य लुङ् नेति भावः । तिककितव ॥ तैकाय नयश्च कैतवायनयश्चेति ॥ द्वन्द्वविग्रहप्रदर्शनम्। तिककितवा इति । द्वन्द्वे इति सप्तमी निर्देशात् पदद्वयादपि फिञो लुक् । उपकादिभ्यो ॥ चकारमध्याहृत्य आह । द्वन्द्वे चेति ॥ एवञ्च अस्वरितत्वादेव पूर्वसूत्रात् द्वन्द्वग्रहणाननुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव । नच द्वन्द्वे नेति निषेध एव किन्न स्यादिति वाच्यम् । द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन् द्वन्द्वमुदाहरति । भ्राष्ट्रककपिष्ठला इति ॥ इो वा लुक् । अद्वन्द्वे उदाहरति । लमकाः

६९४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११५२ । आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् । (२-४-७०)

एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञ्पश्च बहुषु लुक्स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासङ्खयम् 'अगस्ति’ ‘कुण्डिनच्’ एतावादेशौ स्तः । अग स्तयः । कुण्डिनाः ।

११५३ । राजश्वशुराद्यत् । (४-१-१३७)

' राज्ञो जातावेवेति वाच्यम्' (वा २६२७) ।

११५४ । ये चाभावकर्मणोः । (६-४-१६८)

यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणो । राजन्य: । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ।

११५ । अन् । (६-४-१६७)

आणि अन् प्रकृत्या स्यादिति टिलोपो न । ‘अभावकर्मणोः ' किम् । राज्ञः कर्म भावो वा राज्यम् ।

११५६ । संयोगादिश्च । (६-४-१६६)

इन् प्रकृत्या स्यादणि परे। चक्रिणोऽपत्यं चाक्रिणः ।


लामकायना इति ॥ अश्वादिफको लुग्विकल्पः । उपकाः औपकायनाः इत्याद्यप्युदाहार्यम् । आगस्त्य ॥ अगस्तयः । कुण्डिना इति ॥ अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्बे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च “यस्कादिभ्यो गोत्रे' इत्यारभ्य “आगस्त्यकैौण्डिन्ययोः' इत्यन्तन्द्वैतीयीकम् । अथ प्रकृतञ्चातुरर्थिकम् । राजश्वशुराद्यत् ॥ राजन्शब्दात् श्वशुरशब्दाच्चापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अञिञोरपवादः । राज्ञो जातावेवेति ॥ जातिः समुदायवाच्या चेदित्यर्थः । ये चाभावकर्मणोः । अनिति पूर्वसूत्रमनुवर्तते । ‘प्रकृयैकाच्' इत्यतः प्रकृत्येति । अङ्गा धिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः । तदाह । यादाविति ॥ राजन्य इति । क्षत्रियात् क्षत्रियायां स्वभार्यायामुत्पन्नो राजन्य इात धर्मशास्त्रषु प्रसिद्धम् । यत्प्रत्यये प्रकृतिभावान्न टिलोपः । शूद्रादाविति ॥ क्षत्रियात् शूद्रायां वा तदन्यस्यां वा अनूढायाम् उत्पन्न इत्यर्थः । राजन इति । अणि रूपम् । तत्र “नस्तद्धिते' इति टिलोपे प्राप्ते । अन् ॥ 'इनण्यनपत्ये' इत्यतः अणित्यनुवर्तते । 'प्रकृत्यैकाच्’ इत्यतः प्रकृत्येति च । तदाह । अणीति ॥ राज्यमिति ॥ 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् । टिलोपः । संयोगादिश्च ॥ इन् प्रकृत्येति ॥ ‘इनण्यनपत्ये' इत्यतः 'प्रकृत्यैकाच्’ इत्यतश्च तदनु वृत्तरिति भावः । चक्रिणोऽपत्यञ्चाक्रिण इति ॥ 'इनण्यनपत्ये' इत्यत्रानपत्ये इति

प्रकरणम्]
६९५
बालमनोरमा ।

११५७ । न मपूर्वोऽपत्येऽवर्मणः । (६-४-१७०)

मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । “मपूर्वः' किम् । सौत्वनः । ' अपत्ये' किम् । चर्मणा परिवृतश्चार्मणो रथः ।'अवर्मणः' किम् । चक्रवर्मणोऽपत्यं चाक्रवर्मणः । “वा हितनाम्न इति वाच्यम्' (वा ४२१५) । हितनाम्रोऽपत्यं हैतनामः-हैतनामनः ।

११५८ । ब्राह्मो जातैौ । (६-४-१७१)

योगविभागोऽत्र कर्तव्यः । 'ब्राह्मः' इति निपात्यतेऽनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्ये जातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः ।'अपत्ये' किम् । ब्राह्मी ओषाधिः ।

११५९ । औक्षमनपत्ये । (६-४-१७३)

अणि टिलोपो निपात्यते । औक्षम् पद्म् । “ अनपत्ये' किम् । उक्ष्णोऽपत्यमौक्ष्णः |


पर्युदासादप्राप्तिः । न मपूर्वोऽपत्येऽवर्मणः ॥ भाद्रसाम इति ॥ भद्रसाम्नोऽपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति ॥ सुत्वनोऽपत्य मिति विग्रहः । मपूर्वत्वाभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः’ इत्यणि टिलोपः । अण: आपत्यत्वाभावात्प्रकृतिभावः । वा हितनाम्न इति । “न मपूर्वः' इति प्रति षेध इति शेषः । ब्राह्मोऽजातौ ॥ ब्रह्मन्शब्दादपत्ये अणि “न मपूर्वोऽपत्ये' इति प्रकृति भावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्रह्मणोऽपत्यं ब्राह्मण इति जातिविशेषे न सिध्द्येत् । “न मपूर्वः' इति प्रकृतिभावनिषेधे सति “नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किञ्च ब्रह्मा देवता अस्य ब्राह्मं हविरिति न सिद्येत् । न मपूर्व इति प्रकृतिभावनिषेधस्य जाताविवति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपासम्भवात् । अत आह । योगविभाग इति । ब्राह्मः इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतः अनपत्येऽणीत्यनुवर्तते । तदाह । ब्राह्म इति । निपात्यते अनपत्येऽणीति । तथाच ब्रह्मन्शब्दादनपत्येऽणि अनिति प्रकृतिभावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति । ब्राह्मं हविरिति । ब्रह्म देवता अस्येति विग्रहः । “सास्य देवता' इत्यण् । ततो जाताविति ॥ ततः ब्राह्म इति सूत्रात्पृथगेव जाताविति सूत्रङ्कर्तव्यमित्यर्थः । इह ‘न मपूर्वोऽपत्येऽवर्मणः’ इति सूत्रादपत्ये इति नेति चानु वर्तते । ‘प्रकृत्यैकाच्’ इत्यतः प्रकृत्येति चव । तदाह। अपत्ये जाताविति । ब्राह्मण इति ॥ ब्रह्मणः सकाशात्सजातीयायाम्भार्यायामुत्पन्न इत्यर्थः । यागावभागस्त्वयम्भाष्ये स्पष्टः । अक्षम्॥ शेषपूरणेन सूत्रं व्याचष्टे । आणि टिलोपो निपात्यते इति ॥ ‘अन्’ इति प्रकृतिभावापवाद इति भावः । औक्षमिति । अपत्येऽणि टिलोपाभावे अछोप इति भावः । ननु प्रकृतिभावादल्लोपो

६९६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११६० । षपूर्वहन्धृतराज्ञामणि । (६-४-१३५)

षपूर्वो योऽन् तस्य हनादेश्च भस्यातो लोपोऽणि । औौक्ष्णः । ताक्ष्णः । भ्रौणन्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । “ षपूर्व-' इति किम् । साम्रोऽपत्यं सामनः । * अणि' केिम् । ताक्षण्यः ।

११६१ । क्षत्त्राद्धः । (४-१-१३८)

क्षत्रिय: ' जातैौ' इत्येव । क्षात्रिरन्यः ।

११६२ । कुलात्खः । (४-१-१३९)

कुलीनः । तदन्तादपि । उत्तरसूत्रे 'अपूर्वपदात् इति लिङ्गात् । आढ्य

११६३ । अपूर्वपदादन्यतरस्यां यड्ढकञौ । (४-१-१४०)

' कुलात्' इत्येव । पक्ष खः । कुल्यः-कौलेयकः-कुलीनः । “ पद् ग्रहणं किम् । बहुकुल्यः-बाहुकुलेयकः—बहुकुलीनः ।

११६४ । महाकुलाद्ञ्खञौ । (४-१-१४१)

'अन्यतरस्याम्' इत्यनुवर्तते । पक्षे खः । माहाकुलः-माहाकुलीनः-- महाकुलीनः ।


न स्यादत आह । षपूर्वहन् ॥ 'अलोपोऽनः’ इत्यनुवर्तते । भस्येत्यधिकृतम् । तदाह । षपूर्व इति ॥ ताक्ष्ण इति ॥ 'तक्ष्णोऽण उपसङ्खयानम्’ इति कारिलक्षणस्यापवादोऽण् । ताक्षण्य इति ॥ ‘सेनान्तलक्षणकारिभ्यश्च' इति ण्यः । क्षत्त्राद्धः ॥ अपत्ये इति शेषः । क्षत्रिय इति ॥ घस्य इयादेशे 'यस्येति च' इत्यकारलोप । क्षात्त्रिरन्य इति ॥ क्षत्त्राच्छूद्रादावुत्पन्न इत्यर्थः । कुलात्खः ॥ अपत्ये इति शेषः । कुलीन इति । खस्य ईनादेजः । ननु ‘समासप्रत्ययविधौ' इति तदन्तविधिनिषेधात् महाकुलीन इति कथमित्यत आह । तदन्ताद्पीति ॥ आाढ्यकुलीन इति ॥ अब्यकुलशब्दात्कमधारयात्खः कुलं आढ्ययत्व प्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । अपूर्वपदादन्य तरस्याम् ॥ कुलादित्येवेति ॥ पूर्वपदरहितात् कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः । पक्षे ख इति ॥ यड्ढकोरभावपक्षे इत्यर्थः । बहुकुल्य इति ॥ 'विभाषा सुपः' इति बहु च्प्रत्ययो न पदम्। अतः पूर्वपदरहितत्वात् यड्ढकञ्खा भवन्येवत्यर्थः। महाकुलादञ्खञौ । अनुवर्तते इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्त उत्सर्गस्याप्रवृत्तेः “पीलाया वा' इत्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह । पक्षे खः इति ॥ तथा सति

प्रकरणम्]
६९७
बालमनोरमा ।

११६५ । दुष्कुलाड्ढक् । (४-१-१४२)

पूर्ववत्पक्षे खः । दौष्कुलेयः-दुष्कुलीन ।

११६ । स्वसुश्छः । (४-१-१४३)

स्वस्रीय

११६७ । भ्रातुर्व्यच्च । (४-१-१४४)

चाच्छः । अणोऽपवाद । भ्रातृव्यः-भ्रात्रीयः ।

{{C|{{C|११६८ । व्यन्सपत्ने । (४-१-१४५)

भ्रातुव्र्यन् स्यादपत्ये, प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । 'पाप्मना भ्रातृव्येण ' इति तूपचारात् ।

११६९ । रेवत्यादिभ्यष्ठक् । (४-१-१४६)

११७० । ठस्येकः । (७-३-५०

)

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ।

११७१ । गोत्रस्त्रियाः कुत्सने ण च । (४-१-१४७)


आदिवृद्धिर्नेति भावः । दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्गहणानुवृत्तेरिति भाव स्वसुश्छः ॥ अपत्ये इति शेषः । स्वस्रीय इति ॥ छस्य ईयादेशः, ऋकारस्य यण् । भ्रातुव्र्यच ॥ तकारः 'तित्स्वरितम्’ इति स्वरार्थ इति बोद्यम् । व्यन् सपते ॥ अपत्ये इति । प्रत्ययेनापत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाचव “भ्रातृशब्दोत्तरत्वे व्यन् प्रत्ययार्थः शत्रुः” इति भाष्ये स्पष्टम्। ननु “पाप्मना भ्रातृव्येण' इति कथम् । पाप्मनोऽपत्यत्वा भावादित्यत आह।'पाप्मना भ्रातृव्येण'इति तूपचारादिति । हिंसकत्वगुणयोगालाक्षणिक इत्यर्थः । रेवत्यादिभ्यष्टक् ॥ अपत्ये इति शेषः । ढगाद्यपवादः । ठस्येवकः ॥ अङ्गस्ये त्यधिकृतम्पञ्चम्या विपरिणम्यते । तदाह । अङ्गात्परस्य ठस्येति ॥ ठकारस्येत्यर्थः । रैवतिक इति । रेवत्याः अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकः अदन्त आदेशः । अङ्गात्किम् । कर्मठः इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गसम्बन्धिठस्येति व्याख्याने कर्मठः इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इयादेशः माशङ्कय अङ्गसंज्ञानिमित्तं यष्टकारस्तस्येको भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्ययः इति विज्ञायते । “ठस्येति सङ्घातग्रहणम्” इत्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चार णार्थो न भवति, सङ्कात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् । गोत्रात्रियाः ॥

६९८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामथ्र्याचूनि । गार्ग्या अपत्यं गार्गः-गार्गिको वा जाल्म: । “भस्याढे तद्धिते' इति पुंवद्भावा द्राग्र्यशब्दाण्णठकौ । 'यस्य- (सू ३११) इति लोप । “ आपत्यस्य- ' (सू १०८२) इति यलोपः ।

११७२ । वृद्धाट्ठक्सौवीरेषु बहुलम् । (४-१-१४८)

सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सैौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुः त्सायाम् । भागवित्तेः-भागवित्तिकः । पक्षे फक् । भागवित्तायनः ।

११७३ । फेश्छ च । (४-१-१४९)

फिञन्तात्सौवीरगोत्रादपत्ये छः ठक्च कुत्सने गम्ये| यमुन्द्स्यापत्य यामुन्दायनिः । तिकादित्वात्फिञ् । तस्यापत्यं यामुन्द्रायनीयः—यामुन्दायनिकः| कुत्सने' किम् । यामुन्दायनिः । औत्सर्गिकस्याणो 'ण्यक्षत्रिय (सू १२७६) इति लुक् । 'सौवीर-' इति किम् । तैकायनिः ।


ण इति लुप्तप्रथमाकम्। चात् ठगनुकृष्यते। तदाह । गोत्रं या स्त्री इत्यादिना । सामर्थ्या दिति ॥ 'एको गोत्रे' इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्री गार्गी । 'गर्गादिभ्यः' इति यञ् । 'यञ्जश्च' इति डीप् । 'यस्येति च' इत्यकारलोपः । हलस्तद्धितस्य' इति यकारलोपः । गाग्र्याः अपत्यं युवेति विग्रहः । पितुरविज्ञाने मात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे च “यस्येति च' इति लोपे गार्गः गार्गिकः इति सिद्यति । तथापि वस्तुस्थितिमाह । पुंवद्भावादिति ॥ 'भस्याढे' इति पुंवत्वे सति डीपेो निवृत्तौ भूतपूर्वगत्या स्त्रीवाचकत्वमादाय गाग्र्यशब्दाण्णटकावित्यर्थ । “नच वृद्धिानमि त्तस्य च' इति पुंवत्वनिषेधश्शङ्कयः । सौत्रस्यैवायन्निषेधः नतु 'भस्याढे' इति वार्तिकस्ये त्युक्तत्वात् । “भस्याढे' इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमभ्युपगम्य गाग्र्यशब्दादि युक्तम् । तच्च समूहाधिकारे ‘भिक्षादिभ्योऽण्’ इत्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं, कारिकेयः । णस्य णित्वन्तु ग्लुचुकायन्या अपत्यं युवा ग्लैौचुकायन इत्यत्र वृद्यर्थः । वृद्धाट्ठक्सौवीरेषु ॥ पूर्वसूत्राद्रोत्रेत्येकदेशोऽनु वर्तते । सौवीरेष्विति प्रकृतिविशेषणम् । तदाह । वृद्धादिति ॥ “वृद्धिर्यस्याचामादिः' इति वृद्धिसंज्ञकादित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरङ्गोत्रापत्यम्भागवित्ति , तस्यापत्य युवेत्यर्थे ठकि इकादेशे भागवित्तिक इति रूपमित्यर्थः । पक्षे फगिति ॥ 'यजिोश्च' इत्यनेनेति शेषः । फेश्छ च ॥ छति लुप्तप्रथमाकम् । यमु न्दस्येति । यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दायनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाभावात् छठगभावे “तस्यापत्यम्' इत्यण् । 'ण्यक्षत्रियार्ष' इति तस्य लुगित्यर्थः । सौवीरेषु किम् । तैकायनिरिति ॥ तैकायनेरपत्यं युवेत्यर्थे असौवीरत्वात् छठगभावे

प्रकरणम्]
६९९
बालमनोरमा ।

११७४ । फाण्टाहृतिमिताभ्यां णफिञौ । (४-१-१५०)

सौवीरेषु | 'नेह यथासङ्यख्म्' अल्पाच्तरस्य परनिपातालिङ्गात् इति वृत्तिकार भाष्ये तु “यथासङ्ख-यमेव' इति स्थितम् । फाण्टाहृतः-फाण्टा हृतायनिः| मैमतः - मैमतायनिः |

११७५ । कुर्वादिभ्यो ण्यः । (४-१-१५१)

अपत्ये । कौरव्या ब्राह्मणः। वावदूक्याः । सम्राजः क्षत्रिये' (ग सू ७५) । साम्राज्यः-साम्राजोऽन्य

११७६ । सेनान्तलक्षणकारिभ्यश्च । (४-१-१५२)

एभ्यो ण्यः | एति संज्ञायाम्--' (सू १०२३) इति सस्य षः । हारेि षेण्यः । लाक्षण्यः । कारिः शिल्पी, तस्मात् तान्तुवाय्य: । कौम्भकार्यः। नापित्य

११७७ उदीचामिञ् । (४-१-१५३)


'तस्यापत्यम्' इत्यण । ‘ण्यक्षत्रिय' इति तस्य लुगिति भावः । फाण्टाहृति ॥ सौवीरे- विति ॥ शेषपूरणमिदम् । सौवीरगोत्रादित्यर्थः । फाण्टाहृतस्य गोत्रापत्यं फाण्टाहृतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति ॥ मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न सम्बद्ध्यते । व्याख्यानाद्गोत्रत्वाभावाच्चेति भावः । कुर्वादि- भ्यो ण्यः ॥ अपत्ये इति ॥ शेषपूरणमिदम् । सौवीरेष्विति निवृत्तम् । कौरव्याः ब्राह्मणा इति ॥ कुरुर्नाम कश्चिद्ब्राह्मणः । तस्यापत्यानीति विग्रहः । ण्यप्रत्यये ओर्गुणे अवादेशः, आदिवृद्धिः । यस्तु 'कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वात् बहुषु लुकि कुरवः, क्षत्रियाः इति भवति । एतत्सूचनार्थमेव बहुवचनं, ब्राह्मणा इति विशेष्यञ्चो दाहृतम् । वावदूक्याः इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिये इति ॥ कुर्वादिगणसूत्रम् । अपत्ये इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति ॥ सम्राजः शूद्रादौ उत्पन्न इत्यर्थः । सेनान्त ॥ एभ्य इति ॥ सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति ॥ हरिषेणो नाम कश्चित् । 'एति संज्ञायाम्' इति षत्वम् । तस्यासिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति ॥ लक्षणमस्या- स्तीति लक्षणः, अर्शआद्यच् , तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे । कारिः शिल्पी ति ॥ तस्मादिति ॥ कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति ॥ तन्तु- वायस्यापत्यमिति विग्रहः। कौम्भकार्य इति ॥ कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति ॥ नापितस्यापत्यमिति विग्रहः । उदीचामिञ् ॥ सेनान्तलक्षणकारिभ्यः इञ्

७००
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

हारिषेणिः । लाक्षणिः । तान्तुवायिः । कैौम्भकारिः । नापितात्तु पर त्वात्फिञेव । नापितायनिः । ' तक्ष्णोऽण उपसङ्खयानम्' (वा २५४०) । 'षपूर्व-' (सू ११६०) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ।

११७८ । तिकादिभ्यः फिञ् । (४-१-१५४)

तैकायनिः ।

११७९ । कौसल्यकार्मार्याभ्यां च । (४-१-१५५)

अपत्ये फिञ् । इञोऽपवादः । परमप्रकृतेरेवायमिष्यते । प्रत्ययसन्नियो गेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः । ‘छागवृषयोरपि' (वा २६४३) । छाग्यायनिः । वार्ष्यायणिः ।

११८० । अणेो द्व्यचः । (४-१-१५६)

अपत्ये फिञ् । इोऽपवादः । कार्त्रायणि । 'अणः' इति किम् । दाक्षायणः । ‘द्वचः' किम्। औपगविः । ‘त्यैदादीनां फिञ्वा' (वा ५०५०) । त्यादायनिः-(त्याद्ः)


स्यादुदीचाम्मते इत्यर्थः । नापितात्तु परत्वात् फिजेवेति । उदीचां वृद्धादित्यनेनेति शेषः । तक्ष्णोऽण उपसङ्खयानमिति । उदीचां मते इति शेषः । ताक्ष्ण इति । अनि प्रकृतिभावान्न टिलोपः । अल्लोपस्तु 'षपूर्वहन्’ इति वचनाद्रवति । पक्षे ताक्षण्य इति । प्राचामिति कारित्वलक्षणो ण्य इत्यर्थः । “ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । तिकादिभ्यः फिञ् ॥ इोऽपवादः । तैकायनिरिति । फिजि आयन्नादेशः। कौसल्य।। परमप्रकृतेतरेवेति ॥ कोसलकर्माराभ्याम्फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट्चेति वक्तव्यमित्यर्थः । अणो ह्यचः ॥ अपत्ये फिञिति ॥ शेषपूरणमिदम् । द्यचः अण्प्रत्ययान्तादपत्ये फिलित्यर्थः । कात्रयणिरिति ॥ कर्तुः छात्रः कात्रैः, 'तस्यदम्' इत्यण् । कात्रैस्यापत्यङ्कार्त्रायणिः । फिानि आयन्नादेशे णत्वम् । दाक्षायण इति ॥ दक्षस्यापत्यन्दाक्षिः । अत इञ् । दाक्षेरपत्यन्दाक्षायणः । 'यञिञोश्च' इति फक् । अदन्तत्वाभावान्न फिञिति भावः । औपगविरिति । उपगेोर्गेत्रापत्यमैौपगवः । तस्यापत्यमौपगविः युवा । द्यच्त्वाभावान्न फिजिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठात् ण्य एवेति बोद्यम्। त्यदादीनां फिञ्वेति । वाच्य इति शेषः । त्यादायनिरिति । ‘त्यादः’ इति कचित्पुस्तके दृश्यते । ततु प्रामादिकम्। ‘त्यदादीनि च' इति त्यदादीनां वृद्धत्वात् ‘उदीचां वृद्धात् १. काशिकानुरोध्यप्य पाठो व्यर्थ एव । त्यदादीनां वृद्धत्वे 'उदीचाम्--' इत्युत्तरसूत्रेण रूपद्वयसिद्धेः । भाष्यानुक्तत्वाच ।।

प्रकरणम्]
७०१
बालमनोरमा ।

११८१ । उदीचां वृद्धाद्गोत्रात् । (४-१-१५७)

आम्रगुप्तायनिः । प्राचां तु आम्रगुप्तिः । 'वृद्धात्' किम् । दाक्षिः । अगोत्रात्’ किम् । औपगविः ।

११८२ । वाकिनादीनां कुक्च । (४-१-१५८)

अपत्ये फिञ्वा । वाकिनस्यापत्यं वाकिनकायनिः-वाकिनिः ।

११८३ ।। पुत्रान्तादुन्यतरस्याम् । (४-१-१५९)

अस्माद्वा फिञ्सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्र कायणिः—गार्गीपुत्रायणिः—गार्गीपुत्रिः ।

११८४ । प्राचामवृद्धाफिन्बहुळम् । (४-१-१६०)

ग्लुचुकायनिः ।

११८५ । मनोजतावज्यतौ षुक्च । (४-१-१६१)

समुदायार्थो जातिः । मानुषः-मनुष्यः ।

११८६ ।। जनपदशब्दात्क्षत्रियादञ् । (४-१-१६८)


इत्येव सिद्धेः, भाष्ये अस्य वार्तिकस्य अदर्शनाच । उदीचां वृद्धादगोत्रात् ॥ वृद्धसंज्ञकात् अगोत्रप्रत्ययान्तात्फिञ् स्यात् उदीचाम्मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्त स्यापत्यमिति विग्रहः । प्राचां त्विति । मते इति शेषः । आम्रगुप्तिः । अत इञ् । औपग विरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञ्जभावे इञेवेति भावः । वाकिनादीनाम् ॥ शेषपूरणेन सूत्रं व्याचष्टे । अपत्ये फिञ्वेति ॥ चकारादुदीचामिति फिजिति चानुवर्तत इति भावः । तथाच वाकिनादिभ्यः फिञ् वा स्यात्, प्रकृतीनाङ्कगागमश्चेति फलितम् । पुत्त्रान्तादन्यतरस्याम् ॥ स्पष्टम् । प्राचामवृद्धात् ॥ अवृद्धसंज्ञकात् अपत्ये बहुळम्फिञ् स्यादित्यर्थः । प्राचाङ्गहणम्पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुळ ग्रहणान्नेह । दाक्षिः । मनोजतौ ॥ मनुशब्दात् अञ् यत् एतौ प्रत्ययौ स्तः, तयोष्षुगागमश्रे त्यर्थः । प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः । तदाह । समुदायार्थो जातिरिति । नात्रापत्यग्रहणं सम्बछद्यते इति भावः । अन्यथा मानुषा इत्यत्र “यञ्जओश्च' इति लुक् स्यादिति बोद्यम् । जनपदशब्दात् ॥ जनपदो देशः, तद्वाचकशब्दो जनपदशब्दः, तथाभूतो यः क्षत्रियवाचकशब्दः, तस्मादित्यर्थः । फलितमाह । जनपदक्षत्त्रिययोरिति ॥ ऐक्ष्वाक इति ॥ इक्ष्वाकुनर्नाम देशः, राजा च । तस्य राज्ञोऽपत्यमिति बिग्रहे अञ्, अणोऽपवादः

७०२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

जनपद्क्षत्रिययोर्वाचकाद्ञ् स्यादपत्ये । “दाण्डिनायन- (सू ११४५) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ । “क्षत्रियसमानशब्दाज्जन पदात्तस्य राजन्यपत्यवत्' (वा २६६९) । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थ संज्ञासामथ्र्यात् । पञ्चालानां राजा पाञ्चालः । “पूरोरण्वक्तव्यः' (वा २६७०) । पौरवः । 'पाण्डोड्यैण्’ (वा २६७१) । पाण्ड्यः ।

११८७ । साल्वेयगान्धारिभ्यां च । (४-१-१६९)

आभ्यामपत्येऽञ् । * वृद्धेत्--' (सू ११८९) इति व्यङोऽपवादः । साल्वयः । गान्धारः । तस्य राजन्यप्येवम् ।

११८८ । द्व्यञ्मगधकलिङ्गसूरमसाद्ण् । (४-१-१७०)

अञोऽपवादः । द्व्ययचू । आङ्गः । वाङ्गः । सौह्म: । मागधः । कालङ्गः । सौरमसः । तस्य राजन्यप्यवम् ।


स्वरे विशेषः । ओर्गुणम्बाधित्वा “दाण्डिनायन' इति सूत्रे निपातनादुकारस्य टेलोपः । ऐक्ष्वाकाविति । बहुवचने तु लुग्वक्ष्यते इति भावः । क्षत्रियसमानेति । क्षत्रियवाचक शब्देन समानशब्दो जनपदवाचकः, तस्मात् षष्ठयन्तात् राजन्यथै अपत्यवत्प्रत्यया भवन्तीत्यर्थः । वार्तिकमेतत्सूत्रसिद्धार्थकथनपरमित्याह । तद्राजमिति ॥ जनपदशब्दादित्यादिविहिताना मञादीनान्तद्राजसंज्ञा विहिता 'ते तद्राजाः' इति । प्रत्ययानान्तद्राजत्वन्तद्वाचकत्वाद्गौणम् । एवञ्च तद्राजवाचकास्तद्राजाः इत्यन्वर्थसज्ञैषा, नतु टिघुभादिवदवयवार्थरहिता। तथाच अञादि प्रत्ययानान्तद्राजसंज्ञकानां राजवाचकत्वमपि विज्ञायते इति राजन्यपि वाच्ये ते भवन्तीति विज्ञायत इत्यर्थः । पञ्चालानामिति । बहुवचनान्तमिदं देशविशेषनाम । भाष्य तथैव प्रयोगदर्शनात् । व्द्यञ्मगध' इत्यत्र भाष्ये 'नेषो नाम जनपदः' इति दर्शनाद्दशवाचिनोऽप्येकवचनमिति ज्ञेयम् । जनपदशब्दादिति किम् । द्रुह्योरपत्य द्रौह्यवः । अणेव, तद्राजत्वाभावाद्बहुत्वे न लुक् । द्रोह्यवाः । क्षत्त्रियादिति किम् । पञ्चालो नाम कश्चिद्ब्राह्मणः । तस्यापत्यम्पाञ्चालिः । वैदेहिः । पूरोर णिति ॥ पूरुशब्दस्य जनपदवाचित्वाभावात्प्राग्दीव्यतीये आणि सिद्धे तद्राजसंज्ञार्थं वचनम् । देशवाचित्व तु “व्द्यञ्मगध' इत्येव सिद्धम् । पाण्डोडर्यणिति ॥ वाच्य इति शेषः । इह श्वतगुणवाचिनो युधिष्ठिरपितृवाचिनश्च पाण्डोर्न ग्रहणम् । जनपदादित्युक्तेः । तस्य च पाण्डुदेशाधिपतिराजत्वाभावात् । पाण्ड्य इति । पाण्डोरपत्यं पाण्डुदेशस्य राजा वेत्यर्थः । साल्वेय । ननु साल्वयगान्धारिशब्दौ अव्युत्पन्नौ देशक्षत्त्रियोभयवाचिनौ, ताभ्या ञ्जनपदशब्दादिञि सिद्धे किमर्थमित्यत आह । वृद्धेदिति ञ्यङोऽपवाद् इति । द्व्यञ्मगध ॥ अञोऽपवाद इति ॥ जनपदशब्दादिति विहितस्याञोऽपवाद इत्यर्थ ।

प्रकरणम्]
७०३
बालमनोरमा ।

११८९ ॥ वृद्धेत्कोसलाजादाञ्ञ्यङ् । (४-१-१७१)

वृद्धात् । आम्बष्ठयः । सौवीर्यः । इत् । आवन्त्यः । कौन्त्यः । कौ सल्यः । अजादस्यापत्यमाजाद्यः ।

११९० । कुरुनादिभ्यो ण्यः । (४-१-१७२)

कौरव्यः । नैषध्यः । “स नैषधस्यार्थपतेः' इत्यादौ तु शैषिकोऽण् ।

११९१ । साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । (४-१-१७३)

साल्वो जनपदस्तदवयवा उदुम्बराद्यस्तेभ्यः प्रत्यप्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ।

११९२ । ते तद्राजाः । (४-१-१७४)

अञादयः एतत्संज्ञाः स्युः ।

११९३ । तद्राजस्य बहुषु तेनैवास्त्रियाम् । (२-४-६२)


“व्द्यचः' इति उदाह्रियते इति शेषः । अङ्ग, वङ्ग, सुह्म इत्येते व्द्यचः देशक्षत्त्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति विग्रहः । वृद्धेत्कोसलाजादाञ्यङ् ॥ जनपदक्षत्रियोभयवाचकादृद्धसंज्ञकात् इदन्तात् कोसलात् अजादाव्ह्चापत्ये ञ्तङित्यर्थः । वृद्धादिति । उदाह्रियते इत्यर्थः । आम्बष्ठयः । सौवीर्य इति ॥ आम्बष्ठसौवीरशब्दौ जनपदक्षत्रियोभयवाचकौ । इदिति । इदन्तोदाहरण सूचनमिदम् । आवन्त्य इति । अवन्तिशब्दो देशे राजनि च । कौसल्य इति ॥ कोसलशब्दो देशे राजनि च । अजादस्यापत्यमिति । राजवाचकत्वे विग्रहोऽयम् । देशवाचकत्वे तु अजादानां राजेति विग्रहः । कुरुनादिभ्यो ण्यः । कुरुशब्दात् नकारा दिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः । कौरव्य इति ॥ कुरोरपत्यङ्कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजानि च । शैषिक इति । तस्येदमित्यनेनेति शेषः । साल्वावयव । उदुम्बरादय इति । “उदुम्बरास्तिलखला मद्रकारा युगन्धाराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ॥” इति प्रसिद्धिः । 'द्व्यञ् मगध' इति भाष्ये तु बुध आजमीड अजक्रन्दा अपि गृहीताः । ते तद्राजाः ॥ ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह । अञ्जादय इति । तद्राजस्य ॥ 'ण्यक्षत्रियार्ष' इत्यतो लुगिल्यनुवर्तते । तेनेत्यनन्तरं कृते बहुत्वे

७०४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

बहुष्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृतबहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चालाः इत्यादि । कथ 'कौरव्याः पशव',

तस्यामेव रघोः पाण्ड्याः

इति च । कौरव्ये पाण्ड्ये च साधवः इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये 'निरुध्यमाना यदुभिः कथञ्चित्' इति तु र घुयदुशब्द्यास्तदपत्य लक्षणया ।

११९४ । कम्बोजाल्लुक् । (४-१-१७५)

अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । “कम्बोजादिभ्य इति वक्तव्यम्’ (वा २६७४) । चोलः । शकः । ठद्यज्लक्षणस्याणो लुक् । केरलः । यवनः । अञ्यो लुक् । “कम्बोजाः समरे' इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । 'सिन्धुतक्षशिलादिभ्योऽणञौ' (सू १४७३) इत्यण्

११९५ । स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । (४-१-१७६)


इत्यध्द्याहार्यः । तदाह । बहुष्विति । तदर्थकृतबहुत्वे इति । अञ्जादिप्रत्ययान्त मात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वाङ्गो येषान्ते प्रियवाङ्गाः इत्यत्र बहुत्व स्यान्यपदार्थगतत्वात् । वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविशिष्टान्यपदार्थगतं बहुत्वं वर्तिपदार्थगतमपि भवति । तथापि अप्रत्ययान्तार्थ वाङ्गमात्रावगतन्न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकवः। पञ्चाला इति ॥ 'जनपदशब्दात्' इति विहि- तस्य अओ लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति ॥ अङ्गाः वङ्गाः इत्यादि बोध्यम् । कथं तर्हीति ॥ कौरव्या इत्यत्र ण्यप्रत्यस्य पाण्ड्य इत्यत्र ङ्यण्प्रत्ययस्य च तद्राजतया बहुषु लुकप्रसङ्गादित्यर्थः । साधव इतीति ॥ कौरव्यशब्दात् पाण्ड्यशब्दाच 'तत्र साधुः' इति यत्प्रत्यये 'यस्येति च' इत्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाभावान्न लुगित्यर्थः । ननु रघु. यदुशब्दयोर्जनपदवाचित्वाभावात् प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाभावात् कथं बहुषु तस्य लुगित्याशङ्कय परिहरति । रघूणामिति ॥ लक्षणयेति ॥ प्रयोग इति शेषः । ततश्च नेदमपत्यप्रत्ययान्तमिति भावः । लक्षणाबीजन्तु रघुयदुसमानवृत्तिकत्वं बोध्यम् । कम्बोजा- ल्लुक् ॥ तद्राज इत्यनुवृत्तं षष्ट्या विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादि- त्यर्थः । अबहुत्वार्थं सूत्रम् । तदाह । कम्बोजः । कम्बोजाविति ॥ जनपदशब्दादिति विहितस्य अञो लुक् । चोलश्शक इति ॥ चोलशकौ देशविशेषौ राजविशेषौ च । द्व्यज्- लक्षणस्येति ॥ 'व्द्यञ्मगध' इति विहितस्येत्यर्थः । केरळ इति ॥ केरळयवनशब्दौ देश- राजोभयवाचिनौ । अञो लुगिति ॥ जनपदशब्दादिति विहितस्येति शेषः । ननु काम्बोज इति कथं, लुक्प्रसङ्गादित्यत आह । कम्बोजाः समरे इति ॥ दीर्घपाठे त्विति ॥ अचाम्मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति ॥ यत्र पूर्वमुषितं सोऽभिजनः इत्यग्रे वक्ष्यति । सिन्धुतक्षेति ॥ सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः । स्त्रियामवन्ति ॥

प्रकरणम्]
७०५
बालमनोरमा ।

तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ।

११९६ । अतश्च । (४-१-१७७)

तद्राजस्याकारस्य स्रियां लुक्स्यात् । शूरसेनी । मद्री । कथं 'माद्री सुतौ' इति । “हृस्व एव पाठः' इति हरदत्तः । भगदित्वं वा कल्प्यम् ।

११९७ । न प्राच्यभगर्गादियौधेयादिभ्यः । (४-१-१७८)

एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मा गधी । एते प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनक भावलक्षणे पुंयोगे डीष् । “युधा' “शुक्रा' आभ्यां 'द्व्यचः' (सू ११२४) इति ढक् । ततः स्वार्थे * पश्चदियौधेयादिभ्योऽणञौ' (सू २०७० ) इत्यञ् । 'शाङ्गरवाद्यञः-' (सू ५२७) इति डीन् । * अतश्च' (सू ११९६) इति लुकि तु ढगन्तत्वान्डीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ।

११९८ । अणि ञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । (४-१-७८)


अवन्ती। कुन्तीति ॥ अवन्तेः कुन्तेश्चापल्यं स्त्री राज्ञी वेति विग्रहः । ‘वृद्धेत्कोसल' इति ञ्यङोऽनेन लुकि “इतो मनुष्यजातेः' इति डीष् । कुरूरिति ॥ 'कुरुनादिभ्यः' इति ण्यस्य लुक् । अतश्च ॥ तद्राजस्याकारस्येति ॥ अत इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शशूरसेनीति ॥ अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वात् डीष् । ‘न लुमता' इति निषेधस्तु न । डीष्विधेरङ्गकार्यत्वाभावात् । एवं मद्री । न प्राच्य ॥ एभ्य इति ॥ प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्चेत्यर्थः । एते प्राच्या इति ॥ क्षत्रिया इति शेषः । यथायथं अञ्जः अणश्च लुक् । भर्गादीनुदाहरति । भार्गी, कारूशी, कैकेयीति ॥ जन्यजनकभावेति । अत्र यद्वक्तव्यं तत् “पुंयोगादाख्यायाम्' इत्यत्रोक्तम् । अथ यौधेया दिभ्येो लुक्प्रतिषेधं दर्शयितुमाह । युधा, शुक्रा इत्यादिना ॥ ढगिति । युधाया अपत्यं शुक्राया अपत्यमिति विग्रहे तन्नामिकाणं बाधित्वा “व्द्यच ' इति ढाकि एयादेशे “यस्येति च ' इत्यकारलोपे आदिवृद्धिः । यौधेयशब्दात् शौक्रेयशब्दाच्च 'पश्चदियौधेयादिभ्योऽणञौ' इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अञि “यस्येति च' इत्यकारलोपे “अतश्च' इति लुकि सत्यपि टिड्ढ' इति ङीपि यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणमनर्थकमित्यत आह । अतश्चेति लुकि त्विति ॥ उदात्तनिवृत्तीति ॥ 'अनुदात्तस्य च यत्रोदात्तलोपः इत्यनेन डीबुदात्तः स्यात् । सिद्धान्ते त्वञ्जन्तत्वात् ङीनि आद्युदात्तत्वामिति भावः । आणिओोः ॥ त्र्यादीनामन्त्यमुत्तममिति ॥ तथा भाष्यादिति भावः । तस्य समीपमुपोत्तम मिति ॥ सामीप्येऽव्ययीभाव इति भावः । गुरु उपेोत्तमम् उत्तमसमीपवर्ति ययेोरिति विग्रहः । प्रातिपदिकादित्यधिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति

७०६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

त्र्यादीनामन्यमुत्तमं, तस्य समीपमुपोत्तमम्। गोत्रे यावणिज्यौ विहिता वनार्षौ तदन्तयोर्गुरूपोत्तमयो: प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् । 'निर्दिश्यमानस्यादेशा भवन्ति' (प १३) इत्यणिज्योरेव । षङावितैौ । 'यङ श्चाप्' (सू ५२८) । कुमुद्गन्धेरपत्यं स्त्री कौमुद्गन्ध्या । वाराह्या । 'अना र्षयोः' किम् । वासिष्ठी । वैश्वामित्री । “गुरूपोत्तमयोः' किम् । औपगवी । जातिलक्षणो ङीष् । “गोत्रे' किम् । अहिच्छत्त्रे जाता आहिच्छत्त्री ।

११९९ । गोत्रावयवात् । (४-१-७९)

गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या ।


लभ्यते । 'अणिञोः ' इत्यनेन प्रत्यग्रहणपरिभाषया अणिजन्तयोहणम् । गोत्रे इत्येतत् अणिञोरन्वेति । ऋषेरविहितौ अनार्षे । इदमपि अणिोर्विशेषणम् । स्त्रियामित्यधिकृतम् । तदाह । गोत्रे यावणिञावित्यादिना ॥ आदेशः स्यादिति ॥ स्थानषष्ठीनिर्देशा दादेशत्वलाभः । ननु अणिञन्तयोः ष्यङादेशाऽयमनेकाल्त्वात् सर्वादेशः स्यादित्यत आह । निर्दिश्यमानस्येति ॥ तथा च अणिञोरेवायमादेश इति भावः । 'ङिच्च' इत्यन्तादेश इति न युक्तम् । ङित्वस्य ष्यडः सम्प्रसारणमित्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति ॥ कुमुद गन्ध इव गन्धो यस्येति विग्रहः । ‘सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यः उत्तरपदलोपश्च' इति बहुव्रीहिः। पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च । ‘उपमानाच्च' इति इत्त्वम् । कुमुदगन्धे रपत्यं स्त्रीति विग्रहे अण् । ‘यस्येति च' इति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र यकारादणोऽकार उत्तमः, तत्समीपवर्तीं गुरु गकारादकारः । 'संयोगे गुरु' इत्युक्तेः । नचा नुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वङ्गकारादकारस्येति वाच्यम् । “येन नाव्यवधान न्तेन व्यवहितेऽपि' इति न्यायेन हला व्यवधानस्यादोषत्वात् । नह्यणि परे अव्यवहितो गुरु क्वचिदस्ति । एवञ्च गुरूपोत्तमं प्रातिपदिङ्कौमुदगन्धेत्यणन्तं, तदवयवस्य अणः ष्यङादेश यङश्चाप्’ इति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इञन्तस्योदाहरति । वाराहोति ॥ वराह स्यापत्यं स्त्रीति विग्रहः । अत इञ्, अकारलोपः, वाराहिशब्दः । तत्र इकार उत्तमः । रेफादाकार उत्तमसमीपवर्ती गुरुः । इञ्, इकारस्य ष्यङादेशः, चाबिति भावः । वासिष्ठी । वैश्वामित्त्रीति ॥ ऋष्यणन्तावेतौ । औपगवीति ॥ अणन्तत्वेऽपि गुरूपोत्तमत्वाभावान्न ष्यङ् । जातिलक्षण इति ॥ “गोत्रञ्च चरणैः सह” इति जातित्वम् । आहिच्छत्रीति ॥ जातार्थे अणयं, नतु गोत्र इति न ष्यङ् । नच घ्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यम् । तथा सति उदमेयस्यापल्यं स्त्री इति विग्रहे अत इञि ष्यङि चापि औदमेय्या, तस्याः अपत्यं औदमेयेयः इति न सिद्येम् । अस्यापत्यप्रत्ययत्वाभावेन यलोपाप्राप्तरिति स्पष्टं भाष्ये । गोत्रावयवात् ॥ गोत्रावयवशब्दं व्याचष्टे । गोत्रावयवा गोत्राभिमता इति ॥ गोत्रङ्कलम् अभिमतं प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत

प्रकरणम्]
७०७
बालमनोरमा ।

१२०० । क्रौड्यादिभ्यश्च । (४-१-८०)

स्त्रियां ष्यङ्प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चारम्भः । क्रौड्या । व्याड्या । “सूत युवत्याम्' (ग सू ५५) सूत्या । ‘भोज क्षत्रिये' (ग सू ५६) । भोज्या ।

१२०१ । दैवयज्ञिशौचिवृक्षसात्यमुग्रिकाण्डेविद्विभ्यो ऽन्यतरस्याम् । (४-१-८१)

एभ्यश्चतुभ्र्यः ष्यङ्वा । अगोत्रार्थमिदम्, गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे 'इतो मनुष्य -' (सू ५२०) इति ङीष् । दैवयज्ञया-दैवयज्ञी । इत्यादि । इति अपल्याधिकारप्रकरणम् ।


इत्यर्थः । कुलव्यपदेशकृतः इति यावत् । तदाह । कुलाख्या इति ॥ कुलम् आख्यायते व्यपदिश्यते आभिरिति कुलाख्या । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते । पुणिकाः वयं, भुणिकाः वयमित्यादि । अवपूर्वकात् ‘यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः । कुलस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह । अगुरूपोत्तमार्थः इति ॥ गोत्रादवयुतं मिश्रितम् अनन्तरापत्यन्तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ्च पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारि भाषिकमेव 'गोत्रङ्गुह्यते' इति भाष्यस्वरसः । पौणिक्येति ॥ पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप् । एवम्भौणिक्या मनुष्यनामत्वे तन्नामिकाणःष्यङ् । क्रौड्यादि भ्यश्च ॥ “प्रत्ययविधिः' इति भाष्योक्तम्पक्षान्तरमाश्रित्य आह । ष्यङ्प्रत्यय इति ॥ पूर्वेण सिद्धे किमर्थमिदमित्यत आह । अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चेति ॥ क्रौड्ये ति ॥ क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात्ष्यङ् , चाप् । इह 'त्र्यादीनामन्यमुत्तमम्' इत्युक्तेनागुरूपोत्तमत्व, मनुष्यनामत्वेत्वण् । भौकक्ष्यशब्दो गर्गादियञन्तः । तस्य अनणि ञन्तत्वेऽपि ष्यङ्। सूतयुवत्यामिति ॥ गणसूत्रमिदम्। सूतशब्दो युवत्यां ष्यङ् लभते इत्यर्थः । सूत्येति ॥ प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोज क्षत्त्रिये ॥ इदमपि गणसूत्रम् । दैवयज्ञि ॥ अगोत्रार्थमिति । अनन्तरापत्यार्थमित्यर्थः । प्रवर्तते इति ॥ विकल्प इति शेषः । पक्षे इति ॥ ष्यङभावपक्षे इत्यर्थः । दैवयज्ञीति ॥ देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इञन्तात्ष्यङ्विकल्पः । इत्यादीति ॥ शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या-शैौचिवृक्षी । सत्यमुग्रः निपतनान्मुम् । सत्यमुग्रस्यापत्यं स्त्री सात्यमुग्रया-सात्यमुग्री । काण्डेन विद्धः काण्डे विद्धः । निपातनादेत्त्वम् । काण्डेविद्धस्यापत्यं स्री काण्डविध्या-काण्डेविद्धी । कर्णंविद्धीति पाठान्तरम् |

इत्यपत्याधिकारप्रकरणम् ।

७०८
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

अथ तद्विते चातुरर्थिकप्रकरणम् ।

१२०२ । तेन रक्तं रागात् । (४-२-१)

रज्यतेऽनेनेति रागः, कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात्' किम् । देवदत्तेन रक्तं वस्त्रम् ।

१२०३ । लाक्षारोचनाट्ठक् । (४-२-१)

लाक्षिकः । रौचनिकः । “शकलकर्दमाभ्यामुपसंख्यानम्’ (वा २६७९) । शाकलिकः । कार्दमिक: । “ आभ्यामणपि' इति वृत्ति : । शाकलः । कार्दमः । 'नील्या अन्' (वा २६८०) । नील्या रक्तं नीलम् । 'पीतात्कन्' (वा २६८१) । पीतकम् । ‘हरिद्रामहारजनाभ्यामञ्’ (वा २६८२) । हारिद्रम् । माहारजनम् ।

१२०४ । नक्षत्रेण युक्तः कालः । (४-२-३)

पुष्येण युक्तं पौषमहः । पौषी रात्रिः ।


अथ तद्धितचातुरर्थिकप्रकरणं निरूप्यन्ते-तेन रक्तं रागात् ।। रज्यते इति ॥ रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घनि कृते *घाञि च भावकरणयोः' इति यलेोपे ‘चजोः कुघिण्ण्यतोः' इति कुत्वे रागशब्द इत्यर्थः । तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तम्भवति । तेनेति सामान्यनिर्देशः । तथाच तेन रक्त वर्णान्तरम्प्राप्तमित्यर्थे रागात् रञ्जनद्रव्यवाचकात् तृतीयान्तादण् स्यादित्यर्थः । 'प्राग्दीव्यतोऽण्’ इत्यधिकारात् । कषाये णेति । कषायेो धातुविशेष ' रञ्जनद्रव्यं, तन्न रक्त वर्णान्तरं प्राप्तङ्कषायमित्यर्थः । माञ्जिष्ठ मिति ॥ मञ्जिष्ठं नाम रञ्जनद्रव्यविशेषः । लाक्षारोचनाट्ठक् ॥ अणोऽपवादः । लाक्षिक इति ॥ पट इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः। शाकलिकः इति ॥ शकल रागद्रव्यविशेषः। वृत्तिरिति ॥ भाष्ये तु नैतदृष्टम् । नील्या अनिति ॥ वक्तव्य इति शेषः । अणोऽपवादः । नीली ओषधिविशेषः । “पीतात्कन् अणोऽपवादः । पीतं हरिताळकादि द्रव्यम्। हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः। हरिद्रा प्रसिद्धा। महारजनन्नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।* नक्षत्रेण ॥ अस्मिन्नर्थे प्रथमोचा रितात् नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमाः नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थ |पौषम् अहरिति । पुष्यशब्दादणि ‘तिघ्यपुष्ययोर्नक्षत्राणि यलोपः’ इति यलोपः। पौषी रात्रिरिति ॥ पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः । अणि यलोपे 'टिड्ढ’ इति डीप् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता

प्रकरणम्]
७०९
बालमनोरमा ।

१२०५ । लुबविशेषे । (४-२-४)

पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि ' पुष्ययुक्तन्न पौर्णमासी पौषी' इति । “विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्य:’ (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुब्नेति ज्ञापितत्वात् । श्रवणशब्दातु अत एव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि ? । श्रावणी ।

१२०६ । संज्ञायां श्रवणाश्वत्थाभ्याम् । (४-२-५)

विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । ‘संज्ञायाम्' किम् । श्रावणी । आश्वत्थी ।


रात्रिः । कालः किम् । पुष्येण युक्तश्चन्द्रमाः । लुबविशे ॥ षष्टिदण्डेति ॥ षष्टिघटिका परिच्छिन्ने काले एकैकस्मिन् एकैकेन नक्षत्रेण चन्द्रमा युज्यते इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषः अहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः । अद्य पुष्य इति ॥ अद्येत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम् । इह तु अधिकरणशक्तिविनिर्मुक्तः । अहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तहति ॥ पौर्णमास्याः षष्टिदण्डात्मिकाया अवा न्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते । विभाषेति ॥ फाल्गुनीकार्तिकीशब्दानां नक्षत्राण्विशिष्टानाम्पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यान्नक्षत्रयुक्तायां “लुबविशेषे' इत्ययं लुप् नेति ज्ञापितत्वात् । पौषी पौर्णमासीत्यत्र न लुबित्यर्थः । ननु तर्हि श्रवणयुक्तपैौर्णमास्यां लुबभावात् कथं श्रवणेति निर्देश इत्यत आह । श्रवणशव्दात्त्वत एव लुबिति ॥ श्रवणेति निपातनादेव पौर्णमास्यां लुबित्यर्थे । ननु 'कृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्त रम्' इत्यादौ श्रवणशब्दस्य पुलिङ्गत्वदर्शनेन तस्मादणेो लुपि कृते “लुपि युक्तवव्द्यक्तिवचने इति पुलिङ्गत्वावश्यंभावाच्छूवणेति कथं स्त्रीलिङ्गतेत्यत आह । युक्तवद्भावाभावश्चेति ॥ निपातनादिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह । अबाधकान्यपि निपातनानीति ॥ इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तु 'बाधकान्येव निपातनानि इत्युक्तम् । संज्ञायाम् ॥ श्रवणाश्वत्थाभ्याम्परस्य नक्षत्रप्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु 'लुबविशेषे' इत्येव सिद्धे किमर्थमिदमित्यत आह । विशेषार्थोऽयमारम्भ इति ॥ श्रवणा रात्रिरिति ॥ श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थे । 'विभाषा फाल्गुनीश्रवणा' इति सूत्रे श्रवणति निर्देशस्य सामान्यापेक्षत्वात् अपौर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतः श्रवणा रात्रिरिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अश्वत्थो मुहूर्त इति ॥ अश्वत्थो नाम अश्विनीनक्षत्रम् । तेन युक्तः अश्वत्थः, मुहूर्तविशेषो ज्योतिषे प्रसिद्धः |

७१०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१२०७ । द्वन्द्वाच्छः । (४-२-६)

नक्षत्रद्वन्द्वाद्युक्ते काले छः स्याद्विशेषे सत्यसति च । तिष्यपुनर्वसवी यमहः । राधानूराधीया रात्रिः ।

१२०८ । दृष्टं साम । (४-२-७)

तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम । “ अस्मिन्नर्थेऽण डिद्वा वक्तव्य:’ (वा २६९०) । उशनसा दृष्टमौशनम्-औशनसम् ।

१२०९ । कैलेर्ढक् । (४-२-८)

(वा २६८९) । कलिना दृष्टं कालेयं साम ।

१२१० । वामदेवाडुयडुयौ । (४-२-९)

वामदेवेन दृष्टं साम वामदेव्यम् । सिद्धे यस्येति लोपेन किमर्थ ययतौ डितौ । ग्रहणं माऽतदर्थेऽभूद्वामदेव्यस्य नञ्स्वरे ।।' [इति भाष्यम् ।]

१२११ । परिवृतो रथः । (४-२-१०)


द्वन्द्वाच्छः ॥ तिष्यपुनर्वसवीयमहरिति ॥ तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः । राधानूराधीया रात्रिरिति ॥ राधेति विशाखानक्षत्रमुच्यते । राधा च अनूराधाश्च राधानूराधाः । तद्युक्ता रात्रिरित्यर्थः । दृष्टं साम ॥ तेनेत्येवेति ॥ अनुवर्तते एवेत्यर्थः । तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । अस्मिन्नर्थे इति ॥ 'दृष्टं साम' इत्यर्थे यः अण् सः डिद्वेत्यर्थः । औशन मिति ॥ आणि टिलोपपक्षे रूपम् । कलेढेक् ॥ वामदेवाडुयडुयौ । वामदेव्यमिति ॥ डित्वाट्टिलोपः । तित्त्वं स्वरार्थम् । ननु ‘यस्येति च' इति लोपेन सिद्धे किमर्थमिह डित्करण मिति चेत्सत्यम् । यतोरेव विधौ “यतोश्चातदर्थे' इति नञः परस्य यदन्तस्यान्तोदात्त स्वरविधौ अनयोहणाभावार्थं डित्करणम् । तथाच वामदेव्यमित्यत्रायं स्वरो न भवति । डित्करणे सति तु स्वरविधावनयोर्न ग्रहणम् । 'निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहणम् इति परिभाषया वा ‘तदनुबन्धकग्रहणे सति नातदनुबन्धकस्य’ इति परिभाषया वा तन्निवृत्तिर्भव ति । एते तु परिभाषे इहैव ज्ञाप्येते । एतत्सङ्गाहकम्भाध्यस्थं श्लोकम्पठति। सिद्धे यस्येत्यादि । अत्र पूर्वार्धमाक्षेपपरम् । “यस्य’ इति लोपेन सिद्धे ययतौ किमर्थण्डितौ कृतावित्यर्थः । ग्रहण मिति ॥ वामदेव्यशब्दस्य नञ्स्वरे नञाश्रयस्वरविधौ अतदर्थे “यतोश्चातदर्थे' इति सूत्रे अनयोड्यड्योर्ग्रहणं माभूदित्येतदर्थण्डित्करणमित्यर्थः । परिवृतो रथः ॥ तेनेत्यनुवर्तते । १. कलेर्ढगिति वार्तिकम्-इति शेखरकृत् ।

प्रकरणम्]
७११
बालमनोरमा ।

वस्त्रैः परिवृतो वास्त्रो रथः । 'रथः' किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छात्रैः परिवृतो रथः ।

१२१२ । पाण्डुकम्बलादिनिः । (४-२-११)

पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तर- णवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ।

१२१३ । द्वैपवैयाघ्राद्ञ् । (४-२-१२)

द्वीपिनी विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ।

१२१४ । कौमारापूर्ववचने । (४-२-१३)

“कौमार’ इत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्व- पतिं कुमारीं पतिरुपपन्नः कौमारः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ।

१२१५ । तत्रोद्धृतममत्रेभ्यः । (४-२-१४ )


तेन परिवृतो रथः इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथः इत्यत्रापि स्यादित्यत आह । समन्ताद्वेष्टितः परिवृत इत्युच्यते इति । रथस्य समन्तादाच्छा- दनार्थे यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः । एकान्तग्रहणमिति वार्तिकात् । पाण्डुकंबलादिनिः । तेनेति परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु “अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह । अणो निवृत्त्यर्थमिति । द्वैपवैयाघ्रादञ् ॥ तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्तात् द्वैपशब्दाद्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः । द्वीपिन इति । द्वीपी व्याघ्रः, तस्य विकारः चर्मेत्यर्थे “प्राणिरजतादिभ्यः" इत्यञि टिलोपे द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अञि ‘न य्वाभ्याम्' इत्यैच् । तेन परिवृतो वैयाघ्र इति भावः । कौमारापूर्ववचने । तेनेति परिवृतो रथ इति च निवृत्तम् । अविभक्तिक इति ॥ लुप्तप्रथमाक इति भावः । अपूर्व- शब्दो भावप्रधान इत्याह । अपूर्वत्वे निपातनमिदमिति ॥ न पूर्वः पतिर्यस्याः सा अपूर्वपतिः, ताङ्कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात् कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्वम्पतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । आद्ये उदाहरति । अपूर्वपतिमिति । द्वितीये उदाहरति । यद्धेत्यादि । आद्ये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः । तत्रोद्धृतम् ॥ तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात् सप्तम्यन्तात् प्रत्ययः स्यादित्यर्थः । अमत्रं भाजनं शरावादि । ननु उद्धरणे पृथकरणे

७१२
[चातुरार्थिक
सिद्धान्तकौमुदीसहिता

शरावे उद्धृतः, शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ।

१२१६ । स्थण्डिलाच्छयितरि व्रते । (४-२१५)

'तत्र' इत्येव। समुदायेन चेद्व्रतं गम्यते। स्थण्डिले शेते स्थाण्डिलो भिक्षुः।

१२१७ । संस्कृतं भक्षाः । (४-२१६)

सप्तम्यन्ताद्ण्स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताः भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुराडाशः ।

१२१८ । शूलोखाद्यत् । (४-२-१७)

अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः । तस्या सस्कृतमुख्यम् । १२१९ । दध्नष्ठक् । (४-२१८) दध्नि संस्कृतं दाधिकम्।

१२२० । उदश्वितोऽन्यतरस्याम् । (४-२-१९)

ठक्स्यात् । पक्षेऽण् ।

१२२१ । इसुसुक्तान्तात्कः । (७-३-५१)


शरावस्यापादानत्वात् कथं सप्तमीत्यत आह्। उद्धरतिरिहेति । “सास्मिन्पौर्णमासी' इत्यतः प्राक् तत्रेत्यनुवर्तते । स्थण्डिलाच्छयितरि ॥ स्थण्डिलशब्दात्सप्तम्यन्तात् व्रतनिमित्तक शयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः । संस्कृतं भक्षाः । भक्ष्यन्त इति भक्षाः, कर्मणि घञ् । तत्रेत्यनुवर्तते । तदाह । सप्तम्यन्तादिति । एकवचनं बहुवचनश्च सामान्याभि प्रायम् । “जात्याख्यायामेकस्मिन्बहुवचनम्' इत्याद्युक्त्तेरित्यभिप्रेत्य आह । यत्संस्कृतं भक्षाश्चत्ते स्युरिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् । अष्टाकपाल इति ॥ तद्धितार्थ' इति समासः । भक्षा इति किम् । पुष्पपुटे सस्कृतं वस्रम् । शूलोखाद्यत् ॥ समाहारद्वन्द्वात्पञ्चमी । तत्रेति संस्कृतम्भक्षा इति चानुवर्तते । सप्तम्यन्ताच्छूलशब्दादुखाशब्दाच्च संस्कृतं भक्षाः' इत्यर्थे यत् स्यादित्यर्थः । उखा पात्रविशेष इति । “पिठरं स्थाल्युखा कुण्डम्” इत्यमरः । दध्नष्ठक् । सप्तम्ताद्दधिशब्दात् संस्कृतम्भक्षा इत्यर्थे ठक् स्यादित्यर्थ । अणोऽपवादः । दाधिकमिति ॥ ठकि इकादेशे ‘यस्येति च' इति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहृतेरित्यत्र तु 'संस्कृतम्’ इति तृतीयान्तात् ठग्वक्ष्यते । उदश्वितोऽन्यतरस्याम्।। ठक् स्यादिति । शेषपूरणम्। उक्तविषये उदश्र्वि- च्छब्दाट्ठग्वा स्यादित्यर्थः । इसुसुक्तान्तात्कः ॥ इसुसुक्ताः अन्ता यस्येति विग्रहः ।

प्रकरणम्]
७१३
बालमनोरमा ।

'इस्’ “उस्’ “उक्' 'त' एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृत: औदश्वित्क:-औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आशिषा चरत्याशिषिकः । उषा चरति औषिकः ।

  • दोषं उपसंख्यानम्’ (वा ५०५१) । दोर्भ्यो चरति दौष्कः ।

१२२२ । क्षीराङ्ढञ् । (४-२-२०)

अत्र संस्कृतम्' इत्येव सम्बध्यते, न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षैरेयी ।

१२२३ । सास्मिन्पौर्णमासीति । (४-२-२१)

इति' शब्दात् “संज्ञायाम्' इति लभ्यते । पौषी पौर्णमास्यस्मिन्पौषो मासः ।

१२२४ । आग्रहायण्यश्वत्थाट्ठक् । (४-२-२२)


तकारादकारः उच्चारणार्थः । ठस्य कः स्यादिति ॥ ठकि ककार इत्, अकार उच्चारणार्थः ठकारस्य शिष्टस्य ककारः अन्तादेश इति “ठस्येक:’ इत्यत्रोक्तम् । श्वयतीत्यस्य विवरणं वर्धते इति । “टु ओ वि गतिवृध्द्योः' इति धातुरिह वृध्द्यर्थक इति भावः । उदश्विदिति । क्विपि तुक् । ‘उदकस्योदः संज्ञायाम्' इत्युदादेशः । “तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्” इत्यमरः । प्रतिपदोक्तयोरिति ॥ इस्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्कः इति । आशिषिक इति । चरतीति ठक् । शासुधातोः क्विपि “आशासः क्वौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति ॥ वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्तम् । 'शासिवसिघसीनाञ्च ' इति उभयत्र षत्वम् । दोष इति ॥ दोष्शब्दात् ठस्य कः स्यादित्यर्थः । दौष्क इति ॥ तरतीति ठक् । क्षीराड्ढञ् ॥ क्षैरेयीति ॥ क्षीरे संस्कृता यवागूरित्यर्थः । भक्षग्रहणानुवृत्तौ त्विह न स्यात् । यवाग्वाः पेयत्वेन खाद्यत्वाभावात् । सास्मिन्पौर्ण मासीति ॥ “तत्र' इति 'संस्कृतं भक्षाः' इति च निवृत्तम् । सा पौर्णमासी अस्मि न्नित्यर्थे प्रथमान्तात्प्रत्ययः स्यादित्यर्थः । इतिशब्दादिति ॥ एतच्च भाष्ये स्थितम् । पौषीति ॥ पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः । पौषी शब्दादणि 'यस्येति च' इति ईकारलोपः । एव मघाभिर्युक्ता पैौर्णमासी माघी, सा यस्मिन्स माघो मासः । तथा फाल्गुन इत्यादि । संज्ञायां किम् । पौषी पौर्णमासी आस्मिन्पञ्चदशरात्रे । आग्रहायण्यश्वत्थाट्ठक् ॥ पूर्वसूत्रविषये आग्रहायणीशब्दादश्वत्थशब्दाच्च ठक् स्यादित्यर्थः। १. अत्र च “अथेह कथं भवितव्यम्-दोर्भ्यां तराति दौष्क इति भवितव्यम्’ इति भाष्यं मानम् | 90

७१४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । “पूर्व पदात्संज्ञायाम्--' । (सू ८५७) इति णत्वम् । आग्रहायणी पौर्णमास्यस्मि न्नाग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमास्यश्वत्थः । निपातनात्पौर्ण मास्यामपि लुप् । आश्वत्थिक ।

१२२५ । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः । (४-२-२३)

एभ्यष्टग्वा । पक्षेऽण् । फाल्गुनिकः-फाल्गुनो वा मासः । श्रावणिकः श्रावणः | कार्त्तिकिक:-कार्त्तिकः । चैत्रिक:-चैत्रः ।*

१२२६ । साऽस्य देवता । (४-२-२४)

इन्द्रो देवता अस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमान द्रव्ये उद्देश्यविशेषो देवता, मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । “ आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वत्राग्नि-' (वा २६८९) इति ढक् ।


अणोऽपवादः । हायनमिति । सवत्सर इत्यर्थः । “संवत्सरो वत्सरोऽब्देो हायनोऽस्त्री” इत्यमरः । यस्या ऊध्र्वं सवत्सरस्यारम्भः सा पौर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह । प्रज्ञादेरिति ॥ 'प्रज्ञादिभ्यश्च' इति स्वार्थे अणि 'टिड्ढ' इति डीबित्यर्थः । अश्वत्थेनेति । अश्वनीनक्षत्रेणत्यर्थः । अश्वत्थ इति ॥ नक्षत्राणः “लुब विशेष' इति लुबिति भावः । ननु 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशेन पैौर्णमास्यां “लुबविशेषे' इत्यस्याप्रवृत्तेरुक्तत्वात् कथमिह लुबित्यत आह । निपातनात्पौर्ण मास्यामपि लुबिति ॥ तथाच पौर्णमास्यां लुब् नेति ज्ञापनमेतद्यतिरिक्तविषयमिति भावः । विभाषा फाल्गुनी ॥ एभ्यष्टग्वेति ॥ “सास्मिन्’ इत्युक्तविषये इति शेषः । फाल्गु निकः-फाल्गुनो वा मास इति ॥ फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः । एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकः ।* साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति ॥ इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति ॥ पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्र्यमित्या द्यनुपपन्नमित्यत आह । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवतेति ॥ हविःशेषमृत्विग्भ्यो ददाति । विप्राय गां ददाति इत्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्यमान हविस्साध्यः अस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारः तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति ॥ “ अग्निमीडे पुरोहितम्” इत्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति ॥ इन्द्रार्थस्तुत्यको मन्त्र इत्यर्थः । ननु 'आग्नेयो वै ब्राह्मणो देवतया' इत्यत्र कथन्देवतातद्धितः । अत्र अग्नेर्हविरुद्दश्यत्वस्य मन्त्रस्तुत्यत्वस्य वाऽभावादित्यत आह । “ आग्नेयो वै ” इति ॥ शैषिकेऽर्थे इति ॥ शेषे इति सूत्रलब्धे

प्रकरणम्]
७१५
बालमनोरमा ।

१२२७ । कस्येत् । (४-२-२५)

क शब्दस्येदादेशः स्यात्प्रत्ययसन्नियोगेन ।| यस्य (सू ३११) इति लोपात्परत्वादादिवृद्धिः ।। को ब्रह्मा देवता अस्य कायं हविः । श्रीर्देवता अस्य श्रायम् ।

१२२८ । शुक्राड्धन् । (४-२-२६)

शुक्रियम् ।

१२२९ । अपोनप्त्रपान्नप्तृभ्यां घः । (४-२-२७)

अपोनप्त्रियम्-अपात्रप्त्रियम् । अपोनपात्-अपान्नपाञ्च देवता । प्रत्य यसन्नियोगेन तूक्त्तं रूपं निपात्यते । अत एवापोनपाते-अपान्नपातेऽनुब्रूहीति प्रैषः।

१२३० । छ च । (४-२-२८)


तदभिमानिकत्वे गम्ये इत्यर्थः । अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धः तदभिमानिको ब्राह्मण इति बोधः । कस्येत् । प्रत्ययसन्नियोगेनेति ॥ 'साऽस्य देवता' इति विहिते कशब्दादण्प्रत्यये परे तत्सन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः। तथाच कशब्दादणि प्रकृते रिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि अ इतेि स्थिते 'यस्येति च इति इकारलोपमाशङ्कय आह । यस्येति लोपात्परत्वादादिवृद्धिरिति ॥ कशब्दस्य विवरणं ब्रह्मेति । यद्यप्यत्र इत्वविधिबलादेव लोपो न भवतीति भाष्यम् । तथापि वस्तुस्थिति कथनमिदम् । तस्य प्रयोजनमाह । श्रीर्देवता अस्य श्रायं हविरिति । अत्रेदमवधेयम् कस्येत्' इत्यत्र कशब्दस्य अकारान्तस्य षष्ठयेकवचनमित्येकः पक्षः सर्वादिगणपठितस्य किं शब्दस्य षष्ठयेकवचनामिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारे “कायानुब्रूहि' इति प्रैष इति निर्विवादम् । सर्वादिगणबहिर्भूतत्वेन स्मैभावासम्भवात् । द्वितीयपक्षे तु किशब्दस्य प्रजापति नामत्वेन असर्वनामत्वान्न स्मैभावः। अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वा भावात् । तथाच कायानुबूहीत्येव प्रैषः । यद्वा प्रजापतेः सर्वात्मकत्वेन तन्नाम्नः किंशब्दस्य सर्वना मत्वात् “ कस्मा अनुबूहि” इत्येव सम्प्रैष इति भाष्ये प्रपश्चितम् । एवञ्च विष्णुसहस्रनामसु “विश्वं विष्णुः” इति, “एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्” इति च पठितविश्वादिशब्देष्वप्ययं न्याय स्तुल्यः । तथाच विश्वस्मै नमः, विश्वाय नमः, इत्यादि प्रयोज्यमिति प्रासङ्गिकम्। शुक्राद्धन् साऽस्य देवता' इत्यर्थे इति शेषः । शुक्रियमिति शुक्रो देवता अस्येति विग्रहः । अपोनप्त्रपान्नप्तृभ्याङ्घः ॥ प्रत्ययसन्नियोगेनेति ॥ घप्रत्ययसन्नियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपात्रपाच्छब्द स्य अपान्नप्तृभावश्च निपात्यते इत्यर्थ अत एवेति ॥ घप्रत्ययसान्नियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाभावान्नोक्तादेशाविति भावः । छ च उत्क्तविषये छोऽपीत्यर्थः । ननु अपोनप्त्रपान्नप्तृभ्याङ्घच्छौ इत्येवास्तु । तत्राह । योगविभाग

७१६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

योगविभागो यथासङ्ख्यनिवृत्त्यर्थः । अपोनप्त्रीयम्-अपान्नप्त्रीयम् । पैङ्गाक्षिपुत्रीयम् । तारणबिन्दवीयम् । 'शतरुद्राद्धश्च' (वा २७०२) । चाच्छः। शतं रुद्राः देवता अस्य शतरुद्रियम्-शतरुद्रीयम् । घछयोर्विधानसामर्थ्यात् द्विगोर्लुगनपत्ये' (सू १०८०) इति न लुक् ।

१२३१ । महेन्द्राद्धाणौ च । (४-२-२९)

चाच्छः । महेन्द्रियम् हविः-माहेन्द्रम्-महेन्द्रीयम् ।

१२३२ । सोमाट्ट्यण् । (४-२-३०)

सौम्यम् । टित्वान्ङीप् सौमी ऋक्

१२३३ । वाय्वृतुपित्रुषसो यत । (४-२-३१)

वायव्यम् । एवम् ऋतव्यम् ।

१२३४ । रीङृतः । (७-४-२७)

अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् । ‘यस्येति च' (सू ३११) । पित्र्यम् । उषस्यम् ।


इति ॥ पैङ्गाक्षिपुत्रीयमिति ॥ पिङ्गाक्षिपुत्रो देवता अस्येति विग्रहः । तारणबिन्दवीय मिति ॥ तारणबिन्दुः देवता अस्येति विग्रहः । शतरुद्राद्धश्चेति ॥ वार्तिकमिदम् । शतरुद्रियमिति ॥ घस्य इयादेशः । शतरुद्रीयमिति ॥ छस्य ईयादेशः । उभयत्र तद्धितार्थ' इति द्विगुसमासः । ’द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्य आह । घच्छयो रिति ॥ महेन्द्राद्धाणौ च ॥ महेन्द्रियमिति ॥ महेन्द्रो देवता अस्येति विग्रहः । घस्य इयादेशः । माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति ॥ छस्य ईयादेशः । सोमाट्ट्यण्॥ सौम्यमिति ॥ सोमो देवता अस्येति विग्रहः । टित्वस्य प्रयोजनमाह । टित्वान्ङीबिति ॥ सौमीति ॥ सोमो देवता अस्या ऋच इति विग्रहः । डीपि हलस्तद्धितस्य' इति यलोपः । वाय्वृतुपित्रुषसो यत् ॥ वायु, ऋतु, पितृ, उषस्, एभ्यः यदित्यर्थः । वायव्यमिति ॥ वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः । ‘वान्तो यि' इत्यवादेशः । एवम् ऋतव्यमिति ॥ ऋतुः देवता अस्येति विग्रहः । रीङृतः ॥ अङ्गस्ये त्यधिकृतम् ऋता विशिष्यते । तदन्तविधिः । “ अयङ् यि क्डिति' इत्यतः यि इत्यनुवर्तते । अकृत्सार्वधातुकयोः' इत्यतः अकृत्सार्वधातुकयोरिति 'च्वौ च' इति सूत्रञ्च । तदाह अकृदित्यादिना ॥ पित्र्यमिति ॥ पितरः देवता अस्येति विग्रहः । यति पितृशब्दस्य रीड् । ‘डिञ्च' इत्यन्तादेशः । ‘यस्येति च' इति ईकारलोपः । क्यचि पित्रीयतीत्यादौ 'अङ्ग कावें कृते पुनर्नाङ्गकार्यम्'इति वचनात् ‘अकृत्सार्वधातुकयोः' इति दीर्घे अप्राप्ते ईकारोच्चारणम् ।

प्रकरणम्]
७१७
बालमनोरमा ।

१२३५ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पति- गृहमेधाच्छ च ।(४-२-३२)

चाद्यत् । द्यावापृथिवीयम्-द्यावापृथिव्यम्। शुनासीरीयम्-शुनासीर्यम् ।

१२३६ । अग्नेर्ढक् । (४-२-३३)

आग्नेयम्

१२३७ । कालेभ्यो भववत् । (४-२-३४)

मासिकम् । प्रावृषेण्यम् ।

१२३८ । महाराजप्रोष्ठपदाट्ठ्ञ् । (४-२-३५)

महाराजिकम् । प्रौष्ठपदिकम्

१२३९ । देवताद्वन्द्वे च । (७-३-२१)


उषस्यमिति ॥ उषः देवता अस्येति विग्रहः । भत्वेन पदत्वाभावात् सकारस्य न रुत्वादि । द्यावापृथिवी ॥ द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध, एतेभ्यः षड्भ्यः छो यच्च स्यादित्यर्थः । चापवादः । द्यावापृथिवीयम्- द्यावापृथिव्यमिति ॥ द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभयत्र यस्येति च' इति लोपः । शुनासीरीयमिति ॥ शुनो वायुः, सीरः आदित्यः, शुनश्च सीरश्च शुनासीरौ । “देवताद्वन्द्वे च' इत्यानङ् । शुनासीरावस्य स्त इति शुनासीरः । “वाय्वादित्यवा निन्द्रो विवक्षितः” इति वेदभाष्ये भट्टभास्करः । शुनासीरो देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयम्-मरुत्वत्यम् । अग्नीषोमौ देवता अस्य अग्नीषोमीयम् । वास्तुनः पतिः वास्तोष्पतिः रुद्रः । निपातनादलुक् । षत्वञ्च “रुद्रः खलु वै वास्तोष्पतिः” इति ब्राह्मणम् । अमरस्तु इन्द्रपर्यायेषु “वास्तोष्पतिः सुरपतिः” इत्याह । वास्तेष्पतिर्देवता अस्य वास्तोष्पतीयं-वास्तोष्पत्यम्। गृहमेधेो देवता अस्य गृहमेधीयम्-गृहमेध्यम् । अग्नेर्ढक् ॥ आग्नेयमिति ॥ प्राग्दीव्यतीये ध्वर्थेष्वयम् । 'सर्वत्राझिकलिभ्याम्' इति वचनात् । कालेभ्यो भववत् ॥ कालवाचिभ्यो भवेऽर्थ येन विशेषणेन ये प्रत्यया वक्ष्यन्ते, ते ‘साऽस्य देवता’ इत्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति ॥ मासो देवता अस्येति विग्रहः। कालाट्ठञ् । प्रावृषेण्यमिति ॥ प्रावृट् देवता अस्येति विग्रहः । प्रावृष एण्यः । महाराजप्रोष्ठपदाट्ठञ् ॥ माहाराजिक मिति ॥ महाराजो वैश्रवणः, सः देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति ॥ प्रोष्ठपदो देवता अस्येति विग्रहः । वृत्तः “साऽस्य देवता' इत्यधिकारः । अथ प्रासङ्गिकम् । देवताद्वन्द्वे च ॥ “मृजेर्वृद्धिः' इत्यतो वृद्धिरित्यनुवर्तते । “अचो ञ्णिति' इत्यतः ञ्णितीति, ’किति च इति सूत्रञ्चानुवर्तते । “तद्धितेष्वचामादेः' इत्यतः अचामादेरिति, “हृद्भगसिंध्वन्ते पूर्वपदस्य

७१८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

अत्र पूर्वोत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम्

१२४० । नेन्द्रस्य परस्य । (७-३-२२)

परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । “ परस्य' किम् । ऐन्द्राग्रः ।

१२४१ । दीर्घच्च वरुणस्य । (७-३-२३)

दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । “ दीर्घात्' किम् । आग्निवारुणम् । “ आग्निवारुणीमनड्वाहीमालभेत ' । “तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्’ (वा २७०६) । नावयज्ञिकः कालः । पाकयज्ञि- कः । “पूर्णमासादण्वक्तव्यः' (वा २७०७) । पूर्णो मासोऽस्यां वर्तत इति पौर्णमासी तिथिः ।

१२४२ । पितृव्यमातुलमातामहपितामहाः । (४-२-३६)


च' इत्यतः पूर्वपदस्येति, ‘उत्तरपदस्य च' इति सूत्रञ्चानुवर्तते । तदाह । अत्रेत्यादिना । आग्निमारुतमिति । अग्निश्च मरुच्च अग्नामरुतौ ‘देवताद्वन्द्वे च' इत्यानड् । अग्नामरुतौ देवता अस्य अग्निमारुतम् । अणि अनेन उभयपदादिवृद्धिः । अलौकिके विग्रहवाक्ये एव आनङं बाधित्वा “इद्वृद्धौ' इति इत्त्वम् । नेन्द्रस्य परस्य ॥ 'देवताद्वन्द्वे च' इत्युक्ता उभय पदवृद्धिः उत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति ।। चरुरिति शेषः । तैत्तिरीये “सोमेन्द्रं श्यामाकं चरुम्” इति छान्दसम् । दीर्घाच्च वरुणस्य ॥ ऐन्द्रावरुणमिति॥ इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः । आनड् । इन्द्रावरुणशब्दादणि दीर्घकारात्परत्वात् वरुणस्य नादिवृद्धिः । अग्निवारुणमिति ॥ “इद्वृद्धौ' इत्यग्नेरिम्बधित्वा इत्वे कृते दीर्घा- त्परत्वाभावान्निषेधाभावे सति ‘देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः । इति प्रासङ्गिकम्। अथ प्रकृतम् । तदस्मिन्निति ॥ 'महाराजप्रौष्ठपदाट्ठञ्' इति सूत्रे वार्तिकमिदम् । ‘तदस्मि न्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यः ठञः उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति ॥ नवयज्ञः नूतनधान्यद्रव्यको यज्ञः आग्रयणाख्यः सः यस्मिन्काले वर्तते सः नावयज्ञिकः । आग्रयणकालः इति यावत् । पाकयाज्ञिकः इति ॥ पाकयज्ञः औपा सनाग्निसाध्यः पार्वणस्थालीपाकादिः सः यस्मिन्काले वर्तते सः पाकयज्ञिकः । पूर्णमासा- दिति ॥ तदस्मिन्वर्तते इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासो ऽस्यामिति ॥ मासश्चन्द्रमाः पूर्णश्चासौ मासश्च पूर्णमासः पूर्णचन्द्रः, सः यस्यान्तिथैौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । आणि 'टिड्ढाणञ्’ इति ङीप् । यद्यपि पूर्णो माः चन्द्रः पूर्णमाः। तस्येयमित्यर्थे 'तस्येदम्' इत्याणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अय साधुरिति भावः । पितृव्यमातुल ॥ कस्मिन् शब्दे किन्निपात्यते इत्यत आह । पितुर्भ्रातरि एते निपात्यन्ते । “पितुर्भ्रातरि व्यत्' (वा २७०८) । पितुर्भ्राता प्रितृव्यः । ‘मातुर्डुलच्’ (वा १७०८) । मातुर्भ्राता मातुलः । ‘मातृपितृभ्यां पितरि डामहच्' (वा २७०९) । मातुः पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिच्च' (वा २७१०) । मातामही । पितामही । 'अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः' (वा २७१२) । सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् । 'तिलान्निष्फलात्पिञ्जपेजौ' (वा २७१३) । तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । ‘पिञ्जश्छन्दसि डिच्च' (वा २७१४) । तिल्पिञ्जः ॥*

१२४३ । तस्य समूहः । (४-२-३७)

काकानां समूहः काकम् । बाकम् ।

१२४४ । भिक्षादिभ्योऽण् । (४-२-३८)

भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गर्भिणम् । इह ‘भस्याऽढे-' इति पुंवद्भावे कृते ।


व्यदित्यादिना ॥ मातुल इति । मातृशब्दात् डुलचि 'टेः' इति टिलोपः । मातामह इति ॥ मातृशब्दात् डामहचि टिलोपः । एवं पितामहः । मातरि षिच्चेति ॥ मातृपितृभ्यां मातरि डामहच्, स च षिद्भवतीत्यर्थः । षित्त्वस्य फलं डीषित्याह । मातामही । पितामहीति । अवेरिति ॥ अवेर्दुग्धमित्यर्थे अविशब्दात् सोढः, दूस, मरीसच्, एते प्रत्यया वक्तव्याः इत्यर्थः । सोढसकारस्य प्रत्ययावयवत्वात् षत्वमाशङ्क्य आह । सकारपाठसामर्थ्यान्न ष इति ॥ अन्यथा षोड इत्येवोपदिशेदिति भावः । तिलादिति ॥ तिलशब्दः ओषधिविशेषे मुख्यः । तत्फले तु गौणः । तत्र यदा तिलशब्दः निष्फले ओषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज, इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकः ॥* तस्य समूहः ॥ 'इनित्रकड्यचश्च' इति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात् षष्ठ्यन्तात्प्राग्दीव्यतीयाः अणादयो यथासम्भवं स्युरित्यर्थः । 'अचित्तहस्तिधेनोष्ठक्' इत्याद्यपवादविषयम्परिहृत्योदाहरति । काकम् । बाकमिति । समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्र ' चित्तहस्ति’ इति वक्ष्यमाणठगपवादोऽण् । गार्भिणमिति ॥ गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते प्रत्ययः, परश्च, आद्युदात्तश्च, इति इकारस्य उदात्तत्वे 'अनुदात्तम्पदमेकवर्जम्' इति शिष्टस्यानुदात्तत्वे गर्भिन्शब्दः अनुदात्तादिः । ततो नान्तलक्षणडीपा तस्य 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थे ‘अनुदात्तादेरञ्’ इति वक्ष्यमाणे अञि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेणान्तोदात्तत्वम् । अञि तु 'ञ्नित्यादिर्नित्यम्'

७२०
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

१२४५ । इनण्यनपत्ये । (६-४-१६४)

अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात् । तेन 'नस्तद्धिते' (सू ६७९) इति टिलोपो न । युवतीनां समूहो यौवनम्। शत्रन्तादनुदात्तादेरञि यौवतम्।

१२४६ । गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्र- वत्समनुष्याजाद्वुञ् । (४-२-३९)

एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं, तच्चापत्यमात्रम् ।

१२४७ । युवोरनाकौ । (७-१-१)

'यु' 'वु' एतयोरनुनासिकयोः क्रमात् 'अन' 'अक' एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम्। औक्षकमित्यादि | 'आपत्यस्य


इत्याद्युदात्तत्वमिति खरे विशेषः । अणि टिलोपाभावोऽपि प्रयोजनमिति दर्शयति । इह भस्येति ॥ गर्भिणीशब्दादणि सति 'भस्याऽढे' इति पुंवत्त्वेन डीपो निवृत्तौ गर्भिन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपे प्राप्ते सतीत्यर्थः । इनण्यनपत्ये ॥ इन् अणीति च्छेदः । प्रकृत्येति ॥ 'प्रकृत्यैकाच्' इत्यतः तदनुवृत्तेरिति भावः । टिलोपो नेति ॥ आञि तु प्रकृतिभावाप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ॥ 'कनिन्युवृषितक्षि' इयौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियां 'यूनस्तिः' इति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सति शिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याऽढे' इति पुवत्त्वे तिप्रत्ययस्य निवृत्तौ ‘अन्’ इति प्रकृतिभावाट्टिलोपाभावे यौवनमिति रूपम् । अञि तु प्रकृतिभावस्य प्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याऽढे तद्धिते ' इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तत्वाभावादञभावे 'तस्य समूहः' इत्यणि प्रकृतिभावाट्टिलोपाभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । ततः उगिल्लक्षणडीपः पुंवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः । गोत्रोक्षोष्ट्र । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज, एतेभ्य इत्यर्थः । लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकङ्गोत्रं किमित्यत आह । तच्चापत्यमात्रमिति ॥ प्रवराध्याये परिगणितं पुत्रपौत्त्रादिकृत्स्नापत्यमित्यर्थः । “अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, नतु पारिभाषिकङ्गोत्रमिष्यते” इति “स्त्रीपुंसाभ्याम्' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वादिति भावः । युवोरनाकौ ॥ युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह । यु, वु एतयोरिति ॥ 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ग्लुचुकायनीनामिति ॥ 'प्राचामवृद्धात्' इति

प्रकरणम्]
७२१
बालमनोरमा ।

च–' (सू १०८२) इति यलोपे प्राप्ते । 'प्रकृत्या अके राजन्यमनुष्य युवानः' (वा ४२१४) । राजन्यकम् । मानुष्यकम् । 'वृद्धाच्चेति वक्तव्यम्' (वा २७१६) । वार्द्धकम् ।

१२४८ । केदाराद्यञ्च । (४-२-४०)

चाद्रुञ् । कैदार्यम्-कैदारकम् । “गणिकाया यञिति वक्तव्यम्' (वा २७१९) । गाणिक्यम् ।

१२४९ । ठञ्कवचिनश्च । (४-२-४१)

चात्केदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ।

१२५० । ब्राह्मणमाणवबाडबाद्यन् । (४-२-४२)

ब्राह्मण्यम् । माणव्यम् । बाडब्यम् । 'पृष्ठादुपसङ्ख्यानम्’ (वा २७२०) । पृष्ठ्यम् ।


ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः, आदिवृद्धिः 'यस्येति च' इतीकारलोपः । औक्षकमिति । उक्ष्णां समूहः इति विग्रहः । वुञ्,अकादेशः, टिलोपः, आदिवृद्धिः । उष्ट्राणां समूहः इति विग्रहः, औष्ट्रकम् । उरभ्राः मेषाः तेषां समूहः, औरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्शब्दाद्रुञि अकादेशे “आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः । प्रकृत्याऽके राजन्यमनुष्ययुवान इति । अके परे राजन्य, मनुष्य, युवन् एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्रुञ् । प्रकृति भावान्न टिलोपः । “वृद्धाच्च' इति वृद्धशब्दस्वरूपमेव गृह्यते । नतु 'वृद्धिर्यस्याचामादिः’ इति वृद्धिसंज्ञकम् । भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह । वार्धकमिति । वृद्धानां समूह इति विग्रहः । केदाराद्यञ्च । केदारकम्-कैदार्यमिति । केदाराणां समूहः इति विग्रहः । गणिकाया यञ् । यञ्ग्रहणात् वुञो निवृत्तिः। गाणिक्यमिति ॥गणिकानां समूहः इति विग्रहः । ठञ् कवचिनश्च।। केदारादपीति । कवचिन्शब्दात् केदार शब्दाच्च समूहे ठञ् स्यादित्यर्थः । कावचिकमिति ॥ ठञ्, इकादेशे टिलोपः 'ब्राह्मण माणवबाडबाद्यञ् ब्राह्मण्यमित्यादि। ब्राह्मणानां माणवानां बाडबानां च समूहः इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् । “अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यः तेन सिध्द्यति माणवः ॥” इति 'मनोर्जातावञ्यतौ षुक्व' इति सूत्रे भाष्यम् । पृष्ठादिति।। यनः इति शेषः । पृष्ठ्यःषडह इति । षण्णां अह्नां समाहारः षडहः, समाहारे द्विगुः । 'राजाहस्सखिभ्यः’ इति टचि टिलोपः । रथन्तर, बृहद्वैरूप, वैराज,शाक्वर, रैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया

७२२
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

१२५१ । ग्रामजनबन्धुभ्यस्तल् । (४-२-४३)

ग्रामता । जनता । बन्धुता । “गजसहायाभ्यां चेति वक्तव्यम्' (वा २७२१) । गजता । सहायता । 'अह्नः खः क्रतौ' (वा २७२२ २७२३) । अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । 'क्रतौ' किम् । आह्नः । इह खण्डिकादित्वादञ्। 'अह्नष्टखोरेव' (सू ७८९) इति नियमाट्टिलोपो न । पर्श्वा णस् वक्तव्यः' (वा २७२४) ।

१२५२ । सिति च । (१-४-१६)

सिति परे पूर्व पदसंज्ञ स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ।

१२५३ । अनुदात्तादेरञ् । (४-२-४४)

कापोतम् । मायूरम् ।


पृष्ठानि तेषां समूहः इति विग्रहः । ग्रामजन ॥ समूह इत्येव । ग्रामतेत्यादि । ग्रामाणां जनानां बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात् । “तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसूत्राच्च । गजसहायाभ्याञ्चेति ॥ आभ्यामपि समूहे तलिति वक्तव्यमित्यर्थः। अह्नः खः क्रतौ इति । वार्तिकमिदम् । क्रतौ वर्तमानात् अहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूहः इति विग्रहः । अहन्शब्दात् खः ईनादेशः । “ अह्नष्टखोरेव' इति टिलोप इति भावः । फलितमाह । अहर्गणेतिआह्नः इति । अहां समूह इति विग्रहः । इह क्रत्वप्रतीतेर्न ख इति भावः । 'अचित्तहस्तिधेनोः' इति ठकमाशङ्क्य आह । इहेति ॥ 'खण्डिकादिभ्यश्च' इत्यञित्यर्थः । नन्वेवं सति 'अन्’ इति प्रकृतिभावस्याणि विहितस्यात्र सम्भवाट्टिलोपः स्यादित्यत आह । अह्नष्टखोरेवेतीति ॥ टिलोपाभावे सति 'अल्लोपोsनः' इत्यकारलोपे आह्नः इति रूपमिति भावः । पर्श्वा णसिति ॥ अणोऽपवादः । पर्शुशब्दः उकारान्त स्त्रीलिङ्गः पार्श्वगतास्थिवाची । तस्मात् णसि ओर्गुणे प्राप्ते । सिति च ॥ 'सुप्तिडन्तम्पदम्’ इत्यतः पदमित्यनुवर्तते । तदाह । सिति परे पूर्वंपदसंज्ञमिति । सकारः इत् यस्य सः सित् । 'स्वादिष्वसर्वनामस्थाने' इत्येव सिद्धे भसंज्ञापवादोऽयम् । अभत्वादिति ॥ पदत्वेनानेन भत्वस्य बाधादिति भावः । पर्शूनां समूहः पार्श्वमिति ॥ पर्शु अ इति स्थिते “इकोऽसवर्णे' इति शाकल्यह्रस्वप्रकृतिभावयोः 'सिति च' इति तत्रत्य वचनान्तरेण तन्निषेधे यणादेशे पार्श्वमिति रूपमिति भावः । अनुदात्तादेरञ् ॥ समूह इत्येव । कापोतम् । मायूरमिति ॥ 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति कपोतमयूरशब्दौ

प्रकरणम्]
७२३
बालमनोरमा ।

१२५१४ । खण्डिकादिभ्यश्च । (४-२-४५)

अञ्स्यात् । खण्डिकानां समूहः खाण्डिकम् ।

१२५५ । चरणेभ्यो धर्मवत् । (४-२-४६)

काठकम् । छान्दोग्यम् ।

१२५६ । अचित्तहस्तिधेनोष्ठक् । (४-२-४७)

साक्तुकम् । हास्तिकम् । धैनुकम् ।

१२५७ । केशाश्वाभ्यां यञ्छावन्यतरस्याम् । (४-२-४८)

पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ।

१२५८ । पाशादिभ्यो यः । (४-२-४९)

पाश्या । तृण्या । धूम्या । वन्या । वात्या ।

१२५९ । खलगोरथात् । (४-२-५०)

खल्या । गव्या । रथ्या ।


मध्योदात्ताविति भावः । खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे । अञ् स्यादिति ॥ समूहे इति शेषः । आद्युदात्तार्थमिदम् । चरणेभ्यो धर्मवत् ॥ चरणाः शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रचरणाद्रुञ्’ इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति । छान्दोग्यमिति ॥ छान्दोगाः सामशाखिनः, तेषां समूह इति विग्रहः । 'छन्दोगौक्थिकयाज्ञिकबह्वृचनटात् ञ्यः’ इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति । अचित्तहस्ति । अचित्ताः अप्राणिनः तद्वाचिभ्यः हस्तिशब्दात् धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः’ इत्युकः परत्वाट्ठस्य कः । आदिवृद्धिः । हास्तिकमिति ॥ हस्तिनां समूह इति विग्रहः । ठक्, इकः टिलोपः, आदिवृद्धिः । धैनुकमिति ॥ धेनूनां समूह इति विग्रहः । उकः परत्वात् ठस्य कः । आदिवृद्धिः । केशाश्वाभ्याम् ॥ समूह इत्येव । कशाद्यञ् वा, अश्वाच्छो वेत्यर्थः । पक्षे इति ॥ केशाद्यञभावे “ अचित्त' इति ठक् । अश्वात् छाभावे अणित्यर्थः । कैश्यम्-कैशिकमिति ॥ केशानां समूह इति विग्रहः । क्रमेण यञ्ठकौ । अश्वीयम् आश्वमिति । क्रमेण छाणौ । पाशादिभ्यो यः ॥ समूह इत्येव । पाश्येत्यादि । पाशानां तृणानां धूमानां वनानां वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् । खलगोरथात् ॥ समूह इत्येव । खल, गो, रथ-एभ्यो यः स्यादित्यर्थः । खल्या । गव्या । रथ्येति

खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि खलादिष्वेव एषां पाठो युक्तः । तथापि

१२६० । इनित्रकट्यचश्च । (४-२-५१)

खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या । 'खलादिभ्य इनिर्वक्तव्यः’ (वा २७३५) । डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम्।

१२६१ । विषयो देशे । (४-२-५२)

षष्ठ्यन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । 'देशे' किम् । देवदत्तस्य विषयोऽनुवाकः ।

१२६२ । राजन्यादिभ्यो वुञ् । (४-२-५३)

राजन्यकः ।


उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः । इनिञकट्यचश्चस्युरिति ॥ इनि त्र कट्यच् एते स्युरित्यर्थः । खलिनीति ॥ खलानां समूह इति विग्रहः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्डीप् । गोत्रेति । गवां समूह इति विग्रहः । गोशब्दात् त्रः । स्रीत्वं लोकात्, टाप् । रथकट्येति । रथानां समूह इति विग्रहः । कट्यचि ककारस्य नेत्त्वम्, अतद्धित इत्युक्तेः । स्त्रीत्वाट्टाप् । खलादिभ्य इनिर्वक्तव्यः इति ॥ 'इनित्रकट्यचश्च' इति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्त्रकठ्यचौ' इत्येवं सूत्रं कृत्वा 'खलादिभ्य इनिः' इति पृथक्कर्तव्यमित्यर्थः । विषयो देशे ॥ समूह इति निवृत्तम् । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोच्चारितात् षष्ठ्यन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह । षष्ठ्यन्तादिति ॥ विषयशब्दं व्याचष्टे । अत्यन्तपरिशीलितेऽर्थे इति ॥ देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह । स चेदिति ॥ सः अत्यन्तपरिशीलितोऽर्थो देशश्चेदित्यर्थः । एवञ्च अत्यन्तपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलितम् । विषयशब्दो ह्ययं क्वचित् ग्रामसमूहात्मके जनपदे वर्तते । तद्यथा, सामन्तस्य राज्ञो विषयोऽनेन लब्ध इति क्वचिदिन्द्रियग्राह्ये वर्तते । तद्यथा, चक्षुर्विषयो रूपमिति क्वचिदन्यत्रावृत्तौ वर्तते । यथा मत्स्यानां विषयो जलमिति । अन्यत्र नास्तीति गम्यते । प्रकृते तु देवदत्तविषयोऽनुवाक इतिवदत्यन्तपरिशीलिते वर्तते । तत्र विषयशब्देन अत्यन्तपरिशीलितेऽर्थे अवगते सति अनुवाकादिव्यावृत्त्यर्थन्देशग्रहणम् । शिबीनां विषयो देश इति ॥ अत्यन्तपरिचितो देश इत्यर्थः । देवदत्तस्य विषय इति । अत्यन्तपरिचितोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमात् न प्रत्यय इति भावः । विषय इति किम् । देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न च देवदत्तस्य ग्राममित्यत्र अत्यन्तपरिचितदेशत्वात् प्रत्ययः स्यादिति वाच्यम् । जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् । राजन्यादिभ्यो वुञ् ॥ तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठ्यन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः ।

प्रकरणम्]
७२५
बालमनोरमा ।

१२६३ । भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ । (४-२-५४)

भौरिकीणां विषयो देश: भौरिकिविधम् । भौलिकिविधम् । ऐषुका रिभक्तम् । सारसायनभक्तम्।

१२६४ । सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । (४-२-५५)

अण् । पङ्किरादिरस्येति पाङ्क्तः प्रगाथः । 'स्वार्थ उपसङ्ख्यानम् (वा २७४४) । त्रिष्टुबेव त्रैष्टुभम् ।

१२६५ । संग्रामे प्रयोजनयोद्धृभ्यः । (४-२-५६)

'सोऽस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य संग्रामस्य भारतः।

१२६६ । तदस्यां प्रहरणामिति क्रीडायां णः । (४-२-५७)

दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा

१२६७ । घञः सास्यां क्रियेति ञः । (४-२-५८)


राजन्यक इत्यत्र राजन्यानां विषयो देश इत्यर्थः । भौरिक्याद्यैषु ॥ भौरिक्यादिभ्यः ऐषु कार्यादिभ्यश्च षष्ठ्यन्तेभ्यः यथाक्रमं विधल्, भक्तल्, एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थे । भौरिकिविधमिति ॥ भौरिकीणां विषयो देश इत्यर्थः । भौलिकिविधमिति ॥ भौलु कीनां विषयो देश इत्यर्थः । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारसायनभक्तामिति ॥ सारसायनानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् । सोऽस्यादिरिति ॥ ऋग्द्वयमाम्नातम्पादावृत्त्या ऋक्त्रय सम्पद्यते । 'स च संप्रगाथे' इति छन्दोगसूत्रे बह्वृचसूत्रे च प्रसिद्धम् । षष्ठ्येकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्तात् छन्दोविशेषवाचकात् अणादिप्रत्ययाः स्युरित्यर्थः । अक्षरे यत्ताविशेषो गायत्र्यादिछब्दः । पङ्क्तिरादिति ॥ पङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रगाथस्य सः पाङ्क्तः प्रगाथः इत्युच्यते इत्यर्थः । स्वार्थ इति ॥ छन्दोवाचिभ्यः स्वार्थे अणादिप्रत्ययस्यो पसङ्खानमित्यर्थः । त्रैष्टुभमिति ॥ क्लीबत्वं लोकात् । सङ्ग्रामेअनुवर्तते इति ॥ तथाच सङ्ग्राम इति सप्तम्यन्त षष्ठ्या विपरिणतम् अस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रेयाजनं, तेऽस्य सङ्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रथमान्तेभ्यः अणादयः स्युरित्यर्थः। तदस्याम् ॥ तत् अस्यां क्रीडायाम्प्रहरणमित्यर्थे प्रथमान्तात् प्रहरणवाचकात् णप्रत्ययः स्यादित्यर्थः । प्रह्नियते अनेनेति प्रहरणम् आयुधम् । दाण्डेति ॥ अणि तु दीर्घः स्यादिति भावः। मौष्टेति ॥ मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः । घञः सा ऽस्याम् । अस्यामित्यनन्तरं मृगयायामित्यादिस्त्रीलिङ्गविशेष्यमध्द्याहार्यम् । सा क्रिया अस्यां

७२६
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । 'घञः' इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ।

१२६८ । श्येनतिलस्य पाते ञे । (६-३-७१)

श्येन तिल एतयोर्मुमागमः स्यात् । ञप्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलम्पाता स्वधा । 'श्येनतिलस्य' किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ।

१२६९ । तदधीते तद्वेद । (४-२-५९)

व्याकरणमधीते वेद वा वैयाकरणः ।

१२७० । क्रतूक्थादिसूत्रान्ताट्ठक् । (४-२-६०)

क्रतुविशेषवाचिनामेवेह ग्रहणम्। तेभ्यो मुख्यार्थेभ्यो वेदितरेि, तत्प्रति पादकग्रन्थपरेभ्यस्त्वध्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं साम-


मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनः ञः स्यादित्यर्थः । फलितमाह । घञन्तादित्यादिनाकृद्ग्रहणादिति ॥ तत्प्रयोजनमनुपदमेव वक्ष्यते । श्येनतिलस्य पाते ञे ।। मुमागमः इति ॥ 'अरुर्द्विषत्' इत्यतः तदनुवृत्तेरितेि भावः । ञप्रत्यये इति । ञप्रत्यये परे यः पातशब्दः तस्मिन्नित्यर्थः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । श्येनपात इति ॥ पतनम्पातः । भावे घञ् । श्यैनम्पातेति । श्येनपातशब्दात् घञन्तात् ञः । यद्यपि पातशब्द एव घञन्तः । तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणम्बोध्द्यम् । श्येनस्य पात इति कृद्योगषष्ठ्या समासः । तथाच श्येनपात शब्दस्यादिवृद्धिः । तैलम्पाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्गः पित्र्यक्रियायां वर्तते । 'नमः स्वधायै' इत्यादिदर्शनात् । स्वधेत्यनेन क्रियायामिति नानुवर्तते इति सूचितम् । तदस्या मिति प्रकृते पुनरस्यामिति ग्रहणात् । तदधीते ॥ तदधीते इत्यर्थे तद्वेत्तीत्यर्थे च द्वितीया न्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्द्ययनम् । शब्दार्थज्ञान वेदनम् । एतेन अध्द्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसोक्तिः परास्ता । पृथग्ग्रहणवैयर्थ्यात् । यथाचैत त्तथा अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति ॥ अणि 'न य्वाभ्याम् इत्यैजागमः । क्रतूक्थादि ॥ 'तदधीते तद्वेद' इत्यर्थयोः क्रतु, उक्थादि, सूत्रान्ताः एभ्यः ठक् स्यादित्यर्थः । क्रतुविशेषवाचिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति यावत् । ननु क्रतुविशेषाणां कथमध्द्ययनम् । अक्षर ग्रहणात्मकत्वभावादित्यत आह । तेभ्य इति ॥ अग्निष्टोमादिशब्दाः क्रतुविशेषेषु सुख्याः । तत्प्रतिपादकग्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्यः अग्निष्टोमादिशब्देभ्यः वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्यः अध्द्येतरीत्यर्थः ।

प्रकरणम्]
७२७
बालमनोरमा ।

विशेषः । तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा औक्थिकः । ‘मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते ' । न्यायम् - नैयायिकः । वृत्तिम्-वार्तिकः । लोकायतम्-लोकायतिकः इत्यादि । 'सूत्रान्तात्त्वकल्पादेरेवेष्यते' (२७४४) । सांग्रहसूत्रिकः । “ अकल्पादेः' किम् । काल्पसूत्रः । 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्’ (वा २७४४) । वायसविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः । 'अङ्गक्षत्रधर्मत्रिपूर्वाद्वि द्यान्तान्नेति वक्तव्यम्' (वा २७४५) । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या । तामधीते वेद मा त्रैविद्य : । 'आख्यानाख्यायिके- तिहासपुराणेभ्यश्च' (वा २७४६) । यवक्रीतमधिकृत्य कृतमाख्यानमुपचारा द्यवक्रीतम्, तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता


आग्निष्टोमिक इति । अग्निष्टोम क्रतु वेत्ति तत्प्रतिपादकग्रन्थमधीते इति वार्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थ शब्दाड्ठगित्याह । उक्थं सामविशेष इति । अग्निष्टोमस्तोत्रात्परं यत्साम गीयते इति वृत्तिकृदुक्त्तेरिति भावः । भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लभ्यते । मुख्यार्थादिति । सामवाचिनः उक्थशब्दात्तु न ठक्, तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दात् ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितात् न्यायादिशब्दात् ठकमुदाहरति । न्यायमिति । अधीते वेत्ति वेति शेषः । नैयायिक इति ॥ ठकि ऐजागमः । वृत्तिमिति । अधीते वेद वेति शेषः । वार्तिक इति॥ ठकि आदिवृद्धौ रपरत्वम् । साङ्ग्रहसूत्रिक इति । सङ्ग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति ॥ विद्या, लक्षण, कल्प एतदन्तादपि उक्तेsर्थे ठगित्यर्थः । अङ्ग, क्षत्र, धर्म, त्रि,एतत्पूर्वकाद्विद्यान्तात् समासान्तात् ठक् नेत्यर्थः । ततश्च अणेव । त्रिविधा विद्या त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिस्रो विद्यास्त्रिविद्या इति न विग्रहः। दिक्सङ्ख्ये संज्ञायाम्' इति नियमात् । नापि तिस्रो विद्या अधीते वेद वेति तद्धितार्थे द्विगुः । तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोर्लुगनपत्ये' इति लुगापत्तेः । तिसृणां विद्यानां समाहार इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति ॥ आख्यान आख्यायिका, इतिहास, पुराण एभ्यश्च उक्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन आख्यायिकाशब्देन च आख्यानविशेषवाचिनः आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहास- पुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः । “ आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्” इत्यमरः । “इतिहासः पुरावृत्तम्” इति च । “सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितञ्चेति पुराणं पञ्च लक्षणम् ॥” तत्र आख्यानादुदाहरति । यावक्रीतमिति ॥ आख्यायिकाया उदाहरति । वासवदत्तामिति ॥ लुग्वक्तव्य

७२८
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

आख्यायिका वासवदत्ता । 'अधिकृत्य कृते ग्रन्थे' (सू १४६७) इत्यर्थे वृद्धाच्छ:' (सू १३३७) तस्य “लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः । 'सर्वादेः सादेश्च लुग्वक्तव्यः' (वा २७४८) । सर्ववेदानधाते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । 'द्विगोर्लुक्-' (सू १०८०) इति लुक् । द्वितन्त्रः । “इकन्प दोत्तरपदाच्छतषष्टेः टिकन्पथः' (वा २७४९-२७५०) । पूर्वपदिकः । उत्तरपदिकः । शतपथिकः-शतपथिकी । षष्टिपथिकः-षष्टिपथिकी ।

१२७१ । क्रमादिभ्यो वुन् । (४-२-६१)

क्रमकः । क्रम पद शिक्षा मीमांसा क्रमादिः ।

१२७२ । अनुब्राह्मणादिनिः । (४-२-६२)

'तदधीते तद्वेद' (सू १२६९) इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणी । मत्वर्थीयेनैव सिद्धेऽण्बाधनार्थमिदम् ।

१२७३ । वसन्तादिभ्यष्ठक् । (४-२-६३)


इति ॥ उक्तप्रत्ययस्येति शेषः । सर्ववेद इति ॥ अणो लुकि आदिवृध्द्यभावः । सर्व तन्त्र इति ॥ सर्वतन्त्राण्यधीते वेद वेत्यर्थः । सवार्तिक इति ॥ वार्तिकेन सह सवार्तिकम् । 'तेन सह' इति बहुव्रीहिः । 'वोपसर्जनख्य ' इति सभावः । सवार्तिकं सूत्रमधीते इत्यर्थः । द्विगुरिति ॥ द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वा- दणो लुकि आदिवृध्द्यभावे द्वितन्त्र इति रूपमित्यर्थः । इकन्पदोत्तरपदादिति ॥ पद शब्दः उत्तरपदं यस्य सः पदोत्तरपदः । तस्मादुक्त्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेष्टिकन्पथ इति ॥ शतशब्दात् षष्टिशब्दाच्च परो यः पथिन्शब्दः तस्मात् उक्त्तेऽर्थे टिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति ॥ पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः । शतपथिक इति ॥ शतपथं नाम वाजसनेयिब्राह्मणम् । तदधीते वेत्ति वेत्यर्थः । शत पथिकीति ॥ टित्वात् डीबिति भावः । एवं षष्टिपथिकः । षष्टिपथिकीति । क्रमा दिभ्यो वुन् ॥ 'तदधीते तद्वेद' इत्यर्थे इति शेषः । क्रमक इति ॥ क्रममधीते वेति वेत्यर्थः । क्रमादिगणम्पठति । क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । पदकः शिक्षकः मीमांसकः इत्युदाहरणानि । अनुब्राह्मणादिनिः ॥ शेषपूरणेन सूत्र व्याचष्टे । तदधीते तद्वेदेत्यर्थे इति ॥ इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथाच नकारस्यो पदेशेत्यत्वाभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह । अण्बाधनार्थमिति ॥ भाष्ये तु प्रत्याख्यातमेवेदम् । वसन्तादिभ्यष्टक् ॥

प्रकरणम्]
७२९
बालमनोरमा ।

वासन्तकः । अथर्वाणमधीते आथर्वणिकः। दाण्डिनायन–’ (सू ११४५) इति सूत्रे निपातनाट्टिलोपो न ।

१२७४ ।। प्रोक्ताल्लुक् । (४-२-६४ )

प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक्स्यात् । पणनं पणः । घञर्थे कविधानम्' इति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ।

१२७५ । गाथिविदथिकेशिगणिपणिनश्च । (६-४-१६५)

एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यून्यपत्ये इञ् । पाणिनिः ।

१२७६ । ण्यक्षत्रियार्षमितो यूनि लुगणिञोः । (२-४-५८)

ण्यप्रत्ययान्तात्क्षत्त्रियगात्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्तात् ञितश्च परयोर्युवाभिधायिनोरणिञोर्लुक्स्यात् । कौरव्यः पिता । कौरव्यः


तदधीते तद्वेद' इत्येव । वासन्तिक इति ॥ वसन्तवर्णनपरग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति ॥ अथर्वणा प्रोक्तो वेदः लक्षणया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्य ऋषिभ्यो लुग्वक्तव्यः' इति वचनाल्लुक् । आथर्वणिकः इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्कय आह । दाण्डिनायनेति ॥ वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः । अथ पाणिनि शब्दं व्युत्पादयितुमुपक्रमते । प्रोक्ताल्लुक् ॥ प्रोक्तशब्देन प्रोक्तार्थकप्रत्ययो विवक्षितः । अध्येतृ वेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते ।तदाह । प्रोक्तार्थकेतिपणनं पण इति ॥ स्तुतिरित्यर्थः । ननु 'हलश्च' इति घञि उपधावृद्धिः स्यादित्यत आह । घञर्थे इतिपणीति ॥ 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति ॥ पणिनो गोत्रापत्ये तस्यापत्य मित्याणि पाणिन इति रूपमित्यर्थः। अत्र अणः अपत्यत्वात्तस्मिन् परे “इनण्यनपत्ये' इति प्रकृतिभावाभावाट्टिलोपे प्राप्ते । गाथिविदथि ॥ ‘इनण्यनपत्ये' इत्यतः अणीत्यनुवर्तते । प्रकृत्यैकाच' इत्यतः प्रकृत्येति च । तदाह । एतेऽणि प्रकृत्या स्युरिति ॥ गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्, एते इत्यर्थः । अपत्येऽप्याणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति ॥ मूलप्रकृतिः पणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते ॥ मूलप्रकृतिः पाणिनशब्दात् गोत्राणन्तात् अत इञि पाणिनिरिति रूपमित्यर्थः । पाणिनशब्दस्य अनन्तरा पत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीयो गोत्रापत्ये इञ् न सम्भवति । “एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थ्यात्ये यूनि पाणिनशब्दादनन्तरापत्य प्रत्ययान्तादिञ् सम्भवति । 'गोत्राद्युन्यस्त्रियाम्' इति यून्यपत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्यय नियमात् । अतः गोत्राण्प्रत्ययान्तात् पाणिनिशब्दानि इञ्प्रत्यय इत्युक्तमिति बोध्द्यम् । अत्र इञो लुकमाशङ्कितुमाह । ण्यक्षत्रियार्ष ॥ ण्यादयः सर्वे गोत्रप्रत्यया एव गृह्यन्ते । 'गोत्रायूनि इत्युक्तः । तदाह । गोत्रप्रत्ययान्तादित्यादि ॥ ण्यप्रत्ययस्योदाहरति । कौरव्य इतिपुत्त्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्त्रः । वासिष्ठः पिता । वासिष्ठः पुत्त्रः । तैकायनिः पिता । तैकायनिः पुत्त्रः । 'एभ्यः' किम् । शिवाद्यण् । कौहडः पिता । ततः इञ् । कौहडि: पुत्त्रः । 'यूनि' किम् । वामरथ्यस्य च्छात्राः वामरथाः । इत्यणो लुक्तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । 'वृद्धाच्छः’ (सू १३३७) । 'इञश्च' (सू १३३३) इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः। पाणिनीयाः ।


कुरोः गोत्रापत्यङ्कौरव्यः । कुर्वादिभ्यो ण्यः । कौरव्यस्यापत्यं युवेत्यर्थे अत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति । श्वाफल्क इति ॥ श्वफल्कस्य गोत्रापत्यं श्वाफल्कः । 'ऋष्यन्धक' इत्यण् । श्वाफल्कस्यापत्यं युवेत्यर्थे अत इञ् । तस्यानेन लुक् । आर्षप्रत्ययस्योदाहरति । वासिष्ठ इति ॥ वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण्, वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । ञित उदाहरति । तैकायनिरिति ॥ तिकस्य गोत्रं तैकायनिः तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । कुर्वादिभ्यो ण्यः । वामरथ्यस्य छात्रा इत्यर्थे ‘कण्वादिभ्यो गोत्रे’ इति छापवादः अण्, तस्यानेन लुङ् न भवति । तस्य युवार्थकत्वाभावादिति भावः । इत्यणो लुक्तु न भवतीति ॥ ‘ण्यक्षत्रिय' इति सूत्रेण पाणिनिरित्यत्र इञो लुड् न भवतीत्यर्थः । कुत इत्यत आह । आर्षग्रहणेनेति ॥ पाणिनिशब्दे पणिन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाभावान्न ततः परस्य इञो लुगिति भावः । न च पणिन्शब्दाद्गोत्रापत्ये 'ऋष्यन्धक' इत्यणेव कुतो न स्यादिति वाच्यम् । यत्र औत्सर्गिकस्य अणः इञादिना बाधः प्रसक्तः, तत्रैव तद्बाधनार्थम् ऋष्यणः प्रवृत्तेः । “वस्तुतस्तु 'वान्यस्मिन्सपिण्डे' इति सूत्रभाष्ये अत्रिशब्दात् 'इतश्चानिञः' इति ढकि आत्रेयशब्दादिञो 'ण्यक्षत्रियार्ष' इति लुगित्युक्तत्वादिदमुपेक्ष्यम् । ‘ण्यक्षत्रिय' इत्यत्र तु ऋषिवाचकस्य रूढस्यैव ग्रहणम् । पाणिनशब्दः तदपत्ये पाणिनिशब्दश्च न ऋषिवाचकौ । अतः औत्सर्गिकाणन्त एव पाणिनशब्दः” इति शब्देन्दुशेखरे प्रपञ्चितम् । पाणिनिनेति ॥ पाणिनिना प्रोक्तमित्यर्थे 'तेन प्रोक्तम्' इत्यणम्बाधित्वा 'वृद्धाच्छः' इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षिते 'यूनि लुक्' इति इञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादः अण् स्यादित्यत आह । इञश्चेत्यण् तु नेति ॥ पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः । युवसंज्ञया गोत्रसंज्ञाया बाधादिति भावः । यद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकङ्गोत्रमित्युक्तम् । तथाप्यत्र पारिभाषिकमेव गोत्रङ्गृह्यते इति उपरिष्टात् 'इञश्च' इति सूत्रे वक्ष्यते । तत इति ॥ पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेत्ति वेत्यर्थे पाणिनीयशब्दादणि 'प्रोक्ताल्लुक्' इति लुगिति भावः । ननु असत्यपि अध्येतृवेदितृप्रत्ययस्याणो लुकि पाणिनीयशब्दः

सिद्ध्यत्येवेत्यत आह । स्वरे स्त्रियाञ्च विशेष इति ॥ अध्येतृवेदितृप्रत्ययस्याणो लुगभावे
प्रकरणम्]
७३१
बालमनोरमा ।

१२७७ । सूत्राच्च कोपधात् । (४-२-६५)

सूत्रवाचिनः ककारोपधाद्ध्येतृवेदितृप्रत्ययस्य लुक्स्यात् । अप्रेोक्तार्थ आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम्। तद्धीयते विदन्ति वा अष्टकाः । 'सङ्ख्याप्रकृतिकादिति वाच्यम्' नेह । कलापकमधीते कालापकः ।

१२७८ । छन्दोब्राह्मणानि च तद्विषयाणि । (४-२-६६)

छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृ वेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठा: । वैशम्पा यनान्तेवासित्वाण्णिनिः । तस्य 'कठचरकात्--' (सू १४८७) इति लुक् । ततोऽण् । तस्य 'प्रोक्ताल्लुक्' (सू १२७४) ।


प्रत्ययखरेणान्तोदात्तत्वं स्त्रियाञ्च डीप् स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः प्रत्ययस्वरेणोदात्तष्टाप् च सिध्द्यति । तदाह । पाणिनीयः । पाणिनीया इति ॥ सूत्राच्च कोपधात् ॥ ककारोपधादित्यनन्तरम्परस्येति शेषः । ननु 'प्रोक्ताल्लुक्' इत्येव सिद्धे किमर्थमिदमित्यत आह । अप्रोक्तार्थ आरम्भ इति ॥ अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ॥ तदस्य परिमाणमित्यधिकारे 'सङ्ख्यायाः संज्ञासड्घसूत्राद्ययनेषु' इति 'सङ्ख्याया अतिशदन्तायाः कन्' इति च सूत्ररूपेऽर्थे कन् । अष्टका इति ॥ अष्टक शब्दादध्येतृवेदितृप्रत्ययस्य अनेन लुक् । कोपधादित्यपेक्षया सूत्रवाचिनः इत्यस्य परत्वादिति भावः । सङ्ख्याप्रकृतिकादिति ॥ ‘सूत्राच्च कोपधात्' इति लुक् सङ्ख्याप्रकृतिकप्रत्ययान्ता देव परस्य भवतीत्यर्थः । महावार्तिकन्नाम सूत्रम् । तदधीते वेत्ति वा महावार्तिकः । अत्र अणो लुक् । छन्दोब्राह्मणानि ॥ छन्दांसि मन्त्राः, ब्राह्मणानि विधिवाक्यानि । तेषान्द्वन्द्वः । वेद इति यावत् । मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मरणात् । 'प्रोक्ताल्लुक्' इत्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह । छन्दांसीत्यादिना ॥ तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः । तैर्विषयः आविनाभावः येषान्तानि तद्विषयाणि 'षिञ् बन्धने '। विशिष्य बन्धः विषयः, अविनाभाव इति यावत् । अध्येतृवेदितृप्रत्यय संयुक्तान्येव स्युरित्यर्थः । फलितमाह । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति ॥ पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेतिवत् अध्येतृप्रत्ययं विनाऽपि प्रयोगे प्राप्ते नियमार्थमिदम्। कठेनेति ॥ कठेन प्रोक्तमधीयते इत्यर्थे कठा इत्युदाहरणमिति भावः। तदुपपादयति । वैशम्पायनेति ॥ कठेन प्रोक्तमित्यर्थे तेन प्रोक्तमित्यपवादो 'वैशम्पायना न्तेवासिभ्यश्च' इति णिनिरित्यर्थः । तस्येति ॥ णिनेः “कठचरकाल्लुक्’ इत्यनेन लुगित्यर्थः । एवञ्च कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति ॥ तस्मात् लुप्तप्रोक्तप्रत्यकात् कठशब्दात् तदधीते इति अणित्यर्थः । तस्य प्रोत्क्ताल्लुगिति ॥ तस्याध्येत्रणः 'प्रोक्ताल्लुक् इति लुगित्यर्थः । तथाच कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्ये त्रणा सहैव प्रयोगार्हता । नतु तेन विना केवलप्रोक्तप्रत्ययान्तस्येति भावः । अथ चातुरर्थिकान्

७३२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१२७९ । तदस्मिन्नस्तीति देशे तन्नाम्नि । (४-२-६७)

उदुम्बराः सन्त्यस्मिन्देशे औदुम्बर

१२८० । तेन निर्तृत्तम् । (४-२-६८)

कुशाम्बेन निवृत्ता कौशाम्बी नगरी ।

१२८१ । तस्य निवासः । (४-२-६९)

शिबीनां निवासो देश: शैबः ।

१२८२ । अदूरभवश्च । (४-२-७०)

विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्रयोऽर्थाः सन्निधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्द्यति

१२८३ । ओरञ् । (४-२-७१)

अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यास्तु परत्वान्मतुप् । इक्षुमती ।

१२८४ । मतोश्च बह्वजङ्गात्। (४-२-७२)

बह्वच अङ्गं यस्य मतुपस्तदन्तादञ् । नाण् । सैध्रकावतम् । “बह्वच् इति किम् । आहिमतम् । “अङ्ग' ग्रहणं 'बह्वच्’ इति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं मा भूत् ।


प्रत्ययान् वक्तुमुपक्रमते । तदस्मिन्नस्तीति ॥ तदस्मिन्नस्तीत्यर्थे प्रथमोचारितादणादयः स्युः । प्रत्ययान्तेन प्रकृतिनामके देशे गम्ये इत्यर्थः । प्रसिद्धदेशग्रहणार्थ इतिशब्दः । मतुपोपवादः । तेन निर्तृत्तम् । देशे तन्नाम्नीत्यनुवर्तते । तेन निवृत्तमित्यर्थे तृतीयान्तादणादयः स्युः तन्नान्नि देशे इत्यर्थः । तस्य निवासः ॥ तन्नान्नि देशे इत्येव । तस्य निवासः इत्यर्थे षष्ठयन्तादणादय स्युः तन्नाम्नि देशे इत्यर्थः । स्वत्ववान् विषयः । निवासस्तु वसतिमात्रं स्वत्वास्वत्वसाधारण मित्याहुः । अदूरभवश्च ॥ तस्येति तन्नान्नि देशे इति चानुवर्तते । तस्य अदूरभव इत्यर्थे षष्ठ्यान्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । नन्वत्र चकारः किमर्थ इत्यत आह । चकारे णेति ॥ अदूरभवः इति विध्यनन्तरम्प्रागुक्तास्त्रयोर्थाः पुनरुपस्थाप्यन्ते इत्यर्थः । किमर्थमित्यत आह । तेनेति । अन्यथा सन्निहितत्वात् अदूरभव इत्येव उत्तरविधिष्वनुवर्तते इति भावः । चातुरार्थिकत्वमिति ॥ चतुरर्थ्याम्भव इत्यर्थे द्विगोरध्द्यात्मादित्वाद्वक् । तद्धितार्थद्विगौ तु द्विगोर्लुगनपत्ये' इति लुक् स्यात्। केचित्तु चतुर्णो सूत्राणामर्थाश्चतुरर्थाः, तत्रभवाश्चातुरर्थिका इत्याहुः । ओरञ् ॥ ‘तदस्मिन्नस्ति' इत्यादि चतुष्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ् स्यात्, अणोऽपवादः । अनधिकारः 'सुवास्त्वादिभ्योऽण्’ इति यावत् । काक्षतवमिति ॥ कक्षतुरस्मिन्नस्तीत्यादि विग्रहः । मतोश्च ॥ सैध्रकावतमिति ॥ सिध्रकावानस्मिन्नस्तीत्या दयश्चत्वारोऽर्थाः यथायोगम्बोध्याः । आहिमतमिति ॥ अहिमानस्मिन्नस्तीत्यादयोऽर्थाः ।

प्रकरणम्]
७३३
बालमनोरमा ।

१२८५ । बह्वचः कूपेषु । (४-२-७३)

अणोऽपवादः । दीर्घवरत्रेण निवृत्तो दैर्घवरत्रः कूपः ।

१२८६ । उद्क्च विपाशः । (४-२-७४)

विपाशः उत्तरे कूले ये कूपास्तेष्वञ् । अबह्वजर्थ आरम्भः । दन्तेन निवृत्तो दान्तः कूपः । 'उद्क्’ किम् । दक्षिणतः कूपेष्वणेव ।

१२८७ । सङ्कलादिभ्यश्च । (४-२-७५)

कूपेषु' इति निवृत्तम् । सङ्कलेन निवृत्तं साङ्कलम् । पौष्कलम् ।

१२८८ । स्त्रीषु सौवीरसाल्वप्राक्षु । (४-२-७३)

स्त्रीलिङ्गेष्वेषु देशेषु वाच्येष्वञ् । सौवीरे दत्तामित्रेण निवृत्ता दात्ता मित्री नगरी । साल्वे वैधूमाग्री । प्राचि माकन्दी ।

१२८९ । सुवास्त्वादिभ्योऽण् । (४-२-७७)

अञ्जोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्ण-वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ।

१२९० । रोणी । (४-२-७८)

रोणीशब्दात्तदन्ताच्चाण् । कूपाञोऽपवादः । रौणः । आजकरौणः ।


अहिशब्दस्य द्यच्कत्वादञ् नेति भावः । वह्वचः कूपेषु ॥ बह्वचः प्रातिपदिकात् अञ् चतु र्ष्वर्थेषु, अणोऽपवादः । दीर्घवरत्रेण निर्वृतः कूपः दैर्घवरत्रः । उदक्च विपाशः ॥ विपाशा उत्तरे कूले इति ॥ विपाश्शब्दः शकारान्तो नदीविशेषवाची । सङ्कलादिभ्यश्च ॥ नि वृत्तमिति ॥ व्याख्यानादिति भावः । यथा दाराः इत्यादौ शास्त्रीयपुस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानम् । तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतालिङ्गसङ्खयाविशिष्टस्यैव स्वार्थस्य लोकव्यवहारादेव भानं सम्भवति, नतु तदशे शास्रव्यापारापेक्षेति भावः । अणोऽपवादः । पौष्कलमिति ॥ पुष्कलेन निवृत्तमिति विग्रहः । स्त्रीषु सौवीर ॥ सौवीरे इति ॥ उदाहरणं वक्ष्यते इति शेषः । दात्तामित्री नगरीति ॥ ‘टिड्ढ' इति डीप् । साल्वे इति । उदाह्रियते इति शेषः । वैधूमाग्नीति ॥ विधूमाग्निना निवृत्तेत्यर्थः । आञ्जि डीप् । प्राचीति । प्राचि देश उदाह्रियते इत्यर्थः । माकन्दीति । माकन्देन निवृत्तेत्यर्थः । सुवास्त्वादिभ्योऽण् ॥ अञ्ज इति ॥ ओरञित्यापवाद इत्यर्थः । सौवास्तवमिति ॥ आणि ओर्गुणः । वार्णवमिति ॥ वर्णोर दूरभाव्मित्यर्थः ननु “ओरञ्' इत्येव सिद्धे पुनर्विधिसामथ्र्यादेव तदननुवृत्तौ अणि सिध्दे पुन रण्ग्रहणं व्यर्थमित्यत आह । अण्ग्रहणमिति ॥ रोणी ॥ लुप्तपञ्चमीकमिदम् । तदन्ता दिति ॥ 'येन विधिः' इति सूत्रस्थभाष्यादिह प्रत्ययविधावपि तदन्तविधिरिति भावः । रौण

७३४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१२९१ । कोपधाच्च । (४-२-७९)

अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ।

१२९२ । वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठको ऽरीहणकृशाश्वर्श्यकुमुदकाशुतृणप्रेक्षाश्मसखिसङ्काशबल- पक्षकर्णसुतङ्गप्रगदिन्वराहकुमुदादिभ्यः। (४-२-८०)

सप्तदशभ्यः गणेभ्यः सप्तदश क्रमात्स्युश्चतुर्थ्याम्। अरीहणादिभ्यो बुञ्’ । अरीहणेन निवृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण्’ । काशश्धीयत् । ऋश्यादिभ्यः कः' । ऋश्यकम् । ’कुमुदादिभ्यष्टच्' । कुमुदिकम् । ’काशा दिभ्य इलः' । काशिलः । तृणादिभ्यः सः' । तृणसम् । ’प्रेक्षादिभ्य इनिः प्रेक्षी । ’अश्मादिभ्यो र:' । अश्मरः । ’सख्यादिभ्यो ढञ्’ । साखेयम् । सङ्काशादिभ्यो ण्यः' । साङ्काइयम् । ’बलादिभ्यो यः' । बल्यम् । ’पक्षा दिभ्यः फक्' पाक्षायण । ’पथः पन्थ च' (ग सू ७९) । पान्थायनः ।


इति ॥ रोण्या निवृत्तः कूप इत्यर्थः । आजकरौण इति ॥ अजकरोण्या निर्तृत्त इत्यर्थः । अणि ’यस्य' इति इकारलोपः । कोपधाच्च ॥ कार्णच्छिद्रक इति ॥ कर्णच्छिद्रकेण निवृत्तः कूप इत्यर्थः। कार्कवाकवमिति । कृकवाकुना निवृत्तः कूप इत्यर्थः । ओर्गुणः, आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति॥ त्रिशङ्कना निवृत्तः कूप इत्यर्थः । वुञ्छण् ॥ वुञ्, छण्, क, ठच्, इल, स, इनि, र, ढञ्, ण्य, य, फक्, फिञ्, इञ्, ज्य, कक्, ठक् एतेषां सप्तदशानान्द्वन्द्वात्प्रथमा बहुवचनम् । अरीहण, कृशाश्व, ऋश्य, कुमुद, काश, तृण, प्रेक्ष, अश्मन्, सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन्, वराह, कुमुद एतेषा सप्तदशानान्द्वन्द्वः । एते आदयः येषामिति बहुव्रीहेः पञ्चमीबहुवचनम् । यथासङ्खयावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाभावस्तु इकारान्तत्वभ्रमनिरासाय । द्वन्द्वान्ते श्रूयमाणस्य आदिशब्दस्य अरीहणादिषु प्रत्येकमन्वयः । तथाच अरीहणादिभ्यो वुञ्, कृशाश्वादिभ्यः छण् इत्येव सप्तदश वाक्यानि सम्पन्नानि । तदाह । सप्तदशभ्य इति ॥ अरीहणाद्यादिसप्तदशभ्यो गणेभ्यः वुञ्जादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरर्थ्यामिति ॥ तदस्मिन्नस्तीति देशे तन्नान्नि । 'तेन निवृत्तम्, तस्य निवासः, अदूरभवश्च' इति चतुर्ष्वर्थेषु प्रथमोच्चारितात्तद्विभक्त्यन्तात् यथा योगम्प्रत्ययाः इति फलितम् । एतेषु गणेषु चेतनवाचका अचतनवाचकाश्च सन्ति । तत्र यथा योगश्चतुरर्थाः अन्वयः प्रेक्षीति ॥ प्रेक्षते इति प्रेक्षः, तेन निर्तृत्तमित्यर्थः । प्रेक्षया निवृत्तमिति अन्वयः । वा। पथः पन्थच इति । प्रेक्षादिगणसूत्रमिदम्। पान्थायन इति ॥ पथः अदूरभव इत्यर्थः ।

प्रकरणम्]
७३५
बालमनोरमा ।

कर्णादिभ्यः फिञ्’ कार्णायनिः । 'सुतङ्गमादिभ्य इञ्’ । सौतङ्गमिः । 'प्रग द्यादिभ्यो ञ्यः' प्रागद्यः । * वराहादिभ्यः कक्' वाराहकः । कुमुदादिभ्य- ष्ठक्’ कौमुदिकः ।

१२९३ । जनपदे लुप् । (-२-८१)

जनपदे वाच्ये चातुरार्थिकस्य लुप्स्यात् ।

१२९४ । लुपि युक्तवद्व्यक्तिवचने । (१-२-५१)

लुपि सति प्रकृतिवलिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गा: । वङ्गा: । कलिङ्गाः ।

१२९५ । तदशिष्यं संज्ञाप्रमाणत्वात् । (१-२-५३)

युक्तवद्वचनं न कर्तव्यम् । संज्ञाना प्रमाणत्वात् ।

१२९६ । लुब्योगाप्रख्यानात् । (१-२-५४)

लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।

१२९७ । योगप्रमाणे च तदभावेऽदर्शनं स्यात् । (१-२-५५)


जनपदे लुप् ॥ चातुर्थिकस्येति ॥ प्रकरणलभ्यमिदम् । लुपि युक्तवत् । प्रकृतिभूतः शब्दः युक्तः, व्यक्तिः लिङ्गं, वचन सङ्खयेति पूर्वाचार्यसङ्केतः । तदाह । लुपि सति प्रकृतिव- लुिङ्गवचने स्त इति ॥ लुबिति प्रत्ययादर्शनमुच्यते । लुपः प्रवृत्तेः प्राक् प्रत्ययप्रकृतेर्यल्लिङ्गं वचनन्ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति ॥

पञ्चालसंज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति ॥ तस्य निवास इति विहितस्याण: ’जनपदे लुप्' इति लुपि प्रकृतिवत् बहुवचनामिति भावः । कुरव इत्यादि ॥ कुरूणाम् अङ्गानां वङ्गानां कालङ्गानाञ्च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तु कटुबदर्या अदूरभवो जनपदः कटुबदरीत्युदाहार्यम् । तदेतत्पूर्वाचार्यसूत्रम्पाणिनिः प्रत्याचष्टेः । तदाशिष्यम् ॥ यथा दारा इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्येव स्त्रीरूपार्थस्य भानम्, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्ग- सङ्खयाविशिष्टस्यैव स्वार्थस्य लोकव्यवहारादेव भानं सम्भवति, न तु तदंशे शास्रव्यापारा- पेक्षेति भावः । संज्ञानामिति ॥ लोकव्यवहाराणामित्यर्थः । एवञ्च लुगाप न विधेय इत्याह । लुब्योगाप्रख्यानात् ॥ अशिष्यमित्यनुवृत्तं पुल्लिङ्गेन विपरिणतं लुबित्यनन्तरं सम्बध्यते । तदाह । लुबपि न कर्तव्य इति ॥ योगः अवयवार्थः, तस्य अप्रख्यानात् अप्रतीतेरित्यर्थः । तदाह । अवयवेति । नहि पञ्चालाङ्गवङ्गादिसम्बन्धित्वेन पञ्चाला अङ्गाः वङ्गाः इत्यादितो बोधः अतः प्रत्यय एव तत्रास्तीति भावः । प्रत्ययस्वीकारे वाधकमाह । योगप्रमाणे च ॥ पञ्चालाङ्गः- वङ्गादिशब्देषु योगस्य अवयवार्थस्य प्रमापके सति तदभावे पञ्चालाङ्गादिक्षत्त्रियसम्भाव यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ।

१२९८ । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्। (१-२-५६)

'प्रत्ययार्थः प्रधानम्' इत्येवं रूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धेः ।

१२९९ । कालोपसर्जने च तुल्यम् । (१-२-५७)

'अतीतायाः रात्रेः पश्चार्धेनागामिन्याः पूर्वाधेन च सहितो दिवसोऽद्यतनः', ‘विशेषणमुपसर्जनम्' इत्यादि पूर्वाचार्यैः परिभाषितम् । तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ।

१३०० । विशेषणानां चाजातेः । (१-२-५२)

लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । 'अजातेः' किम् । पञ्चाला जनपदः । गोदौ ग्रामः । 'हरीतक्यादिषु व्यक्ति:' (वा ७१५) । हरीतक्याः फलानि


सम्प्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्येत, प्रयुज्यते च, अतः पञ्चालादिशब्दाः जनपदविशेषेषु केवलरूढा इति युक्तमित्यर्थः । तदाह । यदि हि योगस्येति ॥ अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे । प्रधानप्रत्ययार्थ् । प्रत्ययार्थ इति ॥ प्रकृत्यर्थम्प्रति प्रत्ययार्थः प्रधानं विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषणमित्येवं यत्पूर्वाचार्यवचनन्तदपीत्यर्थः । कालोपसर्जने च ॥ कालश्च उपसर्जनञ्चेति समाहारद्वन्द्वात् विषयसप्तमी । आशिष्यमित्यनुवृत्तम्भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनन्तत्राप्यशिष्यत्वं समानमित्यर्थः । तद्विशेषवचनं विशदयन् व्याचष्टे । अतीताया इत्यादिना ॥ विशेषणानाञ्चाजातेः ॥ कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठ्या विपरिणतं सम्बध्यते लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह । लुबर्थस्येति ॥ तद्वदिति ॥ प्रकृतिवदित्यर्थः । 'लुपि युक्तवद्व्यक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रम् । तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति ॥ पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रमणीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति ॥ गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवत् द्विवचनम् । पञ्चाला जनपद् इति ॥ जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्वहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवत् द्विवचनम् । हरीतक्यादिषु व्यक्तिरिति ॥ वार्तिकमिदम् । लुपि लिङ्ग प्रकृतिवद्भवति । न तु वचनामिति शेषः । हरीतक्याः फलानि हरीतक्य इति ॥ 'हरीतक्यादिभ्यश्च' इति विकारप्रत्ययस्य हरीतक्यः । 'खलतिकादिषु वचनम्' (वा ७१६) । खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः' (वा ७१७) । मनुष्यलक्षणे लुबर्थे विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ।

१३०१ । वरणादिभ्यश्च । (४-२-८२)

अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणा ।

१३०२ । शर्कराया वा । (४-२-८३)

अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ।

१३०३ । ठक्छौ च । (४-२-८४)

शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् । तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा-शार्करम्-शार्करिकम्-शर्करीयम्-शर्करिकम्-शार्करकम् ।


लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः । खलातिकादिषु वचनम् ॥ वार्तिकमिदम् । एषु लुपि प्रकृतिवद्ववचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिकं वनानीति ॥ 'वरणादिभ्यश्च' इति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुल्लिङ्गत्वान्न भवति । किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति ॥ वार्तिकमिदम् । मनुष्यलक्षणे इति ॥ मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चञ्चा अभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यः चञ्चा । “इवे प्रतिकृतौ' इत्यधिकारे 'संज्ञायाम्'

इति कनः 'लुम्मनुष्ये' इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वम् । नतु तद्विशेषणस्य अभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ॥ अथ प्रकृतमारभते-वरणादिभ्यश्च ॥ 'जनपदे लुप्' इत्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप् स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह । अजनपदार्थ आरम्भ इति ॥ वरणानामिति ॥ वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायम्पूजार्थं वा बहुवचनम् । वरणानामदूरभवन्नगरं वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनञ्च । शर्कराया वा ॥ लुबित्यनुवर्तते । प्रत्यासत्या चातुरर्थिकस्येति लभ्यते । तदाह । अस्मादिति ॥ ठक्छौ च ॥ शर्कराया इत्यनुवर्तते । तदाह । शर्कराया एतौ स्त इति ॥ ठच्ककाविति ॥ कुमुदादिभ्यः ठच्, वराहादित्वात् कक्, इति विवेकः । वाग्रहणेति ॥ अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयर्थ्यादिति भावः । शर्करेति । अणो लुपि युक्तवद्भावे रूपम् । शार्करमिति ॥ अणि रूपम् । शार्करिकमिति ॥

१३०४ । नद्यां मतुप् । (४-२-८५)

चातुरर्थिकः । इक्षुमती ।

१३०५ । मध्वादिभ्यश्च । (४-२-८६)

मतुप्स्याच्चातुरर्थिकः । मधुमान् । अनद्यर्थ आरम्भः ।

१३०६ । कुमुदनडवेतसेभ्यो ङ्मतुप् । (४-२-८७)

कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोः 'झयः' (सू १८९८) इति अन्त्ये 'मादुपधायाः-' (सू १८९७) इति वक्ष्यमाणेन वः । 'महिषाञ्चेति वक्तव्यम्' (वा २७६१) । महिष्माम्नाम देश: ।

१३०७ । नडशादाड्ड्वलच् । (४-२-८८)


ठकि रूपम् । शर्करीयमिति ॥ छे रूपम् । शर्करिकमिति ॥ ठचि रूपम् । शार्करकमिति ॥ ककि रूपम् । शर्कराणां निवासः इत्यर्थः । शर्कराभिः निवृत्तमिति वा । नद्यां मतुप् ॥ चातुरर्थिक इति ॥ शेषपूरणम् । इक्षुमतीति ॥ मतुपि उपावितौ । इक्षूणां निवास इत्यर्थः । मध्वादिभ्यश्च ॥ शेषपूरणेन सूत्रं व्याचष्टे । मतुप् स्याच्चातुरर्थिक इति । मधुमानिति ॥ मधूनां निवास इत्यर्थः । पूर्वेण सिद्धे किमर्थमिदमित्यत आह । अनद्यर्थमिति । कुमुदनड । कुमुद नड वेतस एतेभ्यः ङ्मतुप् स्यादित्यर्थः। ङकारः उपौ च इतः । अयं मत्वर्थ एवेति “न पदान्त' इति सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वानिति ॥ कुमुदा: अस्मिन् सन्तीति विग्रहः । ङ्मतुपि ङित्वात् टिलोपः । नड्वानिति । नडाः अस्मिन् सन्तीति विग्रहः । “कुमुद्वान्कुमुदप्राये नड्वान्नड्वल इत्यपि” इत्यमरः । वेतस्वानिति ॥ वेतसाः अस्य सन्तीति विग्रहः । आद्ययोरिति ॥ कुमुद्वच्छब्दे नडुच्छब्दे च 'झयः' इति मतुपो मस्य वकारः । वेतस्वच्छब्दे तु 'मादुपधायाः' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झयः’ इत्यस्यासिद्धत्वात् 'मादुपधायाः' इत्येव न्याय्यम् । “प्रकरणे प्रकरणमसिद्धम्, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगम्प्रति परस्यासिद्धत्वम्” इत्यस्य 'उपसर्गादसमासे' इति सूत्रभाष्ये दूषितत्वात् । वेतस्वानित्यत्र रुत्वन्तु न, अल्लोपस्य स्थानिवत्वात् 'न पदान्त' इति निषेधस्तु न । पदे अन्त इति विगृह्य पदे परतश्चरमावयवे कर्तव्ये परपदस्थाजादेशस्यैव तन्निषेधप्रवृत्तर्भाष्याभ्युपगतत्वात् । 'पूर्वत्रासिद्धे न स्थानिवत्' इति निषेधोऽपि न । पदे अन्त इति विगृह्य तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणात्’ इति शब्देन्दुशेखरे विस्तरः । महिषाच्चेत्यनन्तरं तु ङ्मतुबिति शेषः । महिष्मानिति ॥ महिषाः अस्मिन् सन्तीति विग्रहः । ङित्त्वाट्टिलोपः । अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् । 'प्रत्यय भाषायां नित्यम्' इति तु न । तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनुनासिकोऽस्ति । नडशादाड्ड्वलच् ॥ नड्वल नड्वलः । 'शादो जम्बालघासयोः' इत्यमरः । शाद्वलः ।

१३०८ । शिखाया वलच् । (४-२-८९)

शिखावलम् ।

१३०९ । उत्करादिभ्यश्छः । 8-२९)

उत्करीयः ।

१३१० । नडादीनां कुक्च । (४-२-९१)

नडकीयम् । 'क्रु्ञ्चा ह्रस्वत्वं च' (ग सू ८०) । क्रुञ्चकीयः । 'तक्षन्नलोपश्च ' (ग सू ८१) । तक्षकीयः ।

१३११ । बिल्वकादिभ्यश्छस्य लुक् । (६-४-१५३)

नडाद्यन्तर्गता बिल्वकादयः, तेभ्यश्छस्य लुक्तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीयाः । तस्यां भवा बैल्वकाः । वेत्रकीयाः-वैत्रकाः । 'छस्य' किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्मा भूत् । अन्यथा 'सन्नियोग-


इति ॥ डित्वाट्टिलोपः । शाद्वल इति । शादाः अस्मिन् सन्तीति विग्रहः । शादो दन्त्योपधः । डोपध इत्यन्ये । “नडप्राये नड्वान्नड्वल इत्यपि” इत्यमरः । “शाद्वलः शादहरिते” इति च । शिखाया वलच् ॥ निर्वृत्ताद्यर्थं सूत्रं देशे तन्नाम्नि अणो बाधनार्थञ्च । ‘दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणन्तु अदेशेऽपि शिखावलः, इति रूपार्थम् । उत्कारादिभ्यश्छः ॥ चातुरर्थिक इति शेषः । उत्करीय इति । देशविशेषोऽयम् । उत्करेण निर्वृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा । नडादीनाङ्कुक्च ॥ नडादिभ्यः छः स्यात् चातुरर्थिकः प्रकृतेः कुक् च । क्रुञ्चा ह्रस्वत्वञ्चेति ॥ नडादिगणसूत्रं क्रुञ्चाशब्दाच्छः । प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति ॥ क्रुञ्चा आस्मिन् सन्तीत्यादि विग्रहः । तक्षन्नलोपश्च ॥ इदमाप गणसूत्रम् । त्क्षन्शब्दात् छः, कुक्, नकारस्य लोपश्च । बिल्वकादिभ्यश्छस्य लुक् ॥ षाष्ठमिदं सूत्रम् । बिल्वकेति ॥ नडाद्यन्तर्गतबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादुकार उच्चारणार्थः । तद्धिते इति ॥ 'आपल्यस्य च तद्धिते' इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति ॥ 'नडादीनाङ्कुक् च' इति छः । प्रकृतेः कुक् च । तस्यां भवाः बैल्वका इति ॥ बिल्वकीयाशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीयाः इति ॥ वेत्राः अस्यां सन्तीत्यर्थे नडादित्वाच्छ, प्रकृतेः कुक् च, इति भावः । वैत्रका इति ॥ वेत्रकीयायां भवा इत्यर्थः । वेत्रकीयाशब्दात् अणि छस्य लुगिति भावः । छस्य किमिति ॥ एभ्यः परस्यैव सम्भव इति प्रश्नः । सन्नियोगति ॥ “सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेनेत्यर्थः । ननु 'ढे लोपोऽकद्र्वाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणङ्किमर्थमित्यत आह । लुग्ग्रहणं सर्वलोपार्थमिति । प्रत्ययादर्शनस्यैव लुक्शब्दार्थत्वात् शिष्टानाम्’ (प ८७) इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ।

इति तद्धिते चातुरर्थिकप्रकरणम् ।


अथ तद्धिते शैषिकप्रकरणम् ।

१३१२ । शेषे । (४-२-९२)

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषः, तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्णः औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । 'शेषे' (सू १३१२) इति लक्षणं चाधिकारश्च । 'तस्य विकारः’ इत्यतः प्राक्छेषाधिकारः।


कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह । लोपो हीति ॥ लोपविधौ 'सूर्यतिष्य' इत्यतः य उपधायाः इत्यनुवृत्तौ बिल्वकादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारः तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । य उपधायाः इत्यननुवृत्तौ तु 'आदेः परस्य' इति इकारस्यैव लोपः स्यादिति भावः ॥

इति तद्धिते चातुरर्थिकप्रकरणम् ।

अथ शैषिकप्रकरणं निरूप्यते-शेषे ॥ अणादय इति ॥ 'प्राग्दीव्यतोऽण्' इत्यादि साधारणाः प्रत्यया इत्यर्थः । चतुर्भिरिति । अश्वादिभिरिति शेषः। चतुर्दश्यामिति ॥ कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृश्यन्ते इत्यागमः । लक्षणमिति ॥ प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदन्न सिद्ध्येदिति भावः । आधिकारश्चेति ॥ उत्तरसूत्रेष्वनुवृत्त्यर्थश्चेत्यर्थः । स्वरितत्वादिति भावः । अधिकारस्योत्तरावधिमाह । तस्य विकार इत्यतः प्रागिति ॥ नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणाम् अपत्यादिचतुरर्थ्यन्तादन्यत्वस्य सिद्धत्वात् शेषाधिकारो व्यर्थ इति वाच्यम् । 'तस्येदम्' इत्यादावपत्यादिचतुरर्थ्यन्तार्थानाङ्ग्रहणाभावाय तदावश्यकत्वात् । न च प्रदर्शितेषु ग्रहणाद्यर्थेषु 'तस्येदम्’ इत्येव अणादिसिद्धेः शेष इत्यस्य विधित्वन्नाश्रयणीयमिति वाच्यम् । “शैषिकान्मतुबर्थीयात्” इत्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदन्त्वेन भासमानमपत्याद्यपि न शेषः । “इदं विशेषा ह्येते अपल्यं समूहो विकारो निवासः” इति

प्रकरणम्]
७४१
बालमनोरमा ।

१३१३ । राष्ट्रावारपाराद्धखौ । ४-२-९३)

आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः, अवारपारीणः । “ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्’ (वा २७७१-२७७२) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते । तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ।

१३१४ । ग्रामाद्यखञौ । (४-२-९४)

ग्राम्य:-ग्रामीणः ।

१३१५ । कत्त्र्यादिभ्यो ढकञ् । (४-२-९५)

कुत्सितास्त्रयः कत्रय: । तत्र जातादिः कात्रेयकः । नागरेयकः ।'ग्रामात्' इत्यनुवृत्तेग्रामेयकः ।


भाष्यात् । प्रपञ्चितञ्चैतत् “तस्यापत्यम्' इत्यत्र “तस्येदमित्यपत्येऽपि' इत्यादिश्लोकवार्तिकव्याख्यावसरे । राष्ट्रावारपाराद्धखौ ॥ आभ्यामिति ॥ राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति । राष्ट्रे जातः भवः इत्यादिरर्थो यथायोगम्बोध्यः । घस्य इयः । अवारपारीण इति ॥ खस्य ईनादेशः, णत्वम् । अवारपाराद्विगृहीतादपीति ॥ अवारशब्दात्पारशब्दाच्च पृथग्भूतादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति ॥ पारावारशब्दादपीत्यर्थः । ननु राष्ट्रावारपारेत्यारभ्य 'विभाषा पूर्वालह्णापराह्णाभ्याम्' इत्यन्तैः सूत्रैः राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते । यत्किश्चिद्विभक्त्यन्तेभ्यः राष्ट्रादिप्रकृतिविशेषेभ्यः घादयः ट्युट्युलन्ताः प्रत्ययाः स्युः । 'समर्थानाम्प्रथमाद्वा' इत्यस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किञ्च 'तत्र जातः’ इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह । इह प्रकृतीत्यादिना राष्ट्रावारेत्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनां अर्थविशेषप्रकृतिविशेषविभक्तिविशेषाकांक्षायां ‘तत्र जातः’ इत्यादि सूत्राणान्तु केवलमर्थविशेषनिर्देशपराणां ‘समर्थानाम्’ इति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्कायां परस्परमेकवाक्यत्वे सति तत्र जातः इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्तयन्तेभ्यः राष्ट्रादिशब्देभ्यो घादयः ट्युट्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्राद्यन्याभ्यस्तु प्रकृतभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव । ग्रामाद्यखञौ ।। ग्राम्य इति । यप्रत्यये 'यस्येति च' इति लोपः । ग्रामीण इति ॥ खञ ईनादेशः, णत्वम् । कत्र्यदिभ्यो ढकञ् । कत्त्रय इति । “कुगतिप्रादयः' इति कुशब्दस्य समासः । ‘त्रौ च' इति कोः कदादेशः । कात्त्रेयक इति । ढकञ्, ढकारस्य एयादेशः “लोपो व्योः’ इति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दात्, ढकञपि

७४२
[शैषिक
सिद्धान्तकौमुदीसहिता

१३१६ । कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । (४-२-९६)

कौलेयकः श्वा---कौलोऽन्यः । कौक्षेयकोऽसि:-कौक्षोऽन्यः । ग्रैवेय कोऽलङ्कारः-ग्रैवोऽन्यः ।

१३१७ । नद्यादिभ्यो ढक् । (४-२-९७)

नादेयम् । माहेयम् । वाराणसेयम् ।

१३१८ । दक्षिणापश्चात्पुरसस्त्यक् । (४-२-९८)

'दक्षिणा' इत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ।

१३१९ । कापिश्या ष्फक् । (४-२-९९)

कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ।

१३२० । रङ्कोरमनुष्येऽण्च । (४-२-१००)

चात्ष्फक् । राङ्कवो गौः राङ्कवायणः । ‘अमनुष्ये' इति किम् । राङ्कवको मनुष्यः ।

१३२१ । द्युप्रागपागुदक्प्रतीचो यत् । (४-२-१०१)

दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ।


लभ्यते इत्यर्थः । कुलकुक्षि ॥ कुलाच्छुनि, कुक्षेः असौ, ग्रीवायाः अलङ्कारे, ढकञित्यर्थः । कौलेयकः श्वेति ॥ कुले जातादिरिति विग्रहः । कौक्षेयकोऽसिरिति ॥ कुक्षौ कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयक इति ॥ ग्रीवासु भव इति विग्रहः । नद्यादिभ्यो ढक् ॥ माहेयमिति ॥ मही भूमिः, तस्याञ्जातादीत्यर्थः । वाराणसेयमिति ॥ वाराणस्याञ्जातादीत्यर्थः । दक्षिणापश्चात् ॥ आजन्तमव्ययमिति ॥ अव्ययसाहचर्यादाजन्तमति भावः । दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । कापिश्या ष्फक् ॥ कापिश्याः ष्फक् इति छेदः । कापिशीशब्दात् ष्फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्वात् डीषु । रङ्कोरमनुष्येऽण् च । रङ्कोरण् स्यात् चात् ष्फक् । राङ्कवो गौरिति । रङ्कर्नाम देशविशेषः । तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वान्न ष्फगणौ । किन्तु 'मनुष्यतत्स्थयोः' इति वक्ष्यमाणो वुञ् । अकादेशः । राङ्कवो मनुष्यः इति त्वपपाठः । द्युप्रागपाक् ॥ दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च्, एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति ॥ दिवि जातादीत्यर्थः । प्राच्यमिति ॥ प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते 'अनिदिताम्

प्रकरणम्]
७४३
बालमनोरमा ।

१३२२ । कन्थायाष्ठक् । (४-२-१०२)

कान्थिकः ।

१३२३ । वर्णौ बुक् । (४-२-१०३)

वर्गुसमीपदेशो वर्णस्तद्विषयार्थवाचिकन्थाशब्दाद्रुक्स्यात् । 'यथा हि जातं हिमवत्सु कान्थकम्' ।

१३२४ । अव्ययात्त्यप् । (४-२-१०४)

अमेहतसित्रेभ्य एव' (वा २७७९) । “अमान्तिकसहार्थयोः' ।

अमात्यः । इहत्यः । व्कत्यः । ततस्त्यः । तत्रत्यः । “परिगणनम्’ किम् । उपरिष्टाद्भवः औपरिष्टः । 'अव्ययानां भमग्त्रे टिलोपः' (वा ४१८७) । अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः । शाश्वतीयः । 'त्यब्नेर्ध्रुव इति वक्तव्यम्' (वा २७८०) । नित्य । 'निसो गते ' (वा २७८१) ।

१३२५ । ह्रस्वात्तादौ तद्धिते । (८-३-१०१)


इति नलोपे “अचः’ इत्यकारलोपे “चौ' इति दीर्घ प्राच्यमिति रूपम् । अपाच्यमिति ॥ इदमपि पूर्ववत् । उदीच्यमिति ॥ अत्र 'उद ईत्' इति ईत्वं विशेषः । प्रतीच्यमिति ॥ प्राच्यवदूपम् । कन्थायाष्ठक् । तिर्यक्स्यू तबहुवस्रखण्डसमूहः कन्थ। । देशविशेष इत्यन्ये । वर्णो बुक् ॥ वर्णसमीपेति ॥ वर्णनम सिन्धुनदः, तस्यादूरभव इत्यर्थे सुवास्त्वादित्वादणो ‘जनपदे लुप्’ इति लुप् । तथाच वर्णसमीपदेशा वर्णः, तस्मिन् या कन्था तद्वाचकात् वुक्प्रत्यय इति यावत्। अव्ययात्यप् ॥ अमेहेति । अमा, इह, क, त्र, तसि, एभ्यश्च वा अव्ययेभ्यः त्यप्प्रत्यय इति परगणवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति ॥ उपरिष्टादित्यव्ययस्य परिगणितेष्वनन्तर्भावात् न त्यप् । अणि औपरिष्ट इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह । अव्ययानामिति । वार्तिकमिदम् । भमात्रे इति ॥ कात्स्न्यें मात्रशब्दः । कृत्स्रस्य भस्याव्ययस्य टेर्लोपः । ‘नस्नद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययात् छस्य ईयादेशे टिलोपे आरीय इति स्यादित्यत आह । अनि त्योऽयमिति । त्यब्नोरिति । नि इत्यव्ययात् त्यप् स्याद्रुवे गम्ये इत्यर्थः । “नियतम्भव न्नित्यम्’ इति भाष्यम् । निसो गते इति । निस् इत्यव्ययात् त्यप् वक्तव्यो गते गम्ये इत्यर्थः । निस् त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाभावाच्च षत्वे अप्राप्ते । हृस्वात्तादौ ॥ ‘इण्कोरित्यतः इण्ग्रहणमनुवर्तते । ‘सहेः साडः सः’ इत्यतः सः इति षष्ठयन्तमनु वर्तते । ‘अपदान्तस्य मूर्धन्यः' इत्यतः मूर्धन्यः इति च । तदाह । हस्वादिण इति । निष्टट्य

७४४
[शैषिक
सिद्धान्तकौमुदीसहिता

हृस्वादिणः परस्य सस्य ष: स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चण्डालादिः । “अरण्याण्णः’ (वा २७८२) । आरण्याः सुमनसः । दूरादेत्यः' (बा २७८३) । दूरेत्यः । “उत्तरादाहञ्' (वा २७४४) ।

१३२६ । ऐषमोह्यःश्वसोऽन्यतरस्याम् । (४-२-१०५)

एः यस्त्यब्वा । पक्षे वक्ष्यमाणौ टयुटयुलौ । ऐषमस्त्यम्-ऐषमस्तनम् । ह्यस्त्य-ह्यस्तनम् । श्वस्त्यम्-श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ।

१३२७ । तीररूपोत्तरपदादञ्ञ्यौ । (४-२-१०६)

यथासङ्खयेन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । 'तीर रूपान्तात्' इति नोक्तम् । बहुच्पूर्वान्मा भूत् । बहुरूपम् ।

१३२८ । दिक्पूर्वपदाद्संज्ञायां ञः । (४-२-१०७)


इति । त्यपि सस्य षत्वे तकारस्य ष्टत्वेन टः । अरण्याण इति । वक्तव्य इति शेषः । आरण्याः सुमनस इति । “स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अरण्ये भवा इत्यर्थे णप्रत्यये टापि आरण्या इतिरूपम् । अणि तु डीप् स्यादिति भावः । दूरादेत्य इति ॥ वक्तव्य इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वार्थः । दूरादित्यव्ययात् एत्यप्रत्यये अव्ययानाम्भमात्रे इति टिलोप । उत्तरादाहञिति । वाच्य इति शेषः । ओौत्तराह इति ॥ उत्तरस्मादागतः उत्तरस्मिन् भव इति बार्थः । औत्तर इति त्वसाधु । ऐषमोह्यः । एभ्य इति ।॥ ऐषमस्, ह्यस्, श्वस्, एतेभ्य इत्यर्थः । वक्ष्यमाणाविति । 'सायञ्चिरम्प्रगे प्राह्णेऽव्ययेभ्यष्टयुट्युलौ तुट्च' इत्यनेनेति शेषः । ऐषमस्त्यमिति ॥ ऐषमस् इत्यव्ययः। वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः । ‘परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति' इत्यमरः । ऐषमस्तन मिति ॥ टयुट्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थ टित्वादाद्यवयवः । ह्यस्त्यं-ह्यस्तनमिति ॥ ह्यस् इत्यव्ययं गतेऽह्णि । तत्र भवमित्यर्थः । श्वस्त्यम्-श्वस्तनमिति । श्वस् इत्यव्ययमनागतेऽहि । तत्र भवमित्यर्थः । “ह्यो गते नागतेऽहि श्वः' इत्यमरः । पक्षे इति। ‘श्वसस्तुट् च' इति ठञि तस्य इकादेशे तुडागमे द्वारादी नाञ्च' इत्यैजागमे शौवस्तिकमित्यपि वक्ष्यमाणं रूपमित्यर्थः । तीररूप ॥ तीरोत्तरपदात् रूपोत्तरपदाच क्रमादञ्ञ्यश्चेत्यर्थः । काकतीरमिति । काकतीरे भवमित्यर्थः । पाल्वलती रमिति । पल्वलतीरे भवामित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः । रूप्यो त्तरपदेति काचित्पाठः । तथा सति ञ्यप्रत्यये 'यस्येति च' इत्यकारलोपे द्वियकारं रूपम् । बहुरूपमिति । 'विभाषा सुपो बहुच् पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तर पदकत्वाभावान्न ञ्य इति भावः । दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूतात्

प्रकरणम्]
७४५
बालमनोरमा ।

अणोऽपवादः । पौर्वशालः । “ असंज्ञायाम् ' किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । 'प्राचां ग्रामनगराणाम्। (सू १४००) इत्युत्तरपदवृद्धिः ।

१३२९ । मद्रेभ्योऽञ् । (४-२-१०८)

दिक्पूर्वपदात्' इत्येव । 'दिशोऽमद्राणाम्’ (सू १३९९) इति मद्र पर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ।

१३३० । उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् । (४-२-१०९)

अञ् स्यात् । शैवपुरम् ।

१३३१ । प्रस्थोत्तरपद्पलद्यादिकोपधाद्ण् । (४-२-११०)

माहिकिप्रस्थः । पालदः । नैलीनकः ।

१३३२ । कण्वादिभ्यो गोत्रे । (४-२-१११)

एभ्यो गोत्रप्रत्ययान्तेभ्योऽण्स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वा: ।

१३३३ । इञश्च । (४-२-११२)

गोत्रे य इञ् तदन्तादण्स्यात् । दाक्षा: । “गोत्रे' किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं, न तु लौकिकम् । तेनेह न' पाणिनीयम् ।


दिक्पूर्वपदकात् ञ स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायाम्भव इत्यर्थे 'तद्धि तार्थ' इति समासात् । मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वीत् मद्रशब्दादञित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति ॥ पूर्वेषु मद्रेषु भव इत्यर्थः । उदीच्यग्रामाञ्च । शैवपुर मिति । उत्तरदेशे शिवपुरन्नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवः पुरशब्दः । बह्वचः किम् । ध्वजी नाम उत्तरदेश ग्रामविशेषः । तत्र भवः ध्वाजः । अन्तोदात्ता त्किम् । शार्कराधानम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानात् मध्योदात्तोऽयम् । प्रस्थोत्तरपद । प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच आणित्यर्थः । पलदिः आदिर्येषा मिति विग्रहः । उदीच्यग्रामलक्षणस्य अञोऽपवादः । माहिकिप्रस्थ इति ॥ महिकिप्रस्थनान्नि ग्रामे भव इत्यर्थः । पालद इति । पलदीनान्मि ग्रामे भव इत्यर्थः । नैलीनक इति ॥ निलीनकनान्मि ग्रामे भव इत्यर्थः । कण्वादिभ्यो गोत्रे । काण्व्यस्येति । कण्वस्य गोत्रा पत्यङ्काण्व्यः । गर्गादियञ् । काण्व्यस्य छात्रा इत्यर्थे अनेन छापवादः अण् । 'यस्येति च' इत्य कारलोपः । “ आपल्यस्य च' इति यकारलापः । काण्वा इति रूपम् । इञश्च । दाक्षा इति ॥ दक्षस्य गोत्रापत्यं दाक्षिः । अत इञ् । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुत ङ्गमस्य निवासः सौतङ्गमिः । “सुतङ्गमादिभ्य इञ्' सौतङ्गमेरिदमित्यर्थे वृद्धात् छः, न त्वण् , इञो गोत्रार्थकत्वाभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि ७४५ 94

७४६
[शैषिक
सिद्धान्तकौमुदीसहिता

१३३४ । न व्द्यचः प्राच्यभरतेषु । (४-२-११३)

इञश्च' (सू १३३३) इत्यणोऽपवादः । प्रौष्ठीया: । काशीया । भरतानां प्राच्यत्वेऽपि पृथगुपादानम् अन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य

१३३५ ।। वृद्धिर्यस्याचामादिस्तदृद्धम् । (१-१-७३)

यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तवृद्धसंज्ञ स्यात् ।

१३३६ । त्यदादीनि च । (१-१-७४)

वृद्धसंज्ञानि स्युः ।

१३३७ । वृद्धाच्छः । (४-२-११४)

३शालाय । मालीयः । तदीयः ।

१३३८ । एड् प्राचां देशे । (१-१-७५)

एड् यस्याचामादिस्तदृद्धसंज्ञ वा स्याद्देशाभिधाने । एणोपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षेऽणि । ऐणीपचनः । गौनर्द: । भौजकटः । एङ्’ किम् । आहिच्छत्त्रः । कान्यकुब्जः । “वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' (वा ५७६) । दैवदत्तः-देवदत्तीयः ।


लौकिकमेव गोत्रमिति सिद्धान्तः। तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रङ्गुह्यते । 'यूनि लुक् इति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति ॥ पणिनो गोत्रापल्य पाणिनः । तस्यापत्यं युवा पाणिनिः । तस्यदम्पाणिनीयम् । वृद्धात् छः । पूर्वसूत्रद्वयेन अण् तु न । पाणि निशब्दस्य युवप्रत्ययान्ततया उक्तत्वादिति भावः । न द्व्यचः । प्राच्येषु परेषु भरतेषु च गोत्रेषु विद्यमानादिञन्तात् व्द्यचः अण् न भवतीत्यर्थः । इञश्चेत्यणोऽपवाद इति । प्रतिषेध इत्यर्थ | प्रौष्ठीया इति । प्रोष्ठस्य गोत्रापत्यम्प्रौष्टिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यङ्काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धात् छः । लिङ्गमिति । तेन ओद्दालकिः पिता, औद्दालकायनः पुत्रः इत्यत्र ‘इञः प्राचाम्'इति भरतेभ्यो लुङ् न भवति । वृद्धिर्यस्य ॥ अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिद्यति। व्यपदेशिवत्वेन ज्ञाशब्दस्यापि वृद्धत्वम्। त्यदादीनि च ॥ शेषपूरणेन सूत्रं व्याचष्टे । वृद्धसंज्ञानि स्युरिति । आदेरवो वृद्धिसंज्ञकत्वाभावादारम्भः । वृद्धाच्छः ।। वृद्धसंज्ञकात् छः स्यात् जातादिष्वर्थेषु। अणेोऽपवादः । शालीय इति । शालायाञ्जात इत्यादी त्यर्थः। एवन्तदीयाः । एड् प्राचां देशे ॥ देशविशेषनान्नश्चदेडादिरेव वृद्धसंज्ञक इति नियमार्थ मिदम् । वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वम् । न त्वाधुनिकसङ्केतित्वमेव । तेन

प्रकरणम्]
७४७
बालमनोरमा ।

१३३९ । भवतष्ठक्छसौ । (४-२-११५)

वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । “वृद्धात् इत्यनुवृत्तेः शत्रन्तादणेव | भावतः |

१३४० । काश्यादिभ्यष्ठञ्ञिठौ । (४-२-११६)

इकार उच्चारणार्थ:। काशिकी-काशिका। वैदिकी-वैदिका। “आपदादि पूर्वपदात् कालान्तात्' (ग सू ७४) । आपदादिराकृतिगणः । आपत्कालिकी आपत्कालिका

१३४१ । बाहीकग्रामेभ्यश्च । (४-२-११७)

बाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम बाहीकग्रामः । कास्तीरिकी-कास्तीरिका ।

१३४२ । विभाषोशीनरेषु । (४-२-११८)

एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्टञ्ञिठौ वा स्तः । सौदर्शनिकी-सौ - दर्शनिका-सौदर्शनीया ।


घटीयमित्यादि सिद्धम् । भवतष्ठवक्छसौ । भावत्क इति । 'इसुक्तान्तात्कः' । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथञ्जश्त्वमित्यत आह । जश्त्वमिति ॥ सिति च' इति पदत्वेन भत्वस्य बाधादिति भावः । ननु भावत्त इति कथमण्प्रत्ययः । * त्यदा दीनि च' इति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह । वृद्धादित्यनुवृत्ते श्शत्रन्तादणेवेति ॥ त्यदादिषु “भातेर्डवतुः' इति डवत्वन्तस्यैव पाठादिति भावः । काश्यादिभ्यष्ठञ्ञिठौ ॥ ठञ् ञिठ इति प्रत्ययौ स्तः । ञिठप्रत्यय ञि इति समुदायस्य ' आदिर्ञिटुडवः' इति इत्संज्ञायाम्प्रयोगाभावात् ञकार एव इत् तस्य ञित्स्वरः प्रयोजनम् । ठञ एव विधौ तु डीप् स्यात्, टाप् न स्यात् । नन्वेवं सांत इठप्रत्यये ठस्य इकादेशेो न स्यात् । अङ्गात्परत्वाभावादित्यत आह । इकार उच्चारणार्थ इति । काशिकीति । काश्याञ्जाता दिरित्यर्थः । ठन्नन्तात् ङीप् । काशिकेति । ञिठप्रत्यये इकादेशे टाप् । वैदिकी-वैदिकेति ॥ चेदिर्देशविशेषः । आपदादिपूर्वपदात्कालान्तादिति । गणसूत्रम् । ठञ्ञिठा वित्येव । आपदादिरिति । आपत् आदिर्यस्येति विग्रहः । आपत्कालिकी-आप त्कालिकेति । ठञि डीप्, ञिठे टाप् । वाहीकग्रामेभ्यश्च ॥ बाहीकाख्याः केचिद्रामाः तद्विशेषवाचिभ्य इत्यर्थः । तदाह । बाहीकग्रामवाचिभ्य इति । विभाषोशीनरेषु ॥ पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते । एकदेशे रवरितत्वप्रतिज्ञानात् । तदाह । एषु ये ग्रामा इति । उशीनरेषु ये प्रामास्तद्विशेषवाचिभ्यः इत्यर्थः । सौदर्शनो नाम

७४८
[शैषिक
सिद्धान्तकौमुदीसहिता

१३४३ । ओर्देशे ठञ् । (४-२-११९)

उवर्णान्ताद्देशवाचिनष्ठञ् । निषाद्कर्षूः । नैषादकर्षुकः । “केऽणः" (सू ८३४) इति ह्रस्वः । “देशे' किम् । पटोश्छात्राः । पाटवाः । ञिठं व्यावर्तयितुं ठञ्ग्रहणम् । वृद्धाच्छं परत्वाद्यं बाधते । दाक्षिकर्षकः ।

१३४४ । वृद्धात्प्राचाम् । (४-२-१२०)

प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः। शाक जम्बुकः । नेह । मल्लवास्तु माल्लवास्तवः ।

१३४५ । धन्वयोपधाद्वुञ् । (४-२-१२१)

धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व, ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ 'वुञ्छण्–’ (सू १२९२) आदि सूत्रेण ण्यान्तौ । साङ्काश्यकः । काम्पिल्यकः ।

१३४६ । प्रस्थपुरवहान्ताच्च । (४-२-१२२)

एतदन्ताद्वृद्धाद्देशवाचिनो वुञ्स्यात् । छस्यापवाद् । मालाप्रस्थकः । नान्दीपुरंकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राग्देशेतूत्तरेण सिद्धम् ।

१३४७ । रोपधेतोः प्राचाम् । (४-२-१२३)


उशीनरदेशे कश्चिद्रामः । सौदर्शनीया इति । ठञ्ञिठयोरभावे वृद्धाच्छः । ओर्देशे ठञ् ॥ निषादकर्षूरिति । कश्चिद्ग्राम इति शेषः । नैषादकर्षक इति । उगन्तात्परत्वात् कादेशः । वृद्धात्प्राचाम् ।। “ओर्देशे ठञ्’ इत्यनुवर्तते । प्राचामिति देशविशेषणम् । नतु विकल्पार्थं व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह । प्राग्देशेत्यादिना ।। आढकजम्बुक इति । आढकजम्बुर्नाम कश्चिद्ग्राम । तत्र भव इत्यर्थः । उगन्तात्परत्वात् ठस्य कः । ‘केऽणः' इति ह्रस्वः । एवं शाकजम्बुकः । मलुवास्त्विति । कश्चित् प्राच्यो ग्राम इति शेषः । धन्वयोपधाद्वुञ् ।। ऐरावतं धन्वेति । । ऐरावताख्यन्धन्वेत्यर्थः । धन्व मरुप्रदेशः । “समानौ मरुधन्वानौ' इत्यमरः । आष्टकन्नाम धन्व इति भाष्यान्नपुंसकत्वमपि । ऐरावतक इति ।। ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः । काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इयर्थः । प्रस्थपुरवहान्ताञ्च । एत दन्तादिति ॥ प्रस्थ, पुर, वह, एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थम् । नान्दीपुरक इत्यत्र 'रोपधेतोः प्राचाम्' इत्युत्तरसूत्रेण सिद्धत्वादित्यत आह । पुरान्तेति । रोपधेतोः प्राचाम् ॥ रोपधश्च, ईच, तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे। प्राचामिति देशविशेषणम् । तदाह । प्रकरणम] बालमनोरमा । ७४९ रोपधादीकारान्ताच्च प्राग्देशवचिनश्च वृद्धाद्वुञ्स्यात् । पाटलिपुत्रकः । ईत: काकन्दकः । १३४८ । जनपदतवध्योश्च । (४-२-१२४) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्व्ञ्स्यात् । आदर्शकः । त्रैगर्तकः। १३४९ । अवृद्धादपि बहुवचनविषयात् । (४-२-१२५) अवृद्धाद्वृद्धाच्च जनपदतवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ्- स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः। अवृद्धाजनपदात् , आङ्गकः । अवृ- द्धाज्जनपदावधेः, आजमीढकः । वृद्धाजनपदात् , दार्वकः । वृद्धाज्जनपदावधे:, कालञ्जरकः । ‘विषयग्रहणं' किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः । तासु भवो वार्तनः । १३५० । कच्छाग्निवक्त्रवर्तोत्तरपदात् । (४-२-१२६) देशवाचिनो वृद्धादवृद्धाच्च वुञ्स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः । १३५१ । धूमादिभ्यश्च । (४-२-१२७) देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः । १३५२ । नगरात्कुत्सनप्रावीण्ययोः। (४-२-१२८) रोपधादित्यादिना ॥ ईत इति ॥ उदाहियते इति शेष । काकन्दक इति ॥ काकन्दी- नाम देश , तत्र भव इत्यर्थः । जनपदतदवद्ध्योश्च ॥ आदर्शक इति ॥ आदर्शो नाम जनपदः। तत्र भव इत्यर्थः। त्रिगर्तो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तपदाच्छ बाधितुमिह तदवधिग्रहणम् । तदाह । त्रैगर्तक इति ॥ अवृद्धादपि बहुवचनविषयात् ॥ अवृद्धाजनपदादिति ॥ उदाह्रियते इति शेषः । आजमीढक इति ।। अजमीढेषु भव इत्यर्थः। अजमीढ़ाख्यः जनपदः कस्य- चिज्जनपदस्य वधिः । वृद्धाजनपदादिति ॥ उदाहियत इति शेषः । दार्वक इति ॥ बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः। कालञ्जरक इति ॥ कलञ्जरेषु भव इत्यर्थः । कच्छाग्नि । कच्छ, अग्नि, वक्र, वर्त, एतदुत्तरपदादित्यर्थः । शेषपूरणेन सूत्रं व्याचष्टे। देशवाचिन इति ॥ छाणारपवादः। दारुकच्छक इति ॥ दारुकच्छे भव इत्यर्थः । काण्डाग्निक इति ॥ काण्डाग्नौ भव इत्यर्थः। अकादेशे 'यस्येति च' इति इकार- लोपः । सैन्धुवक्र इति ॥ सिन्धुवक्रे भव इत्यर्थः । बाहुवर्तक इति ॥ बहुवर्ते भव इत्यर्थः । धूमादिभ्यश्च ॥ देशवाचिनो वुञिति शेषपूरणम् । नगरात्कुत्सन ॥ नागरा:

७५०
[शैषिक
सिद्धान्तकौमुदीसहिता

नगरशब्दादुञ्स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । “कुत्सने -' इति किम् । नागराः ब्राह्मणाः ।

१३५३ । अरण्यान्मनुष्ये । (४-२-१२९)

वुञ् । अरण्याण्ण:' (वा २७८२) इत्यस्यापवादः । * पथ्यध्यायन्या यविहारमनुष्यहास्तिष्विति वाच्यम्' (वा २८१९) । आरण्यकः पन्था: अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । “वा गोमयेषु' (वा २८२०) । आरण्यकाः -आरण्याः वा गोमया

१३५४ । विभाषा कुरुयुगन्धराभ्याम् । (४-२-१३०)

वुञ् । कौरवक:-कौरवः । यौगन्धरकः-यौगन्धरः ।

१३५५ । मद्रवृज्योः कन् । (४-२-१३१)

जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ।

१३५६ । कोपधाद्ण । (४-२-१३२)

माहिषिकः |

१३५७ । कच्छादिभ्यश्च । (४-२-१३३)

देशवाचिभ्योऽण् । बुञादेरपवादः । काच्छः । सैन्धवः ।

१३५८ । मनुष्यतत्स्थयोर्वुञ् । (४-२-१३४)

कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् । “मनुष्य-' इति किम् । काच्छो गौः ।


ब्राह्मणा इति ॥ कत्र्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् । अतो न ढकञ् । 'प्राचां ग्रामनगराणाम्' इति सूत्रभाष्ये नागर इत्युदाहरणात् । अरण्यान्मनुष्ये ॥ आरण्यक इति ॥ पन्थाः अध्द्यायः विहारः मनुष्यः हस्ती वा । वा गोमयेष्विति ॥ वार्तिकमिदम् । विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धावपि ताभ्याम् “अवृद्धा दपि' इति नित्यम्प्राप्ते विकल्पः । मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः । जनपद वुञोऽपवादः । कोपधादण् ॥ माहिषिक इति । महिषको नाम जनपदः, तत्र भव इत्यर्थः । 'प्रस्थोत्तरपद' इत्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् । कच्छादिभ्यश्च ॥ काच्छा इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति ॥ ओर्देशे । ठञोऽपवाद मनुष्यतत्स्थयोर्वुञ् ॥ कच्छादिभ्यः इत्यनुवर्तते । तदाह । कच्छादीति ॥ अपदातौ

प्रकरणम्]
७५१
बालमनोरमा ।

१३५९ । अपदातौ साल्वात् । (४-२-१३५)

साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । “ अपदातौ' किम् । साल्वः पदातिर्व्रजति ।

१३६० । गोयवाग्वोश्च । (४-२-१३६)

साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वको गौः-साल्विका यवागूः साल्वमन्यत् ।

१३६१ । गर्तोत्तरपदाच्छः । (४-२-१३७)

देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपद्ग्रहणं बहुच्पूर्वनिरासार्थम् ।

१३६२ । गाहादिभ्यश्च । (४-२-१३८)

छः स्यात् । गहीयः । “मुखपार्श्वतसोलोपश्च' (ग सू ७८) । मुखती यम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् । “कुग्जनस्य परस्य च' (ग सू ८९) । जनकीयम् । परकीयम् । “देवस्य च (ग सू ९०) । देवकीयम् । स्वस्य च स्वकीयम् । “ वेणुकादिभ्यश्छण्वाच्यः (ग सू ९१) । वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् ।

१३६३ । प्राचां कटादेः । (४-२-१३९)

प्राग्देशवाचिनः कटादेश्छ: स्यात् । अणोऽपवादः कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ।


साल्वात् । नियमार्थमिति । साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः । गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थ । गर्तोत्तरपदाच्छः । देशे इति ॥ शेषपूरणम् । देशवाचिन इति यावत् । वृकगर्तीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छः, इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाभावात् ‘गतोत्तरपदात्’ इति सिद्धे उत्तरपद ग्रहणं व्यर्थमित्यत आह । उत्तरपदग्रहणमिति । गाहादिभ्यश्च ॥ गहीय इति ॥ गहो देशविशेषः । मुखपार्श्र्वेति । गहादिगणसूत्रम् । मुखपार्श्वेति लुप्तषष्ठीकम्पदम् । तसन्तयो रेतयोरन्त्यस्य चाच्छः । असम्भवादत्र जनपदस्येति न सम्बध्द्यते । कुग्जनस्येति ॥ गणसूत्रमिदम् । जनशब्दस्य परशब्दस्य च कुगागमः स्यात् । चाच्छः । अत्रापि देश इति न सम्बद्यते । देवस्यच ॥ इदमपि गणसूत्रम्। चात्कुक् छश्च ‘देवाद्यञ्जौ' इत्यस्यापवादः । दैवा नुग्रह इति भाष्यप्रयोगादैवामित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः कुक्च । स्वशब्दो ऽपि गहादिः, आगमशास्त्रस्यानित्यत्वात् स्वीयम् । प्राचाङ्कटादेः । कटनगरीयमिति ।


  • स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छः-इति मनोरमातत्वबोधिन्यौ ।
७५२
[शैषिक
सिद्धान्तकौमुदीसहिता

१३६४ । राज्ञः क च । (४-२-१४०)

वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ।

१३६५ । वृद्धाद्केकान्तखोपधात । (४-२-१४१)

'अक' इक' एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनः छः स्यात् । ब्राह्म णको नाम जनपदः यत्र ब्राह्मणा आयुधजावन्नस्तत्र जाता ब्राह्मणकीयः । शाल्मलिकीयः । अयोमुखीयः ।

१३६६ । कन्थापलदनगरग्रामहोत्तरपदात् । (४-२-१४२)

कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ्ञिठादे रपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षि प्रामीयम् । दाक्षिहृदीयम् ।

१३६७ । पर्वताच । (४-२-१४३)

पर्वतीयः ।

१३६८ । विभाषा मनुष्ये । (४-२-१४४)

मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि-पार्वतानि वा फलानि । “अमनुष्ये' किम् । पर्वतीयो मनुष्यः ।

१३६९ । कृकणपर्णाद्भारद्वाजे । (४-२-१४५)

भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पणीयम् । “भारद्वाजे किम् । कार्कणम् । पार्णम् ।

इति चतुर्थस्य द्वितीयः पादः ।


कटनगरो नाम प्राच्यो देशः । राज्ञः क च ।। राजन्शब्दात् छः स्यातू, ककारश्चा न्तादेशः । वृद्धादकेकान्तखोपधात् । ब्राह्मणकीय इति ॥ कोपधाणोऽपवादः छः । शाल्मलिकीय इति ॥ शाल्मलकिर्नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । केोपधाणपवादः । अयोमुखीय इति । “बाहीकग्रामेभ्यश्च' इति ठञ्ञिठोरपवादः छण् । कन्थापलद ॥ ठञ्ञिठादेरपवाद इति । नगरान्ते 'रोपधेतोः' इति वुञोऽपवादः । इतरत्र ‘बाहीकग्रामेभ्यश्च' इति ठञ्ञिठोरपवाद् इति विवेकः । पर्वताञ्च ॥ इत्यादि स्पष्टम् ॥

इति चतुर्थस्य द्वितीयः पादः ।

प्रकरणम्]

बालमनोरमा । ७५३ अथ चतुर्थस्य तृतीयः पादः। १३७० । युष्मदस्मदोरन्यतरस्यां खञ्च । (४-३-१) चाच्छः । पक्षेऽण् । युवयोः युष्माकं वा अयं युष्मदीयः । अस्मदीयः । १३७१ । तस्मिन्नणि च युष्माकास्माकौ । (४-३-२) युष्मदस्मदोरेतावादेशौ स्तः खयणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ।। १३७२ । तवकममकावेकवचने । (४-३-३) एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीन:- तावकः । मामकीन:-मामकः । छे तु । १३७३ । प्रत्ययोत्तरपदयोश्च । (७-२-९८) मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु, त्वत्पुत्रः । मत्पुत्रः । ___ अथ चतुर्थस्य तृतीयः पादः प्रारभ्यते ॥ युष्मदस्मदोरन्यतरस्याङ्खञ् च ॥ युष्म- दस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी। युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ् स्यादित्यर्थः। चाच्छः। गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयते इत्यर्थः । पक्षेऽणिति ॥ अन्यतरस्याङ्ग्रहणादिति भावः । अत्र युष्म- दस्मदोः, इति योगो विभज्यते। आभ्याञ्छो भवतीत्यर्थः । खञ्च, इति योगान्तरम् । आभ्यां खञ् च भवतीत्यर्थः । अन्यतरस्यामिति योगान्तरम् । आभ्याञ्छखञौ वा स्तः पक्षेऽणिति। अतो न यथासङ्ख्यमिति भाष्ये स्पष्टम् । युष्मदीय इति ॥ द्विवचनान्ताद्बहुवचनान्ताच्च इया- देशः । सुब्लुकि युवादेशस्य निवृत्तिः। तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेर्लुप्त- त्वेऽपि त्वादेशो वक्ष्यते । अस्मदीय इति ॥ आवयोरस्माकं वा अयमित्यर्थः। अथ खञि अणि च विशेषमाह । तस्मिन्नणि च ॥ पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह । खञि अणि चेति ॥ अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यम् , न तु परनिमित्तयोः। तस्मिन्नणि, इति व्यस्तनिर्देशात् । यौष्माकीण इति ॥ युवयोर्युष्माकं वा अयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः, आदिवृद्धिः, णत्वं, सुब्लुकि युवादेशनिवृत्तिः। आस्माकीन इति ॥ आवयोरस्माकं वा अयमिति विग्रहः । आणि उदाहरति । यौष्माकः, आस्माकः इति ॥ तवकममकौ ॥ एकवचने इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम्-उक्तिः एकवचनम् । एकस्योक्तौ व्याप्रियमाणयोरिति लभ्यते । तदाह । एकार्थवाचिनोरिति ॥ छे त्विति ॥ एकार्थवृत्तयोर्विशेषो वक्ष्यते इति शेषः । प्रत्ययोत्तरपदयोश्च ॥ साप्तमिक- मिदम् । त्वमावेकवचने इत्यनुवर्तते । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतम् । तदाह । मपर्यन्तयोरित्यादि ॥ त्वदीयः। मदीयः इति ॥ P95

७५४
[शैषिक
सिद्धान्तकौमुदीसहिता

१३७४ । अर्धाद्यत् । (४-३-४)

अर्ध्यः ।

१३७५ । परावराधमोत्तमपूर्वाच्च । (४-३-५)

परार्ध्यम् । अवरार्ध्यम् । अधमार्ध्यम् । उत्तमार्ध्यम् ।

१३७६ । दिक्पूर्वपदाट्ठञ्च । (-३-६)

चाद्यत् । पौर्वार्धिकम्-पूर्वार्ध्यम् ।

१३७७ । ग्रामजनपदैकदेशाद्ञ्ठञौ । (४-३-७)

ग्रामैकदेशवाचिनो जनपदैकदेशवचिनश्च दिक्पूर्वपदाद्धान्तादञ्ठञौ स्तः । इमे अस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धा:-पौर्वाधिकाः । ग्रामस्य पूर्वस्मिन्नर्धे भवाः इति तद्धितार्थे समासः । ठञ्ग्रहणं स्पष्टार्थम् । अञ्चेत्यु त्तेर्यतोऽप्यनुकर्षः सम्भाव्येत ।

१३७८ । मध्यान्मः । (४-३-८)

मध्यम ।

१३७९ । अ सांप्रतिके । (४-३-९)

मध्यशब्दाद्कारप्रत्ययः स्यात्साम्प्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ।


छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयेोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाभावान्न शेषे लोपः । उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्रः इत्युदाहरणम् । अर्धाद्यत् ॥ अर्ध्य इति ॥ अर्धे जातादिरित्यर्थः । 'सपूर्वपदाट्ठञ् वाच्यः' इति वार्तिकं भाष्ये स्थितम् । बालेयार्धिकः । परावर ॥ अर्धाद्यदिति शेषः । अवरशब्दो दन्तोष्ठयवकारमध्यः । दिक्पूर्वपदाट्ठञ् च || अर्धादित्येव । परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव विशिष्य विहितत्वात् । ग्रामजनपद ॥ ननु अण्ज्जी चेवत्येतावतैव चकारात् ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह । ठञ्ग्रहण मिति । ननु अनि चेत्युक्तेऽपि वकाराट्ठोऽनुकर्षः स्पष्ट एवेत्यत आह । अञ् चेत्युक्ते रित्यादि ॥ मध्यान्मः ॥ स्पष्टम् । अ साम्प्रतिके ॥ अ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह । मध्यशब्दादित्यादि । सम्प्रतीत्यव्ययम् । उत्कर्षापकर्ष हीनत्वात्मकसाम्ये वर्तते । तैत्तिरीये “अनाप्तश्चत्तूरात्रोऽतिरिक्तः षड्रात्रोऽथबा एष सम्प्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । पञ्चरात्रः न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः । सम्प्रतिशब्दात् स्वार्थे विनयादित्वाट्ठञि साम्प्रतिकम् । प्रज्ञादित्वात् स्वार्थे अणि तु साम्प्रत मित्यपि भवति। ‘एतर्हि सम्प्रतीति’ इति कोशादिदानीमित्यर्थेऽपि । प्रकृते तु साम्यं विवक्षितम् ।

प्रकरणम्]
७५५
बालमनोरमा ।

१३८० । द्वीपादनुसमुद्रं यञ् । (४-३-१०)

समुद्रस्य या समीपे द्वीपस्तद्विषयाद्वीपशब्दाद्यञ्स्यात् । द्वैप्यम्-द्वैप्या ।

१३८१ । कालाट्ठञ् । (४-३-११)

कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायम्प्रातिकः । पौनःपुनिक । कथं तर्हि 'शार्वेरस्य तमसो निषिद्धये' इति कालिदास । अनुदितौषसरागा' इति भारविः । समानकालीनं, प्राकालीनमित्यादि च । अपभ्रंशा एवैते' इति प्रामाणिकाः । “तत्र जात:' (सू १३९३) इति यावत्कालाधिकारः |

१३८२ । श्राद्धे शरदः । (४-३-१२)

ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ।

१३८३ । विभाषा रोगातपयोः । (४-३-१३)

शारदिकः-शारदो वा रोगः आतपो वा। ‘एतयो: किम् । शारदं दधि ।

१३८४ । निशाप्रदोषाभ्यां च । (४-३-१४)

वा ठञ्स्यात् । नैशिकम्-नैशम् । प्रादोषिकम्-प्रादोषम् ।


द्वीपादनु ॥ अनुसमुद्रमिति सामीप्ये अव्ययीभावः । अनुसमुद्रामिति सप्तम्यन्तम्, विद्यमानादि त्यध्याहार्यम् । तदाह । समुद्रस्य समीपे इति । द्वैप्येति ॥ 'यञश्च' इति डीप् तु न । अनपत्याधिकारस्थात् नेति तन्निषेधात् । कालाट्ठञ् ॥ “कालशब्दस्यैव न ग्रहणम् । किन्तु कालशब्दस्य कालविशेषवाचकानाञ्च ग्रहणम्” इति “तदस्य परिमाणम्, सङ्कयायाः' इति सूत्र भाष्ये स्पष्टम् । तदाह । कालवाचिभ्य इति ॥ सायम्प्रातिकः, पौनःपुनिक इति । ‘अव्ययानाम्भमात्रे' इति टिलोपः । ‘सायञ्चिरम्’ इति टयुट्युलौ तु न भवतः । 'नस्तद्धिते' इति सूत्रभाष्ये तथाप्रयोगदर्शनात् । शार्वरस्येति ॥ शार्वरिकस्येति भाव्यमिति भावः । अनु दितौषसेति ॥ औषसिकेति भाव्यमिति भावः । समानेति ॥ समानकालिकं प्राक्कालिकमिति भाव्यमित्यर्थः । प्रामाणिकाः इति ॥ केचित्तु अमुकः पुरतः परेद्युरित्यादिवत् एतेऽपि शब्दाः अव्युत्पन्नाः, पृषोदरादयो वा साधवः इत्याहुः । इति यावादित ॥ व्याख्यानादिति भावः । श्राद्धे शरदः ॥ ठञ् स्यादिति । शेषपूरणमिदम् । ननु ‘कालाट्ठञ्’ इत्येव सिद्धे किमर्थ मिदमित्यत आह । ऋत्वण इति || सन्धिवेलादृयुतुनक्षत्रेभ्योऽण्’ इति वक्ष्यमाणस्येत्यर्थः | शारदिकमिति ॥ शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् । विभाषा रोगातपयोः ॥ ठञिति शरद इति चानुवर्तते । शारदै दधीति ॥ ऋत्वणिति भावः । निशाप्रदोषाभ्याञ्च ॥ वा ठञ् स्यादिति । शेषपूरणम्। ‘कालाट्ठञ्’ इति नित्यं

७५६
[शैषिक
सिद्धान्तकौमुदीसहिता

१३८५ । श्वसस्तुट् च । (४-३-१५)

श्वस्शब्दाठञ्वा स्यात् । तस्य तुडागमश्च ।

१३८६ । द्वारादीनां च । (७-३-४)

द्वार, स्वर, स्वाध्याय, व्यल्कश, स्वस्ति, स्वर् , स्फ्यकृत् ; स्वादु, मृदु, श्वस्, श्वन्, स्व, एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ।

१३८७ । सन्धिवेलादृतुनक्षत्रेऽभ्योऽण् । (४-३-१६)

सन्धिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण्स्यात् । सन्धि वेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, सन्ध्या, अमावस्याः त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत् । “संवत्सरात्फलपर्वणोः' (ग सू ९२) । सांवत्सरं फलं, पर्व वा । सांवत्सरिकमन्यत् ।

१३८८ । प्रावृष एण्यः । (४-३-१७)

प्रावृषेण्यः ।

१३८९ । वर्षाभ्यष्ठक् । (४-३-१८)

वर्षासु साधु वार्षिकं वासः । “कालात्साधुपुष्प्यत्पच्यमानेषु' (सू १४१८) इति साध्वर्थे ।


प्राप्ते विकल्पोऽयम् । श्वसस्तुट् च ॥ तस्येति ॥ प्रत्ययस्येत्यर्थः । तुटि टकार इत् । उकार उच्चारणार्थः । द्वारादीनाञ्च ॥ “न य्वाभ्याम्' इति सूत्रम्पदान्ताभ्यामिति वर्जम् अनुवर्तते मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । तदाह । एषान्न वृद्धिरैजागमश्चेति ॥ द्वारादीनान्नादि वृद्धिः, किन्तु यकारवकाराभ्याम्पूर्वौ ऐजागमौ स्त इत्यर्थः । अत्र यकारवकारयोरपदान्तत्वात् नय्वाभ्याम्पदान्ताभ्याम्’ इत्यप्राप्ते वचनामिदम् । शौवस्तिकमिति ॥ श्वसः इत्यव्ययात् जाता द्यर्थे ठञि इकादेशे तुडागमे वकारात्पूर्वमैजागमेन औकारः । अकारस्य न वृद्धिः । सन्धि वेला ॥ कालवृत्तिभ्य इति ॥ ‘कालाट्ठञ्’ इत्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैष मिति । तिष्ये भवादीत्यर्थः । ‘तिष्यपुष्ययोर्नक्षत्राणि’ इति यलोपः । तिष्ये जातः इत्यर्थे 'श्रविष्टा फल्गुनी' इति लुग्वक्ष्यते । सन्धिवेलादिगणम्पठति । सन्धिवेलेल्यादि । संवत्सरात्फल पर्वणोरिति । गणसूत्रमिदम् । प्रावृष एण्यः ॥ ऋत्वणोऽपवादः । प्रावृषेण्य इति ॥ प्रावृट् वर्षऋतुः । तत्र भवादिरित्यर्थः । जाते तु ठप् वक्ष्यते । प्रक्रियालाघवार्थ णकारोच्चारणम् । वर्षाभ्यष्टक् ॥ तृतीयर्तौ वर्षाशब्दो नित्यम्बहुवचनान्तः । “अप्सुमन:समासिकतावर्षाणा म्बहुत्वम्' इति लिङ्गानुशासनसूत्रात् । “स्त्रियाम्प्रावृट् स्त्रियाम्भूम्नि वर्षाः” इत्यमरः । वर्षा शब्दाज्जाताद्यर्थे ठगित्यर्थः । वर्षासु साध्विति ॥ हितकारीत्यर्थः । ननु “तत्र साधुः' इति

प्रकरणम्]
७५७
बालमनोरमा ।

१३९ । सर्वत्राण्च तलोपश्च । (४-३-२२)

हेमन्ताद्ण्स्यात्तलोपश्च वेदलोकयोः, चकारात्पक्षे ऋत्वण् । हैमनम् हैमन्तम्

१३९१ । सायञ्चिरम्प्राण्हेप्रगेऽव्ययेभ्यष्टयुट्युलौ तुट् च । (४-३-२३)

सायमित्यादिभ्यश्चतुर्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुटयुलौ स्तः तयो- स्तुट् च । तुट: प्रागनादेश: ‘अनद्यतने-' (सू २१८५) इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तनम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यः त्नो वक्तव्यः'


साध्वधिकारस्य शेषाधिकारबहिर्भूतत्वात्कथं साध्वर्थेऽयम्प्रत्यय इत्यत आह । कालादिति ॥ साध्वर्थे इति ॥ साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः । सर्वत्राण्च ॥ छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदेचेत्यर्थः । 'हेमन्ताच' इति पूर्वसूत्रात् हेमन्तादित्यनुवर्तते। तदाह। हेमन्तादित्यादिना॥ ननु ‘सर्वत्राण्लोपश्च' इत्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह । चकारादिति ॥ हैमनमिति ॥ हेमन्तेत्यत्र तकारात्प्राक् नकारस्यानुस्वारपरसवर्णौ स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षे अनिति प्रकृति- भावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु, अकारस्य 'यस्येति च' इति लोपे तस्य आभीयत्वेनासिद्धत्वात् स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति ॥ ऋत्वणि रूपम् । अत्र न तलोपः । तस्य एतत्सूत्रप्रतिपदोक्ताणा सनियोगशिष्टत्वादिति भावः । सायञ्चिरम् ॥ चतुर्भ्य इति ॥ सायं चिर प्राह्णे प्रगे इत्येभ्य इत्यर्थः । कालवाचिभ्य इति ॥ 'काला- ट्ठञ्' इत्यतस्तदनुवृत्तरिति भावः। तयोरिति ॥ टयुटयलोरित्यर्थः । ननु सायन्तनमित्यादौ कथ योरनादेशः । 'युवोरनाकौ' इति ह्यङ्गाधिकारस्थम् । अङ्गात्परयोः यु वु इत्येतयोरनाकौ विधीयते । प्रकृते च अन्तरङ्गत्वात्तुटि यु इत्यस्य अङ्गात्परत्वाभावादनादेशो न सम्भवति । नच 'तदागमास्तद्रहणेन गृह्यन्ते' इति न्यायेन ट्यु इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात् परत्वं निर्बाधामिति वाच्यम्। 'निर्दिश्यमानस्यादेशा भवन्ति' इति परिभाषया योरेवानादेशप्राप्तेः तस्य च तुटा व्यवहितत्वादशात्परत्वाभावात् कथमनादेश इत्यत आह । तुटः प्रागनादेश इति ॥ कुत इत्यत आह । अनद्यतने इत्यादिनिर्देशादिति ॥ आदिना 'घकालतनेषु' इत्यत्र तनेति ग्राह्यम् । सायन्तनमिति ॥ 'षो अन्तकर्मणि' इति धातोर्घजि सायशब्दो दिवसाव- साने रूढः । तस्माट्ट्युटयुलौ, तयोरनादेशे तुट्, प्रकृतेर्मान्तत्वन्निपात्यते । यत्तु सायमिति स्वरादिपठितमव्ययं तस्याव्ययत्वादेव ट्युटयुलौ सिद्धौ । चिरन्तनमिति ॥ अत्रापि प्रकृतेर्मान्तत्वन्निपात्यते । अस्मादेव लिङ्गाच्चिरमित्यस्याव्ययेषु पाठः अप्रामाणिक इति गम्यते । प्राह्णेतनमिति ॥ प्राण्हः सोढोऽस्येति विग्रहः । तदस्य सोढम्' इत्यर्थस्य निर्देक्ष्यमाणत्वात् ।

प्राह्णे जातः इत्याद्यर्थे तु 'घकालतनेषु' इति लुकैव एदन्तत्वं सिद्धम् । प्रगेतनमिति ॥
७५८
[शैषिक
सिद्धान्तकौमुदीसहिता

(वा २८४२) । चिरन्नम् । परुन्नम् । परारित्रम् । “अग्रादिपश्वाड्डिमच् (वा २८४४) । अग्रिमम् । आदिमम् । पश्चिमम् । “अन्ताच' (वा २८४५) । अन्तिमम् ।

१३९२ । विभाषा पूर्वाह्णापराह्णाभ्याम् । (४-३-२४)

आभ्यां टयुटयुलौ वा स्तः, तयास्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । “घकालतनेषु–' (सू १९७५) इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ।

१३९३ । तत्र जातः । (४-३-२५)

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्त्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारिणः इत्यादि ।

१३९४ । प्रावृषष्ठप् । (४-३-२६)

एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ।

१३९५ । संज्ञायां शरदो वुञ् । (४-३-२७)

ऋत्वणोऽपवादः । शारदकाः दर्भविशेषा: मुद्रविशेषाश्च ।


प्रगच्छतीति प्रगः, तस्मिन् जातादिरित्यर्थः । यत्तु प्रगे इत्यव्ययमेदन्तम्प्रातरित्यर्थे, तस्य त्वव्ययत्वादेव सिद्धम् । अव्ययेभ्यः उदाहरति । दोषातनमिति ॥ दोषेत्याकारान्तमव्ययं रात्रौ। दिवातनमिति ॥ दिवेत्याकारान्तमव्ययमह्नि । चिरपरुदिति ॥ चिर, परुत् , परारि एभ्यः नप्रत्यय इत्यर्थः । चिरत्नमिति ॥ ट्युटयुलोरेव प्राप्तयोर्वचनम् । त्नप्रत्ययपक्षे मान्तत्वन भवति । ट्युटयुल्भ्यान्तस्य सन्नियोगशिष्टत्वात् । परुदिति परारीति चाव्यय पूर्वस्मिन् पूर्वतरे च वत्सरे क्रमाद्वर्तते । अग्रादीति ॥ वार्तिकमिदम् । अग्र, आदि, पश्चात् , एभ्यः डिमच् स्यादित्यर्थः। पश्चिममिति ॥ 'अव्ययानाम्भमात्रे' इति टिलोपः । अन्ताच्च ॥ इदमपि वार्तिकम् । विभाषा पूर्वाह्ण ॥ पक्षे ठञिति ॥ तथा सति न तुट् । तस्य ट्युटयुल्भ्यां सत्रियोगशिष्टत्वादिति भावः । तदेव 'राष्ट्रावार' इत्यारभ्य एतदन्तैः सूत्रैः राष्ट्रादि- प्रकृतिविशेषेभ्यः घादयः प्रत्ययविशेषाः अनुक्रान्ताः। अथ तेषाम्प्रत्ययानामर्थविशेषान् प्रकृ- तीनाञ्च विभक्तिविशेषान् दर्शयितुमुपक्रमते । तत्र जातः ॥ सप्तमीसमर्थादिति ॥ सप्तम्यन्तात्कृतसन्धेरित्यर्थः। तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणा- दय इति ॥ अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति ॥ 'राष्ट्रावारपार' इत्यादिभिः विशेषविहिता इत्यर्थः । प्रावृषष्ठप् ॥ ठपः पित्त्वम् ‘अनुदात्तौ सुप्पितौ' इति स्वरार्थम् । एण्यस्येति ॥ 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवञ्च 'प्रावृष एण्यः' इति सूत्रञ्जातादन्यार्थमिति पर्यवस्यति । संज्ञायां शरदो वुञ् ॥ सज्ञायामित्येतत् ‘कृतलब्धक्रीत'

प्रकरणम्]
७५९
बालमनोरमा ।

१३९६ । उत्तरपदस्य । (७-३-१०)

अधिकारोऽयम् । 'हनस्तः-' (सू २५७४) इत्यस्मात्प्राक् ।

१३९७ । अवयवादृतोः । (७-३-११ )

अवयववाचनः पूर्वेपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात् । ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । “अवयवात्' किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोवृद्धिमद्विधावयवानाम्’ (वा ५६०) इति तदन्तविधिः पूर्वत्र । इह तु न, अवयवत्वाभावात् ।

१३९८ । सुसर्वार्धाज्जनपदस्य । (७-३-१२)

उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चलकः । अर्धपाञ्चालकः । जनपद्तवध्योः - (सू १३४८) इति वुञ् । 'सुसर्वार्धदिक्छब्देभ्यो जन पदस्य' (वा ५५९) इति तदन्तविधिः ।


इत्येतत्पर्यन्तमनुवर्त त इति केचिदिति वृत्तिकृतः । उत्तरपदस्य ॥ अधिकारोऽयः मिति । सप्तमे आदिवृद्विप्रकरणे एतदादिसूत्राणि । अवयवादृतोः ॥ पूर्वपदादिति ॥ परस्येति शेषः। ऋतुवाचिन इति । उत्तरपदस्येति शेषः। पूर्ववार्षिक इति ॥ ऋतुविशिष्टे वर्षाशब्दो नित्यत्रीलिङ्गो बहुवचनान्तः । वर्षाणाम्पूर्वं पूर्ववर्षाः, तत्र जाता इत्यर्थः । 'पूर्वापरा धरोत्तरम्' इत्येकदेशिसमासः । अपरहैमन इति ॥ हेमन्तस्यापरम् अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः । ‘सर्वत्राण्च तलोपश्च' इत्यण्, तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विति ॥ 'तद्धितार्थे' इति समासः । आदिवृद्धिरेव । न तु उत्तरपदादि वृद्धिः । पूर्वपदस्य अवयववृत्तित्वाभावात् । ननु कथमिह 'वर्षाभ्यष्टक्’ इति ठक् । प्रत्यविधौ तदन्तविधिप्रतिषेधात् । तत्राह । ऋतोरिति ॥ अवयववाचकानां शब्दानामुपरि स्थितात् ऋतुवाचकात् वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन “येन विधिः इति सूत्रभाष्यस्थितवचनेन पूर्वत्र पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः । तथाच पूर्ववार्षिकः इत्यत्र पूर्वहैमन इत्यत्र चोदाहरणे ‘वर्षाभ्यष्ठक्’ इति ठक्, ‘सर्वत्राण् च तलोपश्च' इत्यण्तलोपौ च सिद्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति सामा नाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाभावादित्यर्थः । ततश्च प्रत्युदाहरणे पौर्ववार्षिक इत्यत्र कालाट्ठञ्' इति ठञेव, नतु ठक्, स्वरे विशेषः । पौर्वहेमन्तिक इत्यत्रापि ठञेवेति भावः । सु सर्वार्धाज्जनपदस्य ॥ सु, सर्व, अर्ध, इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति ॥ शेषपूरणम् । सुपाञ्चालक इति ॥ सुपञ्चालेषु जात इत्यर्थः । जनपदेति ॥ जनपदतदवध्योः' इत्यनुवृत्तौ अवृद्धादपि बहुवचनविषयादिति वुञित्यर्थः । ननु “ अवृद्धादपि इति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह । सुसर्वेति ॥ सु, सर्व, अर्ध, दिक्शब्द

७६०
[शैषिक
सिद्धान्तकौमुदीसहिता

१३९९ । दिशोऽमद्राणाम् । (७-३-१३)

दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । 'दिश:' किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । “ अमद्राणाम्' किम् । पौर्वमद्रः । योगविभाग

१४०० । प्राचां ग्रामनगराणाम् । (७-३-१४)

दिशः परेषां ग्रामवाचिनां नगरवाचिनां चाङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे पूर्वपाटलिपुत्रकः ।

१४०१ । पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् । (४-३-२८)

पूर्वाह्णकः । अपराह्णकः । आद्रकः । मूलकः । प्रदोषकः । अवस्करक ।

१४०२ । पथः पन्थ च । (४-३-२९)

पथि जातः पन्थकः ।


एभ्यः परस्य जनपदवाचिनः उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकन ‘येन विधिः' इति सूत्र भाष्यपठितवचनेन तदन्ताविधिरित्यर्थः । दिशोऽमद्राणाम् ॥ अमद्राणामिति च्छेदः । दिग्वा चकादिति ॥ परस्येति शेषः । जनपदवाचिन इति ॥ मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति ॥ आदेरिति शेष । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्रः इति ॥ 'मद्रेभ्योऽञ्' इत्यञ् । ननु 'सुसर्वार्धढिशो जनपदस्यामद्राणाम्' इत्येकसूत्र मेवास्त्वित्यत आह । योगविभाग उत्तरार्थ इति ॥ 'प्राचां ग्रामनगराणाम्’ इत्युत्तरसूत्रे दिश एव सम्बन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्र शब्दस्य पर्युदासः प्रसज्येतेति भावः । प्राचां ग्रामनगराणाम् ॥ दिश इति ॥ दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेवृद्धिः स्यादित्यर्थः । पूर्वेषुकाम शम्यामिति ॥ “दिक्सङ्खये संज्ञायाम्' इति समासः । अण् संज्ञात्वादिति ‘दिक्पूर्वपदात्' इति ञो न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरेति उदाहरणसूचनम्। पूर्वपाटलिपुत्रक इति ॥ “पूर्वापरप्रथम' इति समासः । अवृद्धादपि इति वुञ् । यद्यपि पाटलीपुत्रशब्दे उत्तरपदे आदिवृद्धिरेव । तथापि पूर्वपदस्यापि वृद्धिनिवृत्ति फलम्। पूर्वाह्णापराह्ण ॥ पूर्वाह्णकः, अपराह्णकः इति ॥ पूर्वाह्णे अपराह्णे च जातः इत्यर्थः। 'विभाषा पूर्वाह्णापराह्णाभ्याम्' इत्यस्यापवादः । ट्युटयुलोः ठञश्च विकल्पस्तु जातादन्यार्थे सावकाश इति भावः । आर्द्रकः मूलक इति ॥ आर्दायां मूले च जात इत्यर्थः । ऋत्वणो ऽपवादः । प्रदोषक इति ॥ 'निशाप्रदोषाभ्याम्' इत्यस्यापवादः । अवस्करक इति ॥ औत्सर्गिकस्याणोऽपवादः । पथः पन्थ च ॥ पथिन्शब्दात् वुन् स्यात् प्रकृतेः पन्थादेशश्च ।

प्रकरणम्]
७६१
बालमनोरमा ।

१४०३ । अमावास्याया वा । (४-३-३०)

अमावास्यक:-आमावास्यः ।

१४०४ । अ च । (४-३-३१)

अमवास्य: ।

१४०५ । सिन्ध्वपकराभ्यां कन् । (४-३-३२)

सिन्धुकः । कच्छाद्यणि मनुष्यवुञि च प्राप्ते, अपकरकः । औत्स- र्गिकेऽणि प्राप्ते ।

१४०६ । अणञौ च । (४-३-३३)

क्रमात्स्तः । सैन्धवः । आपकरः ।

१४०७ । श्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्त विशाखाषाढाबहुळाल्लुक् । (४-३-३४)

एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ।

१४०८ । लुक्तद्धितलुकि । (१-२-४९)

तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुनः इत्यादि । ’चित्रारेवतीरोहिणीभ्य: स्त्रियामुपसङ्ख्यानम् ’


अमावास्याया वा ॥ वुनिति शेषः। पक्षे सन्धिवेलादित्वाद्ण् । एकदेशविकृतन्यायादमावास्याशब्दादप्ययं विधिः । अ च ॥ अ इति लुप्तप्रथमाकम् । अमावास्यादकारः प्रत्ययोऽपीत्यर्थः । आदिवृध्द्यभावः प्रयोजनम् । सिन्ध्वपकराभ्याङ्कन् ॥ सिन्धुक इति ॥ सिन्धौ जात इत्यर्थः । कच्छादीति ॥ “कच्छादिभ्यश्च' इत्यणि 'मनुष्यतत्स्थयोश्च' इति वुञि च प्राप्ते अयङ्कन्विधिरित्यर्थः । अपकरक इति ॥ अपकरे जात इत्यर्थः । अणि प्राप्ते इति ॥ कन्वि धिरिति शेषः । अणञौ च ॥ क्रमात् स्त इति ॥ सिन्ध्वपकराभ्यामिति शेषः । श्रविष्टा ॥ एभ्य इति ॥ श्रविष्ठा, फल्गुनी, अनूराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुला एतेभ्य इत्यर्थः । जातार्थेति ॥ प्रकरणलभ्यमिदम् । स्वातिशब्दः ह्रस्वान्त इति कैयटह्रदत्तौ। दीर्घान्त इति ‘अत सातत्यगमने' इति धातैौ माधवः। कृत्तिकावाचिबहुळाशब्दष्टा वन्तः । समाहारद्वन्द्वे ह्रस्वनिर्देशः । लुक तद्धितलुकेि ॥ प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति ॥ ’गोस्त्रियोरुपसर्जनस्य' इत्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति ॥ ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः । 'लुक् तद्धितलुकि' इत्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम् । असम्भवादिति भावः । फल्गुन इति ॥ फल्गुन्योः जात इत्यर्थः । अणो p 96

७६२
[शैषिक
सिद्धान्तकौमुदीसहिता

(वा २८५७) । चित्रायां जाता चित्रा । रेवती रोहिणी आभ्यां “लुक्तद्धितलुकि' (१४०८) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् । ’फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ' (वा २८५८) । स्त्रियामित्येव । फल्गुनी। अषाढा । ’श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५९) । अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ।

१४०९ । जे प्रोष्ठपदानाम् । (७-३-१८)

प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति केिति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । ’जे' इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भद्रपादः ।

१४१० । स्थानान्तगोशालखरशालाच्च । (४-३-३५)


लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनूराधासु जातः अनूराधः । नक्षत्राणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रेऽपि । “ अनूराधान् हविषा वर्धयन्तः” इत्यादौ छान्दसम्पुंस्त्वम् । स्वात्याञ्जातः स्वातिः । तिष्ये जातः तिष्यः । पुनर्वस्वोर्जातः पुनर्वसुः । हस्ते जातो हस्तः । विशाखयोर्जातः विशाखः । अषाढासु जातः अषाढ: । बहुळासु जातः बहुळः । चित्रेति ॥ चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति ॥ जातायां नक्षत्राणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्डीष् । ननु रेवतीनक्षत्रे रोहिणीनक्षत्रे इति गौरादौ पाठादिह जातार्थवृत्तिभ्याङ्कथं डीषित्यत आह । आभ्यामिति ॥ रेवतीरोहणीशब्दाभ्यामित्यर्थः । परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्येति शेषः । आकृतिगणत्वादिति ॥ स्त्रीत्वविशिष्टजातार्थवृत्योरनयोः पिप्पल्यादौ निवेशे भाष्योदाहरणमेव । प्रमाणम् । स्त्रियामित्येवेति ॥ तथा भाष्यादिति भावः । फल्गुनी, अषाढा, इत्याभ्यां क्रमात्। टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति ॥ फल्गुन्योर्जातेत्यर्थः । नक्षत्राणोऽपवादः । टप्रत्ययः । ’यस्येति च' इति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वात् डीप् । अषाढेति ॥ अषाढासु जातेत्यर्थः । नक्षत्राणोऽपवादः । अन्, ’यस्येति चव' इत्यकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्टाफल्गुनी' इत्यादिना ठानोर्लुक् तु न । विधानसामर्थ्र्यात् । छण् वक्तव्य इति । नक्षत्राणोऽपवादः । विधिसामर्थ्यादस्यापि न लुक् । आस्त्रियामपीति ॥ अत्र स्त्रियामिति न सम्बध्यते । भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति ॥ श्रविष्ठासु जात इत्यर्थः । छण्, ईयः, 'यस्येति च' इत्यकारलोपः । णित्वादादिवृद्धिः । आषाढीय इति ॥ अषाढासु जात इत्यर्थः । जे प्रोष्ठपदानाम् ॥ आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाह । प्रोष्ठपदानामिति ॥ जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह । जातार्थे इति ॥ प्रोष्ठपदानामिति बहुवचनस्य प्रयोजनमाह । बहुवचनेति ॥ भद्रपाद इति ॥ भद्रपदासु जात इत्यर्थः । स्थानान्तगोशाल ॥ एभ्य इति ॥ स्थानान्त,

प्रकरणम्]
७६३
बालमनोरमा ।

एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः । गोशालः । खरशालः । ’विभाषा सेना-' (सू ८२८) इति नपुंसकत्वे ह्रस्वत्वम् ।

१४११ । वत्सशालाभिजिदश्चयुक्छतभिषजो वा । (४-३-३६)

एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः-वात्सशालः इत्यादि । ’जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः' (वा २६९०) । शातभिषजः-शातभिषः-शतभिषक् ।

१४१२ । नक्षत्रेभ्यो बहुळम् । (४-३-३७)

जा तार्थप्रत्ययस्य बहुळं लुक् स्यात् । रोहिणः-रौहिणः ।

१४१३ । कृतलब्धक्रीतकुशलाः । (४-३-३८)

’तत्र' इत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ।

१४१४ । प्रायभवः । (४-३-३९)


गोशाल,.खरशाल, एतेभ्य इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति ॥ गोशाले जात इत्यर्थः । एवङ्करशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वात् ह्रस्वनिर्देशोऽनुपपन्न इत्यत आह । विभाषा सेनेति ॥ लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुक् । वत्सशालाभिंजित् । एभ्य इति ॥ वत्सशाला, आभिजित्, अश्वयुज्, शतभिषज्, इत्येभ्य इत्यर्थः । परस्येति शेषः । इत्यादीति । अभिजिति जातः आभिजितः-अभिजिन् । अश्वयुजोजीतः आश्वयुजः-अश्वयुक् । शतभिषाजि जातः शाताभिषजः-शतभिषक् । जातार्थे इति ॥ कालाद्वञ्' इति ठञा निवर्तितः औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः । ’दृष्टं साम' इति सूत्रभाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति ॥ आणि डित्त्वपक्षे टिलोपः । नक्षत्रेभ्यो बहुळम् ।। रोहिण इति । रोहिण्याञ्जात इत्यर्थः । नक्षत्राणो लुकि आदिवृद्धिनिवृत्तौ ‘लुक् तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यम् । न हि रोहितशब्दोऽयं वर्णविशेषवाचकः । येन ’वर्णादनुदात्तात्' इति डीपो निवृत्तौ तकारोऽपि निवर्तते । किन्तु रोहिणीशब्दोऽयमव्युत्पन्नो नक्षत्रविशेषे रूढः । रोहिणीनक्षत्रे इति गौरादिपाठात् ङीष् । अत एव ‘रोहिणीनक्षत्रम्प्रजापतिर्देवता’ इत्यादौ अन्तोदात्तत्वं श्रूयमाणन्न विरुध्यते । अन्यथा 'वर्णनान्तणतिनितान्तानाम्' इति आद्युदात्तत्वं स्यादित्यलम् । कृतलब्ध ॥ तत्रेत्येवेति ॥ ‘तत्र

जातः’ इत्यतस्तत्रेत्येवानुवर्तते । जात इति तु निवृत्तमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथ स्युरित्यर्थः । स्रौऽघ्न इति ॥ औत्सर्गिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् । प्रायभवः ॥ तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दत्य व्याख्यानम्बाहुळ्येनेति । तत्र भव
७६४
[शैषिक
सिद्धान्तकौमुदीसहिता

' तत्र ' इत्येव । स्रुघ्ने प्रायेण बाहुळ्येन भवति स्रोघ्नः ।

१४१५ । उपजानूपकर्णोपनीवेष्ठक् । (४-३-४०)

औपजानुकः । औपकर्णिकः । औपनीविकः ।

१४१६ । सम्भूते । (४-३-४१)

स्रुघ्ने सम्भवति स्रोघ्नः ।

१४१७ । कोशाड्ढञ् । (४-३-४२)

कौशेयं वस्त्रम्

१४१८ । कालात्साधुपुष्प्यत्पच्यमानेषु । (४-३-४३)

हेमन्ते साधुर्हैमनः प्रावारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ।

१४१९ । उप्ते च । (४-३-४४)

हेमन्ते उप्यन्ते हैमन्ता यवाः ।

१४२० । आश्वयुज्या वुञ् । (४-३-४५)

ठञोऽपवादः । आश्वयुज्यामुप्ता: आश्वयुजका: माषाः ।


इत्येव सिद्धत्वात् प्रत्याख्यातमिदम्भाष्ये । उपजानूपकर्ण । प्रायभव इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यः ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति ॥ जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वात् ठस्य कः । औपकर्णिक इति ॥ कर्णस्य समीपमुपकर्ण, तत्र प्रायभव इत्यर्थः । औपनीविक इति ॥ नीवेः समीपमुपनीवि, तत्र प्रायभवः इत्यर्थः । सम्भूते ॥ तत्रेत्येव । सप्तम्यन्तात्सम्भूतेऽर्थे अणादयो घादयश्च यथायथं स्युरित्यर्थः । सम्भवः सम्भावना । कोशाड्ढञ् ॥ कौशेयं वस्त्रमिति ॥ कृमिविशेषकोशस्य विकार इत्यर्थः। विकारे ‘कोशाड्ढञ्’ इति वार्तिकात् । कालात्साधुपुष्प्यत् ।।तत्रेत्येव । साधु, पुष्प्यत्, पच्यमानम्, इत्यर्थेषु सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः ।’पुष्प विकसने' इति दैवादिकात् लटः शतरि पुष्प्यदिति भवति । हैमनः प्रावार इति ।'सर्वत्राण् तलोपश्च' इत्यणि तलोपः । वासन्त्य इति । 'टिड्ढ' इति डीप् । शारदा इ यत्र ऋत्वाणि 'तत्र भवः’ इति यावत् कालादित्यनुवर्तते । उते च । तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितम्प्रत्ययाः स्युः । उप्यन्त इति ॥ 'डु वप् बीजसन्ताने' भूतकालस्त्वविवक्षित इति भावः । आश्वयुज्या वुञ् । तत्रोप्त इत्येव । सप्तम्यन्तादश्वयुजीशब्दात् उप्तेऽर्थे वुञ् स्यादित्यर्थः । ठञोऽपवाद इति ॥ 'कालाद्वञ' इति विहितस्येत्यर्थः ।आश्वयुजका माषा इति । अश्वयुग्भ्यां युक्ता पौर्णमासी आश्वयुजी, तत्रोप्ता इत्यर्थः ।

प्रकरणम् ]
७६५
बालमनोरमा ।

१४२१ । ग्रीष्मवसन्तादन्यतरस्याम् । (४-३-४६)

पक्षे ऋत्वण् । ग्रैष्मकम्-ग्रैष्मम् । वासन्तकम्-वासन्तम् ।

१४२२ । देयमृणे । (४-३-४७)

’ कालात् ' इत्येव । मासे देयमृणं मासिकम् ।

१४२३ । कलाप्यश्वत्थयवबुसाद्वुन् । (४-३-४८)

यस्मिन्काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थः । तद्युक्तः कालोऽप्यश्वत्थः । यस्मिन्काले अश्वत्थाः फलान्ति तत्र देयमृणमश्वत्थकम् । यास्मिन्यवबुसमुत्पद्यते तत्र देयमृणं यवबुसकम् ।

१४२४ । ग्रीष्मावरसमाद्वुञ् । (४-३-४९)

ग्रीष्मे देयमृणं ग्रैष्मकम् । आवरसमकम् ।

१४२५ । संवत्सराग्रहायणीभ्यां ठञ्च । (४-३-५०)

चाद्वुञ् । सांवत्सरिकम्-सांवत्सरकम्। आग्रहायणिकम्-आग्रहायणकम्।

१४२६ । व्याहरति मृगः । (४-३-५१)

कालवाचिनः सप्तम्यन्ताच्छब्दायते इत्यर्थे अणादयः स्युः, यो व्याहरति स मृगश्चेन् । निशायां व्याहरति नैशो मृग:—नैशिकः ।


ग्रीष्मवसन्तात् ॥ ग्रीष्मात् वसन्ताच्च सप्तम्यन्तादुप्ते वुञ् वेत्यर्थः । देयमृणे ॥ कालादित्येवेति । तत्रेत्यप्यनुवर्तते । वुञिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनः देयमित्यर्थे यथाविहितम्प्रत्ययाः स्युः । तस्मिन् देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति ॥ ‘कालाद्वुञ्' । कलाप्यश्वत्थ ॥कलापिन्, अश्वत्थ, यव, बुस, एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन् स्यादित्यर्थः । कलापकमिति ॥ वुन् अकादेशः ’नस्तद्धिते’ इति टिलोपः । अश्वत्थस्य फलमश्वत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अश्वत्थशब्दस्य प्लक्षादित्वे तु ततः ‘प्लक्षादिभ्योऽण्' इति फले अणो विधानसामर्थ्यात् लुगभावे अश्वत्थशब्द फले लाक्षणिक इति भावः । ग्रीष्मावरसमाद्वञ् ॥ समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी । तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः । आवरसमकमिति ॥ अवरासु समासु देयमृणमित्यर्थः । ’तद्धितार्थ’ इति समासः । संवत्सराग्रहायणीभ्यां ठञ् च ॥ देयमृणमित्यर्थे सप्तम्यन्तादिति शेषः । सन्धिवेलादिगणे ’सवत्सरात् फलपर्वणोः' इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तः अण् अनेन ठञा बाध्यते । व्याहरति मृगः । तत्र कालादित्येव । देयमृणे इति निवृत्तम् ।

७६६
[शैषिक
सिद्धान्तकौमुदीसहिता

१४२७ । तदस्य सोढम् । (४-३-५२)

’कालात्' इत्येव । निशा, सहचरितमध्ययनं निशा, तत्सोढमस्य नैशिक:-नैशः ।

१४२८ । तत्र भवः । (४-३-५३)

स्रुघ्ने भवः स्रोघ्नः । राष्ट्रियः ।

१४२९ । दिगादिभ्यो यत् । (४-३-५४)

दिश्यम् । वर्ग्यम् ।

१४३० ।। शरीरावयवाच्च । (४-३-५५)

दन्त्यम् । कण्ठ्यम् ।

१४३१ । प्राचां नगरान्ते । (७-३-२४)

प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । ‘प्राचाम्’ किम् । मद्रनगरम् उदक्षु, तत्र भवो माद्रनगरः ।

१४३२ । जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । (७-३-२५)

जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले कौरुजङ्गलम् -- कौरुजाङ्गलम् । वैश्वधनवम्-वैश्वधैनवम् । सौवर्णवलजम्-सौवर्णवालजम् ।


तदस्य सोढम् ॥ अस्मिन्नर्थे प्रथमान्ताद्यथाविहितम्प्रत्ययाः स्युः सोढमित्यस्य अभ्यस्तमित्यर्थः। नैशिकः-नैशः इति ॥ ‘निशाप्रदोषाभ्याञ्च' इत्यण्ठञौ । तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं स्युरित्यर्थः । भवन सत्ता, जननमुत्पत्तिरिति भेदः । स्रौघ्न इति ॥ औत्सर्गिकोऽण् । राष्ट्रिय इति ॥ ’राष्ट्रावार' इति घः । दिगादिभ्यो यत् ॥ भवः इत्यर्थे सप्तम्यन्तेभ्य इति शेषः । दिश्यमिति ॥ दिशि भवमित्यर्थः । शरीरावयवाच ॥ भव इत्यर्थे सप्तम्यन्तेभ्य इति शेषः । दन्त्यमिति ॥ दन्ते भवमित्यर्थः । ’यस्येति च' इत्यकारलोपः । एवङ्कण्ठयम् । प्राचान्नगरान्त ॥ अङ्गस्येत्यधिकृतं नगरान्ते इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । 'उत्तरपदस्य' इत्यधिकृतम् । हृद्भगसिन्ध्वन्ते' इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः । प्राचां यन्नगरं तदन्ते अङ्गपूर्वपदस्योत्तरपदस्य च अचामादेरचां वृद्धिः स्यात् ञिति णिति किति च तद्धिते इति । सुह्मनगरमिति पुण्ड्रनगरमिति च पूर्वान्तावयवः । मद्रनगरम् उदक्ष्विति । उदग्देशे मद्रनगरन्नाम किञ्चिन्नगरमस्तीत्यर्थः । जङ्गलधेनु ॥ जङ्गलाद्यन्तस्याङ्गस्येति ॥ जङ्गल ,

धेनु, वलज, इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति ॥ भवमिति शेषः । कुरुजङ्गलादिशब्दाः

१४३३ । दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । (४-३-५६)

दार्तेऽयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् ।

१४३४ । ग्रीवाभ्योऽण् च । (४-३-५७)

चाड्ढञ् । ग्रैवेयम्-ग्रैवम् ।

१४३५ । गम्भीराञ्ञ्जयः । (४-३-५८)

गम्भीरे भवं गाम्भीर्यम् । 'पञ्चजनादुपसङ्ख्यानम्' (वा २८६८) । पाञ्चजन्य: ।

१४३६ । अव्ययीभावाच्च । (४-३-५९)

परिमुखं भवं परिमुख्यम् । 'परिमुखादिभ्य एवेष्यते' (वा २८६६) । नेह, औपकूल: ।

१४३७ । अन्तःपूर्वपदाट्ठञ् । (४-३-६०)

'अव्ययीभावात्' इत्येव । वेश्मन्यन्तोऽन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् । 'अध्यात्मादेष्ठञिष्यते’ (वा २८६९) । अध्यात्मं भवम् आध्यात्मिकम् ।


देशविशेषेषु । दृतिकुक्षि ॥ भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि, इत्येभ्यः सप्तम्यन्तेभ्यः इति शेषः । दार्तेयमिति ॥ दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति ॥ धूमादित्वाद्रुञि प्राप्ते ढञ् । कलशिर्घट इति ॥ “कलशिर्मथनपात्रम्” इत्यमरव्याख्यातारः । “वस्तिर्नाभेरधो द्वयोः' इत्यमरः । तत्र भवो वास्तेयः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । सत्तायान्धने चेति न्यासकारो हरदत्तश्च । तत्र भवः आस्तयः । अहिः सर्पः, तत्र भवः आहेयः । ग्रीवाभ्योऽण् च ॥ 'शरीरावयवाच्च' इति यतोऽपवाद । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्घविवक्षायाम्बहुवनान्तात्प्रत्यय इति सूचयितुम्बहुवचनम् । तिरोहितावयवभेदविवक्षायान्तु एकवचनान्तादप्यण्ढञौ स्त एव । गम्भीराञ्ञ्यः ॥ गाम्भीर्यमिति । यञ्विधौ तु स्त्रियां ‘प्राचां ष्फस्तद्धितः’ इति ष्फः स्यात् । अव्ययीभावाच्च ॥ ञ्य इति शेषः । परिमुखादिभ्य इति ॥ यद्यपीदं वार्तिकं

भाष्ये न दृष्ट, तथापि दिगादिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । नह्यष्टाद्ध्याय्याम्परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति ॥ उपकुलम्भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावात् न ञ्यः । अन्तःपूर्वपदाट्ठञ् ॥ वेश्मनि अन्तर्वेश्ममिति विभक्तयर्थे अव्ययीभावः । 'अनश्च' इति टचू । आन्तर्वेश्मिकमिति ॥ ठञ्, इकः, सुब्लुक्, टिलोपः, आदिवृद्धिः । आन्तर्गणिकमिति ॥ गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आद्ध्यात्मिकमिति ॥ आत्मनीत्याद्ध्यात्मम् । तत्र

१४३८ । अनुशतिकादीनां च । (७-३-२०)

एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ।

१४३९ । देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । (७-३-१)

एषां पञ्चानां वृद्धिप्राप्तावादेरचः आत् ञिति णिति किति च । दाविकम् । देविकाकूले भवाः दाविकाकूलाः शालयः । शिंशपाया विकार: शांशपश्चमसः । 'पलाशादिभ्यो वा' (सू १५२१) इत्यञ् । दित्यौहः इदं दात्यौहम् । दीर्घसत्रे भवं दार्धसत्रम् । श्रेयसि भवं श्रायसम् ।

१४४० । ग्रामात्पर्यनुपूर्वात् । (४-३-६१)

ठञ् स्यात् । 'अव्ययाभावात्' इत्येव । पारिग्रामिकः । आनुग्रामिकः ।

१४४१ । जिह्वामूलाङ्गुलेश्छः । (४-३-६२)

जिह्वामूलीयम् । अङ्गुळीयम् ।

१४४२ । वर्गान्ताच्च । (४-३-६३)

कवर्गीयम् ।


भवमित्यर्थः । अनुशतिकादीनाञ्च ॥ आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् । तदाह । एषामिति ॥ आधिदैविकमिति ॥ देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः । ठञि उभयपदवृद्धिः । आधिभौतिकमिति । भूतेष्वित्यधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति ॥ इह लोके भवमित्यर्थः । पारलौकिकमिति ॥ परलोके भवमित्यर्थः । सर्वत्र ठञि उभयपदवृद्धिः । देविका ॥ आदिवृद्धिप्रकरणे इदं सूत्रम् । एषामिति ॥ देविका, शिंशपा, दित्यवाह, दीर्घसत्र, श्रेयस् इत्येषामित्यर्थः । वृद्धिप्राप्ताविति ॥ आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरचः आकारः स्यादित्यर्थः । दाविकमिति ॥ देविका नाम नदी, तस्याम्भवमित्यर्थः । दाविकाकूला इति ॥ उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरणम् । अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति ॥ इकारस्य आकारः, अञि वृद्धिः, शिंशपाशब्दस्य पलाशादौ पाठात् पाक्षिकोऽञ् । तदभावेऽणित्यर्थः । दात्यौहमिति ॥ दित्यवाहशब्दात् 'तस्येदम्' इत्यणि 'वाह ऊठ्’ इति सम्प्रसारणं, पूर्वरूपम् । 'एत्येधत्यठ्सु’ इति वृद्धिः। इकारस्य आदिवृध्यपवादः आकारः। दार्धसत्त्रमिति ॥ ‘तस्येदम्’ इत्यण् आदेरीकारस्य आकारः । श्रायसमिति ॥ तत्र भवः इत्यणि एकारस्य आकारः । ग्रामात्पर्यनुपूर्वात् ॥ ठञ् स्यादिति ॥ 'अन्तःपूर्वपदात्' इत्यतः तदनुवृत्तेरिति भावः । जिह्वामूलांगुलेश्छः ॥ 'शरीरावयवाच्च' इति यतोऽपवादः। वर्गान्ताञ्च॥ कवर्गीयमिति ॥ १४४३ । अशब्दे यत्खावन्यतरस्याम् । (४-३-६४)

पक्षे पूर्वेण छः । मद्वर्ग्यः-मद्वर्गीणः-मद्वर्गीयः । 'अशब्दे' किम् । कवर्गीयो वर्णः ।

१४४४ । कर्णललाटात्कन्नलङ्कारे । (४-३-६५)

कर्णिका । ललाटिका ।

१४४५ । तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । (४-३-६६)

सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ।

१४४६ । बह्वचोऽन्तोदात्ताट्ठञ् । (४-३-६७)

षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ।

१४४७ । क्रतुयज्ञेभ्यश्च । (४-३-६८)

सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवः


कादिवर्गे भवमित्यर्थः । अशाब्दे ॥ वर्गान्तात् छः इति शेषः । मद्वर्ग्यः-मद्वर्गीण इति ॥ मत्पक्षे भव इत्यर्थः । कर्णललाटात् ॥ ‘शरीरावयवाच्च' इति यतोऽपवादः । कर्णिका । ललाटिकेति ॥ कर्णे ललाटे वा भवोऽलङ्कारः इत्यर्थः । स्त्रीत्वं लोकात् । टापि प्रत्ययस्थात्' इति इत्त्वम् । तस्य व्याख्यायते इति च ॥ व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः । करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात् षष्ठ्यन्ताद्भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः ‘तत्र भवः’ इत्यस्य समुच्चयार्थः । सौप इति ॥ औत्सर्गिकोऽण् । तैङ इति ॥ तिङां व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति ॥ कृतां व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति । सुप्सु भवं सौपमिति ॥ नच 'तस्येदम्, तत्रभवः’ इत्याभ्यामेव सिद्धत्वादिदं सूत्रं व्यर्थमिति वाच्यम् । अर्थद्वयनिर्देशस्य अपवादभूतवक्ष्यमाणठञ्आदिविधानाय तदावश्यकत्वात्” इति भाष्ये स्पष्टम् । बह्वचोऽन्तोदात्ताट्ठञ् ॥ अन्तोदात्ताद्वह्वचः उक्तविषये ठञ् स्यात् । अणोऽपवादः । क्रतुयज्ञेभ्यश्च ॥ सोमेति ॥ सोमलताद्रव्यकयागेषु क्रतुशब्दो यज्ञः शब्दश्च प्रसिद्ध इत्यर्थः । तर्ह्यन्यतरग्रहण व्यर्थम् । बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह । तत्रेति । गृह्यन्ते इति ॥ ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागाः विवक्षिता इति भावः । एवञ्च सोमयागविशेषवाचिभ्यः तदितरयागविशेषवाचिभ्यश्च उक्तविषये आग्निष्टोमिकः । वाजपेयिकः । राजसूयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अनन्तोदात्तार्थ आरम्भः ।

१४४८ । अध्यायेष्वेवर्षेः । (४-३-६९)

ऋषिशंब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठः, तस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः । 'अध्यायेषु' किम् वासिष्ठी ऋक् ।

१४४९ । पौरोडाशपुरोडाशात्ष्ठन् । (४-३-७०)

पुरोडाशसहचरितो मन्त्रः पुरोडाशः । स एव पौरोडाशः । ततः ष्ठन् । पौरोडाशिकः । पुरोडाशिक ।

१४५० । छन्दसो यदणौ । (४-३-७१)

छन्दस्यः-छान्दसः ।

१४५१ । द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् । (४-३-७२)


ठञित्यर्थः । पाकयज्ञिक इति ॥ औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः पाकयज्ञाः, तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः। नावयज्ञिक इति । नूतनद्रव्यकः आग्रयणाख्यः यज्ञः नवयज्ञः । ननु पूर्वसूत्रेण सिद्धे किमर्थमिदमित्यत आह । अनन्तोदात्तार्थ इति ॥ वाजपेयशब्दो मध्योदात्तः तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दः अन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः, समासस्वरेणान्तोदात्त एव । तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तते इति न दोषः । अध्यायेष्वेवर्षेः ॥ वसिष्ठेन दृष्टो मन्त्रो वसिष्ठ इति ॥ लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति ॥ कश्चित् ग्रन्थविशेषोऽयम् । वासिष्ठी ऋगिति ॥ ऋचः अध्यायसमाख्याभावात् न ठञिति भावः । पौरोडाश ॥ उक्तविषये इति शेषः । पुरोडाशेति ॥ पुरोडाशशब्दसहितो मन्त्रः लक्षणया पुरोडाश इत्युच्यते इत्यर्थः । स एव पौरोडाशा इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति ॥ पौरोडाशात् ष्ठनि रूपम् । पुरोडाशिक इति ॥ पुरोडाशशब्दात् ष्ठनि रूपम्, षित्वात् ङीष् । पुरोडाशिकी-पौरोडाशिकी । छन्दसो यदणौ । तस्य व्याख्याने तत्र भवे चेति शेषः । छन्दस्यः-छान्दस इति ॥ छन्दसां व्याख्यानः तत्र भवो वेत्यर्थः ।द्व्यजूलक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः । द्व्यजृद्ब्राह्मण ॥ द्व्यच्, ऋत, ब्राह्मण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन्, आख्यात, एभ्यः ठक् स्यात् । तस्य द्व्यचः । शैषिकः । पाशुकः । ऋतः चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः, इत्यादि ।

१४५२ अणृगयनादिभ्यः । (४-३-७३)

ठञादेरपवादः । आर्गयन: । औपनिषदः । वैयाकरणः ।

१४५३ । तत आगतः । (४-३-७४)

स्नुघ्नादागत: स्नौघ्नः ।

१४५५ । ठगायस्थानेभ्यः । (४-३-७५)

शुल्कशालायाः आगतः शौल्कशालिकः ।

१४५५ । शुण्डिकादिभ्योऽण् । (४-३-७६)

आयस्थानठकश्छादीनां चापवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः । तैर्थः । औदपानः ।


व्याख्याने तत्र भवे च । शैषिक इति ॥ शेषस्य व्याख्यानः तद्भवो वेत्यर्थः । पाशुक इति ॥ पशुयागप्रतिपादकग्रन्थः पशुः, तस्य व्याख्यानः तत्र भवो वेत्यर्थ । उकः परत्वात् ठस्य कः । ऋत इति ॥ उदाह्रियते इत्यर्थः । चातुर्होतृक इति । ‘चित्तिस्रुक्’ इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानः तत्र भवो वेत्यर्थः । ब्राह्मणिकः । आर्चिक इति ॥ ब्राह्मणानि मन्त्रव्यतिरिक्तवेदभागाः । तेषामृचां वा व्याख्यानः तत्र भवो वेत्यर्थः । इत्यादीति ॥ प्राथमिकः, आध्वरिकः, पौरश्चरणिक:, नामिकः, आख्यातिकः । अणृगयनादिभ्यः । तस्य व्याख्याने तत्र भवे चेति शेषः । आर्गयन इति || ॠग- यनम् ऋक्संहिता, तस्य व्याख्यानः तत्र भवो वेत्यर्थः । “बह्वचोऽन्तोदात्तात्' इति ठञि प्राप्ते अण्| औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः एवं वयाकरणः| 'न य्वाभ्याम्' इत्यैच् । अण्ग्रहणन्तु छबाधनार्थम् |अन्यथा अणा युक्ते छो दुर्वारः स्यादित्याहुः । तत आगतः । अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थ:| स्रौघ्न इति । औत्सर्गिकोऽण् । ठगायस्थानेभ्यः । तत आगतः इत्यर्थ इति शेषः| हट्टादिषु स्वामिग्राह्यो भागः आयः| स यस्मिन् गृह्यते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः । शुण्डिकादिभ्योऽण् ॥ तत आगत इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहित- ठगपवादः । कार्कण इति ॥ कृकणादागत इति शेषः । 'कृकणपर्णाद्भारद्वाजे' इति छस्यापवादः| तैर्थ इति ॥ धूमादिवुञोऽपवादः । औदपानः इति ॥ अत्र उत्सादित्वादञ् प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अणेव

७७२
[शैषिक
सिद्धान्तकौमुदीसहिता

१४५६ । विद्यायोनिसम्बन्धेभ्यो वुञ् । (४-३-७७)

औपाध्यायकः । पैतामहकः ।

१४५७ । ऋतष्ठञ् । (४-३-७८)

वुञोऽपवादः । हौतृकम् । भ्रातृकम्

१४५८ । पितुर्यच्च । (४-३-७९)

चाट्ठञ् । “रीङृतः' (सू १२३४) । 'यस्येति च' (सू ३११) इति लोपः | पित्र्यम्---पैतृकम् |

१४५९ । गोत्रादङ्कवत्। (४-३-८०)

बिदेभ्यः आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ।

१४६० । नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । (७-३-३०)

नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः, पूर्वपदस्य तु वा, ञिदादौ परे । आशौचम्-अशौचम् । आनैश्वर्यम्-अनैश्वर्यम्। आक्षैत्रज्ञम्-अक्षैत्रज्ञम् । आकौशलम्-अकौशलम् । आनैपुणम्-अनैपुणम् ।


स्यात् । विद्यायोनि ॥ तत आगत इत्येव । औपाध्यायकः । पैतामहक इति ॥ उपाध्यायात्पितामहाच्च आगत इत्यर्थः । ऋतष्ठञ् ॥ ॠदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । तत आगत इत्येव । हौतृकम् ॥ भ्रातृकमिति ॥ उकः परत्वात् ठस्य कः । पितुर्यच्च ॥ यति प्रक्रियान्दर्शयति । रीङृत इति । गोत्रादङ्कवत् ॥ अङ्के ये प्रत्ययाः ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः| बिदेभ्यः आगतमिति ॥ विग्रहप्रदर्शनम् । अत्र 'यञञोश्च' इति बहुत्वे अञो लुकि बिदेभ्य इति निर्देशः । बैदमिति ॥ 'सङ्घाङ्कलक्षणेष्वञ्याञिञामण्' इत्युक्तेरञन्तादिहाप्यर्थे अणि विवक्षिते 'गोत्रे लुगचि' इत्यञो लुड्निवृत्तौ बैदशब्दादण् । द्व्यजृद्द्राह्मण’ इति द्व्यज्लक्षणस्य ठकोऽपवादः । गार्गमिति ॥ यञन्तादण् । दाक्षमिति ॥ इञन्तादण्|औपगवकमिति|| उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थ | 'गोत्रचरणा- द्रुञ्' इति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ् विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हि ‘सङ्घाङ्क’ इति प्रतिपदोक्तस्याण एवात्रातिदेशः । किन्तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः । नञः शुचीश्वर ॥ आदिवृद्धिप्रकरणे उत्तर पदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम्-अशौचम् इति ॥ अशुचेरागतमित्यर्थः । तत आगत इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उत्तरपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि । आनैश्वर्यमित्यादि । अनीश्वरात् अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थः ।

प्रकरणम्]
७७३
बालमनोरमा ।

१४६१ । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । (४-३-८१)

समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम्-देवदत्तम्-देवदत्तीयम् ।

१४६२ । मयट् च । (४-३-८२)

सममयम् । विषममयम् । देवदत्तमयम् ।

१४६३ । प्रभवति । (४-३-८३)

'तत:’ इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ।

१४६४ । विदूराञ्ञ्यः । (४-३-८४)

विदूरात्प्रभवति वैदूर्यो मणिः ।

१४६५ । तद्गच्छति पथिदूतयोः । (४-३-८५)

स्रुघ्नं गच्छति स्रौघ्नः पन्थाः दूतो वा

१४६६ । अभिनिष्क्रामति द्वारम् । (४-३-८६)

'तत्' इत्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ।

१४६७ । अधिकृस्य कृते ग्रन्थे । (४-३-८७)

'तत्' इत्येव । शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीय: । 'शारीरकं भाष्यम्' इति त्वभेदोपचारात् ।

१४६८ । शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः । (४-३-८८)


हेतुमनुष्येभ्यः ॥ तत आगत इत्येव । हेतुभ्यः उदाहरति । समादागतमित्यादि । मनुष्यवाचिन उदाहरति । देवदत्तरूप्यमिति ॥ मयट् च । उक्तविषये इति शेषः । प्रभवति । तत इत्येवेति ॥ आगत इति तु निवृत्तम् । प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रभवः प्रथमं प्रकाशः । हिमवतः प्रभवतीति ॥ हिमवति प्रथमं प्रकाशते इत्यर्थः । 'भुवः प्रभवः' इत्यपादानत्वम् । विदूराञ्ञ्यः । ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः । वालवायाख्यदेशपर्यायो विदूरशब्दश्च इति भाष्ये स्पष्टम् । तद्ग- च्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः स चेद्गन्ता पन्थाः दूतो वेत्यर्थः । अभिनिष्क्रामति द्वारम् ॥ कान्येति । कन्याकुब्जाख्यजनपदस्य द्वारमित्यर्थः । अधि- कृत्य । तदित्येवेति । अधिकृतो ग्रन्थ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारी- रकमिति । शरीरस्यायं शारीरः जीवात्मा, तमित्यर्थः । तस्येदमित्यणन्तात् स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः । शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि,

७७४
[शैषिक
सिद्धान्तकौमुदीसहिता

शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य, कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ।

१४६९ । सोऽस्य निवासः । (४-३-८९)

स्रुघ्नो निवासोऽस्य स्रौघ्नः ।

१४७० । अभिजनश्च । (४-३-९०)

स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । “यत्र स्वयं वसति स निवासः'। “यत्र पूर्वैरुषितं सोऽभिजनः' इति विवेकः ।

१४७१ । आयुधजीविभ्यश्छः पर्वते । (४-३-९१)

पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्रोलीयाः । 'आयुध-' इति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ।

१४७२ । शण्डिकादिभ्यो ञ्यः । (४-३-९२)

शण्डिकोऽभिजनोऽस्य शाण्डिक्यः । .

१४७३ । सिन्धुतक्षशिलादिभ्योऽणञौ । (४-३-९३)

सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ।

१४७४ । तुदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । (४-४-९४)


एभ्यः छः स्यादधिकृत्यकृते ग्रन्थे इत्यर्थः । निपातनादिति ॥ ‘सभा राजा’ इति तु नपुंसकत्वन्न भवति । तत्र 'अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह' इत्युक्तेरिति भावः । सोऽस्य निवासः ॥ आस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । यत्र सम्प्रत्युष्यते स निवासः इति भाष्यम् । अभिजनश्च । स इत्यनुवर्तते । पूर्ववद्याख्येयम् । यत्र पूर्वेरुषित सोऽभिजन इति भाध्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः । आयुधजीविभ्यः । पर्वतादिति पाठान्तरम् । आभिजनशब्दादिति ॥ अभिजनदेशवाचिन इत्यर्थः । आयुध- जीविनोऽभिधातुम्प्रवृत्तेभ्यः इति शेषः । सूत्रे 'क्रियार्थोपपदस्य’ इति चतुर्थी । हृद्गोल इति ॥ पर्वतविशेषोऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः । शण्डिकादिभ्यो ञ्यः ॥ सोऽभिजन इत्यर्थे प्रथमान्तेभ्यः इति शेषः । सिन्धुतक्ष ॥ सैन्धव इति ॥ सिन्धु- र्देशविशेषः अभिजनोऽस्येति विग्रहः । तुदीसलातुर ॥ तुदी सलातुर वर्मती कूचवार

प्रकरणम्]
७७५
बालमनोरमा ।

तुदी अभिजनोऽस्य तौदेयः । सालातुरीयः । वार्मतेयः । कौचवार्यः ।

१४७५ । भक्तिः । (४-३-९५)

'सोऽस्य' इत्यनुवर्तते । भज्यते सेव्यत इति भक्तिः, स्रुघ्नो भक्तिरस्य स्रौघ्नः |

१४७६ ।। अचित्ताददेशकालाट्ठक् । (४-३-९६)

अपूपा भक्तिरस्य आपूपिकः । पायसिकः । 'अचित्तात्' किम् । दैव- दत्तः । 'अदेशात्' किम् । स्रौघ्नः । 'अकालात्' किम् । ग्रैष्मः ।

१४७७ । महाराजाट्ठञ् । (४-३-९७)

माहाराजिकः ।

१४७८ । वासुदेवार्जुनाभ्यां वुन् । (४-३-९८)

वासुदेवकः । अर्जुनकः ।

१४७९ । गोत्रक्षत्रियाख्येभ्यों बहुळं वुञ् । (४-३-९९)

अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचु- कायनकः । नाकुलकः । बहुळग्रहणान्नेह । पाणिन भक्तिरस्य पाणिनीयः ।


एभ्यः प्रथमान्तेभ्यः ढक्, छण्, ढञ्, यक्, एते स्यु. अस्याभिजन इत्यर्थे। भक्तिः ॥ अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । अचित्ताददेश ।। देशकाल- व्यतिरिक्ताप्राणिवाचिनः ठक् स्यादुक्तविषये। अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्ति- रित्येकवचनम् । वेदाः प्रमाणमितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः । महाराजाट्ठञ् ॥ सोऽस्य भक्तिरित्यर्थे इति शेषः । माहाराजिक इति । महाराजः भक्तिरस्येति विग्रहः । वासुदेव ॥ सोऽस्य भक्तिरित्येव । वासुदेवक इति ॥ वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्यमित्यर्थे ‘ॠष्यन्धकवृष्णिकुरुभ्यश्च' इति वार्ष्णेयत्वादणि वासुदेवशब्दात् ‘गोत्रक्षत्रियाख्येभ्यो बहुळं वुञ्’ इति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम् । अणन्तो वासुदेवशब्दोऽत्र न गृह्यते । किन्तु यस्मिन् समस्तं वसति यो वा समस्ते वसति स वासुः, स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योग- रूढ एवेति न दोषः । उक्तञ्च भाष्ये “नैषा क्षत्रियाख्या संज्ञैषा तत्रभवतः” इति । गोत्रक्षत्रिय ॥ गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्च उक्तविषये बहुळं वुञ् स्यादित्यर्थः । इह न पारिभाषिकङ्गोत्रम्। छं बाधते इति ॥ औपगव इत्यादाविति शेषः । ग्लुचुकायनिरिति ॥ “प्राचामवृद्धात्' इति फिनि ग्लुचुकायनिशब्दः । नाकुलक इति ॥ क्षत्रियाख्योदाहरणम् ।

७७६
[शैषिक
सिद्धान्तकौमुदीसहिता

१४८० । जनपदिनां जनपदवत्सर्वं जनपदेन समान- शब्दानां बहुवचने । (४-३-१००)

जनपदस्वामिवाचिनां बहुवचने जनपदवाचिना समानश्रुतीनां जनपद- वत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । 'जनपदतदवध्योश्च' (सू १३४८) इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाः जनपदो भक्तिरस्य आङ्गकः । अङ्गाः क्षत्रियाः भक्तिरस्य आङ्गकः । ‘जनपदिनाम्’ किम् । पञ्चालाः ब्राह्मणाः भक्ति- रस्य पाञ्चालाः । 'जनपदेन' इति किम् । पौरवो राजा भक्तिरस्य पौरवीयः ।

१४८१ । तेन प्रोक्तम् । (४-३-१०१)

पाणिनिना प्रोक्तं पाणिनीयम्

१४८२ ॥ तित्तिरिवरतन्तुखण्डिकोखाच्छण् । (४-३-१०२)

'छन्दोब्राह्मणानि -' (सू १२७८) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तेत्तिरीयाः ।


जनपदिनाम् । बहुवचने परे ये जनपदसमानशब्दाः जनपदवाचिशब्देन समानः शब्दः श्रवणं येषां तथाविधाः तेषां जनपदिनाञ्जनपदस्वामिवाचिनां जनपदवत् जनपदे इव सर्व स्यादित्यर्थः । “जनपदतदवध्योश्च' इति प्रकरणे ये प्रत्यया विहिताः ते भवन्ति, प्रकृतयोऽपि तथैव भवन्तीति तु सर्वशब्दाल्लभ्यते । तदाह। जनपदस्वामिवाचिनामित्यादिना। अङ्गा जनपद् इति ॥ दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः अङ्गाः,'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । सः जनपदः भक्तिरस्येत्यर्थे 'जनपदतदवध्योश्च' इति वुञ्प्रत्यये आङ्गकः इति यथा तथा अङ्गदेशस्वामिनः क्षत्रियाः अङ्गाः भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद्वुञि आङ्गका इति रूपमित्यर्थः । पञ्चाला ब्राह्मणा इति । अभेदोपचारादिह ब्राह्मणेषु पञ्चालशब्दः। तत्रातिदेशाभावादणेव भवति । पौरव इति ।॥ पौरवशब्दो न जनपदवृत्ति- रिति भावः । बहुवचने किम् । जनपदादिवचनयोः सत्यपि शब्दभेदे अतिदेशो भवति । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् । मद्राणां राजा माद्रः । 'द्व्यञ्मगध' इत्यण् । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सति 'मद्रव्रज्योः' इति कनि माद्रक इति सिद्ध्यति । तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति । व्याकरणमिति शेषः । वृद्धाच्छः. । प्रथम- म्प्रकाशितम्प्रोक्तम्। नेह देवदत्तेनाद्ध्यापितम् । तित्तिरिवरतन्तु। तेन प्रोक्तमित्येव। तित्तिरि, वरतन्तु, खण्डिक, उखा, एभ्यः उक्तविषये छण् स्यादित्यर्थः। इत आरभ्य 'तेनैकदिक्’ इतिपर्य- न्तम्प्रोक्ते वेदे भवन्ति ‘शौनकादिभ्यः छन्दसि' इति छन्दोग्रहणस्य ततः पूर्वन्ततः उत्तरञ्चाप- कर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषाङ्केवलानान्न प्रयोगः । किन्त्वध्येतृवेदितृ

प्रकरणम्]
७७७
बालमनोरमा ।

१४८३ । काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । (४-३-१०३)

काश्यपेन प्रोक्तमधीयते काश्यपिनः।

१४८४ । कलापिवैशम्पायनान्तेवासिभ्यश्च । (४-३-१०४)

कलाप्यन्तेवासिभ्यः– हरिदुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पा यनान्तेवासिभ्यः-आलम्बिनः ।

१४८५ । पुराणप्रोक्तषु ब्राह्मणकल्पेषु । (४-३-१०५)

तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् । यत्प्रोक्तं पुराणप्रोक्ताश्चेद्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन,


प्रत्ययशिरस्काणामेवेत्याह । छन्दोब्राह्मणानीति ॥ तद्विषयतेति । अध्येतृवेदितृप्रत्यय शिरस्कत्वन्त्वनियम इत्यर्थः । तैत्तिरीया इति ॥ प्रोक्ते वेदे छण् ईयः । तैत्तिरीयः शाखाभेदः तमधीयते विन्दन्ति वेत्यर्थे अण् । ‘प्रोक्ताल्लुक्’ इति तस्य लुगिति भावः। चारतन्तवीयाः खाण्डि कीयाः औखीयाः । तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र तु न । छन्दसीत्यनुवृत्तेः । छन्दशब्देन च। कल्पसूत्राणामपि ग्रहणम् । तेषां सर्वेशाखागतविधिवाक्यसङ्गहात्मकत्वात् । काश्यप ॥ तेन प्रोक्तमित्येव । छस्यापवादः । काश्यपिन इति ॥ काश्यपशब्दात् णिनिः । णकार इत् , नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात् ‘प्रोक्ताल्लुक्’ इत्यध्येतृप्रत्ययस्याणो लुगिति भावः । एवं कौशिकिनः । ऋषिभ्याङ्किम् । इदानीन्तनेन काश्यपेन प्रोक्तं काश्यपीयम् । कलापि ॥ तेन प्रोक्तमित्येव । कलापिशिष्यवाचिभ्यः वैशम्पायनाशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्यः इति ॥ उदाह्रियते इति शेषः । हारिद्रविण इति ॥ हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः, ओर्गुण’, आदिवृद्धिः । हारिद्रविन्शब्दादध्येत्रण: * प्रोक्ता ल्लुक्' इति लुगिति भावः । हरिद्रुः, छगली, तुम्बुरुः, उलपः इति चत्वारः कलापिशिष्याः । तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते । औलपिनः । वैशम्पायनाः न्तेवासिभ्यः इति ॥ उदाह्रियते इति शेषः । आलम्बिन इति ॥ आलम्बिः, कलिङ्ग कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति नव वैशम्पायनशिष्याः । तत्र आलम्बशब्दात् अध्येत्रणः प्रोक्ते णिनिः । आलम्बिन्शब्दादध्येत्रणः ‘प्रोक्ताल्लुक्’ इति लुक् । आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः, अत्र आपेत्यस्य' इति यलोपः। श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण् वक्ष्यते । वैशम्पायनशिष्यः कलापी। तथाच कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात् तच्छिष्यशिष्याणां न ग्रहणामिति भाष्ये स्पष्टम् । पुराणप्रोक्तषु ॥ 'तेन प्रोक्तम्' इति णिनिः इति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागाः ब्राह्मणानि । बोधायनादिकल्पसूत्राणि कल्पाः । तथाभूतेषु पुरातनमुनि प्रोक्त्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह । तृतीयान्तादिति ॥ यत्प्रो क्तमिति ॥ सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राह्मण कल्पात्मकश्चेति यावत् । पुराणप्रोक्तमित्येतद्याचष्टे । पुराणेनेति ॥ ब्राह्मणे उदाहरति । ७७७ 98

७७८
[शैषिक
सिद्धान्तकौमुदीसहिता

शाट्यायनिनः । कल्पे, पिङ्ग पैङ्गी कल्पः । “पुराण-' इति किम् । याज्ञवल्कानि ब्राह्मणानि । आश्मरथ: कल्पः । अणि । “ आपत्यस्य-' (सू १०८२) इति यलोपः ।

१४८६ । शौनकादिभ्यश्छन्दसि । (४-३-१०६)

छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ।

१४८७ । कठचरकाल्लुक् । (४-३-१०७)

आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ।

१४८८ । कलापिनोऽण् । (४-३-१०८)

कलापिना प्रोक्तमधीयते । कालापाः । नान्तस्य टिलोपे सब्रह्मचारि पीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्व णामुपसङ्खयानम्' (वा ४१८३) इत्युपसङ्खयानाट्टिलोपः ।

१४८९ । छगलिनो ढिनुक् । (४-३-१०९)


भल्लु, भाल्लविनः इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान् ब्राह्मणभागानधीयते इत्यर्थे प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि भाल्लविन् इति रूपमिति भावः। ब्राह्मणे उदाहरणान्तरमाह।शाट्यायन्, शाट्यायनिन इति।। शाट्या- यनेति प्रकृतिनिर्देशः । शाट्यायनेन पुरातनमुनिना प्रोक्तान् ब्राह्मणभागान् अधीयते इत्यर्थे प्रोक्तार्थणिनिप्रत्यये शाट्यायनिन्शब्दादध्येत्रणो लुकि शाट्यायनिन इति रूपमित्यर्थः । कल्पे इति ॥ उदाह्रियते इति शेषः । पिङ्ग पैङ्गी कल्प इति ॥ पिङ्गेति प्रकृतिनिर्देशः पिङ्गेन पुरातन मुनिना प्रोक्त इत्यर्थे णिनि रूपम् । ‘छन्दोब्राह्मणानि च तद्विषयाणि' इत्यध्येतृप्रत्ययान्तत्वनियमस्तु कल्पेषु न सर्वत्र प्रवर्तत इति 'छन्दो ब्राह्मणानि' इति सूत्रे भाष्ये स्पष्टम् । याज्ञवल्कानि ब्राह्मणानीति ॥ याज्ञवल्क्येन प्रोक्तानीत्यर्थः । आश्मरथः कल्प इति ॥ आश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति ॥ यज्ञवल्काश्वरथशब्दौ कण्वादी । ताभ्यां यजन्ताभ्याम् अणि ‘आपत्यस्य च' इति यलोप इत्यर्थः । याज्ञवल्क्याश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाट्याय नादितुल्यकालत्वात् याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्ध मित्यास्तान्तावत् । कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति ॥ प्रकरणलभ्यम् । कठाः इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्’ इति लुक् । चरकाः इति । चरकेण प्रोक्तमधीयते इत्यर्थः । प्रोक्ताणोऽनेन लुकि अध्येत्रणः प्रोक्ताल्लुक् । कलापिनोऽण् ॥ 'तेन प्रोक्तम्' इत्येव । वेशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः । ‘इनण्यनपत्ये' इति प्रकृतिभावमाशङ्कय आह । नान्तस्येति । छगलिनो ढिनुक् ॥

प्रकरणम्]
७७९
बालमनोरमा ।

छगलिना प्रोक्तमधीयते छागलेयिनः ।

१४९० । पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । (४-३-११०)

णिनिः स्यात् । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः।

१४९१ । कर्मन्दकृशाश्वादिनिः । (४-३-१११)

iभक्षुनटसूत्रयोः' इत्येव । कर्मेन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः ।

१४९२ । तेनैकदिक् । (४-३-११२)

सुदाम्ना अद्रिणा एकदिक् सौदामनी ।

१४९३ । तसिश्च । (४-३-११३)

खरादिपाठादव्यत्वम् । पीलुमूलेन एकदिक् पीलुमूलतः ।

१४९४ । उरसो यच्च । (४-३-११४)

चात्तसिः । अणोऽपवादः । उरसा एकदिक् उरस्य:-उरस्तः ।


छगलिन्शब्दादुक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात् प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत्, उकार उच्चारणार्थः । ढिन् शिष्यते । ढस्य एय्, टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य ॥ णिनिः स्यादिति । उक्तविषये इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शला लिना प्रोक्तन्नटसूत्रमित्यर्थे च तृतीयान्ताण्णिनिः स्यादिति यावत् । भिक्षवः सन्यासिनः, तदधि कारिकं सूत्रं भिक्षुसूत्रं व्यासप्रणीतं प्रसिद्धम् । पाराशर्येणेति ॥ पराशरशब्दाद्भर्गा दित्वात् गोत्रे यञि पाराशर्यः व्यासः। इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ्। तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरेिण इति ॥ जसि रूपम् । शैलालिन इति ॥ शिलालिन्शब्दात् नटसूत्रे प्रोत्ते णिनौ टिलोपे शिलालिन्शब्दादध्येतृ प्रत्ययस्याणो लुकि शैलालिन इति जसि रूपमिति भावः । कर्मन्द ॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे कृशाश्वेन प्रोक्तन्नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवं कृशाश्विनः । तेनैकदिक् ॥ सहार्थे तृतीया । एका दिक् अधिकरणात्मिका यस्य तदेकदिक् ।तेन सह

एकस्यान्दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितम्प्रत्ययाः स्युरित्यर्थः । सौदामनीति ॥ अणि * अन्’ इति प्रकृतिभावान्न टिलोपः । तसिश्च ॥ 'तेनैकदिक्' इत्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति ॥ 'स्वरादिनिपातमव्ययम्' इति

प्रकरणे ‘तद्धितश्चासर्वविभक्तिः’ इत्यत्र ‘तसिलादयः’ इति परिगणने तसेः पाठादित्यर्थः । उरसो
७८०
[शैषिक
सिद्धान्तकौमुदीसहिता

१४९५ । उपज्ञाते । (४-३-११५)

तेन' इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् ।

१४९६ । कृते ग्रन्थे । (४-३-११६)

वररुचिना कृतो वाररुचो ग्रन्थ: ।

१४९७ । संज्ञायाम् । (४-३-११७)

तेन' इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिक मधु ।

१४९८ । कुलालादिभ्यो वुञ् । (४-३-११८)

तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ।

१४९९ । क्षुद्राभ्रमरवटरपाद्पादञ् । (४-३-११९)

तेन कृते संज्ञायाम्। क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम्। पादपम्।

१५०० । तस्येदम् । (४-३-१२०)

उपगोरिदमौपगवम् । *वहेस्तुरणिट् च' (वा १९१०) । संवोढुः स्वं सांवहेित्रम् । ‘अग्नीधः शरणे रण भत्वं च' (वा २९११) । अग्निमिन्धे अग्नीत्।


यञ्च ॥ उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः । उपज्ञाते ॥ तनोपज्ञातमित्यर्थे तृतीया न्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं प्रथमज्ञातम् । कृते ग्रन्थे ॥ तेन कृतो ग्रन्थः इत्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायाम् ॥ तेनेत्येवेति ॥ तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । ग्रन्थे इति नानुवर्तते । तदाह । अग्रन्थार्थमिति । कुलालादिभ्यो वुञ् ॥ तेन कृते सज्ञायामिति शेषपूरणम् । वारुडकमिति ॥ वरुडो जातिविशेषः । क्षुद्राभ्रमर ॥ तेन कृते संज्ञायामिति शेष पूरणम्। क्षुद्रा मधुमक्षिकाः। तस्येदम्। इदमित्यर्थे षष्ठयन्तादणादयः साधारणप्रत्ययाः राष्ट्रावारे त्यादिविशिष्यविहिताः घादयश्च प्रत्ययाः यथाविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरर्थ्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनान्तु न केनापि रूपेण इदंशब्दार्थत्वमिति “तस्यापत्यम्' इत्यत्रोक्तम् । वहेस्तुरणिट् चेति ॥ वार्तिकमिदम् । तुरिति तृन्तृचोः सामान्येन ग्रहणम् । वहधातो र्विहितः यः तृप्रत्ययः तस्मादण् स्यात् तृप्रत्ययस्य इडागमश्च । तत्र अण् पूर्वेण सिद्धः इड़्विध्यर्थमनूद्यते । संवोदुः स्वमिति । विग्रहप्रदर्शनम्। वहेस्तृच्, तृन् वा । वहेरनु दात्तत्वात् 'एकाच उपदेशे' इति नेट् । 'सहिवहोरोदवर्णस्य’ इत्योत्त्वम् । ढत्वधत्वष्टत्व ढलोपाः । सांवहेित्रमिति ॥ ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वादि । अग्नीधश्शरणे रण भत्वञ्चेति ॥ वार्तिकमिदम् । प्रकरणम्] बालमनोरमा । ७८१

तस्य स्थानमाग्रीध्रम् । तात्स्थ्यात्सोऽप्याग्रीध्रः । 'समिधामाधाने षेण्यण' (वा २९१२) । सामिधेन्यो मन्त्रः-सामिधेनी ऋक् ।

            १५०१ । रथाद्यत । (४-३-१२१)

रथ्यं चक्रम्

            १५०२ । पञ्चपूर्वाद्ञ् । (४-३-१२२)

पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ।

            १५०३ । पञ्चाध्वर्युपरिषद्श्च । (४-३-१२३)
  अब् । 'पत्राद्वाहये' (वा २९०८) । अश्वस्येदं वहनीयमाश्वम् ।

आध्वर्यवम् । पारिषदम् ।

            १५०४ । हलसीराट्टक् । (४-३-१२४)

हालिकम् । सैरिकम् ।

            १५०५ । द्वन्डाडुन्वैरमैथुनिकयोः । (४-३-१२५)


शरणमित्यर्थे अग्रीच्छब्दात् षष्ठयन्तादण्, तस्मिन्परे भत्वञ्च वक्तव्यमित्यर्थः । शरणं गृहम् । अग्निभिन्धे अग्नीदिति ॥ ऋत्विग्विशेषोऽयम् । इन्धेः किप् । 'अनिदिताम्’ इति नलोपः । आग्रीध्रमिति ॥ सोमे महावदेरुत्तरार्धे पञ्चारन्निचतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान्न जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तोऽयं शब्दः । तैत्तिरीये ‘एतद्वै यज्ञस्यापराजित यदाम्री

ध्रमित्यादावाद्युदात्तत्वन्तु 'आग्रीध्रसाधारणादञ् चत्क्तव्यः’ इति स्वार्थिके अञि बोध्यम् ।

नन्वेवम् “ आग्नीध्रः प्रत्याश्रावयेत्” इत्यादौ कथमृत्विग्विशेषे आग्रीध्रशब्द । तत्राह । तात्स्थ्यादिति ॥ आग्रीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति ॥ आधीयते अनेनेत्याधानः मन्त्रः । आधानो मन्त्रः इत्यर्थे षष्ठयन्तात् समिच्छब्दात् षेण्यण्प्रत्ययो वाच्य इत्यर्थः । षत्वं डीषर्थमित्याह । सामिधेनी ऋगिति ॥ सामिधेन्यशब्दात् डीष् “हलस्तद्धितस्य' इति यलोपः । रथाद्यत् ॥ ‘तस्येदम्' इत्येव । रथ्यं चक्रमिति ॥ 'रथाद्रथाङ्गः’ इति वचनाच्चक्रमिति विशेष्यम् । पत्रपूर्वादञ् ॥ रथा- दित्येव । पत्रं वाहनमिति ॥ “पत्रं वाहनपक्षयोः' इति कोशः । पत्राध्वर्युपरिषदश्च ।। अञिति ॥ शेषपूरणम् । पत्त्रादिति । पत्राद्वाह्य एवेति वक्तव्यमित्यर्थः । आश्वमिति ॥ पत्रेत्यर्थग्रहणामिति भावः । आध्वर्यवम् । पारिषदमिति ॥ अध्वर्योरिदं परिषद इदमिति विग्रहः । हलसीराट्ठक् ॥ तस्येदमित्येव । हालिकम् । सैरिकमिति ॥ हलस्वेदं सीरस्येदमिति विग्रहः । द्वन्द्वादुन् ॥ वैरे मैथुनिकायाश्च इदन्त्वेन विवक्षिते द्वन्द्वात् षष्ठयन्तात् बुन् स्यादित्यर्थः । काकोलूकिकेति ॥ काकोलूकस्य वैरमित्यर्थः । बुनि स्त्रीत्वं लोकात् । ७८२ सिद्धान्तकौमुदीसहिता [शैषिक


काकोलूकिका । कुत्सकुशिकेिका । 'वैरे देवासुरादिभ्यः प्रतिषेध' (वा २९१४) । दैवासुरम् ।

१५०६ । गोत्रचरणाडुञ् । (४-३-१२६)

औपगवकम् । 'चरणाद्धर्मान्नाययोरि ति' वक्तव्यम्’ (वा २७१३) काठकम् ।

१५०७ । सङ्काङ्कलक्षणेष्वञ्यञिञामण् । (४-३-१२७)

'घोषग्रहणमपि कर्तव्यम्’ (वा २९१५) । अञ् । बैदः सङ्कोऽङ्को घोषो वा बैदं लक्षणम् । यञ् , गार्गः-गार्गम् । इञ्, दाक्षः-दाक्षम् । परम्परासम्बन्धोऽङ्कः । साक्षात्तु लक्षणम् ।

१५०८ । शाकलाद्वा । (४-३-१२८)

अण्वोत्तेऽर्थे । पक्षे चरणत्वादुञ्। शकलेन प्रोक्तमधीयते शाकलाः, तेषां सङ्कोऽङ्को घोषो वा शाकलः-शाकलकः । लक्षणे क्लीबता ।


कुत्सकुशिकिकेति ॥ कुत्सकुशिकयोर्विवाह इत्यर्थः । बुनि स्त्रीत्वं लोकात् । मिथुनं दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद्रुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति ॥ वार्तिकमिदम् । दैवासुरमिति । देवासुरयोवैरमित्यर्थः । वुञ्जभावे अण् । मैथुनिकायान्तु देवासुरिकेल्येव । 'द्वन्द्वे देवासुर' इति त्वपपाठः । अत्र भाष्ये वैर इत्येव वार्तिकपाठात् । 'शिशुक्रन्द’ इति सूत्र भाष्ये तु द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः’ इति पठितम् । दैवासुरम्, रक्षेोसुरमित्युदाहृतञ्च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्रुञ् ॥ गोत्रप्रत्ययान्तात् शाखाध्येतृतः वाचिनश्च षष्ठयन्तादिदमित्यर्थे वुजित्यर्थः । प्रवराध्यायप्रसिद्धमिह गोत्रमित्यभिप्रेत्योदाहरति । औपगवकमिति ॥ औपगवस्येदमित्यर्थः । वस्तुतस्तु औपगवः प्रवरसूत्रेषु न दृष्टः । ग्लैौचु कायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति ॥ चरणाद्यो वुञ् विहितः सः धर्मे आम्राये च वाच्ये भवति नान्यत्रेत्यर्थः । काठकमिति ॥ कठेन प्रोक्तमधीयते कठाः तेषां धर्मः आम्रायो वेत्यर्थः । आम्रायो वेदाभ्यासः । सङ्काङ्क ॥ अञ्जन्तात्, यञ्जन्तात्, इन्ताच्च सङ्के अङ्के लक्षणे च इदन्त्वेन विवक्षिते अणित्यर्थः । छस्यापवादः । घोषेति ॥ सङ्काङ्कलक्षणघोषेषु' इति सूत्रङ्कर्तव्यमित्यर्थः । तथाच तिस्रः प्रकृतयः प्रत्ययार्थाश्चत्वार इति न यथासङ्खयम् । गार्ग इति ॥ सङ्कः अङ्को घोषो वेति शेषः । गार्गमिति ॥ लक्षणमिति शेषः । एवं दाक्षो, दाक्षमित्यत्रापि । नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह । परम्परेति ॥ यथा गवादिनिष्ठस्तप्तमुद्राविशेषः अङ्कः । तस्य हि गोद्वारा स्वामि सम्बन्धः । साक्षादिति ॥ विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । बैदी विद्या । “घोष आभीरपळल्ली स्यात्” इत्यमरः । शाकलाद्वा ॥ शकलेनेति ॥

प्रकरणम्]
७८३
बालमनोरमा ।

१५०९ ॥ छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्य्ः । (४-३-१२९)

छन्दोगानां धर्मः आम्रायो वा छान्दोग्यम्। औक्थिक्यम् । याज्ञिक्यम्। बाह्वृच्यम् । नाट्यम् । 'चरणाद्धर्मान्नाययोः' (वा २९१३) इत्युक्तम् । तत्साहचर्यान्नटशब्दादपि तयोरेव ।

१५१० । न दण्डमाणवान्तेवासिषु । (४-३-१३०)

दण्डप्रधाना माणवा दण्डमाणवाः तेषु शिष्येषु च चुञ्जन स्यात् । दाक्षाः दण्डमाणवाः शिष्या वा ।

१५११ । रैवतिकादिभ्यश्छः । (४-३-१३१)

तस्येदमित्यर्थे । वुञ्जोऽपवादः । रैवतिकीयम् । बैजावापीयम् ।

१५१२ । कौपिञ्जलहास्तिपदाद्ण । (४-३-१३२)

(वा १९१८) । कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् । तदन्ता त्पुनरण् । कौपिञ्जलः । गोत्रवुजोऽपवादः । हस्तिपदस्यापत्यं हास्तिपदः, तस्यायं हास्तिपद्


शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् ‘गोत्रचरणात्' इति धर्मान्नाययोर्यु जोऽपवादः अण् । तदभावे वुञ् । छन्दोगौक्थिक ॥ सङ्कादयो निवृत्ताः । छन्दोगादीनाश्चरण त्वात् । धर्मान्नाययोरिति सम्बछद्यते । छन्दोग, औक्थिक, याज्ञिक, बह्वृच, नट, एभ्यो धर्मे आम्राये च इदन्त्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्रा ययोः कथमन्वय इत्याशङ्कते । चरणाद्धर्माम्नाययोरित्युक्तमिति ॥ यद्यपीति शेषः । परिहरति । तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्मान्नायो रेव प्रत्यय इत्यर्थः । न दण्ड ॥ दण्ड माणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति ॥.दक्षस्यॉपत्यं दाक्षिः, तस्येमे दण्डमाणवाः शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति । किन्त्वौत्सर्गिकः अणेव । रैवतिकादिभ्यश्छः ॥ तस्येदमित्यर्थे इति ॥ शेषपूरणम् । वुञ्ज इति ॥ गोत्रत्वलक्षणबुओोऽपवाद इत्यर्थः । रैवतिकीयमिति ॥ रेवत्या अपत्यं रैवतिकः । रेवत्यादिभ्यष्टक् । रैवतिकस्येदमिति विग्रहः । बैजावापीयमिति ॥ बीजावापस्या पत्यं बीजावापिः, तस्येदमिति विग्रहः । कौपिञ्जलहास्तिपदादण् ॥ कुपिञ्जलेति ॥ कुपिञ्जलस्यापत्यमित्यनन्तरं ‘इत्यर्थ’ इति शेषः । इहेति । अस्मिन् सूत्रे कौपिञ्जलेति निर्देशात् अत इञम्बाधित्वा आणित्यर्थः । तदन्तादिति ॥ अणन्तात् 'तस्यदम्' इत्यर्थे अनेन वार्तिकेन पुनरणित्यर्थः । हस्तिपादस्येति ॥ हस्तिन इव पादौ अस्येति विग्रहः । पादस्य लोप इति

  • अपाणिनीयः सूत्रेषु पाठः' इति कैयटः ।
७८४
[विकारार्थ
सिद्धान्तकौमुदीसहिता

१५१३ । आथर्वणिकस्येकलोपश्च । (४-३-१३३)

अण्स्यात् । आथर्वणिकस्यायमाथर्वणो धर्म आम्रायो वा । चरणाद्रुञ्जो ऽपवादः ।

इति तद्धिते शैषिकप्रकरणम् ।

अथ तद्विते प्राग्दीव्यतीयप्रकरणम् ।

१५१४ । तस्य विकारः । (४-३-१३४)

'अश्मनो विकारे टिलोपो वक्तव्यः' (वा ४१८५) । अश्मनो विकारः आश्मः भास्मनः। मार्त्तिकः।


न भवति । हस्तिपादस्यापत्यं हास्तिपादः । अत इञम्बाधित्वा अत एव निपातनादण् । हस्तिपाद स्यायमित्यर्थे अनेन आणिति भावः । गोत्रबुञोऽपवादः । आथर्वणिकस्येकलोपश्च ॥ इदं सूत्रमिति कैयटः । वार्तिकमित्यन्ये । अण् स्यादिति ॥ आथर्वणिकशब्दात्तस्येदमित्यर्थे अणु स्यात् । प्रकृतेरिकस्य लोपश्चेत्यर्थः । आथर्वणिकस्येति ॥ अथर्वणा प्रोक्तो वेदः अथर्वेत्युप चर्यते, तमधीते आथर्वणिकः । वसन्तादित्वाट्टक् । आथर्वणिकस्यायमित्यर्थे अनेन आणि इको लोपे 'दाण्डिनायन' इति टिलोपाभावे आथर्वण इति रूपमित्यर्थः । धर्म आस्रायो वेति ॥ “चरणाद्धर्मान्नाययोरित्युक्तः” इति भावः । ननु तस्यदमित्येव सिद्धे अणुविधिव्र्यर्थ इत्यत आह । चरणादुञोऽपवाद इति ॥ आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः । इति तद्धिते शैषिकप्रकरणम् । अथ विकारार्थप्रत्यया निरूप्यन्ते—तस्य विकारः ॥ विक्रियते इति विकारः, कर्मणि घञ् । प्रकृतेरवस्थान्तरात्मकां विक्रियां प्राप्त इत्यर्थः । विवकार इत्यर्थे षष्ठयन्तादणादयः साधारणाव वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति ॥ विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः । अनिति प्रकृतिभावापवादः । आाश्म इति ॥ अणि टिलोपे रूपम् । एवञ्चर्मणो विकारः चार्मः कोशः । 'चर्मणः कोशे' इत्युपसङ्खयानाष्टिलोपः भास्मन इति ॥ भस्मनो विकार इत्यर्थः । आणि अनिति प्रकृतिभावान्न टिलोपः । मार्तिक इति ॥ मृत्तिकाया विकार इत्यर्थः । अत्र 'प्राणिरजतादिभ्योऽञ्, ओरञ्, अनुदात्तादेश्च इत्यादिवक्ष्यमाणापवादविषयभिन्नमुदाहरणम् । तत्र अश्मन्, भरस्मन्, चर्मन्, इति त्रयं इदं सूत्रमिति कैयटः । ‘इदमपि वार्तिकमेवेति हरदत्तः' इति विवरणे नागेशः । युक्त्ं च वार्तिकत्वमेव । सूत्रत्वे चकारेण वार्तिकस्थस्याणः सङ्गहस्य क्लिष्टत्वात् ।

प्रकरणम्]
७८५
बालमनोरमा ।

१५१५ । अवयवे च प्राण्यौषधिवृक्षेभ्यः । (४-३-१३५)

चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्व काण्डं भस्म

१५१६ । बिल्वादिभ्योऽण् । (४-३-१३६)

बैल्वम् ।

१५१७ । कोपधाच्च । (४-३-१३७)

अण् । अञ्जोऽपवादः । तर्क, तार्कवम् । तैत्तिडीकम्

१५१८ । त्रपुजतुनोः षुक् । (४-३-१३८)

आभ्यामण् स्याद्विकारे, एतयोः घुगागमश्च । त्रापुषम् । जातुषम्

१५१९ । ओरञ् । (४-३-१३९)

दैवदारवम् । भाद्रदारवम्


मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्त म् । मृत्तिकाशब्दोऽपि 'मृदस्तिकन्' इति तिकन्नन्त नित्स्वरेणाद्युदात्तः । अवयवे च प्राण्यौषधि प्राणिवाचिनः औषधिवाविनो वृक्षवाचि नश्च षष्ठयन्तेभ्यः अवयवे विकारे च अणादयः साधारणा उक्ताः वक्ष्यमाणाश्च प्रत्ययाः यथाविहितं स्युः । अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदाहरति । मायूर इति ॥ 'लघावन्ते' इति मयूरशब्दो मध्योदात्त षधेरुदाहरति । मौर्वः मिति ॥ मूर्वा औषाधविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सर्गिकोऽणु । 'अनुदात्ता देश्च' इत्यञ् तु वक्ष्यमाणेो न भवति हरति । पैप्पलमिति ॥ पिप्पलः अश्वत्थः, तस्यावयवो विकारो वेत्यर्थः । 'लघावन्ते' इति मछद्योदात्तः पिप्पलशब्दः । “ अनुदात्तादेश्च' इति वक्ष्यमाणाओऽभावे औत्सर्गिकोऽम् । बिल्वा दिभ्योऽण् ॥ एषु प्राण्यौषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थ बैल्वमिति ॥ बिल्वस्यावयवो विकारो वेत्यर्थः । बिल्व, व्रीहि, काण्ड, मुद्र, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पसी, पाटली, कर्कन्धू, कटीर, इति बिल्वादयः । तत्र गवेधुकस्य

  • कोपधाञ्च' इत्यणि सिद्धे मयटो बाधनार्थमिह पाठः इतरेषान्तु 'अनुदात्तादेश्व्' इत्यव्यो

बाधनार्थमिति कौस्तुभे विस्तरः । कोपधाञ्च ॥ आणिति शेषः । तत्र प्राण्यौषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव । तर्कुं, तार्कवमिति तर्कुं इति प्रकृतिनिर्देशः । तर्कः नम वृक्षविशेषः । तस्यावयवो विकारो वेत्यर्थे ओरञ्' इत्यस्यापवादः अण् । तित्तिडीक शब्दो 'लघावन्ते' इति मछोदात्त अनुदात्तादश्व इयाऽपवादः अण् । त्रपुजतुनो षुक् ॥ त्रापुषम् । जातुषमिति ॥ त्रपुणो जतुनश्च विकार इत्यर्थः । ओरञ् ॥ उवर्णादञ् स्यादित्यर्थः। प्राण्यौषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे । दैवदारवम् भाद्रदारवमिति॥ देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः। 'पीतद्रवार्थानाम्'

99
७८६
[विकारार्थ
सिद्धान्तकौमुदीसहिता


१५२० । अनुदात्तादेश्च । (४-३-१४०)

ट्टाधित्थम् । कापित्थम् ।

१५२१ । पलाशादिभ्यो वा । (४-३-१४१)

पालाशम् । खादिरम् । कारीरम् ।

१५२२ । शम्याः ष्लञ् । (४-३-१४२)

शामीलं भस्म । षित्वान्डीष् । शामीली लुक् ।

१५२३ । मयडैतयोर्भाषायामभक्ष्याच्छादनयोः । (४-३-१४३)

प्रकृतिमाखान्मयङ्का स्याद्विकारावयवयोः । अश्ममयम्-आश्मनम् ।

  • अभक्ष्य-' इत्यादि किम् । मैौद्रः सूपः । कापोसमाच्छादनम् ।

१५२४ । नित्यं वृद्धशरादिभ्यः । (४-३-१४४)

आम्रमयम् । शरमयम् । “एकाचो नित्यम्' (वा ५०५२) । त्वङअयम् । वाङमयम् । कथं तर्हि * आप्यम्' * अम्मयम्' इति, “तस्येद्म (सू १५००) इत्यण्णन्तात्स्वार्थे ष्यञ् ।


इत्याद्युदात्तावेतौ । ततश्च “ अनुदात्तादेश्च' इत्यनेन गतार्थता न । अनुदात्तादेश्च ॥ विकारे अिित शेषः । “अवयवे च' इति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति ॥ दधित्थस्यावयवो विकारो वेत्यर्थः । एवङ्कापित्थम् । “कपित्थे तु दधित्थग्राहिमन्मथाः' इत्यमरः । अव्युत्पन्नप्राति पदिकत्वात् फिट्स्वरेणान्तोदात्तावेतौ । पलाशादिभ्यो वा ॥ आजिति शेषः । अवयवे चेत्येव । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वात् नित्यम्प्राप्त इतरेषाम् अप्राप्ते विकल्पोऽयम् । शम्याः ष्लञ् ॥ शमीशब्दो गौरादिडीषन्तः । तस्मात्षष्ठयन्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः। षकारलकारावितौ । “अनुदात्तादेश्च' इत्यङोऽपवादः । शामीलं भस्मेति ॥ शम्या विकारः इत्यर्थः । शामीली खुगिति ॥ शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः त्रुचः प्रसिद्धाः । अवयवे तु शामीली शाखा । मयडेतयोः ॥ “अ.धकारादेव विकारावयवयेोरिति सिद्धेरेतयेरिति वचनम् उक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थम्” इति भाष्ये स्पष्टम् । तेन बिल्वमयं बैल्व मित्यादि सिद्यतीत्यभिप्रेत्य आह । प्रकृतिमात्रादिति ॥ सर्वस्याः प्रकृतेरित्यर्थः । अश्ममय मिति ॥ मयटि अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वम्, नलोपः । आश्मनमिति ॥ कल्माषांघ्रि नोम कश्चिद्राजा तत्पन्नयां वसिष्ठनोत्पादितः अश्मकः इति । अश्मन्शब्दात् स्वार्थ कप्रत्य तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः । “ अन्’ इति प्रकृतिभावान्न टिलोपः । नच विकारार्थकत्वे अश्मनो विकारः इति टिलोपः शङ्कयः । तत्र पाषाणवाचकत्वेन प्रसिद्धस्या इमन्शब्दस्यैव ग्रह्णादिति भावः । नित्यं वृद्धशार ॥ मयडिति शेषः । उक्तविकल्पस्यापवादः । १. आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणेनान्यार्थकेनेदं सिद्धम् ।

प्रकरणम्]
७८७
बालमनोरमा ।

१५२५ । गोश्च पुरीषे । (४-३-१४५)

गोः पुरीषं गोमयम् ।

१५२६ । पिष्टाच । (४-३-१४६)

मयट् स्याद्विकारे । पिष्टमयम् भस्म । कथं पैष्टी सुरेति । सामान्य विवक्षायां “तस्येदम्’ (सू १५००) इत्यणु ।

१५२७ । संज्ञायां कन् । (४-३-१४७)

पिष्टात्' इत्येव । पिष्टस्य विकारविशेषः पिष्टकः । “पूपोऽपूपः पिष्टक स्यात्' इत्यमरः ।

१५२८ । ब्रीहेः पुरोडाशे । (४-३-१४८)

मयट् स्यात् । बिल्वाद्यणोऽपवादः । व्रीहिमयः पुरोडाशः । त्रैहमन्यन् ।

१५२९ । असंज्ञायां तिलयवाभ्याम् । (४-३-१४९)

तिलमयम् । यवमयम् । सञ्ज्ञाया तु तैलम् । यावकः ।

१५३० । तालादिभ्योऽण् । (४-३-१५२)

अञ्मयटोरपवादः । “तालाद्धनुषि' (ग सू १९४) । तालं धनुः । न्यत्तालमयम् । ऐन्द्रायुधम् ।

१५३१ । जातरूपेभ्यः परिमाणे । (४-३-५६)


एकाचो नित्यमिति । नित्यमिति योगविभागलब्धमिदम् । अण्णन्तादिति ॥ अपा मिदमापम् ‘तस्येदम्' इत्यण् । ततः स्वार्थे चतुर्वर्णादित्वात् घ्यजि आप्यमिति रूपमित्यर्थः । गोश्च पुरीषे ॥ नित्यं मयडित्यनुवर्तते । गोमयमिति । यद्यपि पुरीषं न गोर्विकारो नाप्यवयवः । तथापि तस्येदमित्यर्थऽयं प्रत्ययः । पिष्टाञ्च ॥ शेषपूरणेन सूत्र व्याचष्ट । मयट् स्याद्विकारे इति ॥ संज्ञायां कन् । विकारविशेष इति ॥ इत्यर्थः । तदाह । पूपो अपूप ऽपूपः पिष्टकः स्यादिति ॥ अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् । ‘अतुङ्गमनपूपाकृतिम४शफमात्रम्पुरोडाशङ्करोति' इति श्रुतेः। व्रीहेः पुरोडाशे ॥ पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह । त्रैहमन्य दिति ॥ असंज्ञायां तिलयवाभ्याम्॥ नित्यं मयडिति शेषः । यावक इति । यवशब्दा द्विकारे अण् । ततः यावादिभ्य इति स्वार्थे कन् । तालादिभ्योऽण् ॥ तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति ॥ 'नित्यं वृद्ध' इति मयटोऽपवादः । ऐन्द्रायुध मिति ॥ 'अनुदात्तादेश्च' इत्यओऽपतादः । समासस्वरेणान्तोदात्तत्वात् । जातरूपेभ्य ॥

७८८
[विकारार्थ
सिद्धान्तकौमुदीसहिता

अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । “परिमाणे' किम् । हाटकमयी यष्टिः ।

१५३२ । प्राणिरजतादिभ्योऽञ् । (४-३-१५४)

शैौकम् । बाकम् । राजतम् ।

१५३३ । जितश्च तत्प्रत्ययात । (४-३-१५५)

ञ्पिद्यो विकारावयवप्रत्ययः तदन्तादञ्स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । 'मितः' किम् ।

१५३४ । क्रीतवत्परिमाणात् । (४-३-१५६)

प्राग्वहतेष्टक्’ (सू १५४८) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः। निष्केण क्रीतं नैष्ठिककम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकार शत्यः-शतिकः ।


आणिति । शेषपूरणम् । जातरूपं सुवर्ण, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह । बहुवचनादिति ॥ हाटक इत्यादि ॥ हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति ॥

  • नित्यं वृद्धशरादिभ्यः' इति मयटोऽपवादः । इतरत्र तु “अनुदात्तादेश्च' इत्यञ्जाऽपवाद ।

“गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाक्षः' इत्यमरः । “सुवर्णबिस्तौ हेस्रोऽक्षे ” इति च । प्राणिरजतादिभ्योऽञ् ॥ शौकम् । बावकामात ॥ शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः । ‘प्राणिनाङ्कपूर्वाणाम्’ इत्युदात्तत्वात् । ‘अनुदात्तादेश्च' इत्यञ्जो न प्राप्तिः । राजतमिति अनुदात्तादित्वादनि सिद्धे मयड्बाधनार्थमञ्विधिः । जितश्च तत्प्रत्ययात् ॥ तयो विकारावयवयोः प्रत्ययः तत्प्रत्ययः । तदाह । भिद्य इति ॥ विकारावयवयोरेवेत्यर्थः । शामीलस्येति ॥ शम्या विकारः अवयवो वा शामीलम् । 'शम्याः ष्लञ्' । शामीलस्य विकारः अवयवो वेल्यर्थे अलि शामीलामिति भवतीत्यर्थः । “नित्यं वृद्ध' इति मयटोऽपवादः । दाधित्थमिति ॥ दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम्, मयडपवादोऽञ् । बैल्वमयमिति ॥ 'बिल्वादिभ्योऽण्' इति बिल्व शब्दादणि बैल्वः, तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो जित्वाभावादिति भावः । भाष्ये तु “विकारावयवप्रत्ययान्तात् पुनस्तत्प्रत्यया अनभिधानात् न” इत्याश्रित्य सूत्रमिदं प्रत्या ख्यातम् । क्रीतवत्परिमाणात् ॥ उपाधिनेति ॥ प्रकृत्यादिविशेषणेनेत्यर्थः । नैष्किक

इति ॥ “ असमासे निष्कादिभ्यः' इति कीते ठक् । शल्यः-शतिक इति ॥ ‘शताच
प्रकरणम्]
७८९
बालमनोरमा ।

१५३५ । उष्ट्राडुङ । (४-३-१५७)

प्राण्यवाऽपवादः । आष्ट्रकः ।

१५३६ । उमोर्णयोर्वा । (४-३-१५८)

औमम्-औमकम् । और्णम्-और्णकम् । वुअभावे यथाक्रममणव्ौ ।

१५६७ । एण्या ढञ् । (४-३-१५९)

एणयम् । एणस्य तु एणम् ।

१५३८ । गोपयसोर्यत । (४-३-१६०)

गव्यम् । पयस्यम् ।

१५३९ । द्रोश्च । (४-३-१६१)

द्ववृक्षः, तस्य विकारोऽवयवो वा द्रव्यम् ।

१५४० । माने वयः । (४-३-१६२)

'द्रोः' इत्येव । दुवयम् । “पौतवं दुवयं पाय्यमिति मानार्थकं त्रयम् '

१५४१ । फले लुक् । (४-३-१६३)

विकारावयवप्रत्ययस्य लुक्स्यात्फले । आमलक्याः फलमामलकम् ।


ठन्यतौ' इति क्रीते ठन्यतैौ । उष्ट्रादुञ् । प्राण्यञ्जअ इति ॥ 'प्राणिरजतादिभ्योऽञ्' इत्यस्या पवाद । इत्यर्थः उमोर्णयोर्वा ॥ बुिित शेषः । औममिति ॥ उमा सस्यविशेषः । “उमा स्यादतसी क्षुमा” इत्यमरः । उमाया विकारोऽवयवेो वेत्यर्थः । और्णकमिति ॥ ‘तृणधान्यानाञ्च' इत्युमाशब्द आद्युदात्तः । “अनुदात्तादेश्च' इति ततो वुअभावे अण् । ऊर्णशब्दस्तु फिट्स्वरे णान्तोदात्त । ततो वुअभावे अनुदात्तादित्वादमित्यर्थः । “ऊर्णा मषादिलोन्नि स्यात्' इत्यमरः । “स्थूणेोणें नपुंसके च' इति लिङ्गानुशासनसूत्रम् । एण्या ढञ् ॥ एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः । “यस्येति च' इति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह । एणस्य त्विति । गोपयसोर्यत् । गव्यमिति । गोर्विकारोऽवयवो वेल्यर्थः ।

  • वान्तो यि” इत्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः । सर्वत्र “गोरजादि

प्रसङ्गे यत्' इत्येव सिद्धे यद्विधानं “मयडैतयोः' इति पाक्षिकमयटो बाधनार्थम् । द्रोश्च । यदिति शेषः । “एकाचो नित्यम्' इति मयटः “ओरञ्' इत्यस्य चापवादः । माने वयः ॥ द्रोरित्येवेति ॥ माने विकारे गम्ये दुशब्दाद्वयप्रत्ययः स्यादित्यर्थः । फले लुक् ॥ आमल कमिति । फलितस्य वृक्षस्य फलमवयवो विकारश्च । तस्मिन्मयटो लुकि “लुक्तद्धितलुकि

७९०
[विकारार्थ
सिद्धान्तकौमुदीसहिता

१५४२ । लक्षादिभ्योऽण् । (४-३-१६४)

विधानसामथ्यन्न लुक् । एाक्षम्

१५४३ । न्यग्रोधस्य च केवलस्य । (७-३-५)

अस्य न वृद्धिरैजागमश्च । नैयम्रोधम्

१५४४ । जम्ब्वा वा । (४-३-१६५)

जम्बूशब्दात्फलेऽण्वा स्यात् । जाम्बवम् । पक्षे ओरञ्, तस्य लुक्, जम्बु

१५४५ । लुप्च । (४-३-१६६)

जम्ब्वाः फलप्रत्ययस्य लुब्वा स्यात् । 'लुपि युक्तवत्- (सू १२९४) जम्ब्वाः फलं जम्बूः । * फलपाकशुषामुपसङ्खयानम्' (वा २९४९) । त्रीहय 'पुष्पमूलेषु बहुळम्' (वा २९५०) । मालिकायाः पुष्पं मांलका जात्याः पुष्प जाता विदार्या मूलं विदारी । बहुळग्रहणान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुळकात्कचिल्लुक् । अशोकम् । करवीरम्


इति डीषो लुक् । क्षादिभ्योऽणु विकारे अवयवे चेति शेष तत्र शियुकर्कन्धू शब्दयोरुवर्णान्तत्वादानि प्राप्त क्षन्यग्रोधादीनाम् अनुदात्तादित्वादवि प्राप्ते अण्विधि नन्वस्य फले अणो लुक् कुतो नेत्यत आह । न्यग्रोधस्य च केवलस्य न य्वाभ्याम् इत्युत्तरसूत्रमिदम् । अस्येति केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्व पदान्तरविहीनत्वम् न्यक् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपि “न य्वाभ्याम्' इयेव सिद्धम् । यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमाथै सूत्रम् । अव्युत्पतिपक्षे तु यकारस्य अपदा तत्वात् वध्यथमव । कवलस्य किम् । न्यप्राधमूलाः शालय जम्ब्वा वा ॥ जम्ब्विति जम्ब्वाः पकलामलयथ अञ्जो लुकेि वेिशष्यानुसारेण नपुसकत्वात् हख इति भावः । लुप् च लुकैव सिद्धे लुब्विधेः फलमाह । लुपि युक्तवदिति ॥ जम्बूरिति ॥ जम्ब्वाः फलमित्यर्थ फलप्रत्ययस्य लुपि युक्तवत्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वा फलान्यपि जम्बूरेव । फलपाकेति फलपाकंन शुष्यन्तीति फलपाकशुषः ओषधय तद्वा चिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्खयानमित्यर्थ इति। व्रीह्याख्यानामोषधीनाम्फलानीत्यर्थः । एवं मुद्राः । बिल्वाद्यणेो लुप् । युक्तवद्रावात्पुंस्त्वम् नतु विशेष्यनिन्नत्वम्। पुष्पमूलेषु बहुळमिति । वार्तिकमिदम् । विकारावयवप्रत्ययस्य स्यादिति शेषः । पुष्पं मलुिकेति । अषाद्वितीयमुदात्तमित्यनुवृत्तौ ‘मलिकादीनाञ्च' इति फिट्सूत्रेण मध्योदात्तो मलिकाशब्दः । ततः “ अनुदात्तादेश्च' इत्यञ्जो लुप् । युक्तवत्वात्स्त्रीत्वम् जातीति । 'लघावन्ते ' इत्यन्तोदात्तो जातिशब्दः । ततः ‘अनुदात्तादेश्च' इत्योऽनेन लुप

प्रकरणम्]
७९१
बालमनोरमा ।

१५४६ । हरीतक्यादिभ्यश्च । (४-३-१६७)

एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ।

१५४७ । कंसीयपरशव्ययोर्यञञौ लुक्च । (४-३-१६८)

कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । परशवे हितं परशव्यम् । तस्य विकारः पारशवः ।

इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् ।


युक्तवत्वात्स्त्रीत्वम् । विदारीति । जातिडीषन्तमिदम्प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्ता दित्वादञि तस्य लुप् । युक्तवत्वास्त्रीत्वम्। पाटलानीति ।। बिल्वादित्वादण् । एवं साल्वानि । ननु अशोकस्य पुष्पं, अशोकं करवीरस्य पुष्पङ्करवीरं इत्यत्रापि “पुष्पमूलेषु बहुळम्' इति लुपि युक्तवत्त्वात् पुंस्त्वे अशोकः पुष्पं करवीरः पुष्पमिति स्यादित्यत आह । बहुळग्रहणात् क्वचिल्लुगिति ॥ तथाच युक्तवत्वस्याप्रवृत्तेः विशेष्यनिघ्न्त्वमेवेति भावः । हरीतक्या दिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषाम्प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिङीषन्तः । प्रत्ययस्वरेणान्तो दात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादिञि तस्य ‘फले लुक्’ इति लुकि प्राप्ते लुपि युक्तवत्त्वा द्वहुवचनम् । कंसीयपरशव्य । अत्र यञञोर्न लुक् । विधिवैयर्थ्यात् । नापि प्रकृत्योः प्रत्ययादर्शनस्यैव लुक्त्वात् । अतः परिशेषात् प्रकृत्येकदेशयोः छयतोरिति लभ्यते । तदाह । छयतोरिति ॥ कंसीयमिति । धातुर्लोहविशेषः । तस्मै हितामिति छः । कांस्यमिति । कंसीयशब्दादञि छस्य लुकि आदिवृद्धौ “यस्यति च' इत्यकारलोपः । परशव्यमिति ॥

  • तस्मै हितम्' इति अधिकारे “उगवादिभ्यो यत्' इति ओर्गुणे 'वान्तो यि” इत्यवादेशः ।

पारशव इति । परशव्यशब्दादञि यतो लुकि ओर्गुणे पारशवः “हलस्तद्धितस्य' इति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात् “ आपत्यस्य च' इत्यपि लोपो न प्रसज्यत इति भावः । इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् ।

७९२
[ठगधिकार
सिद्धान्तकौमुदीसहिता

अथ तद्धिते चतुर्थस्य चतुर्थपादे प्राग्वहतीयप्रकरणम् ।

१५४८ । प्राग्वहतेष्ठक् । (४-४-१)

तद्वहतीत्यतः प्राक् ठगधिक्रियते । “तदाहेति माशब्दादिभ्य उपसङ्खया नम्’ (वा २९५१) । मा शब्दं कार्षीः इति य आह स माशाब्दिकः ।

१५४९ । स्वागतादीनां च । (७-३-७)

ऐज्न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः । व्यवहारेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । ‘आहौ प्रभूतादिभ्यः’ (वा २९५२) ।


अथ चतुर्थस्य चतुर्थः पादः प्रारभ्यते--प्राग्वहतेष्ठक् ॥ वहतीत्येकदेशेन 'तद्वहति रथयुगप्रासङ्गम्’ इति सूत्रं परामृश्यते इत्यभिप्रेत्य आह । तद्वहतीत्यत इति ॥ तदाहेति । इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्द स्वागत इत्यादिशब्देभ्यः ठक उपसङ्खयानमित्यन्वयः । तदित्यनेन वाक्यार्थो विवक्षितः। इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वङ्गमयति “मा शब्दङ्कार्षीः’ इत्याहेत्याद्यर्थे तद्वाक्यावयवात् माशब्दः इत्यादिशब्दात् ठगिति यावत् । मा शब्दङ्कार्षीः इति य आह स माशाब्दिक इति । शब्दं माकार्षीरित्यन्वयः । 'माडि लुड्’ इति लोडर्थे लुङ् । “न माङयोगे ' इत्यडा गमनिषेधः । शब्दन्न कुरु इत्यर्थः । अत्र आहेति ब्रूञ्धात्वर्थवक्तव्यवचनक्रियां प्रति मा शब्दङ्कार्षीरिति वाक्यार्थः कर्म । तद्वाक्यैकदेशः माशब्देति समुदायः । तस्मान्निर्विभक्तिका दयं प्रत्ययः । न हि माशब्देति समुदायाद्विभक्तिरस्ति । एवञ्च माशब्देति समुदायाट्टकि माशब्दिक इति रूपम् । “मा शब्दः कारि' इति पाठे तु कारीति कर्मणि लुड् । शब्दो न कार्य इत्यर्थः । नच तदाहेत्यर्थे माशब्दादिभ्यः ठगिति यथाश्रुतम् अभ्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यः ठगित्येव कुतो न व्याख्यायत इति वाच्यम् । एवं सति आहौ प्रभूतादिभ्यः' इत्युत्तरवार्तिकारम्भवैयर्थापत्तेरिति भावः । स्वागतादिगणे स्वागत स्वध्वर, इति पठितम् । तत्र विशेषमाह । स्वागतादीनाञ्च ।। ‘न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्' इति प्रकरणे “कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति ॥ शेषपूरणमिदम् । 'न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्’ इति प्राप्तः ऐज़् न स्यादि त्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति । स्वङ्गस्येति । व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य सः अडः विगतः अडः व्यङः । स्वापतेयमिति । “पथ्यतिथिवसतिस्वपतेर्ढञ् द्वारादित्वादैच् प्राप्तो निषिध्द्यते । आहाविति ॥ आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । तदिति पूर्ववार्तिकादनुवर्तते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्टग्वाच्य इत्यर्थः ।

प्रकरणम्]
७९३
बालमनोरमा ।

प्रभूतमाह । प्राभूतिकः । पार्याप्तिक : 'पृच्छतौ सुस्नातादिभ्य:’ (वा २९५३) । सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादि ।

'गच्छतौ परदारादिभ्यः' (वा २९५४) । पारदारिकः । गौरुतल्पिकः ।

१५५० । तेन दीव्यति खनति जयति जितम् । (८-४-२)

अक्षैर्दीव्यति आक्षिकः । अभ्रया खनति आभ्रिकः । अक्षैर्जयति आ क्षिकः । अक्षैर्जितमाक्षिकम् ।

१५५१ । संस्कृतम् । (४-४-३)

दध्ना संस्कृतं दाधिकम् । मारीचिकम् ।

१५५२ । कुळत्थकोपधादण् । (४-४-४)

ठकोऽपवादः । कुळुत्थैः संस्कृतं कौऴुत्थम् । तैन्त्रिणीकम् ।

१५५३ । तरति । (४-४-५)

उडुपेन तरति औडुपिकः ।

१५५४ । गोपुच्छाट्ठञ् । (४-४-६)

गौपुच्छिक

१५५५ । नौव्द्यचष्ठन् । (४-४-७)

नाविकः । घटेिकः । बाहुभ्यां तरति बाहुका स्त्री ।


पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति । तदित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यः ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति ॥ सुखशयनशब्द इति शेषः । ततश्च “अनुशतिका दीनाश्च’ इति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । पारदारिक इति । परदारान्गच्छती त्यर्थः । गौरुतल्पिक इति । गुरुतल्पङ्गच्छतीत्यर्थः । गुरुतल्पो गुरुस्त्री । तेन दीव्यति खनति जयति जितम्। तेन दीव्यति, तेन खनति, तेन जयति, तेन जितम्, इति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । अभ्रिः कुद्दालः । देवदत्तेन जितमित्यत्र तु न ठक् । करणतृतीयान्तादेव तद्विधः । संस्कृतम् । तेनेत्येव । संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । ‘संस्कृतम्भक्षाः' इत्यत्र तु सप्तम्यन्तादणादिविधि । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः । कुळुत्थको पधादण् ॥ संस्कृतमित्यर्थे तृतीयान्तादिति शेषः । तैन्त्रिणीकमिति । तिन्त्रिणीकेन संस्कृतमित्यर्थः । तरति ॥ तरतीत्यर्थे तृतीयान्ताट्ठगित्यर्थः । गोपुच्छाट्ठञ् ॥ तरतीत्यर्थे तृतीयान्तादिति शेषः । नौड्द्यचष्ठन् ॥ ठनिति च्छेदः । ष्टुत्वकृतः सस्य षकारः । तरतीत्यर्थे ७९३ 100

७९४
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५५६ । चरति । (४-४-८)

तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक्स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ।

१५५७ । आकर्षात्ष्ठल् । (४-४-९)

आकर्षों निकषोपलः । 'आकषात्' इति पाठान्तरम् । तेन चरति आकर्षिकः । षित्त्वान्ङीष् । आकर्षिकी ।

१५५८ । पर्पादिभ्यः ष्ठन् । (४-४-१०)

पर्पेण चरति पर्पिकः-पर्पिकी । येन पीठेन पङ्गवश्चरन्ति स पर्पः । अश्विकः । रथिकः ।

१५५९ । श्वगणाट्ठञ् च । (४-४-११)

चात्ष्ठन् ।

१५६० । श्वादेरिञि । (७-३-८)

ऐज्न । श्वभस्रस्यापत्यं श्वाभस्रिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् । 'इकारादाविति वाच्यम्’ (वा ४-५-१२) । श्वगणेन चरति श्वागणिकः-श्वागणिकी-श्वगाणिकः-श्वगणिकी ।


नौशब्दात् ‘द्यचश्च' इति तृतीयान्तात् ठनित्यर्थः । नाविक इति ॥ नावा तरतीत्यर्थः । घटिक इति । घटेन तरतीत्यर्थः । बाहुका स्त्रीति । उकः परत्वात् ठस्य कः । अदन्तत्वाट्टाप् । चरति । गच्छति, भक्षयतीति ॥ 'चर गतिभक्षणयोः' इति चरधातोरर्थद्वये वृरिति भावः । हास्तिक इति ॥ ठनि इके 'नस्तद्धिते' इति टिलोपः । आकर्षात्ष्ठल् ॥ तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात् ष्ठलित्यर्थ । पर्पादिभ्यः ष्ठन् ।। ष्ठन् इति च्छेदः । चरतीत्यर्थे तृतीयान्तेभ्य इति शेषः । षित्वं ङीषर्थमित्याह । पर्पिकीति । अश्विक इति । अश्वेन चरतीत्यर्थः । श्वगणाट्टञ् च । उक्तविषये इति शेषः । श्वगणशब्दात्तृतीयान्ता च्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः । श्वागणिक इत्युदाहरणं वक्ष्यति । तत्र श्वन्शब्दस्य द्वारा दित्वादैजागमे प्राप्ते । श्वादेरिञि । ‘न कर्मव्यतिहारे' इत्यतो नेत्यनुवर्तते । अङ्गस्येत्यधि कृतम् । श्वन्शब्दः आदिर्यस्येति विग्रहः । श्वन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः । श्वाभस्त्रिरिति । अत इञ् । श्वादंष्ट्रिरिति ॥ श्वदंष्ट्रस्यापत्यमित्यर्थः । ननु श्वन्शब्द एव द्वारादौ पठ्यते नतु श्वभस्त्रशब्दः । ततश्च तस्य द्वारादित्वाभावादैजागमप्रसक्तिरेव नेत्यत आह । तदादिविधाविति ॥ द्वारादिगणे श्वन्शब्दस्य पाठेऽपि अस्मादेव प्रतिषेधात् श्वन्शब्दपूर्व कस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायते इत्यर्थः । तत्फलन्तु श्ववहनस्येदं शौवहनं नाम नगरम् ।

प्रकरणम्]
७९५
बालमनोरमा ।

१५६१ । पदान्तस्यान्यतरस्याम् । (७-३-९)

श्वादेरङ्गस्य पदशब्दान्तस्यैज् वा । श्वापदस्येदं श्वापदम्-शौवापदम् ।

१५६२ । वेतनादिभ्यो जीवति । (४-४-१२)

वेतनेन जीवति वैतनिकः। धानुष्कः।

१५६३ । वस्त्रक्रयविक्रयाट्ठन् । (४-४-१३)

वस्त्रेन मूल्येन जीवति वास्त्रिकः । क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः-क्रयिकः-विक्रयिकः ।

१५६४ । आयुधाच्छ च । (४-४-१४)

चाट्ठन् । आयुधेन जीवति आयुधीयः-आयुधिकः ।

१५६५ । हरत्युत्सङ्गादिभ्यः । (४-४-१५)

उत्सङ्गेन हरत्यौत्सङ्गिकः ।

१५६६ । भस्रादिभ्यः ष्ठन् । (४-४-१६)

भस्रया हरति भस्त्रिकः । षित्वात्, भस्रिकी ।


ननु प्रकृते श्वागणिके इञभावात्कथमयं निषेध इत्यत आह । इकारादाविति वाच्य मिति ॥ ञिति परित्यज्य इकारादाविति वाच्यामित्यर्थः । इञि तु व्यपदेशिवत्त्वेन इकारादित्वम् ।श्वागणिक इति ॥ ठञन्तात् “टिड्ढाणञ्द्वयसञ्जदघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः’ इति डीप् । श्वगणिक इति ॥ ष्ठनि रूपम् । श्वागणिकीति ॥ षित्वात् डीष्प्रसङ्गादाह । पदा न्तस्यान्यतरस्याम् ॥ ‘श्वादेरिञि इत्यस्मादुत्तरं सूत्रमिदम् । पदं पदशब्दः, अन्तो यस्येति विग्रहः । तदाह। पदशब्दान्तस्येति । ऐज्वेति ॥ निषेधविकल्पे सति विधिविकल्पः फलित इति भावः । श्वापदस्येति ॥ शुनः पदमिव पद् यस्येति विग्रहः। ‘शुनो दन्तदष्ट्रा 'इत्यादिना दीर्घः । शौवापदमिति ॥ ‘तस्येदम्’ इत्यण् । ‘वृद्धाच्छः' इति तु न । अनभिधाना दित्याहुः । अन्ये तु श्वपुच्छवद्दीर्घाभावे अणमाहुः । वेतनादिभ्यो जीवति ॥ जीवतीत्यर्थे तृतीयान्तेभ्यः ठगिति शेषः । वैतनिक इति ॥ वेतनेन जीवतीत्यर्थः । धानुष्क इति ॥ धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः’ इति षत्वम् । वस्नक्रयविक्रया ट्ठन् ॥ जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यः ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थ मिति ॥ व्याख्यानादिति भावः । आयुधाच्छ च ॥ जीवतीत्यर्थे तृतीयान्तात् आयुधशब्दात् छः स्यात् ठन् चेत्यर्थः । हरत्युत्सङ्गादिभ्यः ॥ हरतीत्यर्थे तृतीयान्तेभ्यः उत्सङ्गा दिभ्यः ठक् स्यादित्यर्थः । भस्रादिभ्यः ष्ठन् ॥ ष्टनिति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो

७९६
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५६७ । विभाषा विवधात् । (४-४-१७)

विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृत स्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः, वीवधिकी । विधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ।

१५६८ । अण् कुटिलिकायाः । (४-४-१८)

कुटिलिका व्याधानां गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटि लेिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ।

१५६९ । निर्वृत्तेऽक्षद्यूतादिभ्यः । (४-४-१९)

अक्षद्यूतेन निर्वृत्तमाक्ष्द्यूतिकं वैरम् ।

१५७० । त्रेर्मम्नित्यम् । (४-४-२०)

त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् । “भावप्रत्ययान्तादिमब्वक्तव्यः' (वा २९५९) पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ।

१५७१ । अपमित्ययाचिताभ्यां कक्कनौ । (४-४-२१)

अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तमापमित्यकम् । याचितेन निर्वृत्तं याचितकम् ।


भस्रादिभ्यः ष्टन् स्यादित्यर्थः । षित्वादिति ॥ डीष् इति शेषः । विभाषा विवधात् ॥ हरतीत्यर्थे तृतीयान्तात् ष्ठनिति शेषः । अण् कुटिलिकायाः ॥ हरतीत्यर्थे तृतीयान्तात् कुटि लिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः । निर्वृत्तेऽक्षद्यूतादिभ्यः ॥ निर्वृत्त मित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यः ठगित्यर्थ । त्रेर्मम्नित्यम् ॥ तेन निर्वृत्तमित्यर्थे ‘ड़्वितः क्रिः’ इति क्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादित्यर्थः । ‘समर्थानाम्प्रथमाद्वा' इति महाविकल्प निवृत्त्यर्थं नित्यग्रहणम् । “ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना क्रिप्रत्ययान्तस्य प्रयोगो न' इति भाष्ये स्पष्टम् । एवञ्चात्र अस्वपदविग्रहं दर्शयति । कृत्या निर्वृत्तमिति । अत्र विग्रहवाक्ये 'स्त्रियां क्तिन्’ इति क्तिन्नन्तोऽयं कृतिशब्दः । कृत्रिममिति ॥ ‘डुकृञ् करणे' इति धातोः ड़्वितः क्रिः’ इति क्रिप्रत्ययान्तान्मप् । पक्रिममिति ॥ पक्तया निर्वृत्तमित्यस्वपदविग्रहः । ‘डुपचष् पाके' अस्मात्क्रिप्रत्ययान्तान्मप् । इमब्वक्तव्य इति । निर्वृत्तमित्यर्थे तृतीयान्तादिति शेषः । अत्र नित्यमिति न सम्बध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति । पाकेन निर्वृत्तमिति ॥ अपमित्ययाचिताभ्याम् ॥ ल्यबन्तमिति ॥ 'मेड् प्रणिदाने

प्रकरणम्]
७९७
बालमनोरमा ।

१५७२ । संसृष्टिं । (४-४-२२)

दध्ना संसृष्टं दाधिकम् ।

१५७३ । चूर्णादिनिः । (४-४-२३)

चूणैः संसृष्टाश्चूर्णिनोऽपूपाः ।

१५७४ । लवणाल्लुक् । (४-४-२४)

लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ।

१५७५ । मुद्गादण् । (४-४-२५)

मौद ओदनः ।

१५७६ । व्यञ्जनैरुपसिक्ते । (४-४-२६)

ठक् । दध्ना उपसिक्तं दाधिकम् ।

१५७७ । ओजःसहोऽम्भसा वर्तते । (४-४-२७)

ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिकौ मत्स्यः ।

१५७८ । तत्प्रत्यनुपूर्वमीपलोमकूलम् । (४-४-२८)


इत्यस्मात् विनिमयार्थकात् “उदीचां माङो व्यतिहारे' इति क्ताप्रत्यये गतिसमासे ल्यपि “मयते रिदन्यतरस्याम्' इति इत्वे ‘ह्रस्वस्य पिति' इति तुगागमे अपमित्येत्यव्ययम् । ‘क्तातोसुन्कसुन:’ इत्युक्त्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाञ्च तृतीयान्तात् क्रक कन् च यथासङ्खय स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वासम्भवात् प्रथमादिति लभ्यते संसृष्टे ॥ संसृष्टमित्यर्थे तृतीयान्तात् ठक् इत्यर्थः । चूर्णदिनिः ॥ संसृष्टमित्यर्थे तृतीया न्तादिति शेषः । लवणाल्लुक् ॥ पूर्वसूत्रविहितस्येति शेषः । मुद्गादण् ॥ तेन संसृष्ट मित्यर्थे तृतीयान्तादिति शेषः । मौद्ग ओदन इति ॥ मुद्गैः संसृष्ट इत्यर्थः । व्यञ्जनै . रुपसिक्ते ॥ उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यः ठगित्यर्थः । सेचनेन मृद्वि करणमुपसेकः । संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम् । व्यञ्जनवाचिभ्यः उपसिक्त एवेति । तेनेह न। सूपेन संसृष्टा स्थाली । ओजःसहो ॥ वर्तते व्याप्रियते इत्यर्थे ओजस् , सहस्, अम्भस् एभ्यः तृतीयान्तेभ्यः ठक् स्यादित्यर्थः । औजसिक इति ॥ ओजसा बलेन वर्तते, युद्धे व्याप्रियते इत्यर्थः । साहसिक इति ॥ सहसा प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियते इत्यर्थः । आम्भसिक इति ॥ अम्भसा हेतुना सञ्चारे व्याप्रियते इत्यर्थः । तत्प्रत्यनु पूर्व ॥ तदिति द्वितीयान्तानुकरणम्। प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्यः ईपलोमकूलशब्देभ्यः वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीप वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात् कथं

७९८
[ठगधिकार
सिद्धान्तकौमुदीसहिता

द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक्स्यात् । क्रियाविशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ।

१५७९ । परिमुखं च । (४-४-२९)

परिमुखं वर्तते पारिमुखिकः । चात्पारिपाश्विकः ।

१५८० । प्रयच्छति गर्ह्यम् । (४-४-३०)

द्विगुणार्थं द्रव्यं द्विगुणं, तत्प्रयच्छति द्वैगुणिकः। त्रैगुणिकः । ‘वृद्धेर्वृधुषि भावो वक्तव्य:’ (वा २९६५) । वार्धषिकः ।

१५८१ । कुसीददशैकादशात्ष्ठन्ष्टचौ । (४-४-३१)

गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदं, तत्प्रयच्छतीति कुसीदिकः-कुसीदिकी । एकादशार्थत्वादेकादश ते च


द्वितीयेत्यत आह । क्रियाविशेषणत्वादिति । इदश्च कारकनिरूपणे निरूपितम् । “क्रिया विशेषणानां प्रथमान्तत्वमेव' इति तु शब्देन्दुशखरे । प्रतीपमिति । प्रतिगताः आपो यस्मिन्निति बहुव्रीहिः । 'ऋक्पूः' इत्यकारः समासान्तः । “ह्यन्तरुपसर्गेभ्योऽप ईत्’ इति ईत्वम् । अनुगताः आपो यस्मिन् तदन्वीपम् । “ऊदनोर्देशे ' इत्यूत्त्वन्तु न , अदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ । अवयवार्थेषु तु नाभिनिवेष्टव्यम् । परिमुखञ्च ॥ अस्माद्द्वितीयान्तात् वर्तते इत्यर्थे ठगित्यर्थ । चादिति ॥ चकारादनुक्त समुच्चयार्थात् परिपार्श्वमित्यस्मादपि ठकि पारिपाश्विक इति भवतीत्यर्थः । पारिमुखिक इत्यस्य यतो यतः स्वामिनो मुखं तत्र वर्तते इत्यर्थः । एवं पारिपाश्विकः । प्रयच्छति गर्ह्यम् ॥ तदिति द्वितीयान्तमनुवर्तते । गर्ह्यं प्रयच्छतीत्यर्थे द्वितीयान्तादृगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति ॥ द्वैगुणिक इति ॥ वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षित मित्यर्थः । तत्प्रयच्छति द्वैगुणिक इति ॥ द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः “अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धक.” इत्यादिधर्मशास्त्रविरुद्धत्वादिद गर्ह्यमिति भावः । वृद्धेरिति ॥ वृद्धिशब्दात् युक्तार्थे ठकि प्रकृतेर्वृधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति ॥ वृध्यर्थे द्रव्यं वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दात् ठकः इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः । “वृध्याजीबस्तु वार्धुषिः” इति तु प्रमाद एव । कुसीद ॥ गर्ह्यार्थाभ्यामिति ॥ कुसीद, दशैकादश, आभ्यां द्वितीयान्ताभ्यां गर्ह्यार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात् ष्ठन्ष्टचौ स्तः इत्यर्थः । षित्वम् डीषर्थमित्याह । कुसीदिकीति ॥ नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ठन्प्रकृति दशैकादशशब्दं व्युत्पादयति । एकादशार्थ त्वादित्यादिना ॥ यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्काः

प्रकरणम्]
७९९
बालमनोरमा ।

ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैका दशिक:-दशैकादशिकी । दशैकादशान्प्रायच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः।

१५८२ । उञ्छति । (४-४-३२)

बदराण्युञ्छति बादृरिकः ।

१५८३ । रक्षति । (४-४-३३)

समाजं रक्षति सामाजिकः ।

१५८४ । शब्ददर्दूरं करोति । (४-४-३४)

शब्दं करोति शाब्दिकः । दार्दुरिकः ।

१५८५ । पक्षिमत्स्यमृगान्हन्ति । (४-४-३५)

'स्वरूपस्य (पर्यायाणां) विशेषाणां ग्रहणम्’ (वा ५२३) । “मत्स्यपर्या येषु मीनस्यैव' (भाष्येष्टिः) । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः ।


ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्काः एकादशार्थत्वात् एकादशशब्देन उपचर्यन्ते। ततश्च एकादश च ते दश चेति कर्मधारये “सङ्खयाया अल्पीयस्याः’ इति दशन्शब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशाः इति रूपमित्यर्थः । दशैकादशिक इति ॥ एकादश निष्काः नाधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति । दशैकादशान् प्रयच्छतीति ॥ इहापीति ॥ विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्देश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणादातैव तद्धितार्थः प्रधानभूत इत्यर्थः । उञ्छति ॥ तदिति द्वितीयान्तमनुवर्तते । उञ्छतीत्यर्थे द्वितीयान्ताठ्ठगित्यर्थः । पतितस्य व्रीह्यादेः कणशः आदानमुञ्छः । रक्षति ॥ अस्मिन्नर्थे द्वितीयान्ताट्ठगित्यर्थः । शब्ददर्दूरङ्करोति ॥ शब्दङ्करोति दुर्दर करोतीति विग्रहे द्वितीयान्ताट्टगित्यर्थः । इह शब्दविषय प्रकृतिप्रत्ययविभागपूर्वकज्ञाने करो तिर्वर्तते । व्याख्यानात् । तेनेह न । शब्दङ्करोति खरः । दार्दुरिक इति ॥ “दर्दूर स्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दूरा चण्डिकायां स्यात्पामजाले तु दर्दूरम् ॥” इति विश्वः । इह यथायोग्यमन्वयः । पक्षिमत्स्यमृगान्हन्ति । अस्मिन्नर्थे पक्ष्यादिशब्दभ्यो द्वितीया न्तेभ्यः ठगित्यर्थः । स्वरूपस्येति ॥ पक्षिमत्स्यमृगशब्दैः तत्तत्स्वरूपाणान्तत्तत्पर्यायाणान्त द्विशेषवाचिनाञ्च प्रहणमित्यर्थः । 'स्वं रूपम्’ इति सूत्रभाष्ये तथोक्त्तेरिति भावः । मीनस्यै वेति ॥ मत्स्यपर्यायेषु मीनस्यैव ग्रहणम्। नत्वनिमिषादिशब्दानामित्यर्थः । इदमपि 'स्वं रूपम् इत्यत्र भाष्ये स्थितम् । पाक्षिक इति ॥ स्वरूपस्योदाहरणम् । शाकुनिक इति तु पक्षिपर्यायस्य ।

८००
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५८६ । परिपन्थं च तिष्ठति । (४-४-३६)

अस्माद्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक्स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । निपातनात् पन्थादेशः । परिपन्थं हन्ति पारिपन्थिक: ।

१५८७ । माथोत्तरपदपदव्यनुपदं धावति । (४-४-३७)

दण्डाकारो माथः पन्थाः दुण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ।

१५८८ । आक्रन्दाट्ठञ् च । (४-४-३८)

अस्माट्ठञ्स्यात्, चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ।

१५८९ । पदोत्तरपदं गृह्णााति । (४-४-३९)

पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ।


मायूरिक इति ॥ पक्षिविशेषस्य । तथा मात्स्यिकः मैनिकः, शाकुलिक इति क्रमेण स्वरूप पर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिकः, सारङ्गिकः इति क्रमेण स्वरूपपर्याय विशेषाणामुदाहरणम् । परिपन्थञ्च तिष्ठति ॥ अस्मादिनि ॥ परिपन्थशब्दादित्यर्थः । चकारात् हन्तीत्यनुकृष्यते । तदाह । तिष्ठति हन्ति चेति ॥ पन्थानं वर्जयित्वेति ॥ एतेन ‘अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वे ‘पञ्चम्यपाङ्परिभिः’ इति पञ्चम्याम् “अपपरि बाहिरञ्चवः पञ्चम्या' इति अव्ययीभावसमासः सूचितः । व्याप्य चेति ॥ एतेन सर्वतः शब्द पर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययी भावः प्रादिसमासो वेत्यपि बोध्द्यम् । उभयथापि क्रियाविशेषणत्वात् द्वितीयान्तत्वम् । निपातनात् पन्थादेश इति ॥ नेदम्प्रत्ययसंनियोगेन निपातनम् । किन्तु ततोऽन्यत्रापि परिपन्थशब्दोऽस्ति । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः । इदमेवा भिप्रेत्य विग्रहन्दर्शयति । परिपन्थन्तिष्ठतीति ॥ माथोत्तर ॥ माथोत्तरपद, पदवी , अनुपद, एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः । माथपदं व्याचष्टे । माथः पन्था इति ॥ मथ्यते गन्तृभिराहन्यते इति व्युत्पत्तेरिति भावः । दण्डमाथ इति ॥ शाकपार्थि वादिः । पन्थानन्धावतीति धावतेर्गत्यर्थत्वात् सकर्मकत्वम् । पादविवक इति ॥ पदवीन्धाव तीति विग्रहः । आनुपदिक इति ॥ अनुपदं धावतीति विग्रहः । आक्रन्दाट्ठञ् च ॥ अस्मादिति ॥ आक्रन्दशब्दाद्वितीयान्तादित्यर्थः । आक्रन्दन्ति अस्मिन्नित्याक्रन्दः । तदाह । आक्रन्दो दुःखिनां रोदनस्थानमिति ॥ पदोत्तरपदम् ॥ पदशब्दः उत्तरपदं यस्य

प्रकरणम्]
८०१
बालमनोरमा ।

१५९० । प्रतिकण्ठार्थललामं च । (४-४-४०)

एभ्यो गृह्णात्यर्थे ठक्स्यात् । प्रतिकण्ठं गृहाति प्राप्तिकण्ठिकः । आर्थिकः लालामिकः ।

१५९१ । धर्मं चरति । (४-४-४१)

धार्मिकः । “ अधर्माच्चेति वक्तव्यम्' (वा २९६६) । आधर्मिक ।

१५९२ । प्रतिपथमेति ठंश्च । (४-४-४२)

प्रतिपथमेति प्रतिपथिकः । प्रातिपथिकः ।

१५९३ । समवायान्समवैति । (४-४-४३)

सामवायिकः । सामूहिकः ।

१५९४ । परिषदो ण्यः । (४-४-४४)

परिषदं समवैति पारिषद्यः ।

१५९५ । सेनाया वा । (४-४-४५)

ण्यः स्यात् । पक्षे ठक् । सैन्याः-सैनिकाः ।

१५९६ । संज्ञायां ललाटकुक्कुट्यौ पश्यति । (४-४-४६)

ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशव्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते । कौक्कुटिको भिक्षुः ।


तस्मात् द्वितीयान्तात् गृह्णातीत्यर्थे ठक् स्यादित्यर्थः । प्रतिकण्ठार्थः ॥ एभ्य इति ॥ प्रतिकण्ठ, अर्थ, ललाम, इत्येभ्यः इत्यर्थः । आर्थिक इति ॥ अर्थङ्गृह्लातीत्यर्थः । लालामिक इति ॥ ललामं चिहं तद्गृहातीत्यर्थः “लिङ्गं ललामञ्च ललाम च' इत्यमरः । धर्मञ्चरति ॥ चरतीत्यर्थे द्वितीयान्तात् धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ॥ “प्रहणवत्ता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्ताग्रहणादप्राप्ते आरम्भः । प्रतिपथमेति ठंश्च ॥ प्रतिपथ मित्यव्ययीभावात् एतीत्यर्थे ठन् ठक् च स्यादित्यर्थः । प्रतिपथमिति “लक्षणेनाभिप्रती आभि मुख्ये' इत्यव्ययीभावः । ‘ऋक्पूः' इति समासान्तः । समवायान् समवैति । द्वितीया न्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति मेलयतीत्यर्थः । परिषदो ण्यः ॥ तृतीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः । सेनाया वा ॥ ण्यः स्यादिति ॥ शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात् समवैतीत्यर्थे ण्यो वा स्यादित्यर्थः । सैन्याः-सैनिका इति ॥ सेनां मेळयन्तीत्यर्थः । संज्ञायाम् ॥ ललाटकुक्कुटीशब्दाभ्यान्द्वितीयान्ताभ्यां पश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा रूढिः, न त्वाधुनिकः सङ्केतः । लालाटिकः सेवक इति ॥ दूरे स्थित्वा प्रभोर्ललाटं 101

८०२
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५९७ । तस्य धर्म्यम् । (४-४-४७)

आपणस्य धर्म्यमापणिकम्

१५९८ । अण् महिष्यादिभ्यः । (४-४-४८)

महिष्या धर्म्य माहिषम् । याजमानम् ।

१५९९ । ऋडतोऽञ् । (४-४-४९)

यातुर्धर्म्यं यात्रम् । नराच्चेति वक्तव्यम्’ (वा २९६७) । नरस्य धर्म्या नारी । “विशासितुरिड्लोपश्चाञ्च वक्तव्यः' (वा २९६८) । विशासितु र्धर्म्य वैशस्रम् । 'विभाजयितुर्णिलोपश्चाञ्च वाच्यः' (वा २९६९) । विभा जयितुर्धर्म्यं वैभाजित्रम् ।

१६०० । अवक्रयः । (४-४-५०)

षष्ठयन्ताट्ठक्स्यादवक्रयेऽर्थे । आपणस्यावक्रयः आपणिक: । राजग्राह्यं द्रव्यमवक्रयः ।

१६०१ । तदस्य पण्यम् । (४-४-५१)

अपूपाः पण्यमस्य आपूपिकः।

१६०२ । लवणाट्ठञ् । (४-४-५२)

लावणिक: ।

१६०३ । किसरादिभ्यः ष्ठन् । (४-४-५३)

किसरं पण्यमस्य किसरिकः । षित्वान्डीष् । किसरिकी । किसर, उशीर, नलद, इत्यादिकिसराद्यः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ।


पश्यति, नतु कार्ये प्रवर्तते इत्यर्थः । “लालाटिकः प्रभोर्भावदशी कार्याक्षमश्च यः” इत्यमरः । कौक्कुटिक इति ॥ कुक्कुटपतनार्हदेशम्पश्यतीत्यर्थः । तस्य धर्म्यम् ॥ धर्मादनपेतं धर्म्यम् । आचरितुं योग्यमित्यर्थः । धर्म्यमित्यर्थे षष्ठयन्ताट्ठगित्यर्थः । अण् महिष्यादिभ्यः ॥ षष्ठयन्तेभ्यो धर्म्यमित्यर्थे इति शेषः । ऋतोऽञ् ॥ ऋदन्तात्षष्ठयन्तात् धर्म्यमित्यर्थे अञित्यर्थः ।नारीति ॥ अञन्तत्वात् डीबिति भावः । इड्लोप इति ॥ इटो लोप इत्यर्थः । वैशस्त्र मिति ॥ विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति ॥ विभाजयितृशब्दादञि णिलोपः । अवक्रयः ॥ तस्येत्यनुवर्तते । तदाह । षष्ठयन्तादिति ॥ तद्स्य पण्यम् । अस्मिन्नर्थे प्रथमान्तात् ठगित्यर्थः । क्रेतव्यं द्रव्यं पण्यम् । लवणाट्ठञ् ॥ तदस्य पण्यमित्येव । लावणिक इति ॥ लवणमस्य पण्यमित्यर्थः। किसरादिभ्यः ष्ठन् ।

प्रकरणम्]
८०३
बालमनोरमा ।

१६०४ । शलालुनोऽन्यतरस्याम् । (४-४-५४)

ष्ठन् स्यात् , पक्षे ठक् । शलालुकः-शलालुकी। शालालुकः-शालालुकी। शलालुः सुगन्धिद्रव्यविशेषः ।

१६०५ । शिल्पम् । (४-४-५५)

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ।

१६०६ । मड्डुकझर्झरादणन्यतरस्याम् । (४-४-५६)

मड्डुकवादनं शिल्पमस्य माड्डुकः-माड्डुकिकः । झार्झरः-झार्झरिकः।

१६०७ । प्रहरणम् । (४-४-५७)

'तदस्य' इत्येव । असि: प्रहरणमस्य आसिकः । धानुष्कः ।

१६०८ । परश्वथाट्ठञ्च । (४-४-५८)

पारश्वथिक: ।

१६०९ । शक्तियष्टयोरीकक् । (४-४-५९)

शाक्तीकः । याष्टीक: ।

१६१० । अस्ति नास्ति दृिष्टं मतिः । (४-४-६०)

' तदस्य' इत्येव । अस्ति परलोकः इत्येवं मतिर्यस्य सः आस्तिकः । नास्तीति मतिर्यस्य स नास्तिक । दिष्टमिति मतिर्यस्य स दैष्टिकः ।


तदस्य पण्यमित्येव । ष्ठन्निति च्छेदः। तदाह । पित्वान्ङीषिति ॥ शलालुनोऽन्यतरस्याम्। ष्ठन्निति शेषः । तदस्य पण्यमित्येव । शलालुक इति ॥ शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्वस्य फलमाह । शलालुकीति ॥ शिल्पम् ॥ तदस्य शिल्पमित्यर्थे प्रथमान्तात् ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु मार्दङ्गिकः इत्युदाहरणं वक्ष्यति । तत्र मृदङ्गं शिल्पमिति कथं विग्रहः । मृदङ्गस्य शिल्पत्वासम्भवात् । तत्राह । मृदङ्गवादनमिति ॥ मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः । मड्डुक झर्झरात् । तदस्य शिल्पमित्येव । पक्षे ठक् । मडडुकझर्झरौ वाद्यविशेषौ । प्रहरणम् ॥ अस्येत्येव । प्रहरणवाचिनः प्रथमान्तादस्येत्यर्थे ठगि यर्थः । प्रह्रियतेऽनेनेति प्रहरणम्, आयुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः। 'इणः षः' इति षः । परश्वथाट्ठञ् च । तदस्य प्रहरणमित्येव । चात् ठक् । “परशुश्च परश्वथः” इत्यमरः । शक्तियष्टयोरीकक् । शक्तियष्टिशब्दाभ्याम्प्रथमान्ताभ्याम्प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्या दित्यर्थः । अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्या स्तीति, दिष्टमिति मतिरस्यास्तीत्यर्थेपु क्रमेण अस्तीत्यस्मात् नास्तीत्यस्मात् दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः ।

८०४
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१६११ । शीलम् । (४-४-६१)

अपूपभक्षणं शीलमस्य आपूपिकः ।

१६१२ । छत्रादिभ्यो णः । (४-४-६२)

गुरोर्दोषाणामावरणं छत्रम्, तच्छीलमस्य छात्रः ।

१६१३ । कार्मस्ताच्छील्ये । (६-४-१७२)

कार्मः इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते' (सू ६७९) इत्येव सिद्धे “ अण्कार्यं ताच्छीलिके णेऽपि' । तेन चौरी तापसी इत्यादि सिद्धम् । “ताच्छील्ये' किम् । कार्मणः ।

१६१४ । कर्माध्ययने वृत्तम् । (४-४-६३)

प्रथमान्तात्षष्ठयर्थे ठक्स्याद्ध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्त स्यार्थः । एकमन्यद्वृत्तमस्य ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोञ्चारणरूपं स्खलितमेकं जातं, सः ।


“दैवन्दिष्टम्' इत्यमरः । शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्तादृगित्यर्थः । शीलं स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः । छत्त्रादिभ्यो णः ॥ एभ्यः प्रथमान्तेभ्यः अस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छत्तूं शीलमस्य छात्तः इत्युदाहरणं वक्ष्यति । तत्र छत्तस्य शीलत्वानुपपत्तेः छत्तूपदं गुरुंदोषावरणे गौणमित्याह । गुरोरिति ॥ शीलमित्यर्थे छत्रादित्वात् णप्रत्यये कृते । कार्मस्ताच्छील्ये ॥ तत् शीलं यस्य सः तच्छीलः, तस्य भावः ताच्छील्यम् । तस्मिन्वाच्ये कार्म इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह । टिलोपो निपात्यते इति ॥ णेऽपी त्यनन्तरम् इति ज्ञापनार्थमिदमिति शेषः । अत्र टिलोपविधिर्हि “ अन्’ इति प्रकृतिभाव निवृत्त्यर्थः । ततश्च अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादणि कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यते इति भावः । तेनेति ॥ चुरा शीलमस्य, तपः शीलमस्येत्यर्थे चुरातपः शब्दाभ्याञ्छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकायें डीपिचौरी तापसीति सिद्धमित्यर्थः। कार्मण इति । “तस्येदम्' इत्यणि 'कार्मस्ताच्छील्ये' इत्यस्याप्रवृत्त्या * अन्' इति प्रकृति भावान्न टिलोप इति भावः । कर्माध्ययने वृत्तम् ॥ 'तदस्य पण्यम्’ इत्यतः तदस्ये त्यनुवर्तते । ‘तदस्य कर्माध्ययने वृत्तम्' इत्यर्थनिर्देशः । तत्र तदित्यनेन विशेष्येण कर्मवृत्त मित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्मविशेष्यसमर्पकम् । तदिति प्रथमोचारितम् । ततश्च अख्य अध्ययनविषये तत्कर्म वृत्तमित्यर्थे तच्छब्दगम्यविशेष्य वाचकात् प्रथमान्ताट्ठक् स्यादित्यर्थः । तदाह । प्रथमान्तादिति । वृत्तं कर्म प्रति विशेष्यसमर्पकादिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति ॥

प्रकरणम्]
८०५
बालमनोरमा ।

१६१५ ॥ बह्वच्पूर्वपदाट्ठच्

प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठाः अस्य जाता इत्यर्थः ।

१६१६ । हितं भक्षाः । (४-४-६५)

अपूपभक्षणं हितमस्मै आपूपिकः ।

१६१७ । तदस्मै दीयते नियतम् । (४-४-६६)

अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ।

१६१८ । श्राणामांसौदुनाट्टिठन् । (४-४-६७)

श्राणा नियतं दीयतेऽस्मै श्राणिकः-श्राणिकी । मांसौदनग्रहणं सङ्घात विगृहीतार्थम् । मांसौदनिक:-मांसिकः । औदनिकः ।

१६१९ ॥ भक्तादणन्यतरस्याम् । (४-४-६८)

पक्षे ठक् । भक्तमस्मै नियतं दीयते भाक्तः-भाक्तिकः ।

१६२० । तत्र नियुक्तः । (४-४-६९)

आकरे नियुक्तः आकारिकः ।


अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति । अनेन कर्म वृत्त मित्येतत् तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यनुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रथमानिर्दिष्टत्वात्, अत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात्, तस्य प्रथमा- निर्दिष्टत्वाभावादित्यभिप्रेत्योदाहरति । एकमन्यद्वृत्तमस्य ऐकान्यिक इति । “तद्धितार्थ इति समासे एकान्यशब्दाट्ठगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः । बह्वच् पूर्वपदाट्ठच् ।। ‘तदस्य कर्माध्ययने वृत्तम्' इत्यनुवर्तते । तदाह । प्राग्विषये इति ॥ द्वादशान्यिक इति ॥ ‘तद्धितार्थ’ इति समासः । एवं त्रयोदशान्यिकः । चित्त्वान्नादिवृद्धिः। हितम्भक्षाः ॥ तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुर्थ्या विपरिणम्यते । हितयोगात् तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक स्यात् यत् हितम्भक्षाश्चेत् ते स्युरित्यर्थः । संस्कृतं भक्षाः इतिवद्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दः अपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक् । अभिधानस्वाभाव्यादिति भावः । तदस्मै दीयते नियतम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः । नियुक्तमिति पक्षान्तरम् । नियतमित्यर्थः श्चाणामांस ॥ तदस्मै दीयते नियतमित्येव । श्चाणा यवागूः । “यवागूरुष्णिका श्राणा विलेपी तरला च सा” इत्यमरः । टित्त्वं डीबर्थम् । तदाह । श्राणिकीति । सङ्घात विगृहीतार्थमिति । ठकैव सिद्धे ओदनिक इत्यत्र आदिवृध्यभावार्थं प्रत्ययान्तरविधानमिति भावः । भक्तादणन्यतरस्याम् ॥ तदस्मै दीयते नियतमित्येव । तत्र नियुक्तः ।

८०६
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१६२१ । अगारान्ताठ्ठन् । (४-४-७०)

देवागारे नियुक्तो देवागारिकः ।

१६२२ । अध्यायिन्यदेशकालात् । (४-४-७१)

निषिद्धदेशकालवाचकाट्ठक्स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ।

१६२३ । कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । (४-४-७२)

तत्र' इत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशाः वेणव कठिनाः यस्मिन्देशे स वंशकठिनः। तस्मिन्देशे या क्रिया यथा अनुष्ठेया तां तथैवानुतिष्ठतीत्यर्थ । प्रास्तारिकः । सांस्थानिकः ।

१६२४ । निकटे वसति । (४-४-७३)

नैकटिको भिक्षुः ।

१६२५ । आवसथात ष्ठल् । (४-४-७४)

आवसथे वसति आवसथिकः । षित्त्वान्ङीष् । आवसथिकी ।


अस्मिन्नर्थे सप्तम्यन्ताट्टक् स्यादित्यर्थः । नियुक्तः अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आाकरिक इति ॥ आकरः रन्नाद्युद्भवस्थानम् । अगारान्ताट्टन् । तत्र नियुक्त इत्येव । नित्त्वान्नादिवृद्धिः । तदाह । देवागारिक इति ॥ अध्यायिन्यदेशकालात् ॥ निषिद्धेति । अदेशकालेस्यत्र नञ् निषिद्धे वर्तते इति भावः । श्माशानिकः । चातुर्दशिक इति । देशकालभिन्नादिति व्याख्यानेन तु इह न स्यादिति भावः । कठिनान्तप्रस्तार ॥ अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान, एभ्यः सप्तम्यन्तेभ्यः ठगित्यर्थः । वंशकठिनशब्दं विवृणोति । वंशा इति ॥ व्यवहरणम् उचितक्रिया । तदाह । यस्मिन्देशे इति ॥ प्रस्तारसंस्थानशब्दौ अवयवसन्निवेशपर्यायौ । निकटे वसति । अस्मिन्नर्थे सप्तम्यन्ता न्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् । आवसथात्ष्ठल् । तत्र वसतीत्यर्थे आवसथात् सप्तम्यन्तात् ष्ठलित्यर्थः । आवसथं गृहम् । षित्वं डीषर्थम् । तदाह । आवसथिकीति ॥ आकर्षादित्यादि श्लोकवार्तिकं प्राग्वहतेष्ठक्’ इत्यादौ ठगिति वा ष्टगिति वा छेद इति संशयनिवृत्त्यर्थम् “ आकर्षात्ष्ठल्’ इति सूत्रभाष्ये । पठितम् । तत्र आकर्षादित्यनेन “ आकर्षातष्ठल्' इति सूत्रं विवक्षितम् । पर्पादिभ्यः इत्यनेन 'पर्पादिभ्यः ष्ठन्’ इति सूत्रं विवक्षितम् । भस्रादिभ्यः इत्यनेन “भस्रा दिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेन 'कुसीददशैकादशात् ष्ठन्ष्टचौ'

प्रकरणम्]
८०७
बालमनोरमा ।


" आकर्षात्पर्पादेर्भस्रादिभ्यः कुसीदसूत्राश्च । आवसथात्किसरादेः षितः षडेते ठगधिकारे !” (वा २९५५)}} षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ।

इति तद्धिते ठगधिकारप्रकरणम् ।

अथ तद्विते प्राग्घितीयप्रकरणम् ।

१६२६ । प्राग्घिताद्यत् । (४-४-७५)

तस्मै हितम्’ (सू १६६५) इत्यतः प्राग्यदधिक्रियते ।

१६२७ । तद्वहति रथयुगप्रासङ्गम् । (४-४-७६ )

रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे यत्काष्ठ मासज्यते स प्रासङ्गः । तं वहति प्रासङ्गयः ।

१६२८ । धुरो यड्ढञौ । (४-४-७७)

हलि च' (सू ३५४) इति दीर्घे प्राप्ते ।


इति सूत्रं विवक्षितम् । आवसथादित्यनेन “ आवसथात् ष्ठल्’ इति सूत्रं विवक्षितम् । किसरा देरित्यनेन “किसरादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः । ननु “कुसीद' इति सूत्रे प्रत्ययद्वयविधानात् एतत्सूत्रषट्कविहिताः सप्त प्रत्ययाः लभ्यन्ते इति षट् षित इति कथमित्यत आह । षडितीति ॥ षडित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । इति तद्धिते प्राग्वहतीयप्रकरणम् । । अथ प्राग्धितीयप्रकरणं निरूप्यन्ते-प्राग्धिताद्यत् । हितशब्दः तद्धटितसूत्रपरः। तदाह। तस्मै हितमिति । तद्वहति रथ ।। रथादि वहतीत्यर्थे द्वितीयान्तात् रथयुग प्रासङ्ग इति त्रयात्यत्स्यादित्यर्थः। युग्य इति ॥ रथादिवहनकाले अश्वादिस्कन्धेषु तिर्यक् यत् काष्ठमीषा प्रोतमासज्यते तद्युगम् । तद्वहतीत्यर्थः । दमनकाले इति ॥ रथादिवहने सुशिक्षितावश्वौ नियुज्य तत्स्कन्धवाह्ययुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अश्वादयो वहनशिक्षार्थन्नियुज्यन्ते स प्रासङ्ग इत्यर्थः । “प्रासङ्गयो ना युगाद्युगः” इत्यमरः । धुरो यड्ढञौ ॥ धुर्शब्दाद्वितीया न्तात् वहतीत्यर्थे यड्ढञ्च स्यादित्यर्थः । यड्ढकाविति पाठान्तरम् । हलि चेतीति ॥ 'धुर्वी हिंसायाम्' 'भ्राजभास' इति क्लिप् । 'राल्लोपः' इति लोपः । अश्वादिस्कन्धवाह्यप्रदेशो

८०८
[प्राग्घितीय
सिद्धान्तकौमुदीसहिता

१६२९ । न भकुर्छुराम् । (८-२-७९)

भस्य कुर्छुरोश्चोपधायाः दीर्घों न स्यात् । धुर्यः-धौरेयः ।

१६३० । खः सर्वधुरात् । (४-४-७८)

सर्वधुरं वहतीति सर्वधुरीणः ।

१६३१ । एकधुराल्लुक्च । (४-४-७९)

एकधुरं वहति एकधुरीणः-एकधुरः ।

१६३२ । शकटादण् । (४-४-८०)

शकटं वहति शाकटो गौः ।

१६३३ । हलसीराठ्ठक् । (४-४-८१)

हलं वहति हालिकः । सैरिकः ।

१६३४ । संज्ञायां जन्या । (४-४-८२)

जनी वधूः । तां वहति प्रापयति जन्या ।

१६३५ । विध्यत्यधनुषा । (४-४-८३)


युगावयवो धूः । धुर्शब्दात् यति 'हलि च' इति दीर्घे प्राप्ते सतीत्यर्थः । न भकुर्छुराम् । ‘र्वोरुपधायाः’ इत्यतः उपधाया इति दीर्घ इति चानुवर्तते । तदाह । भस्येत्यादिना । धूर्वहे धुर्यधौरेयधुरीणाः' इत्यमरः । खः सर्वधुरात् ॥ सर्वा धूः सर्वधुरा “पूर्वकाल' इति तत्पुरुषः । 'ऋक्पूः' इति समासान्तः । 'परवालिङ्गम्' इति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपा पेक्षया नपुंसकनिर्देशः द्वितीयान्तात्सर्वधुराशब्दात् वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः । “स तु सर्वधुरीणो यो भवेत् सर्वधुरावहः” इत्यमरः । एकधुराल्लुक् च । एकधुराशब्दात् द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः-एकधुर इति । एकधुरां वहतीत्यर्थः । शकटादण् ॥ द्वितीयान्ताच्छकटशब्दात् वहतीत्यर्थे अण् स्यादित्यर्थः । यतोऽपवादः । हलसीराट्टक् ॥ आभ्यान्द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः । संज्ञायाञ्जन्या ॥ जनीशब्दात् द्वितीयान्तात् वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थे जनिघसिभ्या मिति जनधातोः इणि ‘जनिवध्योश्च' इति वृद्धिप्रतिषेधे “कृदिकारात्’ इति डीषि । जनीशब्दस्य निष्पतेरिति भावः । “समास्नुषाजनीवध्वः' इत्यमरः । वहन्तीत्यस्य विवरणम्प्रापयन्तीति । वरगृहमिति शेषः । जन्या इति ॥ जामातुर्वयस्या इति शेषः । “जन्या स्निग्धा वरस्य ये” इत्यमरः । विध्यत्यधनुषा ॥ तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषः अभावः अधनुः तस्मिन्सतीत्यर्थः । अर्थाभावे नञ्तत्पुरुषः । अर्थाभावे अव्ययीभावेन

प्रकरणम्]
८०९
बालमनोरमा ।

द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यात्, न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्करा: ।

१६३६ । धनगणं लब्धा । (४-४-८४)

तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ।

१६३७ । अन्नाण्णः । (४-४-८५)

अन्नम् लब्धा आन्नः

१६३८ । वशं गतः । (४-४-८६)

वश्यः परेच्छानुसारी ।

१६३९ । पदमस्मिन्दृश्यम् । (४-४-८७)

पद्यः कर्दमः । नातिशुष्क इत्यर्थः ।

१६४० । मूलमस्याबर्हि । (४-४-८८)

आबर्हणमाबर्हः उत्पाटनं, तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः: ।


अयं विकल्पते, इत्युक्तत्वात् द्वितीयान्ताद्विष्यतीत्यर्थे यत्स्याद्धनुषः करणस्याभावे सतीत्यर्थः । नचेत्तत्रेति । तत्र वेधने धनुः करणं नचेदित्यर्थः । पद्या इति । पादशब्दाद्यति पद्यत्यतदर्थे' इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यत् न भवति । न चासामर्थ्यादेवात्र यन्नेति वाच्यम् । विध्द्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याविघातात् । अन्यथा औपगवो देवदत्तः उपगुनप्तृत्वात् इत्यादौ न स्यात् । प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्च इति *शब्देन्दुशेखरे विस्तरः । धनगणं लब्धा ॥ धनशब्दात् गणशब्दाञ्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह । तृन्नन्तमेतदिति । तथाच

  • न लोक' इति निषेधान्न षष्ठीति भावः । अन्नाण्णः ॥ लब्धेत्यर्थे द्वितीयान्तादिति शेषः ।

वशङ्गतः ॥ वशशब्दात् द्वितीयान्ताद्भत इत्यर्थे यदित्यर्थः । वश्य इति । वशङ्गत इति विग्रहः । ‘वश कान्तौ' । कान्तिरिच्छा । वशनं वशः । ‘वशिरण्योरुपसङ्खयानम्’ इत्यप् । वशं इछाङ्गतः प्राप्तः, इछाधीन इत्यर्थः । वशधातुः छान्दसः' इति लुग्विकरणे वक्ष्यते । तत्प्रायिक मिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह। परेच्छानुसारीति । पदमस्मिन्दृश्यम्। प्रथमान्तात्पदशब्दात् दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तम्प्रथमया विपरिणम्यते । मूलमस्याबर्हि ॥ आाबर्हणमिति ॥ उत्पाटनमित्यर्थः । उपसर्गवशात् वृहू उद्यमने' इति धातोरुत्पाटने वृत्तिः। मूल्या मुद्रा इति ॥ मूलतः उत्पाटनीया इत्यर्थः ।

  • “करणमात्रोपलक्षणं धनुरिति, तेन चोर विध्यति खङ्गेनेनत्यादावपि न । न च तत्रासामर्थ्यम् ।

प्रधानस्य सापेक्षत्वेनादोषात् । प्रत्ययार्थैकदेशव्यधनस्य तदशे नित्यसापेक्षत्वाच्च। चोरं विध्यती त्यादौ त्वनभिधानाद्वारणीयः सत्यनिष्टत्वे ।” इति शब्देन्दुशेखरे । P 102

८१०
[प्राग्घितीय
सिद्धान्तकौमुदीसहिता

१६४१ । संज्ञायां धेनुष्या । (४-४-८९)

धेनुशब्दस्य पुगागमो यप्रत्ययश्च स्वार्थे निपात्यते, संज्ञायाम् । धेनुष्या बन्धके स्थिता ।

१६४२ । गृहपतिना संयुक्ते ञ्यः । (४-४-९०)

गृहपतिर्यजमानः, तेन संयुक्तो गार्हपत्योऽग्निः ।

१६४३ । नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्य

प्राप्यवध्यानाम्यसमसमितसंमितेषु । (४-४-९१)

नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया सम्मितं तुल्यम् ।

१६४४ । धर्मपथ्यर्थन्यायादनपेते । (४-४-९२)

धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ।


संज्ञायां धेनुष्या ॥ यप्रत्ययश्चेति ॥ यति तु तित्स्वरः स्यादिति भावः । धेनुष्येति । या धेनुर्दोहनार्थमुत्तमर्णाय अधर्मणेन दयते तस्या इयं संज्ञा । तदाह । बन्धके स्थितेति । अमरवाक्यमिदम् । संज्ञायामित्यापादपरिसमाप्तेरधिकारः । सज्ञा हि रूढिर्विवक्षिता । गृह पतिना ॥ अस्मिन्नर्थे गृहपतिशब्दान् तृनीयान्तात् ञ्यः स्यादित्यर्थ । गार्हपत्योऽग्नि रिति ॥ अग्निविशेष इत्यर्थः । तत्र पत्त्नीसंयाजेषु अग्निहोत्रे च गृहपतिदेवताकहोमस्य क्रिय माणत्वात् गृहपतियोगः । यद्यपि देवसूहविःघु “अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति” इति हविर्होम आहवनीये क्रियते । तथापि संज्ञाधिकारादाहवनीये नास्य प्रयोगः । नौवयोधर्म ॥ नौ, वयस्, धर्म, विष, मूल, मूल, सीता, तुला, एभ्योऽष्टभ्य. क्रमात् तायें, तुल्ये, प्राप्ये, वध्ये आनाभ्ये, समे, सभिते, संमिते, चार्थे यत्स्यादित्यर्थः । तृतीयान्तेभ्यः इत्यर्थात् गम्यते। तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव सम्भवात् । अत्र मूलशब्दयोर्यथा सङ्खयप्रवृत्तये नैकशेषः । अन्यथा सप्तानाम्प्रकृतीनाम् एकैकस्याष्टस्वप्यर्थेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति ॥ तरीतुं शक्यमित्यर्थः । 'ऋहलोर्ण्यंत्' । वयसा तुल्य इति ॥ मित्रे एवायम्प्रत्ययो नतु शत्रौ। संज्ञाधिकारात्। मूलेनानाम्यमिति ॥ पटादेरुत्पत्त्यर्थे वणिग्भिर्वेि नियुक्तं द्रव्यं मूलम् । तेन सह यदधिकन्द्रव्यम् आनम्यते विक्रेतुः सम्मतीकरणेन लभ्यते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्वन्द्रव्यं मूल्यमिति व्यवहरन्ति । तत्र लक्षणा बाध्या । सा च साम्प्रतिकी निरूढा वा । सीतयेति ॥ सीता लाङ्गलपद्धतिः । तया समितं सङ्गत्त मित्यर्थः । कृष्टमिति यावत् । तुलयेति ॥ तुला धटा, तया उन्मितमित्यर्थः । धर्मपथ्यर्थ ॥ धर्म, पथिन्, अर्थ, न्याय, एभ्यः अनपेतमित्यर्थे यदित्यर्थः । औचित्यात्पञ्चम्यन्तेभ्यः इति

प्रकरणम्]
८११
बालमनोरमा ।

१६४५ । छन्दसो निर्मिते । (४-४-९३)

छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ।

१६४६ । उरसोऽण् च । (४-४-९४)

चाद्यत् । उरसा निर्मितः पुत्रः औरसः—उरस्यः ।

१६४७ । हृदयस्य प्रियः । (४-४-९५)

हृद्यो देशः । “हृदयस्य ह्रल्लेख–' (सू ९८८) इति हृदादेशः ।

१६४८ । बन्धने चर्षौं । (४-४-९६)

हृदयशब्दात्षष्टयन्ताद्वन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्र: ।

१६४९ । मतजनहलात्करणजल्पकर्षेषु । (४-४-९७)

मतं ज्ञानं, तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हृलस्य कर्षो हल्यः ।

१६५० । तत्र साधुः । (४-४-९८)

अग्रे साधुः अग्रयः । सामसु साधुः सामन्यः । *ये चाभावकर्मणोः (सू ११५४) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ।

१६५१ । प्रतिजनादिभ्यः खञ् । (४-४-९९)


लभ्यते । धर्मादनपेतामिति ॥ अप्रच्युतमित्यर्थः । पथ्यमिति ॥ पथः अनपेतमित्यर्थः । न्याय्यमिनि ॥ न्यायादनपेतमित्यर्थः । छन्दसो निर्मिते ॥ छन्दश्शब्दात्तृतीयान्तात् निर्मितेऽर्थे यदित्यर्थः । इच्छयेति ॥ छन्दःशब्दः इच्छावाचीति भावः । “छन्दः पद्येऽभि लाषे च' इत्यमरः । उरसोऽण् च ॥ तृतीयान्तान्निर्मित इत्यर्थे इति शेपः । उरस्यः इति ॥ “अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ” इति श्रुतेरिति भावः । पुत्त्र इति संज्ञाधि काराल्लब्धम् । हृदयस्य प्रियः ॥ षष्ठयन्तान् हृदयशब्दात् प्रिय इत्यर्थे यत्स्यादित्यर्थः । बन्धने चर्षौ ॥ मतजनहलात् ॥ यथासङ्खयम् एभ्यः एष्वर्थेषु यदिति शेषः । मतं ज्ञान मिति ॥ मनधातोः भावे त्क्त इति भावः । करणं भावः साधनं वेति । कृञ्धातोर्भावे करणे वा ल्युटि करणशब्दः । तेन जननक्रिया वा जननसाधनं वा विवक्षितमित्यर्थः । मत्य मिति ॥ ज्ञानस्य जननक्रिया जननसाधनं वेत्यर्थः । तत्र साधुः ॥ सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति ॥ अग्रे साधुरित्यर्थ । साधुरत्र प्रवीणो गृह्यते, नतु हितः । तत्र ‘तस्मै हितम्’ इति वक्ष्यमाणत्वात् । प्रतिजनादिभ्यः खञ् ॥ तत्र साधुरित्येव ।

८१२
[प्राग्धितीय
सिद्धान्तकौमुदीसहिता

प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीन: ।

१६५२ । भक्ताण्णः । (४-४-१००)

भक्ते साधवो भाक्ताः शालयः ।

१६५३ । परिषदो ण्यः (४-४-१०१)

पारिषद्यः. । “ परिषद्ः' इति योगविभागाण्णोऽपि । पारिषदः । ['पर्षदः' इति पाठान्तरम् । पार्षदः ।]

१६५४ । कथादिभ्यष्ठक् । (४-४-१०२)

कथायां साधुः काथिकः ।

१६५५ । गुडादिभ्यष्ठञ् । (४-४-१०३)

गुडे साधुर्गौडिक इक्षुः । साक्तुको यवः ।

१६५६ । पथ्यतिथिवसतिस्वपतेर्ढञ् । (४-४-१०४)

पथि साधु पाथेयम् । आतिथेयम् । वसनं वसतिः, तत्र साधुर्वासतेयी रात्रिः। स्वापतेयं धनम्।

१६५७ । सभाया यः । (४-४-१०५)

सभ्यः ।

१६५८ । समानतीर्थे वासी । (४-४-१०७)

'साधुः' इति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसती तीति सतीर्थ्यः ।


सप्तम्यन्तेभ्यः एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः । प्रातिजनीन इति ॥ प्रतिजनमिति वीप्सायामव्ययीभावः। तत्र साधुरित्यर्थः । एवं वैश्वजनीनः । भक्ताण्णः ॥ सप्तम्यन्तादस्मात् साधुरित्यर्थे इति शेषः। परिषदो ण्यः ॥ सप्तम्यन्तात्साधुरित्यर्थे इति शेषः। योगेति ॥ परिषद इति प्रथमो योगः। परिषदः णः स्यादित्यर्थः। ततः ‘ण्यः' इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः। कथादिभ्यष्टक् ॥ इत्यादि स्पष्टम् । गुडादिभ्यष्ठञ् ॥ साक्तुको यव इति ॥ सक्तुषु साधुरित्यर्थः । कथादित्वाद्वक् । उगन्तत्वाट्ठस्य कः । पथ्य- तिथि ॥ इत्यादि स्पष्टम् । समानतीर्थे वासी ॥ समानतीर्थशब्दात्सप्तम्यन्तात् वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति ॥ ग्रहादेराकृतिगणत्वाणिनिः । तीर्थशब्दस्य विवरणं गुराविति । सतीर्थ्य इति ॥ समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः । १. 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवतीजये पाणिनिः-इति मुकुटः।

प्रकरणम्]
८१३
बालमनोरमा ।

१६५९ । समानोदरे शयित ओ चोदात्तः । (४-४-१०८ )

समाने उदरे शयित: स्थितः समानोदर्यो भ्राता ।

१६६० । सोदराद्यः । (४-४-१०९)

सोदर्यः । अर्थ: प्राग्वत् ।

इति तद्धिते चतुर्थस्य चतुर्थपादे प्राग्घितीयप्रकरणम् ।

अथ तद्विते पञ्चमस्य प्रथमपादे आहीर्ये छयद्विधिप्रकरणम्।

१६६१ । प्राक् क्रीताच्छः । (५-१-१)

'तेन क्रीतम्’ (सू १७०२) इत्यतः प्राक्छोऽधिक्रियते ।

१६६२ । उगवादिभ्यो यत् । (५-१-२)

प्राक् क्रीतादित्येव । उवर्णान्ताद्भवादिभ्यश्च यत्स्याच्छस्यापवादः । 'नाभि नभं च' (ग सू ९५) । नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् ।


समानोदरे शयितः ॥ समानोदरशब्दात् सप्तम्यन्तात् शयितः इत्यर्थे यत्स्यात् ओकारश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयं इत्यादौ तथा दर्शनादिति भावः । समानोदर्य इति ॥ समानमुदरमिति विग्रहे “पूर्वापरप्रथम' इत्यादिना समासाद्यति कृते तित्स्वरापवादः ओकारस्योदात्तः। ‘विभाषोदरे’ इति सभावे असति रूपम् । सोदराद्यः ॥ सप्तम्यन्तात् शयित इत्यर्थे इति शेषः । तित्वाभावात्प्रत्ययस्वरणान्तोदात्तोऽयम् । विभाषोदरे इति सभावः । “अपन्थानन्तु गच्छन्तं सोदरोऽपि विमुञ्चति” इत्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौ 'वोपसर्जनस्य' इति सभावो बोध्यः । एवं 'यत्र भ्राता सहोदरः’ इत्याद्यपि सिद्धम् ॥ इति तद्धिते चतुर्थस्य चतुर्थः पादः । अथ पञ्चमाध्यायः–प्राक्क्रीताच्छः ॥ क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह । तेन क्रीतमिति ॥ 'तेन क्रीतम्' इत्यतः प्राक् येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः तेषु छ इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् ॥ उश्च गवादयश्च इति द्वन्द्वात् पञ्चमी । उवर्णान्तादिति ॥ प्रातिपदिकविशेषणत्वात् तदन्तविधिः । 'उगिद्वर्णग्रहणवर्जम्’ इत्युक्ते. प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्क्रीताद्वक्ष्यमाणसूत्रेषु प्रत्यय विशेषानुपादाने उपतिष्ठते । नाभि नभञ्चेति ॥ गवादिगणसूत्रम् । नाभिशब्दः नभादेशं यत्प्रत्ययञ्च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति ॥ यत्र अक्षदण्डः प्रवेश्यते तचक्रमध्यगतच्छिद्रं

८१४
[आर्हीय
सिद्धान्तकौमुदीसहिता

'शुनः सम्प्रसारणं वा च दीर्घत्वम्’ (ग सू ९६) । शून्यम्-शुन्यम् । “ऊधसोऽनङ् च' (ग सू ९७) । ऊधन्यः ।

१६६३ । कम्बळाच संज्ञायाम् । (५-१-३)

यत्स्यात्। कम्बळ्यमूणोपलशतम्।' संज्ञायाम्’ । कम्बळीया ऊर्णा

१६६४ । विभाषा हविरपूपादिभ्यः । (५-४-४)

आमिक्ष्यं दधि, आमिक्षीयम् । पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः । अपूप्यम्-अपूपीयम् ।

१६६५ । तस्मै हितम् । (५-१-५)

वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् ।

१६६६ । शरीरावयवाद्यत् । (५-४-४)


नाभिरित्युच्यते । तस्मै हितः अक्षदण्डः, स हि अनुगुणत्वात् नाभये हितः । नभ्यमञ्जनमिति अञ्जनं तैलसेकः । नाभेरञ्जने कृते तत्र प्रोतञ्चक्र सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्य क्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्यते । भाष्ये रथनाभेरेव ग्रह्णादित्यभिप्रेत्य आह ! रथनाभावेदमिति ॥ शरीरावयवविशेषवा चिनाभिशब्दातु “शरीरावयवाद्यत्’ इति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः सम्प्रसारणमिति । गवादिगणसूत्रम् । ‘श्वन्शब्दाद्यत्स्यात्प्रकृतेः सम्प्रसारणम्, तस् सम्प्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यम्-शुन्यमिति ॥ शुन हितमित्यर्थः । ऊधसोऽनङ्वेति ॥ इदमपि गणसूत्रम् । ऊधश्शब्दात् यत्स्यात् प्रकृतेरनडादेशश्वेत्यर्थः । आदेशे डकार इत्, नकारादकार उच्चारणार्थः, डित्वादन्तादेशः । कम्बळाञ्च ॥ कम्बळ शब्दात् यत्स्यात् प्राक्क्रीतीयेष्वर्थेषु संज्ञायामित्यर्थः । कम्बळ्यम् ऊर्णापलशतमिति ॥ कम्बळाय हितमित्यर्थः । विभाषा हविः ॥ हविर्विशेषवाचिभ्यः अपूपादिभ्यश्च प्राक्क्रीती येष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षे छः । आमिक्ष्यं दधीति ॥ आमिक्षायै हितमित्यर्थः । तप्ते पयसि दध्रि निक्षिप्ते सति यत् घनीभूतं निष्पद्यते सा आमिक्षेत्युच्यते । तस्मै हितम् ॥ अस्मिन्नर्थे चतुर्थ्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति ॥ छ रूपम् । या गोधुक् वत्सेभ्यः पयः शिष्टा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति ॥ हविषे हितमित्यर्थः । हविःशब्दो गवादिः । “विभाषा हविः’ इत्यत्र तु हवि र्विशेषवाचिनामेव ग्रहणं, व्याख्यानात् । शरीरावयवाद्यत् । शरीरावयवविशेषवाचकात्

प्रकरणम्]
८१५
बालमनोरमा ।

दन्त्यम् । कण्ठ्यम् । “नस्नासिकायाः’ (वा ३४९७) । नस्यम् ।

नाभ्यम् ।

१६६७ । ये च तद्धिते । (६-१-६१)

यादौ तद्धिते परे शिरःशब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्य 'तद्धिते' किम् । शिर इच्छति शिरस्यति । “वा केशेषु' (वा ३४९३) । शीर्षण्याः-शिरस्या वा केशाः । * अचि शीर्ष इति वाच्यम्’ (वा ३४९४) । अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलाशिरस इदं स्थौलशीर्षम् ।

१६६८ । खलयवमाषतिलवृषब्रह्मणश्च । (५-१-७)

खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ।

१६६९ । अजाविभ्यां थ्यन् । (५१-८)

अजथ्या यूथिः । अविथ्या ।

१६७० । आत्मन्विश्वजनभोगोत्तरपदात्खः । (५-१-९)


चतुर्थ्यन्तात् हितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति ॥ नासिकायै हित भित्यर्थः । * पद्दन्' इति नस्, प्रभृतिग्रहणस्य प्रकारार्थत्वात् । भाष्ये तु ‘नासिकाया यत् तस् क्षुद्रेषु नस्’ इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः । ये च तद्धिते ॥ शीर्षन्नादेश इति ॥ ‘शीर्षन् छन्दसि’ इत्यतः तदनुवृत्तेरिति भावः । शीर्षण्य इति ॥ शिरसे हित इत्यर्थः । शरीरावय वत्वाद्यति शीर्षन्नादेशे ‘ये चाभावकर्मणोः’ इति प्रकृतिभावान्न टिलोपः । शिरस्यतीति ॥ शिर आत्मनः इच्छतीत्यर्थे “सुप आत्मन.' इति क्यचि ‘नः क्ये' इति नियमात् पदत्वाभावान्न रुत्वम् । वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितः तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादाह । अजादाविति ॥ खलयव ।। खलादिभ्यश्चतुर्थ्यन्तेभ्यः हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्यते, नतु नकारान्तः । तेन वृष्णे हितमिति वाक्यमेव । ब्रह्मन्शब्दो ब्राह्मणवाच्येव गृह्यते, नतु वेदादिवाची । तेन ब्रह्मणो वेदाय हितमिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्रह्मण्यमित्यत्र ‘ये चाभावकर्मणोः' इति प्रकृति भावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः । अजाविभ्यां थ्यन् ॥ अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य घित्वेऽपि ‘अजाद्यदन्तम्’ इत्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्यः अजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्टपरि भाषया अजाशब्दादपि थ्यन् । तसिलादिष्वपि पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्रीत्वं लोकात् । आत्मन्विश्वजन ॥ आत्मन्, विश्वजन, भोगोत्तरपद, एभ्यः हितमित्यर्थे

८१६
[आर्हीय
सिद्धान्तकौमुदीसहिता

१६७१ । आत्माध्वानौ खे । (६-४-१६९)

एतौ खे प्रकृत्या स्तः। आत्मने हितमात्मनीनम् । विश्वजनीनम् कर्मधारयादेवेष्यते । षष्टीतत्पुरुषाद्वहुव्रीहेश्व छ एव । विश्वजनीयम् । “पञ्च जनादुपसङ्खयानम्’ (वा २९९६) । पञ्चजनीनम् । * सर्वजनाट्ठञ् खश्च (वा २९९७) । सार्वजनिकः-सर्वजनीनः महाजनाटठञ्' (वा २९९८) माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीनः। आचार्यादणत्वं च (ग सू १८४) । आचार्यभोगीनः।

१६७२ सर्वपुरुषाभ्यां णढञौ । (५-१-१०)

सर्वाण्णो वेत्ति वक्तव्यम्’ (वा २९९९) । सर्वस्मै हितं सार्वम् सर्वीयम् । “पुरुषाद्वधविकारसमूहतेनकृतेषु' (वा ३०००) । भाष्यकारप्रयो गात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः। पुरुषस्य वधः पौरुषेयः। तस्येदम् (सू १५००) इत्यणि प्राप्ते पुरुषस्य विकारः पौरुषेयः। प्राणिरजता- दिभ्योऽञ्’ (सू १५३२) इत्यञि प्राप्ते, समूहेऽप्यणि प्राप्ते, “एकाकिनोऽपि


खः स्यादित्यर्थः । आत्मनीनमित्युदाहरणं वक्ष्यति । तत्र टिलोपे प्राप्ते । आत्माध्वानौ खे प्रकृत्या स्त इति ॥ “प्रकृत्यैका च् ' इत्यतस्तदनुवृत्तरिति भाव कर्मधारयादेवेति।। विश्वजनशब्दादिति शेषः। अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनःसाधारणो वैद्यादिः। विश्वो जनो यस्येति बहुव्रीहिर्वा । तस्मै हितमिति विग्रहः। पञ्च जनीनमिति ॥ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा: रथकारजातिश्चेत्येते पञ्च जनाः।तेभ्यो हितमिति विग्रहः। सर्वजनाट्ठञ् खश्चेति ॥ वक्तव्य इति शेषः। समानाधिकरणादिति वक्तव्यम्। इति वार्तिक भाष्ये स्थितम् । महाजनाट्ठञिति ॥ वक्तव्य इति शेषः । विश्वजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपदस्योदाहरति । मातृभोगीण इति।। मातृभागाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच असमानपदस्थत्वादेवात्र णत्वस्याप्रसक्त्तेस्तन्निषेधो व्यर्थ इति वाच्यम् । मातृभोगी णादौ णत्वज्ञापनार्थत्वात् । सर्वपुरुषाभ्यां णढञौ ॥ सर्व, पुरुष, आभ्याश्चतुर्थ्यन्ताभ्यां क्रमात् णढञौ स्तः, हितमित्यर्थे इत्यर्थः । सर्वाण्ण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति।। वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात्, न हितार्थे इत्यर्थ। ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह्। भाष्येति ॥ आणि प्राप्ते इति॥अनेन ढञिति शेषः। प्राणीति ।। रजतादित्वादानि प्राप्ते अनेन ढञित्यर्थः । समूहेऽयणि प्राप्ते इति । पुरुषाणां समूहः इत्यर्थे ‘तस्य समूहः इत्यणि प्राप्ते अनेन ढञित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परित शष तभ्या

प्रकरणम्]
८१७
बालमनोरमा ।

परितः पौरुषेयवृता इव' इति माधः । तेन कृते ग्रन्थेऽणि प्राप्ते, अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ।

१६७३ । माणवचरकाभ्यां खञ् । (५-१-११)

माणवाय हितं माणवीनम् । चारकीणम् ।

१६७४ । तदर्थं विकृतेः प्रकृतौ । (५-१-१२ )

विकृतिवाचकच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात्। अङ्गारेभ्यः एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ।

१६७५ । छदिरुपधिबलेर्ढञ् । (५-१-१३)

छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ।'उपधिशब्दात्स्वार्थे इष्यते (वा ३००३) । उपधीयते इत्युपधिः रथाङ्गं, तदेव औपधेयम् ।


आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो प्रन्थ इत्यर्थे कृते प्रन्थे इत्यणि प्राप्ते पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः । माणव । आभ्याश्चतुर्थ्यन्ताभ्यां हितमित्यर्थे खञ् स्यादित्यर्थः । माणवीनमिति ॥ मनोः कुत्सितमपत्यं माणवः । “अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण् स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ।” इत्यपत्याधिकारवार्तिकात् माणवाय हितमिति विग्रहः । चारकीणमिति ॥ चरतीति चरः पचाद्यच् । ततः स्वार्थिकः कः, चरकाय हितमिति विग्रहः । तदर्थे विकृतेः प्रकृतौ । तदर्थमिति सामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवञ्च तच्छब्देन चतुर्थ्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते । तथाच चतुर्थ्यन्तात् विकृतिवाचकादिति लभ्यते । तदाह । विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति । यथाविहितमिति शेषः । अङ्गारेभ्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपदविग्रहः । अत्र काष्ठानि प्रकृतिद्रव्याणि । अङ्गाराः विकृतयः । तद्वाचकादङ्गारशब्दाच्छप्रत्यये अङ्गारीयाणीति रूपम् । प्राकारीया इष्टका इति । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्था इत्यर्थः । शङ्कव्यमिति ॥ शङ्कवे इदमिति विग्रहः । शङ्कर्थमित्यर्थः । 'उगवादिभ्यः’ इति यत् । छदिरुपधिबलेर्ढञ् ॥ छदिप्, उपधि, बलि, एषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । एभ्यः तादर्थ्यचतुर्थ्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति ॥ छदिः तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे पात्परत्वाण्णत्वम् । बालेया स्तण्डुला इति ॥ बलये इमे इत्यर्थः। बल्यर्था इत्यर्थः । “करोपहारयोः पुंसि बालः' इत्यमरः । भागधेयः करो बलिः” इति च । उपधिशब्दादिति ॥ वार्तिकमिदम् । उपधीयते इति ॥ अक्षदण्डाग्रे उपधीयते प्रोतं क्रियते इत्युपधिः । “उपसर्गे घोः कि:’ इति धाञः ४४ 103

८१८
[छयद्विधि
सिद्धान्तकौमुदीसहिता

१६७६ । ऋषभोपानहोर्ञ्यः। । (५-१-१४)

छस्यापवादः । आर्षभ्यो वत्स औपानह्यो मुञः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन । औपानह्यं चर्म ।

१६७७ । चर्मणोऽञ् । (५-१-१५)

चर्मणो या विकृतिस्तद्वाचकाद्ञ्स्यात् । वध्रर्यै इदं वार्ध्र चर्म । वारत्रं चर्म।

१६७८ । तदस्य तदस्मिन्स्यादिति । (५-१-१६)

प्राकारः आासामिष्टकानां स्यात्प्राकारीयाः इष्टकाः । प्रासादीयं दारु । प्राकारोऽस्मिन्स्यात्प्राकारीयो देशः । इतिशब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ।


किंप्रत्ययः । “आतो लोप इटि च' इत्याल्लोपः । उपधिः रथाङ्गमिति ॥ तथा भाष्यादिति भावः । ऋषभोपानहोर्ञ्यः ॥ ऋषभ, उपानह, अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभ शब्दादुपानह्शब्दाच्च तादथ्यचतुर्थ्यन्तात् प्रकृतौ वाच्यायां व्यप्रत्ययः स्यादित्यर्थः । आर्षभ्य इति ॥ ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्सः ऋषभावस्थाप्राप्त्यर्थ पोष्यते सः एवमुच्यते । औपानह्यो मुञ्ज इति ॥ उपानहे अयमिति विग्रहः । उपानदर्थो मुञ्ज इत्यर्थः । क्वचिद्देशे मुञ्जतृणैरुपानत् क्रियते । चर्मण्यपीति ॥ चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ञ्य एव ‘चर्मणोऽञ्’ इत्यञं परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः । एतच्च ‘उगवादिभ्यः’ इति सूत्रभाष्ये स्थितम् । औपानह्यमिति ॥ उपानदर्थचर्मेत्यर्थः । चर्मणोऽञ् ॥ चर्मणः इति षष्ठयन्तं विकृतावन्वेति । तदाह । चर्मणो या विकृतिः तद्वाचकादिति ॥ तादर्थ्यचतुर्थ्यन्तादिति शेषः । अञ् स्यादिति ॥ प्रकृतौ वाच्याया मिति शेषः । वध्रर्यै इदमिति ॥ वृधेरौणादिके ष्टनि वर्ध्रशब्दः । टित्वात् डीप् वध्रीं चर्मरज्जुः । “नध्री वर्ध्री वरत्रा स्यात्” इत्यमरः । वाध्रर्यै इदमिति पाठान्तरम् । ‘वृधि वपिभ्यां रन्’ इति वृधेः रनि लघूपधगुणे रपरत्वे वर्ध्रशब्दश्चर्मवाचकः, तस्माद्विकारे अणि डीपि वाध्रीं रज्जुः । तद्स्य तदस्मिन् स्यादिति ॥ “तदर्थं विकृतेः प्रकृतौ' इति निवृत्तम्, इति कैयटः । तदस्य स्यादिति, तदस्मिन् स्यादिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः । स्यादित्यत्र “सम्भावनेऽलमिति' इति सम्भावने लिङ् । प्राकार आासामिति ॥ करणत्वस्य सम्बन्ध सामान्यविवक्षायां षष्ठी । आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलि तोऽर्थः । प्राकारीया इति । प्राकारशब्दात्प्रथमान्तात् छः । इष्टकाः प्रत्ययार्थः । प्राकारपर्याप्ता इष्टका इति यावत् । प्रासादीयं दार्विति ॥ प्रासादोऽस्य स्यादिति विग्रहः । प्रासादपर्याप्तमिति यावत् । प्राकारीयो देश इति ॥ प्रायेण प्राकारोऽस्मिन्देशे सम्भाव्यते इत्यर्थः । देशस्य

प्रकरणम्]
८१९
बालमनोरमा ।

१६७९ । परिखाया ढञ् । (५-१-१७)

पारिखेयी भूमि

इति तद्धिते छयतोः पूर्णोऽवधिः ।

अथ तद्धितार्हीयप्रकरणम्

१६८० । प्राग्वतेष्ठञ् । (५-१-१८)

'तेन तुल्यम्- (सू १७७८) इति वतिं वक्ष्यति । ततः प्राक्ठञधि क्रियते ।

१६८१ । आहार्दगोपुच्छसङ्खयापरिमाणाट्ठक् ।(५-१-१९

  तदर्हति (१७२८) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोडपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ।

तद्योग्यपाषाणेष्टकादिबहुळत्वादिति भावः । अनेन ‘तदर्थं विकृतेः’ इत्यनुवृत्ताविह न स्यादिति सूचितम् । ननु प्रासादो देवदत्तस्य स्यादित्यत्रातिप्रसङ्गादित्यत आह । इतिशब्दो लौकिकीं विवक्षामिति ॥ शिष्टव्यवहारमित्यर्थः । परिखाया ढञ् ॥ पूर्वसूत्रविषये इति शेषः । पारिखेयी भूमिरिति ॥ परिखा अस्या अस्ति अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः। छयतोः पूर्णोऽवधिरिति ॥ 'प्राग्वतेष्ठञ्' इत्यारभ्य 'द्वित्रिपूर्वादण् च' इत्यन्तैस्सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषु “तेन क्रीतम्' इति पठितम्। ततश्च ‘प्राक्क्रीतात्’ इत्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्कयम् । प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसम्भवादिति भावः

                       इति तद्धिते छयतोरवधिः ।

अथ आर्हीयाः-प्राग्वतेः ॥ वतिशब्दस्तद्धटितसूत्रपरः । तदाह । तेन तुल्यमिति ॥ तेन तुल्यम्' इत्यतः प्राक् येषु सूत्रेषु अर्थी एव निर्दिश्यन्ते नतु प्रत्ययाः तत्र ठञित्युप तिष्ठते इति यावत् । आर्हीदगोपुच्छसङ्खयापरिमाणाट्ठक् ॥ तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्धटितसूत्रपरम्, आडभिव्याप्तौ, व्याख्यानात् । तदाह । तदर्हतीति । इत्येतदभिव्याप्येति ॥ इदमपि सूत्रम्प्रत्ययविशेषाश्रवणे उप तिष्ठते । अत्र सङ्खयापरिमाणयोः पृथग्ग्रहणात्सङ्खया न परिमाणम् । तथाच वार्तिकम् । ऊर्द्धमानङ्किलोन्मानम्परिमाणन्तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्खया बाह्या तु सर्वतः॥” इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं गुञ्जामाषनिष्कसुवर्णपलादि ।

८२०
[आर्हीय
सिद्धान्तकौमुदीसहिता

१६८२ । असमासे निष्कादिभ्यः । (५-१-२०)

“आर्हात्' इत्येतत् “तेन क्रीतम्' (सू १७०२) इति यावत्सप्तदश सूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादाहीयेष्वर्थेषु नैष्किकम् । समासे तु ठञ्

१६८३ । परिमाणान्तस्यासंज्ञाशाणयोः । (७-३-१७)

उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । ८ असंज्ञा' इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । “तदस्य परिमाणम्' (सू १७२३) इति ठञ् । असमासग्रहणं ज्ञापकं भवति *इतः प्राक्तदन्तविधिः इति । तेन सुगव्यम्-यवापूष्यमित्यादि । इत ऊर्ध्वं तु “सङ्खयापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते। तच्चालुकी-(वा ३०१८) । पारायणिकः।


येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छूितेन पात्रविशेषेण व्रीह्यादि परिच्छिद्यते पात्रगताया मविस्तारोच्छूायैः तत्परिमाणं प्रस्थादि । आयामः दैर्ध्यं येन परिच्छिद्यते तत्प्रमाणम् । अरत्निप्रादेशादि । सङ्खया तु उक्तत्रितयापेक्षया बाह्या भिन्ना एकत्वद्वित्वादीत्यर्थः । असमासे ॥ इति यावदिति ॥ तेन क्रीतम्’ इत्येतत्पर्यन्तमित्यर्थः । ठगिति ॥ पूर्वसूत्रात्तदनुवृत्तेरिति भावः। आर्हीयेष्विति ॥ ‘तदर्हति' इत्येतत्पर्यन्तमनुक्रान्तेषु “तेन क्रीतम्' इत्याद्यर्थेष्वित्यर्थः । नैष्किकमिति ॥ निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञेवेति ॥ परमनिष्कादिशब्दादित्यर्थः । परिमाणान्तस्यासंज्ञाशाणयोः ॥ आदि वृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तह्याचष्टे । उत्तरपदवृद्धिः स्या दिति । उत्तरपदस्य आदेरचो वृद्धिः स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति ॥ परमनिष्केण क्रीत इत्यर्थः । समासत्वाट्टगभावे औत्सर्गिक ष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाद्वकोऽप्रसक्त्तेरसमास ग्रहणं व्यर्थम् । नन्च पूर्वसूत्रे प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिक विशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम् । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति’ इति निषेधात् । निष्कादीनाञ्च विशिष्य गृहीतत्वेन ग्रहणवत्वादित्यत आह । असमासग्रहणमिति ॥ सुगव्यमिति ॥ सु शोभना गौः सुगौः “न पूजनात् ' इति निषेधात् “गोरतद्धितलुकि' इति न टच्।उगवादिभ्यः इति गोशब्दान्ताद्यत्। यवापूप्यमिति ॥ ‘विभाषा हविरपूपादिभ्यः' इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणात् ज्ञापकात् इत ऊर्ध्वमपि तदन्तविधिः किं न स्यात् । ततश्च परमपारायणं वर्तयतीत्यत्रापि * पारायण तुरायणचान्द्रायणं वर्तयति' इति ठञ् स्यादित्यत आह । इत ऊर्ध्वन्त्विति ॥ वार्तिक मिदम् । नन्वेवमपि द्विशूर्पेण क्रीतमित्यर्थे शूर्पशब्दान्तादपि “शूर्पादञन्यतरस्याम्' इति अञ् स्यादित्यत आह । तञ्चालुकीति ॥ इत ऊर्ध्वं सङ्खयापूर्वपदान्तानां तदन्तप्रहणामिति

प्रकरणम्]
८२१
बालमनोरमा ।

द्वैपारायणिकः । “ अलुकि' इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते ‘शूर्पदञ्-' (सू १६९१) मा भूत् । किं तु ठञ् । द्विशौर्पिकम् ।

१६८४ । अर्धात्परिमाणस्य पूर्वस्य तु वा । (७-३-२६)

अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः, पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम्-आर्धद्रौणिकम् ।

१६८५ । नातः परस्य । (७-३-२७)

अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न, पूर्वपदस्य तु वा ञिपदादौ । अर्ध प्रस्थिकम्-आर्धप्रस्थिकम् । अत:' किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यो भवा अर्धखारी । अर्धग्वारीभार्य इत्यत्र *वृद्धिनिमित्तस्य (सू ८४०) इति पुंवद्भावनिषेधो न स्यात् ।

१६८६ । शताच्च ठन्यतावशते । (५-१-२१)


यदुक्तम्, तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति ॥ 'तद्धितार्थ' इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्खयापूर्वपदात् शूर्पान्तादस्मात् “शूर्पादञन्यतरस्याम्' इति प्राप्तस्य अञष्ठञो वा ‘द्विगोर्लुगनपत्ये' इति ‘अध्द्यर्ध' इति वा लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थे 'शूर्पादञ्' इति न भवति । लुकि सति तदन्तग्रहणाभावादित्यर्थः । द्विशौर्पिकमिति ॥ ‘तेन क्रीतम्’ इति ठत्रि

  • परिमाणान्तस्यासंज्ञाशाणयोः' इत्युत्तरपदवृद्धिः । अस्य ठञो लुक तु न भवति । तस्य द्विगु

निमित्तत्वाभावात् । अर्धात्परिमाणस्य ॥ 'परिमाणान्तस्य' इत्यस्मात् उत्तरमिदं सूत्रम् । अर्धद्रौणिकम्-आर्धद्रौणिकमिति ॥ द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक् । किन्तु ठञेव । नातः परस्य ॥ परिमाणावकारस्येति । परिमाणवाचकावयवस्य अकार स्येत्यर्थः । पूर्वपदस्य तु वेति ॥ पूर्वपदस्यादेरवस्तु वृद्धिर्वेत्यर्थः । आर्धकौडबिकमिति ॥ अर्धकुडबेन क्रीतमित्यर्थः । “तेन क्रीतम्' इति ठञ् । अत्र कुडबशब्दस्य परिमाणविशेष वाचिनः आदेरचः अकारत्वाभावान्न वृद्धिनिषेधः । किन्तु * अर्धात्परिमाणस्य' इत्युत्तरपदवृद्धि रिति भावः । तपरः किमिति ॥ दीर्घस्याकारस्य वृद्धिनिषेधे फलाभावाद्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखार्यां भवा अर्धखारीति ॥ लक्षणयेति शेषः । निषेधो न स्यादिति ॥ पूर्वपदस्य वृध्यभावपक्षे वृद्धिं प्रति फलोपहितनिमित्तत्वाभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृद्धिं प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव । उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्वम् । परिमाणान्तस्येत्यारभ्य एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् । शताञ्च ठन् यतावशते ॥ आहयेष्वर्थेषु शताद्वन्यतौ स्तः, नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्त कनोऽपवादः । शतकः सङ्घ इति ॥ उत्तरसूत्रेण कन्निति भावः । नन्विह सङ्घस्यैव

८२२
[आर्हीय
सिद्धान्तकौमुदीसहिता

शतेन क्रीतं शतिकम्-शत्यम् । 'अशते' किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्न भिद्यते, तेन ठन्यतौ न । किं तु कनेव । “ असमासे' इत्येव । द्विशतेन क्रीतं द्विशतकम् ।

१६८७ । संख्याया अतिशदन्तायाः कन् । (५-१-२२)

सङ्खयाया कन्स्यादार्हीयेऽर्थे, न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिंशत्क ।

१६८८ । वतोरिड्वा । (५-१-२३)

वत्त्वन्तात्कन इङ्वा स्यात् । तावतिकः-तावत्कः ।

१६८९ । विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् । (५-१-२४)

योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशत्क


प्रत्ययार्थत्वात् कथमशते इति निषेध इत्यत आह । इहेति ॥ प्रत्ययार्थः सङ्घः प्रकृत्यर्थात् शतात्परिमाणात् न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवति भावः । यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः । शाटकशतन्तु प्रत्ययार्थः । एतत्सर्वे भाष्ये स्पष्टम् । असमास इत्येवेति ॥ चकारस्य तदनुकर्षणार्थत्वात् इति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतकशब्दस्य लुगन्ततया अलुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् । सङ्खयायाः ॥ तिश्च शञ्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता न तिशदन्ता अतिशदन्ता, द्वन्द्वगर्भबहुव्रीहिगभों नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः । “तेन क्रीतम्' इति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता कीतमित्यर्थः । तेन क्रीतम्' इति ठञष्ठस्य तकारात्परत्वात्कः । वतोरिड़ा । वतोरित्यनेन प्रत्यग्रहणपरि भाषया तदन्तं गृह्यते । कन्निति प्रथमान्तमनुवृत्तम् । “वतोः' इति पञ्चमी “तस्मादित्यु त्तरस्य' इति परिभाषया षष्ठयन्तं प्रकल्पयति । तदाह । वत्त्वन्तादिति । तावतिक इति । तावता क्रीत इत्यर्थः । “यत्तदेतेभ्यः’ इति वतुप् । ‘बहुगणवतु’ इति सङ्खयासंज्ञायां “सङ्खयाया अतिशदन्तायाः’ इति कन्, तस्य इट्, टित्वादाद्यवयवः । विंशतित्रिंश द्भयां इवुन्नसंज्ञायाम् । नन्वेकसूत्रत्वे विशतित्रिंशद्भयां ड्वुनेव स्यात्, कन् तु न स्यात् । अतिशदन्तायाः इति निषेधादित्यत आह । योगेति ॥ *विंशतित्रिंशद्भ्याम् इत्येकं सूत्रम् । 'ड्वुन्नसंज्ञायाम्' इत्यपरमित्यर्थः । आद्य व्याचष्टे । आभ्याङ्कन् स्यादिति ॥ “सङ्खयाया अतिशदन्तायाः’ इत्यतः कन् इत्यनुवर्तत इति भावः । द्वितीय सूत्रे विंशतित्रिंशद्भयाम् इत्यनुवृत्तिमभिप्रेत्य आह । असंज्ञायामिति ॥ आभ्यामिति शेषः ।

प्रकरणम्]
८२३
बालमनोरमा ।

१६९० । कंसाट्टिठन् । (५-१-२५)

टो डीबर्थः । इकार उच्चारणार्थः । कंसिकः-कसिकी । “ अर्धाश्चेति वक्तव्यम्’ (वा ३०१८) । अर्धिकः-अर्धिकी । “कार्षापणाट्टिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१९) । कार्षापणिकः-कार्षापणिकी । प्रतिकः

१६९१ । शूर्पदञन्यतरस्याम् । (५-१-२६)

शौर्पम्-शौर्पिकम् ।

१६९२ । शतमानविंशतिकसहस्रवसनादण् । (५-१-२७)

एभ्योऽण्स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ।

१६९३ । अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् । (५-१-२८)

अध्यर्धपूर्वाद्विगोश्च परस्यार्हीयस्य लुक्स्यात् । अध्यर्धकंसम् । द्विकंसम् संज्ञायां तु पाञ्चकलापिकम् ।


विंशक इति ॥ विंशत्या क्रीत इत्यर्थः । ड्वुन् अकादेशः । “तिविंशेर्डिंति' इति तिशब्दस्य लोपः। त्रिंशिक इति ॥ ड्वुन् अकादेशः ‘टेः इति टिलोपः। आद्यसूत्रं परिशेषात् संज्ञायामित्यभि प्रेत्य आह । संज्ञायां त्विति ॥ कंसात् ॥ इत्यादि स्पष्टम्। शूर्पादञ् ॥ आर्हीयेष्वर्थेष्विति शेषः । शूर्पशब्दस्य परिमाणवाचित्वात् ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पक्षे ठञ् । शतमान ॥ शातमानमिति । अत्र ठञ् प्राप्तः । वैंशतिकमिति ॥ विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । 'विंशतित्रिशद्भयाम्' इति योगविभागात् कन् । विंशतिकेन क्रीतमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चट्टञ् प्राप्तः । अन्यस्य संज्ञा चेट्ठक् प्राप्तः । साहस्रमिति ॥ सहखेत्रण क्रीतमिति विग्रहः । ‘सङ्खयाया अतिशदन्तायाः’ इति कन् प्राप्तः । वासनमिति ॥ वसनेन क्रीतमिति विग्रहः । अत्र ठक् प्राप्तः । अध्यर्धपूर्व ॥ अध्यर्ध शब्दः पूर्वो यस्य सः अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह । अध्यर्धपूर्वात् द्विगोश्चेति ॥ आर्हीयस्येति । प्रत्यासत्तिलभ्यम् । अध्यर्धकंसमिति ॥ अध्यारूढमर्धम् अध्यर्धम् । ‘प्रादिभ्यो धातुजस्य' इति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धन कंसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः । ‘सङ्खयाया अतिशदन्ताया ’ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति ॥ द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्धकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यम् । किञ्चित्सङ्खयाकार्यङ्कत्व सुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलापिकमिति ॥ पञ्च कलापा

८२४
[आर्हीय
सिद्धान्तकौमुदीसहिता

१६९४ । विभाषा कार्षापणसहस्राभ्याम् । (५-१-२९)

लुग्वा स्यात् । अध्यर्धकार्षापणम्-अध्यर्धकार्षापणिकम् । द्विकार्षापणम्-- द्विकार्षापणिकम् । औपसङ्ख-यानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम्-अध्यर्धसाहस्रम् । द्विसहस्रम्-द्विसाहस्रम् ।

१६९५ । द्वित्रिपूर्वान्निष्कात् । (५-१-३०)

लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्–त्रिनैष्किकम् । बहुपूर्वाच्चेति वक्तव्यम्’ (वा ३०२४) । बहुनिष्कम्--बहुनैष्किकम् ।

१६९६ । बिस्ताच्च । (५-१-३१)

द्वित्रिबहुपूर्वाद्विस्तादाहींयस्य लुग्वा स्यात् । द्विबिस्तम्-द्विबैस्तिकम्,

इत्यादि।

१६९७ । विंशतिकात्खः । (५-१-३२)

अध्यर्धपूर्वाद्दिगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ।

१६९८ । खार्या ईकन् । (५-१-३३)


परिमाणमस्येति विग्रहे 'तद्धितार्थ' इति द्विगुः । ‘तदस्य’ इति ठञ् । सङ्खयासंज्ञासूत्रभाष्ये तु ‘अध्यर्धपूर्वात्’ इति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां, क्रीतं द्विश्शूर्प, तेन क्रीतन्द्विशौर्पिकमिति पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यम्। द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम् विभाषा ॥ लुग्वेति । आर्हीयस्येति शेषः । औपसङ्खयानिकस्येति । 'कार्षापणा ट्टिठन् वक्तव्यः’ इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्सन्नियोग शिष्टत्वात् प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहस्रमिति ॥ ‘शतमान' इति विहितस्याणो लुक् । लुगभावे तु “सङ्खयायाः संवत्सरसङ्खयस्य च' इत्युत्तरपदवृद्धिः । द्वित्रिपूर्वान्निष्कात् ॥ लुग्वा स्यादिति । आहयस्येति शेषः । द्विनैष्किकमिति । ठञो लुक्, समासाट्ठकोऽसम्भवात् । बिस्ताञ्च ॥ आर्हीयस्य लुग्वेति शेषः । द्विबिस्तम् द्विबैस्तिकमिति । द्वाभ्यां क्रीतमिति विग्रहः । ठञः पाक्षिको लुक् । इत्यादीति । बहुबिस्तम्-बहुवैस्तिकमित्युदाहार्यम् । ‘बहुपूर्वाञ्च' इति वार्तिकस्य अत्राप्यनुवृत्तेः भाष्ये उक्तत्वात् । विंशतिकात्खः ॥ अध्यर्धपूर्वाद्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्यासम्भवात् द्विगोरित्यस्य प्रयोजनाभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्धविंशतिकीन मिति । अध्यर्धविंशत्या क्रीतमध्यर्धविंशतिकम् । “विंशतित्रिंशद्भयाम्' इति योगविभा गात् कन् । अध्यर्धविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिवकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः । खार्या ईकन् ॥ अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तते

प्रकरणम्]
८२५
बालमनोरमा ।

अध्यर्धखारीकम् । द्विखारीकम् । 'केवलायाश्चेति वक्तव्यम्’ (वा ३०२५) । खारीकम् ।

१६९९ । पणपादमाषशताद्यत् । (५-१-३४)

अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह * पादः पत् (सू ४१४) इति न । “यस्य-' (सू ३११) इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे' (सू९९१) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ।

१७०० । शाणाद्वा । (५-१-३५)

यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम्-अध्यर्धशाणम् ।

१७०१ । द्वित्रिपूर्वादण्च । (५-१-३६)


' शाणात्' इत्येव । चाद्यत् । तेन त्रैरूप्यम् । “ परिमाणान्तस्यासंज्ञा शाणयोः' (सू १६८३) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम्-द्विशाण्यम् द्विशाणम् । इह ठञादयस्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाः श्वाकाङ्क्षितास्त इदानीमुच्यन्ते । इत्यभिप्रेत्योदाहरति । अध्यर्धखारीकम् द्विखारीकमिति । ‘तदस्य परिमाणम्’ इति ठञि तस्य च लुकि प्राप्ते ईकन् । केवलायाश्चेति । खार्या इति शेषः । पणपाद ॥ अध्यर्ध पूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति । अध्यर्धपण्यम् । द्विपण्यमिति ॥ अध्यर्धपणेन क्रीतमित्यर्थः । द्विपाद्यमिति ॥ द्वाभ्यां पादाभ्याश्चतुर्थांशाभ्यां क्रीतमिति विग्रहः । यति “यस्येति चव' इत्यकारलोपः । स्थानिवद्भावादिति ॥ “अचः परस्मिन् ’ इत्यनेनेति भावः । प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात् पादशब्दोऽपि परिमाणविशेषवाची गृह्यते । शाणाद्वा ॥ पक्षे ठञिति॥ आर्हादिति ठग्विधौ परिमाणपर्युदासाठ्ठञिति भावः । तस्य लुगिति ॥ ठञः इति भावः । अत्र अध्यर्ध पूर्वादिति द्विगोरिति चानुवर्तते इत्यभिप्रेत्य अध्यर्धपूर्वादुदाहरति । अध्यर्धशाण्यम् अध्यर्धशाणमिति ॥ यति ठञो लुकि च रूपम् । अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन् विशेषमाह । द्वित्रिपूर्वादण् च ॥ वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयते इत्यर्थः । ततश्च यतोऽभावे ठ़ञपि लभ्यते । तदाह । तेन त्रैरूप्य मिति ॥ अणा यता ठञा चेत्यर्थः । अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्कय आह । परिमाणान्तस्येति । ठञादयस्त्रयोदशेति ॥ 'प्राग्वतेः’ इति ठञ्, “ आर्हात् । इति ठक्, “शताच्च' इति ठन्यतौ, “संज्ञायाः’ इति कन्, “विंशतित्रिंशद्भयाम्' इति ड्वुन्, कंसात्' इति टिठन्, ‘शूपत्' इत्यञ्, “शतमान' इत्यण्, “विंशतिकात्खः’ इति खः,

८२६
[आर्हीय
सिद्धान्तकौमुदीसहिता

१७०२ । तेन क्रीतम् । (५-१-३७)

ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् ।नैष्किकम्

१७०३ । इद्गोण्याः । (१-२-५०)

गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः। पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः।

१७०४ । तस्य निमित्तं संयोगोत्पातौ । (५-१-३८)

संयोगः सम्बन्धः । उत्पातः शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शत्यं—शतिकं दक्षिणाक्षिस्पन्दनं शतस्य निमित्तमित्यर्थः । ' वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङ्खयानम्’ (वा ३०३३) । वातस्य


'खार्या-’ इति ईकन्, “पणपाद' इति यत्, “द्वित्रि' इति वार्तिकोक्ताण्, इत्येवं त्रयोदशे त्यर्थः । प्रकृता इति । प्रकृतान्ता इत्यर्थः । समर्थविभक्तय इति ॥ “समर्थानां प्रथमाद्वा' इति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः । तेन क्रीतम् ॥ अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति । उदाह्रियते इति शेषः । गोपुच्छेन क्रीतं गौपुच्छिकमिति ॥ 'अगोपुच्छ' इति पर्युदासाट्ठगभावे औत्सर्गिक ष्ठमिति भावः । साप्ततिकमिति ॥ सप्तत्या क्रीतमित्यर्थः । अगोपुच्छसङ्खया, इति पर्युदासा ट्ठगभावे ठमिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्यर्थः । “अगोपुच्छसङ्खयापरि माणात् इति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । उदाह्रियते इति शेषः । नैष्किक मिति ॥ निष्केण क्रीतमित्यर्थ : । * असमासे निष्कादिभ्यः’ इति ठगिति भावः । इद्गोण्याः ॥ लुकोऽपवाद् इति ॥ 'लुक्तद्धितलुकि' इति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति ॥ आर्ही यस्य ठको लुकि स्रीप्रत्ययस्य इकारः । नव उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम् । इत्त्वविध्यभावे 'लुक्तद्धितलुकि' इति ङीषो निवृत्तावदन्तत्वात् टापि पञ्चगोणेत्यापत्तेः । मूल द्रव्यवाचिन एव तृतीयान्तादेव क्रीतार्थे प्रत्यया भवन्ति, नतु देवदत्तेन क्रीतमित्यर्थे । अन भिधानादिति भाष्ये स्पष्टम् । तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठयन्तात् ठञादयः स्युरित्यर्थः । शत्यः शतिको वेति ॥ शतस्य निमित्त मित्यर्थः । ‘शताच्च' इति यट्ठनौ । धनपतिसंयोग इति ॥ याजनशुश्रूषादिसम्पर्क इत्यर्थः । उत्पाते उदाहरति । शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति । शतस्य निमित्त मित्यर्थः । सूचकत्वमेवात्र निमित्तत्वमिति भावः । उपसङ्खयानमिति ॥ आर्हीयस्य ठक इति शेषः । कोपनं वृद्धिः । सन्निपाताञ्चेति ॥ ‘तस्य निमित्तं संयोगोत्पातौ' इत्यर्थे ठगिति