सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१)

विकिस्रोतः तः
सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१)
भट्टोजीदीक्षितः
१९१०

THE

SIDDHANTA KAUMUDI

OF

SRI BHATTOJI DEEKSHITA

WITH THE COMMENTARY

SRI BALAMANORAMA

OF

SRI VASUDEVA DEEKSHITA


PURVARDHAM.

EDITED AND PUBLISHED

BY

S CHANDRASEKHARA SASTRIGAL,

TEPPAKULAM

Trichinopoly

PRINTED BY BR JOSEPH, S J , SUPDT ,

ST JOSEPH'S INDUSTRIAL SCHOOL PRESS

191O







Registered according to Act XXV of 1867

ALL RIGHTS RESERVED BY THE PUBLISHER


॥ श्रीरस्तु ॥

सिद्धान्तकौमुदी

श्रीमद्भट्टोजिदीक्षितविरचिता

॥ पूर्वार्धम् ॥


श्रीमद्वासुदेवदीक्षितप्रणीतया


श्रीबालमनोरमाख्यया

व्याख्यया समुद्भासिता ।

M A J Tirumala Iyengar M A ,L T

Hindu High School,Triphcane , Madras

त्रिशिर पुरवास्तव्येन

आदनूर् शं.चन्द्रशेरवरशास्त्रिणा

सशोध्य प्रकाशिता ।


१९१०

[एतद्ग्रन्थस्य मुद्रणाधिकारस्सर्वोऽपि प्रकाशकेन स्वायत्तीकृत ।]










त्रिशिर पुरविराजमाने

सैण्ट्जोजप्स्'इण्डस्ट्रियल् स्कूल् मुद्रालये मुद्रिता सती

विजयतेतमाम् ।

॥ कौमुदीपूर्वार्धगतविषयानुक्रमणिका ॥

विषय पार्श्वम्

१. सज्ञाप्रकरणम्
 
२. परिभाषाप्रकरणम्
२६
 
३. अच्सन्धिप्रकरणम्
३४
 
४. हल्सन्धिप्रकरणम्
७५
 
५. विसर्गसन्धिप्रकरणम्
९३
 
६. स्वादिसन्धिप्रकरणम्
९९
 
७. अजन्तपुल्लिङ्गा
११० - १८४
 
...........१. अदन्तप्रकरणम्
११०
 


२ आदन्तप्रकरणम्

३ इदन्तप्रकरणम्

४ ईदन्तप्रकरणम्

५ उदन्तप्रकरणम्

६ ऊदन्तप्रकरणम्

७ ऋदन्तप्रकरणम्

८ ऋदन्तप्रकरणम्

९ दन्तप्रकरणम्

१० एदन्तप्रकरणम्

११ ओदन्तप्रकरणम्

१२ ऐदन्तप्रकरणम्

१३ अादन्तप्रकरणम्

८ अजन्तस्त्रालङ्गा

१ आदन्तप्रकरणम्

२ इदन्तप्रकरणम्

३ ईदन्तप्रकरणम्

४ उदन्तप्रकरणम्

५ ऊदन्तप्रकरणम्

६ ऋदन्तप्रकरणम्

७ ओदन्तप्रकरणम्

८ ऐदन्तप्रकरणम्

९ अादन्तप्रकरणम्



२३

३४

७ ८

७५

९३

११

११०

१८४

१४९

१५१

१६३

१७२

१७५

१७८

१७९

१८०

१८१

१८२

१८४

१८५-२०६

१८४

१८५

१९३

१९७

२०३

२० ४

२०५

२०७-२२०

२१२ १० १ १ ४ ५ ६ १ २ ३ ४ ६ ८ ओदन्तप्रकरणम् ९ ऐदन्तप्रकरणम् १० औदन्तप्रकरणम् हलन्तपुल्लिंङ्गा ८ ९ १० १२ १३ १४ १५ १६ १७ १ २ ३ ४ ५ ६ इंदन्तप्रकरणम् कौमुदीपूर्वार्धगतविषयानुक्रमणिका उदन्तप्रकरणम् ऊदन्तप्रकरणम् हकारान्तप्रकरणम् वकारान्तप्रकरणम् रेफान्तप्रकरणम् लकारान्तप्रकरणम् मकारान्तप्रकरणम् णकारान्तप्रकरणम घकारान्तप्रकरणम् - जकारान्तप्रकरणम् दकारान्तप्रकरणम् वकारान्तप्रकरणम् तकारान्तप्रकरणम् पकारान्तप्रकरणम शकारान्तप्रकरणम् षकारान्तप्रकरणम् सकारान्तप्रकरणम् हकारान्तप्रकरणम् वकारान्तप्रकरणम् रेफान्तप्रकरणम् मकारान्तप्रकरणम् - जकारान्तप्रकरणम् दकारान्तप्रकरणम् - - - पाश्धम् २१३ २१६ १७ २१८ - २२१- ३०३ १८ २१९ २२८ २३१ २ ३ १ २५५ २७९ २८० २८६ २९० २९२ २९७ ३०४-३१० ३०४ ३०६ ३०७ २ ३ ७ वकारान्तप्रकरणम् ८ पकारान्तप्रकरणम् ९ शकारान्तप्रकरणम् १० षकारान्तप्रकरणम् ११ सकारान्तप्रकरणम् १२ हलन्तनपुसकलिङ्गा - १ हकारान्तप्रकरणम् ४ '५ ६ ७ ८ ९ १० ११ कौमुदीपूर्वार्धगतविषयानुक्रमणिका वकारान्तप्रकरणम् रेफान्तप्रकरणम् मकारान्तप्रकरणम् - नकारान्तप्रकरणम् जकारान्तप्रकरणम् - दकारान्तप्रकरणम् चकारान्तप्रकरणम् - तकारान्तप्रकरणम् पकारान्तप्रकरणम् सकारान्तप्रकरणम् १४ स्रीप्रत्ययप्रकरणम् १५ कारकादावभात्तकप्रकरणम् १ प्रथमाविभक्तिप्रकरणम् - २ द्वितीयाविभक्तिप्रकरणम् ३ तृतीयाविभक्तिप्रकरणम् ४ चतुर्थीविभक्तिप्रकरणम् ५ पञ्चमीविभक्तिप्रकरणम् - ६ षष्ठीविभक्तिप्रकरणम् ७ सप्तमीविभक्तिप्रकरणम् - १६ अव्ययीभावसमासप्रकरगम् १७ तत्पुरुषाः १ तत्पुरुषसमासप्रकरणम् २ कमेधारयसमासप्रकरणम् - ३ नॐतत्पुरुषसमासप्रकरणम् ४. गतिसमासप्रकरणम् - - पार्श्वम् - ३०८ ३११-३२६ ३०८ ३०९ ३०९ ११ ३१३ १३ ३ १४ ३१६ ३१७ ३१८ ३२६ ३२७ - ३९७ -४६६ ३३५ 3 ९ ७ ४० ० ४२६ ४३५ ४४५ ४५९ ४६७ ४८७ -५५१ ४८ ७ ५१७ ५२५ १९ २० २ १ १८ बहुत्राहसमासप्रकरणम् ५ २७ ६ २९ उपपदसमासप्रकरणम् कौमुदीपूर्वार्धगतविषयानुक्रमणिका । असाधारणसमासान्तप्रकरणम् २२ सर्वसमासान्तप्रकरणम् २३ अलुक्समासप्रकरणम् २४ समासाश्रयविधिप्रकरणम् २५ तद्धिता , १ अपत्यादवकारान्ताथसाधारणप्रत्यया २ अपल्याधिकारप्रकरणम् ३ चातुरर्थिकप्रकरणम् ४ शैषिकप्रकरणम् ५ विकारार्थप्रकरणम् ६ ठगधिकारप्रकरणम् ७ प्राग्घितीयप्रकरणम् ८ आहये छयद्विधिप्रकरणम् ९ आाहींयप्रकरणम् १० ठञ्अधिकारे कालाधिकारप्रकरणम् ११ ठविधिप्रकरणम् १२ नञ्स्रञ्जधिकारप्रकरणम् १३ पाञ्चमिकप्रकरणम् १४ मत्वर्थीयप्रकरणम् १५ प्राग्दिशीयप्रकरणम् १६ १७ स्वार्थिकप्रकरणम् - २१ द्विरुक्तिप्रकरणम् द्वन्द्वसमासप्रकरणम् २८ वार्तिकसूचिका - - - - - पार्श्वम् ५३४ ६०७ ६६३ -९४५ ६१३ ६१ ६ ६२५ ६३४ ७४० ७८४ ७९२ ८ १० ७ ८१३ ८१९ ८३६ ८४२ ८४६ ८५४ ८६६ ८९१ ८९७ ११९ ९४६ ९५७ ९८९

१९९८

M A J Tirumalar Iyengar, M A , L T

Hindu High School , Triphcane Madras


॥ श्रीगुरुचरणारविन्दाभ्यां नम ॥

सिद्धान्तकौमुदीसहिता

॥ बालमनोरमा ॥


येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ १ ॥
येन धौता गिरः पुसां विमलैश्शब्दवारिभि ।
तमश्चाज्ञानजं भिन्न तस्मै पाणिनये नम ॥ २ ॥
वाक्यकारं वररुचि भाष्यकारं पतञ्जलिम् ।
पाणिनि सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ॥ ३ ॥
मुनित्रयं नमस्कृत्य तदुक्ती परिभाव्य च ।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ ४ ॥

स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् ।
पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन् ॥ १ ॥
अस्तु नम पाणिनये भूयो मुनये तथास्तु वररुचये ।
किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये ॥ २ ॥
व्याख्याता बहुभिः प्रौढैरेषा सिद्धान्तकौमुदी ।
वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम् ॥ ३ ॥

 ओ मङ्गळादीनि मङ्गळमध्यानि मङ्गळान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताक ग्रन्थादौ कृत मङ्गळ शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थता विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षित प्रतिजानीते । मुनित्रयमिति श्लोकेन । इय वैयाकरणसिद्धान्तकौमुदी विरच्यत इत्यन्वय । इयमिति ग्रन्थरूपा वाक्यावालिर्विवक्षिता ।

सिद्धान्तकौमुदीसहिता

भाविन्या अपि तस्या बुद्ध्या विषयीकरणादियमिति प्रत्यक्षवन्निर्देश । व्याकरणमधीयते विदन्ति वा वैयाकरणा तेषा सिद्धान्ता एवमेते शब्दास्साधव इति निश्चितार्था तेषा कौमुदी चन्द्रिका अत्यन्तसादृश्यात्ताद्रूप्यव्यपदेश । चन्द्रिका हि तमो निरस्यति । भावान् सुख प्रकाशयति । दिनकरकिरणसम्पर्कजनितसन्तापमपगमयति । एवमियमपि ग्रन्थरूपवाक्याव लिरज्ञानात्मक तमो निरस्यति । मुनित्रयग्रन्थभावाननायास प्रकाशयति । अतिविस्तृतदुरूह भाष्यकैयटादिमहाग्रन्थपरिशीलनजनितचित्तसन्ताप च शमयतीति अत्यन्तसादृश्याद्युज्यते चन्द्रिकातादात्म्याद्यवसाय । विरच्यते क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेश । किं कृत्वेत्यत आह । मुनित्रयं नमस्कृत्येति ॥ त्रयो अवयवा अस्य समुदायस्य त्रय । त्रयवयवकसमुदाय । सख्याया अवयवे तयप्” इति तयप् तद्धित । द्वित्रिभ्या तयस्यायज्वा इति तस्यायजादेश । मुनीना त्रयमिति षष्ठीसमास । त्रयाणा मुनीना समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाभेदान्वये त्रि शब्दस्य मुनिशब्दसापेक्षत्वात् असामर्थ्यात्तद्धितानुपपाति । तथापि त्रयोऽवयवा अस्य समुदायस्य त्रय इति प्रथम व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वया न्नास्त्यसामर्थ्य । ततो मुनीना त्रयमिति मुनिशब्द समुदायेऽन्वेति । तस्य प्रत्ययार्थतया प्रधा नत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूतत्रिशब्देनाभेदान्वय । पदार्थ पदार्थेनान्वेति न तु तदेकदेशेनेति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयो परस्परवार्तानाभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्सख्याया परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनाया सन्निहितपदान्तरोपस्थितत्वान्मुनय एव परिच्छेद्यतया सबद्यन्ते । त्रयाणा मुनीना समुदाय इति । सोऽय पार्ष्ठिकान्वय अरुणाधिकरणन्यायविदा सुगम इत्यल विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । नमस्वस्तीति चतुर्थी तु न । कारकविभक्तेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य अञ्जलिशिरस्सयोगादिव्यापारेण तोषयित्वेत्यर्थ । नमस्करोतेर जलि शिरस्सयोगादिरूपव्यापारमात्रार्थकत्वे अकर्मकत्वापत्या द्वितीयानुपपत्ते । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरण सिद्धान्ताना सग्रहात्तैरेव ग्रन्थै चरितार्थत्वात्किमनेन ग्रन्थेनेत्यत आह । तदुक्तीः परिभाव्य चेति ॥ तस्य मुनित्रयस्य उक्तय तदुक्तय सूत्रवार्तिकभाष्यात्मकग्रन्थरूपवाक्यावलय ता परिभाव्य च सम्यगालोच्य चेत्यर्थ । भूधातोस्स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि भुवोऽवकक्लने इत्यत्र ण्यन्तभूधातोश्चिन्तनार्थकत्वमपि वक्ष्यते मूलकृतैव । नच 'अनादर परिभव परीभावास्तिर स्क्रिये'ति कोशविरोधश्शङ्क्य । कोशस्य अण्यन्तभूधातुविषयत्वात् । परौ भुवोऽवज्ञान इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वकभूधातोर्भावे घजज्ज् परिभावशब्दस्य व्युत्पत्यवगमात् । एवञ्च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचा प्रक्रियाकौमुदीप्रसादादिकृता उक्ती स्तिरस्कृत्येत्यर्थ इति व्याख्यान क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्व प्राचीनप्रक्रियाकौमुद्यादिग्रन्थाना तद्विरुद्धत्वञ्च सूचितम् । तच्च प्रौढमनोरमाया स्वयमेव मूलकृता प्रप तमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसज्ञया वैयाकरणसिद्धान्ता प्रतिपाद्यत्वेन विषया अनायासेन तदवगम प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावस्सम्बन्ध । वैयाकरणसिद्धा

न्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तान्निरूपयिष्यन् व्याकरणशास्त्रस्य मूलभू-
'
'
बालमनोरमा

अथ संज्ञाप्रकरणम् ।

अइउण् । ऋलक् । एओड् । ऐऔच् । हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् । इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्याइत । लण् सूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थ: ।


तानि चतुर्दशसूत्राणि पठति । अइउणित्यादिना ॥ नन्विमानि सूत्राणि मुनित्रयग्रन्थबहि- र्भूतत्वादप्रमाणमित्यत आह । इति माहेश्वराणि सूत्राणीति ॥ महेश्वरादागतानि माहे श्वराणि । तत आगत इत्यण् । महेश्वरादधिगतानीति यावत् । तदुक्त पाणिनिशिष्यप्रणीतशिक्षा- याम् । येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्न व्याकरण प्रोक्त तस्मै पाणिनये नम । इति। एतत् चतुर्दशसूत्रव्याख्याया नन्दिकेश्वरकृताया काशिकायामप्युक्तम् । नृत्तावसाने नटराजराजो ननाद ढक्का नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ॥ इति । अत्र ननादेत्यन्तर्भावितण्यर्थो नद धातु । ढका नादयामासेत्यर्थ । नवपञ्चवार चतुर्दशकृत्व । एतच्छिवढक्कोत्थित वर्णजाल शिवसूत्रजालतया विमर्शे जानामीत्यर्थ । आर्षस्तड् एवञ्च महे- श्वरेण प्रोक्तानि माहेश्वराणीति निरस्तम् । एतेन माहेश्वरत्वादेतेषा सूत्राणा नाप्रामाण्यमित्युक्त भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषा सूत्राणा वैयाकरणसिद्धान्तप्रकाशने उपयो गाभावादिह तदुपन्यासो व्यर्थ इत्यत आह । अणादिसंज्ञार्थानीति ॥ अण् आदि यासा- ता अणादय अणादयश्च तास्सज्ञाश्च अणादिसज्ञा ता अर्थ प्रयोजन येषा तानि अणादि सज्ञार्थानि । अनर्थकवर्णराशित्वेऽपि एषा सूत्राणा व्याकरणशास्त्रगतव्यवहारोपयोग्यणादि सज्ञासु उपयोगान्नानर्थक्यमिति भाव । कथमेषा सूत्राणामणादिसज्ञार्थत्वामित्यत आह । एषा मत्या इत इति ॥ एषामुदाहृतसूत्राणा अत्या अन्तेभवा णकारादिवर्णा इत्सज्ञका प्रत्ये तव्या इत्यर्थ । लण्सूत्रे अकारश्चेति ॥ इत इत्यनुषज्यते । तच्च एकवचनान्ततया विपरिण म्यते । लणुसूत्रे लकारात्पर अकारश्च इत्सज्ञक प्रत्येतव्य इत्यर्थ। अनन्त्यत्वात्पृथक्प्रतिज्ञा । ननु लण्सूत्र एव अकारस्य इत्सज्ञकत्वं हयवरेत्यादौ पुन पुनरकारोच्चारणस्य किं प्रयोजन मित्यत आह । हकारादिष्वकार उच्चारणार्थ इति । हकारादीना सुखोच्चारणार्थ पुन पुनरकारपाठ इत्यर्थ । अन्यथा ह् य् व् र् इत्येव क्लिष्टोच्चारणापत्तेरिति भाव । अथवा अच विना हलामुच्चारणाभावात् पुन पुनरकारपाठो हकाराद्युकच्चारणार्थ इत्येव व्याख्येयम् । अत एव उच्चै रुदात्त इति सूत्रे भाष्यम्। नान्तरेणाच व्यञ्जनस्योच्चारण भवतीति । अत्र च इदमेव अकारस्य पुन पुनरुच्चारणे ज्ञापकम् । एवञ्च वर्णात् कार इति कारप्रत्यये सति ककार इत्यादि । वाक् इत्याद्यवसानेषु, वृक्ष इत्यादौ सयुक्तवर्णेषु च, पदान्ते चो कुरित्यादिविधिबलात्, हलोऽनतरास्स

[संज्ञा
सिद्धान्तकौमुदीसहिता


१ । हलन्त्यम् । (१-३-३)

'हल्' (प्र सू १४) इति सूत्रेऽन्त्यमित्स्यात्

२ ॥ आदिरन्त्येन सहेता । (१-१-७१)

अन्त्येनेता सहित आदिर्मद्ध्यगानां स्वस्य च संज्ञा स्यात् । इति


योग इत्यादिशास्त्रबलाच्च, नाय नियम इत्यलम् । ननु चतुर्दशसूत्रया णकाराद्यन्तवर्णाना इत्सज्ञा प्रतिज्ञाता । एषामन्त्या इत इति । तदनुपपन्नम् । तेषा हि “हलन्त्यमिति” सूत्रेण इत्सज्ञा वक्तव्या । तच्च सूत्र हल्पदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्सज्ञाच हलिति सूत्रे लकारस्य इत्सज्ञाया सत्या आदिरन्त्येन सहेतेति सूत्रेण वाच्या । हलिति सूत्रे लकारस्य इत्सज्ञा च हलन्त्यमिति सूत्रेणैव वाच्या । एवञ्च हलिति सूत्रे लकारस्य इत्सज्ञाया सत्या आदिरन्त्येनेति हल्सज्ञासिद्धौ हलन्त्यमिति सूत्रप्रवृत्ति । हलन्त्यमिति सूत्रेण हल्सूत्रे लकारस्य इत्सज्ञाया आदिरन्त्येन सहेतेतेि हल्सज्ञासिद्धिरित्येव हलन्त्यमादिरन्त्येनेत्यनयो परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोध । एवञ्च हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित् सूत्रेण इत्सज्ञा अबोधयित्वा हलन्त्यमिति हलामित्सज्ञाबोधन पाणिनेरयुक्तमित्याशक्य हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्सज्ञा विधातु हलन्त्यमिति सूत्र द्विरावृत्य प्रथमसूत्रमुपक्षिपति । हलन्त्यम् ॥ एकपद सूत्र । हलि अन्त्य हलन्त्यमिति विग्रह । शौण्डादेराकृतिगणत्वात् सप्तमी शैौण्डैरिति सप्तमीसमास । सुप्सुपेति समासो वा । हल्पदमिह सूत्रपर । उपदेशेऽजनुनासिक इदिति पूर्वसूत्रात् इदित्यनुवर्तते । तदाह । हलिति सूत्र इत्यादिना । इत्स्यादिति ॥ इत्सज्ञक स्यादित्यर्थ । सज्ञाप्रस्तावात् । एवञ्च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्सज्ञामनुपजीव्यैव इत्सज्ञासिद्धेति नान्योन्याश्रय इति भाव । नन्वस्तु हल्सूत्रेलकारस्य इत्सज्ञा। तत किमित्यत आह । आदिरन्त्येन सहेता ॥ अन्तेभव अन्त्य । तेन इता सहोच्चार्यमाण आदि अण् अच् इत्यादिरूप सज्ञेत्यर्थ । सज्ञाप्रस्तावात् । तत्र यस्मात्पूर्व नास्ति परमस्ति स आदि । यस्मात्पर नास्ति पूर्वमस्ति सोऽन्त इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्या मध्द्यगा आक्षिप्यन्ते। अतस्तेषा सज्ञेति लभ्यते । स्व रूपमिति पूर्वसूत्रात्स्वमित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । तदेतदाह। अन्त्येनेतेत्यादि । स्वस्य चेति ॥> अत्र च स्वशब्देन सज्ञाकोटिप्रविष्ट आदिरेव परामृश्यते। नत्वन्त्योऽपि । अन्त्येनेति तृतीयया “सह युक्तेऽप्रधान” इति विहितया तस्य अप्राधान्यावगमात् । सर्वनाम्रा चोत्सर्गत प्रधानपरामर्शित्वात् । न च इक् उक् इच् यय् मथ् इत्यादिप्रत्याहारा कथ स्यु । इकारादीनामादित्वाभावादिति वाच्यम् । न हि सूत्रापेक्षमिहादित्वम् । किन्तु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च अइउणिति इकारमारभ्य ऋलक् इति ककारपर्यन्त वर्णसमुदाय बुध्द्या परिकल्प्य तदादित्व इकारस्य सम्भावनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्वमपि बुद्धिकल्पितसमुदायापेक्षमेव । न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारस्सुग्रह । अन्यथा लण्सूत्रे अकारस्यान्त्यत्वाभावात् स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराभावे मध्द्यगानामिति न लभ्येत । आदिरित्यभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्ण अन्त्यात्प्राक् हल्संज्ञायाम्। ‘हलन्त्यम्’ (सू १) । उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम् । ततः ‘अण्’ ‘अच्’ इत्यादिसंज्ञासिद्धौ ।

३ । उपदेशेऽजनुनासिक इत । (१-३-२)


भाविना वर्णना सज्ञेत्येव लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहण स्यात् । अन्त्यलकारात्पूर्वभावित्वाविशेषात् । अन्त्येनेत्यभावे तु आदिरिता सहोच्चार्यमाण आदे ऊर्ध्द्वभाविना वर्णाना सज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्ति । आदेरकारादूर्ध्द्वभावित्वाविशेषात् । उभयोपादाने तु मध्द्यगानामिति लभ्येत इत्यदोष । परस्मिन् सति यस्मात्पूर्वो नास्ति स आदि । पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मद्यगाविनाभूतत्वेन ताभ्या मध्द्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दौ सम्भवत । उक्त्तनिर्वचनाविरोधात् । तथापि नेह द्वयोराद्यन्तशब्दौ भवत । तथा सति हि अन्त्येनेता सह उच्चार्यमाण आदि स्वस्य आदे सज्ञेत्येव लभ्येत । उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शासम्भवात् । ततश्च उण् इत्युकारस्य सज्ञेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसज्ञाविधान व्यर्थमापद्येत । गौरवात् । प्रत्याहाराणा व्यवहारलाघवार्थत्वात् । अतो मध्द्यमसत्व एवात्र, आद्यन्तशब्दाविति, ताभ्या मद्यगानामिति, लभ्यते । इतेति । किं अम् प्रत्याहार ञमडणेति मकारेण माभूत् । नचैवमपि सुट् प्रत्याहार टा इति टकारेण किं न स्यात् । टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाभावेन सुट्प्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात् । उक्त च जैमिनिना । प्रथम वा नियम्येत कारणस्यानतिक्रमात् । इति । विस्तरभयाद्विरम्यते । इति हल्संज्ञायामिति ॥ हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूत्रेण इत्सज्ञाया सत्यामादिरन्त्येनेति हल्सज्ञासिद्धौ चतुर्दशसूत्रयामन्त्यणकारादिवर्णाना हल्त्व सिद्धमित्यर्थे । तत किमित्यत आह । हलन्त्यम् ॥ आवृत्तयोर्द्वितीय सूत्रमेतत् । हल् अन्त्यमिति च्छेद । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति । अन्त्यमिति नपुसकसामानाधिकरण्यात् । उपदेशेऽजनुनासिक इदिति पूर्वसूत्रादुपदेश इति इदिति चानुवर्तते । तदाह । उपदेशेऽन्त्यमित्यादिना ॥ वातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम । तदाह । उपदेश आद्योच्चारणमिति ॥ उपशब्द आद्यर्थक । दिशिरुच्चारणक्रियायाम् । भावे घञिति भाव । एतच्च आदेऽच उपदेशे इत्यादि सूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशा प्रकीर्तिता । इति । प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम् । इदमस्थमुरिति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्सज्ञा माभूत् । तदेव हलन्त्यमित्यावृत्तद्वितीयसूत्रेण

चतुर्दशसूत्र्यामन्त्यणकारादिवर्णाना इत्सज्ञा सिद्धेति स्थितम् । तत किमित्यत आह । ततः अण् अच् इत्यादिसंज्ञासिद्धाविति ॥ तत णकारादीनामित्सज्ञासिध्द्यनन्तर आदिरन्त्येनेत्यणादिसज्ञा सिद्धेत्यर्थ। लण्सूत्रे अकारश्चेति प्रतिज्ञात । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्सज्ञायामप्राप्ताया तत्प्रापक सूत्रमाह । उपदेशे ॥ सज्ञाप्रस्तावात्सज्ञेति
[संज्ञा
सिद्धान्तकौमुदीसहिता

उपदेशेऽनुनासिकोऽजित्संज्ञ' स्यात् । प्रतिज्ञानुनासिक्या. पाणिनीया लण्’ (प्र सू ६) सूत्रस्थावर्णेन सहोचार्यमाणो रेफो रलयो संज्ञा । प्रत्याहारे ष्वितां न ग्रहणम् । “ अनुनासिक.' इत्यादिनिर्देशात् न ह्यत्र ककारे परे ऽच्कार्य दृश्यते । “आदिरन्येन–' (सू २) इत्येतत्सूत्रेण कृता संज्ञा प्रत्या हारशब्देन व्यवह्रियन्ते |


लभ्यते । तदाह । उपदेशे अनुनासिक इत्यादिना ।। सूत्रे अजिति कुत्वाभाव आर्ष अजित्सज्ञ स्यादिति विवरणे कुत्वाभाव असन्देहार्थ । ननु मुखेन नासिकयाचोचार्यमाणो वर्ण अनुनासिक इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिता । इतरे तु के वलमुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह । प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा । नित्यस्त्रीलिङ्गोऽयम् । त्रियामित्य धिकारे आतश्चोपसर्ग इति कर्मण्यड् । अनुनासिकस्य भाव आनुनासिक्य । प्रतिज्ञा आनुनासि क्य येषा ते प्रतिज्ञानुनासिक्या पाणिनिशिष्या इत्यर्थ शिष्यपरम्परया शास्त्रकृता तथाविध मुच्चारण इदानीन्तनाना सुगममिति यावत् । तदेव लण्सूत्रे अकारस्य अनुनासिकत्वादित्सज्ञा सिद्धा। तत किमित्यत आह । लण् सूत्रस्थेति ॥ लणुसूत्रे तिष्ठतीति लणसूत्रस्थ सचासाव वर्णश्च लण्सूत्रस्थावर्ण तेन सहोच्चार्यमाणो रेफ र इत्येव रूप रेफलकारयोस्सज्ञेत्यर्थ वस्तु तस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्येनेति सूत्रे मच्द्यगानामादे श्च सज्ञेति स्थितम् । एवञ्च अजादप्रत्याहारेषु सज्ञाकोटिप्रविष्टानामन्त्यानामिता ग्रहणाभावेऽपि णकारादीनामपि मछद्यगत्वाविशेषात् ग्रहणस्यात् ततश्च रलयोस्सज्ञेति पूर्वग्रन्थे रलयोरिति न्यून टकारस्यापि मद्यगत्वेन ग्राह्यत्वादित्यत आह । प्रत्याहारेष्वितान्न ग्रहणमिति प्रत्याहारेषु अजादिसज्ञासु मद्यवर्तिनामपि इतान्न ग्रहणमित्यर्थ । कुत इत्यत आह । अनु नासिक इत्यादिनिर्देशात् इति ॥ आदिना तृषि मृषि कृषे काश्यपस्येत्यादि सङ्गह कथमय निर्देश उक्तार्थे हेतुरित्यत आह । नहीति । अत्र अनुनासिकशब्दे ककारे परे इका रस्य अच्प्रयुक्त कार्य इको यणवीति यणादेश न दृश्यते हीति योजना । यदिहि अजादिप्रत्या हारेषु इतामपि ग्रहण स्यात् तर्हि अच्प्रत्याहारे ऋलृक् इति ककारस्यापि प्रविष्टत्वेन अच्त्वा तस्मिन् परे इकारस्य इको यणचि इति यणादेशे लोपो व्योर्वलीति लोपे अनुनास्क इति स्यात् इकारो न श्रूयेत । श्रूयते च । अत प्रत्याहारेष्वितान्न ग्रहणमिति विज्ञायत इति भाव । यत्तु ऋलृ क् इति ककारस्य अच्प्रत्याहारप्रविष्टत्वेऽपि प्रत्ययस्थादित्यादिना इत्वविधिसामर्थ्यादेव यण्लो पश्च न भवति । अन्यथा लाघवाल्लोपमेव विदद्यात् । अत प्रत्याहारेष्वितान्न ग्रहणमित्यत्र अनु नासिक इत्यादि निर्देशो न लिङ्गमित्याहु । तन्न प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुप इतीत्व विधौ वर्णाधिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याप्रसिद्धार्थत्वादाह । आदिरन्त्येनेत्यादिना प्रत्याहियन्ते सक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भाव । नच अणुदित्सूत्रसिद्धासु अ इ उ इत्यादि

सज्ञास्वतिप्रसङ्ग शक्य । योगरूढयाश्रयणातू वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भाव
प्रकरणम्]
बालमनोरमा


४ । ऊकालोऽज्झ्रस्वदीर्घप्लुतः । (१-२-२७)

उश्च ऊश्च ऊ३श्च व । वा काल इव कालो यस्य सोऽच्क्रमाद्भस्वदीर्घप्लु तसंज्ञ स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ।

५ । उचैरुदात्तः । (१-२-२९)

ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञ. स्यात्। आये ।


तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एक प्रत्याहार । अण् । ककारेण त्रय । अक् इक् उक् । डकारेण एक । एड् । चकारेण चत्वार । अच् इच् एच् ऐच । टकारेण एक । अट्। परेण णकारेण त्रय । अण् इण् यण् । मकारेण चत्वार । अम् यम् जम् डम् । नकारेण एक । यञ् । षकारेण द्वौ । झष भष् । शकारेण षट् । अश् हृश वश झश जश बश । वकारेण एक । छन् । यकारेण पञ्च । यय् मय् झय् खय्च चय् । रेफेण पच । यर झर् खर चर् शर्। लकारेण षट् । अल् हल् वल् रलू झलू शल् । अकारेण एको रप्रत्याहार । इति वर्णसमाम्नायिका प्रत्याहाराश्चतुश्चत्वारिशत्। एतेषामेव शास्त्रे उपयोगात् । इड्इत्यादिप्रत्याहारा स्तु प्रयोजनाभावान्न भवन्ति । शास्त्रे तद्वयवहाराभावात् । अत्रास्मदीया सङ्गहकारिका। स्यादेको डअणवटै षेण द्वैौ त्रय इह कणाभ्याम् । चत्वारश्च चमाभ्या पञ्च यराभ्या शलाभ्या षट् । तदे वमणादिसज्ञासु सिद्धासु अचेो हृस्वादिसज्ञा विवत्ते । ऊकालो ॥ हूस्वदीर्घप्लुत इति समाहारद्वन्द्व । सौत्र पुस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्ष । उ ऊ ऊ३ इति त्रयाणा एकमात्रद्विमात्रत्रिमात्राणा द्वन्द्वसमासे सति सवर्णदीर्घण ऊ इति प्रश्लिष्टनिर्देश । तेषा काल ऊकाल । कालशब्दो मात्रापर्याय कालसदृशे लाक्षणिक । ऊकाल कालो यस्येति विग्रह.। सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोप इति' द्विपदो बहुव्रीहि । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह । वां काल इवेत्यादिना । व इति ऊशब्दस्य प्रथमाबहुवचन । वामिति षष्ठीबहुवचन । वा काल इव कालो यस्येति फलि तार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहि । क्रमादिति ॥ यथासख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यासितुमुचितम् । नच उऊ ऊ३ इत्युवर्णाना कथ हूस्वदीर्घप्लुतसज्ञा । तेषाऊकालसदृ शकालत्वाभावात् । सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊशब्दस्याच एकमात्रद्विमात्रत्रि मात्रकुक्कुटरुतानुकरणत्वात् । स इति । स ह्रस्वो दीर्घ प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेन उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभि प्रकारैर्वर्तत इत्यर्थ । उदात्तस ज्ञामाह । उचैरुदात्तः ॥ नादधर्मविशेष उचैस्त्व नेह विवक्षितम् । उपाशूचार्यमाणे अ व्याप्ते । किंतु उचैश्शब्द अधिकरणशक्तिप्रधान ऊर्द्धभागे इत्यर्थे वर्तते । ऊर्द्धवयवस्य चाव यवव्यपेक्षाया तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थो लभ्यते । ऊकालोऽजिति सूत्रादजित्यनु वर्तते । तदेतदाह । ताल्वादिष्वित्यादिना । सभागेष्विति॥ ताल्वादीना सावयवत्वकथन ऊर्द्धभागे इत्यस्येोपपादनार्थम् । तेषां अखण्डत्वे ऊर्दूभागे इत्यनुपपत्ते । उदात्तमुदाहरति । आ

[संज्ञा
सिद्धान्तकौमुदीसहिता

६ । नीचैरनुदात्तः । (१.२-३०)

स्पष्टम् । अर्वाङ् ।

७ । समाहारः स्वरितः । (१-२-३१)

उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच्स्वरितसंज्ञ. स्यात् ।

८ । तस्यादित उदात्तमर्द्धह्रस्वम् । (१-२-३२)

ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोद्धयम् । उत्तरार्द्ध तु परि शेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्त


ये इति । आये मित्रा वरुणेत्यूचि आकार एकारश्च उदात्त इत्यर्थ।अनुदात्तसज्ञामाह । नीचै । अनुदात्तसज्ञामाह । रनुदात्तः । स्पष्टमिति ॥ उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसज्ञ स्यादिति स्पष्टार्थकमित्यर्थे । अर्वाड् इति । अर्वाड् यज्ञस्सक्रामत्यूचि आद्य अकार अनुदात्त इत्यर्थ । अथ स्वरितसज्ञामाह । समाहारस्वरितः ॥ पूर्वसूत्राभ्या उदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्च उदात्त अनुदात्तश्च अच् समाह्रियमा ण स्वरित इत्यर्थ प्रतीयते । एव सति वर्णद्वयस्य स्वरितसज्ञा स्यात् । नत्वेकस्य अतेो नैव मर्थ । किंतु उदात्तानुदात्तपदे अनुवृत्त धर्मप्रधाने षष्ठयन्ततया च विपरिणम्येते । यत्र समाह रण स समाहार । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नाचि मेलन सोऽच् स्वरितसज्ञक इत्यर्थ । फलितमाह । उदात्तत्वानुदात्तत्व इत्यादिना ॥ननु उदात्तत्वानुदा त्तत्वयोरेकस्मिन्नपिमेलनेकस्मिन्भागे उदात्तत्वस्य समावेश कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह । तस्यादितः ॥ तस्य स्वरितस्य आदित पूर्वभागे अर्द्धहूस्वमुदात्त इत्यर्थ प्रतीयते । एव सति दीर्घस्वरिते इय व्यवस्था न स्यात् । अत आह । ह्रस्वग्रहणम तन्त्रमिति ॥ तन्त्र प्रधान । (तन्त्र प्रधाने सिद्धान्ते) इति कोश । न विद्यते तन्त्र वाच्यार्थ लक्षण प्रधान यस्य तत् अतन्त्र अविवक्षितार्थकमित्यर्थे । ह्रस्वग्रहण न कर्तव्यमिति यावत् । दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भाव । ततश्च फलितमाह । स्वरित स्यादावर्द्धमुदात्तं बोद्धव्यमिति ॥ ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तत्यत आह। उत्तरार्द्धन्त्विति । ननुएव सति अन्गिमीळ इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तम्। नेत्यत आह । तस्य चेति । चकारो वाक्यालङ्कारे । तस्य अनुदात्तभागस्य उदात्तस्वरित परत्वे उदात्तस्वरितौ परौ यस्मात् स उदात्तस्वरितपर तस्य भाव उदात्तस्वरितपरत्वम् । उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवण स्पष्ट भवतीत्यर्थे । अन्यत्रेति ॥ उदात्त स्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुति ऋग्वेदप्रातिशाख्ये विहितेत्यर्थ । तत्र त्वेवमुक्तम् । अनुदात्त परश्शेष स उदात्तश्रुतिर्नचेत् ।

उदात्त वोच्यते केिचित्स्वरित वाक्षर परम् ॥ इति स्वरिते पूर्वभागस्य उदात्तत्वे सति परश्शेष
बालमनोरमा

प्रकरणम्]

श्रुतिः प्रातिशाख्ये प्रसिद्धा । ‘क १ वोऽश्वा ,' 'रथानां' न ये २ऽरा , शत चक्रं यो ३ऽह्य' इत्यादिष्वनुदात्तश्रुति । “ अग्निमिळे इत्यादावुदात्तश्रुति । स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ।

९ । मुखनासिकावचनोऽनुनासिकः (१-१-८)

मुखसहितनासिकयोचार्यमाणेो वर्णोऽनुनासिकसंज्ञ. स्यात् । तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदा. । लवर्णस्य द्वादश । तस्य दी


उत्तरभाग अनुदात्त प्रत्येतव्य । स. परश्शेष उदात्तश्रुतेि क्वचिद्भवति । कि सर्वत्रैव नेत्याह । न चेदित्यादिना । उदात्त स्वरित वा किञ्चिदक्षर पर नोच्यते चेदिति योजना । तत्र अनुदात्त भागस्य स्पष्ट श्रवणमुदाहृत्य दर्शयति । क्वेत्यादिना ।इत्यादिष्वनुदात्त इत्यन्तेन ॥ तत्र क्व इति हूस्वस्वरित । स तावत् वो इत्योकारात्मकोदात्तपरक । येऽरा इत्येकारो दीर्घस्वरित । सचऽरा इत्याकारात्मकोदात्तपर । शतचक्र यो इत्येाकार कम्पस्वरित । स तु ह्य इत्यकारात्मक स्वरितपरक । इत्येवमादिप्रदेशेषु अनुदात्तभाग स्पष्ट श्रूयत इत्यर्थ । अन्यत्र तूदात्तश्रुतिरित्ये तदुदाहृत्य दर्शयति। अग्निमिीळे इत्यादावुदात्तश्रुतिरिति । पदकाले अग्निमित्यन्तोदात्तम् ईळ इति अनुदात्तम् । तत्र ‘उदात्तादनुदात्तस्य स्वरित’ इति सहिताया ईकार स्वरित । ‘स्वरितात्स हितायामनुदात्तानाम्' इत्येकार प्रचय । ततश्च ईकार स्वरित उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाहृतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रुतिरेव भवतीत्यर्थ तदेवमुदात्तहूस्व अनुदात्तङ्ह्रस्व स्वरितहूस्व इति ह्रस्वस्त्रिविध । एव दीर्घोऽपि त्रिविध । तथा प्लुतोऽपि । ततश्च एकैक अच् नवविध इति स्थित । सनवविधोऽपीति । उक्तरीत्या नवविधोऽपि स अच् अनुनासिकत्वेन अननुनासिकत्वेन च द्विधा द्वाभ्या प्रकाराभ्या वर्तत इत्यर्थ । तदेवमनुनासिका नव अच , अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याच इति स्थितम् । अथानुनासिकसज्ञामाह । मुखनासिका ॥ मुखसहिता नासिका मुखनासिका शाकपार्थिवादि त्वात् सहितपदस्य लोप । उच्यते उच्चार्यते इति वचन कर्मणि ल्युट् । मुखनासिकया वचन इति 'कर्तृकरणे कृता बहुलम्’ इति तृतीयासमास । तदेतदाह । मुखसहितेत्यादिना ॥ मुखश्च नासिकाचेति द्वन्द्वस्तु न । तथासति 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गाना' इति समाहारद्वन्द्वनिय मात् 'स नपुसकम्'इति नपुसकत्वे ‘ह्रस्वोनपुसके प्रातिपदिकस्य’ इति ह्रस्वत्वे मुखनासिकवचन इत्यापत्ते । ननु अष्टादश भेदा कि सर्वेषामचामविशिष्टा नेत्याह । तदित्थमिति ॥ इयता प्रबन्धेन यत् अचा भेदप्रपञ्चन तत् इत्थ बक्ष्यमाणप्रकारेण व्यवस्थित वेदितव्यमित्यर्थ अष्टादशभेदा इति । अष्टादशप्रकारा इत्यर्थ । दीर्घभावादिति ॥ तथाच उदात्त लृकारदीर्घ अनुदात्तलृकारदीर्घ स्वरितलृकारदीर्घ । तेच अनुनासिकास्त्रय अननुनासिकास्त्रय इति षड्भेदानामभावे सति ह्रस्वप्रपञ्च प्लुतप्रपञ्चश्च षड़्विध इति लृकारस्य द्वादशविधत्वमेवेति

९०
[संज्ञा
सिद्धान्तकौमुदीसहिता

र्घाभावात् । एचामपि द्वादश । तेषां हूस्वाभावात् ।

१० । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९)

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथ सवर्ण संज्ञ स्यात् । अकुहविसर्जनीयानां कण्ठ । इचुयशाना तालु । ऋटुरषाणां मूर्धा। लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ज्यमडणनाना नासिका च । एदै


भाव । लृकारस्य दीर्घौभावे होतृ लृकार इत्यत्र सवर्णदीर्घ कृते होतृकार इति ऋकारस्यैव तुल्यास्यसूत्रे अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । हृस्वाभावादिति ॥ यद्येचेो ह्रस्वास्युस्तर्हि वर्णसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ्येरन्। नतु दीर्घा गौरवात् । अत एच हूस्वा न सन्तीति विज्ञायते । एव च हृस्वप्रपञ्चषड्भेदाभावात् द्वादश विधत्वमेवैचामिति भाव । अथ 'अणुदित्सवर्णस्यचाप्रत्यय' इति अ इ उ इत्यादिसज्ञा वक्ष्यन् सवर्णसज्ञामाह । तुल्यास्य ॥ आस्य मुख तत्स्थानसाम्यस्य सवर्णेष्वविशिष्टत्वादव्याव तैकत्वादास्यशब्दोऽत्र न मुखमात्रपर । किंतु आस्ये मुखे भवमास्य ताल्वादिस्थान “शरीराव यवाद्यत्' इति भवार्थे यत्प्रत्यय । “यस्येति च' इति प्रकृत्यन्त्यस्य अकारस्य लोप । प्रकृष्टो यत्न प्रयत्न । आास्य च प्रयत्न्नश्च आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्य प्रयत्न्न परस्पर सवर्णसज्ञक स्यादिति भाव । तदाह । ताल्वादिस्थानमित्यादिना । मिथः इति ॥ परस्परमित्यर्थे । कस्य कि स्थानमित्याकाक्षाया तद्यवस्थापकानि पाणिन्यादि शिक्षावचनान्यर्थत सगृह्णाति । अकुहेत्यादिना । अ इत्यष्टादश भेदा गृह्यन्ते । कु इति कादिपञ्चकात्मक कवर्ग । नचाणुदित्सूत्रस्येदानीमप्रवृत्ते कथमत्र अ इत्यष्टादशभेदाना ग्रहण मिति वाच्यम् । लौकिकप्रसिद्विमाश्रित्यैव एतत्प्रवृत्ते एवमग्रेऽपि कथञ्चित्समाधान बोद्यम् अश्च कुश्च हश्च विसर्जनीयच्वेति विग्रह । विसर्जनीयशब्दोऽपि विसर्गपर्याय । इचु यशेति ॥ इ इत्यष्टादश भेदा । चु इति चवर्गे । इश्च चुश्च यश्च शश्चेति विग्रह । तालु हनु । ऋटुरषेति ॥ ऋ इत्यष्टादश भेदा । टु इति टवर्ग । आच टुश्च रश्च षश्चेति विग्रह । ऋशब्दस्य आ इति प्रथमैकवचनान्तम् । धाता इतिवत् । लतुलसेति लृ इत्यस्य द्वादश भेदा । तु इति तवर्ग । आच तुश्च लश्च सञ्चेति विग्रह । लृ शब्दस्यापि आ इत्येव प्रथमैकवचनान्तत्वम् । आ अलौ अल । दन्तशब्देन द न्तमूलप्रदेशो विवक्षित । अन्यथा भग्नदन्तस्य तदुचारणानुपपत्ते । उपूपेति ॥ उ इत्यष्टादश भेदा । पु इति पवर्ग । उश्च पुश्च उपध्मानीयश्चेति विग्रह । उपध्मानीयशब्द मनुपदमेव स्वय व्याख्यास्यति । अमङणनेति ॥ अश्च मश्च डश्च णश्च नश्चेति विग्रह. । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । एदैतोरिति ॥ एच ऐच एदैतौ । तपरकरणमसन्दे

हार्थम् । नतु “तपरस्तत्कालस्य' इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि सङ्गह ।
११
बालमनोरमा
प्रकरणम्]

तो कण्ठतालु । ओदौतो कण्ठोष्ठम्। वकारस्य दन्तोष्टम्। जिह्वामूलीयस्य जि ह्वामूलम्। नासिका अनुस्वारस्य। इति स्थानानि। प्रयत्नो द्विधा । आभ्यन्तरो बा ह्यश्च । आद्यश्चतुर्धा । स्पृष्टषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शा नाम् । इषत्स्पृष्टमन्त स्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्यावर्णस्य


कण्ठश्च तालु चेति प्राण्यङ्गत्वात् समाहारद्वन्द्व । एकवत्व नपुसकत्व च । ओदौतोरिति ॥ ओच्च औच ओदौतौ। तपरकरण पूर्ववदसदेहार्थमेव। कण्ठश्च ओष्ठौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्व एकवः द्भावो नपुसकत्व च। वकारस्येति । दन्ताश्च ओष्ठौचेति समाहारद्वन्द्व । एकवत्त्व नपुसकत्वञ्च । जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमग्रे व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति ॥ इति एव प्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थ । ननु किमिह तुल्यास्यसूत्रे यत्किञ्चित् स्थानसाम्य विवक्षितम्, उत यावत्स्थानसाम्यम् । न तावदाद्य । तथा सति इकारस्य एकारस्य व तालुस्थानकतया सावर्ण्यापत्तौ भवत्येवेत्यत्र इकारादेकारे परे सवर्ण दीर्घपते । न च एकारस्य वर्णसमाम्नाये पाठसामर्थ्यादिकारेण न सावर्ण्यमिति वाच्यम्। एकार पाठस्य अक् इक् उक् इति प्रत्याहारेषु एकारग्रहणनिवृत्यर्थत्वसम्भवात् । किञ्च वकारलकारयोर्द न्तस्थानसाम्येन सावर्णापत्तौ ‘तोर्लि’ इत्यत्र लकारेण वकारस्यापि ग्रहणात् तद्वानित्यत्र दकारस्य परसवर्णापत्ति । यवलपरे यवला वेत्यत्र लकारग्रहणन्तु यथासख्यार्थ भविष्यति । न द्वितीय । तथासति कडयो कण्ठस्थानसाम्येऽपि डकारस्य नासिकास्थानाधिक्येन सावण्यभावापत्तौ ‘चो कु क्विन्प्रत्ययस्य’ इत्यत्र डकारस्यग्रहणानापत्या प्राड् इत्यादौ नुमो नकारस्य क्विन्प्रत्ययस्य’ इति कु त्वेन डकारानापत्ते । तस्मात्स्थानसाम्य दुर्निरूपमिति चेत्। अत्र ब्रूम । यावत्स्थानसाम्यमेव सा वर्णप्रयोजकम् । एवच्च इकारस्य एकारस्य च तालुस्थानसाम्येऽपि एकारस्य कण्ठस्थानाधिक्यान्न सावर्ण्यम्। वलयोश्च न सावर्ण्यम् । वकारस्य ओष्ठस्यानाधिक्यात् । एवच्च 'तद्वानासा यजुष्येके षाम्’ इत्यादि निर्देशा उपपन्ना । डकारस्य नासिकास्थानाधिक्येऽपि ककारेण सावर्ण्यमस्त्येव । आस्य भवस्थानसाम्यस्यैव सावर्ण्यप्रयोजकत्वात् । नासिकायाश्च आस्यानन्तर्गतत्वात् । उक्तञ्च भाष्ये । किम्पुनरास्य लौकिक ओष्ठात्प्रभृति प्राक्काकलकादिति । काकलको नाम चुबुकस्याधस्तात् ग्रीवायाः मुन्नतप्रदेश इति कैयट । तस्मादास्यभवयावत्स्थानसाम्य सावर्ण्यप्रयोजकमिति शब्देन्दुशेखरे विस्तर । ननु तुल्यास्यसूत्रे प्रयत्न्नशब्देन प्रशब्दबलादाभ्यन्तरयत्नो विवक्षित इति स्थितम् । तत्राभ्यन्तरत्वविशेषण किमर्थम्, व्यावर्त्याभावादित्यत आह । यत्नोद्विधेति । यत्नानामा भ्यन्तरत्व बाह्यत्वच्च वर्णोत्पत्ते प्रागूर्ध्वभावित्वामिति पाणिन्यादिशिक्षासु स्पष्टम् । आद्य इति ॥ आभ्यन्तरयत्न इत्यर्थे । कथञ्चातुर्विध्यमित्यत आह । स्पृष्टति ॥ कस्य क प्रयत्न इत्याका ड्क्षाया तद्यवस्थापकशिक्षावचनानि पठति । तत्रेति । तेषु मध्य इत्यर्थ । प्रयतनमिति ॥ प्रयत्न इत्यर्थे । स्पर्शादिशब्दानग्रे व्याख्यास्यति । ह्रस्वस्यावर्णस्य सवृतमित्यन्वय । एतावदेव शिक्षावचन । नन्वेव दण्ड आटकमित्यत्र अकारस्य आकारस्य च विवृतसवृतप्रयत्नभेदेन सावर्ण्या

९२
[संज्ञा
सिद्धान्तकौमुदीसहिता

[संज्ञा प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथा हि

११ । अ अ । (८-४-६८)

विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाद्धयायी सम्पूर्ण प्रत्यसिद्ध वाच्छास्त्रदृष्टया विवृतत्वमस्त्येव । तथा च सूत्रम् ।

१२ । पूर्वत्रासिद्धम् । (८-२-१)


भावात् सवर्णदीघों न स्यादित्यत आह । प्रयोग इति ॥ शास्त्रीयप्रक्रियाभि परिनिष्ठिताना राम कृष्ण इत्यादिशब्दाना प्रयोगे क्रियमाण एव हूस्वस्यावर्णस्य सवृतत्वमित्यर्थ । प्रक्रियेति । शास्त्री यकार्यप्रवृत्तिसमये तु ह्रस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थ शिक्षावचनसिद्ध स्वाभाविक हूस्वावर्णस्य सवृतत्व प्रच्याव्यशास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्रशास्त्रीयप्रक्रियासमये हूस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाढकमित्यादौ सवर्णदीर्घदिकार्यन्निर्बाधमिति अइउणिति सूत्र भाष्ये स्पष्टम्। एवच्च हूस्वस्यावर्णस्य सवृतमिति शिक्षावचन परिशेषात् परिनिष्ठितदशायामेव पर्य वस्यतीति न तदानर्थक्यमिति भाव । अयश्च शिक्षावचनसकोचस्सूत्रकारस्यापि सम्मत इत्या ह । एतच्चेति । तदेवोपपादयितु प्रतिजानीते । तथाहीति । यथा एतत् ज्ञापित भवति तथा स्पष्टमुपपाद्यत इत्यर्थ । अ अ । व्याकरणशास्त्रस्येदमन्तिम सूत्र द्विपदम् । तत्र अ इति प्रथम पद विवृतपर लुप्तषष्टीकम्। द्वितीयन्तु सवृतपर लुप्तप्रथमाकम्। ततश्च शिक्षावचनसिद्ध स्वा भाविक सवृतत्व प्रच्याव्य वर्णसमाम्राये विवृतत्वेनोपदिष्टस्य अवर्णस्य सवृत अवर्णो भवतीत्यर्थे । तदाह । विवृतमनूद्येति । विधीयत इति । प्रतिप्रसूयत इत्यर्थ । ननु प्रक्रियादशाया मप्येतत्सूत्र कुतो न प्रवर्तत इत्यत आह । अस्यचेति । अस्य अ अ इति सूत्रस्य, स्वप्राक्तनीं कृत्स्रा अष्टाद्यायी प्रति सिद्धत्वात् अविद्यमानत्वात् प्रक्रियादशाया विवृतत्वमस्त्येवेत्यन्वय । ननु प्रक्रियादशाया हूस्वावर्णस्य कथ स्वाभाविकात्सवृतत्वात् प्रच्यव , कथ वा विवृतत्वम्, तस्य आकारादिधर्मत्वादित्यत आह । शास्त्रदृष्टयेति । असिद्धत्वमिह न वास्तवात्यन्तास त्वं विवक्षितम् । किं तर्हि अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविकस्य सवृतत्वस्या वर्णात्प्रच्यव । नापि विवृतत्वम् । तस्य वास्तव प्रक्रियार्थ विवृतत्वस्यारोपादिति भाव । ननु ‘अअ’ इति सूत्रस्य कृत्स्रामष्टाध्यायीं प्रत्यसिद्धत्वे किं प्रमाणमित्यत आह। तथा च सूत्रमिति । चोह्यर्थे । तथा तेन प्रकारेण बोधक सूत्रमस्तिहीत्यर्थ । तथाविध सूत्रमाह । पूर्वत्रासिद्धम् ॥ पाणिनिप्रणीता अष्टाद्यायी । तत्र अष्टमाच्द्याये द्वितीयपादस्येदमादिम सूत्रम् । इत प्राक्तन कृत्स्र सूत्रजाल सपादसप्ताद्यायीति व्यवह्रियते । उपरितनन्तु कृत्स्र सूत्रजाल त्रिपादीति व्यवह्नि यते इति स्थिति । तत्र यदीद सूत्र स्वतन्त्रविधिस्यात् तदा इत पूर्वस्मिन् शाखे प्रवर्तमाने उपरितन शास्रमसिद्ध स्यादित्यर्थो लभ्येत । ततश्च सपादसप्ताद्यायी प्रति त्रिपाद्यसिद्धेति पर्य

वस्येत् । एव सति त्रिपाद्यामपि पूर्व शास्र प्रतेि पर शास्रमसिद्धमिति अर्थो न लभ्येत । तथा
९३
बालमनोरमा

प्रकरणम्]

अधिकारोऽयम्, तेन सपादसप्ताध्द्यायी प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्रस्त्वेकादशधा । विवार संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्त स्वरितश्चेति ।


सति किमु उक्त किम्वुक्तमित्यत्र मोऽनुस्वार इति शास्त्र त्रैपादिक प्रति “मय उो वो वा' इति वत्वशास्त्र त्रैपादिक प्रति नासिद्ध स्यादित्यत आह। अधिकारोऽयमिति ॥ अधिक्रियते उप रितनसूत्रजालशेषत्वेन पठ्यत इत्यधिकार । कर्मणि घञ् । “घजबन्ता पुसि’ इति पुस्त्वम्। अय मिति तदपेक्षया पुलिङ्गनिर्देश । इद सूत्रमुपरितनसूत्रेष्वनुवृत्यर्थमेव । नतु स्वतन्त्रविधिरिति यावत् । “मयउजेो वोवा’ इति सूत्रे पूर्वत्रासिद्धमित्यनुवर्तते । ततश्च मय परस्य उजो वकारो वा स्यात् । इद शास्त्र पूर्वत्रासिद्धमिति तदेकवाक्यत्व सपद्यते । तत्र च अनुवृत्तपूर्वशब्देन इत प्राक्तन त्रिपादीस्थ सपादसप्ताद्यायीस्थच्च कृत्स्र सूत्रजाल विवक्षितामिति मोऽनुस्वार इति त्रै पादिक शास्त्र प्रति ‘मय उनो वोवा’ इति शास्त्रस्यासिद्धत्व निर्बाधमित्याह । तेनेति ॥ अधिकार त्वेनेत्यर्थ । परं शास्त्रमसिद्धमिति ॥ असिद्धत्वच्चात्र नात्यन्तासत्वम्। किन्तु पूर्वशास्रदृष्टयेत्य नुपदमेवोक्तम् । परशास्त्रमित्यनेन प्रक्रियाकोमुद्यादिग्रन्थोक्त कार्यसिद्धत्वमप्रामाणिकमिति ध्वनि तम्. । कार्यासिद्धत्व पूर्वपक्षयित्वा शास्रासिद्धत्वस्यैवात्रसूत्रे ‘आसिद्धवदत्राभात्’ इति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्रासिद्धत्वकार्यासिद्धत्वयो फलभेदस्तु शब्देन्दुशेखरे व्यक्त । अस्माभिश्च स्वादिसन्धौ मनोरथ इत्यत्र मूलव्याख्यावसरे हलन्तशब्दाधिकारे च अदश्शब्दप्रक्रियाव्याख्या वसरे प्रपञ्चयिष्यते । तदेव ‘अ अ’ इति सवृतविधे स्वप्राक्तनी कृत्स्रा अष्टाद्यायी प्रत्यसिद्धत्वात् प्रक्रियादशायामवर्णस्य दूस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव सवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठितदशाया सवृतविवि क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते । तथापि परिनिष्ठिते सवृतविधिबलादेव सवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कत्प्यम् । विवृतसवृतयोरुच्चारणभेदेो वा कल्प्यमित्यल बहुना । अथ बाह्यप्रयत्नान्प्रपञ्चयति । बाह्यप्रयतस्त्विति ॥ प्रशब्दोऽत्र अय च पक्ष भाष्ये बहुल दूषित । तत्र हेतुस्तु लक्ष्येषु समीहितरूपासिद्धिरेव । शब्देन्दुशेखरेऽपि अय विषयो बहुधा प्रपञ्चित । पूर्वत्रासिद्धमित्यनेन सिद्धे सिद्धत्वारोप प्रतिपाद्यते। तत्र निरधिष्ठानारोपस्य असभवात् सूत्रेोदाहरणाय लक्ष्ये विप्रतिषेधे पर कार्यमित्यनेन परस्यैव कार्यस्य प्रवृत्तेरावश्यकतया प्रकृते मनोरथ इत्यत्र हशिचेतिसूत्रविधीयमानोत्वरूपकार्या पेक्षया परस्य रोरीति सूत्रेण विधीयमानलोपरूपस्यैव कार्यस्य प्रथमतप्रवृत्तौ तस्मिन् लोपरूपे कायें पूर्वत्रासिद्धामित्यनेन अभावप्रतियेोगित्वारोपेऽपि देवदत्तहन्तरेि हते देवदत्तस्य नोन्मज्जन मिति न्यायेन प्रकृतेरोरभावात् हशिचेत्युत्वस्य अप्रवृत्तौ इष्टरूपासिद्धि स्पष्टैव । शास्त्रासिद्धत्वपक्षे तुयद्यच्छास्र त्रैपादिक प्रवृत्युन्मुख तत्तच्छास्र एव असिद्धत्वारोपात् पूर्वशास्त्रप्रतिबन्धकस्य पर शास्रस्य उच्छेदबुद्धौ सत्या पूर्वशास्त्रप्रवृत्तिर्निरङ्कुशा । वस्तुतस्तु कार्यासिद्धत्वपक्षे मनोरथ इत्येतछक्ष्यासिद्धिकथनं न चारुतरम् । दर्शनाभावरूपे लोपे अभावारोपस्य दर्शनारोपरूपत्वेन रोस्सत्वात्। अभावाभावस्य प्रतियोगिरूपत्वात् । अमू अमी इत्यादि लक्ष्यासिद्धिx पर एतत्पक्षा भ्युपगमे दोष इत्यभियुक्ता ॥

१४
[संज्ञा
सिद्धान्तकौमुदीसहिता

स्वयां यमा स्वयः क-पैौ विसर्ग शर एव च। एते श्वासानुप्रदाना अघोषाश्च विवृण्वते कण्ठमन्ये तु घोषा स्यु संवृता नादभागिन [संज्ञा अयुग्मा वर्गयमगा यणश्चाल्पासव स्मृता

वर्गेष्वाद्यानां चतुर्णा पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्ण प्राति शाख्ये प्रसिद्ध । पलिक्क्री, चख्नतु , अग्निघ्नन्तीत्यत्र क्रमेण कखग घेभ्य परे तत्सदृशा एव यमा तत्र वर्गाणा प्रथमद्वितीया खय , तथा ते षामेव यमा’, जिह्वामूलीयोपध्मानीयौ विसर्ग शषसाश्चेत्येतेषां विवार श्वासो ऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च वर्गाणां प्रथमतृतीयपञ्चमा


चिन्त्य । प्रशब्दबले आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात् । यत्रो द्विधेत्युपक्रमाच्च । अविवक्षितार्थो वाऽत्र प्रशब्द उदात्तानुदात्तस्वरितशब्दा धर्म कस्य को बाह्यप्रयत्न्न इत्याकाक्षाया तद्वयवस्था श्लोकद्वयेन सगृह्णाति । खयामिति ।यमशब्दो व्याख्यास्यते । श्वास अनुप्रदान येषा ते श्वासानुप्रदाना श्वासाख्यबाह्ययत्न्नवन्त विवृण्वते कण्ठमिति ॥ विवार एषा यत्र इति भाव । सवृता सबाराख्ययत्नवन्त ।नादभागिन नादाख्ययत्नभाज । अयुग्मा वर्गयमगा इति। कादिपञ्चक चादिपञ्चकटादिपञ्चक तादिपञ्चक पादिपञ्चकमिति, पञ्च वर्गा । वर्गगता यमगताश्च अयुग्मा प्रथमतृतीयपञ्चमवर्णा इत्यर्थे । अ ल्पासव अल्पप्राणा अथ श्लोकद्वय व्याख्यास्यन् यमशब्द तावत् सामान्यतो व्याचष्टे । वर्गे ष्वित्यादिना । आद्याना चतुर्णामिति निद्धारणे षष्ठी। एकैकरमादित्यछद्याहार्यम्। तेन “अन्यारा दितरर्ते’ इति परशब्दयोगे पञ्चमी। प्रसङ्गात् आद्यानाचतुर्णामिति निर्धारणषष्ठयनुपपन्नेति निरस्तम् यमोनामेति ॥ नामशब्द इति पर्याय । तदयमथै । कादि चादि टादि तादि पादि पञ्चकात्मकेषु वर्गेषु एकैकस्य वर्गस्य आद्याना चतुर्णाम्मध्ये एकैकस्मात् पञ्चमे वर्णे परे मध्धे पूर्ववर्णसदृशेो यम इति प्रातिशाख्ये प्रसिद्धेति । अथ यमानुदाहृत्य दर्शयति । पलिक्क्रीत्यादिना ॥ तत्सदृशा एव यमा इत्यन्तेन ॥ एव वर्गान्तरयमानामप्युदाहरण याच्जेत्यादि द्रष्टव्यम् । तदेव यमशब्द सामान्यतो व्याख्याय श्लेोकद्वय व्याचष्टे । तत्रेत्यादिना तत्र स्वय इत्यस्य व्याख्या वर्गाणा प्रथमद्वितीया स्वय इति । रसया यमा इत्यस्य विवरण तथा तेषामेव यमा इति कx पैौ इत्यस्य विवरण जिह्वामूलीयेोपध्मानी याविति । विसर्गशब्द प्रसिद्धत्वात् स एवोपात्त शर इत्यस्य विवरण शषसा इति । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते कण्ठ मित्येतद्याचष्टे । एतेषां विवारः श्वासः अघोषश्रेति अन्ये तु घोषास्यु स्संवृतानादभागिन इत्येतद्याचष्टे । अन्येषान्तु संवारो नादो घोषश्चेति ॥ अयुग्मा वर्गयमगा इत्येतद्याचष्टे । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति

यन्म
१५
बालमनोरमा

प्रकरणम्]


प्रथमतृतीययमौ यरलवाश्चाल्पप्राणा । अन्ये (द्वितीयचतुर्थौ शलश्च) महाप्राणा इत्यर्थे । बाह्यप्रयत्नाश्च यद्यपि सवर्णसज्ञायामनुपयुक्ता , तथायान्तरतम्यपरी क्षायामुपयोक्ष्यन्त इति बोध्द्यम् । काद्यो मावसाना स्पर्शा । यरलवा अ न्तस्था । शषसहा ऊष्माण । अच. स्वरा. । xक xप इति कपाभ्या प्रागर्ध विसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अ अ इत्यच. परावनुस्वारविसर्गौ । इति (स्थान) यत्नविवेक । 'ऋलृवर्णयोर्मिथ सावर्ण्य वाच्यम्’ (वा १५०) ।


{{smaller पञ्चमाना यमाभावादिति भाव । यणश्चात्पासव स्मृता इत्येतद्वयाचष्टे । यरलवाश्चा ल्पप्राणा इति ॥ ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशङ्कय तदपि परिशेषादुक्तप्रायमित्याह । अन्ये महाप्राणा इति ॥ वर्गाणा द्वितीयचतुर्था द्वितीयचतुर्थ यमा शषसाश्च अन्यशब्देन विवक्षिता । यमाना यत्नविशेषकथन वस्तुस्थितिकयनमात्रम् । अत्र शास्त्रे तदुपयोगाभावात् । तदयमत्र मध्द्यसिद्धान्तकौमुद्या वरदराजीयस्सङ्गह । स्वरो विवा रथासा अघोषाश्च । हशस्सवारनादा घोषाश्च । वर्गाणा प्रथमतृतीयपञ्चमा यणश्चात्पप्राणा । वर्गाणा द्वितीयचतुर्थाश्शलश्च महाप्राणा इति । नान्वह बाह्ययत्न्नप्रपञ्चन व्यर्थ, तुल्यास्यसूत्रे प्र यत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते। बाह्ययत्नाश्चेति । यद्यपीति ॥ समुदाय श्शङ्काद्योतक । परिहरति । तथापीति । सवर्णसज्ञाप्रस्तावे बाह्ययत्नानामुपयोगाभावेऽपि ‘स्थाने न्तरतम’ इति वक्ष्यमाणाऽन्तरतम्यविचारे तेषामुपयोगसत्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चन तुल्यास्य सूत्रे आभ्यन्तरत्वविशेषणव्यावर्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भाव । उदात्तादियन्नत्रयस्य तु अज्वधर्मत्वस्य प्रसिद्धत्वादिह न तद्वयवस्थोक्ता । अथ स्पृष्ट प्रयतन स्पर्शनामित्यादि सन्दर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे । कादय इत्यादिना ॥ क आदि येषान्ते कादय म अवसाने येषान्ते मावसाना । इदञ्च लोकप्रसिद्धपाठापेक्षम् । इतेि स्थानयत्नवि वेक इति ॥ स्थानयत्नविवेचन समाप्तमित्यर्थ । स्थानप्रयत्नेति प्रशब्दपाठतु चिन्त्य वि वक्षितार्थो वा प्रशब्द ऋलृवर्णयोर्मूर्द्धदन्तात्मकभिन्नस्थानकत्वात् सवर्णसज्ञायामप्राप्तायामृ कारलृकारयोस्सवर्णविधिरिति तद्विधायक वार्तिक अर्थतस्सङ्गृह्य पठति । ऋलृवर्णयोऽर्मि थः ॥ आच आचरलौ ऋशब्दस्य लृशब्दस्य च आ इति प्रथमैकवचनम् । ऋ लृ औ इति स्थिते ऋकारस्य 'ऋतो डि सर्वनामस्थानयो 'इति गुण । अकार “उरणूपर” इति लपरत्व । ऋ कारस्य यणादेशो रेफ रलौ च तौ वर्णौ च ऋलवर्णौ । तयोर्मिथ परस्पर सावर्ण्यं सवर्णत्व वक्त व्यम् । तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारश्शिक्ष्यते । उक्तानुक्तदुरुक्तचिन्तनात्मक हि वा र्तिकम् । अकारहकारयोरिति ॥ उभयो कण्ठस्थानाविवृतप्रयत्नसाम्यात्सावर्ण्य प्राप्तम् । अ कारस्य कवर्गेण तु न सावर्ण्यप्रसक्ति । कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात् । विस र्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्खयातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसज्ञा। प्रयोजनाभावात् । ततश्च अकारस्य हकारेण सावण्र्य परिशिष्यत इति भाव । इकारशकार योरिति ॥ तालुस्थानविवृतप्रयत्नसाम्यात् उभयोस्सावर्ण्य प्राप्तम् । इकारस्य चवर्गेण यकारेण}}

९६
[संज्ञा
सिद्धान्तकौमुदीसहिता

अकारहकारशकारयोर्ऋकारषकारयोर्लृकारसका रयोश्च मिथः सावण्येंप्राप्ते ।

१३ । नाऽऽज्झलौ । (१-१-१०)

आकारसहितोऽच् आच्, स च हल्चेत्येतौ मिथः सवर्णेौ न स्त । तन्न द् धीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दी र्घदीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । तथा हि ।


च न सावर्ण्यप्रसक्ति । इकारस्य विवृतत्वाच्चवर्गस्य स्पृष्टत्वात् यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावर्ण्य परिशिष्यत इति भाव । ऋकारषकारयोरिति ॥ मूर्धस्थानविव तयन्नसाम्यात् उभयोस्सावर्ण्य प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावर्ण्यप्रसक्ति । ऋकारस्य विवृतत्वात् टवर्गस्य स्पृष्टत्वात् रेफस्य ईषत्स्पृष्टत्वाच्च । अत ऋकारषकारयोस्सावर्ण्य परिशिष्य त इति भावः । लृवकारसवकारयोरितेि ॥ दन्तस्थानविवृतप्रयत्न्नसाम्यादुभयोस्सावर्ण्यं प्राप्तम् । लृकारस्य तवर्गेण लकारेणच न सावर्ण्यप्रसक्ति । लृकारस्य विवृतत्वात्तवर्गस्य स्पृष्टत्वात् लका रस्य ईषत्स्पृष्टत्वाच । अत लृकारस्य सकारेण सावर्ण्य परिशिष्यते ॥ एव प्राप्त प्रतिषेधति । नाऽऽज्झलौ ॥ आ सहित अच् आच । शाकपार्थिवादित्वात्सहितशब्दस्य लोप । सच हल्च आज्झलौ । तुल्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुल्लिङ्गद्विवचनान्ततया विपरिणम्यते । तदाह । आाकारसहितोऽजित्यादिना ॥ ननु किमर्थोऽय प्रतिषेध इत्यत आह । तेनेत्यादि यणादिकं नेत्यन्तम् ॥ तेन प्रतिषेधेन, आदिना सवर्णदीर्घसङ्गह । दधीति इकारस्य हकारे षकारे सकारे च परे “इकोयणवि” इति यणादेश । शीतळमित्यत्र शकारे परे सवर्ण दीर्घश्च नभवतीत्यर्थ. । नन्वस्तु अकारहकारयो इकारशकारयो ऋकारषकारयो लृकारसकार योश्च सावर्ण्यम् । तथापि दधि षष्ठमित्यादौ यणादिक न प्रसक्तम् । अच्परकत्वाभावादित्यत आह । अन्यथेत्यादिना । अन्यथा तेषा सावर्ण्याभ्युपगमे दीर्घादीनामिव हकारादीनामप्यच्त्व स्यादित्यन्वय । ननु वर्णसमान्नाये हकारादीना अकारचकारमध्द्यगत्वाभावात् कथमच्त्वमित्यत आह । ग्रहणकशास्रबलादिति ॥ गृहन्त्यकारादयस्वसवर्णान् येन तत् ग्रहण । करणे ल्युट् स्वार्थेक । अणुदित्सूत्रादित्यर्थ । यद्यप्यच्छब्दवाच्यत्व वर्णसमाम्नायिकानामेव वर्णानाम् तथापि इकोयणचीत्यादौ अच्छब्देन अकारादिषूपस्थितेषु तै अणुदित्सूत्रबलेन स्वस्वसवर्णा नामाकारादीनामुपस्थितिरस्ति । ततश्चात्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामपि लक्ष णया अच्छब्देन ग्रहण स्यादित्यर्थः । न च इकोयणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्नलक्षणा सभव । अणुदित्सूत्रन्तु अस्यच्वावित्यादौ सावकाशमिति वाच्यम् । ल्वादिभ्य इत्यादिनिर्देश बलेन प्रत्याहाराणा स्ववाच्यवाच्येषु लक्षणावश्यम्भावात् । तथाच अच्त्व स्यादित्यस्य अच्पद

बोद्यत्व स्यादित्यर्थ. । किन्तद्रहणकशास्त्रमित्याकाक्षायान्तदुपपादन प्रतिजानीते। तथाहीति ।
१७
बालमनोरमा

प्रकरणम्]


१४ । अणुदित्सवर्णस्य चाप्रत्ययः । (१-१-६९)

प्रतीयते विधीयत इति प्रत्यय , अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञास्यात् अत्राण्परेण णकारेण । कु चु टु तु पु एते उदित । तदेवम्अ इत्यष्टाद शानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिशत । एवं लृकारोऽपि । एचो द्वा दशानाम् । एदैतोरोदौतोश्च न मिथ सावर्ण्यम्। ऐऔच्’ इति सूत्रारम्भसा मर्थ्यात्। तेनैचश्चतुर्विशते संज्ञा स्युरिति नापादनीयम् । * नाज्झलौ' (सू१३)


अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे 'त्यदादीनाम ' 'इदमइश्’ इत्यादीना पर्युदासो न स्यादित्यतो व्याचष्टे । प्रतीयत इति ॥ उत् इत् यस्य स उदित् कु चु टुतुपु इत्यादि । चकारात्स्वरूपमित्यत स्वमित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तदाह अविधीयमान इत्यादिना ॥ अणिति पूर्वेण परेण वा प्रत्याहार इति सशये निर्धारयति अत्रेति अस्मिन्नेव सूत्रे अण् परेण णकारेण । इतरत्र तु 'अणोऽप्रगृह्यस्य' इत्यादौ पूर्वेणैवेत्यर्थ । अत्र च आचार्यपारम्पर्योपदेशरूप व्याख्यानमेव शरणम् । एवञ्चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वात्तेषु परेषु इकारस्य यणादिक स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह तदेवमिति ॥ तत् अणुदित्सूत्र एव वक्ष्यमाणप्रकारेण फलतीत्यर्थे । त्रिंशत इति ॥ ऋ लृ वर्णयोर्मिथस्सवर्णतया ऋकारेण स्वाष्टादशभेदाना लृकारीयद्वादशभेदाना च ग्रहणादिति भाव एवं लृकारोऽपीति ॥ ऋकारस्यापि लृकारसवर्णत्वादिति भाव । ननु एकारेणऐकारप्रपञ्चो ऽपि गृह्येत ऐकारेण एकारप्रपञ्चश्च तथा ओकारेण औकारप्रपञ्चो गृहेत । औकारेण ओोकारप्रपञ्चश्च ।ततश्च एचश्चतुर्विशतेस्सज्ञास्युरित्येव वक्तव्यम् । नतु द्वादशानामित्यत आह । एदैतो रेिति ॥ कुतेो न सावर्ण्यमित्यत आह । ऐ औजिति ॥ यदि ह्येदैतो ओदौतोश्च परस्पर सावर्ण्य स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घ प्लुतानामिवग्रहणसम्भवात् ‘ऐऔच्’ इति सूत्रन्नारभ्येत । आरभ्यते च । अत एदैतेोरोदौतोश्च न परस्पर सावर्ण्यमिति विज्ञायत इत्यर्थ । अच् इच् एच् इत्यादि प्रत्याहारास्तु डकारेणैव नि र्वाह्या । न च ‘एवोऽयवायाव’ इत्यत्र यथासङ्खयार्थमैऔजिति सूत्रमस्त्विति वाच्यम्। तत्र ‘स्था नेऽन्तरतम’ इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भाव । वस्तुतस्तु, ऐ औच्’इति सूत्राभावे वृद्धिरादैच् न य्वाभ्या पदान्ताभ्या पूर्वौ तु ताभ्यामैच’ ‘प्लुतावैच इदुतौ' इत्यादौ ऐड्रहणापतौ एदैतोरपि ग्रहणे प्रसक्ते तन्निवृत्यर्थमैचप्रत्याहार आवश्यकइति तदर्थमैऔजित्यारम्भणीयमेव अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वात् एदैतोरोदौतोश्च मिथस्सावर्ण्याभावसाधकत्वक थनमनुपपन्नमेव । एदैतौरौतोश्च मिथस्सावर्ण्याभावस्तु वृद्धिरादैजित्यादौ क्वचिदैज्ग्रहणात् ‘अदे डुण' इत्यादौ क्वचिदेङ्गहणाच सुनिर्वाह । अन्यथा सर्वत्र एड्रहणमेव ऐज्ग्रहणमवे वा कुर्यात् तावतैव चतुर्णा ग्रहणसम्भवात् । अत एच एडिति प्रत्याहारद्वयग्रहण सामर्थ्यादेदैतोरोदौतोश्चे न मिथस्सावर्ण्यम्।‘प्लुतावैच इदुतौ'एचेोऽप्रगृह्यस्य’ इतिप्रत्याहारद्वयग्रहणवैयर्थ्याचेति शब्देन्दुशे

१८
[संज्ञा
सिद्धान्तकौमुदीसहिता


इति सावर्ण्यनिषेधो यद्यप्याक्षरसमाम्नायिकानामेव, तथापि हकारस्याकारो न सवर्ण । तत्राकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभि ' इत्यत्र “ हो ढ


खरे प्रपच्चितम् । तेनेति ॥ एदैतोरोदौतोश्च मिथस्सावर्ण्यभावेनेत्यर्थ । नापादनीयमिति ॥ नाशङ्कनीयामित्यर्थ । एवञ्च एकारेण सह वर्तत इति सै हेसैरित्यत्र 'एड् हूस्वात्' इति सबुद्धि लोपो न । ग्लाव ग्लाव इत्यत्र ‘औतोऽशसो ' इत्यात्वञ्च न । स्यादेतत् । हकारस्य आकारस्य च सवर्णसज्ञा स्यात् स्थानप्रयत्न्नसाम्यात् । अज्झलामेव सावर्ण्यनिषेधात् वार्णसमाम्नायिकानामेव वर्णाना अज्झलशब्दवाच्यत्वात् । आकारप्रश्लेषे च प्रमाणाभावात् । नचाकारस्याच्त्वात् आकारस्यापि अणुदित्सूत्रेण ग्रहणादाकारहकारयोर्नसावर्ण्यमिति वाच्यम् । ग्रहणकसूत्र हि लब्धात्मकमेव सत् ‘अस्यच्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलावितिप्रवृत्तिदशायाश्च ग्रहणकशास्त्र नलब्धात्मकम्। तद्धिसवर्णपदघटितम्। सवर्णपदार्थावगमोत्तरमेव लब्धात्मक सवर्णसज्ञाविधायकञ्च तुल्यास्यसूत्र सामान्यत स्वार्थ बोधयदपि नाज्झलावित्यपवादविषय परिहृत्य तदन्यत्रैव पर्य वसन्न स्वकार्यक्षमम् । तदुक्त “प्रकल्प्यापवादविषय उत्सर्गेऽभिनिविशत' इति । उक्तञ्च भाष्ये 'वर्णानामुपदेशस्तावत् उपदेशोत्तरकाला इत्सज्ञा । इत्सोत्तरकाल आदिरन्त्येनेति प्रत्याहार । प्रत्याहारोत्तरकाला सवर्णसज्ञा। तदुत्तरकालमणुदित्सूत्रम् । इत्येतेन समुदितेन वाक्ये नान्यत्र सवर्णाना ग्रहण भवति' इति । अन्यत्र ‘अस्यच्वौ' इत्यादावित्यर्थ । अत्र भाष्ये प्रत्याहारो त्तरकाला सवर्णसज्ञेत्यनेन नाज्झलाविति निषेधसहित सावर्ण्यविधिर्विवक्षित । केवलसावर्ण्यविधे प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमासम्भवात् । तथाचाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्ते प्रागलब्धात्मकत्वात् । तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णाना ग्रहणाभावात् सावर्ण्यविधिनिषेधाभावात् आकारहकारयोस्सावर्ण्यं स्यादिति शङ्कते । नाज्झ लाविति सावर्ण्येत्यादिना ॥ यद्यपीति सभावनायाम् । अक्षरसमाम्नायश्चतुर्दशसूत्री । तत्र भवा आक्षरसमान्नायिका । ‘बहुचोऽन्तोदात्तात्’ इति ठञ् । न च नाज्झलाविति प्रवृत्तिदशायाम णुदित्सूत्रप्रवृत्यभावेऽपि तत्र अजिल्यनेन लक्षणया दीर्घप्लुताना ग्रहणमस्तु । प्रत्याहाराणा स्ववा च्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम् । स्ववाच्यवाच्येषु हि प्रत्याहाराणा लक्षणा। न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति। अणुदित्सूत्रस्येदानीमप्रवृत्तेरिति भाव । परिहरति । तथापीति ॥ वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थे । कुत इत्यत आह । तत्रावकारस्यापीति । अपिशब्दो व्यु त्क्रम.। तत्र जाज्झलाविति सूत्रे। आ सहित अच् आच इत्याकारस्यापि सवर्णदीर्घण प्रश्लिष्टत्वा दित्यर्थ । नन्वस्तु हकारस्य आकारस्य च सावर्ण्य, किन्तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह । तेनेति ॥ तेन हकारस्य आकारस्य च सावर्ण्यप्रतिषेधेन हकारेण आकारस्य ग्रहणाभावात्, वि श्वपाभिरित्यत्र होढ इति हकारस्य विधीयमान ढत्व पकारादाकारस्य न भवति । आकारप्रश्ले षाभावे तु, तस्य हकारस्य च, सावर्ण्यसत्वात्, हकारेण आकारस्य च ग्रहणादिति, तस्य ढत्व स्यादित्यर्थे । अत्र ढत्वस्यासिद्धत्वात् सयोगान्तलोप एवापादनीय इति नवीना । “कालसमयवे

लासुतुमुन्नू’ इति सूत्रेवेलास्विति लकारादाकारस्य निर्देश नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम्।
९९
बालमनोरमा

प्रकरणम्]

(सू ३२४) इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्धयो. संज्ञा ।

१५ । तपरस्तत्कालस्य । (१-१-७०)

त. परो यस्मात्स तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्। तेन ‘अत्’ इत्’ इत्यादय. षण्णा षण्णां संज्ञा । * ऋत्’ इति द्वादशानाम् ।


अन्यथा तत्र ढत्वस्य सयोगान्तलोपस्य वा आपत्तौ आकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रे अज्ग्रहणमेव क्रियताम् । अणुदित्सवर्णस्येति किमण्ग्रहणेन । हयवरलाना सवर्णाभावेन तेषु ग्रहणकशास्त्रस्य व्यर्त्थत्वादित्यत आह । अनुनासिकेति । तेनेति ॥ उक्तद्वैविद्येन सवर्ण त्वात् अननुनासिकास्ते यवला प्रत्येक द्वयोर्द्धयोस्सज्ञा । अनुनासिकास्तु यवला अननुनासिका नामपि न सज्ञा । भेदका गुणा इत्याश्रयणात् । वर्णसमाम्नाये अननुनासिकानामेव तेषा पाठाच्च । एवञ्च यवलसग्रहार्थ ग्रहणकसूत्रे अज्ग्रहणमपहाय अण्ग्रहणमिति भाव । ग्रहणकसूत्रे अण् सवर्णाना ग्राहक इति स्थितम् । एव सति अत् इत् उत् इत्यादि तपराणामप्यणा स्वस्वसर्वसवर्ण ग्राहकत्वे प्राप्ते इदमारभ्यते । तपरस्तत्कालस्य । तपरइत्यावर्तते । प्रथमस्तावत्तपरशब्द त पर यस्मादिति बहुव्रीहि । द्वितीयस्तु तात् पर इति पञ्चमीसमास । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहि । ऊकाल, उष्ट्रमुख इत्या दिवत् समास । एवञ्च अत्, इत्, इत्याद्यात्मक अण् तपरत्वेन उचार्यमाण स्वीयकालसदृश कालस्य सज्ञा स्यादित्यर्थ । तत्र, अत्, इत्, उत्, ऋत्, इत्येतेषा तपराणा हूस्वाकारादीना मणा कालास्तत्काला तत्तद्ह्स्वप्रपञ्चा । एत्, ऐत्, ओत्, औत्, इत्येतेषान्तु तपराणामेकारा दीना तत्तत्काला तत्तद्दीर्घप्रपञ्चा । तत्र ह्रस्वाकारादीना तपराणा तत्तद्भस्वप्रपञ्चवाचकत्वस्य एकारादीनाच्च दीर्घाणा तपराणा स्वस्वदीर्घप्रपञ्चाचकत्वस्य लोकसिद्धत्वात् 'सिद्धेसत्यारम्भो नियमार्थ’ इति न्यायेन सूत्रमिद नियमार्थ सपद्यते । अण् तपरश्चेत् तत्कालस्यैव सवर्णस्य ग्राहक । नत्वतत्कालस्येति । एवञ्च अतत्कालनिवृत्यात्मकपरिसङ्खयार्थमिद सूत्रम्। वैयाकरणास्तु परि सङ्खयाविधिमेव नियमविधिरिति व्यवहरन्ति। तदिद सर्वमभिप्रेत्य व्याचष्टे । तः परो यस्मा दित्यादिना ॥ नियमविधानस्य फलमाह । तेनेत्यादिना ॥ तेन नियमविधानेन । आदिना लृत् इत्यादि सङ्गह । अत्, इत्, उत्, लृत्, एत्, ऐत्, ओत्, औत्, इत्येते अष्टौ तपरा अण स्वस्वसमानकालाना षण्णा षण्णामेव । नत्वतत्कालानामित्यर्थ । ऋदिति 'द्वादशाना सञ्ज्ञा मिति ॥ ऋलवर्णयोरिति सावर्ण्यविधानादिति भाव । नन्वेव लृदित्यपि द्वादशाना ग्रहण स्यात् । तथाच पुषादिद्युताद्यलृदित इत्यादि विधय ऋदित्स्वपि प्रवर्तरन्निति चेन्न । ऋदित्यनेन लृप्रप श्वस्य ग्रहणेऽपि क्वचित् लृदिद्रहणबलेन लृ इत्यनेन ऋप्रपञ्चस्य ग्रहणाभावात् । अन्यथा ऋतो डीत्यादौ क्वचित् ऋद्वहणस्य पुषादिद्युताद्यलृदित इत्यादौ क्वचित् लृदिद्वहणस्य च वैयर्थ्यापत्ते प्रथमातिक्रमणे कारणाभावेन सर्वत्र ऋदिद्रहणस्यैव कर्तु शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणक

सूत्रे ऋदिति द्वादशानामित्येवोक्तम् । नतु लृदपीति । अत्र च त परो यस्मादिति बहुव्रीहेः अत्
९०
[संज्ञा
सिद्धान्तकौमुदीसहिता

१६ । वृद्विरार्दैच । (१-१-१)

आदैच वृद्धिसंज्ञः स्यात् ।

१७ । अदेङ्गुणः । (१-१-२)

अदेड् च गुणसञ्ज्ञ. स्यात् ।

१८ । भूवादयो धातवः । (१-३-१)

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्यु


इत्, उत्, इत्याद्युदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम् । आत्, ईत, ऊत्, इत्यादि तु न तपरसूत्रस्योदाहरणम् । आकारादिषु हि तपरसूत्रमपूर्वविधा नार्थम्, उत नियमार्थ2 नाद्य । तपरसूत्रे ग्रहणकसूत्रादणित्यनुवृत्ते । तत्र अणित्यस्य उक्त रीत्या वर्णसमाम्नायपठितवर्णमात्रपरत्वात् । तपरसूत्रे अण्ग्रहणानुवृत्यभावेऽपि जातिपक्षे आ कारादिभि दीर्घ स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्र प्रवृत्तेर्व्यर्थत्वात् । न द्वितीय । उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्यसम्भवन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुप पत्ते । सिद्धे सत्यारम्भस्यैव नियमार्यत्वात् । एवञ्च आत्, ईत्, इत्यादि तपरकरणमसदेहार्थमेवे त्यास्ता तावत् । तदेव वृत्त प्रत्याहारप्रपञ्च ग्रहणकशास्त्रप्रपञ्चश्च । इदानी सज्ञान्तराणि विधास्यन् वृद्धिसज्ञान्तावदाह । वृद्धिरादैच् ॥ यद्यपि पाणिनीयाष्टाद्याय्यामिदमादिम सूत्रम् । तथापि नेदमादावुपन्यस्तम् । अस्य सूत्रस्य तपरकरणे च प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनि यमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहारशास्त्रग्रहणकशास्त्रप्रपञ्चनिरूपणात् प्रागुपन्यासानर्हत्वात् । नच सूत्रकृता अयमेव पाठक्रम कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रे च्छस्य महर्षेर्नियन्तुमशक्यत्वात् । आच ऐच्चेति समाहारद्वन्द्व । ‘द्वन्द्वाच्चुदषहान्तात्’ इति समा सान्तस्तु न । अत एव निर्देशेन समासान्तविवेरनित्यत्वात् । ‘चो कु' इति पदान्ते विहित कुत्व मपि न । अयस्मयादीनि छन्दसि’ इति भत्वात्। ‘वृद्धिरादैजदेड्’ इति सहितापाठपक्षे चकारस्य झलाञ्चशोऽन्त’ इति पदान्ते विहितजश्त्वन्तु भवत्येव । उभयसज्ञान्यपि छन्दसि दृश्यन्ते, इति वच नात् । छन्दोवत् सूत्राणि भवन्तीति छान्दसविधीना सूत्रेष्वपि प्रवृत्ते । नचैवमपि पदत्वात् कुत्व भत्वात् जशत्वाभावश्च कुतो न स्यादिति वाच्यम् । ‘छन्दसि दृष्टानुविधि' इति वचनादि त्यल ॥ आच ऐच्चेतीतरेतरयोगद्वन्द्वो वा । तथासति सौत्रमेमकवचनम् । आचार्यपारम्पर्योपदेश सिद्धसज्ञाधिकारात् सज्ञेति लभ्यते । तदेतदाह । आदैश्चेत्यादिना । अदेडुणः ॥ सज्ञा प्रस्तावात् सज्ञेतेि लभ्यते । अञ्च एड्चेति समाहारद्वन्द्व । तदाह । अदेड्चेत्यादिना । भूवा दयो धातवः ॥ भूश्च वाश्च भूवौ । आदिश्च आदिश्च आदी । प्रथम आदिशब्द प्रभृतिव चन । द्वितीयस्तु प्रकारवचन । भूवैौ आदी येषान्ते भूवादय । भू प्रभृतय वा सदृशाश्च ये, ते धातुसंज्ञका इत्यर्थे । वा धातुसादृश्यञ्च क्रियावाचकत्वेन । तदाह । क्रियावाचिन इत्या

दिना ॥ क्रियावाचिन, किम् । धातुपाठे या इत्यस्य पाठात् या. पश्यन्तीत्यत्र टाबन्त
प्रकरणम्]
२१
बालमनोरमा

{{c]१९ । प्राग्रीश्वरान्निपाताः । (१-४-५६)}}

    इत्यधिकृत्य।

{{c]२० । चादयोऽसत्वे । (१-४-५७)}} {{c]अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ।}} {{c]२१ । प्रादयः । (१-४-५८)}} {{c]अद्रव्यार्थाः प्रादयस्तथा ।}} {{c]२२ । उपसर्गाः क्रियायोगे । (१-४-५९)}} {{c]२३ । गतिश्च । (१-४-६०)}}


यच्छब्दस्य धातुत्व माभूत् । धातुत्वे हि आतो धातोरित्याल्लोप स्यात् । वस्तुतस्तु लक्षणप्रति पदोक्तपरिभाषया टाबन्तयच्छब्दस्यात्र न ग्रहणप्रसक्ति । क्रियावाचिन इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्यर्थम् । धातुपाठे वा इत्यस्य पाठात् वा गतिगन्धनयो या प्रापण इत्यर्थनिर्देशस्याधुनिकत्वात् । क्रियावाचिन इत्युक्तौ तु न दोष । वार्थस्य विकल्पस्य, वा भविष्यति इति वा अभवदित्येव भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावादिति शब्दे न्दुशेखरे स्थितम् । भ्वादय किम्। वर्जनक्रियावाचिनो हिरुक् इत्यस्य वातुत्व माभूत् । प्राग्री श्वरान्निपाताः॥ प्रथमस्य चतुर्थपादे ‘तत्प्रयोजको हेतुश्च' इत्यनन्तरमिद सूत्रम्। रीश्वरशब्द । अधिरीश्वरे’ इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वात् नापशब्द । अत एव प्रत्यक्षोपजी व्यत्वादिति चिन्तामणिवाक्यस्य प्रत्यक्षेतीति प्रतीकग्रहण तद्वयाख्याने दृश्यते । इत प्रभृति अधिरीश्वर इत्येतत्पादीयोपरितनसूत्रे रीश्वरशब्दात् प्राक निपातसज्ञका प्रत्येतव्या इत्यर्थ । निपातपदमनुवर्तत इति यावत् । रेफविशिष्टग्रहण किम् । 'ईश्वरे तोसुन् कसुनौ' इति त्रितीया छायस्थस्यावधित्वम्माभूत् । यदि तु प्रथमातिक्रमणे कारणाभावात् अधिरीश्वर इत्यस्यैवावधित्व, तदा सरेफग्रहण स्पष्टार्थम् । चादयोऽसत्वे ॥ च आदि येषान्ते चादय । गणपाठसिद्धा । निपाता इत्याधिकृतम् । सत्वशब्देन द्रव्यमुच्यते *द्रव्याऽसुव्यवसायेषु सत्वम्' इत्यमर । लिङ्ग सख्याकारकान्वित द्रव्यम् । चाद्यर्थास्समुच्चयादय । यदा चादिभिर्गम्यन्ते तदा लिङ्गाद्यन्विता न भवन्ति । यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गाद्यन्विता । शब्दस्वाभाव्यात् । न सत्व असत्व अद्रव्य तत्र वाचकतया विद्यमानाश्चादय निपातसज्ञका स्युरित्यर्थ । तदाह। अद्रव्यार्था इति ॥ असत्वे किम् । छाग पशुरिति चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव । पुष्ट पशु मन्यते । इह पशु इति सम्यगर्थे । प्रादयः ॥ असत्व इत्यनुव र्तते, निपाता इति च । तदाह । अद्रव्येति । तथेति ॥ निपातसज्ञका इत्यर्थ । उपसर्गाः ।

गतिश्च ॥ सूत्रद्वयमिद व्याख्यासौकर्यात् सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति
२२
[संज्ञा
सिद्धान्तकौमुदीसहिता


प्रादय क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्यु । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप, एते प्रादय

२४ । न वेति विभाषा । (१-१-४४)

निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ।


बहुत्व एकवचनमार्षम् । तदाह । प्रादय इत्यादिना । क्रियायोग इति ॥ क्रि याया अन्वये सतीत्यर्थ । निपाता इत्यप्यत्रानुवर्तते । प्राग्रीवरात्तदधिकारात् । ततश्च प्रादयो निपातसज्ञका एव सन्तो गत्युपसर्गसज्ञकाभवन्ति । आकडारादिति चव वाछद्यते । गत्यु पसर्गसज्ञयोस्तु गतिश्चेति चकारादेव समावेशस्सिद्यति । ततश्च प्रणेयमित्यादौ उपसर्गकार्य ‘उपसर्गादसमासेऽपि' इत्यादि सिध्द्यति । गतिकारकेत्यादि कार्यश्च निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति । प्रपरेत्यादि ॥ परा इत्याकारान्त । अयवातौ ‘उपसर्गस्यायतौ' इति नि र्दुरोर्लत्वम्। निलयते दुलयते । निसो दुसश्च ‘ससजुषोरु' इति रुत्वस्यासिद्धत्वात् न लत्वम्। निरयते दुरयते । एतदर्थमेव निस् दुसोर्निर् दुरोश्च पृथक्पाठ । नवेति विभापा ॥ मेध्द्य पशुरन द्वान्विभाषित इत्यादि याज्ञिकप्रयोगे विभाषाशब्द केवलविकल्पे दृष्ट । इहतु शास्त्रे निषेधो विकत्पश्चेति द्वय मिळित विभाषाशब्दार्थ इति बोधयितुमिदमारभ्यते । इति शब्दाभावे स्व रूप शब्दस्येति न वा शब्दयो स्वरूपपरत्वान्नवाशब्दयोर्विभाषासज्ञेत्यर्थस्स्यात् ततश्च * विभाषाः श्वे' इत्यादौ न वा शब्दावादेशौ स्याता । इति करणे तु नाय दोष । इतिर्हि प्रत्येक सम्बद्यते। ततश्च नेति शब्देन योऽर्थो गम्यते निषेध , वेति शब्देन योऽर्थो गम्यते विकल्प , तदुभयस्य मिळितस्य विभाषा सज्ञा स्यादित्यर्थx फलति । एवञ्च नवाशब्दार्थयोरेव सज्ञित्व लभ्यते , न तु नवाशब्दस्वरूपयोरिति नोक्तदोष । तदाह । निषेधविकल्पयोरित्यादि । उभयत्र विभाषा र्थमिद सूत्रम् । तथाहि । प्राप्तविभाषा अप्राप्तविभाषा उभयत्र विभाषेति त्रिविधा वि भाषा । प्राप्तविभाषा यथा । विभाषा जसीति वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र द्वन्द्वे चेति नित्य तया सर्वनामसज्ञानिषेधे प्राप्ते विभाषेय । अप्राप्तविभाषा यथा । तीयस्य डित्सु विभाषेति । द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वदिगणे पाठाभावात् अप्राप्ताया सर्वनामसज्ञाया विभा षेयम् । उभयत्र विभाषा यथा । विभाषा श्वेरिति श्वयतेर्लिटि यडेि च सम्प्रसारण विभाषेयम् । तत्र लिटि शुशाव, शिश्वाय, शुशुवतु, शिश्वियतु, इत्याद्युदाहरणम् । यडि तु शोशूयते इति । अत्र यडशे अप्राप्तविभाषैवेयम् । लिटेि तु द्विवचनबहुवचनेष्वपित्सु “वचि स्वपि यजादीना किति” इति नित्यतया सम्प्रसारण प्राप्तम् । पित्सु त्वेकवचनेषु सम्प्रसारण न प्राप्तमेव । ‘असयो गाल्लिट् कित्” इति कित्वस्य अपित्स्वेव प्रवृत्ते । एवञ्च प्रासेऽप्राप्तच आरम्भात् “विभाषा श्वे ' इत्युभयत्र विभाषेति स्थिति । तत्र यदि ‘नवेति विभाषा' इति सूखन्नारभ्येत । तर्हि ‘अनङ्कान्वि भाषित’ इत्यादि याज्ञिकप्रयोग इव विभाषा श्रेरित्यत्रापि केवलविकल्प प्रतीयेत । भाव

अभावश्चेति द्वयन्तावद्विकल्प । ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विवेयमिति
प्रकरणम्]
२५
बालमनोरमा


। स्वं रूपं शब्दुस्याशब्दुसंज्ञा

शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या सज्ञा तां विना ।


लभ्यते । तत्र यदि “विभाषाश्चे ?” इति विकल्पो विधिमुख लिटि श्वयतेस्सप्रसाण भवति न भवतीति पित्स्वेव विकल्पस्य प्रवृत्ति स्यात् । तत्र हि सम्प्रसारणस्य । वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथम भवनाशो विधेय । तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम् । कित्सु तु प्रवृत्तिर्नस्यात् । तेषु हि वचिस्वपि यजादीना कितीति प्राप्तत्वात् । प्रथम भव नाशो न विधेय । न भवतीत्यश एव विधेय । एवञ्च उभयाशाविधेयत्वालाभात्तत्र विकल्पविधिरय न प्रवर्तेत । तत्र नित्यमेव सप्रसारण स्यात् । यदितु विकल्पो निषेधमुख लिटि वयतेस्सम्प्रसारणन्नभवतीति, तर्हि कित्स्वेव प्रवृत्तिस्यात् । तत्र हिवचिस्वपीति प्राप्तत्वान्नभवती ति प्रथम विधेयम् । अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम् । पित्सु तु प्रवृत्तिर्नस्यात् । तत्र सम्प्रसारणस्य अप्राप्ततया न भवतीत्यशस्य प्रथम विद्यनर्हन्वात् । न च पित्सु विविमुख कित्सु निषेधमुख इत्युभयापि प्रवृत्तिरिति वाच्यम् । सकृच्छुतस्य विभाषाशब्दस्य क्वचिद्वि विमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात् । आवृत्या तद्वोधनेतु स एव दोष । नवेतिविभाषेत्यारम्भेतु श्रुतक्रमानुरोधेन बोधात् । नेत्यशेन कित्सु पूर्वन्निषेध प्रवर्तते । तत किदकिद्रूपे सर्वस्मिन् लिटि निस्सम्प्रसारणतया ऐकरूप्य प्रापिते सति भवति नभवतीत्ये करूपेण विविमुख एव विकल्प प्रवर्तते । तदेवमुभयत्र विभाषार्थमिद सूत्रम् । प्राप्तविभाषा यान्तु नास्योपयोग । तत्र भवनाशस्य प्राप्तत्वेन विछद्यनर्हत्वात् । अप्राप्तविभाषायामपि न तस्यो पयोग । तत्र अभवनाशस्य सिद्धत्वेन विद्यनर्हत्वात् । नचैवमपि “उणादयोबहुळम् । हृकोर न्यतरस्याम् । छन्दस्युभयथा । अनुपसर्गाद्वा' इत्यादि विधिषु विभाषाशब्दाभावात् । केवलवि कल्पविधौ वैरूप्प दुर्वारमिति वाच्यम् । विभाषाशब्दस्यात्रसूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवञ्च लोके ये विकल्पपर्यायाश्शब्दा ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयो प्रत्यायका इति सूत्रार्थपर्यवसान बोद्यम् । भाष्येतु विभाषादिशब्दाना लोकवदेव केवलविकल्पपरत्वेऽपि लक्ष्या नुरोधेनैव क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्ते एतत्सूत्र प्रत्याख्यात मित्यल बहुना । “अमेढेक्। वाय्वृतुपित्रुषसो यत् । राज्ञो यत्' इत्यादौ लौकिकव्युत्पत्या उपस्थि ताना वहिवातादीना अर्थाना ढगादिप्रत्ययै पौर्वापर्यासम्भवात् प्रातिपदिकादित्यनेनान्वयासम्भ वाच्च तत्तदर्थकपर्यायशब्दाना ग्रहणापत्तौ तन्नियमार्थमिद सूत्रमारभ्यते । स्वं रूपम् ॥ अग्नेर्ढंगिल्यादौ अग्न्यादिशब्दस्य यत् स्वरूप श्रुत तदेव अग्न्यादिशब्दै प्रत्येतव्यम् । नतु तदन्य तत्तत्पर्यायोऽपि । शब्दशास्त्रे सङ्केतिता वृद्धिगुणादिसज्ञा शब्दसज्ञा तत्र नायन्नियम इत्यर्थ । तदाह । शब्दस्य स्वं रूपं संज्ञीति ॥ बोद्यमित्यर्थ. । न च वृद्धि गुण इत्यादि सज्ञाविधिबलादेव तत्र तदर्थग्रहण भविष्यतीति किं शब्दसज्ञेत्यनेनेति वाच्यम् । उपसर्गे घो कि ' इत्यत्र घु शब्द इति घु धातु निवृत्यर्थत्वात् “दाधाध्वदाप्’ इति सज्ञाकरणस्य 'घुमास्थागापाजहातिसा हलि' इत्यादौ आवश्यकतया सज्ञाकरणस्य


२४
[संज्ञा
सिद्धान्तकौमुदीसहिता
}

२६ । येन विधिस्तदन्तस्य । (१-१-७२)

विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य । समासप्रत्ययविधौ प्रति षेधः । उगिद्वर्णग्रहणवर्जम् ।

२७ । विरामोऽवसानम् । (१-४-११०)

वर्णानामभावोऽवसानसंज्ञस्स्यात् ।


सामर्थ्योपक्षयादित्यन्यत्र विस्तर । इद सूत्र भाष्ये प्रत्याख्यातम् । यत् शब्दस्य रूप उपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्यतद्वक्तुमाह । येन वि धि ॥ विधीयत इति विधि 'उपसर्गे घो कि इति दधाते भावे केिप्रत्यय । येनेति करणे तृतीया । शास्रकृत् विधाने कर्ता । धातोरित्याधिकृत्य एरजिति इकारेण विशेषणेन धातो रच्प्रत्यय विधत्ते पाणिनि । करण च व्यापारवत् । एराजित्यत्र विशेषणस्येकारस्य पाणिनिकर्तृ कविधानक्रियाया करणस्य इतरव्यावर्तनमेव व्यापार । ततश्च विशेषणमेवात्र येनेति तृतीया न्तेनोच्यते । स्व रूपामेत्यत स्वमित्यनुवर्तते । षष्ठयन्ततया च विपरिणम्यते । एव च विशे षणसमर्पकश्शब्द तदन्तस्य स्वस्य च प्रत्यायक इति फलति । तदाह । विशेषण तदन्तस्य संज्ञा स्यात् स्वस्य चेति । विशेषणसमर्पकश्शब्दस्तदन्तस्य शब्दस्य विशेषणसमर्प कशब्दस्य च बोधकस्यादिति यावत् । ततश्च एराजित्यत्र इकारान्ताद्धातोरच् प्रत्ययस्यात् इकाररूपाद्धातोश्चेति फलति । यथा । चय, अय । केचित्तु फरण कर्तृपरतन्त्रमिति तृतीयया पारतन्त्रय लक्ष्यते, तच्च शब्दाना विशेषणत्वेनेति विशेषणपरत्व यच्छब्दस्य लभ्यत इत्याहु । ततु शब्देन्दुशेखरे दूषितम् । समासेति । वार्तिकमेतत् । समासविधौ प्रत्ययविधौ च तदन्तविधे प्रतिषेधो वाच्य इत्यर्थ । तेन कृष्ण परमश्रित इत्यत्र द्वितीयाश्रितेति समासो न भवति । सूत्रनडस्य गोत्रापत्य सौत्रनाडि अत इञ्, अनुशतिकादीना चेत्युभयपदवृद्धि । अत्रनडादिभ्य फक्, इति न भवति । नन्वेव सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र उगित श्चेति उगिदन्तात्प्रातिपदिकात् विहितो डीप् न स्यात् । प्रत्यविधौ तदन्तविधे प्रतिषेधात् । तथा दाक्षिरित्यत्र अत इञ् इति इञ् न स्यात् । अस्यापत्य इरित्यत्रैव इञ् स्यादित्यत आह । उगिदिति ॥ इदमपि वार्तिकम् । द्वितीयाया चेति वर्जयतेर्णमुल् । उगिद्वहण वर्णग्रहण च वर्जयित्वा समासप्रत्ययविधावित्युक्त प्रतिषेधो भवति । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्त विधिरस्येव ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तात् उगितश्चेति डीप् । दाक्षिरित्यत्र अवर्णान्तादिश्च सिध्द्यति । विरामोऽवसानम् ॥ विरम्यते अस्मिन्निति विराम सामीपिकेऽधि करणे घञ् । विरमण क्रियाया अभाव , स च शब्दशास्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तथाच यस्मिन् वर्णे उच्चारिते सति अव्यवहितोत्तरकाले वर्णान्तराणामुच्चारणाभाव स अन्त्यवर्ण अवसानसज्ञक इत्यर्थ. फलति । तदभिप्रेत्य व्याचष्टे । वर्णानामित्यादिना ॥ यस्मि

न्नुचरिते सति वर्णान्तराणा उचारणाभाव स . अन्त्यवर्ण अवसानसज्ञक. इत्यध्याहारेण विवरण
प्रकरणम्]
२५
बालमनोरमा


२८ । परः सन्निकर्षः संहिता । (१-४-१०९)

वर्णानामतिशयित. सन्निधिः संहितासंज्ञः स्यात् ।

२९ । सुप्तिङन्तं पद्म् । (१-४-१४)

सुबन्तं तिडन्तं च पदसंझं स्यात् ।

३० । हलोऽनन्तराः संयोगः । (१-१-७)

अभिरव्यवहिता हल संयोगसंज्ञा. स्यु ।

३१ । हस्वं लघु । (१-४-१०)

३२ । संयोगे गुरु । (१-४-११)

संयोगे परे हस्वं गुरुसंज्ञे स्यात् ।


योज्यम् । यद्वा वर्णानामुच्चारणाभाव विराम । भावे घञ् । स च किंचिद्वर्णोच्चारणोत्तरकालिक एव गृह्यते । व्याख्यानात् । अस्मिन् पक्षे किंचिद्वर्णोच्चारणोत्तर वर्णान्तराणामुच्चारणाभाव अवसानमिति विवरणयाजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परत रेफस्य विसर्ग । अवसाने तु रेफे स्थानिनीतियोज्यम्। खरवसानयोरियेकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृत परत्व बेाच्द्यम् । परस्सन्निकर्षः ॥ पर अतिशयित “दूरानात्मो त्तमा परा' इत्यमर । सन्निकर्षस्सामीप्य अर्धमात्राधिककालव्यवधानाभाव । अर्धमात्रकाल व्यवधानस्य अवर्जनीयत्वात् । तदेतदभिप्रेत्याह । आतिशयित इत्यादिना । सुप्तिङन्तं पदम् ॥ स्वौजसमौडिति सूत्रे सु इत्यारभ्य सुप पकारेण प्रत्याहार । नतु सप्तमीबहुवचनस्यै वात्र ग्रहणम्। व्याख्यानात् । सुप्च तिङ् च सुप्तिडौ तौ अन्ते यस्य तत् सप्तिडन्त शब्दरूपमिति शब्दशास्रप्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येक सबध्द्यते । तदाह । सुबन्तमित्यादिना । हलोऽनन्तरास्संयोगः ॥ अन्तरशब्दोऽत्र व्यवधाने वर्तते “अन्तरमवकाशावधिपरिधाना न्तर्द्धिभेदतादथ्ये' इत्यमर । व्यवधानश्च विजातीयेनैव । अविद्यमान अन्तर व्यवधानयेषामिति विग्रह । नञोऽस्त्यर्थानामिति विद्यमानपदस्य लोप । तदाह । अज्भिरित्यादिना ॥ तत्र हलश्च हलौ च हल इत्येकशेष । तेन द्वयोरपि सयोगसज्ञा लभ्यते । ततश्च शिक्षेत्यत्र ‘गुरोश्च हल' इत्यप्रत्ययस्सिध्द्येत । अत्र च समुदायस्यैव सयोगसज्ञा । महासज्ञाकरणात्, व्याख्यानाच । नतु प्रत्येकम्। तथासति सुदृषत्प्रासाद इत्यत्र पकारसन्निधौ तकारस्य सयोगत्वापत्तौ सयोगान्त लोपापत्ते । यत्र तु बहवो हल श्लिष्टा तत्रापि द्वयोर्द्धयोस्सयोगसज्ञा नतु बहूनामेवेति शब्देन्दुशे खरे स्पष्ट । हृस्वं लघु ॥ हूस्व लघुसज्ञ स्यादित्यर्थस्य स्पष्टत्वात् न व्याख्यातम् । अत एव

निर्देशातू डूस्वशब्दो नपुसकलिङ्गोऽपि । संयोगे गुरु ॥ ह्रस्वमित्यनुवर्तते । तदाह । संयोगे
२६
[परिभाषा
सिद्धान्तकौमुदीसहिता


३३ । दीर्घ च । (१-४-१२)

दीर्घ च गुरुसंज्ञ स्यात् ।

॥ इति सज्ञाप्रकरणम् ।

अथ परिभाषाप्रकरणम्

३४ । इको गुणवृद्धी । (१-१-३)

गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र 'इक ' इति षष्ठयन्तं पदमुपतिष्ठते ।

३५ । अचश्च । (१-२-२८)


पर इत्यादिना ॥ दीर्घञ्च ॥ सयोग इति नानुवर्तते । दीर्घमपि गुरुसज्ञकमित्यर्थ । इति सज्ञाप्रकरणमिति ॥ सन्धिकार्योपयेोगिप्रथमाध्द्यायस्यसज्ञानिरूपण समाप्तमिल्यथै । इको गुणवृद्धी ॥ इक इति षष्ठयन्तशब्द स्वरूपपर नपुसकलिङ्ग प्रथमैकवचनान्त । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घ न । इकस् शब्द इत्यर्थ । उपतिष्ठत इति शेष वृद्धिरादैच्’ “ अदेङ्गुण' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इति शब्दोऽद्याहार्य । यत्र विधीयते तत्रेत्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धी विधीयेते तत्र इक इति षष्ठयन्त पदमुपतिष्ठत इति योजना । तदाह । गुण वृद्धिशब्दाभ्यामित्या दिना । उपतिष्ठत इति ॥ सङ्गत भवतीत्यर्थ । उपाद्देवपूजासङ्गतिकरणेत्यात्मनेपदम् । सोऽय पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तित । “सार्वधातुकार्धधातुकयो ' 'मिदेर्गुण ’, इत्या द्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभविष्यति । यत्र विधीयेते इत्युक्त्या वृद्धिर्यस्याचामित्याद्यनुवादे इकइति नोपतिष्ठते । अनुवादे परिभाषाणामनुपस्थिते, * ‘त्यदादीनाम इत्यादावपि नेदमुपतिष्ठत । तत्र गुणवृद्धिशव्दयोरश्रवणात् । अचश्व ॥ अच इत्यपि षष्ठयन्तशब्द स्वरूपपर । पूर्वसूत्र इक इतिवत्। ऊकालोजित्यत हूस्वदीर्घप्लुत इत्यनुवर्तते


अत्रेद तत्वम् । अनुवादे परिभाषा नोपतिष्ठते इत्यत्रानुवादपद अनूद्यमानविशेषणपरम् । एवञ्च “अनूद्यमानविशेषणेषु परिभाषा नोपतिष्ठते’ इति, निष्कर्ष । ‘वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ इति वृद्धसज्ञाविधायकसूत्रे वृद्धिशब्दस्य अनूद्यमानविशेषणत्वेनोपात्तत्वात् तत्र “इको गुणवृद्धी इति परिभाषाया अनुपस्थानात् शालीय , मालीय , इत्यादि लक्ष्य सिध्द्यति । यदि तत्र इक्परि भाषा उपतिष्ठत, तदा औपगवीय इत्याद्येव सिध्द्येत् । तत्रैव औकाररूपवृद्धे उकाररूपेक्स्थानि कत्वात्। नतु शालीय मालीय इत्यादौ । तत्र आकाररूपाया वृद्धेरतथात्वात् । तथैव ‘अतो गुणे इत्यनुवाद्यविशेषणस्थलेपीक्परिभाषोपस्थितौ, एधे, पचे, यजे, इत्यादावेव पररूप स्यात् । अत्र एकाररूपगुणानामिक्स्थानिकत्वात् । नतुपचतीत्यादौ । तत्र अकाररूपगुणस्य इक्स्थानिकत्वा

भावादित्यपि बोध्द्यम् ।
प्रकरणम्]
२७
बालमनोरमा


ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्र “ अच.' इति षष्ठ्यन्तं पदमुपतिष्ठते ।

३६ । आद्यन्तौ टकितौ । (१-१-४६)

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्त ।

३७ । मिद्चेोऽन्त्यात्पर- । (१-१-४७)

अच ' इति षष्ठयन्तम् । अचा मद्धये योऽन्त्यस्तस्मात्परस्तस्यैवान्ता वयवो मित्स्यात् ।


इति यत्र विधीयत इत्यद्याहार्यम् । फलितमाह । हृस्वेत्यादिना ॥ 'दिव उत्’ इत्यादौ तु नेद प्रवर्तते । ह्रस्वादिशब्दाना अश्रवणात् “हूस्वो नपुसके प्रातिपदिकस्य’ इत्याद्युदाहरण।श्रीप । नेह सुपात् ब्राह्मणकुलम् । आद्यन्तौ टकितौ ।। अन्तशब्द प्रत्येक सम्बध्ध्यते । टकारादकार उच्चारणार्थे । टकौ इतैौ ययोस्तौ टकितौ । अन्तशब्द प्रत्येक सम्बद्धद्यते । टित्कितौ आद्यन्तावयवौ स्त । कस्येत्याकाक्षाया यस्य तौ विहितौ तयेरित्यर्थाल्लभ्यते। तदाह । टित्कितावित्यादिना ॥ क्रमादिति यथासख्यसूत्रलभ्यम् । टितू आद्यवयव कित् अन्ता वयव इत्यर्थ । नचैव सति मिळितयोरेकत्रान्वयाभावात् कथमिह द्वन्द्व इति वाच्यम् । प्रथ मतस्समुदायरूपेण परस्परयुगळयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्या यथासङ्खयसूत्रपर्यालो चनया पुन प्रत्येकान्वयोपपत्ते । एचोऽयवायाव इत्यादावप्येषैव गति । लोके त्वेवजातीयक प्रयोग असाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासख्यसूत्रोपन्यासो युक्त । “आर्धधातुक स्येड़्बलादे ' भविता। “ड्णो कुक् टुक् शरि' प्राङ्क्षष्ठ इत्याद्युदाहरणम् । पुरस्तादप वादा अनन्तरान् विवीन् बाधन्ते नोत्तरानिति षष्ठी स्थाने योगेत्यस्यानन्तरस्यैवायमप वाद । ‘प्रत्यय परश्च' इत्यनेन तु परत्वादिद बाध्द्यते । तेन चरेष्ट , गापोष्टक्, इत्यादय परा एव भवन्ति । मिदचोन्त्यात्परः ॥ मकार इत् यस्य स मित् अन्त्यादच परो भव तीत्यर्थे “शे मुचादीनाम्' इत्यादाविदन्नप्रवर्तेत । तत्रान्तस्याचोऽभावात् । अत आह । अच इति षष्ठश्यन्तमिति । यतश्च निर्द्धारणमित्यनेनेति शेष । अन्च इत्येकत्वमविवक्षितम्। तदाह । अचाम्मद्धय इत्यादिना । अन्तावयव इति ॥ एतच्च आद्यन्तावित्यत अन्त ग्रहणानुवृत्या लभ्यते । आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनानुवृति सम्भवात् । आदिग्रहणमनुवृत्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने ‘सर्वनामस्थाने चा सम्बुद्धौ' इति नान्ताङ्गस्य विहितो दीघन सिध्ध्येत्। अभक्तत्वे तु वहलिह इत्यत्र “वहाम्रे लिह इति खशि अरुर्द्विषदिति मुमि तस्य ‘मोनुस्वार'इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात् । वस्तुतस्तु, यस्य समुदायस्य मिद्विहित तस्याचाम्मध्द्ये योऽन्त्यस्तस्मात्पर तस्य समुदायस्य

अन्तावयव इति व्याख्येयम् । अत एव समुदायभक्तो मिदिति भाष्य सङ्गच्छते । समासाश्रय
२८
[परिभाषा
सिद्धान्तकौमुदीसहिता


३८ । षष्ठी स्थानेयोगा । (१-१-४९)

अनिर्धारितसंबन्धविशेषा षष्ठी स्थानेयोगा बोद्धया । स्थानञ्च प्रसङ्ग ।

३९ । स्थानेऽन्तरतमः । (१-१-५०)


विधौ मूलकारश्च वक्ष्यति । अङ्गस्य नुम्विधानात् तद्भक्तो हि नुम्, इति । षष्ठी स्थानेयोगा ॥ स्थान प्रसङ्ग इति वक्ष्यांते । तस्मिन् वाचकतया योगो यस्यास्सा स्थानेयोगा, निपातनातू सप्तम्या अलुक् । स्थानेन योगे यस्या इति विग्रह । निपातनादेत्वम् । इको यणचीत्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थ । लोके तावदेकशत षष्ठयर्था आर्था यौना मौखा स्रौवाश्च । शब्दस्य शब्देन त्रय एव सम्बन्धा । आनन्तर्य सामीप्य प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्द्धारणा र्थमिद सूत्रमिति भाष्यम्। ततश्च इको यणचीत्यादौ इक इति षष्ठया स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । अचि परत इक प्रसङ्गे यण् स्यादिति विवरणवाक्ये त्वस्मिन् इक इति षष्ठी निरूपकतायामिति न पुनरुक्तिश्शक्या । यथा देवदत्तस्यावयव पाणिरिति । ‘ऊदुपधाया गोह' इत्यत्र तु गोह इति षष्ठी न स्थानार्थिका । उपधापदसमभिव्याहारेणावयवषष्ठी त्वनिर्द्धारणात् । परिभाषाणाञ्च अनियमे नियमनार्थमेव प्रवृत्ते । तदेतदाह । अनिर्द्धारिते त्यादिना ॥ अनिर्द्धारित सम्वन्धविशेष यस्या इति विग्रह । तदेवमुदाहृतप्रकृतभाष्यरीत्या इकोयणचीत्यादौ षष्ठी स्थानरूपसम्बन्धविशेषार्थिकेति स्थितम् । मतुप्सूत्रभाष्ये तु अनन्तरादयो न षष्ठयर्था इति स्थितम् । एव सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्टीश्रुतौ स्थाने इति सप्तम्यन्त पदमुपतिष्ठत इति फलति । स्थाननार्थेन योगो यस्या इति त्रितीयान्तविग्रहेतु अद्याहृतस्थानपदार्थनिरूपितसम्बन्धार्थिके त्यर्थ । अस्तेभूर्भवतीति सन्देहस्थाने अनन्तरे समीपे इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यच्ध्द्याहृतानन्तरादिपदार्थनिरूपितसम्बन्धा षष्ठीत्येवार्थ । अनन्तरादीना षष्टयर्थ त्वन्तु नास्त्येवेति प्रौढमनोरमाया हलन्त्यमिति सूत्रे स्थितम् । तद्वयाख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम् । अनिर्द्धारितेति किम् । ऊदुपधाया इत्यत्र गोह इति षष्ठया स्थानार्थकत्वम्माभूत् । सतितु तत्रापि स्थानार्थकत्वे गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्ध । यथा शिवस्थान कैलास विष्णुस्थान वैकुण्ठ इत्यादौ । एवञ्च इको यणचीत्यादौ षष्ठया स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेन अभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यात् इति इगविकरणको यण् स्यादिति वा अर्थ स्स्यात् । तत इको निवृत्तिर्नस्यादित्यत आह । स्थानञ्च प्रसङ्ग इति । क्वचिदाभिचारेष्टौ दर्भाणा स्थाने शरै प्रस्तरितव्यमित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भाव । एवञ्च तत्र यथा शरैर्दर्भानिवर्तन्ते तद्वदिकोयणचीत्यादावपि यणादिभिरिगादयो निवर्तन्ते । तत्र च य प्रसक्तो निवर्तते स स्थानीति व्यवह्रियते । यो निवर्तयति स आदेश इति । स्थानेऽन्तर

तमः ॥ स्थान प्रसङ्ग इत्युक्त अन्तरशब्दोऽत्र सदृशपर्याय अतिशयितोऽन्तर अन्तरतम
प्रकरणम्]
२९
बालमनोरमा



प्रसङ्गे सति सदृशतम आदेशः स्यात् । “यत्रानेकविधमान्तर्य तत्र स्थानत

आन्तर्य बलीय ' (प १४) ।

४० । तस्मिन्निति निर्दिष्टे पूर्वस्य । (१-१-६६)


तदाह । प्रसङ्गे सतीत्यादिना । एकस्य स्यानिन अनेकादेशप्रसङ्गे सति य स्थानार्थगुणः प्रमाणत स्थानिना सदृशतम स एवादेशो भवतीत्यर्थ । अत्र स्थानशब्देन ताल्वादिस्थान विवक्षितम् । गुणशब्देन प्रयत्न्न । प्रमाणशब्देन एकृद्विमात्रादिपरिमाणम् । तत्र स्थानतो यथा । दूध्द्यत्र । तालुस्थानकस्य इकारस्य तालुस्थानको यकार । अर्थतो यथा । तृज्वत् क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन् अर्थसाम्यात् क्रोष्टुशब्द एव तृजन्त आदेशो भवति । गुणतो यया वाध्घरि । अत्र हकार स्थानी। घोषनादसवारमहाप्राणप्रनयत्नवान् । तस्य गकारसवर्णो भवन् चतुर्थो घकारो भवति । तस्य हकारेण स्थानिना घोषनादसवारमहाप्राणप्र यत्नसाम्यात् । ककारस्तु न भवति । तस्य श्वासाघोषविचाराल्पप्राणप्रयत्न्नकत्वात् । तथा खकारोऽ पि द्वितीयो न भवति । तस्य महाप्राणप्रयत्नसाम्येऽपि श्वासाघोषविवारप्रयत्नभेदात् । तथा तृती योऽपि गकारो न भवति । तस्य घोषनादसवारप्रयत्न्नसाम्येऽपि अत्पप्राणप्रयत्न्नभदात् । अत एव डकारो न भवति । नन्वत्र हकारस्य खकारो द्वितीय कुतो न स्यात् । तस्य स्थानिना हकारेण श्वासाघोषविवारप्रयत्न्नभेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्वात् । तथा तृतीयो वा गकार कुतो न स्यात् । तस्य स्यानिना हकारेण अल्पप्राणप्रयत्न्नभेदेऽपि घोषनादसवारप्रयन्नसाम्यसत्वात् । अत एव डकारो वा कुतो न स्यादिति चेन्न । तमप् ग्रहणेन उक्तातिप्रसङ्गनिरासात् । अतिशयितो ह्यन्तर, अन्तरतम , अतिशयितञ्च प्रयत्न्नतस्सादृश्य हकारेण घकारस्यैव । उभयोरपि घोषनादसवारमहाप्राणात्मकप्रयत्न्नचतुष्टयसाम्येन सादृश्यातिशयसत्वात् । खकारस्य महाप्राणप्रयत्न्नसाम्येऽपि घोषनादसवारप्रयत्न्नविरहात् । गडयो घोषनादसवारप्रयत्न्नसाम्येऽपि महाप्राणप्रयन्नविरहात् । प्रमाणतो यथा। । “अदसोऽसेर्दादुदोम’ इति हूस्वस्य उकार . दीर्घस्य ऊकार । नन्वेवमपि चेतास्तोतेत्यत्र इकारस्य उकारस्य च सार्वधातुकार्ध धातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकार कुतो न स्यादित्यत आह । यत्रेति ॥ तेन इकारस्य एकार । उकारस्य ओकारश्च गुणो भवति । स्थानसाम्यात् । नत्वकार । स्थान भेदात्। नच इकारेण एकारस्य उकारेण ओकारस्य च कथ स्थानसाम्यम् । एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यम् । यावत्स्थानसाम्यस्य सावर्ण्यप्रयोजकत्वेऽपि आन्तरतम्यप रीक्षाया कथञ्चित् स्थानसाम्यस्यैव प्रयोजकत्वात् । अत्र सूत्रे पूर्वसूत्रात् स्थानेग्रहणमनुवर्तते। एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तृतीयान्तञ्च विपरिणम्यते । अनुवर्त्यमानश्वाय स्थानशब्द पूर्वसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्यतमस्थानपर । शब्दाधिकाराश्रयणात् । अन्तरतम इत्यपि तेन सम्बध्द्यते । ततश्च स्थानेनान्तरतम इति वाक्यान्तर सम्पद्यते । सति सम्भवे ताल्वादि स्थानत एवान्तरतमो भवतीत्यर्थ । ततश्च यत्रानेकविधमान्तर्य तत्र स्थानत एवान्तर्य

बलीय इति भवति । तस्मिन्निति निर्दिष्टे ॥ इको यणचीत्यत्र अचि इक• यण्
३०
[परिभाषा
सिद्धान्तकौमुदीसहिता


सप्तमीनिर्देशेन विधीयमानं कार्य वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्द्यम् ।

४१ । तस्मादित्युत्तरस्य । (१-१-६७)

पञ्चमीनिर्देशेन क्रियमाणं कार्य वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ।




स्यादित्यवगतम् । तत्र अचो वर्णान्तराधिकरणत्व न सम्भवतीति सति सप्तम्याश्रयणीया । आचेि सति इको यण स्यादिति । तत्र व्यवहिते अव्यवहिते च इको यण् प्राप्त । ततश्च समिधमित्यत्र धकारस्य व्यवहिते अकारे सत्यपि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्त । ततश्च दद्धयुदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण स्यात् । तत्र अव्यवहित एव अचि भवति पूर्वस्यैव भवति । न परस्यत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छब्दस्वरूपपर । तथासति “ तस्मिन्नणि च युष्माकास्माकौ” इत्यादावेव प्रवर्तत । नत्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्र गतस्य अचीत्यादिसप्तम्यन्तपदस्य तस्मिन्नित्यनुकरणमितीत्यनन्तर गम्येऽथे इति शेष । निरिति नैरन्तयें । दिशिरुचारणे । एवञ्च इको यणचि रायोहलीत्यादिसूत्रेषु अचि हलि इत्येव सप्तम्यन्तपदगम्येऽर्थे अकारादौ दद्यत्र सुद्धयुपास्य इत्यादिप्रयोगदशाया निर्दिष्टे अव्यवहितो चारिते सति पूर्वस्य कार्य भवति । नतु व्यवहितोचारिते । नापि परस्येति फलितेऽर्थे । व्यव धानश्च वर्णान्तरकृतमेव निषिध्द्यते । नतु कालकृतम् । इकोयणचीत्यादौ कालकृतव्यवधानस्य सहिः [ ताधिकारादेव निरासलाभात् । तत्र कालकृतव्यवधानस्याग्यनेनैव सूत्रेण निरासे सहिताधिकारस्य वैयर्थ्यापातात् । एवञ्च ये सहिताधिकारबहिर्भूता ‘आनडृतो द्वन्द्वे’ ‘देवताद्वन्द्वे च' इत्या दय उत्तरपदे परत आनडादिविधय ते सर्वे अग्नाविष्णू इत्यमाविष्णू इत्याद्यवग्रहे कालव्यवधा नेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह । सप्तमीनिर्देशेनेत्यादिना ॥ इति सूत्राक्ष रानुयायी पन्था । ‘अतिशायनेतमप्’ इत्यत्र तु नेय परिभाषा प्रवर्तते । सप्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाव्यवहितोच्चारितत्वनिर्दिष्टत्वाभावात् । नचैवमपि कर्तृकर्मणो कृतीत्यत्रापि अस्या परिभाषाया प्रवृत्तौ कर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृति जगत कर्ता कृष्ण इत्यत्रैव स्यात् । नतु कृति कृष्णस्य कर्ता जगत इत्यत्र इति वाच्यम् । लक्ष्यानुरोधेन क्वचिदवञ्जातीयकेषु अस्या परिभाषाया अप्रवृत्तिरिति श्रान्नलेोप इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्या नुसारेण अत्र सूत्रे निर्दिष्टग्रहण सहिताधिकारसूत्रञ्च विफलमेवेति इको यणचीत्यत्र वक्ष्यते । तस्मादित्युत्तरस्य ॥'द्वयन्तरुपसर्गेभ्योऽप ईत्’ ‘उदस्थास्तम्भ्वो पूर्वस्य' इत्यादिसूत्रगतपञ्च म्यन्तस्यानुकरण । तस्मादिति । इतिशब्दानन्तर गम्यत इति शेष । निरिति नैरन्तर्ये । दिशिरु चारणे । द्वयन्तरित्यादिसूत्रेषु पञ्चम्यन्तगम्ये अर्थे द्वयन्तरादिशब्दे निर्दिष्टे अव्यवहितोच्चारिते सत्येव तत परस्यैव भवति । न तु व्यवहितोच्चारिते द्वयादिशब्दे । नापि तत पूर्वस्यैव भव तीति नियमार्थमिदम् । तदाह । पञ्चमीनिर्देशेनेत्यादिना ॥ उत्तरस्य किम् । ‘तिडतिड

इति निघात उत्तरस्यैव भवति । अग्मिीळे, नेह, ईळे अग्निम् । अव्यवहिते किम् । उत्
प्रकरणम्]
३१
बालमनोरमा


४२ । अलोऽन्यस्य । (१-१-५२)

षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेश स्यात् ।

४३ । ङिच्च । (१-१-५३)

अयमप्यन्यस्यैव स्यात् ।–“सर्वस्य' (सू ४५) इत्यस्यापवाद् ।

४४ । आदेः परस्य । (१-१-५४)

परस्य यद्विहितं तत्तस्यादेर्बौद्धयम् । * अलोऽन्त्यस्य' (सू४२) इत्यस्यापवाद. ।


प्रस्थानम् । इह उदस्स्थास्तम्भ्वोरिति पूर्वसवर्णो न भवति । अलोऽन्त्यस्य ॥ अलिति प्रत्या हारो वर्णपर्याय । अल इति षष्ठयन्तम् । “पष्ठा स्थाने योगा' इत्यत षष्ठी स्थाने इत्यनुवर्तते । तच्च षष्ठीति प्रथमान्त तृतीयान्ततया विपरिणम्यते । निर्दिष्टस्येति शेष । स्थाने इत्यनन्तर विधीयमान इति शेष । स्थाने विधीयमान आदेश षष्ठीनिर्दिष्टस्य य अन्त्य अल् तस्य स्यादित्यर्थ । तदाह । षष्ठीत्यादिना ॥ ल्यादादीनाम । य । स । आदेश इति किम् । आर्द्ध धातुकस्येट् तृच ऋकारात् पूर्वो माभूत् । अल इति किम् । पदस्येत्यधिकृत्य विधीयमान वसुस्रस्विति दत्व परमानडुद्यामित्यत्र अन्त्यस्य कृत्स्रस्य पदस्य माभूत् । ङिञ्च ॥ डकार इत् यस्य स डित् । अलोन्त्यस्येत्यनुवर्तते । तदाह । अयमपीति ॥ डिदपीत्यर्थ । अवड् तातड्, अनड्, इत्यादिरादेश उदाहरणम् । नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थ मित्यत आह । सर्वस्येति । “ अनेकाल् शित् सर्वस्य’ इति वक्ष्यमाणस्य सर्वादेशत्वविधेरय विधिरपवाद । अपोद्यते बाद्यते अनेनेति अपवाद । बाहुळक । करणे घज् । येनाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्तति भावे क्त । येनेति कर्तरि तृतीया । द्वौ नञ्जावावश्यकत्व बोधयत । यत्कर्तृकावश्यकप्राप्तौ सत्या यो विधिरारभ्यते स आरभ्यमाण विधि तस्य अवश्यप्राप्तस्य अपवाद बाधक इति तदर्थं । अयञ्च न्यायसिद्ध । अवडादयो हि डित आदेशास्सर्वे अनेकाल एव । तेषु चानेकाल्विशेषेषु विधीयमानेन डितामन्त्यादेशत्वेन स्वविषये अवश्य प्राप्त अनेकाल् सामान्येन विहित सर्वदेशत्व बाध्द्यते । विशेषविहितत्वान्निर वकाशत्वाच। विशेषशास्त्र हि विशेषेषु झटिति प्रवर्तते । विशेषाणा स्वशब्देनोपात्तत्वात् । सामान्यशास्त्रन्तु सामान्यमुखेन विशेषषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्ति । अतो विशेष शास्त्र प्रबलम् । उक्तञ्च भट्टवार्तिके “ अवश्यमेव सामान्य विशेष प्रति गच्छति । गतमात्रञ्च तत्तेन विशेषे स्थाप्यते ध्रुवम्’ इति । किञ्च यदि डिच्चेति शास्त्र अनेकात्विशेषेषु डित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् । अनेकाल्शित् सर्वस्येत्यस्य तु डित्सु अप्रवृत्तावपि नानर्थक्यम् । तस्थस्थमिपा तान्तन्ताम । अस्तेभूरित्यादिष्वनेकाल्षु अडित्सु तस्य सावका शत्वात् । अतो विशेषशास्र प्रबलमिति । आदेः परस्य ॥ परस्येति ॥ द्यन्तरुपसर्गेभ्योऽप ईदित्यादौ तस्मादित्युत्तरस्येति परिभाषया परस्य नियमित कार्य यत् तत्तस्यादेरेव भवति ।

नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थ । तदाह । अलोन्त्यस्येत्यस्यापवाद् इति ॥ तत्र अल
३२
[परिभाषा
सिद्धान्तकौमुदीसहिता


४५ ॥ अनेकाल्शित्सर्वस्य । (१-१-५५)
स्पष्टम् । “अलोऽन्त्य' सूत्रापवाद । “ अष्टाभ्य औश्' (सू ३७२)
इत्यादौ “आदे. परस्य' (सू ४४) इत्येतदपि परत्वादनेन बाद्धयते ।


४६ । स्वरितेनाधिकारः । (१-३-११)
स्वरितत्वयुक्त शब्दस्वरूपमधिकृतं बोद्धयम्। ‘परनित्यान्तरङ्गापवादानामुत्त-

इत्यप्यनुवर्तनीयम् तेन द्वीपमित्यत्र ईत्व पान्तसमुदायस्य न भवति। अनेकाल्शित् सर्वस्य ॥ न एक अनेक , अनेक अल् यस्य स अनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शितूचेति समाहारद्वन्द्व । स्पष्टमिति ॥ अनुवर्तनीयपदान्तराभावादिति भाव । अस्तेर्भूरित्याद्यु दाहरणम् । ननु असधातोभूर्भवतीत्युक्ते कृत्स्रस्यैवादेश प्राप्त इति किमर्थमिद सूत्रमारभ्यत इत्यत आह । अलोऽन्त्यसूत्रापवाद् इति ॥ अलेोन्त्येति सूत्रैकदेशानुकरणम् । अनुकरण त्वादेव नापशब्द । अधिरीश्वर इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणलिङ्गात् । स्यादेतत् । अष्टन् शब्दाज्जसि शसि च अष्टन आ विभक्ताविति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारात् अष्टन परयोर्जश्शसोर्विधीयमान औशादेश अलेोऽन्त्यस्येति बाधित्वा आदे परस्येत्यादेरकारस्य प्राप्त । अनेकाल्त्वाच्च सर्वादेश प्राप्त । एवञ्च ‘अतो भिस ऐस्’इत्यादावपि । तत्र कतरच्छास्त्र बाध्द्य कतरच्च प्रवर्तत इत्यत्र किम् विनिगमकमित्यत आह । अष्टाभ्य औशित्यादाविति ॥ आदिना अतो भिस ऐसेित्यादि सङ्गह। अष्टाभ्य औशि

त्यादौ आदे परस्येत्येतदपि परत्वादनेन बाध्द्यत इत्यन्वय । अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथा अलेोऽन्यस्त्येति बाध्यते तथा अष्टाभ्य औशिल्यादौ आदे परस्येत्येतदपि बाध्ध्यत  इत्यर्थ । ननु अस्तेर्भूरित्यादौ अलोऽन्यस्त्येति प्राप्ते सत्येवानेकाल्शिदित्यारम्भाद्येननाप्राप्तिन्याये नापवादत्वात्तेन तत्रालोऽन्त्यस्येत्यस्य बाधो युज्यते । आदे परस्येत्यस्य तु अनेकाल्शित् सर्व स्येति नापवाद । अस्तेभूरित्यादावादे परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह । प'रत्वादिति' ॥ विप्रतिषेधे पर कार्यमिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भाव । आदे परस्येत्यस्यावकाश द्यन्तरुपसर्गेभ्योऽप ईदित्यादि । अनेकाल् शित् सर्वस्येत्यस्यावकाश अस्तेर्भू इदम इश् इत्यादि. । अतस्तुल्यबलत्वमुभयो । स्वरितेनाधिकारः ॥ अधिकार व्यापृति । यथा लोके अधिकृतो ग्रामेऽसाविति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृति । स्वरितेन स्वरितविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापार प्रत्येतव्य । यत् पदशास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारित तदुत्तरसूत्रष्वनुवर्तनीयमिति यावत् । फलित

माह । स्वरितत्वयुक्तमित्यादिना ॥ आनुनासिक्यवत् स्वरितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्य । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविध्यतीति किं सूत्रेण । तथाच भाष्ये तत् प्रयोजन बहुधा प्रपञ्चितम् । परनित्येति । परादीनाम्मध्ध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तर शास्त्र बलवत्तरामित्यर्थः । उत्तरोत्तरमित्यत आनुपूव्ये द्वे

प्रकरणम्]
३३
बालमनोरमा



रोत्तरं बलीय.' (प ३९)। ‘असिद्धं बहिरङ्गमन्तरङ्गे' (प ५१) । “अकृतव्यूहाः


वाच्ये इति द्वित्वम् । ‘कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात् सुपो लुक्। बलवच्छब्दात् ‘द्विवचनविभज्योपपदे तरबीयसुनौ'इति ईयसुन्। विन्मतोर्लुक्'इति मतुपोलुक्। परापेक्षया नित्यान्तरङ्गापवादा । नित्यापेक्षयापि अन्तरङ्गापवादौ । अन्तरङ्गापेक्षयापि अपवाद । इत्येव क्रमेण पूर्व पूर्वापेक्षया उत्तरोत्तरबलवत्वमिति फलितोऽर्थ । पर विप्रतिषेधसूत्रात् बलवत् । परान्नित्य यथा । तुदति । अत्र ‘तुदादिभ्यश्श' इति शप्त्यय बाधित्वा परत्वात् लघूपधगुण प्राप्त । स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृते अकृतेऽपि लघूपवगुणे प्रवृत्तिमर्हतीति स नित्य । कृताकृतप्रसङ्गी यो विधिस्स नित्य इति हि तल्लक्षणम् । अतो नित्यश्शप्रत्यय लघू पधगुण बाधित्वा प्रथम प्रवर्तते। तत ‘सार्वधातुकमपित्’इति शस्य डित्वात् ‘डितिच' इति निषेधान्नगुण । अक्लृप्ताभावकस्य नित्यशास्त्रस्याभावकल्पनापेक्षया क्लृप्ताभावकस्य नित्यशास्त्रस्यैव तत्कल्पन युज्यते इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्ग यथा। उभये देवमनुष्या. । अत्र प्रथमचरमेति परमपि विकल्प बाधित्वा सर्वादीनीति नित्यैव सर्वनामसज्ञा भवति । तस्या विभक्तिनिरपेक्षत्वेन अन्तरङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्वे बीजमाह । असिद्ध बहिरङ्गमन्तरङ्गे ॥ अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमान प्रत्येतव्यमित्यर्थ । इयन्तु परिभाषा ‘वाहऊठ्’ सूत्रे भाष्ये स्थिता । परादपवादो यथा । दध्ना अस्थिदधि' इत्यनड् । इह परमप्यनेकालिति सर्वादेश बाधित्वा डिच्चेत्यन्तादेश । तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्वे बीजन्तु अनुपदमेवोक्तम् । नित्यादन्तरङ्ग यथा । ग्रामणिनि कुले । इह नित्यमपि इकोऽचीति नुम बाधित्वा ‘ह्रस्वो नपुसक’ इति हूस्व । प्रथमत कृते नुमि अनजन्तत्वात् ह्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा । दैत्यारि । श्रीश । परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वात् आदुणे यणि च प्राप्त अपवादत्वात् सवर्णदीर्घ । अकृतव्यूहाः पाणिनीयाः ॥ न कृत अकृत व्यूह प्रकृतिप्रत्ययविवेचन येषा


पाणिनिना प्रोक्तमधीयते विदन्ति वा पाणिनीया पाणिनिशास्त्राद्येतार तद्वेदि तारो वा । विशिष्ट ऊह व्यूह शास्त्रप्रवृत्तिविषयो निश्चय । न कृत अकृत अकृत व्यूह यैस्ते अकृतव्यूहा । भाविनिमित्तविनाशे इत्यद्याहार । बहिरङ्गेण शास्त्रेणान्तरङ्गशास्त्रनिमित्त विनाशे पश्चात् सभाविते अन्तरङ्गन्नेति यावत् । एतत्परिभाषाया ज्ञापकन्तु “समर्थानाप्रथमा द्वा' इति सूत्रे विद्यमान समर्थानामिति । समर्थानामिति सूत्रे कैयटस्तु समर्थवचनेनेयम्परि भाषा ज्ञाप्यते । 'अकृतव्यूहा पाणिनीया ' इति। तेन पपुष इत्यादौ अन्तरङ्गत्वात्पूर्व कृतोऽपीडागमो निवर्तत इति वदन्, अकृत व्यूह विशिष्टस्तर्क निमित्तकारणविनाशेऽपि कार्यस्थिति रूपो यैरित्यर्थमभिप्रैति । निमित्तापाये नैमित्तिकस्याप्यपाय इति यावत् । अस्या परिभाषाया उदाहरणं सदष इति । अत्र प्रक्रियाक्रमतु, “भाषाया सदवसश्रुव ' इत्यनेन सदधातो परस्य लिट कस्वादेशे “लिटिधातो ' इति सदेर्द्वित्वे “अत एकहल्मध्ध्ये अनादेशादेर्लिटि’ इत्यनेन एत्वा भ्यासलोपे ‘वस्वेकाजाद्धसाम्' इत्यनेन क्वसोर्वकारस्य वलादिलक्षणे इडागमे कर्तव्ये ‘वसोस्स म्प्रसारणम्’ इत्यनेन भविष्यता सम्प्रसारणेन वकारस्यापहारशङ्कासमुन्मेषात् तादृशविनक्ष्यदवस्था पन्न वकारं निमित्तीकृत्य प्रवृत्तियोग्यमेतदिडागमरूप कार्यन्नभवति । कृतमपि वा निवर्तते इति ।
३४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


पाणिनीया:’ (प ५७) । निमित्तं विनाशोन्मुखं दृष्टा तत्प्रयुक्तं कार्य न

कुर्वन्तीत्यर्थ ।

। इति परिभाषाप्रकरणम् ।


'अथाच्यसान्धिप्रकरणम् ।

४७ । इको यणचि । (६-१-७७

इकः स्थाने यण्स्यादचि संहितायां विपये । ' सुधी उपास्य.' इति स्थिते ।


न्ते अकृतव्यूहा पाणिनिशिष्या इत्यक्षरार्थ । तर्हि सर्वस्य शास्त्रस्य वैयर्थ्यमित्यतोऽध्द्याहृत्य व्याचष्टे । निमित्तमित्यादिना ॥ सेदुष इत्याद्युदाहरणम् । तच्च शब्दाविकारे सेदिवस् शब्द निरूपणावसरे मूल एव स्पष्टीभविष्यति । इय परिभाषा निर्मूला निष्फलाचेति परिभाषेन्दुशेखरे स्पष्टम् । इकोयणाचि ॥ इक इति षष्ठी। अतष्षष्ठी स्थानेयोगेति परिभाषया स्थान इति लभ्यते । स्थान प्रसङ्ग इत्युक्तम् । वर्णना वर्णान्तराधिकरणत्वासम्भवात् अचीति सतिसप्तमी । तस्मिन्निति निर्दिष्टे पूर्वस्येति परिभाषया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवञ्च अचि परत इत्यर्थलभ्यम् । सहितायामित्यधिकृतम् । ततश्चार्द्धमात्राधिककालव्यवधानाभावो लभ्यते । एवञ्च फलितमाह । इकः स्थान इत्यादिना ॥ इदञ्च सूत्राक्षरानुसारिप्राचीनमतानुसारेण । सहितायामिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरण अचीति सप्तमी तस्मिन्नित्यनेना श्रित्य सहिताधिकार प्रत्याख्यात । इत्थ हि तत्रभाष्यम्। अय योगश्शक्य अवक्तु। कथम्? अधि करणन्नाम त्रिप्रकार, व्यापकमौपश्लेषिक वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योभिसम्बन्धो भवितुमर्हति अन्यदत उपश्लेषात् । इकोयणचि अच्युपश्लिष्टस्येति । तत्रान्तरेण सहिताग्रहण सहितायामेव भविष्यतीति । उप समीपे श्लेष सम्बन्ध उपश्लेष । तत्कृतमधिकरणमौपश्ले षिक सामीपिकमिति यावत् । एवञ्च अच्समीपवर्तिन इक इति फलति । सामीप्यञ्च कालतो वर्णतश्च व्यवधानाभाव । एवञ्च असहितायामुक्तसामीप्याभावादेव यणभावसिद्धे सहिताधिकारो न कर्तव्य इति भाष्यार्थ । एवञ्च तुल्यन्यायत्वात् तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधि करणे सप्तमी । ततश्च अचील्यादि सप्तम्यन्तार्थे अकारादावुच्चारिते सामीप्यसबन्धेन विद्यमानस्य पूर्वस्य कार्य स्यादित्यर्थ फलति, नत्वव्यवहितोच्चारिते इति, अव्यवहितत्वविशेषणमुच्चारिते देयम् । सामपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधाना भावात्मकत्वात् । एवञ्च तत्र नैरन्तर्यार्थ निग्रहणन्न कर्तव्यम् । इदश्च स्नुक्रमोरिति सूत्रे, तत्र च दीयते, इति सूत्रे च कैयटे च स्पष्टम्। अधिकरणत्रैविध्द्यन्तु कारकाधिकारे आधारोऽधिकरणमि त्यत्र स्पष्टीकरिष्यते । सुधी इति । ध्ये, चिन्तायामिति धातेो ध्यायतेस्सप्रसारणश्चेति क्विपि यकारस्य सप्रसारणे इकारे पूर्वरूपे हलवेति दीर्धे च धीशब्द । सुष्ठु ध्यायन्तीति सुधिय । सु शोभना धीर्येषामिति वा सुधिय । सुधीभिरुपास्य इति विग्रह. । ‘कर्तृकरणे कृता बहुळम्’ इति

समास । ‘सुपोधातुप्रातिपदिकयो ’ इति भिसो लुक् । सुधी उपास्य इति स्थिते ईकारस्य यकार
प्रकरणम्]
३५
बालमनोरमा


स्थानत आन्तर्यादीकारस्य यकार । “सुध्य्-उपाख्य ' इति स्थिते

४८ । अनचि च । (८-४-४७)

अच परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम्

४९ ॥ स्थानिवदादेशोऽनल्विधौ । (१-१-५६)


इत्यन्वय । प्रत्याहारेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता । तत्स्फोरणाय ईकार उदाहृत । ननु ईकारस्य वरला वा कुतो न स्यु यण्त्वाविशेषादित्यत आह। स्थानत आन्तर्यादिति ॥ तालु स्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति । न तु वरला । भिन्नस्थानकत्वादित्यर्थे । अत एव “यथासङ्खयमनुदेशस्समानाम् इति सूत्रे भाष्यम्। किमिहोदाहरणम् । इकोयणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेना प्येतत् सिद्धमिति स्थानेऽन्तरतम इति सूत्रभाष्ये तु किमिहोदाहरणम् । इकोयणचि । दध्यत्र मध्वत्र । नैतदस्ति । सङ्खयातानुदेशेनाप्येतत् सिद्धमित्युक्तम् । यथासङ्खयसूत्रेणेत्यर्थ । नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते । यणो भाव्यमानतया तेन सवर्णाना ग्रहणाभावात् । गुणाना अभेदकत्वेऽपि यवलाष्षट् रेफश्वेति सप्त गृह्यन्ते । इक्शब्दे तु षट्षष्टिर्गृ ह्यत इति विषमसङ्खयाकत्वात् कथमिह यथासङ्खयसूत्रप्रवृत्तिरिति चेन्न । इकयणुत्वादिना अनुग तीकृताना समत्वात् । ननु ऋलृवर्णाभ्या प्रत्येक त्रिंशदुपस्थितौ लृवर्णाना रेफादेशस्य ऋवर्णना लादेशस्य च प्रसङ्ग इति न यथासङ्खयसूत्रेण निर्वाह इति चेत् । श्रृणु । ऋत्वावच्छिन्नस्य रेफो भवति । लृत्वावच्छिन्नस्य लकारो भवतीतेि यथा सङ्खयसूत्रालभ्यते । लृत्वजातिश्च न ऋवर्णेषु ।

ऋलवर्णयो सावर्ण्यविधिबलात्तु ऋत्व लृकारे, लृत्व ऋकारे च, आरो

प्यते कार्यार्थम् । एवञ्च वास्तव ऋत्व लृत्व च आदायात्र यथासङ्खयप्रवृतिर्निबाँधेत्यास्तान्तावत् । सुध् य् इति स्थिते वकारस्य द्वित्वमिति वक्ष्यमाणेनान्वय । केनसूत्रेणेत्यत आह । अनचेि च ॥ “यरोऽनुनासिकेऽनुनासिकोवा' इत्यत यर इति षष्ठयन्त चेति चानुवर्तते अचो रहाभ्या द्वे इत्यत अच इति पञ्चम्यन्त द्वे इति चानुवर्तते । न अचू अनच् तस्मिन् अनचीति न पर्युदास तथा सति नञिवयुक्तमन्यसदृशे तयाह्यर्थगति' इति न्यायेन अज्भिन्ने हलीत्यर्थस्यात् । तथासति लाघवाद्धलीत्येव वदेत् । रामात् इत्याद्यवसा नेषु च द्वित्व न स्यात् । अत अचि न भवतीत्यसमर्थसमासमाश्रित्य प्रतिषेधपर वाक्यान्तरम् तदाह । अचः परस्येत्यादिना । इति शधकारस्येति । अनेन सूत्रेण धकारस्य द्विरु । धकारस्य उकारादच परत्वादच्परकत्वाभावाच्चेति भाव । ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वात् अव् परकत्वात् कथ धकारस्य द्वित्वमिति शङ्का हृदि निधाय तस्य स्थानिवद्भावप्रापक सूत्रमाह । स्थानिवदादेशः । गुरुस्थानापन्ने गुरु पुग्रादौ स्थानापत्या वर्मलाभो लोकतस्सिद्ध । कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्ध

इह तु शास्त्रे स्व रूप शब्दस्येति वचनात् स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थ
३६
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्था निवद्भावेनाच्त्वमाश्रित्य * अनचि' (सू ४८) इति द्वित्वनिषेधो न शङ्कय अनल्विधौ' इति तन्निषेधात् ।


स्थानिवदादेश इत्यारब्धम् । स्थान प्रसङ्ग इत्युक्तम् । यस्य स्थाने अन्यद्विधीयते तत् स्थानि । येन विधीयमानेन अन्यत् प्रसक्तन्निवर्तते स आदेश । स्थानिना तुल्य स्यानिवत् । तेन तुल्यमिति वतिप्रत्यय । आदेश स्थानिना तुल्यो भवति । स्थानिधर्मको भवतीति यावत् । अलिति वर्णपर्याय । विधीयत इति विधि कार्य । अलाश्रयो विधि अल्विवि । न अल्विवि अनल्विधि । अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थे । अलाश्रयकायें कर्तव्ये स्थानिवन्नभवतीति फलितम् । अलाश्रयेति सामान्यवचनात् अला विधि, अल परस्य विधि, अलो विधि, अलेि विधिश्चेति, सर्वसङ्गह । अला विधौ यथा । व्यढोरस्केन। अत्र विसर्जनीयस्य स , इति विसर्गस्थानिकस्य सकारस्य विसर्गवत्वमाश्रित्य अङ्कयवाय इति णत्व प्राप्तन्नभवति । अल परस्य विधौ यथा । ध्यौ । दिवऔदिति वकारस्थानिकस्य औकारस्य स्नानिवद्भावेन हल्त्वात् तत परस्य सोहल्डयादिलोप प्राप्तो न भवति । अलो विधौ यथा । ध्युकाम । दिव उदिति वकारस्थानिकस्य उकारस्य स्थानिवद्रावेन वकारत्वात् “लोपो व्योर्व लि' इति लोप प्राप्तो न भवति । अलि विधौ यथा 1.क. इष्ट..] यजे क्त । अत्र यकारस्थानि कसम्प्रसारणस्य इकारस्य स्थानिवद्रावेन हश्त्वात् 'हशिच' इत्युत्व प्राप्त न भवति । अल्चेह स्था निभूत, स्थान्यवयवश्च, गृह्यते । ततश्च आदेशस्य स्थानिभूतो योऽल् स्थान्यवयवश्च योऽल् तदाश्रयविधौ न स्थानिवदिति फलति । तत्र स्थानीभूताल्विधौ व्यूढोरस्केनेत्युदाहृतमेव । यथा वा । धिवि, प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे “धिन्विकृण्व्योरच'इति विक रणस्य उकारस्य याणि वकारे सति तस्य स्थानिवद्रावेनार्धधातुकत्वात् स्वतो बलादित्वाच्च इडागम प्राप्तो न भवति । बकारस्य स्थानिभूतो योऽलू उकार तदादेश वकार आर्ध धातुकत्वेनाश्रित्य प्रवर्तमानस्य इट स्थान्यलाश्रयत्वात् । स्थान्यवयवालाश्रयविधौ यया । प्रतिदीव्य । इह क्तादेशस्य य इत्यस्य वलाद्यार्धधातुकत्वात् इडागम प्राप्तो न भवति । इडागमस्यवलाद्यार्धधातुकविषये स्थान्यवयवभूतवलाश्रयत्वात् । तदेतदाह । आदेशः स्थानिव त्स्यान्नतु स्थान्यलाश्रयविधाविति ॥ स्थान्यलाश्रयेत्यत्र स्थानीति केि। रामाय। इह 'सुपि च इतिदीर्घस्य यञ्जादिसुबाश्रयस्य आदेशगतयकाररूपाश्रयत्वेपि तस्मिन् कर्तव्ये यादेशस्य स्था निवद्भावेन सुप्त्व भवत्येव । दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाभावात् । न च नीञ्धातोर्ण्वुलि अकादेशे वृद्धौ नै अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मक त्वादायादेशो न स्यात् । ईकारस्य आयादेशाभावादिति वाच्यम् । इह हि स्थानिप्रयुक्त यत् कार्य शास्त्रीय तदेवातिदिश्यते । ईकारस्य चैकाराभावो नशास्त्रविहित इति न तस्य ईकारस्था निके ऐकारे अतिदेश इत्यास्तान्तावत् । अनेनेति। उदाहृतेन स्थानिवत्सूत्रेण इह सुधू य इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन

अनचीत्यनेन धकारस्य द्वित्वनिषेधेो न शङ्कनीय इत्यर्थः । कुत इत्यत आह । अनल्बिधाविति
प्रकरणम्]
३७
बालमनोरमा



५० । अचः परस्मिन्पूर्वविधौ । (१-१-५७) अल्विद्धयर्थमिदम् । परनिमित्तोऽजादेश स्थानिवत्स्यात् स्थानिभूतादच पूर्वत्वेन दृृष्टस्य विधौ कर्तव्ये । इति यण स्थानिवद्भावे प्राप्त ।


तन्निषेधादिति ॥ स्थानिवत्वनिषेधादित्यर्थ । यकारादेशस्थानीभूतो योऽल् ईकार तद्भतमच्त्व यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भाव । ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भाव । तदुत्तरसूत्रेण तु स्थानिवत्व स्यादेवेति शङ्कामुद्रावयिष्यन् तथाविधमुत्तरसूत्रमाह । अचःपरस्मिन् ॥ स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिद सूत्रमित्यत आह । अल्विद्धयर्थमिति ॥ अलाश्रयविवावपि स्थानिवद्भा वार्थमित्यर्थ । तेन वव्रश्चेति सिध्द्यति । ओ व्रश्चू, च्छेदने । लिटि तिपि णलि द्वित्वम् । लिट्य भ्यासस्येत्यभ्यासेरेफस्य सम्प्रसारणम् ऋकार । पूर्वरूपम्। उरदत्वम्। रपरत्वम्। हलादिश्शेष । तत्राभ्यासे वकारस्य पुनस्सम्प्रसारणन्न । ऋकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसा रणतया ‘न सम्प्रसारणे सम्प्रसारणम्’ इति निषेधात्। पूर्वसूत्रेण त्वत्रस्थानिवद्भावो न सम्भवति । सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भाव । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति अच आदेश इति । परस्मिन्निति सतिसप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह । परनिमित्तोऽजादेशः स्थानिवत्स्यादिति ॥ विधीयत इति विधि कार्यम् । पूर्वस्य विधि पूर्वविधि पूर्वत्वञ्च यद्यपि सावधिकम् । त्रयश्चात्र सन्निहितम् । स्थानी आदेश परनिमित्तश्चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति । तस्या देशेनापहारात् । नाप्यादेश । नापि परनिमित्तम् । वैयाकरण इत्यत्र इकारस्थानिकयणादेशात् तत्परनिमित्तादाकाराच पूर्वस्य नय्वाभ्यामित्यैकारस्य आयादेशे कर्तव्ये यणादेशस्य स्थानिवद्भा वेनाच्त्वापत्ते । तथापि स्थान्यवेक्षयैवात्र पूर्वत्व विवक्षितम्। स्थानिन आदेशनापहृतत्वेऽपि भूतपू र्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह । स्थानिभूतादच. पूर्वत्वेन दृष्टस्य विधौ कर्तव्य इति ॥ तत्र स्थानिनि सति यद्रवति तदादेशेऽपि भवति यन्नभवति तदादेशेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याभावस्य अतिदेशो भवति । तत्राद्ये वव्रश्चेत्युदाहृतमेव । तत्र न सम्प्रसारणे सम्प्रसारणमिति निषेधकार्यस्य शास्त्रीयत्वात् । द्वितीये तु गणयती त्युदाहरणम् । गण, सङ्खयान इति चुरादौ अदन्तधातु । तस्माण्णिच् । अतो लोप । तिप् शप् णेर्गुण अयादेश गणयतीति रूपम् । अत्र णिचि परत उपधाभूतस्य गकारादकारस्य “ अत उपधाया' इति न भवति । प्रकृतसूत्रेणाल्लोपस्य स्थानिवद्भावात् अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्नप्रवृत्तिमर्हति । वृध्द्यभावस्या शास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्नपूर्वत्वम्। णकारेण व्य वधानादिति वाच्यम् । पूर्वत्व ह्यत्र व्यवहिताव्यवहितसाधारणम् । उत्तरसूत्रे स्वरे निषेधाल्लि

ङ्गात् । तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् । इति यण इति । अनेन सूत्रेण सुध् य् इत्यत्र
३८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


न पदान्त'द्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु' (१-१-५८) पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न


धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिवद्भावे प्राप्त तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थ । नपदान्तद्विर्वचन ॥ स्थानिवदादेश इति अच परस्मिन्निति चानुवर्तते परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वय । पदान्तश्च द्विर्वचनञ्च वरे च यलोपश्च स्वरश्च सव र्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्व । तेषा विधय विधानानि । कर्मणि षष्ठया समास ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशस्स विवक्षित । आर्षो द्वन्द्व सप्तम्या अलुक्च । विधिशब्द प्रत्येकमन्वेति । पदान्तविधौ द्विर्वचनविधावित्यादि । पदस्यान्त चरमावयव । पदान्तस्य विवाने पदान्तकर्मके विधानेन पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत् । तदाह । पदस्य चरमेत्यादिना पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् । तथा सति एषो यन् हससीत्यसिद्धे । तथाहि । एष यन् इति छेद । इण्धातो र्लटश्शतरि शपि लुकि इकारस्य इणो यणिति यण् । अत्र एतत्तदोरिति सुलोपो न भवति । तस्य हलि परतो विधानात् । इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेना चत्वात् । नच न पदान्तेति निषेधश्शङ्क्य । यो विधीयमान पदस्य चरमावयव सपद्यते तत्रैव तन्निषेधात् । इह च विधेयस्य सुलोपस्य पदानवयवत्वात् । पदान्तस्य स्थाने विधाविति व्या ख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्द्येत् । सुलोपस्य पदान्तसकारस्य स्थाने विधानात् अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति कारस्य विधीयमानस्य पदचरमा वयवत्वात् । एवञ्च पदान्तविधावित्यस्य एषो यन् इत्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरण भाष्ये स्पष्टम् । भाष्यप्रदीपोद्योते स्पष्टतरमेतत् । पदान्तविधौ कानि सन्तीत्या द्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विर्वचने सुट. य इत्युदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावस्यादेवेति वाच्यम् । अनचिचेति द्वित्व स्यानैमित्तिकतया तद्विषये यकारस्य स्थानिवद्भावस्यानपेक्षत्वेन तत्र तन्निषेधस्य वैयर्थ्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिपेधस्यैव विवक्षितत्वादिति भाव । वरे यथा । यायावर यश्च यड' इति या वातोर्यडन्ताद्वरच् । सन्यडोरिति द्वित्वम्।यायाय वर इति स्थिते अतो लोप इति यडोऽकारस्य लोप । लोपोव्योरिति यकारलोप । अत्र अजाद्यार्द्धधातुकमाश्रित्य ‘आतो लोप इटेि च' इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यथा । याति । याधातोर्यडि द्वित्व क्तिच् यायायति इति स्थिते, अतो लोप, लोपोव्योरिति यलोप अल्लोपस्य स्थानिवत्वादातो लोप लोपोव्योरिति यलोप यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधस्या

दिति वाच्यम् । स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात् । इह
प्रकरणम्]
३९
बालमनोरमा

च वकारस्य लोपरूपत्वाभावात् । स्वरविवौ यथा । चिकीर्षक । चिक्रीर्ष इति सन्नन्तात् ण्वुल् । अकादेश । सनोऽकारस्य अतो लोप । अत्र ईकारस्य लितीत्युदात्तत्वे कर्तव्ये अलोपो न स्था निवत् । यद्यपि ईकार अल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति । तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्व व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनन्तु पूर्वसूत्र एवोक्तम् । सवर्णविवौ यथा । शिण्डढि । शिष् इति धातो रौवादिकाल्लोण्मभ्यमपुरुषै कवचनम् । सिप् श्रम् । शिनष् सि । हित्व । धित्व । ष्टत्व। षस्य जश्त्व । डकार शिन ड्ढेि श्रवसोरल्लोप नश्च पदान्तस्येत्यनुस्वार अनुस्वारस्य ययीति तस्य परसवर्ण णकार शिण्ड्डि इति रूपम्। अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्रमकारस्य लोपोऽत्र अजादेश । तत्स्थानीभूत श्रमकार एव । तस्मिन् सति नकारस्यानुस्वार प्रसक्तिरेव नास्ति । तथाचानुस्वाररय स्थानीभूतादच पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अच परस्मिन्नित्योपस्य स्यानिवत्व न प्रसक्तमिति किन्तत्प्रतिषेवेन । यत्तु तत्वबोधि न्या अनुस्वारस्य स्थानिभूतो नकार श्रमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्व स्थानिद्वाराऽपि पूर्वत्वाभ्युपगमादित्युक्तम् । एव सति तितउमाचष्टे तितापय तीव्यत्र पुगागमो न स्यात् । ‘तत्करोति तदाचष्ट’ इति णिच् । इष्टवद्भावादुकारस्य टेरिति लोप । अचोञ्णितीति तकारादकारस्य वृद्धि आकार पुगागम तितापीत्यस्मात् लट् तिप् शप् गुण अयादेश तितापयतीति रूपम् । अत्र अचोञ्णितीति वृद्वद्या लव्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधानेन णिपरकत्वाभावात् पुगागमो न स्यात् । आकारस्य लोपस्यानिभूतादुकारात् पूर्वत्वस्य खत अभावेऽपि स्थानिद्वारा सत्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्रे पादमाचष्टे पादयति तत क्विप् पात् हसतीत्यादौ ‘झयोह' इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमास तत्प्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणमिति प्रपञ्चितम् । अनुस्वारविधौ यथा शिंषन्ति । शिष्, धातोर्लटि झेि झोऽन्त । श्रसोरल्लोप । नश्वापदान्तखेत्यनुखार । शिंषन्ति । इह तु न परसवर्ण । षकारस्य यय्त्वाभावात् । अत्र अनुखारे कर्तव्ये अल्लोपो न स्थानिवत् । अत्र दीर्घविधौ यथा । प्रतिदीव्ना । हलिचेति दकारादिकारस्य दीर्धे कर्तव्ये अल्लोपो न स्थानिवत् । जाश्विधौ यथा । सग्धिश्चमे । अद् भक्षणे क्तिन् । बहुळ छन्दसीति घसल् आदेश ।*घसिभसोर्हलि च' इत्युपधालोप । झलोझलीति सलोप । झषस्तथोरिति तकारस्य धत्वम्।'झलाञ्जश् झशि' इति जश्त्वेन घकारस्य गकार । समाना ग्धि अदन सन्ति । समानस्य छन्दसीति सभाव । अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । चर्विधौ. यथा । जक्षतु । घसेर्लिटि अतुस् । द्वित्वम् “हलादिश्शेष ' । “ अभ्यासे चर्च' इति जश्त्वम् । ‘कुहोश्चु ' इति जकार । 'गमहन' इत्युपधालोप । *खरि च' इति चर्त्वम् । ककार । ‘शासिवसि इति' ष । अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत् । भाष्ये तु पूर्वत्रासिद्धे नस्थानिवदित्यवष्टभ्य द्विर्वचन सवर्णानुस्वारदीर्घजश्चर प्रत्याख्याता । किञ्च 'दीघाँदाचार्याणाम्' इत्युत्तर ‘अनुस्वारस्य ययि

परसवर्ण’ ‘वापदान्तस्य’ “तोलिं' 'उदस्थास्तम्भ्वो पूर्वस्य’ ‘झयो होऽन्यतरस्या’ ‘शश्छोटि
४०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


स्थानिवत् । इति स्थानिवद्भावनिषेध ।

५२ । झलां जश झशि । (८-४-५३)

स्पष्टम् । इति धकारस्य दकार. ।

। अदर्शनं लोपः । (१-१-६०)

प्रसक्तस्यादर्शनं लापसंज्ञ स्यात् ।

५४ । संयोगान्तस्य लोपः । (८-२-२३)

संयोगान्तं यत्पदं तदन्तस्य लोप. स्यात् । इति यलोपे प्राप्त । “यण प्रतिषेधो वाच्य ' (वा ४८०६) । “यणो मयो द्वे वाच्ये' (वा ५०१८)।


इति षट्सूत्रीपाठोत्तर 'झलाञ्जश् झशि’ “अभ्यासेचर्च ' 'खरिच'वावसाने' 'अणोऽप्रगृह्य स्यानुनासिक’ इति पञ्चसूत्रीपाठ इति 'हलोयमाम्यमि' इति सूत्रस्थभाष्यसम्मत सूत्रक्रम । एवञ्च शिण्ड्ढीत्यत्र न परसवर्णप्रसक्ति । परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यटपरकत्वाभावादिति । तथापि सवर्णविधौ शिण्ड्ढीति नोदाहरणमित्यास्तान्तावत् । इति स्थानीति । अनेन सूत्रेण सुध् य् इत्यत्र द्वित्वनिषेधे कर्तव्ये चकारस्य स्थानिवत्त्वनिषेध इत्यर्थ । एपञ्चाच्परकत्वाभावेन अनाचि चेति निषेधाभावात् धकारस्य द्वित्वन्निर्बाधमिति भाव । तथाच सुध ध् य इति स्थितम्।झलाञ्जश झशि । स्पष्टमिति ॥ झला स्थाने जश् स्यात् झशि परत इति स्पष्टार्थकम्। तत्र न किञ्चिद्व्याख्यातव्यमस्ति । पदान्तरस्यानुवृत्यभावादित्यर्थ । इति धकारस्येति ॥ प्रथमधकारस्येत्यर्थ । दकार इति ॥ स्थानत आन्तर्यादिति भाव । सुद् ध् य् इत्यत्र यकारस्य सयोगान्तलोप शङ्कितु लोपसज्ञासूत्रमाह । अदर्शनं लोपः।। शब्दानुशासनप्रस्तावाच्छब्दविषयक श्रवणमिह दर्शन विवक्षितम् । दर्शनस्याभाव अर्थाभावेऽव्ययीभाव । स्थानेऽन्तरतम इत्यत स्थान इत्यनुवर्तते । स्थान प्रसङ्ग इत्युक्तम् । शास्रतश्शब्दस्य कस्यचिच्छ्रवणप्रसङ्गे सति यदा श्रवणन्तत् लोपसज्ञ भवतीत्यर्थ । तदाह । प्रसक्तस्येति ॥ तत्र श्रवणाभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्यकिम् । दधि इत्यादौ क्विप अश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्रस्वस्य पिति कृति तुक् माभूत् । संयोगान्तस्य लोपः ॥ पदस्येत्यधिकृतम् । सयोग अन्तो यस्येति विग्रह । संयोगान्तस्य पदस्य लोप इत्यन्वय । नच कृत्स्रपदस्य लोप । किन्तु अलोन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह । संयोगान्तमित्यादिना ॥ अत्र अन्तग्रहण स्पष्टार्थमेव । सयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु सयोगावन्तौ यस्येति वि ग्रहलाभार्थमन्तग्रहण । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वतकारस्य लोप स्यादिति । तन्न । सयोगसज्ञाया व्यासज्यवृत्तित्वात् प्रत्येकवृत्तित्वमभ्युपगम्य अन्तग्रहणप्रयोजनवर्णनस्य व्य र्थत्वादिति शब्दरत्ने विस्तर इति । यलोपे इति ॥ सुध् य् इति यकारस्य अनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेधः आरभ्यते । यणः प्रतिषेधो वाच्यः ॥ यण सयोगान्तलोपप्रतिषेधो

प्रकरणम्]
४१
बालमनोरमा


'मय इति पञ्चमी यण इति षष्ठी' इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्बित्वविकल्पाच्चत्वारि रूपाणि । एकधमेकयम् । द्विध द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्धयुपास्य. । मद्ध्वरि. । धात्रंश । लाकृति ।


वक्तव्य इत्यर्थ । अनेन वार्तिकेन यकारस्य सयोगान्तलोपो न भवतीति शेष । इद वार्ति क आकरे प्रत्याख्यातम् । अथात्र यकारस्य अच परत्वाभावादच्परकत्वाच्च अनचिचेति द्वित्वा प्राप्तौ द्वित्वविविमाह । यणो मयो द्वे वाच्ये ॥ अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वय । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यण परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यण पर, नापि मय्। अत कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह । मय इतीति ॥ पक्षे इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचितम् । विनिगमनाविरहादिति भाव । अत्रापि वार्तिके यरोऽनुनासिक इत्यतो वाग्रहणमनुवर्तते । ततश्च फलितमाह । तदि हेति ॥ तदित्यव्ययम् । इयता सन्दर्भण यत् प्रपश्चित तेन इह सुध् य् इत्यत्र यकारधकारयो द्वित्वविकल्पाचत्वारि रूपाणि सम्पद्यन्ते इत्यर्थ । एकधमेकयमिति ॥ एक धकार यस्य तत् एकवम्, एव एकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाभावे एकवधकारमेकयकारश्च प्रथम रूपमित्यर्थ । द्विधै द्वियमिति । द्वौ धकारौ यस्य द्विधम् । एव द्वियमित्यपि । धकारयका रयोरुभयोरपि द्वित्वे द्वियकार द्विधकारञ्च द्वितीय रूपमित्यर्थ । द्विधमेकयमिति ॥ धकारस्य द्वित्वे यकारस्य द्वित्वाभावे द्विधमेकयञ्च तृतीय रूपमित्यर्थ । एकधं द्वियमिति ॥ धकारस्य द्वित्वाभावे च यकारस्य द्वित्वे एकध द्वियञ्च चतुर्थ रूपामित्यर्थः । सुद्धयुपास्य इति । इह ‘न भूसुधियो 'इति निषेधस्तु न भवति । तस्य अजादौ सुपि विधानात् । इकोऽसवर्ण इत्यपि न । ‘न समास' इति तन्निषेधात् । मद्ध्वरिरिति ॥ मधुर्नाम असुरविशेष । तस्यारिश्शत्रु मद्भरि । हरिरित्यर्थ । अत्र धकारादुकारस्य स्थानत आन्तर्यात् यथासङ्खयपरिभाषया वा वकार । न चात्र वकारस्य दन्तस्थानाधिक्यात् न स्थानसाम्यमिति वाच्यम् । यावत् स्थानसाम्यस्य साव र्ण्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादे एकाराद्यनापते । धात्त्रश इतेि । अत्र तकारस्यैव द्वित्वम् । न तु रेफस्येत्यनुपदमेव वक्ष्यते अचोरहाभ्यामित्यत्र । लाकृतिरिति ॥ लृवर्णस्य आकृतिरिव आकृ तिर्यस्येति विग्रह । अत्र आकारे परे लृवर्णस्य दन्तस्थानसाम्यात् लकार । न च दन्तस्था नसाम्यात् प्रथमातिक्रमे कारणाभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्किञ्चित्स्थानसाम्य स्य प्रयोजकताया मदध्वरिरित्यत्रोक्तत्वादिति वाच्यम् । अत्र हि चत्वारो यणो यवरला विवेया. । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यात् निस्सपन्नस्सावकाश । तत्र लकारस्य दन्तरूपस्थान भेदादप्राप्त । लाकृतिरित्यत्र लृवर्णें तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रति षेधमाश्रित्य लकारविधि परत्वात् अपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे

कारणाभावादत्रापि वकार एव स्यात् तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र लृवर्णस्य
४२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता

५५ । नादिन्याक्रोशे पुत्रस्य । (८-४-४८)

पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे आक्रोशे' किम्। तत्वकथनेद्विवचनं भवत्येव । पुत्त्रादिनी सर्पिणी 'तत्परे च' (वा ५०२१) । पुत्रपुत्रादिनी त्वमसि पापे वा हतः' जग्धयो ' (वा ५०२२) । पुत्रहती-पुत्रहती । पुत्रजग्धी-पुत्रजग्धी

५६ । त्रिप्रभृतिषु शाकटायनस्य । (८-४-५०)

त्र्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम् । इन्न्द्र -इन्द्रः । राष्ष्ट्रम्-रष्ट्रम्


लकार एवेत्यास्तान्तावत् । नादिन्याक्रोशे ॥ द्वे इत्यनुवर्तते । यर इति च । आक्रोशो नेिन्दा । आदिनीति डयन्त लुप्तसप्तमीकम आदिनीशब्दे परे पुत्रशब्दस्यावय वो य यर् तकार तस्य न द्वित्वम् । आक्रोशे गम्ये इत्यर्थ । तदाह पुत्रशब्दस्येत्यादिना ॥ पुत्रश ब्दावयवस्येत्यर्थ । पुत्रादिनी त्वमसि पापे इति। पुत्रानत्तु शीलमस्या पुत्रादिनी । ‘सुप्य जातौ' इति णिनि । ऋत्नेभ्य इति डीप् । हे पापे ! त्व पुत्रादिनीत्यन्वय । पुत्रघातिनीत्यर्थ ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् । सूत्रे आदिनीति डयन्तमेव विवक्षितमिति हरदत्त । माधवोऽप्येवम् । अत्र उकारात् परस्य तकारस्य अनचेि चेति प्राप्त द्वित्व निषिध्द्यते। रेफस्य तु न कवापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति ॥ आक्रोश इत्यस्य केि प्रयो जनमित्यर्थ । “कि पृच्छाया जुगुप्सने' इत्यव्ययवर्गे अमर एवमुत्तरत्राप्येवञ्जातीयकेषु द्रष्ट व्यम् । तत्वकथन इति ॥ यस्या पुत्रा स्वयमेव म्रियन्ते ता प्रति पुत्त्रादिनीति वस्तुस्थिति कथने तु न द्वित्वनिषेध । तत्र निन्दाया अप्रतीतेरित्यर्थ । तत्परे च ॥ वार्तिकमेतत् । स आदिनीशब्द परो यस्मात् स तत्पर आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरो न द्वित्वमित्यर्थ । पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रह । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्द परो न भवति । द्वितीयपुत्रशब्देन व्यवधानात् अत पूर्वसूत्रेण अप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयो हतशब्दे जग्धशब्दे च परे पुत्रश ब्दावयवस्य यूरो द्वित्व वा स्यादित्यर्थ । पुत्त्रहतीति ॥ तकारद्वित्वे रूपम्। पुत्रो हतो ययेति विग्रह । ‘अखाङ्गपूर्वपदात्’ इति डीष् इति केचित् । वस्तुतस्तु । जातिपूर्वादित्यस्य तत्रानुवृत्ते गौरादित्वात् डीषिति युक्तम् पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात् स्त्रीलिङ्गमेवोदा हृतम् । पुत्रहतीति ॥ द्वित्वाभावे रूपम् एव पुत्त्रजग्धी पुत्रजग्धीति अनचिचेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेत् हतजग्धयोरेव आक्रोश एवेति नियमार्थ मिद वार्तिकमित्याहु । त्रिप्रभृतिषु शाकटायनस्य ॥ त्रिचतुरादिषु हल्षु सयुक्तेषु

आद्यस्य मध्द्ये अच परस्य यर द्वित्व शाकटायनमते । मतान्तरे तु नेत्यर्थ । इन्द्र इति
प्रकरणम्]
४३
बालमनोरमा


५७ । सर्वत्र शाकल्यस्य । (८-४-५१)

द्वित्वं न । अर्क । ब्रह्मा ।

दीर्घादाचार्याणाम् । (८-४-५२)'

द्वित्वं न । दात्रम् । पात्रम् ।

५९ । अचो रहाभ्यां द्वे । (८-४-४६)

अच. पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्त. । हर्य्यनुभव. । नह्ययस्ति

६० । हलो यमां यमि लोपः । (८-४-६४)

हल परस्य यमो लोप स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं


नकारस्य द्वित्वविकल्प । राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्प । सर्वत्र शाकल्यस्य ॥ नेत्यनुवर्तते । यत्र यत्र द्वित्व विहित तत्र तत्र शाकल्यस्य ऋषेर्मते द्वित्वन्न भवतीत्यर्थ । दी र्घदाचार्याणाम् ॥ नेत्यनुवर्तते । दीर्धात् परस्य यरो द्वित्व केषाञ्चिदाचार्याणाम्मते न भवति । मतान्तरे तु भवति । अनचिचेत्यत्र वाग्रहणमनुवर्तत इति नाज्झलाविति सूत्रे कैयट । एवञ्च अनचिचेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादि सूत्रत्रय नारम्भणीयमिति प्रौढमनोरमाया स्थितम् । एतत्सूत्रत्रयविरोवादनविचेचेत्यत्र वाग्रहणन्नानुवर्त्यमिति युक्त प्रतिभाति । अचोर हाभ्यां द्वे ॥ यरोऽनुनासिक इत्यतो यर इति षष्ठयन्त वेतिचानुवर्तते । अच इति दिग्योगे पञ्चमी । पराभ्यामिति शेष । रहाभ्यामित्यपि पञ्चमी । परस्येति शेष । तदाह । अचःपरा भ्यामित्यादिना। हर्यनुभव इति ॥ हरेरनुभव इति विग्रह । हरि अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्व । अथ हकारात् परस्योदाहरति । नह्यस्तीति ॥ नहि अ स्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्व । इहोभयत्र यकारस्य अच परत्वाभावादच्प रकत्वात् यण प्रतिषेध इति निषेधाच्च द्वित्वमप्राप्त विधीयते । अत्र अनचिचेति रेफहकारयो र्द्वित्विन्न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छूुतेन निमित्तभावेन तयो यर्शब्दवोधितकार्यभाकबाधात् । श्रुतानुमितयोश्श्रुत वलीय इति न्यायात् । हर य् यू अनुभव । नह् य् य् अस्ति इति स्थिते । उभयत्रापि प्रथमयकारस्य लोपविधिमाह । हलो यमां यमि लोपः ॥ झयो होऽन्यतरस्यामित्यतोऽन्यतरस्यामित्यनुवर्तते । तञ्च-विभक्तिप्रति रूपकमव्यय वार्थे वर्तते । यमामिति वहुत्व प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूना यमामसम्भवात् । हल इति दिग्योगे पञ्चमी । परस्येति शेष । तदाह । हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूप सम्प द्यते। लोपाभावपक्षे तु द्वियकाररूप सम्पद्यते । ननु हलो यमामिति सूत्रमेतदर्थ नारम्भणीयम् अचोरहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य द्वित्वाभावे

एकयकाररूपस्य च सिद्धेरित्याशङ्कय नास्य सूत्रस्यात्र प्रयोजनमित्याह । इति लोपेति ॥
४४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


रूपं तुल्यम् । लोपारम्भफलं तु “ आदित्यो देवता अस्येत्यादित्यं हविः' इत्यादौ ।

यमां यमि' इति यथासंख्यविज्ञानान्नेह । माहात्म्यम् तादात्म्यम् ।

६१ । एचोऽयवायावः । (७-१-७८)

६२ । तस्य लोपः । (१-३-९)

तस्येतो लोप स्यात् । इति यवयोर्लोपो न। उच्चारणसामर्थ्यात्। एवं च इत्सं.

ज्ञापीह न भवति । हरये । विष्णवे । नायक । पावक ।

यस्मिन् विधिस्तदादावल्ग्रहणे ।

सप्तम्यन्ते अल्ग्रहणे विशेषणीभूते योविधिरारभ्यते स तदादौ ज्ञेय.। येनवि


तर्हि किमस्य सूत्रस्य फलमित्यत आह । लोपारम्भेति ॥ 'दित्यदित्यादित्यपत्त्युत्तर पदाण्ण्य' इत्यादित्यशब्दात् शेषार्थण्यन्तात् देवतार्थे ण्य । आदित्य य इति स्थिते । “यस्येति च' इति यकारादकारस्य लोपे तकाराद्यकारस्य अनेन सूत्रेण लोप । तस्मिन् सत्येव आदित्यमित्येकयकार रूप सिद्धयति । नान्यथा । अत सूत्रारम्भो न विफल इति भाव । अत्र ‘आपत्यस्य च तद्धितेऽनाति’ इति लोपस्तु न । जाताद्यर्थकत्वेन आपत्यत्वाभावात् । अत्र त्वेतत् सूत्र न्याय्यत्वादुपन्यस्तमिति भाव । नन्वेवमपि महात्मनो भाव इत्यर्थे ‘गुणवचनब्राह्मणादिभ्य । इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपस्स्यात् । तस्य यम्त्वात् यकाररूपयमपरकत्वाच्चेत्यत आह । यमामिति । यथासख्यविज्ञानादिति ॥ विज्ञायते अने नेति विज्ञान सूत्रम् । “विज्ञान शिल्पशास्त्रयो ' इत्यमर । यथासख्यसूत्रादित्यर्थ । तथाच मका रस्य मकारे परत एव लोपलाभात् यकारे परे न लोप इत्यर्थ । एचोऽयवायावः ॥ अय् च अव् च आय् च आव् चेति विग्रह । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासख्यपरिभाषया एका रस्य अय्, ओकारस्य अव् , ऐकारस्य आय्, औकारस्य आव्, इति लभ्यते । तदाह । एचः क्रमादिति ॥ यथासख्यसूत्रभाष्यरीत्या तु अन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह इचोऽचि.यणयवायाव इत्येव सूत्रयितुमुचितम् । एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमिति इत्सज्ञाया लोपमाशङ्कितुमाह । तस्यलोपः॥ इत्सज्ञाप्रकरणान्ते इदसूत्रम्। तत्र तच्छब्दस्सन्नि हितम् इत परामृशति । तदाह । तस्येत इति ॥ इत्यनेन सूत्रेण यवयोलॉपो न शङ्कनीय इत्यर्थ । कुत इत्यत आह । उच्चारणेति ॥ यद्यत्र यवयोर्लोपस्यात् । तर्हितयोस्सूत्रे अनुच्चा रणमेव स्यात् । 'प्रक्षाळनाद्धि पङ्कस्य दूरादस्पर्शन वरम्’ इति न्यायादिति भाव । तर्हि किमनयोरित्सज्ञयेत्यत आह । एवञ्चेति । उक्तप्रकारेण लोपाभावे सति इत्सज्ञापि इह

यकारे वकारे च नभवति । फलाभावादित्यर्थ । क्रमेणोदाहरति । हरय इत्यादिना ॥
प्रकरणम्]
४५
बालमनोरमा


६३ । वान्तो यि प्रत्यये । (६-१-७९)

यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्त गोर्विकारो गव्यम्।'गोप यसोर्यत्' (सू १५३८) । नावा तार्य नाव्यम् । “नौवयोधर्म-' (सू १६४३) इत्यादिना यत् । गोर्युतौ छन्दस्युपसंख्यानम्’ (वा३५४३) । * अध्वपरिमाणे च' (वा ३५४४)। गव्यूति । “ऊतियूति-'(सू ३२७४) इत्यादिना यूतिशब्दो


हरे एविप्णो ए नै अफ पौ अक इति स्थितेषु एकारादीना क्रमादयादय । वान्तो यि प्रत्यये ॥ यि इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते । यस्मिन्विविस्तदादावल्ग्रहण इति वार्तिकात् । तत्र यस्मिन्निति सप्तम्यन्त विवक्षितम् । अलिति वर्णपर्याय । सप्तम्यन्ते वर्णग्रहणे यो विधि स तद्वर्णादैौ ज्ञेय इति तदर्थं । येनविधिरित्यस्यायमपवाद । वकार अन्ते यस्य स वान्त । पूर्वसूत्रेोपात्त अवादेश आवादेशश्च विवक्षित । तौ च कयोर्भवत इत्याकाक्षाया ओ दौतोरित्यर्थाल्लभ्यते । पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन क्लृप्तत्वात् । तदाह । यकारादा वित्यादिना । गव्यमिति । गो य इति स्थिते । ओकारस्य अच्परकत्वाभावात् एचोऽयवा याव इत्यप्राप्ते अवादेशोऽत्र विधीयते । अस्तिचात्र य इत्यस्य प्रत्ययत्वमित्याह । गोप यस्योर्यदिति । अनेन सूत्रेण गोशब्दात् विकारार्थे यत्प्रत्यय इति शेष । नाव्यमिति ॥ नौ य इति स्थिते औकारस्य अच्परकत्वाभावात् एचोऽयवायाव इति अप्राप्त वचनमिदम् । अस्तिचात्र य इत्यस्य प्रत्ययत्वमित्याह । नौ वय इति ॥ गव्यन्नाव्यमित्यत्र लोपश्शाकल्यस्येति हलेि सर्वेषाम्’ इति च वकारस्य लोपो न भवति । तयो पदान्तविषयत्वात् । इह च भत्वेन पदत्वबाधात् । गोर्यूतौ छन्दस्युपसङ्खयानम् ॥ छन्दसि वेदे यूतिशब्दे परे गोशब्दावय वस्य ओकारस्य स्थाने अव् इति वान्तादेशो भवतीति उपसख्यान अधिकवचन कर्तव्यमिति सूत्रकारशिक्ष्यते । ‘आनोमित्रावरुणा घृतैर्गव्यूतिमुक्षतम्’ इत्युदाहरणम् । गव्यूति । गोप्रचा रभूमि । गावो यूयन्ते मिश्रयन्तेऽस्यामित्यधिकरणे यु धातो क्तिनिति वेदभाष्ये भट्टभास्कर । अत्र यूतिशब्दस्य प्रत्ययत्वाभावात्तस्मिन् परत ‘वान्तो यिप्रत्यय’ इत्यप्राग्तौ वचनमिदम् । अद्ध्वपरिमाणे च ॥ मार्गपरिमाणविशेषे गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अव् इति वान्तादेशस्य उपसख्यान कर्तव्यमित्यर्थ । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिक वैदिकप्रक्रियायामेव उपन्यसनीयम् । तथाप्यत्र अनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यास । गव्यू: तिरिति ॥ यावति गोशब्द यूयते मिश्रयते श्रूयते तावानश्वा गव्यूति, क्रोशयुम। ‘गव्यूति स्स्त्री क्रोशयुगम्' इत्यमर । युधातोरधिकरणे क्तिन् । कथमिह युधातेोदीर्घ इत्यत आह । ऊतियूतीति । निपातनादेव दीर्घ इति भाव । सिद्धप्रक्रियस्य निर्देशो निपातनम् । ननु गव्य न्नाव्यमित्यत्रभत्वेन पदत्वबाधात् ‘लोपश्शाकल्यस्य’ इति ‘हलिसर्वेषा इति च वलोपाभावेऽपि गव्यू तिरित्यत्र लोप स्यात् । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादिस्वादिप्रत्य यत्वाभावेन तस्मिन् परतो भत्वाभावाचेत्यत आह । वान्त इत्यत्रेत्यादि ॥ वान्तो यि

प्रत्यय इत्यत्र वकारात् गोर्युतावित्यत्र छकाराद्वा पूर्वभागे वकार प्रश्लिष्यत इत्यन्वय । तर्हि
४६
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


निपातित । “वान्त इत्यत्र वकारात्, “गोर्युतौ' इत्यत्र छकाराद्वा, पूर्वभागे “लोपो व्यो - ’ (सू ८७३) इति लोपेन वकार प्रश्लिष्यते । तेन श्रूयमाणव कारान्त आदेश स्यात् । वकारो न लुप्यत इति यावत् ।

६४ । धातोस्तन्निमित्तस्यैव । (६-१-८०)

यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव । लव्यम् ।


व् वान्त इति, व् छन्दसीति च वकार कुतो न श्रूयत इत्यत आह । लोपो व्योरिति । लो पेनेति ॥ अन्तर्हित इति शेष । ननु प्रश्लेषे सति किमायातमित्यत आह । तेनेति ॥ वान्तोयीतिसूत्रे वकारात् प्राक् व् इति प्रश्लिष्यमाण वान्तस्य विशेषणम् । विशेषणत्वाच्च तद न्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तवचनसामर्थ्यात् श्रूयमाणवकारवान् वान्त आदेशस्यादिति लभ्यते । गोर्युतावित्यत्र च इदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते । गोर्युतावित्यत्र छकारात् प्राक् व् इति प्रश्लिष्य माणमपि पूर्वसूत्रादनुवृत्तस्य वान्त इत्यस्य विशेणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्तावचनसामर्थ्यात् श्रूयमाणवकारवान् वान्त इति लभ्यत इत्यर्थ । नन्वेतावता गव्यू तिरित्यत्र अवादेशे वकारस्य श्रूणमाणत्वलाभेऽपि लोपशङ्का न परिहृतेत्यत आह । वकारो न लुप्यत इति । यावदिति ॥ वकारस्य श्रूयमाणत्ववचन वकारो न लुप्यत इत्यर्थे पर्यवसन्न मित्यर्थ । अश्रवणस्यैव लोपशब्दार्थत्वादिति भाव । यद्यपि वान्तो यीति सूत्रे वकारप्रश्लेषस्य तदुहारणे गव्यन्नाव्यमित्यत्र प्रयोजनन्नास्ति । तत्र भत्वेन पदत्वस्य बाधेन उक्तलोपस्याप्राप्ते । लव्यमित्यादौ स्वत एव पदत्वाभावाल्लोपस्याप्राप्ति । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्ति । ‘न क्ये' इति नियमेन तत्र पदत्वाभावात् । तथाऽपि गोर्युताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवञ्च वार्तिक एव तत्प्रश्लेष उचित । एतस्मादे वास्वरसात् छकाराद्वेत्युक्तम् । वस्तुतस्तु । वकारप्रश्लेषोऽनुपपन्न । तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात् । न च लोपोव्योरितिलोपात्तदश्रवणमिति वाच्यम् । वकारलोपस्य उदाहरणाभावाद्वकारग्रहणन्नकर्तव्यामिति लोपो व्योरिति सूत्रस्यभाष्यविरोधात् । अतोऽत्र प्रश्लिष्ट वकारस्य छान्दस एव लोपो वर्णनीय । प्रक्रियाप्रकाशे तु सज्ञापूर्वको विधिरनित्य इति वचनात् । गव्यूतिरित्यत्र न वकारलोप इत्युक्तम्। अन्येतु इको गुणवृद्धी इति सूत्रे अतो ल्रान्तस्येत्यत्र लुप्त निर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहु । ननु ओयते औयत इत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशस्यादित्याशङ्कय वान्तो यीति सूत्रन्नियमयति । धातोस्तन्निमत्तस्यैव ॥ एच इति, वान्तो यि प्रत्यय इति, चानुवर्तते । स यादिप्रत्यय निमित्त यस्य स नन्निमित्त । यादिप्रत्यये परे धातोरेवो भवन् वान्तादेश यादिप्रत्ययनिमित्तकस्यैव एचो भवति । नान्यस्येत्यर्थ. । तदाह । यादौ प्रत्यय इत्यादिना । लव्यमिति ॥ लूञ् ।

छेदने । अचेो यत्, सार्वधातुकार्द्धधातुकयोरित्यूकारस्य गुण ओकार . । तस्य धात्ववयवत्वात्
प्रकरणम्]
४७
बालमनोरमा


अवश्यलाव्यम् । “ तन्निमित्तस्यैव' इति किम् । ओयते । औयत ।

६५ । क्षय्यजय्यौ शक्यार्थे । (६-१-८१)

यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । * शक्यार्थे 'किम् । क्षेतुं जेतु योग्य क्षेय पाप जेयं मन ।


यादिप्रत्ययनिमित्तकत्वाच गन्तादेश । अवश्यलाव्यमिति ॥ ‘ओरावश्यक’ इति लो ण्यत् । अचोञ्णितीत्यूकारस्य वृ औकार । अवश्यमित्यव्ययम्। मयूरव्यसकादित्वात्समास । लुम्पेद वश्यम कृत्य’ इति मलेो । अत्र औकारस्य धात्ववयवत्वात् यादिप्रत्ययनिमित्तकत्वाच्च वान्ता देश । ननु लव्यमवयलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशस्सिद्ध । अतस्तन्निमित्त स्यैवेति नियमार्थमिद (सूत्रामिति स्थिति । तन्नियमविधे कि प्रयोजनमिति पृच्छति । तन्निमित्तस्यैवेति किमीति । नियमस्य कि प्रयोजनमित्यर्थ । ओयते इति ॥ वेञ् तन्तुसन्ताने कर्मणि ल । भावकर्मणोरित्यात्मनेपदम्। यक्। व चिस्वपियजादीनामिति वकारस्य सम्प्रसारणम् । उकार । पूर्वरूपम् । अकृत्सार्वधातुकयोरित्युकारस्य दीर्घ । आडा सह उकारस्य आद्गुण इति गुण ओगर । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाभा वात् न वान्तादेश । न्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पद द्वयापेक्षत्वेन बहिरङ्गता वान्तादेशे कर्तव्ये असिद्धत्वादोकाराभावान्नवान्तादेशप्रसक्तिरित्यस्वर सादाह । औयतेति। वेञ् केवलात् कर्मणि लड् । आत्मनेपदादि पूर्ववत् । आडजादीनामि त्याट्। आटश्चेति वृ औकार । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वा भावान्नवान्तादेश tात्र वृद्वेर्बहिरङ्गत्वम् । पदद्वयापेक्षत्वाभावात् । ‘सिद्धे सत्यारम्भो नियमार्थ’ इति न्यायेन नियमधिसिद्धे । तन्निमित्तस्यैवेत्येवकारस्तु विपरीतनियमव्यावृत्यर्थ । एवकाराभावे हि यादिप्रत्यानिमि कस्य चेदेचो वान्तादेश तर्हि धातोरेवैच इत्यपि नियम प्रतीयेत। तथा च बाभ्रव्य इत्यत्र वाप्रदेशेो न स्यात् । बभ्रोरपत्य बाभ्रव्य । मधुबभ्रोर्ब्राह्मणकौशिकयोरिति यञ् । ओर्गुण इत्युकारस् गुण ओकार । तस्य यादिप्रत्ययनिमित्तकस्य धात्ववयवत्वाभावात् वान्ता देशो न स्यात् । प’ इष्टनियमाववारणार्थ तन्निमित्तस्यैवेत्येवकार । क्षय्यजय्यौ शक्यार्थे ॥ शक्यार्थे क्षय्यजायब्दौ वाचकतया वर्तते इत्यर्थ । ननु किमपि कार्य विधेयमत्र न दृश्यते इत्यत आह । vति ॥ प्रातिस्विकविधिं विना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपा तनम् । ततश्नक्यार्थके यादौ प्रत्यये परे । क्षि क्षये जि जये इति धात्वोरेच. अय् इति यान्तादेशस्या विधानमत्र फलति । शक्यार्थे क्षिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादे वन्निपातनामलिाव । क्षय्यमिति ॥ कृत्या इत्यधिकारे क्षिधातोरचो यदिति यत् प्रत्यय स च‘शकि शि’ इति शक्यार्थ । शक्यार्थे लिङ् स्यात् चात् कृत्या इति तदर्थं । सार्वधातुकार्द्ध धातुकयोरिइिन्कारस्य गुण एकार । तस्याच्परकत्वाभावादप्राप्त अयादेश अत्र निपात्यते । जय्यमित्यार्विवत् । शक्यार्थे किमिति ॥ शक्यार्थ इत्यस्य केि प्रयोजनमिति प्रश्रम् ।

क्षेतुमित्याधेितु योग्य क्षेय पापम् । जेतु योग्य जेयम्मन इत्यन्वयः । अहें कृत्यतृचश्चेति यत्
४८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


६६। क्रय्यस्तदर्थे । (६-१-८२)

तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतार क्रीणीयुरिति बुद्धया आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थ

६७ । लोपः शाकल्यस्य । (८-३.१९

अवर्णपूर्वयो पदान्तयोर्यवयोर्वा लोपोऽशि परे “पूर्वत्रासिद्धम् । (सू १२) इति लोपशास्रस्यासिद्धत्वान्न स्वरसन्धि । हर हि-हरयेहि । विष्ण


स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थ क्रय्यस्तदर्थे ॥ 'दमपि यान्तादेशनिपात नार्थम् । तदर्थशब्द व्याचष्टे। तस्मा इति ॥ क्रयशब्दे य क्रीञ्तु यत्प्रत्ययप्रकृतिभूत तस्य योऽर्थ अभिधेय द्रव्यविनिमयरूप क्रय स प्रकृत्यर्थ तच्छदेन विवक्षित । तस्मै इद तदर्थं क्रयार्थं वस्तु । तथाच क्रयार्थे वस्तुनि गम्ये कीञ्धातोर्यादौ त्यये परे इति फलति । यान्त क्रीणस्तदर्थ इति विधौ गौरवान्निपातनमाश्रितम्। क्रियार्थत्वञ्चा । फलोपाधान विवक्षित

मित्याह। क्रेतार इत्यादि क्रय्यमित्यन्तम् ॥ योग्यतामात्रग्रहणे तु
प्रकरणम्]
४९
बालमनोरमा


इह-विष्णविह् । श्रियाउद्यत –श्रियायुद्यत । गुराउत्क -गुरावुत्क । '* कानि सन्ति' 'कौ स्त ’ इत्यत्रास्तेरल्लोपस्य स्थानिवद्भावेन यणावादेशौ प्राप्तौ *न पदान्त-' (सू ५१) इति सूत्रेण पदान्तविधौ तन्निषेधान्न स्त ।

६८ । एकः पूर्वपरयोः । ६-१-८४ ।

इयधिकृत्य

६९ । आद्गुणः ६-१-८७ ॥

अवर्णादचि परे पूर्वपरयोरेको गुण आदेश स्यात्संहितायाम् । उपेन्द्र । रमेश । गङ्गोदकम् ।


व्यवहिततया अच्परकत्वाभावादाशङ्कित अन्सन्धिर्नभवतीत्यर्थ । तदेवमिक्सन्धिरेच्सन्धिश्च निरूपित । तदुभयत्रातिप्रसङ्गमाशङ्कय समाधत्त । कानीत्यादिना । यद्यपि तथापीत्यध्द्याहा र्यम् । कानि सन्ति, कौ स्त, इत्यात्र यद्यपि यणावादेशौ प्राप्तौ । तथापि न भवत इत्यन्वय । नन्वत्र इकारौकारयोस्सकारपरकत्वादच्परकत्वाभावात् कय यणावो प्राप्तिरित्यत आह । अस्ते रल्लोपस्य स्थानिवद्भावेनेति ॥ असधातोरादादिकाल्लटि प्रथमपुरुषबहुवचने सन्तीति रूपम् । प्रथमपुरुषद्विवचने तु स्त इति रूपम् । उभयत्रापि ‘असोरल्लोप’ इति धात्वादेरकारस्य लोप इति स्थिति । तत्र अल्लोपस्य स्थानिवत्त्वेनाच्त्वादिकारौकारयोरच्परकत्वाद्यणावादेशौ प्रानुत इत्यर्थ । नच स्थानिवदादेशेऽनल्विवाविति स्थानिवद्भावोऽत्र न सम्भवति । अल्लोपस्य स्थानिभूतो य अकार त परनिमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविद्यो स्थान्यलाश्रयत्वा दिति वाच्यम् । “अच परस्मिन् पूर्वविधैौ' इति स्थानिवद्भावोपपत्ते । अल्लोपस्य किडिति परनिमित्ते विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानाभूतादकारात् पूर्वत्वेन दृष्टयोरिकारौ कारयोर्यणावादेशविवौ अच परस्मिन्निति प्रवृतैरिति भाव । तर्हि कुतोऽत्र यणावादेशौ न भवत इत्यत आह । नपदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति ॥ पदान्तभूते कारौकारयोस्स्थाने भवतोर्यणावादेशयो पदचरमावयवतया तयो कर्तव्ययो परनिमित्तकस्याजा देशस्याल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थ । अथ एकादेशसन्धि निरूपयितुमाह । एकः पूर्वप रयोः । इत्यधिकृत्येति । पदद्वयात्मकमिद सूत्रम् । उत्तरत्रानुवृत्यर्थ पठित्वा कतिपयस न्धय विधास्यन्त इत्यर्थे । आद्गुणः ॥ आदिति पञ्चमी नतु तपरकरणम् । एक पूर्वपरयोरित्य धिकृतम् । तदाह । अवर्णदचीत्यादिना । उपेन्द्र इति ॥ उप इन्द्र इति स्थिते पका रादकारस्य तस्मादिकारस्यचपूर्वपरयो कण्ठतालुस्थानकयो तथाविव एको गुण एकार । आन्त रतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्ता लक्षणा स्मारयितु दीर्घविषयोदाहरणमाह । रमेश इति ॥ रमा ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकार । गङ्गोदकमिति ॥ गङ्गा उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्ठस्थानकयो तथा

विध एको गुण ओकार । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र
५०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


७० । उरण्रपरः । (१-१-५१) ।

ऋ इति त्रिशत संज्ञा' इत्युक्तम्, तत्स्थाने योऽण् स रपर सन्नेव प्रवर्तते । तत्रान्तरतम्यात् *कृष्णर्द्धिं ' इत्यत्र अर् । * तवल्कारः' इत्यत्र अल् । अचो रहाभ्याम्--' (सू ५९) इति पक्षे द्वित्वम् ।

७१ । झरो झरेि सवर्णे । (८-४-६५) ।

हल परस्य झरो लोपो वा स्यात्सर्वो झरि । द्वित्वाभावे लोपे सत्येक धम् । असति लोपे, द्वित्वलोपयोर्वा, द्विधम् सति द्वित्वे लोपे चासति त्रिधम् ।


अकार ऋकारश्चेति द्वौ स्थानिनौ। तयेो अकार एकाटेर गोकारश्चेति त्रयोऽपि गुणा प्रसक्ता । अकारेण स्थानिना त्रयाणामपि कण्ठस्थानसाम्याविशेषतात्। ऋकारेण स्थानिना तु न कस्यापि स्थानसाम्यम्। तस्य मूर्धस्थानकत्वात् । एतेषाञ्च तदउभावत् । एव तव लृकार इति स्थिते त्रयो गुणा प्रसक्ता । अकारेण तेषा कण्ठस्थानसाम्याविशेषात् लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यम् । तत्र कतमो गुणो भवतीत्याकाक्षायामिदगरभ्यते । उरण्रपर. । इत्युक्त मिति ॥ अणुदित्सूत्र इति शेष । उ इति ऋ इत्यस्य षष्ठेकवचनम् । “षष्टी स्थाने' इति परि भाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थिरावपि स्थानेग्रहण ततोऽनुवर्तते । तदाह । तत्स्थाने योऽणिति ॥ स्थानेऽन्तरतम इत्यत:ऽपिस्थानेग्रहणमनुवर्तते । स्थान प्रस ङ्गइत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षित । तदाह ।, रपरस्सन्नेव प्रवर्तत इति । अत्र र इति प्रत्याहारो विवक्षितं । ततश्च रेफशिरस्को लदारशि स्कश्च प्रवर्तत इति लभ्यते । तयोर्व्यवस्था दर्शयति । तत्रेति ॥ रेफलकारशिरस्कयोऽर्मध्धे कृष्णर्द्धिरित्यत्र अर । तवल्कार इत्यत्र अलित्यन्वय । कुत इय व्यवस्थेत्यत आह । आन्त्र तयादिति ॥ त्रिषु गुणेषु प्रस ज्यमानेषु अकारस्य अणो रेफलकाराशिरस्कतया तस्य अर् अल् इत्येवमात्मकस्य, अकाराशे स्थानीभूतेन अकारेण, रेफाशे ऋकारेण, लकाराशे लृकारेण च, स्यानसाम्याद्कारऋकारयोस्स्थाने अरेव भवति । अकारलृकारयो स्थाने अलेव भवति । एकारौकौ तु गुणौ न भवत एव । तयोः ऋकारेण लृकारेण च स्थानसाम्याभावादित्यर्थ । नच एकार ओकारश्च कथरपरौ न स्याता मिति वाच्यम्। पूर्वेणैव णकारेण ह्यत्राण् गृह्यते । प्रशास्तृणामित्यदिनिर्देशादित्यलम् । पक्षे द्वित्वमिति ॥ ऋध धातो क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकार रूप स्वाभाविकम् । तत्र अरादेशे रेफात् परस्य धकारस्य अचो रहाभ्यामितेि कदाचिद्दित्वमित्यर्थ । झरो झरि सवर्णे ॥ झयो होऽन्यतरस्यामित्यत अन्यतरस्यामित्यनुवर्तते। हलो यमामित्यत हल इति, लोप इति, चानुवर्तते । तदाह । हलः परस्येत्यादिना ॥ तदिह रूपत्रय सम्पन्नमित्याह । द्वित्वाभाव इत्यादिना ॥ रेफात् परस्य ऋध् इति धात्वन्तस्य धकारस्य अचो रहाभ्यामिति द्वित्वाभावे सति झरो झरीतेि लोपे च सति एकधकार

रूपमित्यर्थः । असतीति ॥ द्वित्वाभावे इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाभावे
प्रकरणम्]
५९
बालमनोरमा


कृष्णर्धि-कृष्णद्वि.-कृष्णर्दद्धि । “यण इति पञ्चमी मय इति षष्ठी' इति पक्षे ककारस्य द्वित्वम्। लस्य तु “ अनचि च' (सू ४८) इति । तेन *तवल्कारः इत्यत्र रूपचतुष्टयम् ।

द्वित्व लस्यैव कस्यैव नोभयोरुभयोरपि ।

तवल्कारादिषु बुधैर्बोद्ध्यं रूपचतुष्टयम्

७२ । वृद्धिरेचि । (६१-८८ )

आदेचि परे वृद्धिरेकादेश स्यात् । गुणापवाद् । कृष्णैकत्वम् । गङ्गौघ । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।

७३ । एत्यधत्यवठ्सु । (६-१-८९) ।


लोपे च असति द्विधकार रूपम् । तथा तस्यैव ऋधेर्वकारस्य द्वित्वे लोपे च सतेि द्विवकारमेव रूपमित्यर्थ । सतीति ॥ तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकार रूपमित्यर्थ । यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्द्यमधकारस्य च 'झला ञ्जश् झशि'इति जश्त्वेन दकारो भवति। तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्व त्रिध त्वञ्चेति न दोष । अथ तवल्कार इत्यत्राह । यण इति ॥ यण परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्व लकारस्य तु अनचि चेति द्वित्वमित्यर्थ । तेनेति ॥ लकारककारयो र्द्वित्वविकल्पेनेत्यर्थ । द्वित्वं लस्यैवेति ॥ लकारस्य द्वित्वे ककारस्य द्वित्वाभावे च सति द्विलकारमेकककारञ्च प्रथम रूपमित्यर्थ । कस्यैवेति ॥ ककारस्य द्वित्वे लकारस्य द्वित्वाभावे द्विककारमेकलकारश्च द्वितीय रूपमित्यर्थ । नोभयोरिति ॥ लकारककारयोरुभयोरपि द्वित्वा भावे एकलकारमेकककार तृतीय रूपमित्यर्थ । उभयोरपीति ॥ लकारककारयोरुभयोरपि द्वित्वे द्विलकार द्विककारश्चतुर्थ रूपमित्यर्थ । तवल्वकारादिष्विति ॥ आदिना ममल्का रादिसङ्गह । वृद्धिरेचि ॥ आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । एक पूर्वपरयो रित्यधिकृतम् । तदाह । आदेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदा रम्भ इति भाव । कृष्णैकत्वमिति ॥ कृष्णस्य एकत्वमिति षष्ठीसमास । 'पूरणगुण' इति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्वद्यन्त पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेश । गङ्गा ओघ, इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकार । एव देवैश्वर्यम् । कृष्णौ त्कण्ठयमित्यत्रापि । वस्तुतस्तु सङ्खयादिशब्दा न गुणवचना इति तत्रैव वक्ष्याम । एत्येध त्यूठ्सु ॥ एतिश्च एधतिश्च ऊठ् चेति विग्रहः एतीति एधतीति च 'इक्श् तिपौ धातुनिर्देशे' इति श्तिपा निर्देश । इण् गताविति, एध वृद्धाविति च, धातू विवक्षितौ। एचीत्यनुवर्तते। ‘यस्मि न्विधि ' इति तदादिग्रहणम् । एजादाविति लभ्यते तच्च एत्येधत्योरेव विशेषणम् । न तु ।

ऊठ असम्भवात् । एकः पूर्वपरयोरित्यधिकृतम्। आद्रुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तदाह ।
५२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेश स्यात् । पररूपगुणा पवाद् । उपैति । उपैधते । प्रष्ठौह । ८ एजाद्यो' ' किम् । उपेत” । माभवान्प्रे


अवर्णादित्यादिना। उपैतीति ॥ इण् धातोर्लट् । तिप् शप् लुक् ‘सार्ववातुक’ इति इकारस्य गुण एकार । उप एतीति स्थिते अनेन वृद्धि । उपैधत इति । एधवातोर्लट् आत्मनेपद तादेश शप् 'टित आत्मनेपदानाम्' इत्येत्वम् । उप एधते इति स्थिते अनेन वृद्धि । प्रष्ठौह इति । प्रष्ठ वहतीति प्रष्ठवाट्। ‘वहश्च' इति ण्वि । ‘वेरपृक्तस्य’ इति वलोप । अत उपधाया इति वृद्धि । ततश्शसि वसोस्सम्प्रसारणमित्यतस्सम्प्रसारणमित्यनुवृत्तौ ‘वाह ऊट’ इति सम्प्रसारणसज्ञ कस्य ऊठस्सम्प्रसारणाचेति पूर्वरूपम् । प्रष्ठ ऊह् इति स्थिते अनेन वृद्धि औकार । नन्वत्र एत्येध तिग्रहण व्यर्थम्। उपैति उपैधत इत्यत्र वृद्धिरेचीत्यनेनैव वृद्धिसम्भवात् । ऊठ् ग्रहणमपि व्यर्थम् । वृद्धिरचीत्येव सिद्धे । वाह ऊठ् सूत्रे ऊठ ग्रहणानर्थक्यम् । सम्प्रसारणेन कृतत्वात् । गुणस्तु प्रत्ययलोपलक्षणत्वात् । एजग्रहणाद्वृद्धिरिति वार्तिककृता तथैवोक्तत्वात् । वाह ऊठ् ग्रहणन्नकर्त व्यम्। वाह इत्येव सूत्रमस्तु । भस्य वाहस्सम्प्रसारण स्यादिति सम्प्रसारणमेव विधीयताम् । ततश्च वकारय उकारे सम्प्रसारणे पूर्वरूपे सति उड् इति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ ओह इति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थ । तस्मादेत्येधत्यूठ्सु इति सूत्र व्यर्थमित्यत आह । पररूपगुणापवाद इति ॥ एयेधत्योरेडि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थ । यदि हि वाहस्सम्प्रसारणमेव विधीयेत न तु ऊठ्, तर्हि वस्य सम्प्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपवगुणो न भवति । तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसज्ञापेक्षसम्प्रसारणाश्रितपूर्वरूपस्य बहिरङ्गतया अत्र सिद्धत्वात् । तथाच गुणाभावे प्रष्ठ उ आहू इति स्थिते पूर्वरूपे प्रष्ठ उह इति स्थिते आद्गुण इति गुणे ओकारे प्रष्ठोह इति स्यात् । सम्प्रसारणसज्ञकस्य ऊठो विवौ तु प्रष्ठ ऊ आहू इति स्थिते पूर्वरूपे लघूपधगुणस्याप्रसक्ततया ओकारस्याभावादूकारस्यैव सत्वान् वृद्धिरेचीत्यस्याप्रसत्तेराद्गुण इति प्रासे एत्येधत्यूठस्विति वृद्धौ प्रष्ठौह इति सिध्द्यतीत्यूट्ग्रहणमावश्यकामिति वाह ऊठ् सूत्रे समु दाहृतवार्तिक भाष्ये दूषितमित्यास्तान्तावत् । उपेत इति ॥ इणुधातोर्लट् तस् शप् लुक् सार्वधातृकमपिदिति तस्य कित्त्वात् तस्मिन् परत इकारस्य न गुण । अत्र इण् धातोरेजादि त्वाभावात्तस्मिन् परतो न वृद्धि । माभवान्प्रेदिधदिति ॥ एवधातोर्णिच् । लुडतिप् नित्य डित’ इति इकारलोप । “णिश्रिदुस्रु-य' इति चड् । ‘णौ चडयुपधाया ह्रस्व'। ‘चडि’ इत्यजा देर्द्वितीयस्य धिशब्दस्य द्वित्वम् । अभ्यासे चचेंति जश्त्वम् । न माड्योग इत्याडभाव । भवच्छ ब्दयोगात् प्रथमपुरुष । तच्च तिडन्ताधिकारे स्पष्टीभविष्यति । । प्र इदिधदिति स्थिते एत्ये धतीति न वृद्धि । एधधातेोरेजादित्वाभावात् । तत्र एजादित्वविशेषणाभावे तु इहापि वृद्धि स्स्यात् । न च णौ चडीत्येकारस्य हृस्वेन इकारे सति नायमेधधातुरिति वाच्यम् । एकदेश विकृतस्यानन्यत्वात् । अत्र माड विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामि त्याडागमे आटश्चेति वृद्वौ प्र ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव । भवच्छब्दस्तु

चिन्त्यप्रयोजन । ननु आ इहेि आद्गुण एहि अव एहीति स्थिते एकादेशस्य गुणस्य
प्रकरणम्]
५३
बालमनोरमा


दिधत् । पुरस्तादपवाद्न्यायेनेय वृद्धि 'एङि पररूपम्’ (सू ७८) इत्यस्यैव बाधिका । न तु 'ओमाडोश्च (सू ८०) इत्यस्य । तेन * अवैहि' इति वृद्धिर साधुरेव । “ अक्षादूहिन्यामुपसंख्यानम्’ (वा ३६०४) । अक्षौहिणी सेना । स्वादीरेरिणो ' (वा ३६०६) । स्वैर । स्वेनेरितुं शीलमस्येति स्वैरी । स्वै


एकारस्य अन्तादिवचेति परादिवद्भावेन, आद्यन्तवदेकस्मिन्निति व्यपदेशिवद्भावेन च, इण् धातो रेजादित्वात्तस्मिन् परे एडि पररूपमिति पररूप बाधित्वा एत्येवत्यूठ्स्विति वृद्धो अवैहाति स्यात् । अवेहीति इष्ट न स्यात् । न च ओमाडोश्चेति पररूपेण तन्निर्वाहश्शङ्कय । एत्येवतीति वृद्धिर्हि यथा एडेि पररूपमित्यस्यापवाद तथा ओमाडित्यस्याप्यपवाद । येन नाप्राप्तिन्यायः साम्यात् इत्यत आह । पुरस्तादिति ॥ पुरस्तादपवादा अनन्तरान्विवीन् बावन्ते नोत्त रानिति न्याय । पूर्वपठिता अपवादा अव्यवहितानेवोत्तरान्विवीन् बाधन्ते न तु व्यवहिता नित्यर्थ । प्रकृते च एत्येधत्यूठ्सु इत्युत्तर कानि चित् सूत्राणि पठित्वा एडि पररूपामिति पठित्वा पुन कतिपयसूत्राणि पठित्वा ओमाडोश्चेति पठितम् । ततश्च उत्क्तन्यायेन एत्येवतीति वृद्या एडि पररूपमित्येव बाध्द्यते । नत्वोमाडोश्चेति पररूपमपीति भाव । वस्तुतस्तु एत्येधतीति वृद्धि ओमाडोश्च्त्यस्यापवाद एव न भवति । उपैति इत्यादौ अप्राप्तेऽपि तस्मिन् एत्येधतीति वृद्धेरारम्भात् । अत पुरस्तादपवादा इति न्यायस्य नाय विषय । ततश्च अव एहीत्यत्र एत्येव तीति बाधित्वा परत्वादोमाडोश्चेति पररूप न्याय्यमित्येव वक्तुमुचितम्। अतएव भाष्ये “नाप्राप्ते पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवाद । एडीति पररूपे तु प्राप्तचाप्राप्त च आरभ्यमाणा वृद्धिन्र्न तदपवाद ” इति स्पष्टमेवोक्तम् । यत्तु भाष्ये पक्षान्तरमुक्तम् । “अथवा पुरस्तादपवादा अनन्तरान्विधीन् बावन्त इत्येवमत्येधतीति वृद्धिरेडिपररूपमेव बाधते । नत्वो माडोश्चेति पररूपमपि” इति। ततु एत्येवतीतिवृद्धेरेडि पररूपमोमाडेोश्चेति सूत्रद्वयापवादत्वाभ्युप गमवादमात्रमाश्रित्य बाध्द्यसामान्यचिन्तामाश्रित्य वेत्यल बहुना। अक्षादूहिन्यामुपसङ्खया नम् ॥ आदिति, अचीति, वृद्धिरिति चानुवर्तते । एक पूर्वपरयोरिति च । ऊह वितकें । ऊहनमूह सोऽस्या अस्तीत्यूहिनी । अक्षशब्दादूहेनीशब्दे परे पूर्वपरयोरचो वृद्धिरेकादेशस्या दित्यर्थ । अक्षौहिणीति मत्वर्थीय इनि । नान्तत्वान्डीप् । अक्षाणामूहिनीति विग्रह । परिमाणविशे षविशिष्टा सेना अक्षौहिणी।‘पूर्वपदात्रसज्ञायाम्' इति णत्वम्। अक्ष ऊहिनीति स्थिते गुणे प्राप्त अने न वार्तिकेन वृद्धि । स्वादीरोरिणोः ॥ स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेका


अक्षौहिण्यस्सप्ततिरष्टशतान्येकविशतिसहस्रम् ।

द्विरदास्तथा रथा तत्त्रिपञ्चगुणकास्तुरङ्गनरा ।।

प्रक्रियाकौमुदीकारेण तु अक्षाणामूह समूह सोऽस्या अस्तीति विगृहीतम् । तदपि ऊहिनीशब्देन षष्ठीतत्पुरुष इत्येव परतयैव कथञ्चिन्नेयम् । ऊहशब्देन समासे तत इनौ तु वृद्धिर्न स्यात् । अन्तरङ्गेण गुणेन बाधात् । अपवादभूताया अपि वृद्धे ऊहिनीशब्देन विग्रहे चरितार्थ

त्वात् । अपवादोऽप्यन्यत्र चरितार्थश्रेत्परान्तरङ्गाभ्या बाध्द्यत इति न्यायात् ।
५४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


रिणी । “प्रादूहोढोढ्येषैष्येषु' (वा ३६०५) । प्रौह । प्रौढः । “अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्’ (प १५) । “ब्रश्च-' (सू २९४) इति सूत्रे राजे पृथ गभ्राजिग्रहणाज्ज्ञापकात् । तेनोढग्रहणेन त्क्तान्तमेव गृह्यते । न तु क्तवत्वन्तस्यै कदेश । प्रोढवान् । प्रौढि । “इष् इच्छायां तुदादि ,' ' इष् गतौ दिवादिः इष् आभीक्ष्ण्ये क्रयादि ,' एषा घञि ण्यति च * एष ' ' एष्य ' इति रूपे । तत्र पररूपे प्राप्त अनेन वृद्धि । प्रैष । प्रैष्य । यस्तु ईषु उञ्छे' यश्च *ईष् गतिहिसादर्शनेषु' तयोर्दीर्घपधत्वात् ईष , ईष्य । तत्राद्गुणे प्रेप । प्रेष्य ।

देशस्यादित्यर्थ । स्वैरइति ॥ ईर गतौ। भावे घञ् । स्वेन च्छन्देन ईर इति विग्रह। ‘कर्तृकरणे कृता बहुळम्’ इति समास । स्व ईर इति स्थिते गुणे प्राप्ति अनेन वार्तिकेन वृद्धि । स्वेनेरितुमि ति ॥ स्वेन छन्देन ईरितु सञ्चरितु शीलमस्येत्यर्थे सुग्यजाताविति णिनि स्वच्छन्दचारीत्यर्थ । उपपदसमास । स्व ईरिन् इति स्थिते गुणे प्राप्ते अनेन वृद्धि । प्रादूहोढोढ्येषैष्येषु । प्र इत्युपसर्गात् ऊह, ऊढ, ऊढि, एष, एष्य, एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशस्यादित्यर्थ । प्रौह इति ॥ ऊह वितकें । भावे घञ् । गतिसमास । प्र ऊह इति स्थिते अनेन वार्तिकेन वृद्धि प्रौढ इति ॥ वह प्रापणे त्क्त । वचिस्वपीति सम्प्रसारणम् । पूर्वरूपम् । हो ढ इति ढत्वम् । झषस्थथोरिति धत्वम् । ष्टुत्वम्। ढो टे लेाप । ढ्लोप इति दीर्घ । प्र ऊढ इति स्थिते गुणे प्राप्त अनेन वृद्धि । ननु प्रेोढवानित्यत्रापि वहधातो त्क्तवतुप्रल्यये ढत्वधत्वष्टुत्वढलोपदीर्धेषु प्र ऊढ वदिति स्थिते प्रादूहोढेति वृद्धिस्यात् । तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह । अर्थवदिति ॥ अर्थवतश्शब्दस्य ग्रहणसम्भवे अनर्थकस्य शब्दस्य ग्रहणन्नभवतीत्यर्थ । इय परि भाषा स्व रूपमित्यत्र रूपग्रहणात् सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम्। तेनेति ॥ अर्थवत एव ग्रहणनियमेनेत्यर्थ । क्तान्तमेवेति ॥ क्तप्रत्ययस्तावदर्थवान् । भावकर्मणोस्तद्विधानात् । वक्तवतुप्रत्ययस्तु कर्तरि विहित अतस्तदेकदेशस्य क्तस्यानर्थकत्वात् प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणन्न भवति । अतस्तस्मिन् परे वृद्धिर्न भवति । किन्तु गुण एवेत्यर्थ । प्रौढिरिति ॥ वह वातो क्तिन् । ढत्व वत्व ष्टुत्व ढलोप दीर्घ । प्र ऊढि इति स्थिते । गुण बाधित्वा अनेन वृद्धि । इषु इच्छायामित्यादि गणत्रयेऽपि ह्रस्वोपधा एव एते धातव । तेषामिति निर्धारणे षष्ठी । तेषाम्मध्ध्ये अन्यतमात् घञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एडि पररूप बाधित्वा अनेन वृद्धि । एतेन वृद्धिरेचीत्यनेन एषैष्यग्रहणयोर्गतार्थत्व निरस्तम् । नन्वेव सति प्रेष इति प्रेष्य इति च कथ प्रयोग इत्यत आह । यस्त्विति ॥ तयोदीर्घोपधत्वेन लघूपधगुणाभावे ईष ईष्य इति च सिध्ध्यति । तयोस्तु एतद्वार्तिके ग्रहणाभावात् । तयो परतो वृद्धद्यभावे आद्गुण इति गुणे प्रेष प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थ । एषशब्दसाहचर्यात् एष्यशब्दोऽपि कृदन्त एव गृह्यते । तेन तिङन्ने ल्यबन्ते च न वृद्धि । अग्नये प्रेष्य दूत प्रेष्य गत । ऋते च तृतीयासमासे ॥

तृतीयासमासे अकारात् ऋतशब्दे परे पूर्वपरयोरचोर्वृद्धि स्यादित्यर्थ । सुखेन ऋत इति
प्रकरणम्]
५५
बालमनोरमा


'ऋते च तृतीयासमासे' (वा० ३६०७) । सुखेन ऋत सुखार्त. । “तृतीया इति किम् । परमर्त प्रवत्सरकम्बलवसनदशार्णानामृणे (वा० ३६०८-९) प्रार्णम् । वत्सतरार्णमित्यादि । ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् दशार्णो देश । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौजले च।

७४ ॥ उपसर्गादृति धातौ । (६-१-११)

अवर्णान्तादुपसर्गादृृकारादौ धातैौ परे वृद्धिरेकादेश स्यात् । उपार्च्छंति प्रार्च्छति'

७५ । अन्तादिवञ्च । (६-१-८५)


विग्रहप्रदर्शनम् । ऋ गतौ, गत्यर्थाकर्मकेति कर्तरि क्त प्रकृत्यादित्वात् तृतीया । सुरसुपेति समास । सुख ऋत इति स्थिते गुणे प्राप्त अनेन वृद्धि आकार । रपरत्वे सुखार्त इति रूपम्। समासग्रहणस्य उदाहृतविग्रहवाक्यमेव प्रत्युदाहरण दर्शितप्रायमिति तृतीयेत्यशस्य प्रयोजन पृच्छति । तृतीयेति किमिति । परमर्त इति ॥ परमश्चासैौ ऋतश्चेति कर्मवारय । आद्रुण प्रवत्सतर ॥ पञ्चम्यर्थे षष्ठी । प्र, वत्सतर, कम्बळ, वसन, दश, ऋण, एतेषा ऋणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशस्यादित्यर्थ । प्रार्णमिति ॥ प्रगतमृणमिति विग्रहे, प्रादयो गताद्यर्थे प्रथमयेति गतिसमास प्र ऋण इति स्थिते गुण बाधित्वा अनेन वार्तिकेन वृद्धि आकार । रपरत्वम् । वत्सतर शिशुवत्स , तस्य ऋणमिति विग्रह । वत्सतरमधिकृत्य वा तद्वहणार्थ वा यदृण गृह्यते तत् वत्सतरार्णम्। एवमग्रेपि द्रष्टव्यम् । आदिशब्देन कम्बळार्ण वसनार्ण दशार्ण ऋणार्णमिति च गृह्यते । सर्वत्र षष्ठीसमास ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह । ऋणस्येति ॥ देशनदीविशेषयो कथ दशार्णशब्दप्रवृत्तिरित्यत आह। ऋण शब्द इति ॥ तथाच दश ऋणानि दुर्गभूमय यस्मिन् देशे स दशार्ण देशविशेष । दशविधानि ऋणानि जलानि यस्या नद्या सा दशार्णेति विग्रह । उपसर्गादृति ॥ आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गविशेषणम् । अतस्तदन्तविधि अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधि । ऋकारादाविति लभ्यते वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते । एक पूर्वपरयोरित्यधिकृतम् । तदाह । अवर्णान्तादि त्यादिना । एकादेश इति ॥ पूर्वपरयोरचोरिति शेष । अन्यथा उपसर्गस्य वातोश्च सर्वाः देशस्यात् । उपार्च्छति । प्रार्च्छतीति ॥ उप ऋच्छति प्र ऋच्छति इति स्थिते गुणे प्राप्ते अनेन वृद्धि रपरत्वम् । अथ तस्य रेपस्य पदान्ते विहित विसर्गमाशङ्कितु तस्य पदान्तत्वसा धनायाह । अन्तादिवञ्च ॥ एक पूर्वपरयोरिति सूत्रमनुवर्तते । यथासख्यपरिभाषया आद्य न्तवादित्यस्य क्रमेणान्वय । ततश्च पूर्वपरयोर्भवन् एक आदेश पूर्वस्यान्तवत् परस्यादिबदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णौं स्थानिनौ । पूर्व परश्च । तयोश्च वर्णयो प्रत्येकमेकत्वा

दखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्वकथनमसङ्गतम् । तथापि पूर्वपरवर्णयोर्भवन्नेकादेश
३८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


योऽयमेकादेश स पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वं ।

७६ । खरवसानयोर्विसर्जनीयः । (८-३-१५)

खरि अवसाने च परे रेफस्य विसर्जनीय स्यात्पदान्ते। इति विसर्गे प्राप्त । अन्तवद्भावेन पदान्तरेफस्य न विसर्ग । “उभयथर्क्षु' (सू ३६३०), * कर्तरि


प्रथमस्थानिघटितसमुदायस्य पूर्वस्य य अन्त प्रथमस्थानी तत्कार्यकारी भवति । द्विती यस्थानिघटितसमुदायस्य उत्तरस्य य आदि द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षित । तत्र पूर्वान्तवत्वे यथा । क्षीरपेण । क्षीरप इन इति स्थिते आद्गुण इत्येकादेश एकार । तत्र पूर्वान्तवत्वेन प इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदे ण इति णत्व भवति । अत्र एकादेशे स्थानिवत्सूत्रन्तु न प्रवर्तते । एकादेशस्थानीभूत पकाराद्कारमालम्ब्य पे इत्यस्य एकाजुत्तर पदत्वाश्रयेण प्रवर्तमानस्य णत्वस्य स्थन्यलाश्रयत्वात् । यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्व विधिराश्रयति । पकारादकार स्थान्यलन्तु तद्विशेषणीभूताच्त्वेनाश्रयति । तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव । यथाकथञ्चित् स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यथा प्रति दीव्येत्यत्र क्तादशे त्यप स्थानिगतवलाद्यार्द्धधातुकत्वेनाश्रित्य इडागमे कर्तव्ये अनाल्विधाविति निषे धानुपपत्ते । तत्र वल प्राधान्येनाश्रयणाभावात् । एतेन स्थानिवत्सूत्रेण गतार्थमिद सूत्रमिति निरस्तम् । परादिवत्त्वे यथा । खट्वा । अत्र खट्वशब्दादजाद्यतष्टाप् । सवर्णदीर्घ आकार । तस्य परादिवत्त्वेन टाप्त्वात्तत परस्य सोहल्डयादिलोप । इदमपि स्थानिवद्भावेन अनिर्वाह्यम्। हल्डयादि लोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । नचैव सति यजेर्लडि उत्तमपुरुषैकव चने इटि शपि आद्गुणे अडागमे अयज इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्वेन इकारत्वा त्तत्र इकारे परे सवर्णदीर्घस्यादिति वाच्यम्। इह हेि अल्समुदायधर्मा एव प्रातिपदिकत्वसुबन्तत्व प्रत्ययत्वादय अतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वहूस्वत्वादय । उक्तञ्च भाष्ये। न वा अताद्रू प्यातिदेशादिति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवञ्जातीयकेषु सवर्णदीर्घा दिकन्नभवतीत्यर्थ । इत्यलमतिविस्तरेण । इति रेफस्येति ॥ उपार्च्र्छतीत्यत्र आर् इत्येकादे शस्य पूर्वान्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्त इत्युत्तरेणान्वय । कय विसर्गप्राप्तिरित्यत आह । खरवसानयोः ॥ रोरीत्यत र इति षष्ठयन्तमनुवर्तते। तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने व परत रेफान्तस्य पदस्य विसर्जनीयस्या दित्यर्थ । अलोन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावसानस्य बुद्धिकृत परत्वम्। फलित माह । खरि अवसाने चेति । पदान्तइति ॥ विद्यमानस्येति शेष । यदि तु अन्त्यवर्णस्य अवसानसज्ञा तदा अवसान इत्यत्र योजना विरामोऽवसानामित्यत्रोक्ता । इति विसर्ग इति ॥ उपार्च्र्छतीत्यादौ अनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः। अन्तवदिति ॥ अन्तवत्त्वेन पदान्तत्व प्राप्तस्य रेफस्य विसर्गे न भवतीत्यर्थः । कुत

इत्यत आह । उभयधर्स्विति ॥ अन्यथा तत्रापि विसर्गनिर्देशस्यादिति भाव । नन्वत्र
प्रकरणम्]
५७
बालमनोरमा


चर्षिदेवतयो ' (सू ३१६७) इत्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धातौ' इति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन *ऋत्यक ' (सू ९२) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ।

७७ । वा सुप्यापिशलेः । (६-१-९२)

अवर्णान्तादुपसर्गदृकारादौ सुब्धातौ परे वृद्धिरकोदशो वा स्यात् । आपिश लिग्रहणं पूजार्थम् । प्रार्षभीयति-प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम्। उपा ल्कारीयति-उपल्कारीयति । तपरत्वाद्दीर्धे न । उप ऋकारीयति-उपर्कारीयति ।


वाताविति व्यर्थम् । उपसर्गग्रहणादेव वातावित्यस्य सिद्धे । ि क्रियायोगे सत्येव उपसर्गसज्ञा विधानात् । नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवत्यर्थमिह धातुग्रहणमिति वाच्यम् । यत्क्रियायुक्ता प्रादय त प्रत्येव गत्युपसर्गः सज्ञा इति परिभाषया गम्यमानगमनक्रिया प्रत्येव उपसर्गत्वात् । प्रकृते च ऋकारादिनिमि त्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशक्याह । उपसर्गेणैवेत्यादिना ॥ उपसर्गग्रहणेनैव वातो आक्षेपे अन्यथानुपपत्तिरूपार्थापत्तितो लाभे सति पुन वाताविति वचन पुनर्विवानार्थ मित्यन्वय । कथ पुनर्विधानलाभ इत्यत आह । योगविभागेनेति । योगशब्दस्सूत्रशब्द पर्याय । उपसर्गादृतीति, धाताविति च, सूत्र विभज्यते । तत्र उपसर्गादृतीति पूर्वसूत्रे धातावि त्यर्थाल्लभ्यमादाय उक्तार्थलाभ । धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्तते । तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्र सम्पद्यत इति पुनर्विधानलाभ इत्यर्थ । किमर्थमिद पुनर्विधानमित्यत आह । तेनेति । पुनर्विधानेनेत्यर्थ । नभवतीति ॥ परोऽपि प्रकृतिभाव पुनर्विधानसाम र्थ्यात् बाध्द्यत इत्यर्थ । वा सुपि ॥ उपसर्गादृति धाताविति पूर्वसूत्रमनुवर्तते । आद्गुण इत्यत वृद्धिरेचीत्यतश्च आदिति वृद्धिरिति चानुवर्तते । आदित्यनेन उपसर्गादिति विशेष्यत इति तदन्तविधि । प्रत्ययग्रहणपरिभाषया सुप्शब्देन सुबन्तप्रकृतिको धातुर्विवक्षित । एक पूर्वपरयोरिति चाविकृतम् । तदाह । अवर्णान्तादित्यादिना । सुब्धाताविति ॥ सुबन्त प्रकृतिकवातौ परत इत्यर्थे । सुबन्तस्य धातोरसम्भवात् । एकादेश इति ॥ पूर्वपरयोरचोरिति शेष । यद्यपि ऋच्छ गतावित्यादीना किपि धातुत्व सुबन्तत्वञ्च सम्भवति। तथापि तुल्यास्यसूत्रभाष्ये उपार्कारीयतीत्यादेरेतदुदाहरणत्वेन भाष्ये उक्तत्वात् । सुबन्तप्रकृतिके इत्येव व्याख्यानमुचितम् । ननु वाग्रहणादेव सिद्धे आपिशलिग्रहण व्यर्थमित्यत आह । आपिशलिग्रहणमिति । आपिशलेराचार्यस्याप्ययमर्थ सम्मत इत्यादरलाभार्थमित्यर्थ । प्रार्षभीयतीति ॥ ऋषभ मात्मन इच्छतीत्यर्थे सुप आत्मन क्यच्'सनाद्यन्ता’ इति धातुत्वम् । ‘सुपो धातुप्रातिपदिकयो इति सुपो लुक् 'क्यचि च' इति ईत्वम्, लट्, तिप्, शप् , पररूपम्। प्र ऋषभीयति इति स्थिते अनेन वृध्धि आकार रपरत्वम् । प्रर्षभीयतीति ।। वृध्ध्यभावपक्षे आद्गुण रपरत्वम् ।साव र्ण्यादिति ॥ ऋ ल वर्णयोरिति सावर्ण्यादृतीत्यनेन लृतोऽपि ग्रहणमित्यर्थ । उपाल्वकारीय

तीति ॥ लृकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । लपरत्व विशेष. । उपल्कारीयतीति ॥
५८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


७८ । एङि पररूपम् । (६-१-९४)

अवर्णान्तादुपसर्गादेडादौ धातौ परे पररूपमेकादेशस्स्यात्। प्रेजते । उपोषति। इह * वा सुपि' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनैडादौ सुब्धातौ वा । उपेडकीयति-उपैडकीयति।प्रोघीयति-प्रौधीयति । एवे चानियोगे' (वा ३६३१) नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवकलृत्प्रावेवशब्द । * आनियोगे

किम् । तवैव । ७९ । अचोऽन्त्यादि टेि । (१-१-६४)


वृध्द्यभावपक्षे गुण लपरत्वम् । तपरत्वादिति ॥ ऋतीति तपरकरणेन तत्कालस्यैव ग्रह्णात्। दीर्घऋकारे परे वृद्धिविकल्पोऽयन्नभवति । किन्तु गुण । ऋकारीयतीति ॥ ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्वद्यभावादत्र गुण एव । एङि पररूपम् ॥ उपसर्गादिति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधि । यस्मिन् विधिरिति परिभाषया तदादिग्रहणम् । एक पूर्वपरयोरिति चाधिकृतम् । तदाह । अवर्णान्तादित्यादिना । एकादेश इति । पूर्वपरयोरिति शेष । प्रेजत इति ॥ एजू दीप्तौ । प्र एजते इति स्थिते वृद्धिरेचीति वृद्धि बाधित्वा अनेन पररूपम् एकार । एजृ कम्पन इति तु परस्मैपदी । उपोषतीति ॥ उष दाहे, लट्, तिप्, शप् , लघूपधगुण । उप ओषतीति स्थिते वृद्धिं बाधित्वा अनेन ओकार । ननु एडको मेष, तमात्मन इच्छति एडकी यति, उप एडकीयतीति स्थिते अनेन नित्यमेव पररूप स्यात् । इष्यते तु वृद्धिरपि उपेडकीयति उपैडकीयतीति । तत्राह । इहेति ॥ एडि पररूपमित्यत्र वा सुपीत्यनुवर्तते । तच्च नैकवाक्यतया सम्बद्धद्यते । तया सति, अवर्णान्तादुपसर्गादेडादौ सुब्धातौ परे पररूपमेकादेशस्यादित्येवार्थ स्स्यात् । एव सति प्रेजते उपोषतीत्यत्र नित्य पररूप न स्यात् । अतो वाक्यभेदेन व्याख्येयम् । एडि पररूपमिति प्रथम वाक्यम् । अवर्णान्तादुपसर्गादेडादौ धातौ परे पररूपमेकादेशस्या दिति तदर्थे । वा सुपीति द्वितीय वाक्यम् । तत्र एडि पररूपमित्यनुवर्तते । धातौ उप सर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातौ परे पररूप वा स्यादिति लभ्यते । तदाह । तेनेति ॥ उत्क्तरीत्या वाक्यभेदाश्रयणेन एडादौ सुब्धातौ पररूप पाक्षिक भवति तदितरधातौ तु नित्यमित्यर्थ । एवे चानियोगे ॥ नियोगशब्द व्याचष्टे नियोगोऽवधारणामिति । अवधारण मन्ययोगव्यवच्छेद । तदन्यस्मिन्नर्थे य एवशब्द तस्मिन्नकारात् परे पूर्वपरयो पररूपमेका देशस्स्यादित्यर्थ । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थ । क्व एव इति स्थिते वृद्धिं बाधित्वा अनेन वार्तिकेन पररूपमेकार । अनवक्लृप्ताविति ॥ अनवधारणमित्यर्थं । तवैवेति ॥ नान्यस्येत्यर्थ । अत्र एवशब्दस्य अवधारणार्थत्वात् न तस्मिन् परे पररूपम् । अथ कवित् टेः पररूप विधातु टिसज्ञामाह । अचोऽन्त्यादि टेि ॥ अच इति निर्द्धारणे षष्ठी ।

जातावेकवचनम् । अन्ते भव अन्त्य. अचाम्मध्ध्ये अन्त्य आदि यस्य तत् अन्त्यादीति विग्रह ।
प्रकरणम्]
५९
बालमनोरमा

अचां मध्ये योऽन्त्य स आदिर्यस्य तट्टिसंज्ञ स्यात् । * शकन्ध्वादिषु पररूप वाच्यम्’ (वा ३६३२)। तच्च टे । शकन्धु । कर्कन्धु । कुलटा । “सी मन्त केशवेशे' (वा ३६३३) । सीमान्तोऽन्य । मनीषा । हलीषा । लाङ्ग लीषा । पतञ्जलि । “सारङ्ग पशुपक्षिणो '(ग १३६) । साराङ्गोऽन्य । आकृ तिगणोऽयम् । मार्तण्ड । “ओत्वोष्ठयोः समासे वा' (वा ३६३४) । स्थूलोतु स्थूलौतु । बिम्बोष्ट-बिम्बौष्ठ । “ समासे' किम् । तवौष्ठ ।


फलितमाह । अचाम्मध्द्य इत्यादिना । शकन्ध्वादिष्विति ॥ शकन्ध्वादिषु विषये तत्सिध्द्यर्थ पूर्वपरयो पररूप वक्तव्यमित्यर्थ । ततश्च शकादिशब्दाना टेरचि परे टेश्च परस्याच स्स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते । आदित्यनुवृत्तौ शकन्वादिगणे सीमन्त इत्यादि कति पयरूपाणामसिद्धे । तदाह । तञ्च टेरिति ॥ शकन्ध्वादिगण पठति । शकन्धुरित्यादिना ॥ शकानान्देशविशेषाणा अन्धु कूप इति विग्रह । शक अन्धु इति स्थिते सवर्णदीर्घे प्राप्ते अनेन पररूपम् । अत्र शकशब्दे द्वावचौ । तत्र अन्त्य अच् ककारादकार, तदादि अकार एव । ‘आद्यन्तवदेकस्मिन्’ इति वचनात्। एवमग्रेऽपि द्रष्टव्यम् । कर्कन्धुरिति । कर्काणा राज्ञा अन्धुरिति विग्रह । कर्क अन्धु इति स्थिते पररूपम्। कुलटेति ॥ अट गतौ । पचाद्यच् । टाप्। कुलाना अटेति विग्रह । भिक्षार्थ व्यभिचारार्थ वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कमर्ण्यणि टिड्ढाणनिति डीप् स्यात् । कुल अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति ॥ गणान्तर्गतवार्तिकमेतत् । केशाना वेशस्सन्निवेशविशेष तस्मिन् गम्ये सीमन्शब्दस्य टेरन् इत्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थं । आदित्यनुवृत्तौ तु इदन्न सिध्द्येत् । सीमान्तोऽन्य इति ॥ ग्रामान्तप्रदेश इत्यर्थ । मनीषेति । मनस ईषेति विग्रह । अत्र अस् इति टे ईकारस्य स्थाने पररूपमीकार । ईष गतौ। ‘गुरोश्च हल’ इत्यप्रत्यय । टाप् प्रत्यय । “बुद्धिर्मनीषेत्यमर ' । हलीषेति ॥ “ईषा लाङ्गलदण्डस्यादित्यमर ' । हलस्य ईषेति विग्रह् । करिकळभ इतिवत् पुनरुक्तिस्समाधेया । अत्र गुणे प्राप्ते पररूपम् । एव लाङ्गलीषेत्यत्रापि । पतञ्जलिरिति ॥ पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रह । अत्र अत् इति टे अकारस्य च स्थाने पररूपमकार । केचित्तु, गोनर्दाख्यदेशे कस्यचिदृषे स्सन्ध्योपासनसमये अञ्जलेर्निर्गत इत्यैतिह्यात् अञ्जले पतान्निति विगृह्णान्ति । मयूरव्यसकादि त्वात् समास । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गत वार्तिकम् । भाष्ये तु न दृश्यते । सारशब्द उत्कृष्ट “सारो बले स्थिराशे च न्याय्ये क्लीबेऽम्बरे त्रिष्वित्यमर ' । साराणि अङ्गानि यस्येति विग्रह । सार अङ्ग इति स्थिते सवर्णदीर्घे प्राप्ते अनेन पररूपम् । “चातके हरिणे पुसि सारङ्गश्शवळे त्रिष्वित्यमर ” । आकृतिगणोऽयमिति ॥ आकृत्या एवञ्जातीय कतया निर्णेतव्योऽय गण इत्यर्थ । लोकप्रयोगानुसारेण एवञ्जातीयकाश्शब्दा अस्मिन् गणे

निवेशनीया इति यावत् । तत्फलमाह । मार्तण्ड इति ॥ मृत अण्ड यस्य स मृतण्ड कश्चि
६०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता

८० । ओोमाङोश्च । (६-१-९५)

ओमि आडि च आत्परे पररूपमेकादेश स्यात् । शिवायो नम । शिव एहि-शिवेहि

८१ । अव्यक्तानुकरणस्यात इतौ । (६-१-९८)

ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेश. स्यात् । पटत् इति पटिति । * एकाचो न' (वा ३६३७) श्रदिति ।

८२ । नात्म्रेडितस्यान्त्यस्य तु वा । (६-१-९९)


दृषि । मृत अण्ड इति स्थिते सवर्णदीर्घ बाधित्वा अनेन पररूपम् । तत अपत्ये आणि मार्त ण्ड “परामार्ताण्डमास्यत्” इति सवर्णदीर्घस्तु च्छान्दस । ओत्वोष्ठयोः ॥ अवर्णात् ओतुशब्दे ओष्ठशब्दे च परे पूर्वपरयोरचो पररूप वक्तव्यमित्यर्थ । स्थूलोतुरिति । “ओतुर्बिडालो मार्जार इत्यमर ” स्थूल ओतु इति स्थिते वृद्धि बाधित्वा पाक्षिक पररूपम् । बिम्बोष्ट इति ॥ बिम्बफलवत् रक्तवर्णौ। ओष्ठौ यस्येति विग्रह । ओमाङोश्च ॥ ओ च आङ्चेति विग्रह । आदिति पररूपामिति चानुवर्तते, एक पूर्वपरयोरिति च । तदाह । ओमीत्यादिना । शिवा योन्नम इति । अत्र वृद्धि बाधित्वा पररूपम् । शिवेहीति ॥ आ इहीति स्थिते गुणे एहीति रूपम् । तत शिव एहि इति स्थिते वृद्धि वाधित्वा पररूपमेकार । नच शिव आ इहाति स्थिते सवर्णदीर्घे कृते पश्चादुणे शिवेहीति रूपसिद्धेराङ्ग्रहण व्यर्थमिति वाच्यम् । “ धातूपसर्गयो कार्यमन्तरङ्गम्’ इति न्यायेन प्रथम आद्गुण इति कृते शिव एहीति स्थिते वृद्धौ प्राप्ताया तन्नि वृत्यर्थत्वात् । भाष्ये तु, आ ऋश्यात्,गुण अर्श्यान्, अद्य अर्श्यात् अद्यर्श्यादित्यत्र सवर्णदीर्घनिवृ त्यर्थ आड्ग्रहणमिति स्थितम् । अव्यक्तानुकरणस्य ॥ पररूपमित्यनुवर्तते । अव्यक्त अस्फु टवर्णविभाग वृक्षपतनादिजनितध्वनि । तस्यानुकरण तत्प्रतिपादकस्तत्सदृश अपरिस्फुटवर्णवि भागश्शब्द तस्यावयव य अत्शब्द तस्मात् इतिशब्दे परे अतूशब्दस्य इकारस्य च स्थाने पररूप स्यादित्यर्थ । अत्र इतिशब्दे य प्रशम इकार तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्न्नादेशप्रसङ्गात् । तदाह । ध्वनेरित्यादिना ॥ अत्र अलोऽन्त्यस्येति न भवति । “नानर्थकेऽलोऽन्त्यविधि ' इति निषेधात् । पटत इतीति प्रक्रियावाक्यप्र दर्शनम् ।. न तु पररूपाभावपक्षे रूपमिति भ्रमितव्य । अत्र पररूपस्य नित्यत्वात् । असहिताया निर्देशो वा । पटितीति । उदाहरणमेतत् । वृक्ष पतित इत्याद्यद्याहार्यम् । अत्र अनेकाज्ग्रहण कर्तव्यमिति वार्तिकमर्यतस्सङ्गृह्णाति । एकाचो नेति । एक अच् यस्य स एकाच् तथाभूतस्यानुकरणस्य उक्त पररूप नेत्यर्थ। श्रदितीति । अत्र एकाच्त्वात् न पर रूपम् । ननु पटत् पटत इत्यत्र पटत्पटेति रूपमिध्यते । तत्राव्यक्तानुकरणस्येति पररूपे पटत् पटिति इत्येव स्यात् । तत्राह । नाम्रेडितस्य ॥ अव्यक्तानुकरणस्यात इताविति पररूप

मिति एक पूर्वपरयोरिति चानुवर्तते । आम्रेडितस्य अव्यक्तानुकरणस्य अवयव य अत्शब्द
'
'६१
बालमनोरमा

प्रकरणम्]


आम्रेडितस्य प्रागुक्त न स्यात् । अन्त्यस्य तु तकारमात्रस्य वा स्यात् । डाचि बहुलं द्वे भवत ' (वा ४६९७) । इति बहुलग्रहणात् द्वित्वम् ।

८३ । तस्य परमाम्रेडितम् । (८-१-२

द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञ स्यात् । पटत्पटेति ।

८४ । झलां जशेऽन्ते । (८-२-३९)

पदान्ते झलां जश स्यु । पटत्पटदिति ।

८५ । अकः सवर्णे दीर्घः । (६-१-१०१)


अक सवर्णेऽचि परे दीर्घ एकादेश स्यात् । दैत्यारि । श्रीश । विष्णू दय । * अचि' किम् । कुमारी शेते । 'नाज्झलौ' (सू १३) इति सावर्ण्यनि तस्य इतिशब्दे परे पररूप न स्यात् । अन्त्यस्य तु वा। तुरवधारणे । अत्शब्दान्त्यस्य तकार स्यैव इकारस्य च पररूप वा स्यात् । नत्वकारस्यापीत्यर्थ । तदाह । आम्रडितस्य प्रागुक्त मित्यादिना ॥ ननु पटत् पटत् इत्यत्र कथ द्वित्वमित्यत आह । डाचीति । “डाचि बहुळ द्वे भवत' इति द्वित्वमित्यन्वय । ननु “अव्यक्तानुकरणात् द्वयजवराद्धदनितौ डाच्’ इति डाच कथमिह सम्भव । इति शब्दे परतस्तत्पर्युदासस्स्यादित्यत आह । बहुळग्रहणादिति ॥ चेत्यनुक्का बहुळग्रहणमधिकविधानार्थम् । बहूनर्यान् लाति गृह्णातीति तद्वयुत्पत्तेरिति भाव । अभियुक्ताश्चाहु “क्वचित् प्रवृत्ति क्वचिदप्रवृत्ति कचिद्विभाषा कचिदन्यदेव । शिष्टप्रयोगाननु सृत्य लोके विज्ञेयमेतत् बहुळग्रहे तु ” इति । ननु किमाम्रेडितन्नाम । तत्राह । तस्यपरमा म्रेडितम् ॥ सर्वस्य द्वे इत्यनन्तरमिद सूत्र पठ्यते । ततश्च तस्येत्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात् षष्ठी । तदाह । द्विरुक्तस्येत्यादिना। पटत्पटे तीति । पटत् पटत् इति इति स्थिते तकारस्य इकारस्य च पररूप इकार । ततश्च आद्गुण । अथपररूपाभावपक्षे पटत् पटत् इतीत्यत्र तकारस्य दकार विधत्ते । झलाञ्जऽशोऽन्ते ॥ पदस्येत्यधिकृतम् । तदाह । पदान्त इति । पटत् पटदितीति ॥ स्थानसाम्यात् तकार स्य दकारो जशिति भाव । अत्र अत्शब्दस्य पररूपनिषेधाभावे तकारमात्रस्य पररूपैकादेश विकल्पविधौ तस्य पररूपाभावपक्षे अत्शब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् । अकस्सवर्णे ॥ अक इति पञ्चमी । इको यणचीत्यत अचत्यनुवर्तते । एक पूर्व परयोरित्यधिकृतम् । तदाह । अकस्सवर्णेऽचीत्यादिना । दैत्यारिरिति ॥ दैत्य अरि इति स्थिते द्वयोरकारयोरेको दीर्घ आकार, स्थानसाम्यात् । श्री ईश इति स्थिते ईकारयोः रेक ईकार । विष्णु उदय इति स्थिते उकारयोरूकार । अत्राचीत्यनुवृत्ते किं प्रयो जनमिति पृच्छति । आचि किमिति । कुमारी शेत इति ॥ अचीत्यननुवृत्तौ ईका

रस्य शकारस्य च तालुस्थानविवृतप्रयत्न्नसाम्येन सवर्णतया तयोदीर्घ. ईकार एकादेशस्स्यात् ।
६२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


षेधस्तु न दीर्घशकारयो । ग्रहणकशास्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनि ष्पत्ते । “ अक किम् । हरये । “ अकोऽकि दीर्घ ' इत्येव सुवचम् । * ऋति सवर्णे ऋर वा' (वा ३६४०) । होतृकार-होतृकार [होतृ ऋकार होतृ३कार ] ‘लति सवर्णे लृ त्वा' (वा ३६४१) होत्लृकार [—होतृ लृकार होत्लृ३कार] पक्षे


तन्निवृत्यर्थमचीत्यनुवर्तनीयमिति भाव । ननु ईकारशकारयो स्थानप्रयत्न्नसाम्येऽपि न सावर्ण्यम् । नाज्झलाविति निषेधात् । अत कुमारी शेत इत्यत्र अकस्मवर्ण इत्यस्याप्रसत्ते अची त्यनुवृत्तिव्यैवेत्यत आह । नाज्झलावितीति ॥ नाज्झलाविति सावण्यैनिषेवेो वार्णसमा स्रायिकानामेव । नतु दीर्घालुतानामपि । आदिरन्त्येन सहेतेत्यनेन वार्णसमान्नायिकानामेव अच शब्दवाच्यत्वावगमात् । अत ईकारशकारयोस्सावर्ण्येसत्वात् कुमारी शेत इत्यत्रातिप्रसङ्गरस्या दित्यचीत्यनुवृत्तिरावश्यकीत्यर्थं । ननुवार्णसमान्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच् शब्दोप स्थितै अकारादिभि ह्रस्वदीर्घप्लुतानामपि ग्रहण भवति । अणुदित्सूत्रबलात्। अत ईकारशकार योर्न सावर्ण्यप्रसक्तिरित्यजनुवतिव्यैवेत्यत आह । ग्रहणकेति ॥ अणुदित्सवर्णस्येति ग्रहणकसूत्र हि लब्ध्वात्मकमेव सत् “अस्य च्वौ, इत्यादौ प्रवृतिमर्हति । नाज्झलाविति प्रवृत्तिदशायाञ्च ग्रहणकशास्रमिद न लब्धात्मकम् । तद्धि सवर्णपदघटितत्वात् सवर्णपदार्थावगमोत्तरमेव लब्धा त्मकम् । सवर्णसज्ञाविधायकच्च तुत्यास्यसूत्र सामान्यतस्खार्थ बोधयदपि नाज्झलाविति अप वादविषय परिहृत्य तदन्यत्रैव पर्यवसान लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तञ्च ‘प्रकल्यापवाद विषयमुत्सर्गेऽभिनिविशत’ इति । एवञ्च अणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्य सूत्रप्रवृत्ते प्रागलब्धात्मकतया नाज्झलावित्यत्र अज्ग्रहणेन दीर्घप्लुताना ग्रहणाभावेन ईकार शकारयोस्सावर्ण्यनिषेवाभावेन सावर्ण्यसत्वात् कुमारी शेत इत्यत्र अकस्सवर्ण इति प्राप्तौ तन्निवृत्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थ । तदेतत् नाज्झलाविति सावर्ण्यनिषेधो यद्यपीति ग्रन्थव्या ख्यावसरे प्रपञ्चितम्। अकोऽकि दीर्घ इत्येव सुवचमिति ॥ एवञ्च सवर्णग्रहणन्न कर्तव्यमिति लाघवम् । दद्ध्युकार इत्यत्र तु यथासङ्खयाश्रयणान्नातिप्रसङ्ग । ततश्च अचीत्यनुवृत्तिरपि नाश्रयः णीयेति भाव । ऋति ऋवा इति वार्तिकम् अकस्सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति । ऋति सवणें ऋवा ॥ अक इत्यनुवर्तते । एक पूर्वपरयोरिति च । अकस्सवणे ऋति परे पूर्वपरयो ऋ इलेयकादेशस्यादित्यर्थ । होतृकार इति ॥ होतृ ऋकार इति स्थिते अनेन द्वयो. ऋकारयो स्थाने ऋकारविलक्षणो नृसिहवत् द्वयन्तरात्मा ऋकाररेफद्वयवान् कश्चि द्वर्णो भवति । एतदभावपक्षे रूप दर्शयति । होतृकार इति ॥ अकस्सवर्ण इति दीर्घ । लृति सवर्णे लृवा ॥ अकस्सवर्णे लृति पर पूर्वपरयो लृ इत्येकादेशो वा स्यादित्यर्थ । होत्लृकार इति ॥ होतृ लकार इति स्थिते ऋकारस्य लृकारस्य च स्थाने नृसिहवत् द्यन्तरात्मा लृकार द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति ॥ उक्तव्यक्तयन्तरात्मकवर्णाः भावपक्षे ऋकारस्य लृकारस्य च स्थाने अकस्सवर्ण इति दीर्घो भवन् ऋलृवर्णयोरिति सावर्ण्या

दृृकार एव भवति । लृकारस्य दीर्घाभावादिति भाव । अत एव होतृ लृकार इत्यत्र सवर्णदीर्घपक्षे
'
'६३
बालमनोरमा

प्रकरणम्]


ऋकार सावर्ण्यान् । होतृकार । * ऋति ऋ वा' * लृति लृ वा' इत्यु भयत्रापि विधेय वर्णद्वयं द्विमात्रम् । आद्यस्य मद्धये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ शेष प्राग्वन् । इहोभय त्नापि * ऋत्यक ' (सू९२) इति पाक्षिक प्रकृतिभावो वक्ष्यते ।

८६ । एडः पद्मान्तादति । (६-१-१०९)

पदान्तादेडोऽति परे पूर्वरूपमेकादेश स्यात् । हरेऽव । विष्णोऽव ।

८७ । सर्वत्र विभाषा गोः । (६-१-१२२)

लोके वेदे चैडन्तस्य गोरति वा प्रकृतिभाव स्यात्पदान्ते । गो अग्रम् गोऽग्रम् । “ एडन्तस्य' किम् । चित्रग्वग्रम् । * पदान्ते किम् । गो ।


होतृकार इत्येवोदाहृत भाष्ये । अथ ऋति ऋवा, लृति लृवेत्यत्र विधेय वर्णरूप विविनक्ति । ऋति ऋ वा लृति लृवेत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति ॥ तदेवोपपादयति । आाद्यस्य मद्धय इति । एका मात्रेति । व्यञ्जनानामर्द्धमात्रतया एकैकस्य रेफस्य अर्द्धमात्रत्वादिति भाव । अभितोऽज्भक्तरिति ॥ इत्यनन्तर रेफाविति शेष । अभ्जक्त्तेरिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच विद्यमानयो ह्रस्वऋकाराशयोरन्या मात्रेत्यर्थ । द्वितीयस्य त्विति ॥ विधेयस्येति शेष शेषं प्राग्वदिति ॥ लकारयोरेका मात्रा तावभितो विद्यमानयो लृकाराशयोरन्या मात्रे त्यर्थ । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयो स्पष्टम् । एतेन दीर्घ प्राप्ते हूस्व ऋकार लृकार श्चात्र विधीयत इति प्राचीनग्रन्थ परास्त । पाक्षिक इति ॥ वैकल्पिक इत्यर्थ । प्रकृति भाव इति ॥ निर्विकारस्वरूपेणावस्थानमित्यर्थ । सन्त्यभाव इति यावत् । एङः पदान्ता दति ॥ अमि पूर्व इत्यत पूर्व इत्यनुवर्तते एक पूर्वपरयोरित्यधिकृतम् । तदाह । पदान्ता दित्यादिना ॥ हरे अव इति स्थिते अयादेश बाधित्वा पूर्वरूपमेकार । विष्णो अवेत्यत्र अवादेश बाधित्वा पूर्वरूपमोकार । सर्वत्रविभाषा । पदान्तादित्यनुवर्तते । प्रकृत्यान्त पाद मित्यत प्रकृत्येत्यनुवर्तते । प्रकृत्या स्वभावेन निर्विकारस्वरूपेण अवतिष्ठत इत्यर्थ । यजुष्युर इत्यतो यजुषीति निवृत्तम् । तत्सूचनाय सर्वत्रेत्युपात्तम् । तेन लोके वेदेचेति लभ्यते । तदाह । लोक इत्यादिना । प्रकृतिभाव इति ॥ स्वभावेनावस्थानमित्यर्थ । एवञ्च पूर्वरूप मवादेशश्च न । गो अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एड इत्यप्यनुवर्तते । ततश्च एकदेशविकृतमनन्यवद्रवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्ग । हे चित्रगोऽग्र मित्यत्रापि न प्रकृतिभाव । प्रतिपदेोक्तस्यैव एडो ग्रहणात् । प्रकृते च ह्रस्वस्य गुण इत्यो कारस्य लाक्षणिकत्वात् । गोरिति । गो अस् इति स्थिते इत्योकारस्य पदान्तत्वाभा

वान्न प्रकृतिभाव । नचैवमपदान्तत्वादेड पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्। अत
६४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


८८ । अवङ् स्फोटायनस्य । (६-१-१२३)

अति' इति निवृत्तम् । अचि परे पदान्ते गोरवड् वा स्यात् । गवा ग्रम् । “ पदान्ते' किम् । गवि । व्यवस्थितविभाषया गवाक्ष ।

८९ । इन्द्रे च । (६-१-१२४)

गोरवड् स्यादिन्द्रे गवेन्द्र ।

अथ प्रकृतिभाव ।

९० । प्लुतप्रगृह्या अचि नित्यम् । (६-१-१२५)

प्लुता प्रगृह्याश्च वक्ष्यन्ते, तेऽचि परे नित्य प्रकृत्या स्यु । एहि कृष्ण३


एव डसिडसोश्चेति तत्र पूर्वरूपारम्भात् । अवटु स्फोटायनस्य । अतीति निवृत्तमिति ॥ एड पदान्तादित्यत इति शेष । व्याख्यानादिति भाव । पदान्तादिति गोरिति अचीति चानुवर्तते । स्फोटायनस्य ऋषे मते अवड् । अन्यस्य तु न । ततश्च विकल्पस्सिद्ध । तदाह । अचि पर इत्यादिना ॥ डिचेल्यन्तादेश । गावाग्रमिति ॥ गो अग्रामिति स्थित गकारादोकारस्यावड । गव अग्र इति स्थिते सवर्णदीर्घ । न च अग्रशब्दे अकारमच परत्वेनाश्रित्य प्रवृत्त अवड् कथन्तद्विघातक सवर्णदीर्घ प्रवर्तयति । सन्निपातपरिभाषाविरोधादिति वाच्यम् । सन्निपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्य माणत्वात् । गवीति ॥ गो इ इति स्थिते ओकारस्य पदान्तत्वविरहान्नावड् । नापि पूर्व सूत्रात् प्रकृतिभावपररूपे । किन्तु/यणादेश । अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्द्येत् । व्यवस्थितेति ॥ क्वचित् भवतीत्यश एव प्रवर्तते, क्वचित्तु न भवतीत्यश एव, क्वचिदुभय मित्येव लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थिताविभाषा सर्वत्र विभाषा गो रित्यत्राश्रीयते । ततश्च गवाक्ष इत्यत्र नित्यमवड् इत्यर्थ । इदञ्च “देवत्रातो गळो ग्राह इति योगे च सद्विधि । मिथस्तेन विभाष्यन्ते गवाक्षस्सशितव्रत ” इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवा किरणानामक्षीवेति विग्रह । अक्ष्णोऽदर्शनादित्यच् । पुस्त्व लोकात् । “वातायन गवाक्षसस्यादित्यमर ” । इन्द्रे च ॥ गोः अवड् अचीत्यनुवर्तते । तदाह । गोरिति ॥ विकल्पनिवृत्यर्थ पुनरारम्भ । गवेन्द्र इति ॥ गो इन्द इति स्थिते अवड आद्गुण । अथ प्रकृतिभाव इति ॥ निरूप्यत इति शेष । प्लुतप्रगृह्या । वक्ष्यन्त इति ॥ दूराद्धूते चेत्यादिना ईदूदेदित्यादिना चेत्यर्थ । प्रकृत्येति ॥ प्रकृत्यान्त पादमित्यतस्तदनुवृत्तेरिति भाव । प्रकृत्या स्वभावेनावस्थितास्युरित्यर्थ । सन्धयो न भव न्तीति यावत् । एहि कृष्ण३ अत्रेति । दूराद्भूतेचेति णकारादकार प्लुत । तस्य अकारे

न सवर्णदीर्घ. । हरी एताविति । ईदूदेदिति रेफादीकार प्रगृह्य तस्य यणादेशो न
प्रकरणम्]
६५
बालमनोरमा


अत्र गौश्चरति । हरी एतौ । “नित्यम्' इति किम् । “हरी एतौ' इत्यादावय मेव प्रकृतिभावो यथा स्यात्, “ इकोऽसवर्णे-' (सू ९१) इति ह्रस्वसमु च्चितो मा भूत् ।

९१ । इकोऽसवर्णे शाकल्यस्य हृस्वश्च । (६-१-१२७)

पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र * ह्रस्वविधि सामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्य ' इति भाष्ये


भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्य अस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यः ग्रहण किमर्थमिति पृच्छति । नित्यमिति किमिति ॥ उत्तरमाह । हरी एताविति ॥ नित्यग्रहणे सत्येव हरी एतावित्यादौ ग्लुतप्रगृह्या अचीत्ययमेव केवल प्रकृतिभावस्स्यादित्यर्थः । यथाशब्दो योग्यतायाम् । अयमेव प्रकृतिभाव प्राप्तु योग्य । स च नित्यग्रहणे सति प्राप्नु यादित्यय एवमग्रेऽग्येवञ्जातीयकेषु एवशब्दव्यवच्छेद्य दर्शयति । इक इति ॥ “इकोऽ सवर्णे शाकल्यस्य ह्रस्वश्च' इति वक्ष्यमाण हूस्वसमुच्चित प्रकृतिभाव माभूत् । न भवेत् माडि लुड् सर्वलकारापवाद । अकृते सति नित्यग्रहणे परत्वात् शाकलह्रस्वसहितप्रकृतिभाव प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकल ह्रस्वसमुच्चितप्रकृतिभाव लुतप्रगृह्या इति केवल प्रकृतिभावो बाधत इत्यर्थ । इकोसवर्णे ॥ इक इति षष्ठी । एड पदान्तादित्यत पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । अचीति चावर्तते । ततश्च स्येक असवर्णेऽचि परे हृस्वस्यादित्येक वाक्यम् । चकारात् प्रकृत्यान्त पाद इत्यत प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि सम्बध्द्यते । ततश्च उक्तो ह्रस्व प्रकृत्या स्वभावेन अवतिष्ठत इति वाक्या न्तर सम्पद्यते । फलितमाह । पदान्ता इक इत्यादिना ॥ यदि चकारो न क्रियेत तर्हि पदान्तस्य इक असवर्णेऽचि हूस्वस्यादित्येव लभ्येत । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्रि अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्रयतेत्येव स्यात् । चक्रि अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्ट रूप न स्यात् । इष्यते तदपि । अत प्रकृत्ये त्यनुकरणार्थश्चकार आवश्यक इति सूत्रकारस्य हृदयम् । भाष्यकारमतमाह । अत्र हृस्वेति ॥ अत्र चकारो न कर्तव्य । प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात्। नच विहितस्य हूस्वस्य यणिवृत्यर्थस्स इति वाच्यम् । ह्रस्वविधिसामर्थ्यादेव यणो निवृत्तिसिद्धे । अन्यथा यणमेव विदद्यात् । अत प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थ । चक्रि अत्रेति हृस्वसमुच्चित प्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्रयत्रेति रूपम् । नचात्र ककारस्य स्कोस्सयो गाद्योरिति लोपश्शङ्कय । अच परस्मिन्निति यणस्थानिवत्वेन अच्त्वेन पदान्तसयोगाभावात् । नच पूर्वत्रासिद्धे न स्थानिवदिति तन्निषेधश्शङ्कय । तस्य दोषस्सयोगादिलोपलत्वणत्वेष्विति वच नात् । न समासे ॥ वार्तिकमेतत् । समासे उक्तशाकलविधिर्नभवतीत्यर्थ । वाप्यश्च इति ।

६६
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


स्थितम् । चक्रि अत्र-चक्रन्यत्र । “ पदान्ता ' इति किम् । गौयौं । “ न समासे (वा ३६८४) । वाप्यश्च । 'सिति च' (वा ३६८४) । पार्श्वम् ।

९२ । ऋडत्यकः । (६-१-१२८)

ऋति परेऽक प्राग्वत् । ब्रह्मऋषि'—ब्रह्मर्षि । * पदान्ता ' इत्येव । आर्च्र्छत् । समासेऽप्ययं प्रकृतिभाव । सप्त ऋषीणाम्-सप्तर्षीणाम् ।

९३ । वाक्यस्य टेः प्लुत उदात्तः । (८-२-८२)


वाप्यामश्च इति विग्रह । शैौण्डादेराकृतिगणत्वात् सुग्सुपेति समास । सिति च ॥ सकार इत् यस्य स सित् तस्मिन् परे उक्तश्शाकलविधिर्नभवतीत्यर्थ । पाश्वमिति ॥ पर्शुx पार्श्वा स्थि । पशूना समूह पार्श्व “पश्वा णस् वक्तव्य ' इति णस् । आदिवृद्धि । यणादेश । अत्र पर्शु अ इति स्थिते उक्तश्शाकलो विधिर्नभवति । ओर्गुणस्तु न । भस्येव तद्विधानातू । सिति चेति पदत्वेन भत्वबावान् अञ्चो ञ्णितीति वृद्धिरपि न भवति । आदिवृद्या तद्वाधात् । तथाच मूलकारो वक्ष्यति । “ आदिवृद्धिरन्तोपवावृद्धी बाधते' इति । अत्र 'सिन्नित्यसमासयोश्शाकल प्रतिषेध ’ इति वार्तिकम् । तादिह द्विधा विभज्य व्याख्यातम् । नचैव सति वाग्यश्व इत्यत्र कथ शाकलप्रतिषेध । तत्र समासस्य वैकल्पिकत्वादिति वाच्यम् । भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् । ऋत्यकः ॥ अक इति षष्ठी । शाकल्यस्य ह्रस्वश्चेत्यनुवर्तते । असवर्ण इति निवृत्तम् । अचीत्यनुवर्तते । एड पदान्तादित्यत पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तत पदान्तस्य अक ऋति ह्रस्वो वा स्यादित्येक वाक्य सम्पद्यते । चकारात् प्रकृत्येत्यनुकृष्यते उक्तो ह्रस्व प्रकृत्या अवतिष्ठत इति द्वितीय वाक्य सम्पद्यते । तदाह । ऋति परे अकः प्राग्वदिति । ब्रह्म ऋषिरिति ॥ ब्रह्मा ऋषिरिति स्थिते आकारस्य हूस्व प्रकृतिभावश्च । ततश्च आद्गुणइति रपर अकारो न भवति अत्र आकारस्य इक्त्वाभावादिकोऽसवर्णे इत्यप्राप्त इद वचनम् । ब्रह्मर्षिरिति ॥ उक्तहूस्व समुचितप्रकृतिभावाभावपक्षे आद्गुण इति अकार । रपरत्वम् । ‘ऋत्यस्य’ इत्येव तु न सूत्रितम् । होतृ ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । पदान्ता इत्येवेति ॥ पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्य र्थ । आच्छंदिति ॥ ऋ गतौ । लड़ तिप् शप् पाघ्रा ध्मेति ऋच्छादेश , इतश्चेति इकारलोप, आडजादीनामित्याडागम , आटश्चेति वृद्धि, आ ऋच्छादिति स्थिते आकारस्य अक पदान्तत्वाभावान्नोक्त प्रकृतिभाव । न समास इति पूर्वसूत्रस्थ निषेधवार्तिकमिह न सम्बध्द्यत इत्यत आह । समासेऽपीति । सप्त ऋषीणा मिति ॥ दिक्सख्ये सज्ञायामिति समास । सप्त ऋषीणामिति प्रकृतिभावपक्षे रूपम् । तद भावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति । अथ प्लुतप्रगृह्या इति सूत्रा

काक्षितप्लुतप्रगृह्ययोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते । वाक्यस्य टेः ॥ पदस्येत्यधिकृतम्।
प्रकरणम्]
६७
बालमनोरमा


९४ । प्रत्यभिवादेऽशूद्रे । (८-२-८३)


वाक्यस्य टे पदावयवस्य प्लुतो भवति, स च उदात्तो भवतीत्यर्थ । अत्र पदस्ये त्यनुवृत्तिर्नश्छव्यप्रशानित्याद्यत्तर्राथा । इहानुवृतिविच्छेदे उत्तरत्रानुवृत्तरसम्भवात् वाक्यस्येत्य भावे पदस्य टेरित्युक्ते यावन्ति वाक्येय पदानि तावता टे प्लुत प्रसज्येत । वाक्यस्येत्युक्त्ते तु वाक्यस्य टेरन्त्यस्यैव पदस्य सम्भवतीति न दोप । टिग्रहणाभावे लुतश्रुत्या अचश्चेति परि भाषया अच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात् तदन्तविधौ अजन्तस्य वाक्यस्येत्यर्थे सति अलोऽन्त्यपरिभापया वाक्यान्तस्याच प्लुत इति पर्यवसानातू ग्राम गच्छान्निचित् इत्यादिहलन्तवाक्येषु प्लुतो न स्यात् । टि ग्रहणे तु तत्सामर्थ्यादेव टेिना अचो विशेषणात् टेरवयवस्याच प्लुत इत्यर्थो लभ्यत इति न दोप इति भाष्ये स्पष्टम् । इत्यधिकृत्येति । प्लुताविधय आरभ्यन्त इति शेष प्रत्याभिवादेऽशशूद्रे ॥ वाक्यस्य टे प्लुत उदात्त इत्यधिकृतम् । अशूद्र इति च्छेद । न शूद्र अशूद्र द्विजाति तद्विषय प्रत्यभिवाद विधिवत् अभिवादयमान प्रति विधिवदाशीर्वचनम् । भावे घञ् अस्मिन् प्रत्यभिवादे विषये यद्वाक्य तस्य टे प्लुतस्स्यात् स चोदात्त इत्यर्थ । अभिवादविधिमाह । आपस्तम्ब । 'दक्षिणबाहु श्रोत्रसम प्रसार्य ब्राह्मणोऽभिवादयीत । उरस्सम राजन्य , मद्यसम वैश्य , नीचैश्शूद्र, प्राञ्जलेि इति । “तिष्ठन् प्रातरभिवादमभिवादयीतासावह भो ' इति च । असाविति स्वनामनिर्देशोऽभि मत । देवदत्तोऽह भो इति बुवन् अभिवाद आशीर्वचन अभिवादयीत वक्तव्यत्वेन विज्ञापयेत् ततश्च यथावर्ण दक्षिण बाहु प्रसार्य अभिवादये देवदत्तोऽह भो इति ब्रूयादित्यर्थ । अयमभि प्रत्यभिवादनप्रकारस्तु मनुना दार्शत । “आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने । अकारश्चास्य नाम्रोऽन्ते वाच्य पूर्वाक्षर प्लुत ?” इति । अत्र नाम्रोऽन्ते इतिवचनात् आयुष्मान् भव सौम्येत्यनन्तरमभिवादयमानस्य नाम सम्बुद्यन्त प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीत भवति । अरय नाम्न अन्ते अकारश्च वाच्य प्रयोज्य । तस्मादकारात् पूर्वाक्षर पूर्व अच प्लुत प्रयोक्तव्य इत्यर्थे । एवञ्च आयुष्वान् भव सौम्य देवदत्त३ अ इति प्रत्यभिवादवाक्य सम्पन्नमिति स्थिति । अभिवादये देवदत्तोहमिति अभिवादवाक्यप्रदर्शन भो इत्यस्याप्युपलक्षणम् आयुष्मान् भव देवदत्त ३ इति अभिवादये इत्यस्य अभिवादनमाशीर्वचन इति विज्ञापयामीत्यर्थ । भवेत्यनन्तर सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम् । अत्र देवदत्तशब्दे तकारादकारस्य प्लुत । आयुष्म त्वस्य विधेयत्वात् सम्बोधनविभक्त्यभाव अत्र प्रत्यभिवादवाक्ये शर्मान्त ब्राह्मणस्येत्यादि न भवति । एचोऽप्रगृह्यस्येति सूत्रे शर्मादिशब्द विना केवलस्य नाम्नो भाष्ये उदाहरणात् उक्त मन्वादिस्मृतिविरोधाच्च । अशूद्र इति किम् । “कुशल्यसि तुषजक' इति भाष्यम् । एवञ्च शूद्रः विषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते अशूद्रस्त्रयसूयकेष्विति वक्तव्यम्' इति

वार्तिकम् । शूद्रविषय एव प्लुतप्रतिषेधो न भवति । किन्तु शूद्रवत् स्त्रीविषये असूयकविषयेऽ
६८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टे. प्लुत स्यात् । स चोदात्त । अभिवादये देवदत्तोऽहम् । आयुष्मान् भव देवदत्त ३ । 'स्त्रिया न' (वा ४८६४) । अभिवादये गार्ग्यहं । आयुष्मती भव गार्गि । नाम गोत्रं वा यत्र प्रत्यभिवाद्वाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि । * भोराजन्यविशां वेति वाच्यम्’ (वा ४८६५) । आयुष्मानेधि भो ३ । आयु ष्मानेधीन्द्रवर्म ३ न् । आयुष्मानेधीन्द्रपालित ३ ।

९५ । दूराद्धूते च । (८-२-८४)

दूरात्सम्बोधने यद्वाक्यं तस्य टे प्लुत स्यात् । सक्तून्पिब देवदत्त ३ ।


प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थे । ततश्शूद्रविषये उदाहृतम् । स्त्रीविषये वार्तिक विभ ज्यार्थतस्सङ्गृह्णाति । स्त्रियान्नेति ॥ स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिर्नभवतीत्यर्थ ।

अभिवादये गार्ग्यहमिति अभिवादनवाक्यप्रदर्शनम् । आयुष्मती भव गार्गीति प्रत्यभि

वादवाक्य, अत्र न प्लुत । असूयके तु उदाहरण भाष्ये स्फुटम् । यद्यपि गार्गीति नाम न भवति । किन्तु गोत्रमेव । तथापि भाष्ये गार्गीशब्दोदाहरणादेव अभिवादप्रत्यभिवादवाक्ययो र्नाम्नो गोत्रस्य च विकल्प । तदाह । नाम गोत्रं वेति ॥ अत्र नामशब्देन द्वादशेऽहनि पिता नाम कुर्यादिति विहित नामैव गृह्यते । अत एव आयुष्मान् भव दण्डिन्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम् । नाम गोत्र वेति परिगणनस्य प्रयोजनमाह । नेहेति । आयुष्मानेधीति ॥ अस्तेस्सिप् हि घ्वसोरियेत्व हेर्द्धिं । श्र्नसोरोप । अत्र धकारादिकारस्य न प्लुत । अनामत्वादगोत्रत्वाच्च । भोराजन्यविशाम् ॥ भोस् शब्दस्य राजन्यवैश्यवाचकनाम्रोश्च टे प्लुतो वा स्यादिति वक्तव्यमित्यर्थ । भोस् शब्दस्य अप्राप्ते इतरयोस्तु नामत्वात् प्राप्ते विभाषेयम् तत्र भेोस् शब्दे यथा । “आयुष्मानेधि भो । आयुष्मानेवि देवदत्त भो ' इति भाष्यम् । अतएव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तर भोश्शब्दस्य भवशब्देन एधिशब्दस्य च प्रयोग विकल्पो गम्यते । राजन्ये यथा। आयुष्मानेधि इन्द्रवर्म ३ न्, इन्द्रवर्मन् । वैश्ये यथा । आयुष्मा नेधि इन्द्रपालित ३ । इन्द्रपालित इति भाष्यम् । अतएव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्त ब्राह्मणस्य वृर्मान्त क्षत्रियस्य पालितान्त वैश्यस्येति विवयोऽपि प्रवर्तन्त इति गम्यते । उक्त भाष्यमन्वादिस्मृतिविरोधाद्विकल्प । अत्र भाष्ये अपर आहेत्युक्ता प्रत्यभिवादे सर्वस्यैव नाम्नो भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुप्मानेधि भो इत्येतावदेव सर्वत्र प्रत्यभिवाद वाक्यमित्युक्तम् । दूराद्धूते च ॥ यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारित शब्द बोद्यमानो न श्रृणोति किं त्वधिक प्रयत्नमपेक्षते तद्दूर, हृतमाह्वान भावे क्त । सम्बोधनमिह विवक्षित। वाक्यस्य टे प्लुत उदात्त इत्याधिकृतम् । तदाह । दूरात्सम्बोधन इत्यादिना ॥ यदि तु आह्या

नमेवात्र विवक्षित स्यात् तर्हि एहि देवदत्तेत्यादौ आह्वानवाचकपदे सत्येव स्यात् । सम्बोधन
प्रकरणम्]
६९
बालमनोरमा



९६ । है हे प्रयोगे हैहयोः । (८२-८५)

एतयो प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुत स्यात् । है ३ राम । राम हे ३ ।

९७ । गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । (८-२-८६)

दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुत स्यात् । दे ३ वदत्त । देवद् ३ त । देवदत्त ३ । * गुरो ' किम् । वकारात्परस्याकारस्य मा भूत् । “ अनृत ' किम् । कृष्ण ३ । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम्' इति योगो विभज्यते ।तेन सर्व प्लुतो विकल्यते । तन्न प्लुठता

९८ । अप्लुतवदुपस्थिते

उपस्थितोऽनार्ष इतिशब्द , तस्मिन्परं प्लुतोऽप्लुतवद्भवति । प्लुतकार्य प्रकृतिभावं न करोति । सुश्लोक ३ इति-सुश्लोकेति । * वत्' किम् । अप्लुत


परत्वे तु तदन्यत्रापि भवतीत्यभिप्रेत्योदाहरति । सक्तूनिति ॥ हैहेप्रयोगे ॥ है हे इत्य व्यये सम्बोधनद्योतके । तयो प्रयोगे हैहयो प्लुतस्यादित्यर्थ । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्कय नियमार्थ इति व्याचष्टे । एतयोरेवेति ॥ हैहयोरेवेति नियमार्थमिति भाव । पाहि है ३ राम, पाहि हे ३ रामेत्यत्र हैहयोरेव प्लुत, न तु गुरोरनृत इत्यन्यस्यापीत्येतत् हैहयोरित्यनेन लभ्यत इति यावत् । तर्हि वाक्यस्य टेरित्यधिकारात् राम है ३ राम हे ३ इत्यत्रैव स्यात् । अत प्रयोगग्रहणम् । ततश्च अनन्त्ययोरपि तयोx प्लुता भवति । गुरोरनृतोऽनन्त्यस्य । दूराद्धूतेचेत्यनुवर्तते । वाक्यस्य टे प्लुत उदात्त इत्यधिकृतम् । दूरात् सम्बोधने यद्वाक्य तत्र सम्बोद्वद्यमानवाचक यत् पद तदवयवस्य ऋकारभिन्नस्य अनन्त्यस्य गुरो प्लुतस्स्यात् । अन्त्यस्य तु टेरपि गुरोरगुरोश्च स्यादित्यर्थ । तदाह । दूरादित्यादिना ॥ देव ३ दत्तेत्यादिषु सर्वत्र एहीति शब्द प्रागच्द्याहर्तव्य । अन्यथा एकतिङ् वाक्यमिति वाक्यत्वानुपपत्ते । पर्यायार्थमिति । अन्यथा सर्वेषा गुरूणा युगपत् प्लुतस्यादिति भाव । इह प्राचवामिति ॥गुरोरनृतोऽनन्त्यस्याप्येकैकस्येत्येक, प्राचामित्यन्यत् । तत्र प्लुत इत्येव अनुवर्तते । प्राचाम्मते प्लुतस्यात् नान्यमते इति फलति । तत किमित्यत आह । तेनेति ॥ एवञ्च सर्वे प्लुतस्साहसमनिच्छता विभाषा वक्तव्य इति वार्तिक न कर्तव्यामिति भाव । प्लुत शास्रत्यागात्मक साहसमनिच्छतेत्यर्थ । प्लुतशास्त्रेषु श्रद्धाजाड्य विहायेति यावत् । अप्लुत वत् ॥ किमिदमुपस्थित नाम ? अनार्षमितिकरणमिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थं । प्लुत इत्यद्याहार्यम् । अवैदिके इतिशब्दे परे प्लुत अप्लुतवत् स्यादिति फलति । तदाह । उपस्थितोऽनार्ष इत्यादिना ॥ अप्लुतवद्भावस्य प्रयोजनमाह। प्लुतकार्यं प्रकृतिभावं न करोतीति ॥ अप्लुतकार्य यणादिक करोतीति पाठान्तरम् । सुश्लोक-३-इतीति ॥

७०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्द्येत । तथाच प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्री ३ इति ।

९९ । ई ३ चाक्रवर्मणस्य । (६-१-१३०)

ई३कार प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनु हि ३ इति—चिनु हीति । चिनु हि ३ इदम्-चिनु हीदम् । उभयत्र विभाषेयम् ।

१०० । ईदूदेद्विवचनं प्रगृह्यम् । (१-१-११)

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञ स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे


तैत्तिरीये सुश्लोक-३-इति प्लुतान्तो मन्त्र पठित । पदकाले अवग्रहे तस्मात् परत इतिशब्द पदकारा पठन्ति । तत्र सुश्लोक ३-इति इति रिथते अप्लुतवद्रावेन प्रकृतिभावाभावे सति आद्गुणे सुश्लोकेतीति भवति । अत्र इतिशब्द पदकारप्रक्षिप्तत्वादवैदिक । तदव सुश्लोकेति इत्युदाहरण भाष्ये स्थितम् । पदाकारास्तु सुश्लोक-३-इति सुश्लोक ३ इत्येव अवगृह्णन्ति । तदपि सहिताया अविवक्षितत्वानिर्वाह्यम् । सहितायामेव यणादिसन्धिविधानात् । वत्किमिति । अप्लुतवदित्यत्र वद्रहणस्य किं प्रयोजनमिति प्रश्न । उत्तरमाह । अप्लुत इत्युक्त इत्या दिना । वद्रहण विहाय अप्लुत उपस्थित इत्युक्ते प्लुतस्य स्थाने अप्लुत एव विधीयेत । अत प्लुत एव निवर्तेत । प्रकृतिभावस्तु तस्य न निवर्तेत । ततश्च अग्नी-३-इति इत्यत्र सम्वो नप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्य ईकार त्रिमात्रो न श्रूयेत । वत्करण तु प्लुतकायस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते । न तु प्लुतस्यापीति नोक्तदोष इत्यर्थ । ई चाक्रवर्मणस्य । ई-३-इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देश । उपस्थित इत्यस्वरितत्वान्निवृत्तम् । अप्लुतव दित्यनुवर्तते । इको यणचीत्यत अचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकार अचि परे अप्लुत वद्भवति । नत्वन्यमते इत्यर्थ । तदाह । प्लुतोऽचि परे अप्लुतवद्वेति । चिनु हि ३ इदमिति ॥ किम्मया कर्तव्यमिति पृष्टस्येद प्रतिवचनम् । चिनु इति लोडन्तम् । उतश्च प्रत्यया दिति हेर्लृक् । हि इति त्वव्ययम् । 'विभाषा पृष्टप्रतिवचने हे ' इति तस्य प्लुत । चिनु इत्यत प्राक् देवदत्तेत्यध्द्याहार्यम् । इदमिति तु वाक्यान्तरस्थम् । नतु चिनु इत्येतेन एकवाक्यतामापन्नम् । अन्यथा वाक्यस्य टेरित्यधिकारात् हि शब्द इकारस्य प्लुतो न स्यात् । उभयत्रेति ॥ इति शब्दे परतो नित्यतया प्राप्ते तदन्यत्र अप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थ । विभाषा शब्दस्तु अव्य यमिति न भ्रमितव्यम्। नवेति विभाषायामिति भास्यप्रयोगात्। विभाष्यते विकल्प्यत इति विभाषा गुरोश्च हल इत्यप्रत्यय । टाप् । ईदूदेद्दिवचनम् ॥ ईच ऊच एच्चेति समाहारद्वन्द्व । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधि । द्विवचनमित्यनेन तु प्रत्ययत्वेऽपि न तदन्त गृह्यते । सज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणन्नास्तीति तन्निषेधात् । तदाह । ईदूदेदन्तमित्यादिना । हरी एताविांत ॥ अत्र ईकारस्य परादिवत्वाश्रयणात् द्विवचनत्वम् । प्रगृह्यत्वे सति प्लुतप्रगृह्या इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम्। गङ्गे अमू इत्यत्र तु अयादेशो न भवति । ईदृदे

प्रकरणम्]
७१
बालमनोरमा


अमू । पचेते इमौ । “मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इत्यत्र त्वि वार्थे वशव्दो वाशब्दो वा बोध्द्य ।

१०१ । अदसो मात् । (१-१-१२)

अस्मात्परावीदूतौ प्रगृह्यौ स्त. । अमी ईशा । रामकृष्णावमू आसाते । मात्' किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ।


दन्तमिति तदन्तविवे प्रयोजनन्दर्शयितुमाह । पचेते इमाविति । तदन्तविद्वद्यभावे ईदूदे दात्मक द्विवचन प्रगृह्यमिति लभ्येत । एव सति पचेते इत्यत्र ते इति द्विवचनस्य एद्रूपत्वाभावात् प्रगृह्यत्वन्नस्यादिति भाव । ईदूदेदन्त यद्द्विवचनान्तमिति व्याख्याने तु कुमार्योरगार कुमार्य गारमित्यत्रातिप्रसङ्गस्स्यात् । ईदूदेदन्त द्विवचनमिति व्याख्याने तु नातिप्रसङ्ग । ओसो द्विवच नस्य ईदूदेदन्तत्वाभावात् । ननु “मणीवोष्टस्य लम्बेते प्रियौ वत्सतरा मम' इति भारत-लोके मणी इवेति ईकारस्य प्रगृह्यत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह । मणीवो ष्ट्रस्येत्यादिना ॥ “व प्रचेतसि जानीयादिवार्थे च तदव्ययम्’ इति मेदिनी । “व वा यथा तथै वैव साम्य' इत्यमर । अदसो मात् । अदस इत्यवयवषष्ठी । अदश्शब्दावयवात्मकमकारादि त्यर्थ । ईदृदिति प्रगृह्यमिति चानुवर्तते । मादिनि दिग्योगे पञ्चमी । परशब्दोऽद्याहार्य । तदाह । अस्मात् पराविति । अदश्शब्दावयवमकारान् परावित्यर्थ । एदिति नानुवर्तते । अदश्शब्दे मकारात् परस्य एकारस्यासम्भवात् । द्विवचनमित्यपि नानुवर्तते । अदश्शब्दे मकारात् परस्य इकारस्य अमी इति बहुवचनत्वात् ऊकारस्य च मकारात्परस्य तत्र द्विवच नान्तेष्वेव सत्वेन व्यावर्त्याभावात् । अमी ईशा इति । अदश्शब्दाजसि त्यदाद्यत्व पररूप त्व जसश्शी आद्गुण अदे इति स्थिते एकारस्य एत ईदिति ईत्व दस्य च मत्व अमी इति रूपम् । अत्र ईंकारस्य द्विवचनत्वाभावात् पूर्वसूत्रेण प्रगृह्यसज्ञा न प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति पुलिङ्गादश्शब्दात् प्रथमाद्विवचने औडि, त्यदाद्यत्व, पररूपत्व वृद्धिरेचि, अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वम्, अमू इति रूपम् । यद्यप्ययमूकारो द्विवचन भवति । तथापि पूर्वसूत्रेण प्रगृह्यत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्रदृष्टया सत्वात् पूर्वसूत्रेण तस्य प्रगृह्यत्वन्नप्राप्तमित्यनेन विधीयते । अदसो मादिति सूत्र प्रति तु उत्वमत्वे नासिद्धे । आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यम् । हरी एतैौ विष्णू इमावित्यादौ चरितार्थत्वात् । स्त्रियौ फले वा अमू आसाते इति स्त्रीलिङ्गो नपुसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि । स्त्रीलिङ्गाददश्शब्दात् औडेि, त्यदाद्यत्वे, पररूपत्वे, टापि औड आप इति शीभावे, आद्गुणे, अदे इति स्थिते उत्वमत्वयोरमू इति रूपम् । तथा नपुसक लिङ्गात्तस्मादौडि, त्यदाद्यत्वे, पररूपत्वे, नपुसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम्। अत्र पूर्वसूत्रेणैव प्रगृह्यत्व सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्वात् । अत पुलिङ्ग एव अदश्शब्द अत्रोदाहरणमिति प्रदर्शयितु रामकृष्णावित्युक्तम् । मात्कि मिति ॥ अदस इत्येव सूत्रमस्तु । माद्वहणस्य कि प्रयोजनमिति प्रश्न. । अमुकेऽत्रेति ॥

७२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


१०२ । शे । (१-१-१३)

अयं प्रगृह्य स्यात् । अस्मे इन्द्राबृहस्पती ।

१०३ । निपात एकाजनाङ् । (१-१-१४)

एकोऽज्निपात आड्वर्ज. प्रगृह्य स्यात् । अ अवद्ये । इ विस्मये । इ इन्द्रः । उ वितकें । उ उमेश । “ अनाङ्' इत्युत्तेरडिदाकार. प्रगृह्य एव । आ एवं नु मन्यसे । आ एव किल तत् । डित्तु न प्रगृह्य । ईषदुष्णं आोष्णम् । “ वाक्यस्मरणयोरडित् । अन्यत्र डित्' इति विवेक ।


'अव्ययसर्वनान्नामकच् प्राक्टे' इत्यकचि अदकशब्दाज्जसि, त्यदाद्यत्व, पररूपत्वम्, जसश्शी आद्गुण, उत्वमत्वे, अमुके इति रूपम् । अत्र एकारस्य प्रगृह्यत्वनिवृत्यर्थ माद्वहणम् । कृते च तस्मिन् एकारस्य मात्परत्वाभावान्न प्रगृह्यत्वमिति भाव । नन्वेवमपि माद्ग्ररहण व्यर्थम् एद्वहणमननुवर्त्य ईदूतोरेवात्र प्रगृह्यत्वविधानाभ्युपगमेन अमुके इत्यत्र प्रगृह्यत्वप्रसक्तरेवाभा वादित्यत आह । असतीति ॥ अदसोमादित्यत्र ईदूदेता एकसमासपदोपात्ताना मद्ये ईदूतोर्द्ध योरनुवृत्तौ एतोऽन्यनुवृत्तिप्रसक्तौ माद्रहणादेतोऽनुवृत्ति प्रतिबद्धा । माद्रहणाभावेतु बाधकाभावा देतोऽयनुवृतिस्यात् । ततश्च अमुके इत्यत्रापि एकारस्य प्रगृह्यत्वप्रसक्तौ तन्निवृत्यर्थम्माद्रहणम्। कृते तु तस्मिन् एतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्यत्वम् । तथाच एकाराननुवृतिफलक माद्वहणमिति भाव । शे ॥ एकपद सूत्रम्। प्रगृह्यमित्यनुवर्तते । छन्दसीत्यनुवृत्तौ ‘सुपा सुलुक्पूर्व सवर्णाच्छेयाडाड्यायाजाल' इति विहित शे इत्येकारान्त आदेश प्रगृह्यस्यादित्यर्थ । तदाह । अयमिति ॥ शे आदेश इत्यर्थ । अस्मे इति । अस्मभ्यमित्यर्थ । भ्यसश्शे आदेश, लशकत द्धित इति शकार इत्, शेषे लोप, अस्मे इति रूपम्। अद्विवचनत्वादप्राप्तौ वचनम्। यद्यपि छान्दस मिद वैदिकप्रक्रियायामेव निबन्छद्यम् । तथापि अस्मे इति त्वे इति इत्याद्यवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् । पदपाठस्याधुनिकत्वात् । निपात एकाच ॥ प्रगृह्यमित्यनुवर्तते । पुल्लिङ्गतया च विपरिणम्यते । एकश्चासावच्चेति कर्मधारय । तदाह । एकोऽजित्यादिना । इ विस्मये इति ॥ इ इति चादित्वान्निपात । स च आश्चर्ये वर्तते इत्यर्थ। । इ इन्द्र । उ उमेश । इ इति उ इति निपातस्सम्बोधने। उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्यत्वान्न सन्धि । अनाडित्यत्र डकारानुबन्धस्य प्रयोजनमाह । अनाडेत्युक्तरिति ॥ आ एवमिति पूर्वप्रक्रान्त वाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकार । पूर्वमित्थन्नामस्था इदानीत्वेवम्मन्यसे इत्यर्थ । आ एवमिति । स्मरणद्योतकोऽयमाकार । इहोभयत्रापि आकारस्य डित्वाभावान्न पर्युदास । डिः त्विति ॥ डित्तु आकार प्रगृह्यो न भवति अनाडिति पर्युदासादित्यर्थ । ओष्णमिति ॥ आ उष्णमित्यत्र आकारस्य डित्वात् प्रगृह्यत्वाभावे सति आद्गुण । ननु प्रयोगदशाया डकारस्याश्रव णाविशेषात् डिदडिद्विवेक कथमित्यत आह। वाक्येति ॥ प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे

प्रकरणम्]
७३
बालमनोरमा


१०४ । ओत । (१-१-१५)

ओदन्तो निपात प्रगृह्य स्यात् । अहो ईशा ।

१०५ । सम्बुद्धौ शाकल्यस्येतावनार्षे । (१-१-१६)

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिक इतौ परे। विष्णो इति विष्ण इति विष्णविति । “ अनार्षे' इति किम् । ब्रह्मबन्धवित्यब्रवीत् ।

१०६ । उञः । (१-१-१७)

उञ इतौ वा प्रागुक्तम् । उ इति-विति ।

१०७ । ऊँ । (१-१-१८)

उञ्ज इतौ दीघोंऽनुनासिक प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति-विति ।


च अडित्। अन्यत्र ईषदाद्यर्थे गम्ये, डिदिति विवेक भेदोऽवगन्तव्य इत्यर्थ । तथाच भाष्यम् । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य । एतमात डित विद्यात् वाक्यस्मरणयोरडित्’ इति । एक अच् यस्येति वहुव्रीहिस्तु नाश्रित । तथासति प्रेदमित्यादावतिप्रसङ्गात् । ओत् ॥ निपात इत्य नुवर्तते । ओदिति तस्य विशेषणम् । अतस्तदन्तविधि । प्रगृह्यमित्यनुवर्तते । पुलिङ्गतया च विप रिणम्यते । तदाह । ओदन्त इत्यादिना । अहो ईशा इति । अनेकाच्त्वात् पूर्वसूत्रेण अप्राप्तौ वचनम् । सम्बुद्धौ शाकल्यस्य ॥ सम्बुद्धाविति निमित्तसप्तमी । ओदित्यनुवृत्तेन अन्वेति । प्रगृह्यमित्यनुवर्तते पुलिङ्गतया च विपरिणम्यते । ऋषिर्वेद । तदुक्तमृषिणेत्यादौ तथा दर्शनात् । ऋषौ भव आर्ष,न आर्ष अनार्ष , अवैदिकेइतिशब्दे परत इत्यर्थ । शाकल्यग्रहणा द्विकल्प । तदाह । सम्बुद्धिनिमित्तक इत्यादिना । विष्णो इतीति ॥ अत्र ओकार हृस्वस्य गुण इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाभावादप्राप्ते विभाषेयम् । विष्णवितीति प्रगृह्यत्वाभावे रूपम् । उञः ॥ एकपद सूत्रम् । शाकल्यस्य इतौ प्रगृह्यमिति चानुवर्तते । उ इति जित्, उकार निपात, तस्य इतिशब्दे परे शाकल्यमते प्रगृह्यसज्ञा स्यादित्यर्थ । तदाह । उञ्ज इतौ वा प्रागुक्तमिति । पूर्वोक्त प्रगृह्यत्वमित्यर्थ । उ इति वितीति । निपात एकाजिति नित्य प्राप्ते विकल्पोऽयम् । प्रगृह्यत्वपक्षे प्रकृतिभावे प्रथम रूपम्। तदभावपक्षे यणादेशे द्वितीय रूपम् । ऊँ ॥ इदमप्येकपद सूत्रम् । ॐ इति दीर्घस्य अनुनासि कस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देश । उन इत्यनुवर्तते इतौ शाकल्यस्य प्रगृह्य मिति च । तदाह । उञ इतावित्यादिना । ऊँ इतीति ॥ उक्तविधे उकारादेशे रूपम्। प्रगृह्यत्वात् प्रकृतिभाव । एतदादेशाभावपक्षे पूर्वसूत्रेण प्रगृह्यत्वे सति उ इतीति रूपम् । प्रगृह्यत्वस्याप्यभावे सति यणादेशे वितीति रूपमिति त्रीणि रूपाणि फालतानि । तदेवं उ़ञ 10

७४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


१०८ । मय उञो वो वा । (८-३-३३)

मय परस्य उञो वो वा स्यादचि । किमु उक्तम्-किम्वुक्तम्। वस्यासिद्धत्वान्नानुस्वार ।

१०९ । ईदूतौ च सप्तम्यर्थे । (१-१-१९)

सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रित । मामकी तनू इति । 'सुपां सुलुक्-' (सू ३५६१) इति सप्तम्या लुक् । अर्थ ग्रहणं किम् । वृत्तावर्थान्तरोपसक्रान्ते मा भूत् । वायामश्वो वायश्च ।


ऊँ इयेकमेव सूत्र विभज्य व्याख्यातम् । एकसूत्रत्वे तु उण इतौ परे ऊँ इत्य दीर्घऽनु नासिक प्रगह्यश्चादेशश्शाकत्यमते स्यात् । तदभावपक्षे तु निपात एकाजिति नित्य प्रगृह्यत्व मित्येतावल्लम्येत । ततश्च ऊँ इति उ इतीति रूपद्वयमेव स्यात् वितीति रूप न लभ्येत । अतो विभज्य व्याख्यातम् । मय उञो वो वा ॥ मय इति पञ्चमी उन इति षष्ठी ‘डमो हूस्वादचि' इत्यत अचीत्यनुवर्तते । तदाह । मयः परस्येत्यादिना । किम्वुक्तमिति ॥ किमु उक्त मिति स्थिते मकारादुकारस्य उणो निपात एकाच्’ इति नित्य प्रगृह्यत्वात् प्रकृतिभावात् यणभावे प्राप्से वत्ववचनमिदम् । ननु तर्हि इको यणचीत्यनन्तरमेव मय उञो वेति पठितव्यम् । वग्रहणाभावेन लाघवात् । त्रिपाद्या पाठे वग्रहणस्यापि कर्तव्यत्वेन गौरवादित्यत आह । वत्वस्येति ॥ यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उणो यणादेशविकल्पो विधीयेत । तर्हि किम्बुक्तमित्यत्र मोऽनुस्वार इति मकारस्य वकारे परे अनुस्वारस्यात् । त्रिपाद्या वत्वविधौ तु तस्यासिद्धत्वान्नानुस्वार । त्रिपाद्यामनुस्वारविद्यपेक्षया वत्वविधे परत्वा दिति भाव । ईदूतौ च ॥ प्रगृह्यमित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । शब्द स्वरूपस्य विशेष्यत्वात्तदन्तविधि । ईदूतौ च सप्तम्यावित्येव सिद्धे अर्थग्रहणाद्यत्र सप्तम्या लुकि ‘यश्सिष्यते स लुप्यमानार्थाभिधायी’ इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसान तथाविध त्वमीदूदन्तयोर्गम्यते । तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्यौ स्त । इत्यक्षरार्थ । फलितमाह । सप्तम्यर्थ इत्यादिना । सोमो गौरी अधिश्रित इति ॥ गौर्यामित्यर्थ । सुपा सुलुगिति सप्तम्या लुक् । प्रगृह्यत्वे प्रकृतिभावान्न यण् । वातप्रमीयादिसप्तम्यन्तन्तु नात्रो दाहरणम् । तत्र सप्तम्या लुप्तत्वाभावेन प्रकृतेस्सप्तम्यर्थे अप्रवृत्ते । मामकी तनू इति । मामक्यान्तन्वामित्यर्थ । सुपा सुलुगिति सप्तम्या लुक् । प्रगृह्येभ्य परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् । पदपाठे मामकी इति तनू इतीत्यत्र प्रगृह्यत्व फलमत्र बोद्यम् । नषु ईदूतौ च सप्तम्या इत्येव सूत्रयताम् । षष्ठयाच अर्थद्वारा सम्बन्धो विवक्ष्यताम् । ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्य अर्थग्रहण विनैव लाभादर्थग्रहण किमर्थमिति पृच्छति ।

अर्थग्रहणं किमिति । कस्मै प्रयेोजनायेत्यर्थ । किमित्यव्ययम् । वृत्ताविति ॥ अर्थ
प्रकरणम्]
७५
बालमनोरमा



११० । अणोऽप्रगृह्यस्यानुनासिकः । (८-४-५७)

अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधि-दधि । “अप्रगृह्यस्य किम्। अग्री

। इति अच्सन्धिप्रकरणम् ।


अथ हल्सन्धिप्रकरणम् ।

१११ । स्तोः श्चुना श्चुः । (८-४-४०)

सकारतवर्गयो शकारचवर्गाभ्यां योगे शकारचवगौ स्त. । हरिश्शेतेरामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ।


ग्रहणसामर्थ्यात् लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यथो विवक्षित । ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घय उत्तरपदार्थे प्रवृत्ते सति प्रगृह्यसज्ञा न भवति । मा भूदिति । माडि लुड् सर्वलकारापवाद । वाप्यामश्वो वाप्यश्व इति ॥ वाप्या अश्व इति विग्रहे सुसुपेति समासे वाग्यश्च इति रूपमित्यर्थ । अत्र वाप्यामिति सप्तम्या अधि करणत्वमवगतम् । तच्चाधिकरणकारक क्रियापेक्षम् । तत्र वाग्यामश्वो वर्तत इति क्रियाद्याहारे वर्तमानक्रियाया वाग्या अधिकरणत्वेन अश्वस्य कर्तृत्वेनान्वयात्तयो परस्परमन्वयाभावाद सामर्थ्यात् समासो नोपपद्यते । वाग्या विद्यमानेोऽश्व इति विद्यमानपदस्याद्याहारेऽपि अश्वपदे नासामर्थ्यात् समासो न सम्भवति । अत वाग्यामित्यस्य वाप्या विद्यमाने अश्व लक्षणया प्रवृत्ति पुरस्कृत्य समासो वक्तव्य । एवञ्च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमातिलङ्कय तत्ससृष्टे आधेयभूते अश्वेऽपि प्रवृत्तस्सप्तम्यर्थमात्रविश्रान्त्यभावान्नप्रगृह्यत्वमिति भाव । अणोऽप्रगृह्यस्य ॥ वा अवसान इत्यनुवर्तते । तदाह । अप्रगृह्येत्यादिना ॥ अत्र अण् पूर्वे णैव णकारेण व्याख्यानात् । ततश्च कर्तृ इत्यत्र नानुनासिक । इत्यच्सन्धीति । अत्पाच् तरमिति सिद्धमनच्त्वादिति कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवञ्जातीयस्थलेषु असन्देहार्थ सन्ध्यभावोऽभ्यनुज्ञात । अतोऽत्र कुत्वचुत्वयोरभावेऽपि न दोष । स्तोश्चुना श्चु. ॥ स्च तुश्चेति समाहारद्वन्द्व पुस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा तथासत्येक वचनमार्षम् । एव श्चुना श्चुरित्यत्रापि श्चुनेति सहार्थे तृतीया । योगे इत्यद्याहार्यम् । ततश्च सहशब्दयोगाभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते । अस्मादेव निर्देशात् । तदम्ह । सका रतवर्गयोरित्यादिना । अत्र स्थान्यादेशाना यथासख्य भवति । ततश्च सकारस्य शकार तवर्गस्य चवर्ग । तत्रापि त थ द ध नाना क्रमेण च छ ज झ जा इति फलितम् । त थ द ध नेत्यादि क्रमस्यायनादिलोकसिद्धत्वात् । श्चुना योगे इत्यत्र न यथासख्यमित्युत्तरसूत्रे वक्ष्यते । ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासम्भव योगे श्चुत्व भवति । रामश्शेते इति ॥ रामस् शेत इति स्थिते शकारेण योगात् सकारस्य शकार । श्चुना योग इत्यत्र न य

थासङ्खयभित्यस्य प्रयोजन दर्शयितु सकारस्य चकारयोगेऽप्युदाहरति । रामश्चिनोतीति ॥
७६
[हल्सन्धि
सिद्धान्तकौमुदीसहिता

११२ । शात । (८-४-४४)

शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश् प्रश्र ।

११३ । ष्टुना ष्टुः । (८-४-४१)

स्तोः ष्टुना योगे ष्टु स्यात् । रामष्षष्ठ । रामष्टीकते। पेष्टा । तट्टीका। चक्रिण्ढौकसे ।

११४ । न पदान्ताट्टोरनाम् । (८-४-४२)

अनाम्' इति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानाम स्तो ष्टुर्न स्यात् । षट् सन्त । षट् ते । * पदान्तात्' किम् । ईट्टे । “टो ' किम् ।


रामस् चिनोतीति स्थिते चवर्गयोगात् सकारस्य शकार । श्चुना योगे इत्यत्रापि यथासङ्खयाश्रयणे तु इह सकारस्य शकारयोगाभावात् शकारो न स्यादिति भाव । सच्चिदिति ॥ सत् चित् इति स्थिते, श्चुत्वस्यासिद्धत्वात् जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, खरि चेति चर्त्वेन तस्य चकारे च रूपम्। शार्ङ्गिन् जयेति स्यिते, चवर्गयोगात् नकारस्य श्चुत्व जकार । शात् ॥ न पदान्तादिति पूर्वसूत्रात् नेत्यनुवर्तते । स्तोश्चुना श्चुरित्यत तोरिति, चुरितिचानुवर्तते । नतु सकारश्शकारश्च । शादिति दिग्योगे पञ्चमी । परस्येत्यद्याहार्यम् । तदाह । शात्परस्ये त्यादिना । विश्न इति ॥ विच्छ गतौ । ‘यज याच यत विच्छ प्रच्छ रक्षेो नड्’ इति नड । “छवोश्शूठ्’ इति छस्य श । डित्वान्न गुण । अत्र शकारयोगात् तवगयिनकारस्य श्चुत्वेन अकारे प्राप्त निषेध । पूर्वसूत्रे श्चुना योगे इत्यत्रापि यथासङ्खयाश्रयणे तु इह तवर्गयस्य नस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थस्यात् । एवञ्च अस्मादेव निषेधात् पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासङ्खयाश्रयणमिति विज्ञायते । प्रश्न इति । प्रच्छ ज्ञीप्सायाम् । पूर्ववत् नडादि । अत्र “ग्रहिज्या' इति सम्प्रसारणन्न । “प्रश्रेचासन्नकाले' इत्यादिनिर्देशात् । अत्र वर्गपञ्चमाना नासिकास्थानाधिक्येऽपि तत्तद्वर्गीयैरस्ति सावण्यैमिति तुत्यास्यसूत्रे अवोचाम । ष्टुनाष्टुः ॥ स्तोरियनुवर्त्तते । तदाह । स्तोरिति ॥ अत्रापि स्थान्यादेशाना यथासङ्खयम्। नतु ष्टुयोगे इत्यत्र । रामष्षष्ठ इति । रामस् षष्ठ इति स्थिते षकारयोगात् सस्य ष्टुत्वेन ष । अत्रापि ष्टुना योग इत्यत्र न यथासङ्खयमित्यस्य प्रयोजन दर्शयितु सकारस्य टवगेयोगेऽपि उदाहरति । रामष्टीकत इति ॥ टीकृ गतौ । तट्टीकेति ॥ तस्य टीकेति विग्रह । तद् टीका इति स्थिते टुत्वेन दस्य डत्वे चर्त्वम् । चक्रिण्ढौकस इति ॥ ढौकृ गतौ । चक्रिन् ढौकसे इति स्थिते टवर्गयोगात् नस्य टुत्वेन णत्वम् । न पदान्तात् ॥ अनामिति तोरित्यस्य विशेषणम् । नतु भिन्नविभक्तिकमेतत् । कथ तद्विशेषणमित्यत आह । अनामिति लुप्तषष्ठीक मिति ॥ नामवयवभिन्नस्येत्यर्थः । स्तोष्टुरित्यनुवर्तते । तदाह । पदान्तादित्यादिना । ईट्ट इति ॥ *ईड स्तुतौ' आत्मनेपदी। ईड् ते इति स्थिते, खरि चेति डस्य चर्त्व, तत परस्य

प्रकरणम्]
७७
बालमनोरमा


सर्पिष्टमम् । * अनाम्नवतिनगरीणामिति वाच्यम्’ (वा ५०१६) । षण्णाम् । षण्णवति । षण्णगर्य ।

११५ । तोः षि । (८-४-४३)

तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ट । “झला जशोऽन्ते' (सू८४) । वागीश । चिदूपम् ।

११६ । यरोऽनुनासिकेऽनुनासिको वा । (८-४-४५)

यर पदान्तस्यानुनासिके परेऽनुनासिको वा स्यान् । एतन्मुरारि --एत दूमुरारि । स्थानप्रयत्राभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते ।


तकारस्य टुत्वम् । तस्य टवर्गात् परत्वेऽपि पदान्तान् परत्वाभावात् न टुत्वनिषेध । सर्पिष्टम मिति ॥ सर्पिष् तमम् इति स्थिते स्वादिष्वसर्वनामस्थान इति, अन्तर्वत्तिनी विभक्तिमाश्रित्य वा , पदत्वात् षकारस्य पदान्तत्वात्तत परस्य तकारस्य टुत्वनिपेधो न भवति । पदान्ताट्टवर्गत्परत्वा भावात् । नच षकारस्य “झलाञ्जशोऽन्त’ इति जश्त्वेन डकारे सति तकारस्य टो परत्वात् टुत्व निषेधस्यादेवेति वाच्यम् । ह्रस्वात्तादौ तद्धित इति षत्वस्यासिद्धत्वेन जश्त्वाभावात् इह आदेशप्रत्यययोरिति पत्वन्तु न भवति । ‘अपदान्तस्य मूर्द्धन्य' इत्यधिकारात् । अनाम् नवति ॥ श्ष्टुत्वप्रतिषेध नाम एव पर्युदासो न भवति । किन्तु नवतिनगरीशब्दावयव नकारस्यापि पर्युदासो वक्तव्य इत्यर्थ । षण्णामिति ॥ षष् नामिति स्थिते “स्वादिष्वसर्व नामस्थाने' इति पदान्तत्वात् षस्य जश्त्वेन डकारे “प्रत्यये भाषायान्नित्यम्' इति तस्य णकार । अत्र टवर्गयोगात् नकारस्य टुत्वम् । नपदान्तादिति निषेधस्तु न । अनामिति पर्युदासात् । षण्णवतिरिति ॥ षडधिका नवतिरिति विग्रह । अत्रापि नकारस्य न टुत्वनिषेध । नवति शब्दस्यापि पर्युदासात् । षण्णगर्य इति ॥ पृथक्पदे । न तु कर्मधारय । 'दिक्सङ्खये सज्ञा याम्' इति नियमात् । अत्रापि नपदान्तादिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति । नगरीशब्दस्यापि पर्युदासात् । तोष्षि ॥ ष्टुंरिति नेति चानुवर्तते । तदाह । तवर्गस्येति सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्व प्राप्त निषिध्द्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासङ्खयन्नेति बिज्ञायते । झलाञ्जशोऽन्ते इत्यच्सन्धि निरूपणे प्रसङ्गादुपन्यस्तम्। हल्सन्धिप्रस्तावे पुनस्तदुपन्यास । यरोऽनुनासिके। न पदान्ता ट्टोरियत पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तदाह । यर. पदान्तस्येति॥ एतन्मुरारिति कर्मधारय । एतद् मुरारिरिति स्थिते दस्य अनुनासिको नकार दन्तस्थान साम्यात् स्पृष्टप्रयत्न्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिकेो णकारस्यात्, रेफ णकारयो स्पृष्टेषत्स्पृष्टप्रयत्न्नभेदेऽपि मूर्वस्थानान्तर्यादित्यत आह । स्थानेति ॥ एतन्मुरारि रित्यादौ स्थानत प्रयन्नतश्चान्तरतमे स्पर्शे चरितार्थ लब्धप्रयोजनोऽयमनुनासिकविधि स्थान मात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थ । ‘यूनि लब्धे तु युवतिर्जरठे रमते कथम्’ इति

७८
[हल्सन्धि
सिद्धान्तकौमुदीसहिता


चतुर्मुख । 'प्रत्यये भाषायां नित्यम्' (वा ५०१७) । तन्मात्रम् चिन्मयम् । कथं तर्हि * मदोदग्रा ककुद्मन्त ' इति । यवादि (ग २५०) गणे दकारनि पातनात् ।

११७ । तोर्लिं । (८-४-६०)

तवर्गस्य लकारे परे परसवर्ण स्यात् । तल्लय । विद्वॉल्लिखति । नकारस्यानुनासिको लकार ।

११८ । उद्ः स्थास्तम्भ्वोः पूर्वस्य । (८-१-६१)

उद् परयो स्थास्तम्भ्वो पूर्वसवर्ण स्यात् । * आदे परस्य' (सू ४४) उत्थानम् । उत्तम्भनम् । अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकार ।


न्यायादिति भाव । प्रत्यये भाषायान्नित्यम् । वार्तिकमेतत् । भाषा लौकिकप्रयोग । तत्र प्रत्यये विद्यमाने अनुनासिके परत प्रागुक्तोऽनुनासिको निलय भवतीत्यर्थ । तन्मात्रमिति ॥ तत् प्रमाण यस्य तत्तन्मात्र ‘प्रमाणे द्वयसञ्जदन्नवन्मात्रच ' इतिं मात्रच्प्रत्यय । चिन्मयमिति ॥ नित्य वृद्धशरादिभ्य' इत्यत्र नित्यामिति योगविभागात्ताद्रूप्ये मयट् । कथं तर्हीति ॥ यदि प्रत्यये परे निलयमनुनासिकस्स्यात् तदा मदोदग्रा ककुद्मन्त इति काळिदासप्रयोग कथमित्याक्षेप । मतुप प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकागवश्यम्भावादिति भाव । परिहरति । यवादीति ॥ यवादिगणे ककुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिक । यदि तत्र दकारस्य नकार एव इष्टस्स्यात् तर्हि नकारमेव लाघवानिदिशेदिति भाव । तोर्लिं ॥ अनुस्वारस्य ययी त्यत परसवर्ण इत्यनुवर्तते । तदाह । तवर्गस्येत्यादिना । तल्लय इति । तस्य लय इति विग्रह । तद् लय इति स्थिते दस्य परसवर्ण परनिमित्तभूतलकारसवर्णो भवति । स च लकार एव । अन्यस्य तत्सावर्ण्यभावात् । अत्र नकारस्येति ॥ विद्वान् लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिन अनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनु नासिक एव लकारो भवतीत्यर्थ । उदस्स्थास्तम्भ्वो . ॥ ‘अनुस्वारस्य ययि परसवर्ण' इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृत्य सम्बध्द्यते । एकदेशे स्वरितत्वप्रतिज्ञानात् । उद इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषया उद परयोरिति लभ्यते । तदाह। उद:पर योरिति । पूर्वस्येति । पूर्वनिमित्तस्य उदो दकारस्य यस्सवर्ण स आदेशस्यादित्यर्थ । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्यास्तम्भ्वोरन्तादेशो न भवतीत्याह । आदेः परस्येति ॥ अनया परिभाषया स्थास्तम्भवोराद्यवयवस्य सकारस्यैव भवतीत्यर्थ । उत्थानमिति ॥ ष्ठा गतिनिवृत्तौ । भावे ल्युट् । उत्तम्भनामिति ॥ ' ष्टभि प्रतिष्टम्भे' भावे ल्युट्। स्तम्भु रोधन इति श्नुविधौ निर्दिष्टस्सौत्रो वा धातु । स्थास्तम्भ्वोरिति पवर्गयोपधनिर्देशस्य उभयसाधारण

त्वात् । ननु उद् स्थानमित्यत्र सकारस्य पूर्वसवर्णविधैौ पूर्वनिमित्त दकार तत्सवर्णाश्च त थ द
प्रकरणम्]
७९
बालमनोरमा


तस्य 'झरो झरि-' (सू ७१) इति पाक्षिको लोप । लोपाभावपक्षे तु थकारस्यैव श्रवणम् । नतु *खरि च' (सू १२१) इति चर्त्वम् । चर्त्व प्रति थकार' स्यातसिध्धत्वात् ।

११९ । झयो होऽन्यतरस्याम् । (८-४-६२)


ध ना पञ्चैव । दन्तस्थानसाम्यात् स्पृष्टप्रयत्न्नसाम्याच्च । नतु लृकार सकारश्च । तयो स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकार ईपत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णा । ततश्च पूर्वनिमित्तभूतदकारसवर्णा त थ त ध ना पञ्चापि सकारस्य प्राप्ता । स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चखायविशिष्टत्वात् । आभ्यन्तरप्रयत्न्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतस्मकरस्य विवृतप्रयत्न्नत्वात् एतेषा च पञ्चाना स्पृष्टप्रयत्न्नत्वात् । अतोऽत्र बाह्मप्रयत्न्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह । अत्राधोषस्य महा प्राणस्य सस्य तादृश एव थकार इति ॥ अघोषस्येत्यनेन श्वासवतो विवारवतश्चेत्यु क्तप्रायम् । समनियतत्वात् । स्थानीभूतस्तावत् सकार अघोषश्वासविवारमहाप्राणात्मकयत्न चतुष्टयवान् । तस्य त थ द ध नेषु प्रथमतृतीयपञ्चमा न भवन्ति । तेषा अल्प प्राणत्वात् । नापि चतुर्थो भवति । तस्य घोषनादसवारयन्नकत्वात् । द्वितीयस्तु थकार अघोषश्वासविवारमहाप्राणात्मकयन्नचतुष्टयवान् । अतस्सएव थकार पूर्वनिमित्तभूतदकारसवर्ण सकारस्य भवतीत्यर्थ । एवञ्च उद्स्थानमिति स्थिते दकारस्य ‘सरिच' इति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्प्यानमित्येकतकार द्विथकारञ्च रूप सिद्ध। एव उत्य् तम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारच्चेति विशेष । तस्येति ॥ सकारादेशस्य थकारस्येत्यर्थ । एवञ्च प्रथम यकारस्य लोपपक्षे एकतकारमेकथकारञ्च रूपामिति भाव । ननु प्रथमथकारस्य लोपाभावपक्षे एकतकार द्विथकार च रूपमित्यनुपपन्न। प्रथमथकारस्य खरिचेति चर्त्वे सति द्वितकारमेकथकार मित्यापतेरित्यत आह । लोपाभावेति । असिद्धत्वादिति ॥ खरिचेति सूत्रापेक्षया उदस्यादित्यस्य परत्वादिति भाव । उत् त् तम्भनमिति त्रितकारपाठस्तु प्रामादिक । उक्त प्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु “न मुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्व सवर्णस्य यकारस्य चर्त्वं प्रत्यसिद्धत्वाभावाच्चत्वें उत्तम्भनमिति त्रितकाररूप कथञ्चित् साधया मासु । ततु मूलकृतो न सम्मतम्। मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तु ‘दीर्घा दाचार्याणाम्' इत्युत्तर अनुस्वारस्य ययि परसवर्ण, वा पदान्तस्य, तोर्लि, उदस्स्वास्तम्भ्वो पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तर झलाञ्जश झशि, अभ्यासे चर्च, खरि च, वाऽवसाने, अणोऽप्रगृह्यस्यानुनासिक, इति पञ्चसूत्रीपाठ इति हलो यमामिति सूत्रस्थभाष्यसम्मतस्सूत्रक्रम । एवञ्च खरि चेति चर्त्वे कर्तव्ये उदस्यास्तम्भ्वोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाभावाच्चर्त्वे उत्त्थानामिति द्वितकारमेकथकारञ्च रूपम् । उत्त्तम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् । झयो हः ॥ झय इति पञ्चमी । परस्येत्यद्या हार्यम्। ह इति षष्ठी । उद्स्स्थास्तम्भ्वोरित्यत पूर्वस्येति अनुस्वारस्य ययीत्यत सवर्ण इति चानु

८०
[हल्सन्धि
सिद्धान्तकौमुदीसहिता


झयः परस्य हस्य पूर्वसवणों वा स्यात् । घोषवतो नादवतो महाप्रा णस्य संवृतकण्ठस्य ह्स्य तादृशो वर्गचतुर्थ एवादेश । वाग्घरि-वाग्हरि ।

१२० । शश्छेोऽटेि । (८-४-६३)

पदान्ताज्झय परस्य शस्य छो वा स्यादटि । दस्य चुत्वेन जकारे कृते ।

१२१ । खरि च । (८-४-५५)

खरि झला चर स्यु. । इति जकारस्य चकार । तच्छिव --तच्शिव । छत्वममीति वाच्यम्' (वा ५०२५) । तच्छलोकेन- तच्श्लोकेन । अमि किम् । वाक् इच्योतति ।

वर्तते । तदाह । झयः परस्येत्यादिना ॥ वाग्घरिरित्युदाहरणम् । वाच् शब्दश्चकारान्त, कुत्व जश्त्वम् । वाग हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकार पूर्वनिमित्तम्। तत्सवर्णा क, ख ग, घ, डा पश्च । तेषा हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आम्यन्तरप्रयत्न्नसाम्यन्तु पञ्चानामपि हकारेण स्थानिना न विद्यते । स्पृष्टविवृतप्रयत्न्नभेदात् । अत बाह्ययत्न्नत आन्तर्य मादाय पञ्चस्वन्यतमव्यवस्थामाह । घोपवत इत्यादिना ॥ रथानीभूतो हकार. घोष नादसवारमहाप्राणाख्ययनचतुष्टयवान् । तस्य क ख ग घ डेषु प्रथमतृतीया न भवन्ति । तेषा अल्पप्राणत्वात् । द्वितीय खकारो न भवति । तस्य अघोषश्चासविवारयन्नकत्वात् चतुर्थस्तु घकार घोषनादसवारमहाप्राणवान् । अतस्सएव घकारो हकारस्य भवती त्यर्थ । ततश्च वाग्घरिरिति भवति । पूर्वसवर्णाभावे तु वाग् हरिरिति । शश्छोऽटेि ॥ झय इति पञ्चम्यन्तमनुवर्तते । श इति पष्ठयेकवचनम् । तदाह । झयः परस्य शस्येति ॥ तद् शिव इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वय । केनेत्यत आह । खरेि च ॥ झलाञ्जश्झशीत्यतो झलामिति, अभ्यासे चर्चेत्यतश्चरिति, चानुवर्तते । तदाह । खरि पर इत्यादिना । इति जकारस्य चकार इति ॥ स्थानत आन्तर्या दिति भाव । तत छत्वम् । नतु प्रागित्यपि बोध्द्यम् । छत्वस्य चुत्वचर्त्वें प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसम्मतसूत्रक्रमेतुचुत्वेन जकारे कृते शस्य छत्व ततो जकारस्य चर्त्वम्। नतु छत्वात् प्राक् चर्त्व । चर्त्व प्रति छत्वस्यासिद्धत्वात् । तच् छिव इति । स चासौ शिवश्चेति तस्य शिव इति वा विग्रह । वो कुरिति कुत्वन्तु न । चुत्वस्यासिद्धत्वात् । छत्वममीति वाच्यम् ॥ शश्छोऽटीति सूत्रे अटीति विहाय अमीति वक्तव्यमित्यर्थ । शश्छोऽमीति सूत्र पठनीयमिति यावत् । तच् श्लोकेनेति ॥ सचासौ श्लोकश्च, तस्य श्लोक इति वा, विग्रह । लकारस्य अङ् बहिर्भूतत्वात् तत्परकस्य शकारस्य सूत्रपाठत छत्वे अप्राप्त वार्तिकमिदम्। वाक्श्च्योतीति ॥ अत्र तु कुत्व भवत्येव । चकारस्य स्वाभाविकतया चुत्वावयवत्वाभावेन असिद्धत्वाभावात् । अत्र

प्रकरणम्]
८१
बालमनोरमा


१२२ । मोऽनुस्वारः । (-८-३-२३)

मान्तस्य पदस्यानुस्वार स्याद्वाल । * अलोऽन्त्यस्य' (सू ४२) । हरि वन्दे । “पदस्य ' इति किम् । गम्यते ।

१२३ । नश्वापदान्तस्य झलि । (८-३-२४)

नस्य मस्य चापदान्तस्य झल्यनुस्वार । यशांसि । आक्रस्यते । “ झलि किम् । मन्यते ।

१२४ । अनुस्वारस्य ययि परसवर्णः । (८-४-५८)

स्पष्टम् । अङ्कित । अश्चित । कुण्ठित । शान्त । गुम्फित ।


चकारस्य अम्बहिर्भभूतत्वात् तत्परकशकारस्यात्र न छत्वम् । मोऽनुस्वार. ॥ पदस्यत्यधिकृतम् म इति षष्ठयन्त पदस्य विशेषण, तदन्तविधि, हलि सर्वेषामित्यतो हलीत्यनुवर्तते तदाह । । मान्तस्येत्यादिना । अलोऽन्त्यस्येति उपतिष्ठत इति शेष । ततश्च मान्तस्य पदस्य य अन्त्य अल् तस्येत्यर्थ । पदान्तस्य मस्येति फलितम् । हरि वन्द इति ॥ हरिम् वन्द इति स्थिते मस्यानुस्वार । गम्यत इति । गम्लृ गतौ। कर्मणि लट्, ‘भावकर्मणेो'इत्यात्मनेपद यक् । अत्र मस्य पदान्तत्वाभावान्नानुस्वार । नश्वापदान्तस्य झलेि ॥ चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह । नस्येत्यादिना । यशांसीति । यशश्शब्दात् जस्। जश्शसोश्शि ।

  • नपुसकस्य झलच' इति नुम्। सान्तमहत इति दीर्घ । यशान् सि इति स्थिते, नकारस्य अनु

स्वार । आक्रंस्यत इति॥ क्रमु पादविक्षेपे। आङ्पूर्वात् कर्तरि लृट् “आड उद्भमने' इति तड्। स्यतासी ललुटोरिति स्य । स्नुक्रमोरिति नियमान्नेट्। आक्रम् त्य त इति स्थिते मस्य अपदान्त त्वात् पूर्वेणाप्राप्ते वचनम्। मन्यस इति कर्मणि लट् तड् यक् । अत्र मस्य झल्पराकत्वाभावान्नाने नानुस्वार । अपदान्तत्वाच्च न पूर्वेण। अनुस्वारस्य ययि । स्पष्टमिति ॥ अनुवर्त्यपदान्त राभावादिति भाव । अङ्कित इति ॥ अङ्क पदे लक्षणेचेति चुरादौ नोपध । नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्त इति निष्ठाया सेटीति णिलोप, अनुस्वारस्यानेन परसवर्ण , परनिमित्तमत्र ऋकार , तत्सवर्ण कवर्ग , स अनुस्वारस्य भवन् नासिकारथान साम्यात् डकार एव भवति । अञ्चित इति ॥ अञ्चु गतिपूजनयो । नोपध । तन्मात् त्क्त । अञ्चे पूजायामिति इट् । नाच्चे पूजायामिति निषेधात् अनिदितामिति नलोपो न । अत्र नश्वापदान्तस्येत्यनुस्वारस्य परसवर्णो अकार । कुण्ठित इति ॥ 'कुठि प्रतिघाते' इदित्वान्नुम् क्त इट्। अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकार । शान्त इति ॥ शम उपशमे क्त । वा दान्त शान्तेत्यादिनिपातनान्नेट् । अनुनासिकस्य कीति दीर्घ । नश्वेति मस्यानुस्वार । तस्य परसवर्ण नकार । गुम्फित इति ॥ गुम्फ ग्रन्थ द्वितीयान्त चतुर्थान्तेो वा नोपध । क्त इट । “नोपधात्थफान्ताद्वा' इत्यकित्त्वपक्षे नलोपो न । अत्र नश्चेत्यनुस्वारस्य परसवर्ण 41

८२
[हल्सन्धि
सिद्धान्तकौमुदीसहिता

कुर्वन्ति' इत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्या सिद्धत्वान्न णत्वम् ।

१२५ । वा पदान्तस्य । (८-४-५९)

पदान्तस्यानुस्वारस्य ययि परे परसवणों वा स्यान् । त्वङ्करोषि-त्वं करोषि । सय्यँन्ता-संयन्ता । सव्वॅत्सर-सवत्सर । यॅल्लोकम्-य लोकम् । अत्रानुस्वारस्य पक्षेऽनुनासिका यवला ।

१२६ । मो राजि समः कौ । (८-३-२५)

किबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् । १२७ । हे मपरे वा । (८-३-२६)


मकार । ननु कृन्धातोर्लट्, झि झोन्त तनादिकृञ्म्य उ, गुण रपरत्वम् । “अत उत्सार्व धातुके' उकारस्य यण् । न भकुर्छरामिति निषेधात् र्वोरुपधाया इति दीर्घो न। कुर्वन्तीति रूपम्। अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वार बाधित्वा परत्वात् रपाभ्यामिति णत्व स्यात् । नच त्रिपाद्यान्नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वात् अनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेदुर्वारत्वादित्यत आह । कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया पर सवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्यासिद्धत्वान्न णत्वमिति भाव । वा पदान्तस्य ॥ अनुस्वारस्य ययि परसवर्ण इत्यनुवर्तते । तदाह । पदान्तस्ये त्यादिना । त्वङ्करोषीति । त्वम् करोषीति स्थिते मोऽनुस्वार परसवर्णो डकार । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति ॥ सम् यन्तेति स्थिते मोऽनुस्वार । तस्य परनिमित्तभूतय कारसवर्ण अनुनासिक एव यकारो भवति । आन्तर्यात् । तथाच सय्यॅन्तेति रूपम् । एव सव त्सर इति स्थिते अनुस्वारस्य परसवर्ण अनुनासिको वकार । सव्वॅत्सर इति रूपम् । य लोक मिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकार । यलॉन्स्पति रूपम् । परसवर्णाभाव पक्षे तु अनुस्वार एवेत्यर्थ । मो राजि ॥ म इति प्रथमान्त मोऽलम्वार इत्यत म इति स्थानषष्ठयन्तमनुवर्तते । सम इत्यवयवषष्ठी । प्रन्यग्रहणपरिभाषया क्विग्रहणेन किप्प्रत्ययान्त लाभ । तदाह । क्विबन्त इत्यादिना । म एवेति । नत्वनुस्वार इत्यर्थ । मस्य मविधान मनुस्वारनिवृत्यर्थमिति भाव । सम्राडिति । राजू दीप्तौ । सम्पूर्वात् सत्सूद्विषदुहे त्यादिना किप् । ब्रवेति षत्वम् । जश्त्वेन डत्वम् । चर्त्वम् । अत्र मोऽनुस्वारो न भवति । हे मपरे वा ॥ मोऽनुस्वार इत्यत म ति षष्ठयन्तमनुवर्तते । मो राजीत्यत. म इति प्रथमान्त

मनुवर्तते । म परो यस्मादिति विग्रह । तदाह । मपरे इत्यादिना ॥ ह्मलयतीति
प्रकरणम्]
८३
बालमनोरमा


मपरे हकारे परे मस्य म एव स्याद्वा । “हृल्, ह्मल् , चलने' । किम् ह्मलयति-कि ह्मलयति । * यवलपरे यवला वेति वक्तव्यम्’ (वा ४९०२)

१२८ । यथासंख्यमनुदेशः समानाम् । (१-३-१०)

समसम्बन्धी विधिर्यथासंख्य स्यात् । कियँ ह्य-कि ह्य. । किव् ह्वलयति-कि ह्वलयति । किल् ह्यादयति-कि ह्यादयति ।

१२९ । नपरे नः । (८-३-२७)

नपरे हकारे परे मस्य न स्याद्वा । किन् ह्रते-कि ह्रते ।

१३० । ड्णोः कुक्कुटुक्शरि । (८-३-२८)

डकारणकारया कुक्कुटुकावागमौ वा स्त शरि । कुक्कुटुकोरसिद्धत्वा


ण्यन्ताण्णिच् । 'ज्वल हृल ह्मल नमामनुपसर्गद्वा' इति मित्वाण्णौ मिता हूस्व । यवल परे ॥ यवला परा यस्मादिति विग्रह । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थे । यथासङ्खयम् । साम्यमिह सङ्खयातो विवक्षितम् । अनुदेश विधानम् । समानामिति यदि कर्मणि षष्ठी तर्हि स्थान्यादिभिस्म सङ्खयाना यत्र विधानम्, यया एवोऽयवायाव इत्यादो, तत्रैव यथासङ्खय प्रवृत्तिस्यात् । “समूलाकृतजीवेषु हन् कृन् ग्रह ' इत्यत्र न स्यात् । तत्र विधेयस्य णमुल एकत्वात् । अतस्समानामिति सम्बन्धसामान्ये षष्ठी । एवञ्च समूलाद्युपपदाना हनादि धातूनाञ्च समसङ्खयानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्खयाकसम्बन्धी विधिरेवेति तत्रापि यथासङ्खयप्रवृतिार्निर्बाधा । तदाह । समसम्बन्धी विधिरिति । यथासङ्खय मिति ॥ सङ्खयाशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपास्सङ्खयाघटितधर्मा विवक्षिता । तान् अनति क्रम्य यथासङ्खयम्। ततश्च एचोऽयवायाव इत्यादिषु प्रथमस्य स्थानिन प्रयम आदेश , द्वितीयस्य द्वितीय इत्येवक्रमेण स्यान्यादेशतन्निमित्तादीना समसङ्घयाकाना क्रमेण अन्वय प्रतिपत्तव्य इति फलित । प्रकृते च यपरके हकारे परे मकारस्य यकार , वपरके व , लपरके ल, इति सिध्ध्यति । किय् ह्य इति ॥ मस्य यत्वे रूपम् । ह्य इत्यव्ययम् । पूर्वेद्युरित्यर्थ । यत्वाभावे मोऽनुस्वार । किव् ह्वलतीति ॥ मस्य वत्व, ह्वल चलने, णिच् । किले् ह्मादयतीति ॥ मस्य लत्व, ह्यादी सुखे च, णिच् । नपरे नः ॥ हे इति वेति म इति चानुवर्तते । न परो यस्मादिति विग्रह । तदाह । नपरे हकार इत्यादिना । किन् हुत इति ॥ हुड् अप नयने, मस्य नत्वे रूपम् । तदभावे मोऽनुस्वार । ड्णोः कुक्कुटुक्शरि ॥ 'हे मपरे वा' इत्यत वेत्यनुवर्तते । कृक्च टुक्चेति समाहारद्वन्द्व आगमाविति । एतच्च आद्यन्तौ टकि । ताविति लभ्यम् । यथासङ्खयपरिभाषया डकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्, उकार उच्चारणार्थ । प्राड् पष्ट , सुगण् षष्ठ, इति स्थिते, यथाक्रम कुकि टुकि व तयो

पूर्वावयवत्वेन पदान्तत्वात् जश्त्वमाशङ्कथाह । कुक्टुकोरिति । चयो द्वितीयाः ।
८४
[हल्सन्धि
सिद्धान्तकौमुदीसहिता

जश्त्वं न । *चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्' (वा ५०२३) । पौष्करसादिराचार्य । प्राङ्ख्षष्ठ-प्राङ्क्षष्ट –प्राड् षष्ठ । सुगण्ठ्षष्ट –सुगण्ट् षष्ठ-सुगण्षष्ठ

१३१ । डः सि धुट् । (८-३-२९)

डात्परस्य सस्य धुड़ा स्यात् । पट्त्सन्न -षट्सन्त ।

१३२ । नश्च । (८-३-३०)

नकारान्तात्परस्य सस्य धुङ्वा स्यात् । सन्त्स -सन्स

१३३ । शि तुक् । (८-३-३१)

पदान्तस्य नस्य शेो परे तुग्वा स्यात् । * शश्छोऽटि' (सू १२०) इति


पौष्करसादिशब्दस्य चयो द्वितीया इत्यर्थभ्रम वारयति । पौष्करसादिराचार्य इति ॥ तथाच विकल्प फलतीति भाव । प्र.ड्क् षष्ठ इति कुकि रूपम् । चयो द्वितीया इति पक्षे प्राड् र षष्ठ इतिरूपम् । नचात्र खकारस्य स्ररि चेति चर्त्वम् । खकारारम्भविधिसामथ्यर्यात् चयो द्वितीया इति, नादिन्याक्रोश इति सूत्रभाष्यपठितमिदम् । प्राइ पष्ठ इति कुगभावे रूपम् । एव टुक्यपि सुगण् ट् षष्ठ इत्यादि । डस्सि धुट् ॥ ड इति पञ्चमी । ततश्च तस्मादित्युत्तर स्येति परिभाषया सीति सप्तमी षष्ठी सम्पद्यते डात्परस्य सस्येति । हे मपरे वेत्यतो वेत्यनुवर्तते । तदाह । डात्परस्येत्यादिना । तस्मिन्निति निर्दिष्ट इति नेह भवति । उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वादिति न्यायात् । धुट् इति चतुर्थधकारनिदेश । टकार इत् । उकार उच्चारणार्थ । धुट् इति द्वितीयविधौ तत्सामर्थ्याच्चर्त्वन्न स्यात् । अन्यथा तकारमेव विद्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम् । प्रथमविवौ तस्य चयो द्वितीया इत्या पत्तों तन्निवृत्या चरितार्थत्वात् । षट् सन्त इति ॥ षष् इति षकारस्य जश्त्वेन ड, षड् सन्त इति स्थिते चर्त्वस्यासिद्धत्वात् डात् परत्वात् सस्य धुट आद्यवयव । तस्य चर्त्वेन तकार । चयो द्वितीया इति तु न । चर्त्वस्यासिद्धत्वात् । ततो लक्ष्यभेदात् उस्य चर्त्वेन ट । नश्च ॥ सि धुट् इति, वेतिचानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति पष्टी सम्पद्यते । तदाह । नकारान्तात् परस्येति । सत्स द्रति ॥ धुटि धस्य चर्त्वम् । शि तुक् । पूर्वसूत्रात् न इति पञ्चम्यन्तमनुवृत्तमिह षष्ठयन्तमाश्रियते । शब्दाधिकाराश्रयणात् पदस्येत्यधिकृतम् अवयवषष्ठयन्तमाश्रीयते । हे मपरे वेत्यतो वेत्यनुवृत्तम् । तदाह । पदा न्तस्य नरस्येत्यादिना । नान्तस्य पदस्येत्युचितम् । उकार उच्चारणार्थे । सन् शम्भुरिति स्थिते नकारस्यान्तावयवस्तुक् । ननु तुग्ग्रहण व्यर्थम् । डस्सि धुडित्यत घुडेवानुवृत्य नकारात् परस्य शस्य विधीयताम्। खरि चेति चर्त्वें सन्तूशम्भुरित्यस्य सिद्धेरित्यत आह । शश्छो ऽटीति छत्वविकल्प इति ॥ शकारस्येति शेष । धुटो विधौ तु तस्य परादित्वात्पदान्तत्वा भावात् छत्वन्न स्यात् । छत्वविधे पदाविकारस्यत्वेन पदान्तात् झय परस्यैव शस्य तत्प्रवृत्ते

प्रकरणम्]
८५
बालमनोरमा

छत्ववकल्प । पक्षे “झरो झरि-' (सू ७१) इति चलोप. । सञ्छम्भु सञ्च्छम्भु--सञ्शम्भु । सञ्च्शम्भु

ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् ।

रूपाणामिह तुक्छत्वचलोपाना विकल्पनात्

१३४ । ङमो ह्रस्वादचि डमुण्नित्यम् । (८-३-३२)

हृस्वात्परो यो डम् तदन्त यत्पद् तस्मात्परस्याचो नित्य डमुडागम स्यात् । प्रत्यङ्डात्मा । सुगण्णीश । सन्नच्युत ।


र्भाष्ये सिद्धान्तितत्वात्। अन्यया विसृपो विरफ्शिन्नित्यादावपि शस्य छत्वापत्ते । पक्ष इति ॥ कदा चित् झगे झरीति तुकस्तकारस्य इचुत्वमापन्नस्य लोप इत्यर्थ । सञ् छम्भुरिति ॥ तकारस्य चुत्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन लकारे रुपम् । सञ् च् छम्भुरिति ॥ चुत्वमापनस्य तकारस्य लोपाभावे नकारस्य च श्चुत्वे जकारे रूपम् । तुको जश्त्वन्तु न । जश्त्वे तस्यासिद्धत्वात् । अत एव श्चुत्वोत्तरमपि जश्त्वन्न । सञ् च् शम्भुरिति ॥ शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम् । सञ्शम्भुरिति ॥ तुक अभावे नकारस्य चुत्वे रूपम्। तदिद रूपचतुष्टय उक्तक्रम श्लोकेन सङ्गृह्णाति । ञछाविति । तुक्छत्वचलोपाना विकल्पनात् अछौ लचछा नचशा नशाविति रूपाणाञ्चतुष्टयमित्यन्वय । ङमो ह्रस्वात् ॥ डम् प्रत्याहार । डम इति पञ्चम्यन्तम् तद्विशेषणत्वात् पदस्येत्यधिकृत पञ्चम्यन्ततया विपरिणम्यते । डम इति च ह्रस्वादिति विशेषणसम्बन्धमनुभूय पदविशेषणत्व भजत् तदन्तपरम् । डम इति पञ्चमी बलात् अचीति सप्तमी षष्ठयये । तदाह । ह्रस्वात्पर इत्यादिना । ङमुडागम इति ॥ टकार इत्, उकार उच्चारणार्थ । सज्ञाया कृत टित्वमानर्थक्यात् तदङ्गन्यायात् सज्ञिर्भि स्सम्बध्द्यते । ततश्च डुट् णुट् नुट् इति त्रय आगमा फलिता । टित्वादच आद्यवयवा ययासख्य प्रवर्तन्ते । हे मपरे वेति वाग्रहणानुवृत्तिशङ्काव्युदासार्य नित्यग्रहणम् । प्रत्यङ्ङात्मेति ॥ प्रत्यङ् आत्मा इति स्थिते आकारात् प्राक् डुट् । सुगण्णीश इति ॥ गण सङ्खयाने, चुरादि । ण्यन्ताद्विचि णिलोप । नत क्विप् । अनुनासिकस्य क्विति दीर्घप्रसङ्गात् । डमुटि कर्तव्ये णिलोपस्तु न स्थानिवत् । पूर्वत्रासिद्धे न स्थानिवदित्युक्त्ते । सुगण् ईश इति स्थितू ईकारात् प्राक् णुट् । सन्नच्युत इति । संन् अच्युत इति स्थिते अकारात् प्राक् नुट् । नच परमदण्डि नावित्यत्र परम दण्डिन् ञौ इति स्थिते प्रत्ययलक्षणेन अन्तर्वर्तिविभक्तया पदत्वान्नुट् स्यादिति वाच्यम् । उत्तरपदत्वेचापदादिविवाविति प्रत्ययलक्षणप्रतिषेधात् । वस्तुतस्तु उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधो यत्र उत्तरपदस्य कार्यित्व तत्रैव प्रवर्तते । अन्यथा पदव्यवायेऽपीति निषेधो माषवापेनेत्यत्र न स्यात् । अत परमदण्डिनेत्यत्र डमुड़ारणाय उणि च पदे इत्यत पदे इत्यनुवर्त्य अजादे पदस्य दृमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपश्चितम् । समस्सुटि ।

८६
[हल्सन्धि
सिद्धान्तकौमुदीसहिता


१३५ । समः सुटेि । (८-३-५)

समो रु स्यात्सुटि । * अलोऽन्त्यस्य' (सन् ४२)

१३६ । अत्रानुनासिकः पूर्वस्य तु वा (८-३-२)

अत्र रुप्रकरणे रो पूर्वस्यानुनासिको वा स्यात् ।

१३७ । । अनुनासिकात्परोऽनुस्वारः । (८-३-४)

अनुनासिकं विहाय रो पूर्वस्मात्परोऽनुस्वारागम स्यात् । * खरवसा

नयोर्विसर्जनीय ' (सू ७६) ।

१३८ । विसर्जनीयस्य सः । (८-३-३४)

खरि विसर्जनीयस्य स स्यात् । एतदपवादेन * वा शरि' (सू १५१)

इति पाक्षिके विसर्गे प्राप्ते । सम्पुङ्काना सो वक्तव्य ' (वा ४८९२) । सॅस्स्क


सम इति षष्ठयन्तम् । 'मतुवसोरुसम्बुद्धौ' इत्यत रुग्रहणमनुवर्तते । तदाह । समो रुस्स्यात् सुटीति ॥ रु इत्युकार इत् । अलोऽन्त्यस्येति उपतिष्ठत इति शेष । सम्पूर्वात् करोतेस्तुचेि 'सम्परिभ्या करोतौ भूषणे' इति सुडागमे सम् स्कतेति स्थिते मस्य रुत्वम् । सर् स्कर्तेति स्थिते । अत्रानुनासिकः ॥ “मतुवसो रुसम्बुद्धौ' इति रुत्वविध्द्यनन्तरमिद पठितम् । अत अत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते । पूर्वत्वञ्च रु इत्यपेक्षया ज्ञेयम् । प्रकृतत्वात् । तदाह । अत्र रुप्रकरणे रो पूर्वस्यानुनासिको वा स्यादिति । उत्तरसूत्रे अनु नासिकाभावपक्षानुवादादेव सिद्धे वाग्रहण स्पष्टार्थम् । परस्य नित्य रुत्वम्, पूर्वस्य तु अनुनासिकविकल्प इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्वष्टार्थ एव । इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणन्तु त्यक्तामिति प्रौढमनोरमाया मूलकृतैव उक्तम् । अनेन सूत्रेण सर् इत्यत्र सकारादकार ! अनुनासिक सॅस्कर्ता । अनुनासि कात् ॥ अनुनासिकादिति ल्यब्लोपे पञ्चमी । विहायेति गम्यम् । पूर्वस्येत्यनुवर्तते । पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वञ्च रुत्वकृतरेफापेक्षया । पतञ्च रोर्य पूर्ववर्णस्तदपेक्षया । तदाह ।, अनुनासिकं विहायेति ॥ अनुनासिकाभावपक्षे इत्यर्थ । आगमत्व परशब्द लभ्यम् । ततश्च राकारादकारस्य अनुनासिकाभावपक्षे अकारात् पर अनुस्वारागम । सर् स्कर्ता । अथ रेफस्य विसर्गविधि स्मारयति। खरवसानयोरिति । विसर्जनीयस्य स. ॥ खरवसानयोरित्यतो मण्डूकप्लुत्या स्वरीत्यनुवर्तते । एकदेशे स्वरितत्वप्रतिज्ञानात् । केचित्तु विस र्गश्रवणात् खरील्यार्थिकम् । अवसानस्य तु न सम्बन्ध । व्याख्यानादित्याहु । तदाह । खरीति ॥ विसर्जनीयत्य स इति सिद्ध सम्पुङ्कानामिति पुनर्विधान व्यर्थमित्यत आह । एतदपवादेनेति । पुनर्विधान वा शरीति पाक्षिकविसर्गबाधनार्थमिति भाव ।सम्पुङ्काना

प्रकरणम्
८७
बालमनोरमा


कर्ता । “ समो वा लोपमेके' इति भाष्यम्। लोपस्यापि रुप्रकरणस्थत्वा र्ता [रानुनासिकाभ्यामकसकारं रूपद्वयम् । द्विसकार तूक्तमव । तत्र * अनचि दनुम्(सू ४८) इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वार चसर्गजिह्वामूलीयोपध्मानीयमानामकारोपरि शर्पु च पाठस्योपसङ्खयात नानुस्वारस्याप्यच्त्वात् । अनुनासिकवता त्रयाणा 'शर खय' (वा ५०१९) इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टाद


मिति ॥ सम् पुम् कान् एतेषा विसर्गस्य सकारो वक्तव्य इत्यर्थः । अनेन वार्तिकेनात्र विस र्गस्य नित्यमेव सत्वामिति शेष । सॅस्स्कर्तेति ॥ अनुनासिकपक्षे रूपम् । सस्स्कर्तेति ॥ अनुस्वारपक्षे रूपम् । उभयत्रापि द्विमकारत्वमेव । समोवेति ॥ समो मस्य सुटि लोप एके आचार्या इच्छन्तीत्यर्थ । एकशब्दोऽन्यपर्याय । “एके मुख्यान्यकेवला' इत्यमर । लोपपक्षेऽपि अनुस्वारानुनासिकाभ्यामेकसकार रूपद्वयमित्याह । लोपस्यापीति । अत्रानुनासिक पूर्वस्य तु वेत्यत्र रो पूर्वेस्येत्युपलक्षण रुप्रकरणविधेयस्य लोपस्यापि । अन्यथा रुप्रकरण इत्यर्थकस्य अत्रत्यस्य वैयर्थ्यात् । एवमनुनासिकात् परोऽनुस्वार इत्यत्र रो पूर्वस्मादित्यपि । ततश्च समो मलोपस्यापि रुप्रकरणस्थतया लोपात्पूर्ववर्तिन अकारस्य कदाचिदनुनासिक तदभावपक्षे अकारात् पर अनुस्वारागम इत्येवमनुस्वारानुना सिकाभ्यामेकसकार रूपद्वयमित्यर्थ । द्विसकारन्तु उक्तमेवेति ॥ रुत्वपक्षे इति शेष । ननु लोपपक्ष एव अनचि चेति सुट्सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात् सम स्सुटीति रुत्वविधान व्यर्थमित्यत आह । तत्रेति । तत्र द्विसकाररूपयो मध्ध्ये रुत्वे सति तत्स्थानिकसकारस्य अनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपद्वयमित्यर्थ । एतदर्थमेव रुत्ववि धानामिति भाव । स्कोरिति लोपस्तु न । रुत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुट्सकारस्य अनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वय सिद्धमिति समो रुत्वविधिर्व्यर्थ एवेति वाच्यम् । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । ननु वर्णसमा म्नाये अनुस्वारस्य पाठाभावात् अनच्त्वात् तत परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह । अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । अकारोपरीति ॥ इकाराद्युपरि पाठे पय सु इत्यप्यै इण परस्य विहितमादेशप्रत्यययोरिति षत्व स्यादिति भाव । कश्चित्तु इणध्ष इति षत्व स्यादिति वदन् बभ्राम । तत्र विसर्गस्यैव षत्वविधे । एवञ्च अनु नासिकपक्षे एकसकार द्विसकार त्रिसकारामिति त्रीणि रूपाणि । एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणा कद्वित्वे त्रीणि, तदभावे त्रीणीति षडित्यर्थ । ननु ककारस्य अच परत्वाभावात् कथमनचि चेति द्वित्व मित्यत आह । शरः खय इतीति । शर परस्य खयो द्वे वा स्त इति वार्तिकार्थ । एवञ्च अनु नासिकपक्षे द्विककाराणि त्रीणि रूपाणि एकककाराणि त्रीणीति षडरूपाणि स्थितानि । अनुस्वार पक्षे तु द्वादशरूपाणीत्याह । अनुस्वारवतामिति ॥ अनुस्वारस्यापीत्यपिना ककारसङ्गह

८८
सिद्धान्तकौमुदीसहिता

शाना तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति ल्सन्धि चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरं शतम्

१३९ । पुमः खय्यम्परे । (८-३-६) पुष्प

अम्परे खयि पुमशब्दस्य रु स्यात् । व्युत्पत्तिपक्षे “अप्रत्ययस् (सू १५५) इति षत्वपर्युदासात्-क पयो प्राप्तौ, अव्युत्पत्तिपक्षे तु पत्व


अनुस्वारपक्षे एकद्वित्रिसकाराणा रूपाणामनुस्वारस्य शर्षु पाठस्योपसङ्खयातत्वेन शर्त्वात् द्वित्वविकल्पे सति द्वयनुस्वाराणि त्राणि (३) एकानुस्वाराणि त्रीणि (३) इति षट् ॥(६)॥ अथ षण्णामप्येषा शर खय इति ककारस्य द्वित्वविकत्पे सति द्विककाराणि षट् (६) । एककका राणि षट् (६) इत्यनुस्वारपक्षे द्वादश (१२) इत्यर्थ । एवञ्च अनुनासिकपक्षे षट् (६) अनु स्वारपक्षे द्वादश (१२) इत्यष्टादश रूपाणि । एषामिति ॥ उक्ताना अष्टादशाना रूपाणा तका रस्य अचो रहाभ्यामिति द्वित्वविकल्पे सति प्रथमस्य तकारस्य यणोमय इति पुनर्द्वित्वे एकै कस्य एकत द्वित त्रितमिति सङ्कलनया एकतान्यष्टादश

(१८) द्वितान्यष्टादश (१८) त्रिता

न्यष्टादश (१८) इति सङ्कलनया चतुरधिकपञ्चाशद्वपाणि(५४) सम्पन्नानीत्यर्थ । अणोऽनुना सिकत्व इति ॥ अणोऽप्रगृह्यस्यानुनासिक इति तकारादकारस्य अनुनासिकत्वविकत्पे सति आनुनासिक्ये चतुष्पञ्चाशत् (५४) तदभावे चतुष्पञ्चाशत् (५४) इति सङ्कलनया अष्टाधिक शत (१०८) रूपाणि सम्पन्नानीत्यर्थे । पुमः । रुग्रहणमनुवर्तते । अम् परो यस्मादिति

विग्रह । तदाह । अम्परे खयीति ॥ पुमान् कोकिल इति कर्मधारये सुपो धातुप्रातिप दिकयोरिति सुब्लुकि सयोगान्तस्य लोप इति सकारलोपे पुम् कोक्लि इति स्थिते मस्य रुत्वम् अनुनासिकानुस्वारविकल्प विसर्ग सम्पुङ्कानामिति स । ननु विसर्जनीयस्य स इत्येव सिद्धे सम्पुङ्कानामित्यत्र पुङ्ग्रहण व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । `कxपयो प्राप्तौ सम्पुङ्कानामिति स इत्यन्वय । विसर्जनीयस्य स इति सत्वापवाद कुरवो कxपो चेति विधि बाधितु पुङ्गहणमित्यर्थ । ननु ‘इदुपधस्य चाप्रत्ययस्य’ इति षत्वविधि कुरवोरित्यस्याप वाद । अतस्त षत्वविधि बाधितु पुङ्ग्रहणमित्येव वक्तुमुचितमित्यत आह । अप्रत्ययस्येति षत्वपर्युदासादिति । पूणो डुम्सुन्नित्यौणादिकप्रत्ययस्यमकारस्थानिकत्वात् विसर्गस्येति भाव । ननु उणादय अव्युत्पन्नानि प्रातिपदिकानीति आयनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात् कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह-। व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्तिनास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाध्ये स्थितम् । तत्र व्युत्पतिपक्षे पुस्शब्दस्य डुम्सुन् प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्य अप्रत्ययस्येति पर्युदासेन इदुपधस्यचाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्ति । अत तत्र कुरवोरितिविधिं वाधितु सम्पुङ्कानामिति पुङ्गहणमित्यर्थ । अव्युत्पत्तीति ॥ औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावपक्षे अप्रत्ययस्येति पर्युदास स्यात्राप्रसत्तेरिदुपधस्येति प्रसक्त षत्व बाधितु सम्पुङ्कानामिति पुङ्गहणमित्यर्थ । पुॅस्कोकिल

प्रकरण]
८१
बालमनोरमा ।


प्राप्तौ । सम्पुङ्कानाम्--' (वा ४८९२) इति स । पुॅस्कोकिल -पुस्कोकिल । पुंस —पुस्पुत्र । “अम्परे' किम् । पुक्षीरम् । 'खयि' किम् । पुदास । याञ्जादेशे न' (वा १५९१) । पुंख्यानम् ।

१४० । नश्छव्यप्रशान् । (८-३-७)

अम्परे छवि नकारान्तस्य पदस्य रु स्यात् । न तु प्रशान्शब्दस्य । विसर्ग । सत्वम् । इचुत्वम् । शाङ्गेिॉश्छिन्धि-शार्ङ्गिश्छन्धि । चक्रिस्रायस्व चक्रिस्रायस्व । पदस्य किम् । हन्ति । * अम्परे' किम् । सन्त्सरु । त्सरु खङ्गमुष्टि । * अप्रशान्' किम । प्रशान्तनोति ।

१४१ । नून्पे । (८-३-१०)

नृन्न, इत्यस्य र स्याद्वा पकार परे ।


इत्यनुनासिकपक्षे रुपम् । पुस्फेकिल इत्यनुस्वारपक्षे रूपम् । ननु “चक्षिड व्यक्ताया वाचि अस्मात् त्युट्, अनीदेश, चक्षिड ख्यान , पुस व्यान पुङ्खयानमित्यत्रापि पुमो मस्य रुत्व स्यादित्यत आह । ख्याञ्जादेशे नेति । भाष्ये ‘चक्षिड ख्याञ्’ इति पठित्वा पूर्वत्रासिद्धमित्यगि-ि द्धकाण्डे रषाभ्यामिति णत्वविद्यनन्तर 'ख्शाजश्शस्य यो वा' इति पठितामिति वक्ष्यते । एवञ्च यत्वस्यामिद्धतया खकारस्य अम्परकत्वाभावात् “पुम खयि' इति रुत्वनेत्यर्थ । पुंख्यान मिति ॥ “मोऽनुस्वार ' 'वा पदान्तस्य' इति परसवर्णविकल्प । नच वर्जने प्रतिषेध असनयो श्चेति अनादेशे परे प्रतिषेधात् कथमत्र ख्याजादेश इति वाच्यम् । ख्यादेशप्रयोजनपरवार्तिके पुङ्खयानमित्यादिप्रयोगात्तदुपपत्ते । नश्छव्यप्रशान् ॥ न इति पठ्यन्त पदस्येत्यधि कृतस्य विशेषणम् । तदन्तविधि । अम्परे इत्यनुवर्तते, रु इति च । तदाह । अम्पर इत्यादिना ॥ अप्रशानिति पष्ठयर्थे प्रथमा । तदाह । नत्विति । विसर्ग इति ॥ शार्ङ्गिन् छिन्धि, चक्रिन् त्रायस्व, इति स्थिते नकारस्यानेन रुत्व अनुनासिकानुस्वारविकत्प । ततो विसर्ग सत्व, सस्य श्चुत्वेन शकार इत्यर्थ । शाङ्गिश्छिन्धीति । अनुनासिकपक्षे रूपम् । शार्ङ्गिश्छिन्धीति । अनुस्वारपक्षे रूपम् । एवञ्चक्रिॉस्रायखेत्यनुनासिकपक्षे । अनुस्वारपक्षे तु चक्रिस्रायस्वेति । त्रैड् पालने । डित्वादात्मनेपद । त्राहीति प्राचीनग्रन्थस्तु प्रामा दिक । त्रायत इति त्रा त्रा इवाचरति त्रा इत्याचारक्विबन्तात् लोट् परस्मैपदमिति वा कथञ्चित् समावेयम् । प्रशानिति ॥ प्रपूर्वात् शाम्यते क्विप् । अनुनासिकस्य क्विति दीर्घ । मो नो धातोरिति मस्य न । तस्यासिद्धत्वान्नलोपो न । नृन्पे ॥ नृन् इति द्वितीयान्त शब्दस्वरूपपर षष्ठयन्तम् । षष्ठयास्सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । मतुवसोरु इत्यत रु इत्यनुवर्तते । उभयथर्क्ष्वित्यत उभयथेत्यनुवर्तते । कदाचित् भवति कदाचित्र भवतीत्येबमुभयथा रु प्रत्येतव्य इत्यर्थ । विकल्प इति यावत् । तदाह । नृनित्यस्येत्या

१०
[लसान्ध
सिद्धान्तकौमुदीसहिता


१४२ । कुप्वोः xकxपौ च । (८-३-३७)

कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाजिह्वामूलीयोपध्मानीयौ सं. । चाद्विसर्ग । येन नाप्राप्तन्यायेन “विसर्जनीयस्य स ' (सू १३८) इत्यस्य पवादोऽयम् । न तु * शर्परे विसर्जनीय ' (सू १५०) इत्यस्य । तेन * वास 'क्षौमम्' इत्यादौ विसर्ग एव । नृॅ- पाहि-नू पाहि- नृँ पाहि-नू पाहि' नृ पाहि

१४३ । । कानात्रेडिते । (८-३-१२)

दिना ॥ अलोऽन्यस्य । नृन् पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकत्प । खरव सानयोरिति रेफस्य नित्य विसर्गे प्राप्ते । कुप्वो.xक-पौ च ॥ कुरवो इनिन्छेद । ओसस्सस्य रुत्वे तस्य रसर्परत्वात् विसर्ग । जिह्वामूलीयस्य शर्तृपसङ्खयातत्वेन शर्त्वात् तस्य च विसर्ग स्य खर्परे शरेि वा विसर्गलोपो वक्तव्य इति लोप । अत सूत्रे कुरवोरिति न विसर्गश्श्रूयते । विसर्जनीयस्य स इत्यतो विसर्जनीयस्येत्यनुवर्तते । तदाह । कवर्गे इत्यादिना ॥ क्रमा दिति यथासङ्खयसूत्रलभ्यम् । चाद्विसर्ग इति ॥ शर्परे विसर्जनीय’ इत्यतो विसर्जनीय इत्यनुकृष्यत इत्यर्थ । चकार पक्षे विसर्गसमुच्चयार्थ इति यावत् । अन्यथा जिह्वामूलीयोप ध्मानीयाभ्या विसर्गस्य बाध एव स्यादिति भाव । एवञ्च प्रकृते पकारे परे विसर्गस्य सत्व बाधित्वा कदाचिदुपध्मानीय कदाचिद्विसर्ग । तयो उच्चारणे भेद । इहादेशयो कपावुच्चा रणार्थौ नतु विधेयकोटिप्रविष्टौ । ननु कुप्वोरिति जिह्वामूलीयोपमानीयविसर्गविधिना यथा विसर्जनीयस्य सत्व बाद्भद्यते, तथा शर्परे विसर्जनीय इति केवलविसर्गविधिरपि बाध्द्येत । तथाच वास क्षौममित्यत्रापि कुप्वोरिति कदाचित् जिह्वामूलीय कदाचिद्विसर्गश्च स्याता । इष्यते तु केवलविसर्ग इत्यत आह । येन नाप्राप्तेति ॥ *येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद ' । इति न्याय । प्राप्तेति भावे क्त । येनेति कर्तरि तृतीया । कर्तृकर्मणोरिति षष्ठी तु न भवति । नलोकेति निषेधात् । द्वौ नञ्जावावश्यकत्व द्योतयत । यस्य विधेरवश्य प्राप्तौ सत्यामित्यर्थ । अनेन न्यायेन कुप्वोरिति विधि विसर्जनीयस्य स इत्यस्यैवापवाद । सत्वे प्राप्त एव तदारम्भात् । शर्परे विसर्जनीय इत्यस्य तु कुरवोरिति नापवाद । क करोतीत्याद्वौ शर्परे खरीत्यप्राप्तेऽपि कुरवोरित्यस्यारम्भादित्यर्थे । तेनेति ॥ वास क्षौम मित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाभावन शर्परे खरीति केवलविसर्ग एव भवतीत्यर्थ । नृ पाहि, नृ* पाहि, इत्युपध्मानीयपक्षे आनुनासिक्ये अनुस्वारे च सति रूपद्वयम् । पाहि, नृ पाहि, इति विसर्गपक्षे अनुनासिकानुस्वाराभ्या रूपद्वयम् । नृन् पाहीति रुत्वाभावे रूपम् । तथाच पञ्च रूपाणि । सूत्रे पे इत्यकार उच्चारणार्थ । तथाच नृन् पुनातीत्यादावपि पञ्च रूपाणि भवन्ति । कानाम्रेडिते ॥ कानिति द्वितीयान्त स्वरूपपर षष्ठयन्तम् । षष्ठवा स्सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते ।

प्रकरणम्]
बालमनोरमा ।


कान्नकारस्य रु स्यादाम्रेडिते परे । “ सम्पुङ्कानाम्' (वा ४८९२) इति स । यद्वा ।

१४४ । कस्कादिषु च । (८-३-४८)

>क><पयोरपवाद । एष्विण उत्तरस्य विसर्गस्य ष स्यात् । अन्यस्य तु स । कॉस्कान्–कांस्कान् । कस्क । कौतस्कुत । सर्पिष्कुण्डिका । धनुष्क पालम् । आकृतिगणोऽयम् ।

१४५ । संहितायाम्। (६-१-७२)

इत्यधिकृत्य ।

१४६ । छे च । (६-१-७३)

रु इत्यनुवर्तते । तदाह । कान्नकारस्यत्यादिना । सम्पुङ्कानामिति ॥ कान् इत्यस्य वीप्साया द्विर्वचने कान् कान् इति स्थिते प्रथमनकारस्य रुत्वे अनुनासिकानुस्वारविकत्प । रेफस्य विसर्ग । तस्य विरार्जनीयस्य स इति सत्व बाधित्वा कुग्वोरिति प्राप्तौ सम्पुङ्कानामिति सत्वमित्यर्थ । वस्तुतस्तु सम्पुन्नानामिति वार्तिके कान् इति निष्फलमित्याह । यद्वेति ॥ कस्कादिषु च ॥ इण इत्यनुवर्तते । इण इति पञ्चम्यन्तम् । विसर्जनीयस्य स इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी । कस्कादिगणे इण परस्य विसर्गस्य परस्यादित्यर्थ । सोऽपदादावित्यत स्म इति प्रथमान्तमनुवर्तते । कस्कादिषु अनिण परस्य विसर्गस्य सत्व स्यादित्यर्थे । तदेव वाक्यद्वय सम्पद्यते । कस्कादिषु तथाविधानामेव कृत षत्वसत्वाना निर्देशादय विपयविभाग । `कपयोरपवाद इति ॥ xकxपयेरित्युप लक्षण कुरवोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति ॥ प्रकृते विसर्गस्य इण परत्वाभावात् न षत्वम् । किन्तु सत्वमित्यर्थ । कॉस्कानिति अनुनासिकपक्षे रूपम् । कास्कानिति अनुस्वारपक्षे रूपम् । अथ कस्कादिगण पठति । कस्क इत्यादिना ॥ वीन्साया द्वित्वे पूर्वखण्डे अकारात् परस्य विसर्गस्य सत्वम् । कx कोऽत्र भा इति प्रयोगे तु सहिताविरहात् सत्वाभाव । कस्कादिषु चेत्यस्य “तयोर्य्ववचि सहितायाम्' इति सहितावि कारस्थत्वादित्याहु । कौतस्कुत इति । वीप्साया द्विर्वचने कुत कुत आगत इत्यर्थे तत आगत इत्यण् । अव्ययाना भमात्रे टिलोप । अतएव निपातनादव्ययात्यबिति न । सर्पिष्कुण्डिकेति । अत्र इण परत्वात् षत्वम् । एव धनुष्कपाल, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कास्कानित्यस्य पाठाभावात् कथ सत्वमित्यत आह । आकृतिगणो ऽयमिति । एवञ्च कस्कादित्वादेव कास्कानित्यत्र सत्वसिद्धेस्सम्पुङ्कानामित्यत्र कान् ग्रहण न कर्तव्यमिति भाव । सहितायाम् । इत्यधिकृत्येति । छे चेत्यादि विधीयते इति शेष । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्य, तथापि सूत्रक्रमानुरोधादिहोक्तम् । छे च ॥

१२
[हल्सान्धि
सिद्धान्तकौमुदीसहिता

ह्रस्वस्य छे परे तुगागम स्यात्सहितायाम् । चुत्वस्यासिद्धत्वाज्जश्त्वेन द । ततश्चत्र्वस्यासिद्धत्वात्पूर्व चुत्वेन ज । तस्य चर्त्वेन च । चुत्वस्या सिद्धत्वात् *चो कु ' (सू ३७८) इति कुत्व न । स्वच्छाया ।

१४७ । आङ्माङोश्च । (६-१-७४)

एग्तयोश्छे परे तुक्म्यात् । * पदान्ताद्वा' (सू १४९) इति विकल्पापवाद् । आच्छादयति । माच्छिदत् ।

१४८ । दीर्घात । (६-१-७५)

दीर्घाच्छे परे तुक्स्यात् । । दीर्घस्याय तुक्, न तु छस्य । “-सेनासु राच्छाया-' (सू ८०८) इति ज्ञापकान् । चेच्छिद्यते ।

१४९ । पदान्ताद्वा । (६-१-७६)

ह्रस्वस्य पितीत्यत् हस्वस्येति तुगिति चानुवर्तते । सहितायामित्यधिकृतम् । तदाह । ह्रस्वस्येति । तुक ककार इत् । उकार उच्चारणार्थ । क्रित्वात् हस्वम्यान्ताव यव । स्वस्य छायेति पठीसमासे सुब्लुकि वफ्रागादकारस्य तुकि स्वत् छायेति स्थिते वस्तुगत्या प्रक्रियाक्रम दर्शयति । चुत्वस्येत्यादिना चुत्वेन ज. इत्यन्तेन । ननु स्वञ्च् छायेति स्थिते तुको स्वावयवस्य पदान्तत्वात् तत्स्थानिकचकारस्य चो कुरिति कुत्व स्यादित्याशङ्कयाह । चुत्वस्येति । आङन्नाडोश्च ॥ छे तुगित्यनुवर्तते । तदाह , । एतयोरिति । आङमाडोरित्यर्थ । ननु दार्घादित्येव सिद्धे किमर्थमिदमित्यत आह । पदान्ता द्वेति विकल्पापवाद इति । आच्छादयति । माच्छिददिति ॥ तुकि पूर्ववत् प्रक्रिया । दीर्धात् ॥ छे तुगित्यनुवर्तते । तदाह । दीघर्धात् छे परे तुझ् स्यादित्यादिनाः ॥ ‘उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्’ इति छकारस्य तुक अन्तावयवस्यात् । ततश्च छिदिधातो र्यडि, द्वित्वे, हलादिशेपे, अभ्यासचर्त्वे, गुणो यड्लुकोगिति अभ्यासगुणे, तडि, चे छिद्यते इति स्थिते, छकारस्यान्त्यावयवे तुकि, तस्य चुत्वेन चकारे सति, तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारात् द्विचकारमेव रूप स्यात्, छकारो न श्रूयेतत्यत आह । दीर्घस्यायं तुगिति ॥ ततश्च छकारात् प्राक् दीर्घस्योपरि तुकि जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति । छकारस्य खर्परकत्वाभावाच्चर्त्वन्नभवतीति चकारात् छकारश्रवण निर्बाधम् । ननु दीर्घस्यायन्तुगिति कुत इत्यत आह । सेनेति । उत्तरसूत्रे पदान्तदीर्घात् छे तुग्विकत्पविधानादिद सूत्रमपदान्तविषयमभिप्रेत्य उदाहरति । चेच्छिद्यत इति ॥

पदान्ताद्वा। तुक्, छे, दीर्घात्, इत्यनुवर्तते। तदाह। दीर्धात्पदान्तादित्यादिना । अयमपि
प्रकरणम्]
१३
बालमनोरमा ।


दीर्घत्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया-लक्ष्मीछाया ।


॥ अथ विसगेस्सन्धिप्रकरणम् ।।

विसर्जनीयस्य स ' (सू १३८) । विष्णुस्त्राता ।

१५० । शर्परे विसर्जनीयः । (८-३-३५)

शर्परे खरि विसर्जनीयस्य विसर्जनीय । न त्वन्यत्। क त्सरु । घनाघन क्षोभण ' इह यथायथ मत्व जिह्वामूलीयश्च न ।

१५१ । वा शरि (८-३-३६)

शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात्

। हरि शेते-हरि

श्शेते । “खर्परे शरि वा विमर्गलोपो वक्तव्य ' (वा ४९०६) । राम स्थाता राम स्थाता । हरि स्फुरति-हरि स्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ।


तुक दीर्घस्यैव नतु छस्य । उक्तज्ञापकात् । इति हल्सन्धि. । विसर्जनीयस्य स. ॥ हलसन्धिनिरूपणे प्रसङ्गादिद व्याख्यातमपि प्रन्करणानुरोधात् पुनरुपन्यस्त विसर्जनीयपदानुवृः तिप्रदर्शनार्थम् । विष्णुस्त्रातेति । विष्णुळाब्दात् सुप्रत्यये तस्य रुत्वे विसर्गे सति विष्णु त्रातेति स्थिते सत्वम् । शर्परे विसर्जनीय. ॥ विसर्जनीयस्येत्यनुवर्तते । सरवसानयो रित्यत रसग्रहण मण्डूफालुत्या अनुवर्तते । शर् परो यस्मादिति बहुव्रीहि । खर विशेष्यम् । तदाह । शर्परे खरीति । विसर्गस्य विसर्गविधौ फलमाह । नत्वन्यदिति ॥ विसर्गस्य विसर्गविधान तदितरपरिसङ्खयानार्थमिति भाव् । किन्तदन्यदित्यत आह । इह यथायथ मिति ॥ “यथास्वे यथायथम्' इति निपातितम् । यथासम्भवमित्यर्थ । क त्यरुरित्यत्र सत्व घनाघन क्षोभण इत्यत्र कुरवोरिति जिह्वामूलीयश्च न भवतीत्यर्थ । तथाच सत्वस्य कुप्वो रित्यस्य चायमपवाद इत्युक्त भवति । वा शरि ॥ विसर्जनीयस्येति विसर्जनीय इति चानु वर्तते । विसर्गस्य विसर्गविधानञ्च तस्य सत्वपरिसङ्खयानार्थम् । वाग्रहणाच सत्वपरिसङ्खयान पाक्षिकम् । तदाह । शरि परे इत्यादिना । हरि. शेत इति ॥ विसर्गस्य विसर्जनीयपक्षे सत्वपरिसङ्खयाने रूपम् । हरिश्शेत इति । विसर्गस्य विसर्गविद्यभावपक्षे सत्वे सति सस्य श्चुत्वेन शकारे रूपम्। खर्परे शरि ॥ खर् सर्परो यस्मादिति वहुव्रीहि । शर् विशेष्यम्। खर्परके शरि परे विसर्गस्य लोपविकल्पो वक्तव्य इत्यर्थ । लोपाभावपक्षे वा शरीति भवति । रामस्था तेति । राम स्थातेति स्थिते विसर्गलोपे अविसर्गमेकसकार रूपम् । एव हरिस्फुरतीत्यत्रापि । पक्षे इति । विसर्गस्य लोपाभावपक्षे वा शरीति विसर्गे सति सविसगेमेकसकार रूपम् । तदुभयाभावे तु सत्वे सति द्विसकार रूपमिति रूपद्वयम् । ततश्च लोपपक्षसिद्धौ विसर्गैकसकार

९४
[विसर्गसन्धि
सिद्धान्तकौमुदीसहिता

'कुरवो xक-पौ च' (सू १४२) । क> करोति-क करोति । क>< खनति-क खनति । क>< पचति-क पचति । कx फलति-क फलति ।

१५२ । सोऽपदादौ । (८-३-३८)

विसर्जनीयस्य स्म स्यादपदाद्या कुप्वा परया । * पाशकल्पककाम्ये ष्विति वाच्यम्' (वा ५०३३) । पयस्पाशम्। यशास्कल्पम्। यशस्कम्। यशस्का म्यति । “ अनव्ययस्येति वाच्यम्' (वा ४९०१) । प्रात कल्पम् । “ काम्ये रोरेवेति वाच्यम्' । (वा ४९०२) । नेह । गी काम्यति ।

१५३ । इणः षः । (८-३-३९)

इण परस्य विसर्गस्म षकार स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिप्क ल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ।

१५४ । नमस्पुरसोर्गत्योः । (-८-३-४०)


रूपसङ्कलनया त्रीणि रूपाणीत्यर्थ । कुरवोः कxपौ च ॥ हल् सन्धिनिरूपणे व्याख्यातमप्येतत् प्रकरणानुरोधात् पुनरुपन्यस्तम्। कx करोतीति जिह्वामूलीयपक्षे । क करोताति विसर्गपक्षे । एव मग्रेऽपि । सोऽपदादौ ॥ कुप्वोरित्यनुवर्तते । अपदादाविति तद्विशेषणम् । द्वित्वे एकवचनमार्ष प्रत्यकाभिप्राय वा एकवचनम् । विसर्जनीयस्येलायनुवर्तते । तदाह । विसर्जनीयस्येत्या दिना ॥ कुरवोरित्यस्यायमपवाद । पाशाकल्पक ॥ एतद्वार्तिक्र ग्रन्थकृता न धृतम् । पयस्पाशमिति । याग्ये पाशप् कुत्सित पय इत्यर्थ । यशस्कल्पमिति ॥ ईषदसमाप्तौ कल्पप । ईपदसमाप्त यश इत्यर्थ । यशास्कमिति । अज्ञाते कुत्सित इत्यादिना क । यशस्काम्यतीति ॥ यश आत्मन इच्छतीत्यर्थे सुप आत्मन इत्यनुवृत्तौ काम्यच्चेति काम्यच् । सनाद्यन्ता इति०१धातुत्वाल्लटादय । अनव्ययस्य । सोऽपदादाविति विधि अव्ययविसर्गस्य न भवतीत्यर्थ । प्रात:कल्पमिति ॥ ईषदसमाप्तौ कत्पप् । ईषदसमाप्त प्रात काल इत्यर्थ । अधिकरणशक्तिप्रधानस्यापि प्रातश्शब्दस्य वृत्तिविषये शक्तिमत्प्रधानत्वन्नविरुध्द्यते । दोषा भूतमह दिवग्भूता रात्रिरिति वत् । काश्ये रो. ॥ काम्यप्रत्यये परत रुस्थानिकस्यैव विसर्गस्य सोऽपदादाविति विधिर्भवतीत्यर्थ । गी.काम्यतीति ॥ गिरमात्मनइच्छतीत्यर्थे काम्यजादि पूर्ववत् । गृ धातो क्विपि 'ऋत इद्धातो ' इति इत्वे रपरत्वे रेफस्य विसर्ग । तस्य च रुस्थानिकत्वाभावान्नसत्वम् । किन्तु कुरवोरित्येव भवतीत्यर्थ । इणष्ष. ॥ इण इति पञ्चमी । परस्येत्यध्द्याहार्यम् । विसर्जनीयस्येत्यनुवर्तते । तदाह । इणःपरस्येति । पूर्वविषये इति । अत्र कुरवोरिति अपदादाविति अन्नव्ययस्येति काम्ये रोरेवेति च सम्बद्धद्यत इति भाव । तेन उचै कत्प, दो पाश, गी काम्यतीत्यादौ न षत्वमिति भाव । सर्पिष्पाशमित्यादौ पूर्ववत् पाशबादि । नमस्पुरसोः ॥ इत उत्तरमपदादाविति न सम्ब

प्रकरणम्]
बालमन्नारमा ।

गतिसज्ञयोरनयोर्विसर्गस्य स कुरवो परयो । नमस्करोति । साक्षा त्प्रभृतित्वात्कृव्यो योगे विभापा गतिसज्ञा । तदभावे नम करोति । “पुरोऽ व्ययम्' (सू ७६८) इति नित्यं गतिसञ्ज्ञा । पुरस्करोति । अगतित्वान्नेह । पू पुरौ पुरा प्रवेष्टव्या ।

१५५ । इदुपधस्य चाप्रत्ययस्य । (८-३-४१)

इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य ष स्यात्कुप्वो । निष्प्रत्यूहम् आविष्कृतम् । दुष्कृतम् । * अप्रत्ययस्य' किम् । अग्नि करोति । वायु करोति । ध्द्यते । विसर्जनीयस्य स इति कुरवोरिति चानुवर्तते । तदाह । गतिसञ्ज्ञयोरित्यादिना ॥ कुप्वोरित्यस्यायमपवाद । नमस्करोतीति । नमस इति राकारस्य रुत्वे विसर्गे तस्य कुरवोरिति विधि बाधित्वा अनेन सत्वम् । ननु प्रादिषु पाठाभावात् कथन्नमश्शब्दस्य गतित्व मित्यत आह । साक्षादिति । विभाषेति । साक्षात् प्रभृतीनि चेत्यत्र विभाषा कृजीत्यतो विभाषेत्यनुवृत्तेरिति भाव । तदभाव इति । गतित्वाभावपक्षे कुप्वोरिति जिह्वामूलीये सति नमx करोतीति रूपमित्यर्थ । पूरः प्रवेष्टव्या इति । 'पृ पालनपूरणयो ' भ्राजभासेत्यादिना क्विप्, उदोष्ठयपूर्वस्येत्युत्व, रपरत्व, ततो जसि अनव्ययत्वेन गतित्वाभावान्न सत्वम्। अनव्ययत्व सूचनार्थमेव पू पुर इत्युक्तम् । इदुदुपधस्य । विसर्जनीयस्येत्यनुवर्तते । इदुदुपवस्येति तद्वि शेषणम्। इदुतौ उपवे यस्येति बहुव्रीहि । कुरवोरिति चानुवर्तते । तदाह । इकारोकारेति । अ प्रत्ययस्येति ॥ प्रत्ययावयवभिन्नस्येत्यर्थ । प्रत्यभिन्नस्य विसर्गस्येत्यर्थे तु कविभि कृतमि त्यत्रापि षत्व स्यात् । तत्र पिस प्रत्ययत्वेऽपि विसर्गमात्रस्य प्रत्यत्वाभावात् । अत्र इदुद्भद्या मप्रत्ययस्येत्येतावतैव इदुद्भयामुत्तरस्य विसर्गस्येत्यर्थस्य सिद्धत्वादुपधाग्रहण न कर्तव्यमिति हयवरट् सूत्रे भाष्ये स्थितम् । “उपधाग्रहणन्नकरिष्यते । इदुद्भयान्तु पर विसर्जनीय विशेष यिष्याम ” इति । निष्प्रत्यूहमिति । प्रत्यूहो विन्न तस्याभाव निष्प्रत्यूह । अर्थाभावे अव्ययीभाव । आविष्कृतमिति । 'प्रकाशे प्रादुराविस्यादित्यमर'। दुष्कृतमिति ॥ दुस् दुरिति प्रादौ पठितम् । तत्र प्रथमस्य सान्तस्य षत्व निर्विवादम् । रेफान्तस्य तु इदुपधस्य सकारस्य यो विसर्जनीय इति हयवरट्सूत्रस्यभाष्यसम्मतपक्षान्तरे षत्वन्न भवति । तत्र विसर्जनीयस्य सकारस्थानकत्वाभावात् । अग्निः करोतीति । विसर्गस्य व्यपदे शिवद्रावेन प्रत्ययावयवत्वादिति भाव । ननु मातृशब्दात् पञ्चम्येकवचन डसि । ऋत उदिति ऋकारस्य अकारस्य च उकार एकादेश । रपरत्वम् । मातुर् स् इति स्थिते रात् सस्येति सलोप । मातु कृपेत्यत्रापि षत्व स्यात् । उर् इत्येकादेशस्य पूर्वान्तत्वेन अप्रत्ययतया तद् वयवरेफस्थानिकविसर्गस्य प्रत्ययावयवत्वाभावात् । नच उ इत्यस्यैव एकादेशतया पूर्वान्तत्वेऽपि रेफस्य प्रत्ययावयवत्वमस्तीति वाच्यम् । उरणूपर इत्यत्र आद्यन्तौ टकितावित्यत अन्तग्रहणानु वृत्तिमङ्गीकृत्य रेफस्य एकादेशान्तताया भाष्ये सिद्धान्तितत्वात् । अत एव च रदाभ्यामिति

'
'[विसर्गसन्धि
सिद्धान्तकौमुदीसहिता

१५९ । नित्यं समासेऽनुत्तरपद्स्थस्य । (८-३-४५)

इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्य प स्यात्कुवा परयो सर्पिष्कुण्डिका । “अनुत्तरपदस्थस्य' इति किम् । परमसर्पि कुण्डिका । कस्का

१६० । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य। ८-३-४६

अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्य सकारादेश स्यात्करो त्यादिषु परेषु । न तूतरपदस्थस्य । अयस्कार । अयस्काम । अयस्कंस । अयस्कुम्भ । अयस्पात्रम् । अयस्सहिता कुशा । अयस्कुशा । अयस्कर्णी । ‘अत ' किम् । गी कार । “अनव्ययस्य ' किम् । स्व काम । “समासे' किम् । यश करोति । “ अनुत्तरपदस्थस्य' किम् । परमयश कार ।

१६१ । अधश्शिरसी पदे । (८-३-४७)


षत्वापत्ते । नित्य समासे ॥ इसुमोरित्यनुवर्तते, कुग्वोरितेि, विसर्जनीयस्येति, च । तदाह । इसुसोरित्यादिना । सर्पिष्कुण्डिकेति ॥ सर्पिष कुण्डिकेति विग्रह । समासे व्यपेक्षालक्षणसामर्थ्यस्यापि सत्वात् 'इमुसोस्सामर्थ्ये' इति षत्वविकल्पे प्राप्त वचनमिदम् । परम सर्पिःकुण्डिकेति । अत्र विसर्गस्य उत्तरपदस्थत्वान्न पत्वम् । इदुपधस्येति षत्वन्तु न । विसर्गस्यात्र प्रत्यावयवत्वात् । प्रत्यभिन्नस्य विसर्गस्येति व्याख्याने तु अत्रापि इदुदुप धस्येति षत्व स्यात् । अत्र विसर्गस्य प्रत्ययैकदशतया प्रत्यभिन्नत्वात् । नन्वनेनैव सिद्धे कस्कादिषु सर्पिष्कुण्डिकाशब्दपाठो व्यर्थ इत्यत आह । कस्कादिष्विति । व्यपेक्षाविर हेऽपीति ॥ तिष्ठतु सर्पि कुण्डिका पश्येत्यादावित्यर्थ । अत्र चासमासत्वान्नित्य समास इति न भवति । सामर्थ्याभावाच्च इसुसोस्सामर्थ्य इति च न भवति । प्रत्ययावयवत्वादिदुपधस्ये त्यपि न भवति । अतस्तत्र षत्वप्राप्यर्थे कस्कादिषु पाठ इति भाव । व्यपेक्षायामिति ॥ इद सर्पिष्कुण्डिकाया इत्यत्रेत्यर्थ । तत्र इमुसोस्सामर्थ्य इति विकल्पप्राप्तौ नित्यषत्वार्थ कस्कादौ पाठ इति भाव । अतः कृकमि ॥ अत इति पञ्चमी । “विसर्जनीयस्य’ इति “निलय समासेऽनुत्तरपदस्थस्य ' इति चानुवर्तते । तदाह । अकारादित्यादिना । अयस्कार इति ॥ कुप्वोरिति बाधित्वा सत्वम् । एवमग्रेऽपि । अयस्सहितेति । अयसो विकार इति तु नोक्तम् । जानपदेत्यादिना डीष्प्रसङ्गात् । अयस्कर्णीति । अय इव कणौ यस्या इति विग्रह । नासिकोदरेति डीष् । अधश्शिरसी ॥ अवश्शिरसी इति षष्ठयर्थे प्रथमा । विसर्जनी यस्येति, स इति, चानुवर्तते । तदाह । एतयोरिति ॥ कुप्वोरित्यस्यापवाद । अधस्पद्

११
बालमनोरमा

एतयोविसर्गस्य सादेश स्यात्पदशाब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अध पदम् । शिर पदम् । अनुत्तरपदस्थस्येत्येव । परमशिर पदम् । कस्कादिषु च । भास्कर ।

॥ अथ विसर्गसन्धिप्रकरणम् ।

'स्वौजसमौट्-' (सू १८३) इति सुप्रत्यये 'शिवम् अर्च्र्य ' इति स्थिते ।

१६२ । ससजुषो रुः । (८-२-६६)

पदान्तस्य सस्य * सजुष्' शब्दस्य च रु स्यात् । जश्त्वापवाद !

१६३ । अतो रोरप्लुतादुप्लुते । (६-१-११३)

अग्लुतादत परस्य रोरु स्यादप्लुतेऽति । “ भोभगोअघो–' (सू १६७) इति प्राप्तस्य यत्वस्यापवाद । उत्वं प्रति रुत्वस्यासिद्धत्व तु न भवति । रुत्व मनूद्योत्वविधे सामर्थ्यात् ।


मिति ॥ पदस्याध इति विग्रह । मयूरव्यमकादित्वान् समास । शिरस्पदमिति ॥ शिरस पदमिति विग्रह । सौत्रक्रममनुरुद्ध पुनराह। कस्कादिषु चेति । भास्कर इति । अत इति तपरकरणादत कृकमीत्यस्य न प्राप्तिरिति सत्वप्राप्त्यर्थ कस्कादौ भास्करशब्दस्य पाठ इति भाव । स्वौजसमौडिति । ससजुषो रुः ॥ ससजुषो रु इति श्छेद । 'रोग् ि? इति रेफलोप । सश्च सजूश्च मसनुप्रै तरिति विग्रह । रुविधौ उकार इत्। तत्फल त्वनुपदमेव वक्ष्यते । स इति पदस्येत्यविकृत सकारेण सजुष्शब्देन च विशेष्यते अतस्तदन्तविधि । सकारान्त सजुष्शव्दान्तच्च यत्त पद तस्य रस्स्यादिति । सच अलोऽन्त्यस्ये त्यन्त्यस्य भवति । ततश्च फलितमाह । पदान्तस्य सस्येति । सजुष्शब्दस्य चेति ॥ सजुषशब्दान्त यत् पद तदन्तस्य षकारस्येत्यर्थ । ततश्च सजुपौ सजुष इत्यत्र पकारस्य न रुत्वम्। पदान्तत्वाभावात् । सजुषशव्दान्त यत्पदमिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्ति । नच मजूरित्यत्राव्याप्तिश्शङ्कया । व्यपदेशिवद्भावेन तदन्तत्वात् । ‘व्यपदेशिवद्रावोऽप्रातिपदिकेन'इति, ग्रहणवत्ता प्रातिपदिकेन तदन्तविधिर्न' इति च, परिभाषाद्वय प्रत्ययग्रहणे यस्मादिति विषय, नतु येनविधिरिति विषयमिति ‘असमासे निष्कादिभ्य' इति सूत्रे भाष्ये स्पष्टम् । ननु शिवस् इति सका रस्य 'झलाञ्जशोऽन्त’ इति जश्त्वेन दफकारस्स्यात् । जश्त्व प्रति रुत्वस्य परत्वेऽपि असिद्धत्वात् । इत्यत आह । जश्त्वापवाद् इति । तथा च रत्वस्य निरवकाशत्वान्नासिद्धत्वमिति भाव ।

तदुक्त भाष्ये। ‘पूर्वत्रासिद्धेनास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति, अपवादो वचनप्रामाण्यात्’इति
१००
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


१६४ । प्रथमयोः पूर्वसवर्णः । (६-१-१०२)

अक प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेश स्यात् । इति प्राप्ते

१६५ । नादिचि । (६-१-१०४)

अवर्णादिचि परे न पूर्वसवर्णदीर्घ आद्गुण ' (सू ६९) * एड पदान्तादति' (सू ८६) शिवोऽर्च्य इति तपर किम् । दवा अत्र अति' इति तपर किम् । श्व आगन्ता अप्लुतान् ' किम् । गहि सुस्रोत३


च । शिवर् अच्र्य इति स्थिते । अतो रो' ॥ ऋत उदित्यत उदित्यनुवर्तते । अत इति पञ्चमी एड पदान्तादतीत्यत अतीत्यनुवर्तते । तदाह । अप्लुतादित्यादिना त्वा “भो भगो अघो अपूर्वस्य योऽशि' इति यत्व परत्वात् स्यात् । नच यत्वस्यामिद्धत्वात् उत्व निर्वाधमिति वाच्यम् । कृतेऽपि यत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वात् । अत आह । यत्वस्यापवाद इति । यद्यपि भो भगो अघो इत्यशे उत्वन्नापवाद , तथाप्यपूर्वस्ये त्यशे उत्वमपवाद प्राप्त एव । अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भाव । ननु उत्व प्रति रोरसिद्धत्वात् कथमुत्व तस्येत्यत आह । उत्व प्रतीति ॥ शिव ऊ अर्च्र्य इति स्थिते प्रथमयो अकस्सवर्णे' इत्यत अक इति, इकोयणचीत्यत अचीति चानुवर्तते एक पूर्वपरयोरित्यविकृतम् । प्रथमयेारित्यवयवषष्ठी प्रथमाद्वितीये सुविभक्ती विवक्षिते तदाह ।अकः प्रथमेत्यादिना । इति प्राप्त इति ॥ शिव उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे अकारे प्राप्त इत्यर्थ । नादिचि न आदिति छेद आदिति पञ्चमी पूर्वसवर्ण इत्यनुवर्तते । तदाह । अवर्णादिति । अनेन शिव उ इत्यत्र पूर्वसवर्णदीर्घनिषेध आद्गुण इति ॥ शिव उ इति स्थिते आद्गुण इति गुण बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मि निषिद्धे सति बाधके निवृत्ते गुण पुनरुन्मिषति “देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्म ज्जनम्' इति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हनने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थं । देवदत्त हन्तुमुद्युक्तस्य हनने तु देवदतस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्व सवर्णदीर्घण गुणो न हत । किन्तु हननोद्यमसजातीय प्रसक्तिमात्र पूर्वसवर्णदीर्घप्रसक्तया स्थितम् । प्रसक्त्ते च तस्मिन्निषिद्धे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम् । ‘अपवादे निषिद्धे उत्सर्गस्य स्थिति' इति न्यायश्च एतन्मूलक एव । “तौ सत्, भिद्योध्धौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एडः पदान्तादतीति ॥ शिवो अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूप ओकार देवा अत्रेति । देवास् अत्रेति स्थिते सस्य रु तस्य दीर्घदाकारात् परत्वादत परत्वाभावादुत्वन्न । किन्तु भो भगो इति यत्वे लोपश्शाकल्यस्येति लोप श्व आगन्तेति श्वस् आगन्तेति स्थिते, सस्य रु तस्य हूस्वाकारपरकत्वाभावादुत्वन्न । किन्तु यत्व लोपश्च । एहीति ॥ सुस्रोतस् शब्द कस्य चित् सज्ञा । सम्बुद्धेर्हडयादिलोप, दूरादृते चेति टे प्लुत, सस्य रु,। सुस्रोतर् अत्रेति स्थिते

प्रकरणम्]
१०१
बालमनोरमा ।


अत्र स्त्राहि । प्लुतस्यासिद्वत्वादत परोऽयम् । “ अप्लुतात्' इति विशेषणे तु तत्सामर्थ्यान्नामिद्धत्वम् । तपरकरणस्य तु न सामर्थ्र्यम् । दीर्घनिवृत्त्या चरि तार्थत्वात् । * अप्लुते' इति किम् । तिष्ठतु पय अ३ग्निदत्त “गुरोरनृत (सू ९७) इति प्लुत ।

१६६ । हृशि च । (६-१-११४)

अप्लुतादत परस्य रोरु• स्याद्धशिा । शिवो वन्द्य । “ रोरित्युकारा नुबन्धग्रहणान्नेह । प्रातरत्र । धातर्गच्छ । देवास्म् इह' इति स्थिते । रुत्वम् ।


प्लुतात् परस्य रो उत्वनिवृत्तये अप्लुतादिति पदमित्यर्थ । नन्वत्र रो अत परत्वाभावादेव उत्वनिवृत्तिमिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह । प्लुतस्यासिद्धत्वादत परोऽयमिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादत परोऽय रु । अतस्तस्य उत्वे प्राप्ते तन्निवृत्यर्थमप्लुता दित्यावश्यक्रमित्यर्थ । नन्वप्लुतादित्युक्त्तेऽपि रोरुत्वमत्र दुर्वारम् । उत्वे कर्तव्ये प्लुतस्या सिद्धतया अप्लुतात् परत्वस्यापि सत्वादित्यत आह । अप्लुतादिति विशेषणे तु तत्सा मर्थ्यन्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये लुतस्यासिद्धत्व, तर्हि अप्लुतादिति विशेषण व्यर्थमेव स्यात् । दत्तेऽपि विशेषणे प्लुतस्यासिद्धतया अप्लुतात् परत्वस्यापि सत्त्वेन उत्वप्राप्ति दोषतादवस्थ्यात् । अत अप्लुतादिति विशेषणसामर्थ्यात्, प्लुतस्य नासिद्धत्वमिति विज्ञायते इत्यर्थ । नन्वेवमपि अप्लुतादिति व्यर्थम् । प्लुतात् परम्य रो अत इति तपरकरणादेव उत्त्व निवृत्तिसिद्धे । नच उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादत परत्वस्यापि सत्वादुत्व स्यादिति वाच्यम् । तपरकरणसामर्थ्यदेव प्लुतस्यासिद्धत्वाभावविज्ञानेन अत परत्वाभावेनैव उत्वनिवृत्तेस्सम्भवादि त्यत आह। तपरकरणस्य तु न सामर्थ्यमिति ॥ प्लुतस्यासिद्धत्वाभावसाधने इति शेष । कुत इत्यत आह । दीर्घनिवृत्त्येति ॥ देवा अत्रेत्यादौ दीर्घव्यावृत्या लब्धप्रयोजनकत्वादित्यर्थ । येन विना यदनुपपन्न तत्तस्य गमकम् । यथा दिवा अभुञ्जानस्य पीनत्व रात्रिभोजन विना अनुपपद्यमान रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि अत इति तपरकरण देवा अत्रेत्यादौ दीर्घव्यावृत्तिरूप प्रयोजन लब्ध्वा उपपद्यमान कथ प्लुतस्यासिद्धत्वाभाव गमयितु शक्नुयादिति माव । तिष्ठतु पय अ३ ग्निदत्तेति । अत्र पयस् इति स्थिते सस्य रु तस्य प्लुतपरकत्वादुत्वन्न । ननु दूराद्भूते चेति वाक्यस्य टे प्लुतविधानात् कथमिह अग्निदत्त शब्दे आद्यवर्णस्य प्लुत इत्यत आह । गुरोरिति । हशि च ॥ अतो रोरप्लुतादिति पद त्रयमनुवर्तते । ऋत उदित्यत उदिति च । तदाह। अप्लुतादित्यादिना । शिवो वन्द्य इति ॥ शिवस् वन्द्य इति स्थिते सस्य रु । तस्य अत्परकत्वाभावात् पूर्वसूत्रेण उत्व न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छेत्यत्र रेफस्य अतो रोरिति हाशि चेति च उत्व कुतो न स्यादित्यत आह । रोरित्युकारेति । उकार अनुबन्धः इत् यस्य सः उकारानुबन्ध । तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र वातर्गच्छेत्यत्र रेफ़स्य उत्वत्र भवति ।

१०२
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


१६७ । भोभगोअघोअपूर्वस्य योऽशि । (८-३-१७)

एतत्पूर्वकम्य रोर्यादेशा स्यादशि परे । अमन्धि सौत्र लोपश्शाक ल्यस्य' (सू ६७) । देवा इह-देवायिह । “ अशि' किम् । देवास्सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते, तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । न ह्ययमल्विाधि । रोरिति समुदायरूपाश्रयणात् । भोस् , भगोस्, अघोस् , इति सकारान्ता निपाता । तेषां रोर्यत्वे कृते ।


प्रातर् इति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धि सु ऋतो डि सर्वनामस्थानयो ' इति ऋकारस्य गुण अकारो रपर, हल्ङ्यादिना सुलोप । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वन्न भवतीत्यर्थ । अथ देवा इहेति रूपन्दर्शयितुमाह । देवास् इह इति स्थिते रुत्वमिति । भो भगो ॥ रोस्सुपीत्यतो रेरित्य नुवर्तत । भो भगो अघो अ इत्येपा द्वन्द्व । एते पूर्वे गस्मादिति बहुव्रीहि पूर्वशब्दश्च प्रत्येक सम्बध्द्यते । भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अकारपूर्वकस्य च रोरिति । तदाह । एतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र अघो अपूर्वस्येत्यत्र च एट पदान्तादतीति पूर्वरूपमाशङ्कयाह। असन्धिरिति ।। सन्ध्यभावस्सूत्रप्रयुक्त इत्यर्थ कृतलब्ध इत्यण् । देवाय इह इति स्थिते यलाप स्मारयति । लोपश्शाकल्यस्येति । देवा इहेति यलोपपक्षे रूपम् । तदभावे देवायिहेति । देवास्सन्तीति । देवास् सन्तीति स्थिते सस्यं रु । तस्य अश्परकत्वाभावाद्यत्वन्न । किन्तु विसर्ग । विसर्जनीयस्य स । नन्विह अञ्ग्रहण व्यर्थम् । न च देवार सन्तीति स्थिते रेफस्य यत्वव्यावत्यर्थन्तदिति वाच्यम्। यत्वस्यासिद्धतया विसर्गसति सत्वे देवास्सन्तीति सिद्धरिति शङ्कते । यद्यपीति ॥ परिहरति । तथापीति ॥ अस्तु यत्वस्या सिद्धत्वात् रेफस्य विसर्ग । तथापि तस्य स्थानिवद्भावेन रुत्वाद्यत्व दुर्वारम्। अत अश्ग्रहणमा वश्यकामिति भाव । ननु यत्वविवो विसर्गस्य स्थानिवद्भावेन कथ रुत्वम् । अनल्विधाविति निषे धात् विसर्गस्थानिभूत रेफमाश्रित्य प्रवर्तमानस्य यत्वविधे स्यान्यलाश्रयत्वादित्यत आह । नह्ययमल्विधिरिति । कुत इत्यत आह । रोरिति समुदायरूपाश्रयणादिति ॥ यद्यपि यत्वविधि विसर्गस्यानिभूत रेफमाश्रयति, तथापि नाल्विधि । ह्रस्वत्वादिरूपवर्णमात्र वृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविवि रुत्वेनैव रेफ माश्रयति नतु रेफत्वेन । तथा सति प्रातरत्रेत्यादावतिव्याप्ते । रुत्वञ्च रेफोकारसमुदायधर्म । नतु रेफमात्रवृत्ति । अतो यत्वविधि विसर्गस्थानिभूत रेफ न वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्र यतीति नाविधि । अत यत्वे कर्तव्ये विसर्गस्य स्थानिवद्रावेन रुत्वाद्यत्व स्यात् । अत अशीति परनिमित्तमाश्रितामिति भाव । निपाता इति ॥ चादेराकृतिगणत्वादिति भाव । रोर्यत्वे कृत इति । भो भगो अघो इत्यनेनेति शेष । भोय् अच्युत इति स्थिते लोपश्शाकत्यस्येति

प्रकरणम्]
१०३
बालमनोरमा ।

१६८ । व्योर्लघुप्रयत्नतरः शाकटायनस्य । (८-३-१८)

पदान्तयोर्विकारयकारयोर्लघूचारणौ वयौ वा स्ताऽशि परे । यस्योञ्चारणे जिह्वाग्रोपाग्रमध्द्यमूलाना शैथिल्य जायते स लघूच्चारण ।

१६९ । ओतो गार्ग्यस्य । (८-३-२०)

ओकारात्परस्य पदान्तस्यालघुप्रयत्रस्य यकारस्य नित्य लोप स्यात् । गार्ग्यग्रहण पूजार्थम् । भो अच्युत ! लघुप्रयत्नपक्ष, भोयच्युत ।। *पदान्तस्य किम् । तोयम् ।

१७० । उञि च पदे । (८-३-२१)

अवर्णपूर्वयो पदान्तयोर्यवयोलोप उञ्जि परे । स उ एकाग्नि । पदे ।


न भवति । यकारस्य अपूर्वकत्वाभावात् । व्योर्लघु ॥ व्च यच व्यौ तयोरिति विग्रह । पदस्यत्यधिकृतम् । तच्च वकारयकाराभ्या विशेष्यते । तदन्तविधि । वान्तस्य यान्तस्य च पदस्येति लभ्यते । अलोऽन्त्यस्येत्यन्त्यस्य भवति । तथाच पदान्तयोर्यवयोरिति फलितम् । लघु प्रयत्न्नो यस्योच्चारणे स लघुप्रयत्न्न ! अतिशयित लघुप्रयत्न लघुप्रयत्न्नतर । अन्यपदा र्थस्य च वृत्तिपदार्थप्रकर्षापेक्ष प्रकर्ष । लघुतरप्रयत्रक इत्यर्थ । प्रत्यकाभिप्रायमेकवचनम् । आन्तर्यात् यस्य य वस्य च । अशीत्यनुवर्तते । शाकटायनमुनिग्रहणाद्विकल्प । तदाह । पदान्तयोरित्यादिना ॥ उच्चारणप्रयत्र लघुतरत्व विशदयति । यस्येति ॥ ततश्च भोय् अच्युतेत्यत्र यकारस्य पाक्षिको लङ्घुप्रयत्नो यकार । वकारोदाहरणन्तु “असावादित्य इति वृत्ति ' इति शब्देन्दुशेखरे । ओतो गार्ग्यस्य ॥ ओत इति पञ्चमी । व्योरित्यतो यग्रहणमनु वर्तते । नतु वकारोऽपि । ओत परस्य तस्यासम्भवात् । पदस्येत्यधिकृत यकारेण विशेष्यते । तदन्तविधि । ओकारात् परो य यकारस्तदन्तस्य पदस्येति लभ्यते । अलोऽन्त्यपरिभा षया पदान्तस्य यकारस्येति फलितम् । भो भगो इत्यत अशीत्यनुवर्तते । लोपश्शाकल्यस्ये त्यतो लोप इत्यनुवर्तते । सच पूर्वविहितलघुप्रयत्न्नस्य न भवति । विवानसामर्थ्यात् । तदाह । ओकारादित्यादिना । ननु लोपस्य कथन्नित्यत्वम् । गार्ग्यग्रहणादित्यत आह । गार्ग्य ग्रहणं पूजार्थमिति ॥ व्याख्यानादिति भाव । भो अच्युतेति ॥ अलघुप्रयन्नपक्षे यकारस्य नित्य लोप । लघुप्रयत्न्नपक्षे भोयच्युतेति । अत्र लघुप्रयत्न्नस्य विधिसामर्थ्यान्न लोप । तोयमिति । अत्र यकारस्य पदान्तत्वाभावादोतोगार्ग्यस्येति न भवति । अनेन अत्र भो भगो इति नानुवर्तत इति सूचितम् । उञि च पदे ॥ अपूर्वस्येति पदस्येति व्योरिति लोप इति चानुवर्तते । तदाह । अवर्णेति । स उ एकाग्निरिति ॥ उ इति निपात । सस् उ इति स्थिते, सस्य रु, भो भगो इत्यपूर्वत्वात् यत्वम् । लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थ

मिदम् । वकारोदाहरणन्तु असा उ एकाग्निरिति वृत्ति । पदे किमिति ॥ उञ पदत्वाव्यभि
१०४
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


किम् । तत्रयुतम् । वेव्य सम्प्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञ्पिति ग्रहीष्यते, तर्ह्युत्तरार्थ पद्ग्रहणम् ।

१७१ । हलि सर्वेषाम् । (८-३-२२)

भोभगोअघोअपूर्वस्य लध्वलघूच्चारणस्य यकारस्य लोप स्याद्धलि सर्वेषां मतेन । भो देवा । भो लक्ष्मी । भो विद्वन्द । भगो नमस्ते । अघो याहि । देवा नम्या । देवा यान्ति । “ हलि' किम् । देवायेिह—देवा इह ।


चारात् पदे इति तद्विशेषणस्य कि प्रयोजनमिति प्रश्न । तन्त्रयुतमिति ॥ तन्त्रे उतमिति विग्रह । अयादेश । अत्र यकारस्य लोपनिवृत्त्यर्थ पदग्रहणमिति भाव । नन्वत्र उ परकत्वाभावादेव लोपनिवृत्तिसम्भवात् पदग्रहण व्यर्थमेवेत्यत आह । वेञ् इति । “वेञ् तन्तुसन्ताने' इत्यत त्क्तप्रत्यये, ‘वचिस्वपियजादीनाम्’ इति चकारस्य सम्प्रसारणे, उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उञ्परकत्वेऽपि तस्य उञ पदत्वाभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थे । ननु स उ एकाग्निरित्यत्र उञ प्रतिपदोक्त । चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिक । सम्प्रसारणादिविविनिष्पन्नत्वात । ततश्च 'लक्षणप्रतिपदो त्क्तयो प्रतिपदोक्तस्यैव ग्रहणम्’ इति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहण भविष्यति । नतु उतमित्यत्र उञोऽपि । अत पदग्रहण व्यर्थमेवेत्यत आह्। यदीति । उत्तरार्थमिति । डमो हूस्वादचीत्यर्थमित्यर्थ । एतचात्रैव भाष्ये स्पष्टम् । हलि सर्वेषाम् । भो भगो अघो अपूर्वस्येत्यनुवर्तते । व्योर्लघुप्रयत्रेत्यत यकारग्रहणमनुवर्तते । तदाह । भोभगो इत्यादिना । लध्वलघूचारणस्येति ॥ ओकारात् पररय यस्य लघुप्रयन्नतरस्यैवानेन लोप । अलघुप्रयत्न्न तरस्य त्वोकारात् परस्य यस्य ओतो गार्ग्यस्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लघ्वलघूच्चार णस्येति विवेक । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भो भगो अघो अपूर्वस्य वकार स्याभावादिति वृत्ति । अव्यपर इति निर्देशादिति तदाशय । वृक्ष वातीति वृक्षवा, तमाचष्टे वृक्षव्, ण्यन्तात्, क्विप्, इष्टवद्भावाट्टिलोप, णेरनिटीति णिलोप, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्ति । अशीत्यनुवर्तर्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् हस्तीति तु अस्मादेव भाष्यादसाधुरित्याहु । सर्वेषाम्मतेनेति । सर्वाचार्य सम्मतत्वादय लोपो नित्य इति फलितम् । अत्र यदि * विभाषा भवद्भगवदघवतामोच्चावस्य ’ इति वार्तिकेन “मतुवसोरुसम्बुद्धौ ' इत्यत्र पठितेन एषामन्त्यस्य सम्बुद्धौ रुत्व वा स्यात् । अव इत्यशस्य ओकारश्चेत्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृहयेरन्, तर्हि पुलिङ्गैकवचनमात्रे भो हरे इत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुसकयोश्च भो हरिहरौ, भो देवा, भो लक्ष्मी भोविद्वदृन्द, इत्यादौ लोपो न सिध्द्येत् । अत भोस् इत्यादि निपातानामप्यत्र ग्रहणमित्यभिप्रे त्योदाहरति । भो देवा इत्यादि । देवा नम्या इति । नचात्र यकारस्य लोपोव्योरित्येव

प्रकरणम्]
१०५
बालमनोरमा ।

१७२ । रोऽसुपि । (८-२-६९)

अह्नो रेफादेश स्यान्न तु सुपि । रोरपवाद् । अहरह । अहर्गण । असुपि' किम् । अहोभ्याम् । अत्र “अहन' (सू ४४३) इति रुत्वम् । “रूप रात्रिरथन्तरेषु रुत्व वाच्यम्’ (वा ४८४७) । अहोरूपम् । गतमहोरात्रिरेषा । ग्कदेशविकृतस्यानन्यत्वादहोरात्र । अहोरथन्तरम् । * अहरादीनां पत्यादिषु वा रेफ (वा ४८५१) । विसर्गापवाद । अहर्पति । गीर्पति । धूपैति । पक्षे विसर्गोपध्मानीयौ

१७३ । रो रि । (८-३-१४))

रेफस्य रेफे परे लोप स्यात् ।


लोपस्सिद्ध इति वाच्यम् । लोपोव्योरिति लोप प्रति यत्वस्यासिद्धत्वात् । रोऽसुपि ॥ र असुपीति छेद । ‘अहन्’ इति सूत्रमनुवर्तते । तच्च लुप्तषष्ठीक पदम्। तदाह। अह्न इत्यादि । नतु सुपीति । पर्युदामाश्रयणे तु नलिवयुक्तन्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थस्स्यात् । ततश्च अहर्वानित्यादावेव स्यात् । नत्वहर्भातीत्यादावपि । अत प्रसज्यप्रतिषेध आश्रित । ननु अहन् इत्यस्य रुस्स्यात् पदान्ते, इत्यर्थकेन अहन्नितिसूत्रेणैव सिद्धत्वात् किमर्थमिदमित्यत आह । रोरपवाद इति । अहरहरिति ॥ नित्यवीप्सयोरिति द्विर्वचनम्। अहन् अहन् इति स्थिते रत्वम्। न लुमता' इति निषेधात् सुपरकत्वाभाव । अहन्निति रुत्वे तु अतोरोरप्लुतादित्युत्व स्यात् । अहर्गण इति । अह्णा गण इति विग्रह । अहन्निति रुत्वे तु दृशि चेत्युत्व स्यात् । अहो भ्यामिति । अहन् म्या इति स्थिते नकारस्य सुपरकत्वान्न रेफ । अत्रेति । अहन्निति रुत्वे हशिचेत्युत्वे आद्गुण । रूपरात्रि । अहन्शब्दस्येति शेष । रोऽसुपीति रत्वस्यापवाद । अहोरूपमिति । अहो रूपमिति विग्रह । अहन् रूपामिति स्थिते नकारस्य रुत्वम्, उत्वम् आद्गुण । रत्वे तु हशिचेत्युत्वन्न स्यात् । गतमहोरात्रिरेषेति ॥ अहन् रात्रिरिति स्थिते रुत्वम्, उत्वम्, आद्गुण । रत्वे तु उत्वन्न स्यात्। ननु अहश्च रात्रिश्चेति द्वन्द्वे, अहस्सर्वैकदेशेत्या दिना समासान्ते अचि, यस्येति चेति लोपे, अहन् रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे, आद्गुणे ‘रात्राह्वाहा पुसि’ इति पुस्त्वे, अहोरात्र इति रूपम्। अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथ रुत्वम् । ततश्च रोऽसुपीति रत्वे उत्वन्नस्यादित्यत आह । एकदेशेति । अहोरथन्तरमिति ॥ अहश्च रथन्तरच्चेति द्वन्द्व । रथन्तर सामविशेष । अहरादीनाम् ॥ ननु अहरादीनामिति रेफ विशिष्टस्य उपादानात् रेफस्य रेफविधान व्यर्थमित्यत आह । विसर्गापवाद इति । अह र्पतिरिति ॥ अहा पतिरिति विग्रह । गीर्पतिरिति । गिरा पतिरिति विग्रह । धूर्पति रिति ॥ धुरा पतिरिति विग्रह । उभयत्रापि “र्वोरुपधाया' इति दीर्घ । पक्ष इति । रत्वा भावपक्षे विसर्गस्य कुप्वोरिति उपध्मानीयविसगौं । इदुपधस्येति तु तपरकरणान्न । रो रेि ॥ र इति षष्ठी । ‘ढो ढे लोप' इत्यतो लेोप इत्यनुवर्तते । तदाह । रेफस्येति । पुनर् रमते इति

14
१०६
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता

१७४ । ढ्रलोपे पूर्वस्य दीर्घऽणः । (६-३-१११)

ढरेफौ लोपयतीति तथा, तस्मिन्वर्णेऽर्थाट्टकाररेफात्मके परे पृर्व म्याणो दीर्घ स्यात् । पुनारमते । हरीरम्य । शाम्भूराजते । “ अण ' किम् । तृढ । वृढ । * तृहू हिसायाम्' । 'वृहू उद्यमने ' पूर्वग्रहणमनुत्तरपदेऽपि पूर्व


स्थिते प्रथमरेफस्य लोप। ट्रलोपे ।। ढच रेफश्च ढौ, तौ लोपयतीति ट्रलोप। ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमास । ढलोपनिमित्त रेफलोपनिमित्तश्च विवक्षितम् । तच्च ढकाररेफात्मकमेव । ढो टे लोप , रोरीति, तयोरेव ट्रलोपनिमित्तत्वात् । तथाच ढलोपनिमित्ते ढकारे रेफलोपनिमित्ते रेफे च परत पूर्वस्याणो दीर्घ इति फलति । तदाह । ढरेफावित्यादिना ॥ ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ इति तु न व्याख्यातम्। तथा सति चयनीयमित्यनीयर्प्रत्ययान्ते तस्य लोप इति रेफलोपे, यकारादकारस्य, चकार, चचारेत्यादौ अभ्यासे अकारम्य च, हलादि शेषेण रेफलोपे दीर्घपत्ते । पुनारमत इति ॥ पुनर् रमत इति स्थिते रोरीति रेफलोप । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घ । हरीरम्य इति ॥ हरिम् रम्य इति स्थिते रुत्वे रेफलोपे अनेन दीर्घ । शम्भूराजत इति । शम्भुम्राजत इति स्थिते स्त्वे रेफलोपे अनेन दीर्घ । त्रयाणामुदाहरणात् पूर्वेणैव णकारेणात्राण गृह्यत इति सूचितम् । तृढः, वृढ इति ॥ अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम् । ऋकारश्चात्र अण्ग्रहणेन न गृह्यते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात् । अन्यथा दीर्घश्रुत्या अच इत्युपस्थितौ किमण्ग्रहणेनेति भाव । ननु तृढो वृढ इत्यत्र ठूलोपस्यैवाभावात् प्रसत्तेरण्ग्रहण व्यर्थमित्याशङ्कय तत्र ढलोप दर्शयितुमाह । तृहू हिंसायाम् । वृहू उद्यमन इति ॥ आभ्या क्तप्रत्यये ‘हो ढ ' इति ढत्वे ‘झषस्तथो.' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढोटेलोप इति पूर्वस्य ढकारस्य लोपे तृढो वृढ इति रूपे । अत्र ढलोपनिमित्त ढकारे परे ऋकारस्य दार्घनिवृत्यर्थमण्ग्रहणमिति भाव । ननु 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह । पूर्व ग्रहणमिति ॥ ढ्रलोप इति सूत्रस्य 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ठ्रलोपनिमित्तभूतढरेफयो परत पूर्वपदस्याणो दीर्घ इत्यर्थस्यात् । ततश्च “लिह आस्वादने गुहू सवरणे' आभ्या क्तप्रत्यये ढत्वधत्वधुत्वटलोपेषु इकारस्य उकारस्य च दीर्घ न स्यात् । तत्र ढलोपनिमित्तस्य ढस्य उत्तरपदस्थत्वाभावात् । इकारस्य उकारस्य च पूर्वपदस्थत्वा भावाच्च । इष्यते च लीढो गूढ इति । अत पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्सामर्थ्यदनुत्तरपद स्थयोरपि ढरेफयो परत. अपूर्वपदस्थस्यापि पूर्वग्याणेो दीर्घस्सिद्यतीत्यर्थ । तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घ न स्यात् । गृधु अभिकाक्षायाम् । यड्लुक् द्वित्वम्, हलादिशेष, अभ्यासस्य रुक्, कुहोश्चु, जश्त्वम्, लड्, सिप्, शप्, लुक लघूपधगुण , रपरत्वम्, इतश्चेति इकारलोप, हल्डयादिना सुलोप, जर् गर् ध् इति स्थिते, “एकाचो बश' इति गकारस्य भष्भाव घकार , जश्त्व दकार, दश्चेति रु अडागम, अजर्धर् र् इति स्थिते रोरीतिरेफलोप, ड्रलोप इति दीर्घः, विसर्ग, अजर्घा इति

प्रकरणम्]
१०७
बालमनोरमा ।


मात्रस्यैव दीर्घार्थम् । अजर्धा । लीढ ! *मनम् रथ ' इत्यत्र रुत्वे कृते * हशि च' (सू ९६६) इत्युत्वे 'रो रि' (सू १७३) इति रेफलोपे च प्राप्ते ।

१७५ । विप्रतिषेधे परं कार्यम् । (१-४-२)

तुल्यबलविरोधे सति पर कार्य स्यात् । इति रेफलोपे प्राप्त । * पूर्वत्रासि द्धम्' । (सू १२) इति ‘रो रि' (सू १७३) इत्यस्यासिद्धत्वादुत्वमेव । मनोरथ ।


रूपम् । अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात् तस्मिन् परत अकारस्य दीर्घ न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ढ़्रलोपे इत्यत्र टलोपनिमित्न टकारविपये उत्तरपद इत्यस्यानुवृति असम्भवादेव न सम्भवति । तथापि अजर्घा इत्यत्र रेफलोप निमित्तरेफविषये उत्तरपद इयम्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरक्तम् दूक्तमित्यादावेव स्यात् । अजर्घा इत्यत्र न स्यात् । पुनारमत इत्यादौ असमासेऽपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । ननु मनोरथ इत्यत्र मनम् रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्य हशि चेत्युत्व, रोरीति लोपश्चे त्युभय प्रसक्तम् । तत्र कतरत् बाध्द्यमित्यत्र निर्द्धारयाति । मनस् रथ. इत्यत्रेत्यादिना ॥ मनस रथ इत्यत्र रुत्वे कृते, हशिचेत्युत्वे, रोरीति रेफलोपे च प्राप्ते, उत्वमेवेत्यन्वय । ननु परत्वात् रेफलोप एव स्यादिति शङ्कितुमाह । विप्रतिषेधे ॥ विप्रतिपूर्वात् सेधतेर्घनि उपसर्गवशात् परस्परविरोधे विप्रतिपेधशब्द । विरोधश्च तुल्यबलयोरेव लोकसिद्ध । नहि। मशकसिहयोर्विरोध इत्यस्ति । तदाह । तुल्यबलेति ॥ द्वयोश्शास्त्रयो क्वचिलव्धावकाश योरेकत्र लक्ष्ये युगपत्सम्भवतुल्यबलविरोध । कार्यस्य परत्व परशास्त्रविहितत्वम् । इनि रेफलोपे प्राप्त इति ॥ हाशिचेत्यस्यावकाश शिवो वन्द्य इति । रेफलोपस्यावकाश पुनारमत इति । तत्र हि रोरित्युकारानुबन्धग्रहणात् हशिचेत्यप्रसक्तम् । ततश्च तयोस्तुत्य बलयोरुत्वरेफलोपयो मनोरथ इत्यत्र युगपत् सम्भवादन्यतरस्मिन् बाधनीये सति परत्वा दुत्व बाधित्वा रेफलोपे प्राप्त इत्यर्थ । तामिमा रेफलोपशङ्का परिहरति । पूर्वत्रेति ॥ अत्र रेफलोपस्यासिद्धत्वादित्यनुक्ता रोरीत्यस्यासिद्धत्वादिति ब्रुवन् पूर्वत्रासिद्धमित्यत्र शास्रासिद्धत्वमेवाभ्युपैति । नतु कार्यासिद्धत्वम् । तथा सति हि। अतिदेशस्यारोपरूपत्वात् असिद्धत्वारोपान्निरविष्टानारोपासम्भवेन सूत्रोदाहरणसम्पत्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यक तया परत्वात् त्रैपादिके कार्ये जाते तत्राभावप्रतियोगित्वारोपेऽपि देवदत्तस्य, न पुनरु न्मज्जनमिति न्यायेन स्थानीभूतरोरभावात् हशिचेत्यस्य प्राप्तिर्न स्यात् । शास्रासिद्धत्वे तु यद्यत् त्रैपादिक शास्र प्रवृत्युन्मुख तत्तच्छास्र एवासिद्धत्वारोपात् पूर्वशास्रप्रति बन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सल्या 'विप्रतिषेधे पर कार्यम्’ इति न प्रवर्तते । तदुक्त पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति । ततश्च स्थानिनो निवृत्त्यभावात् पूर्वशास्त्र प्रवृत्तिर्निर्बाधा । एतञ्च पूर्वत्रासिद्धमित्यत्र, अच परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र, च भाष्ये स्पष्टम् । न च तौसदित्यादिनिर्देशात् देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यम् ।

१० ८
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता



१७६ । एतत्तदोः सु लोपोऽकोरनञ्समासे हलि । (६-१-१३२)

अककारयोरेतत्तदोर्य सुस्तस्य लोप स्याद्वलि न तु नञ्समासे । एष विष्णु । स शन्भु । । अको ' किम् ।एषको रुद्र । । अनञ्समासे' किम् । असश्शिव । 'हलि' किम् । एषोऽत्र ।


हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेष । हन्तृहन्तरि हतत्वारोपे तु सुतरान्नोन्मेष । देवदत्त हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवेति न्यायशरीरम् । तावित्यादौ च वृद्विहन्तु पूर्वसवर्णदीर्घस्य हननोद्यमसजातीय प्रसङ्गमात्रम् । न तु हनन स्थानीया लक्ष्ये प्रवृत्ति । अतस्तावित्यादो नास्य न्यायस्य प्रवृत्तिरिति तोसदित्यादिनिर्देश कथमेतस्य न्यायस्यानित्यता बोधयितुमीष्टे । स्पष्टचैतत् खादिष्विति सूत्रे कैयटे । प्रकृते तु निराधिष्ठानारोपासम्भवात् हननसजातीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी । ततश्च प्रवृत्तस्य रेफलोपस्यासिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषाभावादुत्व भवतीति शब्दरत्रे प्रपञ्चितम् । न च उत्वकार्यासिद्धत्वपक्षेऽपि मनोरथासिद्धिरस्येव । दर्शनाभावरूपरेरफलोपस्याभावरूपासिद्धत्वे सति रोरुन्मेषावश्यकत्वात् । अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यम् । एवमपि कार्य सिद्धत्वे अमू अमी इत्याद्यसिद्धे । यथाचैतत्तथा अदस् शब्दनिरूपणावसरे प्रपञ्चयिष्यते । एतत्तदोः ॥ एतत्तदोरित्यत्र त्यदादीनाम्मिथस्सहोक्तौ यत्परन्तच्छिष्यत इत्येकशेषस्य त्यदाद्यत्वस्य चाभाव आर्ष । सु इति लुप्तषष्ठीक पदम् एतत्तदोरित्यनेनान्वेति । एत त्तदोस्सकारस्येति । अत एव सोलोपस्सुलोप इति न षष्ठीसमास । असारमर्थ्यात् । अविद्यमान ककार ययोस्तौ अकौ तयेो अकोरिति बहुव्रीहि । तदाह । अककारयो रित्यादिना । अनञ् समासे इति न पर्युदास । तथा सति ननिवयुक्तन्यायान् नञ्समास सदृशे समास एव स्यात्, नतु एष विष्णुरित्यादिवाक्येषु इत्यभिप्रेत्याह । न तु नञ् समास इति । एषविष्णुः, सशम्भुरिति । एषस् विष्णु, सस् शम्भुरिति स्थिते सकारस्य लोप । एषको रुद्र इति ॥ ‘अव्ययसर्वनाम्रामकच्प्राक्टे ' इति अकच् । अत्र एतच्छब्दस्य सककारत्वान्न सुलोप । तच्छब्दे अकचि सको रुद्र इत्यपि प्रत्युदाहारणम् । न च अकचि सति शब्दान्तर त्वात् प्राप्तिरेव नेति वाच्यम् । “तन्मध्द्यपतितस्तद्वहणेन गृह्यत' इति परिभाषया समकच्क स्य अशब्दान्तरत्वात् । परिभाषायान्तु इदमेव ज्ञापकम् । असश्शिव इति ॥ न स अस इति विग्रह, । विसर्जनीयस्य स इति सत्वैश्चुत्वेन शकार नञ्समासत्वान्न फुलोप । अनेष श्शिव इत्यपि प्रत्युदाहरणम् । एषोऽत्रेति ॥ एषस् अत्रेति स्थिते, सस्य रुत्वम्, उत्वम्, आद्गुण , हल्परकत्वाभावान्न लाप । अत्रै*ऐतत्तदोरवयवस्य 'सोरिक्तिन व्याख्यातम् । असम्भवात् । सो परत्वेन विहितस्य प्रातिपदिकावयवत्वाभावात् । एतत्तश्या परस्य सोरि त्यपि न भवति । एतत्तदोरिति षष्ठीविरोधात् । एतत्तद्भ्या विहितस्येति व्याख्याने तु परमैष ददाति, परमस ददातीत्यत्र अव्याप्ति । तत्र सोस्समासाद्विहितत्वेन एतत्द्भ्या विहितत्वाभावात् ।

अनञ् समास इति प्रतिषेधवैयर्थ्याच्च । अत एतत्तदर्थगतसख्याभिधायिनस्सोरिति व्याख्येयम्
प्रकरणम्]
१०१
बालमनोरमा ।

१७७ । सोऽचि लोपे चेत्पादपूरणम् । (६-१-१३४)

'सस्' इत्येतस्य मोलॉप स्यादचि पादश्चेनल्लोपे सत्येव पूर्वेत सेमा | मविड्टि प्रभृतिम्' । इह *ऋक्पाद एव गृह्यते' इति वामन । 'अविशेषा च्छलोकपादोऽपि' इत्यपरे ) * सैष दाशरथीराम ' । * लोपे चेत्' इति किम् ।

  • स इत्क्षेति, । स एवमुक्त्वा '। 'सत्येव' इत्यवधारणं तु * स्यश्छन्दसि बहुलम्।'

(सू ३५२६) इति पूर्वसूत्राद्वहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । * सोऽह माजन्मशुध्धानाम् ।

। इति खादिसन्धिप्रकरणम् ।



सोऽचि लोपे । स इति प्रथमैकवचनान्त स्वरूपपरम् । ततष्पष्ठया लुक , सस् शब्दस्येति लभ्यते । सुलोप इत्यनुवर्तते । तदाह । सम् इत्यादिना ॥ इति स्वादिसन्धिः ।

॥ इति सन्धित्रय समाप्तम् ॥

। श्रीरस्तु ।

  अथ शब्दाधिकारः ॥

अजन्तपुलिङ्गप्रकरणम् ।।


१७८ । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । (१-२-४५)

धातु प्रत्यय प्रत्ययान्त च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसज्ञ स्यात् ।


अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र डयाप्रातिपदिकादित्यधिकृतम् । किन्तन् प्रातिपदिकमिति जिज्ञामायामाह । अर्थवदधातुः ॥ अर्थोऽस्यास्तीत्यर्थवत्, नपुसक लिङ्गानुसारात् शब्दस्वरूपमिति विशष्यमद्द्याहार्यम्। अधातुरिति, अप्रत्यय इति, च तद्विशेषणम्। न धातुर धातुरिति नञ् तत्पुरुष । 'परवलिङ्ग द्वन्द्वतन्पुरुपया ' इति पुस्त्वम् । अप्रत्यय इत्या वर्तते । प्रत्ययभिन्न प्रत्ययान्तभिन्नश्च विवक्षितम् । पूर्ववत्पुस्त्वम् । सञ्जाविधाविति निषेधस्तु प्रत्य यस्य यत्र सज्ञा तद्विषय इति भाव । तदाह । धातु प्रत्ययमित्यादिना ॥ अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि । अर्थवदिति किम् । वन वनमित्यादौ प्रतिवर्ण प्रातिपदिकसज्ञा माभूत् । सत्या हि प्रातिपदिकसज्ञाया प्रतिवर्ण सुबुत्पत्तिस्यात् । मख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात् । प्रथमाविभक्ते कारकानपेक्षत्वात्, तदेकवचनस्य सख्यानवगमेऽपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्डयादिना सुलोपात् प्रतिवर्ण सोरुत्पत्तावपि न क्षतिरिति वाच्यम् । एवमपि नलोपस्य दुर्वारत्वात् । अकारात् सो रुत्वविसर्गापत्तेश्चेत्यलम् । अधातुरिति किम्। हनधातोर्लडि, तिप, शप, लुक्, इतश्चेतीकारलोप, अडागम , हल्डयादिलोप । अहन्निति रूपम् । अत्र धातो प्रातिपदिकसज्ञाया सुबपवादे तिडि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसज्ञाया प्रागुत्पन्नाया अनपगमात् नलोपस्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्त पर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थ प्रातिपदिकसज्ञाया क्रियमाणाया प्रत्ययलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रातिपदिकृत्वाभावे सति नलोपस्याप्रसक्तौ ‘न डिसम्बुध्द्यो ' इतेि तन्निषेधवैयर्थ्यप्रस ङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ 'न डिसम्बुध्द्यो ' इति निषेधोऽर्थवानिति वाच्यम् । उणादीनामव्युत्पतिपक्षे कृत्तद्धितेत्य स्याप्रवृत्ते । एवञ्चास्मादेव निषेधात् प्रत्ययलक्षणमाश्रित्याप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवञ्च अहन्नित्यत्राप्यप्रत्ययान्तत्वात् प्रातिपदिकत्वप्राप्तौ तन्निवृत्यर्थ मधातुग्रहणम् । अप्रत्यय इतेि किम् । हरिषु करोषि इत्यत्र सुसिपोरर्थवत्त्वात् अप्रत्ययान्तत्वाच

प्रातिपादकत्वे प्राप्त तन्निवृत्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोर्व्यपदेशिवद्भावेन
प्रकरणम्]
१११
बालमनोरमा ।

१७९ । कृत्तद्धितसमासाश्च । (१-२-४६)

कृत्तद्धितान्तौ । समासाश्च प्रातिपदिकसंज्ञा स्यु । पूर्वसूत्रेण मिद्धे समा सग्रहण नियमार्थम् । यत्र सङ्घाते पूर्वो भाग पद तस्य चेद्भवति तर्हि समा सस्यैव । तेन वाक्यस्य न |


प्रत्ययान्तत्वात् प्रत्ययान्तपर्युदासेनेव प्रातिपदिकत्वनिवृत्तिसम्भवात् किं प्रत्ययपर्युदामे नेति वाच्यम् । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभा षया प्रकृतिप्रत्ययसमुदायस्येव प्रत्यान्ततया के पट्प्रत्ययोस्सुसिपो पर्युदासालाभान् । अप्रत्य यान्त इति किम् । हरिषु करोषि । अत्र प्रकृतिप्रत्यममुदाययो प्रत्यभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्व माभूत ॥ कृत्तद्धित ॥ कृच्च तद्धितश्च समासश्चेति विग्रह । पूर्वसूत्रात् प्रातिपदिकमित्यनुवर्तते । बहुवचनान्ततया विपरिणम्यते । प्रत्यग्रहणपरिभापया कृत्तद्धितेति तदन्तग्रहणम् । तदाह । कृत्तद्धितान्तावित्यादिना ॥ कृत्तद्धितान्तयो प्रत्ययान्तत्वात् पूर्वसूत्रेणाप्राप्तौ कृत्तद्वितग्रहणम् । अस्मादेव पूर्वसूत्रे सज्ञाविवावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभान् प्रत्ययान्तपर्युदास । केचित्तु अर्थवदित्यनुवर्त्य तत्सामर् थ्यात् तदन्तविधिमाहु । कृदन्ते यथा-कर्ता भर्ता इत्यादि । तद्विते यथा—औपगव इत्यादि । समासे यथा—राज पुरुष इत्यादि । ननु समासग्रहण व्यर्थम् । समासे राजपुरुष इत्यादिशब्दाना पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात् । नच उत्तरपदोत्तरलुप्तप्रत्यय प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्यु दासश्शङ्कय । उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्सविहितस्तदादेरेव ग्रहणान्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति न डिसम्वुध्द्यो ' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह । पूर्वसूत्रे णेत्यादिना ॥ नियमशरीर दर्शयति । यत्रेति । पूर्वो भाग पदमित्युपलक्षणम् । उत्तर भागस्तु प्रत्ययो नेत्यपि द्रष्टव्यम् । अन्यथा जन्मवानित्यादौ प्रातिपदिकत्व न स्यात् । स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्या देव प्रातिपदिकत्व सम्भवतीति वाच्यम् । दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम् । भत्वेन तद्वाधात् । पूर्वोभागः पदमित्यनुक्तौ बहुपटव इत्यत्र प्रातिपदिकसज्ञा न स्यात् । ईषदसमाप्तावित्यनुवृत्तौ ‘विभाषा सुपो बहुच्पुरस्तात्तु इति सूत्रेण पटव इति प्रथमाबहुवचनान्तात् पूर्वत बहुच्प्रत्यये कृते अर्थवदिति प्रातिपदि कत्वात् तदवयवजसो लुकि “चितस्सप्रकृतेर्बह्वकजर्थम्” इति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि बहुपटव इति रूपम् । अत्र टकारादकार उदात्त इति स्थिति । जसन्तात् पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वाभावे तु ततो जस न्तर नोत्पद्येत । नचेष्टापत्ति । तथासति बहुच्प्रकृतिभूतजसन्ते जस् प्रातिपदिकावयवत्वाभावेन सुपो वातुप्रातिपदिकयो इति लुगभावाद्वहुपटव इति जसन्तस्यैव बहुच्प्रकृतितया चितस्स प्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादुत्तरस्य बहुपवट

११२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


१८० । प्रत्ययः । (३-१-१)

आ पञ्चमपरिसमाप्तेरधिकारोऽयम् ।

१८१ । परश्च । (३-१-२)

अयमपि तथा ।

१८२ । डच्याप्प्रातिपदिकात् । (४-१-१)

डयन्तादाबन्तात्प्रातिपदिकाचेत्यापञ्चमपरिसमाप्तेरधिकार । “प्राति पदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ (प ७२) इत्येव सिद्धे डयाब्ग्रहणं ड-याबन्तात्तद्धितोत्पत्तिर्यथा स्यान्डयाव्भ्या प्राङ्माभूदित्येवमर्थम् |


इति समुदायस्य प्रातिपदिकत्वे तु प्रातिपदिकावयवत्वात् जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्त नि र्बाधमिति भाव । नियमस्य फलमाह । तेनेति ॥ उक्तनियमेनेत्यर्थ । अन्यथा

  • देवदत्त गामभ्याज शुक्ला दण्डेन' इत्यादिवाक्यस्यापि प्रातिपदिकत्वापत्रौ सुब्लुक् स्यात् । न च

वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम् । प्रत्ययग्रहणे यस्मात् स विहित स्तदादेव ग्रह्णादिति भाव । कृत्तद्धितसमासाश्चेति चकार अनुक्तसमुच्चयार्थ । तेन निपातस्यानर्थकस्य प्रातिपदिकसज्ञा वक्तव्या' इति वार्तिक गतार्थम् । प्रत्यय. ॥ तृतीयाद्या यस्यादिम सूत्रमिदम् । इत ऊध्र्वमापञ्चमाद्यायपरिसमाप्ते प्रत्ययशब्दस्सज्ञात्वेनाधिक्रियत इत्यर्थ । हनश्चवध , ईव खन, नडादीना कुक्च, इत्यादीनामादेशागमानान्तु न प्रत्ययसज्ञा । महासज्ञाकरणात् । परश्च ॥ तृतीयाद्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति । अय मपि योग आपञ्चमपरिसमाप्तरधिकार इत्यर्थ । अवधिनियमे तु व्याख्यानमेव शरणम् । ङयाप्प्रातिपदिकात् ॥ चतुर्याध्द्यायस्यादिम सूत्रमिदम् । डीच, आप्च, प्रातिपदिकच्चेति, समाहारद्वन्द्वः । 'डी इति, डीप् , डीष्, डीना, सामान्येन ग्रहणम्' । आबिति, टाप्, डाप् चापा, ग्रहणम् । प्रत्यग्रहणपरिभाषया तदन्तग्रहणम् । तदाह । ङ-यन्तादित्यादिना ॥ आपञ्चमेत्यवधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूत्रयताम् । डया ब्ग्रहणम्मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषया, ऊड्प्रत्ययान्तात् श्वश्रूशब्दादिव, दण्डिनी, अजा, खट्टा, इत्यादिभ्योऽपि डयाबन्तेभ्यस्सुबादिप्रत्ययसम्भवादित्यत आह । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति ॥ स्त्रीलिङ्गबोधकडीबादिप्रत्ययविशिष्ट स्येत्यर्थ । यथा स्यादिति ॥ यथेति योग्यतायाम् । डयाबन्तादेव तद्धित प्रातु योग्य । स च डयाव्ग्रहणे सत्येव स्यादित्यर्थ । व्यवच्छेद्यन्दर्शयति । ड-याब्भ्यां प्राङाभूदिति ॥ ततश्च लोहिनिका आर्यका त्च सिध्द्यति । तथाहि । लोहितशब्दस्तावत् 'वर्णानान्तणतिनिता न्तानाम्' इति फिट्सूत्रेणाद्युदात्त । ततश्च ओकार उदात्त । “अनुदात्त पदमेकवर्जम्

प्रकरणम्]
११३
बालमनोरमा ।

१८३ । स्वौजसमौट्छष्टाभ्याम्भिस्डेभ्याम्भ्यस्डसि

भ्याम्भ्यस्ङसोसाम्ड-योस्सुप् । (४-१-२)

ड-यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादय. प्रत्यया स्यु । सुडस्यो रूकारेकारौ जशटडपाश्चेत |


इति परिशिष्टौ इकारोकारावनुदात्तौ । तथाच 'वर्णादनुदात्तात्तोपवात्तो न' इति मणौ विद्यमाना ल्लोहितशब्दात् स्त्रीन्वविवक्षाया डीप् , तत्सन्नियोगेन तकारस्य नकारादेशश्च प्राप्त । “लोहिता न्मणौ ’ इति खाथिक कनपि प्राप्त । तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसन्नियोगशिष्ट डपि बाधित्वा प्रवर्तेत । ततश्च डीपो न प्रसक्ति । कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहित कशब्दात् “अजाद्यत ' इति टापि प्रत्ययस्यादित्यादिना इत्वे, लोहितिकेत्येव स्यात्, न तु लोहि निकेति । इष्यते तु रूपद्वयमपि । डयारप्रातिपदिकादित्यत्र डीब्ग्रहणे तु तत्सामर्थ्यात् अन्तरङ्ग परमपि कन बाधित्वा नत्वसन्नियोगशिष्टे डीपि कृते, लोहिनीशब्दात् कनि, 'केऽण' इति ह्स्वे, लोहिनिकेति, रूपम् । वर्णादनुदात्तादित्यस्य वैकल्पिकतया नत्वसन्नियोगशिष्टडीबभावे तु लोहितशब्दात् कनि, दूस्व, पुन कान्तात् टापि, प्रत्ययस्यादितीत्वे लोहितिकेत्यपि सिध्द्यति । तथा आर्यशब्दात् स्वार्थिके कनि, समुदायोत्तरटापैव, स्त्रीत्वबोधनसम्भवादेकाद्विर्वचनन्यायेन कनन्तादेव टापि, कन पूर्व टाबभावात्, आतस्थानिकस्य अतोऽभावात्, उदीचामातस्स्थाने इति इत्वविकल्पस्याप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे, आर्थिकेत्येव स्यात्, आर्यकेति न स्यात् । इष्यतेतूभयमपि । डयाप्रातिपदिकादित्यत्र आव्ग्रहणे तु तत्सामर्थ्यात्स्वार्थिक कन बाधित्वा टापि तत कनि,केऽण इति हृस्वे, पुन कनन्ताट्टापि, उदीचामातस्थाने इतीत्वविकत्प, रूपद्वय सिध्द्यति । वस्तुतस्तु डयापोर्ग्रहणम्मास्तु । सुबन्तादेव ताद्धितोत्पत्ति । सुप प्रागेव च डयापौ प्रवर्तते । स्वार्थद्रव्यलिङ्गसख्याकारककुत्सादिप्रयुक्तकार्याणा कमिकत्वात् । तथाहि । स्वार्थ प्रवृत्तिनिमित्त जात्यादि । तज्ज्ञान पूर्व भवति । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम् । वर्मित्वेन प्रधानत्वात् लिङ्गादिभिराकाक्षितत्वाच्च । ततस्स्वमात्रापेक्षत्वात् लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्खयाज्ञानम् । तत कारकरूपविभक्तयर्था पेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्रे च परिष्कृतमेतत् । स्वौजसमौट् ॥ सु-औ-जस्, अ-औट्-शस्, टा-म्या-भिस्, डे-भ्या - भ्यस्, डसि-या-भ्यस् , डस्-ओस्-आम्, डि-ओस्-सुप्, इत्येकविशतिस्स्वादय । समाहारद्वन्द्ध, इतरेतरयोगद्वन्द्वेो वा । तथा सति सौत्रमेकवचनम् । डयाप्प्रातिपदिकादि त्यधिकृत, प्रत्यय, परश्चेति च यथाययञ्च विपरिणम्यते । तदाह । ङयन्तादित्या दिना । सुङस्योरिति ॥ सु-डसि-इत्यनयोरुकारेकारौ, जस्-शस् -इत्यनयोर्जकारशकारौ औट्-टा-इत्यनयोष्टकार, डे-डसि-डस्-डि-इत्येतेषा डकार, सुप्, इत्यस्य पकार, इत्येते इत्स ज्ञका प्रत्येतव्या इत्यर्थ । “उपदेशेऽजनुनासिक इत्, चुट, लशक्कतद्धिते, हलन्त्यम्' इति 1

११४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

१८४ । विभक्तिश्च । (१-४-१०४)

सुप्तिडौ विभक्तिसंज्ञौ स्त. । तत्र “सु’ “ औ जस् इत्यादीनां सप्तानां त्रिकाणा प्रथमादय. सप्तम्यन्ता प्राचां संज्ञा ताभिरिहापि व्यवहार

१८५ । सुपः । (१-४-१०३)

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्यु।

१८६ । व्द्येकयोर्द्विवचनैकवचने । (१-४-२२)

         द्वित्वैकत्वयोरेतौ स्त।

१८७ । बहुषु बहुवचनम् । (१-४-२१)

बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । राम


सूत्रैरिति शेष इत्सज्ञायाच्च लोप । तदुच्चारणफलन्तु तत्र तत्र वक्ष्यते । अथ *न विभक्तौ तुस्मा ' इत्याद्युपयोगिनीं विभक्तिसज्ञामाह । विभक्तिश्च ॥ सुप इति पूर्वसूत्रात् सुब्ग्रहण तिङस्त्रीणीत्यतस्तिङ्ग्रहणञ्चानुवर्तते । एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह । सुप्तिङगा विति । चकार पुरुषवचनसज्ञाभिस्समावेशार्थ। तेन एकसज्ञाधिकारस्यत्वेडपि न पर्या यत्वम् । अन्यथा 'रामेभ्य, भवाम ' इत्यादौ विभक्तिसज्ञाविरहेण न विभक्ताविति निषेधो न स्यात् । ननु 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सप्तम्यधिकरणे च' इत्यादौ कथ प्रथमादिव्यवहार सूत्रकृता पाणिनिना प्रथमादिसज्ञानामनुक्तत्वादित्यत आह । तत्रेति ॥ तेषु स्वादि प्रत्ययेषु मध्य इत्यर्थ इत्यादीनामिति ॥ आदिना अम्-औट्-शस्-इत्यादीना ग्रहणम् प्राचामिति ॥ पाणिने पूर्वेषा स्फोटायनाद्याचार्याणा शास्त्रे प्र थमाद्यास्सप्तम्यन्तास्सज्ञा स्थिता इत्यन्वय । किं तत इत्यत आह । ताभिरिति ॥ ताभि प्रथमादिसज्ञाभि इहापि पाणिनीय शास्त्रेऽपि व्यवहारस्सम्भवतीत्यर्थे । सुपः ॥ सुप् प्रत्याहार षष्ठयेकवचनम् । “तान्येकवचनद्वि वचनबहुवचनान्येकश इति सूत्र तानीतिवर्जमनुवर्तते । एकश इति । एकैकमित्यर्थ सख्यैकवचनाच्च वीप्सायाम्” इति शस्। शसैव वीप्साया अभिधानात् “नित्यवीप्सयो ' इति द्वित्वन्न तूच सख्यैकवचनाच्चेति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते । तिडस्त्रीणित्रीणीत्यत त्रीणि त्रीणीत्यनुवर्तते । तदाह । सुपस्त्रीणीत्यादिना । ह्येकयोः ॥ द्वयेकयोरिति भावप्रधानो निर्देश. । अन्यथा द्वयेकेष्विति स्यादित्यभिप्रेत्य व्याचष्टे । द्वित्वैकत्वयोरिति । बहुषु पूर्वसूत्रावैरूप्याय इहापि बहुशब्दो बहुत्वपर इत्याह । बहुत्व इति ॥ नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वात् बहुष्विति बहुवचन कथमिति शङ्कयम् । बहुत्वसङ्खयाधा रद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्ते । बहुत्वञ्च त्रित्वचतुष्टादिपरार्धसङ्खयाव्याप कीभूतधर्मविशेष । नतु त्रित्वाद्यन्यतममित्येकदेशस्य प्रथमाबहुवचनेन सर्वप्राप्तेर्विकल्पस्यादिति उक्त

प्रकरणम्]
११५
बालमनोरमा ।


१८८ । सरूपाणामेकशेष एकविभक्तौ । (१-२-६४)

एकविभक्तौ यानि सरूपाण्येव द्वष्टानि तेषामेक एव शिष्यते । ८ प्रथ मयो पूर्वसवर्ण ' (सू १६४) । “नादिचि' (सू १६५) । *वृद्धिरेचि' (सू ७२) । रामौ |


कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयो स्थितम् । प्रपञ्चितञ्चास्माभिरध्वरमीमासाकुतूहलवृत्तौ । एवञ्च बहुरोदन इति वैपुल्यवाचिनो बहुशब्दात् न बहुवचनम् । द्वयेकयोरित्यादि प्राय पाठबलेन सङ्खया नियतस्यैव । तथाविधबहुत्वस्यात्र विवक्षितत्वात् । एकस्यामेव स्त्रयादि व्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्वहुवचन कोशवृद्धव्यवहारबला दित्यलम् । रुत्वविसर्गाविति रामशब्दात् प्रथमाविभक्तौ, एकवचने सति, उकारस्य इत्त्वेन लोपे, ससजुषोरिति रुत्वे, खरवसानयोरिति विसर्ग इत्यर्थ । सु इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थ । असीत्युक्ते हि असकारादावित्यर्थस्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्नप्रवर्तेत । नचात्र रोरसुप्त्वात् तदन्तस्य पदत्वाभावात् रेफस्य पदान्तत्वाभावात् कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोस्सुप्त्वात् । नच स्थानिवद्भावे कर्तव्येत्रैपादिकस्य रोरसिद्धत्व शङ्कयम्। “इदुपधस्य चाप्रत्ययस्य' इति अप्रत्यय ग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाभावज्ञापनात् । तत्र ह्यप्रत्ययग्रहणम् अग्निx करोति, कविभिx कृतमित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यै वाभावात् तद्वैयर्थ्य स्पष्टमेवेत्यलम् । राम इति ॥ ‘रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि। इति रामपदेनासौ पर ब्रह्माभिधीयत इति श्रुति । ‘करणाधिकरणयोश्च' इत्यधिकारे ‘हलश्च' इत्यधि करणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नस्सज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् । अथ प्रातिपदिकार्थगतद्वित्वादिविवक्षाया प्रातिपदिकस्य द्वित्रयादिप्रयोगप्राप्ता विदमारभ्यते । सरूपाणाम् । एकविभक्ताविति सरूपाणामित्यत्रान्वेति । समान रूप येषा न्तानि सरूपाणि । ज्योतिर्जनपदेत्यादिना समानस्य सभाव । निर्द्धरणषष्ठी। वृद्धो यूनेत्युत्तरसू त्रादेवेत्यपकृष्यते । शिष्यत इति शेष । कर्मणि घञ् । एकश्चासौ शेषश्चेति पूर्वकालैकेति समास । एकस्या विभक्तौ परत सरूपाणामेव दृष्टानाम्मध्ये एकशिष्यत इति फलति । तदाह । एक विभक्तावित्यादिना । एवेति किम् । मातृशब्दस्तावज्जननीवाचवी, परिच्छेतृवाची च । तत्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि औजसादिषु, मातरौ माताराविति वैरूप्यदर्शना त्रैकशेष । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोस्सारूप्येणैव दर्शनमस्ति । तथापि एक स्यामपि विभक्तौ परत विरूपाणि न दृष्टानीत्यर्थो विवक्षित । एतद्दयोतनायैव एकविभक्ता वित्यत्र एकग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरम् एकग्रहण स्पष्टार्थमेवेति केचित् । एकशेष इत्येकपदोपादानन्तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम् । शेषपदानुपादाने तु सरूपाणा स्थाने एक आदेशस्यात् । ततश्च अश्वश्च अश्वश्चेति द्वयुदात्तवतस्थाने द्वयुदात्तवानादेशस्यात् । तन्नि वृत्त्यर्थे शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु एकविभक्तौ परत एकशेषेो

११६
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


१८९ । चुट् । (१-३-७)

प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम्

११० न विभक्तौ तुस्माः । (१-३-४-)

विभक्तिस्थास्तवर्गसकारमकारा इतो न स्यु । इति सकारस्य नेत्वम्

१९१ । अतो गुणे । (६-१-९७)

अपदान्ताद्काराद्गुणे परत पररूपमेकादेश स्यात्' इति प्राप्ते । परत्वा


भवतीति व्याख्यानमुचितम् । जननीपरिच्छेत्तुवाचिनोरेकशेषापत्तेरित्यािदि प्रपञ्चित प्रोट मनोरमायाम् । अत्र “तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे' इति पूर्वसूत्रात् द्वन्द्व इत्यनुवृत्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च देवदेव राजराज इत्यादौ नैकशेष द्वन्द्वापवाद एकशेष इति फलितम् यद्यप्यनैमित्तिकत्वादन्तरङ्गोऽयमेकशेषस्युबुत्पत्ते प्रागेव प्रवर्तते । तथापि द्वन्द्वापवाद एवा यम् । असति ह्येकशेषे सुबुत्पत्ति , पक्षे द्वन्द्वश्च स्यात् । सति तु अनेकसुबन्तविरहात् द्वन्द्वस्याप्राप्ति फलिता । घटश्च घटश्च घटश्च तेषा समाहारद्वन्द्वविषये तु नास्य प्रवृत्ति अनभिधानातू द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । पन्थान इत्यादौ ऋक्पूरित्यादि समासान्त्पत्ते । करावित्यादौ *द्वन्द्वश्च प्राणितूर्य' इत्याद्यापत्ते । उत्तरसूत्रादिह द्वन्द्वग्रहणापकर्षे इदितो नुम् धातो ' इत्यत्र इदित इति निर्देशो लिङ्गम् । इन् इकार इत्सज्ञको यस्य स इदित् अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाभावात्रैकशेष । अन्यथा तत्राप्येकशेषस्स्या दित्यलम् । राम औ इति स्थिते, प्रक्रिया दर्शयति । प्रथमयोरित्यादिना वृद्धि बाधित्वा पूर्वसवर्णदीर्घ प्राप्ते आह नादिचीति ॥ तस्मिन् प्रतिषिद्धे सति वृद्धे प्रवृत्तौ रामौ इति रूप मित्यर्थ । देवदत्तहन्तृहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रपञ्चितम् राम जस् इति स्थिते । चुटू ॥ ‘उपदेशेऽजनुनासिक इत्' इत्यत इदित्यनुवर्तते । तच्च द्विवचनान्त तया विपरिणम्यते । “आदिर्ञिटुडव ' इत्यत आदिग्रहणमनुवर्य द्विवचनान्ततया विपरिणम्यते षx प्रत्ययस्येत्यत प्रत्ययस्येत्यनुवर्तते । तदाह । प्रत्ययाद्यावित्यादिना इति जस्येति इत्सज्ञाया तस्य लोप इति लोप । जकारस्तु जसशीत्यादौ शसो निवृत्त्यर्थ । अथ जसस्स कारस्य हलन्त्यमितीत्सज्ञाया लोपमाशङ्कयाह । न विभक्तौ ॥ तु स् म् एतेषा द्वन्द्व । इदि त्यनुवृत्त बहुवचनान्ततया विपरिणम्यते । तदाह । विभक्तिस्था इत्यादिना ॥ अथ राम अस् इति स्थिते अकस्सवर्णे दीर्घ इति सवर्णदीर्घस्यापवाद पररूपमाशङ्कयाह । अतो गुणे एडि पररूपमित्यत पररूपमित्यनुवर्तते । उस्यपदान्तादित्यत अपदान्तादित्यनुवर्तते ।एक पूर्वपरयोरित्यधिकृतम्। अत इति पञ्चमी । तदाह । अपदान्तादित्यादिना। इति प्राप्त इति ॥ नच परत्वादकस्सवर्णे दीर्घ इति कुतो न स्यादिति वाच्यम् अकस्सवर्णे दीर्घ इति प्राप्ते एवमारभ्यमाणपररूपस्य तदपवादत्वात् । परादपवादस्य बलीयस्त्वादिति भाव । परत्वादिति ।। अतो गुणे' इत्यपेक्षया “प्रथमयो पूर्वसवर्ण ' इत्यस्य परत्वादित्यर्थ [अजन्तपुलिङ्ग ि '

प्रकरणम्]
११७
बालमनोरमा ।


त्पूर्वसवर्णदीर्घ । * अतो गुण' (सू १९१) इति हि * पुरस्तादपवादा अनन्तः रान्विधीन्बाधन्ते नोत्तरान्' (प ६०) इति न्यायेन “ अक सवर्णे दीर्घ (सू ८५) इत्यस्यैवापवाद । न तु प्रथमयो –’ (सू १६४) इत्यस्यापि । रामा ।

१९२ । एकवचनं सम्बुद्धिः । (२-३-४९)

सम्बोधनेन प्रथमाया एकवचनं सम्बुद्धिसज्ञ स्यात् ।

१९३ । एङ्हस्वात्सम्बुद्धेः । (६-१-६९)

एडन्ताद्रस्वान्ताच्चाङ्गाद्धल्लुण्यते सम्बुद्धेश्चेत् । सम्बुद्धयाक्षिप्तस्याङ्गस्यैड्ह्रस्वा भ्या विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामा । 'एड्


ननु पररूपमिद अपवादत्वात् सवर्णदार्घमिव पूर्वसवर्णदार्धमपि कुतो न बाधत इत्यत आह । अतो गुण इतीत्यादि । अनन्तरानव्यवहितानित्यर्थ । उत्तरानिति ॥ व्यवहितानित्यर्थ । अतो गुण इत्युत्तर अव्यक्तानुकरणस्येत्यादि पठित्वा, अकस्सवर्णे दीर्घ, प्रथमयो पूर्वसवर्ण इति पठितम् । ततश्च पररूपमिद सवर्णदीर्घमेव बाधते, नतु तद्वयवहित पूर्वसवर्णदीर्घमपीति भाव । वस्तुतस्तु पुरस्तादपवादन्यायस्य नाय विषय । नहि पररूपमिद पूर्वसवर्णदीर्घस्या पवाद । भवतीत्यादौ अप्राप्तेऽपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्व विसगौं सिद्धवत्कृत्याह । रामा. इति ॥ हे राम स् इति स्यिते, “एड् हूस्वात्सम्बुद्धे' इति विधास्यन् सम्वुद्धिसज्ञामाह । एकवचनम् ॥ प्रातिपदिकार्थलिङ्गेत्यत प्रथमेत्यनुवृत्त षष्ठ्या विपरिणम्यते । सम्बोधने चेत्यतस्सम्बोधन इत्यनुवर्तते । तदाह । सम्बोधन इत्यादिना ॥ सुस्सम्बुद्धिरित्येव सुवचम् । प्रथमाग्रहणानुवृत्तस्सप्तमीबहुवचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहण शङ्कयम् । 'ह्रस्वस्य गुण ' इति सम्बुद्धौ परतोऽङ्गस्य गुणविधिबलात्, सज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च । एतेन सज्ञानिवृत्यर्थमेकवचनग्रहणमित्यपास्तम् । एड्ह्रस्वात् ॥ एड्ह्रस्वादित्यङ्गविशेषणम् । तदन्तविधि, सुतिस्यपृक्तहलित्यतो हलिति प्रथमान्तमनुवर्तते । तच्चाङ्गादित्यत्रान्वेतेि अङ्गात् पर हलिति । लोपो व्योरित्यतो लोप इत्यनुवर्तते । तच्च हलेित्यनेन सामाना धिकरण्येनान्वेति । लुप्यत इति लोप । कर्मणि घञ् । सम्बुद्धेरित्यवयवषष्ठी हलित्यत्रान्वेति । ततश्च एडन्ताद्रस्वान्ताचाङ्गात् पर यत् हल् सम्बुध्द्यवयवभूत तल्लुप्यत इति फलाति तदाह । एङन्तादित्यादिना । ननु एड् हृस्वादित्यस्याङ्गाधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभ । तस्य वा केि प्रयोजनम् । एडो हूस्वाच्च पर सम्बुद्धद्यवयवभूत हल्लुप्यत इत्येवास्तु । तत्राह । सम्बुद्धयाक्षिप्तस्येत्यादि । सम्बुद्धे प्रत्ययत्वात् तत्प्रकृतेरङ्गत्वमर्थालब्धम् । तस्य च एडा ह्रस्वेन च विशेषितत्वात् तदन्तविधौ एडन्ताद्र स्वान्ताचाङ्गात् पर हल्लुप्यत इत्यर्थलाभात् इह लोपो नेत्यर्थ । इहेत्यस्य विशेष्यमाह । हे

११८
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ।

१९४ । अमि पूर्वः । (६-१-१०७)

अकोऽम्यचि परत पूर्वरूपमेकादेश. स्यात् । रामम् । रामौ ।

१९५ । लशकतद्धिते । (१-३-८)


कतरत् कुलेतीति । कतरशब्दस्य नपुसकत्वस्फोरणाय कुलशब्द । कतरशब्दान्नपुसक लिङ्गात् सम्बुद्धि सु । 'अडुतरादिभ्य पञ्चम्य' इति तस्य अद्इ आदेश । डकार इत् । डित्व सामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोप । “वावसाने' इति चर्त्वम् । कतरन् इति रूपम् । यदि एड् ह्रस्वादित्यत्राङ्गस्य विशेष्यत्व न स्यात्, तदा कतरदित्यत्र तकारस्य हलो हूस्वादकारात् परत्वात् सम्बुध्द्यवयवत्वाच्च लोप प्रसज्येत । अङ्गस्य विशेष्यत्वे तु न दोष । अत्र हि टिलोपानन्तर कतर् इति रेफान्तमदम् । तत्तु न हूस्वान्तम् । यत्तु ह्रस्वान्त तन्नाङ्गम् । रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्वित् हल्ग्रहणानुवृत्तिर्व्यर्था । एडन्तात् हस्वान्ताच्चाङ्गात् परस्य सम्बुद्धेर्लोपस्यादित्येव व्याख्याय ताम् । अस्तु वा हलनुवृत्ति । तथापि एडन्ताद्ह्रस्वान्ताच्चागात् परा या सम्बुद्धि तदवयवो हल्लुप्यते इति कुतो न व्याख्यायत इति चेत् । एव सति हे ज्ञानेति न सिध्ध्येत् । तदिदमज न्तनपुसकलिङ्गाधिकारे ज्ञानशब्दप्रक्रियावसरे मूल एव स्पष्टीभविष्यति । हे हरे, हे विष्णो इति ॥ हरिशब्दाद्विष्णुशब्दाच्च सम्बुद्धिस्सु । ह्रस्वस्य गुण इति गुण । हे हरे स्, हे विष्णो स्, इति स्थिते, हूस्वात् परत्वाभावात् सुलोपो न स्यात्। अत एड्ग्रहणमित्यर्थ । ननु गुणात्पूर्व, हे हरि स्, हे विष्णु स्, इत्यस्यामेव दशाया हूस्वात्परत्वादेव सुलोपसम्भवात् एड्ग्रहण व्यर्थमित्यत आह । अत्रेति ॥ सम्बुद्धिलोपापेक्षया अय गुण पर नित्यश्च । अकृतेऽपि सम्बुद्धिलोपे तत्प्र वृत्ते. । कृतेऽपि सम्बुद्विलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते । अतस्सम्बुद्धिलोपात् प्रागेव हृस्वस्य गुणे कृते सति हूस्वात्परत्वाभावात् सोर्लोपो न स्यात्। अत एडग्ररहणमित्यर्थ । अथ द्विती या विभक्ति । राम अम् इति स्थिते, न विभक्तौ तुस्मा इति मकारस्य नेत्वम् । अकस्सवर्ण इति दीर्घ बाधित्वा अतो गुण इति पररूप प्राप्तम्। तद्वाधित्वा प्रथमयोरिति पूर्वसवर्णदीर्घ प्राप्ते । अमि पूर्वः॥ अकस्सवर्णे दीर्घ इत्यत अक इति पञ्चम्यन्तमनुवर्तते । एक पूर्वपरयोरित्यधिकृतम् इको यणचीत्यत अचीत्यनुवर्तते । तदाह । अकोऽम्यचीति ॥ अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थ । राममितिमकाराद्कारस्य अमवयवाकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनु वृत्तौ अक अमेि परे पूर्वपरयो पूर्वरूपमेकादेशस्यादिति लभ्येत । तथा सति अमो मकारसहेि तस्य पूर्वरूप स्यात् । तन्माभूदित्यजनुवृत्तिः । रामाविति ॥ राम औट् इति स्थिते हलन्त्यमिति टकारस्य इत्सज्ञाया लोप । औटष्टकारस्सुडिति प्रत्याहारार्थ । राम शस् इति स्थिते, न विभक्तौ तुस्मा इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्य प्राप्तावाह । लशक्रतद्धितेत ॥ ल, शा, कु, इति समाहारद्वन्द्व । ‘उपदेशेऽजनुनासिक इत्,

प्रकरणम्]
११९
बालमनोरमा ।


तद्धितवर्जप्रत्ययाद्या लशकवर्गा इत स्यु । इति शस शस्येत्संज्ञा ।

१९६ । तस्माच्छसो नः पुंसि । (६-१-१०३)

कृत पूर्वसवर्णदीर्घत्परो य शस. सकारस्तस्य न स्यात्पुंसि ।

१९७ । अट्कुप्वाड्नुम्व्य वायेऽपि । (८-४-२)

अट् कवर्ग पवर्ग आङ् नुम् चैतैव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य ण स्यात्समानपदे । “ पदव्यवायेऽपि' (सू १०५७)


आदिर्जिटुडव, ष प्रत्ययस्य’ इत्यत इदिति, आदिरिति, प्रत्ययस्येति, चानुवर्तते । अतद्धित इति षष्ठयर्थे सप्तमी । तद्वितभिन्नस्य प्रत्ययस्य आदिभूत लकारशकारकवर्ग इत्सज्ञ भवतीत्यर्थ । तदाह । तद्धितवर्जेत्यादिना ॥ अतद्धित इति किम् । “कर्णललाटात्कन्नलङ्कारे'। कर्णिका। अत्र ककारस्य तद्धितावयवत्वान्नेत्वम् । सति तस्मिन् “किति च' इत्यादिवृद्धिस्स्यात् । एतेन प्रयोजनाभावादेव लशादितद्धितेषु नेत्वमित्यतद्धितग्रहण व्यर्थमिति निरस्तम् । इति शस इति ॥ शकारस्य इत्सज्ञाया तस्य लोप इति लोप । शकारोच्चारणन्तु जसश्शी, तस्माच्छसोन इत्यादौ विषयविभागार्थम् । राम अस् इति स्थिते, अकस्सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते, प्रथमयोरिति पूर्वसवर्णदीर्घ, रामास् इति स्थिते । तस्माच्छसो ॥ प्रथमयो पूर्वसवर्ण इति पूर्वसूत्रकृत सन्निहित पूर्वसवर्णदीर्घ तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा । परस्येत्यच्द्याहार्यम् । शस् इत्यवयवषष्ठी । स चावयव परन्वेन विशेष्यते । स्म चावयव अर्थान् सकार एव । अन्यस्यासम्भवात् । तदाह । कृतपूर्वेत्यादिना । कृत पूर्वेति किम् । दीर्घत् परस्य शसवयवस्येत्युक्तौ, एतान् गा पश्येत्यत्र गोशब्दातू शसस्सस्यापि नत्वप्रसङ्ग । अत कृतपूर्वसवर्णदीर्घादिति । गा इत्यत्र च, औतोऽम्शसोरित्याकार एकादेश । न तु पूर्वसवर्णदीर्घ इति, तत परस्य न नत्वम् । शस किम् । रामा । प्रकृते च नत्वे रामान् इति रूपम् । अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह । अट्कुप्वाड् ॥ रषाभ्यान्नोणस्समान पद इति पूर्वसूत्रमनुवर्तते । तत्र न इति षष्ठयन्तम् । तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्व विहितम् । रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्तयर्थमिदमारब्धम् । अट् प्रत्याहार कु कवर्ग , पु पवर्ग , अट्च, कुश्च, पुश्च, आङ्च, नुम्च, तैव्र्यवधानम् । तस्मिन् सत्यपि रषाभ्या परस्य नस्य णत्व स्यादित्यर्थ । तत्र अडादिभिस्समस्तैव्यैवधान रामेणेत्या दिलक्ष्ये क्वाप्यसम्भावितम् । एकैकव्यवायेऽपीति व्याख्याने तु रामेणेत्यादावव्याप्ति । यथा सम्भवम्मिळितैव्यैवायेऽपीति व्याख्याने तु, नराणामित्यादावेकमात्रव्यवधाने णत्व न स्यात् । अत अडादिभिर्व्यैस्तैर्यथासम्भव मिळितैश्च व्यवायेऽपीति व्याख्येयम् । एवञ्च क्षुभ्नादिषु चेति णत्वनिषेधसूत्रे क्षुभ्रशब्दपाठोऽर्थवान् । मरूपाणामित्यादिनिर्देशाश्च उपपन्ना भवन्ति । तदाह । अट्कुप्वाङित्यादिना ॥ विवरणावसरे अट्कवर्गइत्याद्यविभक्तिकनिर्देशा न दूष्यन्ते । भाष्ये तथा बहुळमुपलम्भात् । समानपद इति ॥ एकपद इत्यर्थ । अखण्डमेव पदमिह विवक्षितम् ।

१९०
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

इति निषेध बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाकर्तु शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वान् । इति णत्वे प्राप्ते ।

१९८ । पदान्तस्य । (८-४-३७)

पदान्तस्य नस्य णत्वं न स्यात् । रामान् ।

१९९ । यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । (२-४-१३)

य प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसज्ञ स्यात् । ८भवामि' *भविष्यामि' इत्यादौ विकरणविशिष्टस्याङ्गसंज्ञार्थ तदा


तेन रामनामेत्यादौ नातिप्रसङ्ग । मातृभोगीण इत्यादौ तु तृद्धिताधिकारे वक्ष्यते । आडा व्यवाये पर्याणद्धमित्युदाहरणम्। इह आङ्ग्रहणाभावे तु उपसर्गदसमासेऽपीत्यत्र तदनुवृत्त्या णत्वन्न स्यात् । नन्वङ्वयवाय इत्येवात्र णत्व भविष्यति । किमाङ्ग्रहणेनेत्यत आह । पदव्यवायेऽपीति ॥ ननु इचि प्रीणने' त्युट्, अनादेश, इदित्वान्नुम्, प्रेन्वनम्। अत्र कुमति चति नुमा व्यवधानेऽपि णत्व स्यात् । किञ्च 'बृहि वृद्वौ' त्युट्, इदित्वान्नुम्, नश्चापदान्तस्येत्यनुस्वार बहणम् । ‘तृहू हिसा याम्’ । ल्युट्, स्वाभाविकोऽयमनुस्वार, तृहणम् । इहोभयत्रापि णत्वन्नस्यात् । अनुस्वारस्य अडाद्यनन्तर्भावात्। अत आह्। नुम्ग्रहणमिति ॥ नुम्ग्रहणेन अनुस्वारो लक्ष्यते । प्रयोगानुसारा दित्यर्थ । एवञ्च नुम्ग्रहण प्रत्याख्येयमित्याह । तच्चेति । ननु नुम्ग्रहणाभावे तल्लक्षितानु स्वारस्य कय लाभ इत्यत आह । अयोगवाहानामिति ॥ न विद्यते योगो येषा वर्णस माम्नाये ते अयोगा, अनुपदिष्टा उपदिष्टैरगृहीताश्चेत्यर्थ । वाहयन्ति प्रयोगन्निर्वहयन्तीति वाहा अयोगाश्च ते वाहाश्च अयोगवाहा अनुस्वारविसर्गादय । अट्सूपदेशस्य पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थ । स्पष्टच्चैतत् हयवरट्सूत्रभाष्यवार्तिकयो । उक्तञ्चात्रैव सूत्रे भाष्ये । नार्थो नुम्ग्रहणेन । अनुस्वारे कृते अड़्वयवाय इत्येवात्र णत्व सिद्धमिति । इति णत्वम् इति ॥ शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थ । पदान्तस्य । । रषाभ्यान्नोण इत्यनुवर्तते । न भाभूपूइत्यतो नेति च । तदाह । पदातस्य नस्येत्यादिना ॥ अथ तृतीया विभक्तिः। तत्र टा इति टकारस्य चुटू इति इत्सज्ञया लोप । टकारोच्चारणन्तुटाडसिटसा द्वितीयाटौस्स्वित्यादौ विशेषणार्थम् । राम आ इति स्थिते अङ्गकार्य विधास्यन्नङ्गसज्ञामाह । यस्मात्प्रत्ययविधि. ॥ यस्मादिति प्रकृतिभूतादित्यर्थ । यः प्रत्यय इति ॥ यच्छब्दा न्तराद्धद्याहारस्तु प्रत्यासक्तिलभ्य । सच यस्माद्यस्य प्रत्ययस्य विवि तस्मिन् प्रत्यये तदादेरङ्ग सज्ञेत्यर्थलाभाय । नत्प्रकृतिरूप आदिर्यस्य तत् तदादि । नपुसकवशाच्छब्दरूपमि त्यध्द्याहार्यम् । तदाह । तदादिशब्दस्वरूपमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्व व्यपदेशिवद्रावात् बोध्द्यम् । ननु यस्मात् प्रत्ययविधिस्तदङ्गमित्यवास्तु । किमादिग्रह णेनेत्यत आह । भवामीति ॥ भूधातोर्लट् मिप् कर्तरि शबिति विकरणसज्ञश्शप् । गुणावा देशौ अतो दीर्घ यञीति भव इत्यङ्गस्य दीर्घ । भवामीति रूपम् । तथा भूधातोर्लट् मिप् ।

प्रकरणम्]
१२१
बालमनोरमा ।

दिग्रहणम् । *विधि ' इति किम् । स्त्री इयती । *प्रत्यये' किम् । प्रत्ययविशि ष्टस्य ततोऽयधिकस्य वा मा भूत् ।

२०० । अङ्गस्य । (६-४-१)

२०१ । टाङसिङसामिनात्स्याः । (७-१-१२)


स्यतासी ललुटो ' इति विकरणसज्ञ स्य । इट् । गुणावादेशौ । षत्वम् । अतो दधे यञीति भविष्य इत्यङ्गस्य दीर्घ । भविष्यामीति रूपम् । अत्र आदिग्रहणाभावे मिग्प्रत्यये परत भू इति प्रकृतिमात्रस्य अङ्गसज्ञा स्यात् । भूशब्दादेव मिप्रत्ययाविधे । नतु भव इत्यस्य भविष्य इत्यस्य च विकरणविशिष्टस्य ततो मिप्रत्ययविधेरभावात् । ततश्च अतो दीधे यजति मिप्रत्यये परतो दीर्घो न स्यात् । अत आदिग्रहणमित्यर्थे । विधिरिति किमिति ॥ यस्माद्य प्रत्यय परत्वेन श्रूयते तदादिशब्दरूप तस्मिन् प्रत्यये अङ्गसज्ञमित्येतावतैव सिद्धे विधिग्रहण किमर्थमिति प्रश्न । स्री इयतीति ॥ इद परिमाणमस्या इत्यर्थे इद शब्दात् “किमिदम्भ्या वो घ ' इति वतुप् । वस्य घश्च । तस्य इयादेश . । 'इद किमो ' इति इदम ईश् । शित्त्वात् सर्वदेश । ई इयत् इति स्थिते 'यस्येति च' इतीकारलोप । इयत् इति प्रत्ययमात्रमवशिष्यते । उगितश्चेति डीपि इयतीति रूपम् । अत्र विधिग्रहणाभावे स्त्री इयतीत्यत्र रेफादिकारस्य ‘स्त्रिया' इत्यङ्गकार्यमियड् स्यात् । स्त्रीशब्दावयवत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात् । नच यस्येति लोपस्याभीयत्वेनासिद्धत्वादजादिप्रत्ययपरकत्वाभावान्नात्र इयड प्राप्तिरिति वाच्यम् । अन्यूना नतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीयासिद्धत्वस्य प्रवृत्ते । अस्ति च यस्येतिचेति शास्त्रापेक्षया स्त्रिया इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयडत्र न भवति । वतुप इदम एवात्र विहितत्वेन तस्मिन् परे, स्त्रीशब्दस्याङ्गत्वाभावात् । नच यस्येति लोपस्य इयडि कर्तव्ये अच परस्मिन्निति स्थानिवद्रावश्शङ्कय । पदान्तविधौ तन्निषेधात् स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयड् । प्रत्यासत्या अजादिप्रत्ययनिरूपिता ङ्गत्वे तत्प्रवृत्ते । प्रत्यये किमिति ॥ यस्मात् प्रत्ययविधिस्तदाद्यङ्गमित्येतावदेवास्त्वित्यर्थ । प्रत्ययाविशिष्टस्य ततोऽप्यधिकस्य वा मा भूदिति ॥ तदादिशब्दरूप कियदित्यपे क्षायामविशेषात् प्रत्ययविशिष्ट वा ततोऽप्यधिक वा निरवधिकमङ्ग स्यात् । नच यस्मा त्प्रत्ययेति प्रत्ययस्य श्रुतत्वात् प्रत्ययावद्येवाङ्गत्व भविष्यतीति वाच्यम् । यस्मात् प्रत्यय विधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात् । ततश्च प्रत्ययविशिष्टस्याङ्गत्वे च वत्रश्चत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वालाभादचः:परस्मिन्नितेि स्थानिवत्त्वाप्रवृत्त्या न सम्प्रसारण इति सम्प्रसारणनिषेधो न स्यात् । अधिकस्याङ्गत्वे च देवदत्त ओदनमपाक्षीदित्यादौ देवदत्तादिशब्दोत्तर सुपन्निमित्तीकृत्य लुड्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापति । अङ्गसज्ञाया. प्रत्ययनिमित्तत्वाभावेन लुडादि निरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् । प्रत्यये इत्युक्तौ तु न कोऽपि दोष इत्यलम् । टाङसि

१२२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशा स्यु । णत्वम् । रामेण ।

२०२ । सुपि च । ७-३-१०२

यञादौ सुपि परे अतोऽङ्गस्य दीर्घ स्यात् । रामाभ्याम् ।

२०३ । अतो मिस ऐस् । (७-१-९)

अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेनकाल्त्वात्सर्वादेश । । राम

२०४ । डेर्यः । (७-१-१३)

अतोऽङ्गात्परस्य * डे' इत्यस्य यादेशः स्यात् । रामाय । इह स्थानि वद्भावेन यादेशस्य सुस्वात् “सुपि च' (सू २०२) इति दीर्घ । 'सन्निपात


डन्साम् । अतो भिस इव्यस्मात् अत इति पञ्चम्यन्तमनुवृत्तम् । अङ्गस्येत्यधिकृत पञ्चम्या विपरिणतमङ्गस्य विशेषणम् । तदन्तविधि । तदाह । अकारान्तादङ्गादिति ॥ परे षामिति शेष । क्रमादिति यथासङ्खयसूत्रलब्धम् । टादीनामिति ॥ टा-डसि-डसामित्यर्थ । इनादय इति ॥ इन-आत्-स्य, एते इत्यर्थ । राम-इन इति स्थिते आgण । णत्वमिति ॥ अट्टकुप्वाडिति नकारस्य णकार इत्यर्थे । रामभ्या इति स्थिते न विभक्ताविति मस्य नेत्वम् । सुपि च ॥ अतो दीर्घो यञीत्यनुवर्तते ।। यजीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधिरित्याह । यञादाविति । अतोऽङ्गस्येति ॥ अदन्तस्याङ्गस्येत्यर्थे । राम-भिस् इति स्थिते, न विभक्ताविति सस्य नेत्त्वम् । अतो भिस ऐस । अत इति पञ्चमी । अङ्गस्येत्याधिकृत पञ्चम्या विपरिणम्यते । अत इति तस्य विशेषणम् । विशेपणत्वा त्तदन्तविधि । तदाह । अकारान्तादिति ॥ रुत्वविसर्गौ सिद्धवत्कृत्याह । रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूप शङ्कयम् । एकारोच्चारणसामर्थ्यदेव तदसम्भवातू । अन्यया इसमेव विदद्यात् । तथापि एदैतोर्द्धि मात्रत्वाविशेषात् प्रक्रियालाघवाच्च ऐसो विधि । अलोऽन्त्यस्येत्यन्तादेशमाशङ्कयाह । अने काल्त्वादिति ॥ अथ चतुर्थी विभक्ति । तत्र डे इति डकारस्य लशक्वेतीत्सज्ञाया लोप तदुच्चारणन्तु घेर्डित्तीत्याद्यर्थम् । राम-ए-इति स्थिते । डेर्य. ॥ डेरित्येकारान्तात् षष्ठये कवचनम् । नतु डि इति सप्तम्येकवचनम् । व्याख्यानात् । अतो भिस इत्यत अत इति पञ्चम्यन्तमनुवर्तते । तेन च अङ्गस्येत्याधिकृत पञ्चम्या विपरिणत विशेष्यते । तदाह । अतोऽङ्गादिति ॥ अदन्तादङ्गादित्यर्थ । सुपि चेति दीर्घम्मत्वा आह । रामायेति । ननु यादेशस्य सुप्त्वाभावात्तस्मिन् परत कथ सुपि चेति दीर्घ इत्यत आह । इहेति ॥ नन्वत्र दीर्घ यजादित्वेन, सुप्त्वेन च यादेश परनिमित्तीकृत्य प्रवर्तते । सच यञ्शे अलाश्रय । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भाव । अनल्विधाविति तन्निषेधादिति चेत् । सत्यम् । इह दीर्घस्य यञादिसुबाश्रयतया आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये

प्रकरणम्]
१२३
बालमनोरमा ।

लक्षणो विधिरनिमित्तं तद्विघातस्य' (प ८६) इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे' (सू २६७०) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामा म्याम् ।

२०५ । बहुवचने झल्येत । (७-३-१०३)

झलादैौ बहुवचने सुपि पर अतोऽङ्गस्यैकार स्यात् । रामेभ्य । “बहु वचने' किम् । राम । रामस्य । *झलि' किम् । रामाणाम् । “मुपि' किम् । पचध्वम् ।जश्त्वम्।


यादेशस्य स्थानिवद्भावेन सुप्त्व भवत्येव । दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्य लाश्रयत्वाभावात् । ' अकृत्सार्वधातुकयोदीर्घ' इति तु परमन्यत्र नोपन्यस्तम् । अकृत्सा र्वधातुकयोरिति पर्युदासबलेन तस्य असुप्येव प्रवृत्तेरित्याहु । स्यादेतत् । सान्निपातलक्षणो विधिरनिमित्तन्तद्विघातस्येत्यस्ति परिभाषा । सन्निपात सश्लेष, लक्षणन्निमित्त, यस्य स सन्निपातलक्षण । विधि कार्यम् । तद्विघातस्य त सन्निपात विहन्तीति तद्विघात कर्मण्यण् । कर्मण्युपपदे कर्तर्यण् । हनस्तोऽचिण्णलोरिति तकार । होहन्तेरिति कुत्त्वम् । सन्निपातविघा तकस्य न निमित्तमित्यर्थ । उपजीवकमुपजीव्यस्य विघातकन्नभवतीति यावत् । प्रकृते च अद न्तसम्बन्धमाश्रित्य प्रवृत्तोऽयादेश अदन्तसम्बन्धविघातकस्य दीर्घस्य कथ निमित्त स्यात् इत्याशङ्कय परिहरति । सन्निपातलक्षण इत्यादिना ॥ तृतीयाद्विवचनवत् दीर्घ सिद्धवत्कृत्याह । रामाभ्यामिति ॥ भ्यसि न विभक्ताविति सस्य नेत्वम् । सुपि चेति दीर्धे प्राप्ते । बहुवचने झल्येत् । अतो दीर्घो यजीत्यत सुपि चेत्यतश्च अत इति सुपीति चानुवर्तते । झलीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधि । तदाह । झलादाविति । अतो ऽङ्गस्येति ॥ अदन्तस्याङ्गस्येत्यर्थ । एत्वे सति रुत्वविसगो सिद्धवत्कृत्याह । रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्षुचोपसङ्खयातत्वेन विसर्गस्य झत्त्वात् स्थानिव द्भावेन सुप्त्वाच्च तस्मिन् परत एत्व प्राप्तम् । रुत्वविसर्गयोरसिद्धत्वेऽपि राम स् इति दशाया झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थ। रामस्येति ॥ बहुवचनग्रहणस्यप्रयो जनान्तरम् । षष्ठयेकवचनस्य डसस्स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात् स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थ बहुवचनग्रहणमित्यर्थ । सन्निपातपरिभाषा तु सर्वेषामिति निर्देशादेत्वविवौ न प्रवर्तत इत्याहु । झलि किमिति ॥ “उतो वृद्धिर्लुकि हलि' इत्यतो हलीत्यनुवृत्य हलादौ वहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते । तावतैव रामा इत्याद्य जादिबहुवचने एत्वनिरासादिति प्रश्र्न । रामाणामिति ॥ हलादौ बहुवचने सुपि एत्व मित्युक्तौ रामाणामित्यत्राप्येत्व स्यात् । तन्निवृत्त्यर्थ झल्ग्रहणमित्यर्थ । यद्यप्यत्र सन्निपात परिभाषया ह्रस्वान्ताङ्गसन्निपातमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमेत्व प्रति निमित्तत्वासम्भवा देव एत्वन्न भविष्यति । तथापि झल्ग्रहणमेत्वे सन्निपातपरिभाषाया अप्रवृत्तिज्ञापनार्थम् ।

१२४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

२०६ । वाऽवसाने । (८-४-५६)

अवसाने झलां चरो वा स्युः । रामात्-रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्य । रामस्य । सस्य द्वित्वपक्षे “खरि च' (सू १२१) इति चर्त्वेऽयान्तरतस्यात्स एव । न तु तकार ! अल्पप्राणतया प्रयत्रभेदात्। अत एव “ स सि-' (सू २३४२) इति तादेश आरभ्यते ।

२०७ । ओसि च । (७-३-१०४)

ओसि परे अतोऽङ्गस्यैकार स्यात् । रामयो ।


तेन “हलेि सर्वेषाम्' इति निर्देशात् सर्वशब्दे एत्वसिद्धावपि विश्वेषामित्यादावप्येत्व भवति । पचध्वमिति ॥ ध्वमेो झलादिबहुवचनत्वेऽपि सुप्त्वाभावान्न तस्मिन् परत एत्वमित्यर्थ । नच “बहुवचने झलीक’ इत्येवास्तु । कित्त्वादन्तावयवे आद्गुणे च रामेभ्य इत्यादिसिद्धेरिति वाच्यम् । एव सति ओसि चेत्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्र इकोऽचि विभक्ताविति नुमापत्ते । अथ पञ्चमीविभक्ति । तत्र उपदेशेऽजनुनासिक इत् इति डसे इकार इत् । तस्य लोप । डकारस्तु लशक्केिति इत् । तस्य लोप । तदुभयोच्चारणन्तु डसिडयो 'घेर्डिति' इत्याद्यर्थम् । टाडसिडसाम्’ इति आत् सवर्णदीर्घ । जश्त्वमिति ॥ ‘झला जशोऽन्त' इति नित्यतया जश्त्व प्राप्तम् । तदपवादश्चर्त्वविकत्प आरभ्यत इत्यर्थ । चाऽवसाने ॥ ‘झला जश्झशि’ इत्यतो झला मिति * अभ्यासे चर्च' इत्यतश्चरिति चानुवर्तते । तदाह । अवसान इत्यादिना । द्वित्वे रूपेति ॥ तकारदकारयोरनचि चेति द्वित्वे तदभावे च रूपचतुष्टयमित्यर्थ । तत्र चर्त्व पक्षे द्वितकारमेकतकारञ्च रूपम् । जश्त्वपक्षे द्विदकारमेकदकारञ्च । रामाभ्याम् , रामेभ्य इति चतुर्थीवत् प्रक्रिया सुगमेति भाव । अथ षष्ठीविभक्ति । डसो डकारस्य लशक्वतद्धित इति इत्त्व लोप । डकारोच्चारणन्तु डिति हूस्वश्चेत्यर्थम् । टा डसि डसामिति स्यादेश सिद्धवत्कृत्याह । रामस्येति ॥ नन्विह सकारस्यानचिचेति द्वित्वे पूर्वेसकारस्य खरि चेति चर्त्वेन दन्तस्थानतो ऽन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह । सस्य द्वित्वेति । स एवेति ॥ सकार एवेत्यर्थ । एवकारव्यावर्त्यमाह । नतु तकार इति । ननु दन्तस्थानत श्वासाघोषविवारा त्मकबाह्यप्रयत्न्नतश्चान्तर्यन्तकारेऽप्यविशिष्टमित्यत आह । अल्पप्राणतयेति ॥ सकारस्स्थानी महाप्राण' ८ ' तकारस्तु अल्पप्राण । अतो बाह्यप्रयत्न्नभेदात् तकारो न भवति । इदमुपलक्षणम् । आभ्यन्तरप्रयत्न्नभेदादपि सकारस्य तकारो न भवतीति द्रष्टव्यम् । ‘वस निवासे' इत्यादि धातो र्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते । यदि तु तत्र खरि चेति सकारस्य तका रस्यात्तर्हि तद्विधानमनर्थक स्यादित्यर्थ । 'राम ओस्' इति स्थिते वृद्धौ प्राप्ताया । ओसिच । अतो दीर्घ यञीत्यतोऽत इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । बहुवचने झल्येदित्यत एदित्यनु वर्तते । तदाह । ओसि पर इति । अतोऽङ्गस्येति ॥ अदन्ताङ्गस्येत्यर्थ । 'रामे-ओस् । इति स्थिते अयादेश, रुत्वविसर्गौ च, सिद्धवत्कृत्याह । रामयोरिति ॥ ‘राम-आम्' इति

प्रकरणम्]
१२५
बालमनोरमा ।

२०८ । हस्वनद्यापो नुट् । (७-१-५४)

ह्रस्वान्तान्नद्यन्तादावन्ताचाङ्गात्परम्यामो नुडागम स्यात् ।

२०९ । नामि । (६-४-३)

नामि परेऽजन्तस्याङ्गस्य दीर्घ स्यात् । रामाणा “सुपि च' (सू २०२) इति दीर्घों यद्यपि परस्तथापीह न प्रवर्तते । सन्निपातपरिभाषाविरोधान् ‘नामि'


स्थिते सवर्णदीर्घे प्राप्ते । हृस्वनद्या ॥ हूस्वश्च नदीच आग्चेति समाहारद्वन्द्वाद्दिग्योगे पञ्चमी। परस्य’ इत्यद्याहार्यम्। ‘अङ्गस्य’ इत्यविकृत पञ्चम्या विपरिणम्य ट्रस्वादिभिर्विशेष्यते । अत स्तदन्तविधि । ' आमि सर्वनाम्न ' इत्यत 'आामि ’ इत्यनुवर्तते । तच्च ‘उभयनिर्देशे पञ्चमीनि र्देशो बलीयान्’ इति न्यायात् 'तस्मादित्युत्तरस्य' इति षष्ठयन्त सम्पद्यते । तदाह । ह्रस्वा न्तादित्यादिना ॥ आमत्र षष्ठीबहुवचनमेव। नतु 'टेरामित्यादिविहितम्' इति भाष्ये स्पष्टम् । नुटि टकार इत्। उकार उच्चारणार्थे । टित्वादाद्यवयव । ‘राम-नाम्' इति स्थिते । नामि ॥ ढूलोप' इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या च “अच' इत्युपस्थित तेन चाङ्ग विशेष्यते । अतस्तदन्ताविधि । तदाह । अजन्तस्येति ॥ “नुटि” इति न सूत्रितम् । 'भृजकिन्नुटच इत्यौणादिकगन्प्रत्ययान्ते भृङ्गशव्दे ऋकारस्य दीर्घापत्ते । “ अङ्गना पामनामित्यादौ तु न दीर्घ । अर्थवद्रहणपरिभाषया अर्थवत एव नामो ग्रहणात् । पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने अमि कृते त्रयाणामपि प्रत्ययाना प्रत्यकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात् । ननु “नामीति सनकारग्रहणम्मास्तु “ आमि' इत्येव सूत्रयताम् । नच 'राम आम् इत्यस्यान्द शाया दीर्घे सति ह्रस्वान्तत्वाभावात् ‘ह्रस्वनद्याप' इति नुट् न स्यादिति वाच्यम्। 'ह्रस्वान्तान्नुट्’ इति वचनसामर्थ्यात् कृतेऽपि दीर्धे भूतपूर्वगत्याश्रयणेन नुडुपपत्तेरिति चेन्न । सनकारनिर्देशस्य नोपधाया इत्युत्तरार्थत्वात् । यदि हि आमीत्येवोच्येत तर्हि ‘नोपधाया’ इत्युत्तरसूत्रेऽपि आमीत्येवा नुवर्तेत । ततश्च नान्तस्योपधाया दीर्घस्यादामीत्येव लभ्येत । एव सति चर्मणा वर्मणामित्या दावपि दीर्घस्स्यात्। अतो नामीति सनकारनिर्देश इति भाष्ये स्पष्टमित्यलम् । ‘अट्कुप्वाड्’ इति णत्व सिद्धवत्कृत्याह । रामाणामिति । नन्वत्र परत्वात् 'सुपि च' इति दीर्घ एवोपन्यसनीय न तु 'नामि' इति दीर्घ । फलविशेषाभावेऽपि न्यायानुरोधेनैव शास्त्रप्रवृत्ते “इको झल्’ इतिसूत्रे भाष्ये प्रपञ्चितत्वात् इति शङ्कते । सुपि चेति दीर्घो यद्यपि पर इति ॥ परिहरति । तथापीति । सन्निपातेति । ह्रस्वान्तसन्निपातमुपजीव्य प्रवृत्तस्य नुट ह्रस्वविघातक सुपि च' इति दीर्घ प्रति निमित्तत्वासम्भवादिति भाव । नन्विह 'नामि' इति दीर्घप्रवृत्तावपि सन्निपातपरिभाषाविरोधस्तुल्य इत्यत आह । नामीत्यनेनत्विति ॥ यद्यत्र नामीति दीर्घो न स्यात्तर्हि तदारम्भो व्यर्थस्यात् । ततश्च निरवकाशत्वाद्रामाणामित्यादौ नामीति दीर्घ स्सन्निपातपरिभाषा बाधित्वा प्रवर्तते । सुपि चेति दीर्घस्तु रामाभ्यामित्यादौ सावकाशत्वा द्रामाणामित्यादौ नामि परे सन्निपातपरिभाषान्नबाधितुमर्हति । तस्माद्रामाणामित्यादौ नामि

१२६
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

(सू २०९) इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयो । सुप्येत्वे कृते ।

२१० । अपदान्तस्य मूर्धन्यः । (८-३-५५)

आ पादपरिसमाप्तेरधिकारोऽयम् ।

२११ । इण्कोः । (८-३-५७)

इत्यधिकृत्य

२१२ । आदेशप्रत्यययोः । (८-३-५९)

सहे साड स ' (सू ३३५ ) इति सूत्रात् * स ' इति षष्ठन्यन्त पद् मनुवर्तते । इण्कवर्गाभ्या परस्यापदान्तस्यादेश प्रत्ययावयवश्व य सका


परे दीर्घप्रवृत्तौ सन्निपातपरिभाषा वावितु नामाति दीर्घरम्भ । ननु, नामीति दीघो निरवकाशत्वात्सन्निपातपरिभाषा बाधत इत्ययुक्तम् । यत्र ह्रस्वान्तसन्निपातमनुपजीव्येव नुट प्रवृत्तिस्तत्र सन्निपातपरिभाषानुपमर्देनैव नामीति दीर्घप्रवृत्तेस्सावकाशत्वात् । यथा कतीना मित्यत्र । तत्र हि “षट्चतुर्भ्य' इति नुट् षट्सज्ञकेभ्यश्चतुरश्च परस्याऽमो नुट् स्यादिति हि तदर्थं । एव हि सति सुपि चेतिवत् कतेर्नामीत्येव सूत्रयेत । अजन्तस्याङ्गस्य नामि दीर्घ इत्येव पर नामीति सामान्यसूत्रन्नारम्येत । उक्त हि भाष्ये । “नह्येकमुदाहरण योगारम्भ प्रयोजयति' इति । एकस्य शब्दस्य साधनाय सामान्यसूत्र नारम्भणीयमित्यर्थ । अन्यथा मुद्गादणित्यनुपपत्तेरिति कैयट नचैव सति कतिशब्दस्याधिकस्य प्रवेशे गौरवमिति वाच्यम् न तिसृवतसृ’ इति नामि दीर्घनिषेधाकरणेन लाघवात् । एवञ्च कतेर्नामीत्यनुक्रा नामीति सामा न्यसूत्रारम्भसामर्थ्याद्रामाणामित्यादावपि नामीनि दीर्घस्सन्निपातपरिभापा बाधित्वा निविशत इति युक्तम् । एवञ्च आरम्भसामर्थ्यादिति मूलमपि कतेर्नामीत्यनुक्का नामीति सामान्यसूत्रारम्भ सामर्थ्यादिति व्याख्येयमित्यल विस्तरेण । अथ सप्तमी विभक्ति । डेर्डकार इत् । “राम-इ-इति स्थिते' आद्गुण इति मत्वाह । रामे इति । रामयोरिति ॥ षष्ठीद्विवचनवत् । सुप्येत्वे कृत इति । पकारस्येत्वे , लोपे, ' बहुवचने झाल्यत्' इत्येत्वे कृत इत्यर्थे । 'रामे-सु' इति स्थिते । आदेशप्रत्ययोरिति षत्व विधास्यन्नाह । अपदान्तस्य ॥ मूर्द्धन्य-मूर्द्धस्थानक, अष्ट माध्द्यायस्य तृतीयपादे मध्द्यत इद सूत्र पठितम् । इत आरभ्येतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थ । इण्को. इत्यधिकृत्येति ॥ उत्तरत्र विधिष्वनुवर्तत इति शेष । इण्च कुश्चेति समाहारद्वन्द्व । पुस्त्वमार्पम् । इतरेतरयोगद्वन्द्वत्वेकवचनमार्षम् । इणिति परणकारेण प्रत्याहार । कु कवर्ग । अथ षत्वावधायक सूत्रमाह । आदेश । षष्ठ्यन्तामिति ॥ सहेस्साडस्स' इति सूत्रे स् इत्यस्मात् षष्ठयेकवचने सति स इति निर्दिष्टमिति भाव । तच्चेह द्विवचनान्ततया विपरिणम्य आदेशप्रत्ययोरित्यत्र समबध्ध्यते। ततश्च इण्कवर्गाभ्या परयोरपदा

प्रकरणम्]
१२७
बालमनोरमा ।


रस्तस्य मूर्धन्यादेशा स्यात् । विवृताधोपस्य सम्य तादृश एव ष । रामेषु । इण्को 'किम् । रामस्य । “ आदेशप्रत्ययो ' किम्। सुपी । सुपिमौ । सुपिस । अपदान्तस्य' किम् । हरिस्तत्र । एव कृणमुकुन्दादय ।

२१३ । सर्वादीनि सर्वनामानि । (१-१-२७)

न्तयोरादेशात्मकप्रत्ययावयवात्मकयोस्सकारयोर्मुर्द्धन्यस्यादित्यर्थ । फलितमाह । इण्वकवर्गा भ्थामित्यदिना ॥ औढमनोरमायान्तु आदेशप्रत्ययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका । तयाच आदेशस्य प्रत्यावयवस्य च सकारस्येति लम्यत इति प्रत्ययशब्दस्य लक्षणा विनोक्तम् । सहविवक्षाभावेऽपि सौत्रेो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात्, आदेशावयवस्य सस्य ष इति लभ्येत, तर्हि तिसृणा चतसृणामित्यादौ दोप । नच त्रिचतुरोत्रियामित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यम् । तिसृ इत्यत्र न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्' इति पत्वनिषेधेन चरितार्थत्वात् । बिसम्बिसमित्यादौ सकारस्य आदेशावयवतया षत्वापत्तेश्च । नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपतया वक्ष्यमाणत्वात् । प्रत्ययो यस्सकारस्तस्येति व्याख्याने तु जिगीषुरित्यादावेव स्यात् । रामेषु इत्यादौ न स्यात् । ञत आदेश प्रत्ययावयवश्च यस्सकारस्तस्येति व्याख्यातम । प्रत्यया वयवलक्षणायाञ्च हलि सर्वेषामिति निर्देशो लिङ्गम् । विवृताघोषस्येति ॥ मूर्धन्यत्व ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाभ्यन्तरप्रयत्नवत अघोपरूपबाह्यप्रयत्न्नवतश्च सकारस्य तदुभ यात्मकघ्षकार एव भवतीत्यर्थे । अकारनिवारणायाद्य विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति ॥ नच सु इत्यस्य व्यपदेशिवद्रावेन सुबन्तत्वेन पदत्वात् सात्पदाद्योरिति षत्व निषेधस्यादिति चेन्न । प्रत्ययग्रहणे यस्मात्सविहितस्तदादेरेव ग्रहणादित्यलम् । सुपिसाविति ॥ पिस गतौ क्विप् धातुसकारोऽय नत्वादेश नापिप्रत्यावयव इति भाव । अथ सर्वादिशब्देषु सर्वनामकार्य विधास्यन् सर्वनामसज्ञामाह । सर्वादीनि ॥ सर्व आदि प्रथमावयव येषान्तानि सर्वादीनि। सर्वशब्द स्वरूपपर । नपुसकवशात् शब्दरूपाणीति विशेष्यमध्द्याहार्यम् । तदाह । सर्वादीनि शब्देत्यादिना । ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात् सर्वशब्दस्य च समासवृत्ति पदार्थत्वादन्यपदार्थत्वाभावाद्विश्वादिशब्दानामेव सर्वादिशब्देन बहुव्रीहिणावगमात् सर्वनामसञ्ज्ञा स्यात्, न तु सर्वशब्दस्यापीति चेत् । उच्यते । सर्व आदिर्यस्य समुदायस्येति विग्रह । सर्वशब्द घटितस्समुदायस्समासार्थ । समुदाये च प्रवर्तमाना सर्वनामसज्ञा क्वचिदपि अप्रयुज्यमाने तस्मिन् वैयर्थ्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्तीत्याविशेषात् सर्वशब्देऽपि भवति । एव च्चात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता समुदायरूपणत्वन्यपदार्थप्रवेश । नन्व समुदाय स्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिश्शङ्कया। सर्वशब्दघटितस्य विवक्षितावयवसङ्खयस्य समूहस्यान्यपदार्थत्वात्। उद्भदूतावयवभेद समुदायस्समासार्थ इति कैयटोत्तेरप्ययमेवार्थ । अतो न बहुवचनस्यानुपपत्ति । तदेव व्याख्याने हलिसर्वेषामित्यादिनिर्देश प्रमाणम्। सर्वशब्दस्य सर्वनाम त्वाभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्यु । तथाच सर्वादीनीति तद्गुणसविज्ञानो

१२८
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


सर्वादीनि शब्दस्वरूपाणि सर्वनामसज्ञानि स्यु । * तदन्तस्यापीय संज्ञा' । * द्वन्द्वे च' (सू २२४) इति ज्ञापकान् । तेन * परमसर्वत्र इति खल परमभवकान्' इत्यत्राकच्च सिद्धयति ।

२१४ । जसः शी । (७-१-१७)

अदन्तात्सर्वनाम्न परस्य जस शी स्यात् । अनकाल्त्वात्सर्वादेश ।


वहुव्रीहि । तस्यान्यपदार्थस्य गुणा विशेषणानि वर्तिपदार्थरूपाणि तेषा सविज्ञान क्रिया न्वयितया विज्ञान यत्र स तद्गुणसविज्ञान इति व्युत्पत्ति । यत्र सयोगसमवायान्यतरसम्बन्धे नान्यपदार्थे वर्तिपदार्थान्वय तत्र प्रायेण तद्गुणसविज्ञानो बहुव्रीहि । यथा द्विवासा देवदत्तो भुङ्क्ते, लम्बकर्ण भोजयेत्यादौ । तत्रहि वाससो कर्णयोश्च भुजिक्रियाभावेऽपि सन्निहितत्व मात्रेण तद्गुणसविज्ञानत्वम् । प्रकृते च समुदाये अन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपि तावयवावयविभावसम्वन्धसत्त्वात्तद्गुणसविज्ञानत्वम् । स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्ति पदार्थान्वये त्वतद्गुणसविज्ञानो बहुव्रीहि । यथा चित्रगुमानयेत्यादावित्यलम् । ननु सर्व विश्व इत्येव सर्वदिशब्दाना केवलानामेव सर्वादिगणे पाठात् परमसर्वादिशब्दाना कथ सर्वनामते त्यत आह । तदन्तस्यापीति । द्वन्द्वे चेतीति ॥ द्वन्द्वेचेत्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वे नामसज्ञा प्रतिषिद्यते वर्णाश्रमेतराणामित्यादौ । यदि केवलानामेव सर्वादिगणपठिताना सर्व नामता, नतु तदन्तानामपि, तर्हि तत्प्रतिषेधो व्यर्स्थस्यात् । अतस्तदन्तस्यापीय सज्ञेति विज्ञायत इत्यर्थ । ननु परमसर्वादिशब्देषु गणपठिताना केवलानामेव सर्वादिशब्दानामस्तु सर्व नामता, मास्तु तदन्तानामपि । ‘सर्वनाम्नस्स्मै' इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेन, पदा ङ्गाधिकारे तस्य तदन्तस्य चेति परिभाषया परमसर्वस्मै इत्यादिषु सिद्धेरित्यत आह । तेनेति ॥ तदन्तस्यापि सज्ञाबलेनेत्यर्थ । सिद्धयतीति ॥ सप्तम्यास्त्रलिति सप्तम्यन्तात् सर्वनाम्नो विधीयमानस्त्रल् “अव्ययसर्वनाम्नामकञ्च् प्राक्टे' इत्यज्ञाताद्यर्थेषु विधीयमानोऽकच्च सिध्द्यतीत्यर्थ । चकारात् पञ्चम्यास्तसिलिति तसिल् च । नचावयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यम् । कुत्सित इति सूत्रस्थभाष्यरीत्या सङ्खयाकारकाम्या पूर्वार्थस्य इतरान्वयेन सुबन्तादेव तद्धितो त्पत्त्यवगमेन सर्वनामप्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षाया सर्वनामावयवटे प्रागकजित्यर्थपर्यं वसानात्तदन्तसज्ञाभावे तदसिद्धेरिति भाव । सर्वशब्दात् जसि पूर्वसवर्णदीर्घे प्राप्ते । जसश्शी ॥ अतो मिस इत्यस्मादत इत्यनुवर्तते । सर्वनाम्नस्मै इत्यतस्सर्वनाम्न इत्यनुवर्तते । तदाह । अद् न्तादित्यादिना ॥ शी इति दीर्घोच्चारण नपुसकाचेचत्युत्तरार्थम्। तेन वारिणी इति सिध्द्यति । अनेनकाल्त्वादिति ॥ नतु शित्वप्रयुक्त सर्वादेशत्वमत्रेति भाव । ननु ‘नानुबन्धकृतमनोकाल् त्वम्’ इत्यस्ति परिभाषा । अनुबन्ध इत् तत्प्रयुक्तमनेकाल्त्व सर्वादेशनिमित्तन्न भवतीत्यर्थ । ततश्च शी इत्यत्र शकारस्य लशक्वतद्धित इति इत्सज्ञकत्वात् कथन्तत्प्रयुक्तमनेकाल्त्वम् । अतएव ‘अर्वणस्रसावनञ' ' इत्यत्र ऋकारमितमादाय तृ इत्यादेशस्य नानेकाल्त्वम् । अन्यथा तस्यापि सर्वदेशत्वापत्ते अताशित्वप्रयुक्तमेवात्र सर्वादेशत्वमाश्रयितु युक्तमित्याशङ्कय

प्रकरणम्]
१०१
बालमनोरमा ।

न च 'अर्वणस्तृ-' (सू ३६४) इत्यादाविव * नानुबन्धकृतमनेकास्त्वम्' (प ६) इति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् । सर्वे ।

२१५ । सर्वनाम्नः स्मै । (७-१-१४)

अतस्सर्वनाम्नो “डे' इत्यस्य * स्मै' स्यात् । सर्वस्मै ।

२१६ । ङसिङयोः स्मात्स्मिनौ । (७-१-१५)

अतस्सर्वनाम्र एतयोरेतौ स्त । सर्वस्मात् ।

२१७ । आमि सर्वनाम्नः सुट् । (७-१-५२)

अवर्णान्तात्परस्य सर्वनाम्नो विहितस्याम सुडागम स्यात् । एत्वषत्वे ।


निराकरोति । नचेत्यादिना ॥ अर्वणस्तृ इत्यादाविव अनुबन्धकृतमनेकाल्त्वमिति नेत्यन्वय । शी इति शकारस्य “लशकतद्धिते' इति इत्सज्ञा वक्तव्या । तेन च सूत्रेण प्रत्ययादिभूताना लशकवर्गाणामित्सज्ञा विहिता । प्रकृते च शी इत्यस्य प्रत्याधिकारस्थत्वाभावान्न स्वत प्रत्ययत्व, किन्तु जसादेशत्वेन स्थानिवद्भावात् प्रत्ययत्व वक्तव्यम् । स्थानिवद्भावश्च आदे शभावमापन्नस्य शी इत्यस्य भवति । एवञ्चादेशत्वसिद्ध प्रागादेशभावदशाया शी इति शका रस्य इत्सज्ञाया असिद्धेरनेकाल्त्वमप्रतिहतम् । अत एव शित्वात् सर्वादेश इत्यपि निरस्तम् । तृ इत्यत्र तु आदेशभावात् प्रागेव ऋकारस्य इत्सज्ञकत्वान्न तत्प्रयुक्तमनेकाल्त्वमिति वैषम्य मित्यभिप्रेत्य परिहरति । सर्वादेशत्वात्प्रागिति ॥ शीभावे सति “सर्व ई' इति स्थिते आद्गुण सिद्धवत्कृत्याह । सर्वे इति । सर्वशब्दात् चतुर्थ्येकवचने 'डेर्य' इति प्राप्ते । सर्वना म्नः स्मै ॥ अतो भिस इत्यस्मादत इत्यनुवर्तते । डेर्य इत्यतो डेरिति च । तदाह--अतस्स र्वेत्यादिना । सर्वशब्दात् पञ्चम्येकवचने टाडसिडसामिति प्राप्ते । ङसिङयोः ॥ डसिश्च डिश्चेति द्वन्द्व । अतो भिस इत्यस्मादत इति, सर्वनाम्न स्मै इत्यतस्सर्वनाम्न इति चानुवर्तते । तदाह । अतस्सर्वेति । एतयोरिति ॥ डसिडयोरित्यर्थ । एताविति ॥ स्मात्स्मिनावि त्यर्थ । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्नविभक्ताविति तकारस्य नेत्चामिति मत्वाह । सर्वस्मादिति ॥ “सर्व आम्' इति स्थिते ‘हूस्वनद्याप’ इति नुटि प्राप्त । आमि सर्वनाम्नः ॥ आजसेरसुक्’ इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेन अङ्गस्येत्याधिकृत पञ्चम्या विपरिणत विशे ष्यते, तदन्तविधि , परस्येत्यद्याहार्यम् । “उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्’ इति न्यायेन तस्मादित्युत्तरस्य' इति परिभाषया आमीति सप्तमी आम इति षष्ठयन्ततामापद्यते । सर्वनाम्न इति तु विहितविशेषणम् । ततश्च अवर्णान्तादङ्गान् परस्य सर्वनाम्नो विहेितस्यामस्सुडागमस्स्या दित्यर्थस्सम्पद्यते । तदाह । अवर्णान्तादित्यादिना । अवर्णन्तादित्यनन्तर अङ्गादिति शेष । अवर्णान्तात्सर्वनाम्नो विहितस्याम इति व्याख्याने तु येषान्तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् । सर्वनाम्न. परस्येति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणा मिल्यासिद्धेरित्यग्रे मूल एव स्पष्टीभविष्यति । एत्वषत्वे इति ॥ बहुवचने झल्येदित्येत्वम् । सन्नि १२९ 17

१३०
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ता । सर्वादयश्च पञ्चविशत् । सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । * पूर्वपरावरदक्षिणेोत्तरापराधराणि व्यवस्थायामसज्ञायाम (ग सू१) * स्वमज्ञातिधनाख्यायाम्' (ग सू २) । * अन्तर बहिर्योगोपसव्यान यो ' (ग सू ३) । त्यद् तद् यद् एतद् इदम् अद्स् एक द्वि युष्मद् अस्मद् भवतु किम् इति । तत्र उभशब्दो द्वित्वविशिष्टस्य वाचक । अत एव नित्य द्विवचनान्त । तस्येह पाठस्तु “उभकौ' इत्यकजर्थ । न च कप्रत्ययेनेष्टसिद्धि ।


पातपरिभाषात्वत्र न प्रवर्तते इति बहुवचने झत्येदित्यत्रोक्तम् । ‘आदेशप्रत्ययो ' इति षत्व सुटो ऽपि । ‘तदागमास्तद्वहणेन गृह्यन्ते’ इति प्रत्ययावयवत्वादिति भाव । सर्वेषामिति ॥ नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न । सप्तमीनिर्देशस्य “त्रेस्रय' इत्युक्तरार्थमावश्यकत्वादिति भाव । सप्तम्येकवचन स्य डसिडयोरिति स्मिन्नादेश सिद्धवत्कृत्याह । सर्वस्मिान्निति । शेषमिति ॥ शिष्यत इति शेष कर्मणि घञ् । “घनजबन्ता पुसि’ इति तु प्रायिकमिति भाव । एवमिति ॥ सर्व शब्दवदित्यर्थे । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकवधर्मविशेषप्रवृत्तिनिमित्तकत्वात् बहु वचनमेव न्याय्यमिति वाच्यम् । सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदा अनु द्भूतावयवस्समुदायो विवक्षित तदा भवत्येकवचनम् । यथा-सर्वो लोक इति । अनुद्भूतत्वम् अविवक्षितसङ्खयाकत्वम् । यदा तु अनुद्भूतावयवसमुदायौ तदा द्विवचनम् । यथा—सवौं व्यूहा विति । यदा तु उद्भूतावयवसमुदाय तदा बहुवचनम् । यथा—सर्वे जना इति । अथ के ते सर्वोदयश्शब्दा 2 कति च ते ? इत्यत्राह । सर्वादयश्च पञ्चत्रिशदिति ॥ पञ्च च त्रिशच्चेति द्वन्द्व । पञ्चाधिका त्रिंशदिति शाकपार्थिवादित्वात् तत्पुरुषो वा । सङ्खयायास्तत्पुरुषस्योप सङ्खयानमिति डच्तु समासान्तो न भवति । अन्यत्राधिकलोपादित्युक्ते । पूर्वपरावरेति गणान्तर्गत सूत्रम् । व्यवस्थायामसज्ञायाश्च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानीत्यर्थ । सर्वनामसज्ञा तु “सर्वादीनि सर्वनामानि ' इत्येव सिध्द्यति । स्वमज्ञातीति, अन्तर बहिरिति च गणसूत्रद्वयमेव योज्यम् । व्यवस्थादिशब्दा अग्रे मूल एव व्याख्यास्यन्ते । इतिशब्दस्सर्वादिगणसमाप्तिधेयोतनार्थ। तत्र विश्वशब्दोऽपि सर्वशब्दवदेव उभशब्दे तु विशेषमाह तत्रेति । सर्वादिषु मध्ध्य इत्यर्थ । अत एवेति । द्वित्वविशिष्टवाचकत्वादेवेत्यर्थ । नित्य मिति । सर्वदा द्विवचनान्त इत्यर्थ । द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेव सति “जसश्शी' 'सर्वनाम्नस्स्मै' ‘डसिडयोस्मात्स्मिनौ' । ‘आमि सर्वनाम्नस्सुट्’ इत्युक्ताना सर्वनामकार्याणा द्विवचने अभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह । तस्येहेति ॥ तस्य उभशब्दस्य इह सर्वादिगणे पाठस्तु उभकावित्यत्र ‘अव्यय सर्वनाम्नामकच्प्राक्टे इत्यकच्प्रत्ययार्थ इत्यर्थ । ननु मास्तु उभशब्दस्य सर्वादिगणे पाठ । मास्तु च सर्वनामता। मास्तु च तत्प्रयुक्त अकच् । उभशब्दात् स्वार्थिके कप्रत्यये सत्यपि उभकाविति

प्रकरणम्]
१३१
बालमनोरमा ।


द्विवचनपरत्वाभावेन * उभयत ' ' उभयत्र' इत्यादाविवायच्प्रसङ्गात् । तदुक्तम् “उभयोऽन्यत्र' (वा २३२) अन्यत्रेति द्विवचनपरत्वाभावे । उभयश व्दस्य द्विवचन नास्ति इति कैयट । ८ अस्ति' इतेि हरदत्त । तस्माज्जस्यजा


रूपसिद्धे । नच काकचो स्वरभेदश्शङ्कय । ‘तद्धितस्य’ इति प्रत्ययस्वरेण वा, “चितस्सप्रकृते इति चित्स्वरेण वा, अन्तोदात्तत्वे विशेपाभावात् । उक्तञ्च भाष्ये, काकचा को विशेष इतेि । तत्राह । नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिर्नचेत्यन्वय । कुत इत्यत आह । द्विवच नेति । द्विवचनपरत्वाभावे उभशब्दादयच् विहित । अकचि तु सति “तन्मध्द्यपतितस्तद्रहणेन गृह्यते’ इति न्यायेन उभशब्देन उभकशब्दोऽपि गृह्यते । तस्य च उभक औ इत्यस्या दशाया द्विवच नपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात् परतो विहितत्वेन तन्मद्यप तितन्यायाप्रवृत्या उभकशब्दस्य उभशव्देन ग्रहणाभावान् उभशब्दस्य कप्रत्ययव्यवधानेन द्विवचनपरकत्वाभावात् अयाचि उभयको इति स्यात् । यथा उभयत उभयत्रेत्यत्र द्विवचनप रकत्वाभावादयच्प्रत्ययोऽस्ति तद्वदित्यर्थ । द्विवचने सति अयच्प्रत्ययो नेत्यत्र केि प्रमाण मित्यत आह । तदुक्तमिति । वार्तिककृतेति शेष । द्विवचने सति अयच्प्रत्ययो नेति यद भिहित तत् ‘उभयोऽन्यत्र' इति वदता वार्तिककृता उक्तमित्यर्थ । अन्यत्रेत्येतद्वयाचष्टे । अन्य त्रेति द्विवचनपरत्वाभावे इति ॥ उदाहृतवार्तिके अन्यत्रेत्यनेन द्विवचनादन्यास्मिन् पर इत्यर्थो विवक्षित । ‘अन्याभावो द्विवचनटाब्विपयत्वात्’ इति पूर्ववार्तिके द्विवचनस्यैव प्रस्तु तत्वादिति भाव । टाव्ग्रहणन्तु तत्राविवक्षितमिति केयटादिषु स्पष्टम् । ततश्च सर्वेनामता निमित्तकाकजर्थ उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यन्तत्तद्वितप्रक्रि याया ‘उभादुदात्तो नित्यम्’ इत्यत्र वक्ष्यते । अयोभयशब्दे विशेषमाह । उभयशब्दस्येति ॥ उभौ अवयवौ यस्यावयविनस्स उभय मणि । “उभादुदात्त' इत्यच् । अवयववृत्तस्सङ्खया वाचिन उभशब्दादवयविन्यर्थे अयच्प्रत्ययस्यादिति तदर्थं । द्वयवयवारब्धो मणिरित्यर्थ । मणेरवयविन एकत्वादुभय इत्येकवचनम् । उभयश्च उभयश्च उभयश्चेत्येव द्वयवयवारब्धत्रया दिमणिविवक्षायान्तु बहुवचन उभये मणय इति । उभयश्च उभयश्चेति द्वयवयवारब्धद्वि मणिविवक्षायामुभयौ मणी इति द्विवचनन्तु न भवति । उभयोऽन्यत्रेत्युदाहृतवार्तिके उभयश व्दस्य द्विवचनादन्यत्रैव प्रयोगविद्यवगमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयश ब्दस्य ग्रहणम् । स्वार्थिकायजन्तोभयशब्दोपक्रमेणैव तद्वार्तिकप्रवृत्तेरिति वाच्यम् ।• एतद्वार्ति कव्याख्यावसरे उभयो मणि, उभये देवमनुष्या, इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायज न्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्य ‘तद्धितश्चासर्वविभक्ति ’ इत्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनासर्वविभक्तित्वेऽपि न भवति । तसिलादय प्राक्पाशप , शस्प्रभृतय प्राक् समा सान्तेभ्य, अम्, आम्, कृत्वोऽर्था , तसिवती, नानाञौ, इति परिगणितत्वादिति कैयटेनोक्तम् । तदाह । कैयट इति ॥ एवञ्च उभय, उभये। उभय, उभयान् । उभयेन, उभयै । उभयस्मै उभयभ्य । उभयस्मात्, उभयेभ्य । उभयस्य, उभयेषाम् । उभयस्मिन्, उभयेषु । इत्येव

१३२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


देशस्य स्थानिवद्भावेन तयाप्रत्ययान्ततया 'प्रथमचरम—' (सू २२६) इति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये डतरडतमौ प्रत्ययौ । प्रत्ययग्रहणे तदन्ता ग्राह्या ' (प २४) यद्यपि * सज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति' (प २८) * सुप्तिडन्तम्' (सू २९) इति ज्ञाप


रूपाणि । नतूभयाविल्यादिद्विवचनान्तप्रयोग इति सिध्ध भवति। हरदत्त इत्यस्वरसोद्भावनम् तद्वीजन्तु उभयोऽन्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तर उभयशब्दात् जसि सर्वादीनीति नित्या सर्वनामसज्ञा बाधित्वा परत्वात् “प्रथमचरमतयात्पार्धकतिपयनेमाश्च इति सर्वनामसज्ञाविकल्पप्राप्तिमाशङ्कय परिहरति । तस्मादित्यादिना । तस्मात् उभयशब्दात् जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव सज्ञा भवतीत्यर्थ सर्वादीनीत्यनेनेति शेष ननु प्रथमचरमादिष्वनन्तर्भावात् कथमुभयशब्दस्य प्रथमचरमेति आाह तयप्प्रत्ययान्ततयेति । ननु तयप अश्रवणात् कथमुभयशब्दस्य तयप्रत्ययान्तत्वमित्यत आह । अयजादेशस्य स्थानिवद्भावेनेति । उभादुदात्त इति सूत्रे “सङ्खयाया अवयवे तयप्' इति उभशब्दाद्विहितस्य तयपोऽयजादेश , तयब्ग्रहणमननुवत्य अयच् स्वतन्त्र प्रत्ययो वा, इति पक्षद्वय भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसज्ञाविकत्पशङ्का बोद्या । ननु प्रथमचरमेति विकल्पस्य परत्वात् कथमिह सर्वादीनीति नित्यैव सज्ञेत्यत आह । अन्तरङ्गत्वा दिति तदेवोपपादयति विभक्तिनिरपेक्षत्वेनेति प्रथमचरमेति जसि विकल्पविधि जसपेक्षत्वेन विभक्तयपेक्षत्वात् बहिरङ्ग सर्वादीनीति नित्यसज्ञाविधिस्तु तदनपेक्षत्वात् अन्तरङ्ग। अल्पापेक्षमन्तरङ्गमिति न्यायात् । अतोऽत्र परमपि प्रथमचरमेति विकल्प वाधित्वा सर्वादीनीति नित्यैव सज्ञा भवति । परादन्तरङ्गस्य बलीयस्त्वादिति भाव तथा च शीभावो नित्य इत्याह । उभये इति।। ननु डतरटतमशब्दयो क्वापि प्रयो गादर्शनात् किमर्थस्तयो पाठ इत्यत आह डतरडतमौ प्रत्ययाविति ॥ *किंयत्त दोर्निद्धारणे द्वयोरेकस्य डतरच वा बहूना जातिपरिप्रश्रे डतमच् एकाच्च प्राचाम् इति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ । ‘प्रत्यय ' इत्यधिकृत्य तद्विधे अत प्रत्यय ग्रहणपरिभाषया डतरग्रहणेन कतरादिशब्दाना, डतमग्रहणेन कतमादिशब्दानाञ्च ग्रहणामिति भाव । शङ्कते । यद्यपीति । सुप्तिङन्तमिति ।।यदि सज्ञाविधावपि प्रत्यग्रहणपरि भाषा प्रवर्तेत, तर्हि सुप्तिड्पदमित्येव सूत्रयेत । प्रत्ययग्रहणपरिभाषयैव सुसिडन्तमित्यर्थ लाभात् । अतस्सज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवञ्च प्रकृते सर्वनामसज्ञाविौ डतरडतमग्रहणे प्रत्यग्रहणपरिभाषानुपस्थानात् कय तदन्तग्रहणमित्याक्षेप परिहरति । तथापीति ॥ अन्यत्र सज्ञाविधौ प्रत्ययग्रहणेन तदन्तग्रहणाभावेऽपि इह सर्वनामसज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणमस्त्येवेत्यर्थ। कुत इत्यत आह । केवलयो रिति ॥ ‘न केवला प्रकृति प्रयोक्तव्या, नापि प्रत्यय ' इति न्यायेन केवलप्रत्यययोर्डतरडतमयो प्रयोगानर्हत्वेन तयोस्सर्वनामसज्ञाया फलाभावादित्यर्थ तस्मातू डतरडतमग्रहणेनात्र

प्रकरणम्]
१३३
बालमनोरमा ।


कात्। तथापीह तदन्तग्रहणम् । केवलयो संज्ञाया. प्रयोजनाभावात् । अन्यतरा न्यतमशब्दावव्युत्पन्नौ स्वभावाद्विबहुविषये निर्धारणे वर्तते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न सञ्ज्ञा । ‘त्व' ‘त्व' इति द्रावायदन्तावन्यपर्यायौ । “एक उदात्तो ऽपरोऽनुदात्त ' इत्येके । ‘एकस्तान्त' इत्यपरे। नेम' इत्यधे। सम सर्वपर्याय । तुल्यपर्यायस्तु नेह गृह्यते , ‘यथासङ्खयमनुदेश समानाम्’ । (स १२८) इति ज्ञापकात् । ‘अन्तर बहियोंगोप-'(ग सू ३) इति गणसूत्रे ‘अपुरि’ इति वक्त व्यम्’ (वा २४०) । अन्तरायां पुरि |


कतरकतमादिशब्दाना ग्रहणमिति स्थितम् । ननु टत्तरग्रहणेनैव सिद्धे सर्वादिगणे अन्य तरशब्दपाठो व्यर्थ अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात् सर्वनामत्वापत्तिश्चत्यत आह । अन्यतरान्यतमशब्दावव्युत्पन्नाविति ॥ डिन्थादिशब्दवत् प्रकृतिप्रत्ययविभाग विहीनावित्यर्थ । कियत्तदेकेभ्य एव डतर डतम विधानादिति भाव । नन्वेव सत्यन्यतरान्यत मशब्दाभ्या द्विबहुनिर्द्धारणावगम कथमित्यत आह । स्वभावादिति । एवञ्चान्यतमशब्दस्य न सर्वनामत्वमित्याह । तत्रेति । एतयोर्मध्ध्ये इत्यर्थ । अन्यतरशब्दस्य तु डतरप्रत्ययान्तत्वा भावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अथ त्वन्वेत्येकप्रातिपदिकभ्रम वारयन् अप्रसिद्धार्थत्वाद्वयाचष्टे । त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमा नार्थकावित्यर्थ । द्वयोरप्यदन्तत्वे अन्यतरपाठवैयर्थ्य परिहरति । एक इति ॥ इत्येके इति ॥ इति कतिपये वृत्तिकृदादय मन्यन्त इत्यर्थ । ‘एतत्व मन्ये' इत्युदात्तत्वस्य ‘उतत्व पश्यन्’ इत्या दावनुदात्तत्वस्यच ऋग्वेदे दर्शनादिति भाव । एकस्तान्त इति ॥ सहितापाठे त्वत् त्व इति छेदमाश्रित्य प्रथमस्तकारान्त द्वितीय अदन्त इत्यपरे मन्यन्त इत्यर्थ । अन्यथा एकश्रुत्या वा रवरविनिर्मुक्त वा सकृदेव पठेत्, तावतैव द्वयोरपि लाभात् । “त्वत्वसमसिमेत्यनुच्चानि' इति फिट्सूत्राञ्च । स्तरीरुत्वद्भवति सूत उत्वत् इत्यत्र गणव्याख्यावसरे वेदभाष्ये “त्वदिति सर्वादि पठित अनुदात्तोऽय अन्यपर्याय' इत्युक्तत्वाच्च । “त्वदधरमधुरमधूनि पिबन्तम्' इति जयदेवप्र योगाच्च । तत्र हि त्वच्छब्दोऽन्यपर्याय ! त्वत अधर इति विग्रह । अन्यस्या अधर इत्यर्थ । नतु तवाधर इति विवक्षित, “पश्यति दिशि दिशि रहसि भवन्तम्' इति पूर्ववाक्येनान्वयानु पपत्ते । नेम इत्यर्धे इति ॥ वर्तते इति शेष । प्रनेमस्मिन् ददृशे सोमो अन्त' इत्यचि तथा दर्शनादिति भाव । सम इति ॥ सर्वशब्दसमानार्थक एव समशब्द सर्वादिगणे पठित इत्यर्थ । तुल्यपर्यायस्त्विति ॥ तुल्यशब्दसमानार्थक इत्यर्थ । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भाव । ननु अष्टाध्द्यायीपठिते “ अन्तर बहिर्योगोपसव्यानयो' इति जसि सर्वनामसज्ञाविकत्पविधायके सूत्रे ‘अपुरीतिवक्तव्यम् ’ इति वार्तिकपाठो भाष्ये दृश्यते । एवञ्चा न्तरा पुर्य इत्यत्र जसि सर्वनामसज्ञानिषेधेऽपि, अन्तराया पुरीत्यत्र तन्निषेधाभावात् अन्त रस्यामिति स्यादित्यत आह । गणसूत्र इति । यद्यपीद वार्तिक जसि विकल्पविधिप्रकरणे पठित, तथाप्यन्तर बहिरिति गणसूत्रस्यैवाय शेष । नत्वष्टाध्यायीपठितस्य अन्तर बहिरिति

१३४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


२१८ ॥ पूर्वपरावरदक्षिणोत्तरापराधराणि

व्यवस्थायामसंज्ञाथाम्। (१-१-३४)

एतेषा व्यवस्थायामसञ्ज्ञायां सर्वनामसज्ञा गणपाठात्मर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे-पूर्वा । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । * व्यवस्था या' किम् । दक्षिणा गाथका । कुशला इत्यर्थे । “ असंज्ञायां' किम् ।

२१९ । स्वमज्ञातिधनाख्यायाम् । (१-१-३५)


जसि विधायकस्य शेष । जसश्शी इत्यत्र अत इत्यनुवृत्त्या टावन्तात्तत्प्राप्तिविरहात् । ततश्च पुर्या विशेष्यभूताया अन्तरशब्द सर्वादिगणे पाठ न लभते इत्येतद्वार्तिकार्थ पर्यवस्यति । एवञ्च जसेोऽन्यत्रापि अन्तरशब्दस्य पुर्या विशेष्यभूताया सर्वनामत्व नेति लभ्यते । अत अन्तराया पुरीत्यादौ सर्वनामकार्य स्याडादि नभवतीत्यभिप्रेत्योदाहरति । अन्तरायां पुरीति । यद्यप्य न्तरशव्द एव सर्वादिगणे पठित, नतु टावन्त । तथापि लिङ्गविशिष्टपरिभाषया वा एकादेशस्य पूर्वान्तत्वन्न प्रहणाद्वा सर्वनामत्वप्राप्तिर्बोध्द्या । सिमशब्दस्तु ‘सिम कृत्त्स्ने च शक्त्ते च स्यान्मर्यादा वबद्धयो' इति कोशे प्रसिद्ध । अथ सर्वादिगणान्तर्गतत्रिसूत्रीसमानाकारामष्टाध्ध्यायीपठिता पूर्व परेत्यादित्रिसूत्रा पुनरुक्तिशङ्का व्युदस्यन् व्याचष्टे । पूर्वपर ॥ सर्वनामानीति विभाषाः जसीति चानुवर्तते । तदाह । एतेषामिति ॥ पूर्वादिसप्तानामित्यर्थ । गण इति ॥ सर्वदि गण इत्यर्थ । या प्राप्तेति ॥ सर्वादीनात्यनेन नित्या सज्ञा या प्राप्सेत्यर्थ । अनेन पूर्वेपरेति सूत्र गणपठित जसोऽन्यत्र नित्यतया सर्वनामसज्ञार्थम् । अष्टाध्द्यायीपठितन्तु जसि तद्विक त्पार्थमिति न पौनरुक्तयामिति सूचितम् । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्ष कर्मणि घञ् । स्वस्य पूर्वादिशब्दस्याभिधेय वाच्य तेन अपेक्ष अपेक्ष्यमाण अवधेर्नियम व्यवस्थाशब्देन विवक्षित इत्यर्थ । ततश्च नियमेनावधिसापेक्षार्थे वर्तमानाना पूर्वादिशब्दाना जसि सर्वनामसज्ञा विकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दाना नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वमिति प्रश्न । दक्षिणा गाथका इति । अत्र दक्षिणशब्दो नावश्यपेक्ष इति भाव । दक्षिणपार्श्ववर्तिनो गाथका इत्यत्र कस्मादित्यवत्यपेक्षा अस्त्येवेत्यत आह । कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादिल्यवध्द्यपेक्षमेव । तथापि उत्तरे प्रत्युत्तरे च शक्त इत्यादि प्रत्युदाहरण बोध्द्यमित्याहु । असज्ञायां किमिति ॥ 'सङ्गोपसर्जनीभूतास्तु न सर्वा दय' इति वक्ष्यमाणतया सज्ञाया सर्वनामत्वस्याप्रसत्तेरिति प्रश्र । उत्तराः कुरव इति ॥ कुरुशब्दो देशविशेषे नित्य बहुवचनान्त । सुमेरुमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किन्तु सज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानान्तु दिक्कालेषु अनादिस्सङ्केत इति न ते सज्ञाशब्दा । कुरुषु तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्यय सज्ञाशब्द इति मन्यते । केचित्त्वसज्ञायामित्यभावे सज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहु । स्वमज्ञा

प्रकरणम्]
१३५
बालमनोरमा ।

ज्ञातिधनान्यवाचिन स्वशव्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे-स्वा । आत्मीया इत्यर्थ । आत्मान इति वा । ज्ञातिधनवाचिनस्तु स्वा ज्ञातयोऽर्था वा ।

२२० । अन्तरं बहिर्योगोपसंव्यानयोः । (१-१-३६ )

बाह्ये परिधानीये चार्थेऽन्तरशव्दस्य या प्राप्ता सञ्ज्ञा सा जसि वा स्यात् । अन्तर-अन्तरा वा गृहा । वाह्या इत्यर्थ । अन्तर-अन्तरा वा शाटका । परिधानीया इत्यर्थ ।

२२१ । पूर्वादिभ्यो नवभ्यो वा । (७-१-१६)

एभ्यो नवभ्यो डसिडयो स्मात्स्मिनौ वा स्त । पूर्वस्मात्-पूर्वात् । पूर्व स्मिन्-पूर्वे । एव परादीनामपि । शेषं सर्ववत् । एकशव्द सङ्खयायां नित्यै कवचनान्त ।


तीति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनञ्च ज्ञातिधनेन तयो राख्या ज्ञातिधनाख्या न ज्ञातिवधनाख्या अज्ञाति धनाख्या तस्या अज्ञाति धनाख्यायाम् । स्वमिति शब्दस्वरूपापेक्षया नपुसकत्वम् । तदाह । ज्ञातिधनान्येति । स्व-स्वाः, इति ॥ सर्वना मत्वे शीभाव, “तदभावे तदभ व इति भाव । आत्मा आत्मीय ज्ञाति धनञ्चेति स्वशब्दस्य चत्वारोऽर्था । (नि) ‘स्वो ज्ञातावात्मनि स्व त्रिष्वात्मीये स्वोऽस्त्रिया धने' इत्यमर । अत्र स्वो ज्ञातावात्मनीत्येक वाक्यम् । ज्ञातावात्मनि च स्वशब्द पुलिङ्ग इत्यर्थ । स्व त्रिष्वात्मीये इति द्वितीय वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिन्न इत्यर्थ । स्वोऽस्त्रिया धन इति तृतीय वाक्यम् । वने स्वशब्द पुन्नपुसक इत्यर्थ । * स्वस्स्यात् पुस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रिया धने' इति मेदिनीकोश । तत्र ज्ञातिधनयो पर्युदासात् आत्मनि आत्मीये च सर्वनामत्व जसि वेिकत्प्यत इत्यभिप्रेत्य व्याचष्टे । आत्मीया इत्यर्थ इति । आत्मान इति वेति ॥ ज्ञातिधनपर्युदासस्य प्रयोजनमाह । ज्ञातिधनवाचिनस्त्विति ॥ ज्ञातिवाचिन धनवाचिनश्च सर्वनामत्वर्पयुदासात् जसि स्वा इत्येव रूपमित्यर्थ । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्व न स्यादिति वाच्यम् । आख्याग्रहणवलेन ज्ञातित्ववनत्वपुरस्कार एव पर्युदयसप्रवृत्ते । अन्तरम् । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । बहि अनावृतप्रदेश तेन योगस्सम्बन्ध यस्य स बहिर्योग बहिर्विद्यमानोऽर्थ इति यावत् । उपसवीयते पारिधी यत इति उपसव्यान अन्तरीय वस्त्र तदाह । बाह्य इत्यादिना । पूर्वादिभ्यो ॥ डसिङयोस्स्मात्स्मिनावित्यनुवर्तते । इत्याह । एभ्य इति ॥ पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टा पूर्वादय इह विवक्षिता । त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दस्संख्याया मिति ॥ अर्थान्तरे तु द्विवचनबहुवचने अपि स्त । “एकोऽन्यार्थे प्रधाने च प्रथमे केवले

१३६
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


२२२ । न बहुव्रीहौ । (१-१-२९)

बहुव्रीहौ चिकीर्षिते सर्वनामसज्ञा न स्यात् । त्वक पिता यस्य स त्व त्कपितृक । अहक पिता यस्य स. मत्कापितृक । इह समासात्प्रागेव प्रक्रिया वाक्ये सर्वनामसंज्ञा निषिद्धयते । अन्यथा लौकिकविग्रहवाक्य इव तत्राप्यकच्प्र वर्तेत । स च समासेऽपि श्रूयेत । “ अतिक्रान्तो भवकन्तम्, अतिभवकान्


तथा । साधारणे समानेऽल्पे सङ्खयायाश्च प्रयुज्यते' इति कोश । स्यादेतत् । त्वत्कपितृक मत्क पितृक इति बहुव्रीहि । त्वक पिता यस्य, अहक पिता यस्येति लौकिकविग्रहवाक्यम् । लौकि कत्व प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थे अव्ययसर्वनान्नामित्यकचि युष्मकद् स् , अम्मकद् स् इति स्थिते, 'डे प्रथमयो ' इत्यमि “त्वाहों सौ' इति त्वादेशे अहादेशे च सति 'शेष लोप इति लोपे, अतो गुणे, अमि पूर्वे च त्वकम् अहकम् इति रूपम् । युष्मद् स्, पितृ स्, अस्मद् स्, पितृ स्, इत्यलौकिक विग्रहवाक्यम्। प्रयोगानर्हत्वम् अलैौकिकत्वम् इति स्थिति । तत्र त्वत्क पितृको मत्कपितृक इति बहुव्रीहिदशाया कप्रत्ययो न सम्भवति । युष्मदस्मदोस्सर्वनामत्वेनाक च्प्रसङ्गात् । न बहुव्रीहौ ॥ सर्वादीनि सर्वनामानीत्यनुवर्तते । वहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थ प्रतीयते । एव सति सूत्रमिद् व्यर्थम् । प्रियसर्वायेत्याक्षाना बहुव्रीहिवर्तिना सर्वादीना स्वायोपसङ्कान्तार्थान्तरप्रधानकतया उपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धे । ‘सज्ञी पसर्जनीभूतास्तु न सर्वादय ’ इति वक्ष्यमाणत्वात् । अतो व्याचष्टे । बहुव्रीहौ चिकीर्षित इति ॥ बहुव्रीहाविति विषयसप्तम्याश्रयणात् अयमर्थो लम्यते । तथाच बहुव्रीहौ प्रसत्ते सति तत प्रागेव विग्रहवाक्येऽय निषेधोऽर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याभावादिति भाव । अथ लोकिक विग्रहवाक्यन्दर्शयन् लक्ष्यभूत बहुव्रीहि दर्शयति । त्वकम्पितेत्यादिना ॥ सर्वनामत्वा भावात् कप्रत्यये *प्रत्ययोत्तरपदयोश्च' इति त्वमादेशे त्वत्क मत्क इति च रूपम् । ननु बहुव्रीहिप्रवृत्ते प्राक् अलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात् त्वक पितेति कथ लौकिक विग्रहवाक्यप्रदर्शनमित्यत आह । इहेति । न बहुव्रीहाविन्यस्मिन् सूत्र इत्यर्थ । प्रक्रिया वाक्य इति । युष्मद् स्, पितृ स्, अस्मद् स्, पितृ स्, इत्यलौकिकविग्रहवाक्य एवेत्यर्थ । लौकिकविग्रहवाक्ये तु नाय निषेध । बहुव्रीहिवत्तस्य स्वार्थे परिनिष्टितत्वेन स्वतन्त्र प्रयोगार्हद्वया बहुव्रीहेस्तत्र चिकीर्षितत्वाभावात् अलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथाचैतत्तथा समासनिरूपणे वक्ष्यते । ननु लौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेध तत्राह अन्यथेति ॥ न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाभावे सतीत्यर्थे । तत्रापीति ॥ अलौकिकविग्रहवाक्येऽपीत्यर्थ । नन्वलौकिक विग्रहवाक्ये भवत्वकच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाभावादित्यत आह । सचेति ॥ अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भाव । उभयत्रापितान्नियमे दृष्टान्तद्वयमाह। अतिक्रान्तो भवकन्तम्, अतिभवकानिति

प्रकरणम्]
१३७
बालमनोरमा ।

इतिवत्। भाष्यकारस्तु * त्वकत्पितृक.' “मकात्पितृक 'इति रूपे इष्टापत्तिं कृत्वैत त्सूत्र प्रत्याचख्यौ । अधिकदर्शित्वात् । यथोत्तर मुनीना प्रामाण्यम्। “संज्ञोपस


वदिति ॥ भवच्छब्दस्य सर्वादिगणे पाठात् सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवकत् अ अति इत्यलौकिकविग्रहवाक्य सम्पद्यते । तत्र “अत्यादय क्रान्ताद्यर्थे द्विती यया” इति समासे सति “सुपो धातुप्रातिपदिकयो ” इति सुब्लुकि अतिभवकच्छब्दात् प्रथमैकवचने अतिभवकानिति रूपम् । समासाभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिक विग्रहवाक्य भवति । तत्र समासदशाया भवच्छब्दार्थस्य स्वोपक्रान्तार्थान्तरप्रधानतया उपसर्ज नत्वेऽपि अलौकिकविग्रहदशाया भवच्छब्दस्यानुपसर्जनत्वात् सर्वनामत्वे सति प्रवृत्तः अकच् अतिक्रान्तो भवकन्तामिति लौकिकविग्रहवाक्ये अतिभवकानिति समासेऽप्यनुवर्तते । लौकि कविग्रहदशाया भवच्छब्दस्य उत्क्तरीत्या अनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनि भूतालौकिकविग्रहदशाया प्रवृत्तस्याकचो निवृत्त्यभावात् । नच भवत् अम् इत्यलौकिक विग्रहदशाया सतोऽयनुपसर्जनत्वस्य समासदशाया विनाश प्राप्स्यमानतया विनाशोन्मुखत्वात् अकृतव्यूहपरिभाषया अलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावात् अकज्दुर्लभः । ततश्च अतिक्रान्तो भवकन्तुमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तासिद्धिरिति वाच्यम्। एवञ्जातीयकालौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तौ अकृतव्यूहपरि भाषाया अनित्यत्बेन अप्रवृत्ते । तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि -- यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृ स् इत्याद्य लौकिकविग्रहवाक्ये अनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याप्रसक्त त्वात् न बहुव्रीहाविति नारभ्येत । अकृतव्यूहपरिभाषायास्तत्राप्रवृत्ते । भविष्यद्वहुव्रीहि कालिकविनाशोन्मुखमनुपसर्जनत्व पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याप्रसक्तत्वात् न निषेधाय न बहुव्रीहावित्यर्थवत् । नच उदाहृतबहुव्रीहिविषयालौकिकविग्रहवाक्ये अकृत व्यूहपरिभाषामाश्रियैव सर्वनामत्वाभाव आश्रीयताम् । किं न बहुव्रीहाविति सूत्रेणेति वाच्यम् । एव सत्यतिक्रान्तो भवकन्तमतिभवकन्तमतिभवकानित्यादि न सिध्द्येत् । अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावेनाकच प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादि लौकिकविग्रहवाक्ये अतिभवकानिति समासेऽपि श्रवण न स्यात् । एवञ्च बहुव्रीििवषये अलौ किकविग्रहवाक्ये अकृतव्यूहपरिभाषाया अप्रवृत्तिं सिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमास विषयेऽग्यलौकिकविग्रहवाक्ये अकृतव्यूहपरिभाषाया अप्रवृत्या सर्वनामत्व विज्ञायते । एतदर्थ मेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तर । प्रत्याचख्याविति ॥ निराकृतवानित्यर्थे । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाविशेषेऽपि उत्तरग्रन्थस्य प्रामाण्य पूर्वपूर्वस्याप्रामाण्यमिति भाव । अधिकदर्शित्वादिति ॥ वैयाकरणसमय इति भाव । न चाकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम् । अकृतव्यूहपरिभाषाया निर्मूलत्वस्य निष्फ लत्वस्य च हलन्ताधिकारे सेदिवस्शब्दनिरूपणे *समर्थाना प्रथमाद्वा' इत्यत्र च वक्ष्यमाणत्वात् । यथोत्तरमिति ॥ सूत्रकाराद्वार्तिककारस्य उभाभ्यामपि भाष्यकृत इत्येव मुनीनामुत्तरोत्तरस्य। 218

१३८
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


र्जनीभूतास्तु न सर्वादय ' (वा २२५) महासंज्ञाकरणेन तदनुगुणानामेव गणे सन्निवेशात् । अत सज्ञाकार्यमन्तर्गणकार्य च तेषा न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्त सर्वमतिसर्वस्तस्मा तिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ।

२२३ तृतीयासमासे । (१-१-३०)

इह सर्वनामता न स्यात् । मामपूर्वाय । तृतीयाममासार्थवाक्येऽपि न मासेन पूर्वाय |

२२४ । द्वन्द्वे च । (१-१-३१)

द्वन्द्वे उक्तसज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यैवाय निषेध |


संज्ञोपसर्जनीभूता इति ॥ आधुनिकसङ्केतस्सज्ञा ।अन्यविशेषणत्वेनोपस्थापकमुपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थ विकल्पमाशङ्कयाह। महा सज्ञेति ॥ टिघुभादिवदेकाक्षरसज्ञामकृत्वा सर्वेषा नामानीत्यन्वर्थसज्ञाकरणबलेन प्राधान्येनोप स्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वामित्यवगततया तथाविधानामेव सर्वा दिगणे पाठानुमानादित्य प्राधान्येनोपस्थितेतत्यनेन उपसर्जनव्यावृत्ति प्राधान्येनोपस्थित सर्वार्थवाचकत्वमित्युक्ते पूर्वादिशब्देष्वव्याप्ति । अतस्स्वीयेति सर्वार्थेत्यनेन सज्ञाशब्दव्यावृत्ति सज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संज्ञाकार्यमिति । सर्वनामसज्ञाकार्य शीस्माया दिकमित्यर्थ । अन्तर्गणेति ॥ सर्वादिगणे अन्तर्गतो गण अन्तर्गण तदीय कार्यम् अडुतरादिभ्य ' 'त्यदादीनाम ' इत्यादिकमित्यर्थ । सर्वाय देहीति ॥ सज्ञाशब्दत्वात् स्मा यादेशो न । अतिकतरमिति ॥ कतरमतिक्रान्त कुलम् अतिकतरमित्यत्र कतरशब्दस्य उप सर्जनत्वान्नाद्डादेश । अतितदिति ॥ तमतिक्रान्त कुलम्, अतिदित्यत्र, त्यदाद्यत्व ‘तदोस्स स्सौ' इति च न भवति । तृतीया समासे ॥ सर्वादीनीत्यतस्सर्वनामग्रहण, न बहुव्रीहावित्यतो नेति चानुवर्तत इत्याभिप्रेत्याह । इहेति । मासपूर्वायेति मासेन पूर्व इति विग्रह । हेतौ तृतीया । पूर्वसदृशेति तृतीयातत्पुरुषसमास मासात् पूर्वभावीत्यर्थ विभाषा दिक्समासे बहुव्रीहौ' इत्यत समासग्रहणे अनुवर्तमाने पुनस्समासग्रहण तृतीयासमासीयलौकिकविग्रहवा क्यरूपगौणसमासस्यापि परिग्रहार्थम्। ततश्च फलितमाह। तृतीयासमासार्थेति । द्वन्द्वे च सर्वादीनीत्यतस्सर्वनामग्रहण, न बहुव्रीहावित्यतो नेति चानुवर्तते । तदाह-द्वन्द्वे उक्तसंज्ञा नेति । सर्वनामसज्ञा नेत्यर्थ । वर्णाश्रमेतराणामिति ॥ “वर्णाश्रमेतराणान्नेो ब्रूहि धर्मानशेषत इति याज्ञवल्क्य स्मृति । वर्णाश्च आश्रमाश्च इतरे चेति द्वन्द्व । अत्र सर्वनामत्वा भावादामि सर्वनाम्न इति न सुट् समुदायस्यैवेति ॥ द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नार्थः । विद्यतिक्रियाध्द्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसज्ञा

प्रकरणम्]
१३९
बालमनोरमा ।

न त्ववयवानाम । नचैवं तदन्तविधिना सुट्प्रसङ्ग । सर्वनाम्नो विहितस्याम सुडिति व्याख्यातत्वात् ।

२२५ । विभाषा जसि । (१-१-३२)

जसाधार यत्कार्य शीभावाख्य तत्र कर्तव्ये द्वन्द्वे उक्ता सज्ञा वा स्यात् । वर्णाश्रमेतरे-वर्णाश्रमेतरा । शीभाव प्रत्येव विभाषेत्युक्तम् । अतो नाकच्, किन्तु कप्रत्यय एव । वर्णाश्रमेतरका ।


न भवतीति प्रधानभूतया निषेच्द्यभवनक्रिययैव द्वन्द्वस्याधारतयान्वय । द्वन्द्वाधारा सर्वनाम सज्ञा न भवतीत्यक्षरार्थ । द्वन्द्वस्य सर्वनामसज्ञा नेति फलितम् । वर्णाश्रमेत्यादिसमुदायस्येव द्वन्द्वता । नतु तदवयवानाम् । एवञ्च वर्णाश्रमेतरेत्यादिसमुदायस्येव सर्वनामत्वनिषेध नतु तदवयवानामिति वस्तुस्थितिकथनम् । ननु द्वन्द्वावयवाना सर्वनामत्वनिषेधाभावे वर्णा श्रमेतरशब्दे इतरशब्दस्य सर्वनामतया तत परस्यामस्सुटि वर्णाश्रमेतरषामिति स्यात् । नच अवर्णन्तात् सर्वनाम्नोऽङ्गात् परस्यामस्सुद्विधानादिह चामि परे इतरशब्दस्य सर्वनामत्वेऽप्यङ्ग त्वाभावान्न तत परस्यामस्सुट्प्रसक्तिरिति वाच्यम् । सुड़िधिर्हयमङ्गाधिकारस्य । ततश्च पदाङ्गाधिकारे तस्य च तदन्तस्य व' इति परिभाषया सर्वनामान्तादन्तादङ्गात् परस्यामस्सुिध् धीयते । ततश्च वर्णश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात् परत्वादामस्सुट् स्यात् । नचैव सति द्वन्द्वस्य तन्निषेधो व्यर्थस्यादित्याशङ्कयम् । पदाङ्गाधिकारादन्यत्र तसिल्त्रलादिविधौ तन्निषेधस्यार्थवत्त्वादित्य शङ्कय परिहरति । नचैवमित्यादिना । एवमित्यनन्तर सतीति शेष । एव सति समुदाय स्यैव निषेधे सति तदन्तविधिना सुट्प्रसङ्गो नेत्यन्वय । कुत इत्यत आह । सर्वनाम्नो विहितस्येति ॥ अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामस्सुडिति व्याख्यानादि त्यर्थ । प्रकृते च वर्णाश्रमेतरशब्दात् समुदायादाम्विहित । न तु समुदायस्सर्वनामसज्ञक । द्वन्द्व स्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसज्ञक. आमस्समुदायादेव विधानात् । अतो न सुडिति भाव । अवर्णन्तादङ्गात् सर्वनाम्नो विहितस्यामस्सुडिति व्याख्याने तु येषा तेषामित्यत्राव्याप्ति । अत अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामस्सुडित्येव व्याख्येयम्। विभाषा जसि ॥ सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च । जसि इत्यविभक्तिको निर्देशः । जस इ जसि । आर्षस्सप्तम्या लुक् । इशब्दो इवर्णपरस्सन् शी इतीकारमाचष्टे । ततश्च जसादेल शीभावे कर्तव्ये इति फलितम् । तदाह । जनसाधारमिति ॥ जस् आधारो यस्येति बहुव्रीहि । जस् स्थानिकमित्यर्थ । ननु जसि परतो द्वन्द्वे सर्वनामसज्ञा वा स्यादित्येव कुतो न व्या ख्यायत इत्यत आह । शीभाव प्रत्येवेत्यादिना ॥ यदि तु अकच स्यात्, तर्हि तस्या प्यव्यवधायकत्वाच्छीभावविकत्प प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह । वर्णाश्रमेतरका इति ॥ नचाकचि कर्तव्ये विकल्पाभावेऽपि सर्वादीनीति नित्या सर्वनामसज्ञा कुतोऽत्र न स्यादिति वाच्यम् । 'द्वन्द्वे च' इति तस्याः नित्यनिषेधात् । नच द्वन्द्वे

१४०
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


२२६ । प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । (१-१-३३)

एते जस कार्य प्रत्युक्तसज्ञा वा स्यु । प्रथमे–प्रथमा’ । शेषं रामवत् । तयप् प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये-द्वितया । शेषं रामवत् । नेमे—नेमा । शेषं सर्ववत् । “विभाषाप्रकरणे तीयस्य ङित्सूपसङ्खयानम्’ (वा २४२) । द्वितीयस्मै द्वितीयायेत्यादि । एवं तृतीय । अर्थवद्रहणान्नेह । पटुजातीयाय । निर्जर ।


चेति निषेधस्य उक्तरीत्या अवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्या वयवस्य सर्वनामत्वानपायादकज्दुर्वार इति वाच्यम् । द्वन्द्वावयवमात्रे सुन्दरादिविशेषणवत् कुत्सादिविवक्षाया अभावात् । समुदाये तद्विवक्षाया समुदायोत्तरप्रत्ययेन अवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्य पृथक् तदनुत्पत्ते । अन्यथा अवयवेभ्य प्रत्येक कप्रल्यापते । एतदेवाभिप्रत्योक्त भाष्ये । 'वर्णाश्रमेतरशब्दे अकच् न भवति' इति । एवञ्च यदा इतर शब्देन द्वन्द्व कृत्वा कुत्सितवर्णाश्रमेतरा इति कुत्सायोग क्रियते तदा कप्रत्यये सति वर्णा श्रमेतरका इत्येव रूपम् । यदा तु कुत्सित इतरक इति अकच कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्व क्रियते, तदा शीभावविकल्पस्स्यादेव प्रथमचरमतया ॥ विभाषा जसीत्यनुवर्तते, सर्वनामानीति च । तदाह । एत इति ॥ प्रथमादय इत्यर्थ । उक्तसंज्ञा इति । सर्वनामसज्ञका इत्यर्थ तत्र नेमशब्दस्य जसि सर्वनामसज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्ताना प्रथमादिशब्दानान्तु गणे पाठा भावादप्रासैव सर्वनामसज्ञा जसि विकल्पेन विधीयते । अत नेमशब्दव्यतिरिक्ताना प्रथमादि शब्दाना जसोऽन्यत्र न सर्वनामकार्यमित्याह । शेष रामवदिति ॥ तयशब्दो न प्रातिपदिकमित्याह । तयप् प्रत्यय इति ॥ 'सङ्खयाया अवयवे तयप्' इति विहित इति विशेष । तत इति । तस्मात् प्रत्ययत्वाद्धेतो प्रत्यग्रहणपरिभाषया तदन्ता तयबन्ता ग्राह्या इत्यर्थे । द्वितये द्वितया इति ॥ द्वावयवावस्येत्यर्थे तयप् । यद्यप्यवयवसमुदाय अवयवी तयबर्थ , तस्य च एकत्वादेकवचनमेव युक्तम् । तथापि यदा उद्भूतावयवभेद समुदायस्तयबर्थ, उद्भूतत्वञ्च विवक्षितसङ्खयाकत्व, तदा अवयवबहुत्वाभिप्राय, अवयविनो अवयवाभेदाभिप्राय वा बहुवचनमिति न दोष । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाभावात् किन्तेन । चरमे चरमा , अल्पे अल्पा , अर्धे अर्धा , कतिपये कतिपया, इत्यपि प्रथमशब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुलिङ्ग । समाश वाची तु नपुसकलिङ्ग । 'वा पुस्यर्धोऽर्धे समेंशके' इति कोशात् । शेषं सर्व वदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भाव । विभाषाप्रकरण इति ॥ विभाषा जसीत्यधिकारे तीयान्तस्य डे-डसि-ड्स्-डि-इत्येतेषु डित्सु परेषु सर्वनामसज्ञावचन कर्तव्यमित्यर्थ । द्वितीयस्मै द्वितीयायेति ॥ द्वयो पूरणो द्वितीय । द्वेस्तीय इति पूरणे तीय प्रत्यय । इत्यादीति ॥ द्वितीयस्मात् द्वितीयात् द्वितीयस्मिन् द्वितीये इत्यादिशब्दार्थ ।

प्रकरणम्]
१४१
बालमनोरमा ।


२२७ । जराया जरसन्यतरस्याम्। (७-२-१०१)

जरा शब्दस्य “जरस्' वा स्याद्जादौ विभक्तौ । “ पदाङ्गाधिकारे तस्य च तदन्तस्य च' (प ३०) । अनेकाल्त्वात्सर्वादेशे प्राप्रे निर्दिश्यमान स्यादेशा भवन्ति' (प १३) । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य 'जरस्'। निर्जरसौ । निर्जरस । इनादीन्बाधित्वा परत्वाज्जरम्। निर्जरसा ।


एवं तृतीय इति ॥ डित्सूदाहार्य इति शेष । “त्रम्सम्प्रसारणञ्च' इति पूरणे तीयप्रत्यय । रेफस्य सम्प्रसारणम् ऋकार । ‘सम्प्रसारणाच्च' इति पूर्वरूपम् । ननु 'प्रकारवचने जातीयर्' इति पटुशब्दात् जातीयरेि पटुजातीयशब्द । तस्यापि तीयान्तत्वात् डित्सु सर्वनामत्वविकल्पस्या दित्यत आह । अर्थवदिति ॥ * अर्थवद्वहणे नानर्थकस्य’ इति परिभाषया अर्थवानेव तीयोऽत्र गृह्यते । जातीयरि तु समुदायस्यैवार्थवत्त्व न तु तदेकदेशस्येति भाव । निष्क्रान्तो जराया निर्जर । ‘निरादय क्रान्ताद्यये' इति समास । “गोस्त्रियो ' इति ह्रस्वत्वम् । निर्गता जरा यस्मा दिति बहुव्रीहिर्वा । अस्य निर्जरशब्दस्य विशेष दर्शयितुमाह । जराया ॥ 'अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तम् “अचि र ऋत ' इत्यतोऽनुवृत्तेन अचीत्यनेन विशेष्यते । “यस्मिन् विधि ' इति तदादिविधि । तदाह । जराशब्दस्येत्यादिना । ननु जराशब्दस्य विधीयमानो जरसादेश कय निर्जरशब्दस्य भवेदित्यत आह । पदेति ॥ पदाधिकारे अङ्गाधिकारे च यस्य यद्विहित तत् तस्य तदन्तस्य च भवतीत्यर्थ । जरसादेशश्चायमङ्गाधिकारस्थत्वात् जरा शब्दस्य तदन्तस्य च भवति । जरसगवित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्व बोध्ध्यम । यद्यपि जराया इत्यस्य अङ्गविशेषणत्वादेव तदन्तविधिस्सिद्ध । तथापि येन विधिरित्यस्य प्रपञ्चभूतेय परिभाषेत्यदोष । अतएव “पदमङ्गञ्च विशेष्य विशेषणेन च तदन्तविधि ? इति प्रौढमनोरमाया मुक्तम् । ननु जराशव्दान्तस्य विधीयमानो जरसादेश निर्जरशब्दस्य कृत्स्रस्य स्यात् । अनेका ल्त्वादित्याक्षिप्य समाधत्त अनेकाल्त्वादिति । निर्दिश्यमानस्यादेशा भवन्तीति प्रत्यक्षनिर्दिश्यमानस्येत्यर्थ । अनया परिभाषया जराशब्दस्यैव जरम्। जराशब्द एव ह्यत्र स्थानी प्रत्यक्षनिर्दिष्ट । जराशब्दान्तस्य तु निर्देशरतदन्तविधिलभ्यत्वात् आनुमानिक इति भाव । इय च्च परिभाषा 'षष्ठी स्थानेयोगा' इति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम् । ननु निर्जर शब्दस्य जराशब्दान्तत्वाभावात् कथमिह जरसादेश इत्यत आह । एकदेशेति ॥ 'छिन्नेऽपि पुच्छे श्वा चैव न चाश्वो नच गर्दभ ' इति न्यायादिति भाव । निर्जरसौ। निर्जरस इति ॥ प्रथमाद्वितीययो द्विवचने बहुवचने च रूपम् । अमि निर्जरसमित्युदाहार्यम् । ननु तृतीयैकवचने पञ्चम्यकवचने च, निर्जर आ, निर्जर अस्, इति स्थिते जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तम् । तथा चतुर्थ्येकवचने षष्ठयेकवचने च, निर्जर ए, निर्जर अस्, इति स्थिते, यादेशे स्यादेशे च सति अजादिविभक्तयभावात् जरसादेशाभावे, निर्जराय निर्जरस्येति प्राप्तम् । तत्राह । इनादीनिति ॥ इन-य-आत्-स्य इत्यादेशान् नुटश्च परत्वात् बाधित्वा जरसादेश । ततश्च अदन्तत्वाभावात् इनादयो न भवन्तीत्यर्थ । निर्जरसेति ॥ तृतीयैकवचनम् । निर्जरसे

१४२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


निर्जरसै । निर्जरस । पक्षे हलादौ च रामवन् । वृत्तिकृता तु * पूर्वविप्रतिषेधे नेनातो कृतयो सन्निपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते “निर्जर सिन' “निर्जरसात्' इति रूपे । न तु “निर्जरसा' * निर्जरस ' इति केचित्' इत्युक्तम् । तथा भिसेि * निर्जरसै ' इति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने ‘निर्जरस्य' इत्येव रूपमिति स्वीकृतम् । एतच्च भाष्यविरुद्धम् ।


इति ॥ चतुर्थेकवचनम् । निर्जरसः इति ॥ पञ्चम्येकवचने षष्ठयेकवचने च रूपम् । निर्जरसो निर्जरसा निर्जरसीत्यप्युदाहार्यम् । पक्ष इति ॥ जरसादेशाभावपक्ष इत्यर्थ । हलादौ चेति ॥ भिस ऐसादेशे निर्जरैरित्येव रूपम् । न तु जरसादशे निर्जरसैरिति । अदन्तमङ्गमाश्रित्य प्रवृत्तस्य ऐसस्सन्निपातपरिभाषया तद्विघातकजरसादेशनिमित्तत्वायोगात्। अथ वृत्तिकृदुत्प्रेक्षित मतान्तर दूषयितुम् अनुवदति । वृत्तिकृता त्वित्यादिना ॥ पूर्वविप्रति षेधेनत्यादि केचिदित्यन्तो वृत्तिग्रन्थ । वृत्तिकृता तु इनातो कृतयो जरासि कृते निर्जरसिन निर्जरसादिति रूप, नतु निर्जरसा निर्जरस इति केचिदित्युक्तमित्यन्वय । ननु इनादेशमादादे शञ्च परत्वात् बाधित्वा जरसि कृते, अदन्तत्वाभावात् कथमिनातौ स्यातामित्यत आह । पूर्व विप्रतिषेधेनेति ॥ विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र बोद्यते तत् पूर्वविप्रतिषेध, ‘विप्रतिषेधे परङ्कार्यम्’ इति सूत्र तेनेत्यर्थ । तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित् पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत् । ननु इनातो कृतयो कथ जरसादेश । सन्निपातपरिभा षाविरोधादित्यत आह । सन्निपातपरिभाषाया अनित्यत्वमाश्रित्येति । तथेति ॥ भिस ऐसादेशे जरसादेशाभावपक्षे निर्जरैरिति रूपम् । सन्निपातपरिभाषाया अनित्यत्वात् । जरासि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थ । तदनुसारीति । निर्जरसिनेत्यादि रूप यैरुक्तन्तदनुसारिभिरित्यर्थ । निर्जरस्येत्येवेति ॥ पूर्वविप्रतिषेधेन स्यादेशे कृते अजा दिविभक्त्यभावान्न जरस्। इनातो पूर्वविप्रतिषेधे आश्रिते राति एकसूत्रोपात्तत्व.त् स्यादेशविषये ऽपि पूर्वविप्रतिषेध आश्रयितुमुचित । अत निर्जरस्येत्येकमेव रूप, नतु निर्जरस इत्यपीति भाव । एतच्चेति ॥ वृत्तिकृदुत्प्रेक्षित केषाञ्चिन्मत तदनुसारिमतश्चेत्यर्थ । भाष्यविरुद्धमिति ॥ टाडसिडसामिनात्स्या ' इत्यत्र नादेश एव विधेय । इकारोच्चारणम्मास्तु । तथा अदादेश एव विधेय, नतु दीर्घ आदिति । रामेणेत्यत्र एकारस्तु योगविभागात् भवति । तथाहि 'बहुवचने झल्येत्' *ओसिच' ' आडेि चाप ' 'सम्बुद्धौ च' इति सूत्रकम । तत्र आडीति योगविभाग क्रियते । अत एकारस्यात् आडि । रामेण । आपस्सम्बुद्धौ चेत्यन्यो योग । एकारस्स्यात् सम्बुद्धौ आङि ओसेि च । हे रमे रमया रमयो । डसेरदादेशे अकारोच्चारणसामर्थ्यात् ‘अतो गुणे' इति न पररूपमित्यादि टाडासिडसामिति सूत्रे भाष्ये स्थितम् । निर्जरसिन निर्जरसादिति रूप सत्त्वे एतद्भाष्यासङ्गति स्पष्टैव। अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्य कत्वात् । किञ्च गोनर्दीयस्त्वाह-अतिजरैरित्येव भवितव्य सन्निपातपरिभाषया इति 'जराया जरसन्यतरस्याम्' इति सूत्रे भाष्ये स्थितम् । निर्जरसैरिति रूपाभ्युपगमे एतदसङ्गतिस्पष्टेव ।

प्रकरणम्]
१४३
बालमनोरमा ।


२२८ । पद्दन्नोमास्ह्यन्निशसन्यूषन्दोषन्यकञ्छक

न्नुदन्नासञ्छस्प्रभृतिषु । (६-१-६३)

पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष यकृत् शकृत्

उदक आस्य एषां पदादय आदेशा स्यु शसादौ वा । यत्तु “ आसनशब्दस्या

सन्नादेश ' इति काशिकायामुक्त्तं तत्प्रामादिकम् । पाद । पादौ । पादा. । पादम् । पादौ । पद -पादान् । पदा-पादेनेत्यादि ।

२२९ । सुडनपुंसकस्य । (१-१-४३)

सुडिति प्रत्याहार । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ।

२३० । स्वादिष्वसर्वनामस्थाने । (१-४-१७)

काप्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परत पूर्व पदसंज्ञ स्यात् ।


अत पूर्वविप्रतिषेधेनेत्यादिमतान्तरमशुद्धमित्यर्थ । अथ पादशब्दस्य शसादौ विशेष दर्शयितु माह । पद्दन्नो ॥ पद्-दत्-नस्-मास्-हृद्-निशा-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन् आसन् इत्येषा समाहारद्वन्द्व । शस्-द्वितीयाबहुवचन प्रभृति आदि येषामिति तद्गुणसविज्ञानो बहुव्रीहि । “ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्' इत्यत अन्यतरस्यामित्यनुवर्तते । शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थ । पदाद्यादेशैश्च स्वानुरूपा स्थानिन आक्षिप्यन्ते । तदाह । पाददन्तेत्यादिना ॥ यथासङ्खयपरिभाषया पादादीना क्रमेण पदादय आदेशा प्रत्येतव्या । तत् प्रामादिकमिति ॥ भ्रममूलकमित्यर्थ । 'हव्या जुह्यान आसनि' इति मन्त्रे “ आसन्य प्राणमूचु' इत्यादौ च, आस्यार्थकत्वस्यैव दर्शनादिति भाव । दन्तशब्दस्य सुटि रामवत् । शसेि पद्दन्निति दत् आदेश । दत् अस् इति स्थिते तकारस्य 'झलाञ्जशोऽन्ते' इति पदान्ते विधीयमानजश्त्वमाशङ्कितु पदसज्ञाविधायक सूत्र वक्ष्यति स्वादिष्वसर्वनामस्थान इति । तत्र कि सर्वनामस्थानमित्यत आह । सुडनपुंसकस्य ॥ 'शि सर्व नामस्थानम्' इत्यत सर्वनामस्थानमित्यनुवर्तते । अक्लीब नपुसकभिन्नप्रातिपदिक, तस्य सुट् सर्वनामस्थानसज्ञ स्यादित्यर्थ । तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्याचष्टे । सुडिति प्रत्याहार इति ॥ सु इत्यारभ्य औटष्टकारेणेति शेष । नतु टाटकारेण । प्रथमातिक्रमणे कारणाभावात् । तदेतदाह । स्वादिपञ्चवचनानीति । स्वादिष्वसर्वनामस्थाने । असर्वनामस्थान इति बहुत्वेऽप्येकवचनमार्षम् । कप्रत्ययावधिष्विति ॥ पञ्चमाङद्यायान्ते विधीयमानकप्रत्य योत्तरावधिकेष्वित्यर्थ । तत्र च व्याख्यानमेव शरणम् । एवञ्च दत् अस् इत्यत्र दतूशब्दस्य सुबन्तत्वाभावेन पदत्वाभावेऽपि अनेन सूत्रेण पदत्वात् “झलाञ्जशोऽन्ते इति तकारस्य जश्त्व स्यादित्याक्षेपस्सूचित । भसज्ञया पदसज्ञाबाधात् न जश्त्वमिति

१४४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

२३१ । यचि भम् । (१-४-१४)

यकारादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परत पूर्व भसज्ञं स्यात् ।

२३२ । आ कडारादेका संज्ञा। (१-४-१)

इत ऊर्ध्व ‘कडारा कर्मधारये' (सू ७५१) इत्यत प्रागेकस्यैकैव सज्ञा ज्ञेया । या परा अनवकाशा च । तेन शसादावचि भसंज्ञैव । न पदत्वम् । अतो जश्त्वं न । दत । दत्ता । जश्त्वम् । दद्भयामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोप । माभ्याम् । माभिरित्यादि ।


समाधातु भसज्ञासूत्रमाह । यचि भम् ॥ य्च अच्चेति समाहारद्वन्द्व । स्वादिष्व सर्वनामस्थान इत्यनुवृत्त यचीत्यनेन विशेष्यते यस्मिन् विधिरिति तदादिविधि तदाह । यकारादिष्वित्यादिना । एवञ्च दत् अस् इत्यत्र दत् इत्यस्य भसज्ञया पदसज्ञाबाधान्न जश्त्वमिति भाव । ननु पदभसज्ञयोरिह समावेश कुतो न स्यात् । नच विप्रतिषेवे पर कार्यमिति परैव भसज्ञा भवतीति वाच्यम् । विरोधो हि विप्रतिषेध । नान्यत्र द्वयोरपि सज्ञयोस्समावेशे विरोधोऽस्ति तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्यादिसज्ञास मावेशदर्शनादित्यत आह । आा कडारा । आङमर्यादायामित्याह । कडाराः कर्मधारय इत्यतः प्रागिति ॥ आडिह नाभिविधौ । कडारशब्दस्यापि प्रवेशे प्रयोजनाभावात् । प्राक्कडारादिति कडारशब्दस्तु नोत्तरावधि । “ कडारा कर्मधारये, इति कडारशब्दस्य उत्तरराः वधित्वे अधिकलाभात् । प्राक्कडारादित्युत्तर तत्पुरुष द्विगुश्चेति चकाराच्च । सज्ञाद्वयसमावेशार्थो हि चकार । तत्रैकसज्ञाया नियमाप्रवृतौ कि तेन । नन्वस्त्विह एकैव सज्ञा । तथापि विनिगम नाविरहात् भसज्ञैवेति कुतेो लाभ । तत्राह । या परा अनवकाशा चेति । विरोधाभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाप्रवृत्तावपि परत्वनिरवकाशत्वयो अन्यत्र बल वत्वेन दृष्टत्वादिहापि ताम्या व्यवस्था युज्यत इति भाव । द्वयोस्सावकाशयो परा सज्ञा बलवती । अन्यतरस्या निरवकाशत्वे तु सैवेति बोध्द्यम् । तत्र परा यथा-वनुषा शरैर्वेिध्द्यती त्यत्र शराणा विश्लेष प्रत्यवधिभूतस्यैव वनुषो व्यधन प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते, परा करणसज्ञेव भवति । अनवकाशा यथा अततक्षदिति । अत्र तकारादका रस्य “सयोगे गुरु' इति गुरुसज्ञेव अनवकाशत्वात् भवति, नतु लघुसज्ञा । तस्या असयोगे परे चरितार्थत्वात् । अतस्सन्वल्लघुनीति तत्र न प्रवर्तते । तेनेति । अनवकाशत्वेनेत्यर्थ । अत इति । पदत्वाभावात् जश्त्वन्नेत्यर्थ । जश्त्वमिति । दद्यामिति स्थिते स्वादिष्वसर्व नामस्थान इति पदान्तत्वात् 'झला जशोऽन्ते' इति जश्त्वमित्यर्थ । इत्यादीति । दद्भि दते इत्यादिरादिशब्दार्थ । “खरि च' इति चर्त्वे दत्सु । पक्षे रामवत् । मास इति । मासशब्दस्य शसि पद्दन्न इति मास् इत्यादेशे रूपम् । मासेति तृतीयैकवचनम् । रुत्व इति । मास्

प्रकरणम्]
१४५
बालमनोरमा ।

२३३ । भस्य । (६-४-१२९) । इत्यधिकृत्य ।

२३४ । अल्लोपोऽनः । (६-४-१३४)

अङ्गावयवोडसर्वनामस्थानयजादिस्वादिपर योऽन् तस्याकारस्य लोप स्यात्

२३५ । रषाभ्यां नो णः समानपदे । (८-४-१)

एकपदस्थाभ्यां रेफषकाराभ्या परस्य नस्य ण स्यात् । यूष्ण


भ्याम् इति स्थिते स्वादिष्विति पदत्वात् “ ससजुषो ' इति रु भोभगो 'इति तस्य यकारे ‘हलि सर्वेषाम्’ इति तस्य लोपे माभ्या माभिरिति रूपमित्यर्थ । इत्यादीति ॥ माभ्य इत्यादिरादि शब्दार्थ । मास् सु इति स्थिते रुत्वे ‘खरवसानयेो' इति विसर्गे ‘वा शरि’ इति मत्वविकत्प मास्सु-मा सु इत्यधिकृत स्पष्टमेव । यूषशब्दो मण्डवाची । 'मुद्गामलकयूषस्तु भेरीदीपनपाचक' इत्यादिवैद्यशास्त्र प्रसिद्धम् । तस्य शसि ‘पद्दन्न' इति यूषन्नादेशे यूषन् अस् इनि स्थिते ॥ अल्लोपोऽनः अत् इति लुप्तषष्टीक भिन्न पदम् । अन इत्यवयवषष्ठयन्तम् अतो विशेषणम् । अनोऽवयवो योऽकार तस्य लोप इति । अङ्गस्येत्यधिकृतम् इहावयवषष्ठ्यन्तमाश्री यते । तच्चान् इत्यत्रान्वेति । अङ्गावयव य अन् तदवयवस्य अकारस्य लोप इति । भस्येत्य विकृतम् अन इत्यनेनान्वेति । ततश्चान असर्वनामस्थानयजादिस्वादिपरत्व लभ्यते । तदाह अङ्गावयवः इत्यादिना ॥ अन्नन्तस्य भस्याङ्गस्याकारस्य लोपस्यादिति प्राचा व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्ग । भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अन सा मनसेत्यत्रातिव्याप्ति । अन इत्यावर्त्य अन्नन्तस्य भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनस्तक्ष्णेत्यत्रातिव्याप्तिरेव । तस्मादुत्तैव व्याख्येत्यन्यत्र विस्तर यूषन् असू इत्यत्र पकारादकारस्य लोपे यूष् न अस् इति स्थिते । रषाभ्याम् ।। रषाभ्यामिति दिग्योगे पञ्चमी परस्येत्यध्द्याहार्यम् । समानशब्द एकपर्याय । यथा समानग्रामा वयमिति । आधारसप्तमी बलात् विद्यमानाभ्यामिति लभ्यते न इति षष्ठी । तदाह । एकपदस्थाभ्यामिति एकत्वञ्चेहाखण्डत्व विवक्षितम् । पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा राम नामेत्यादौ ‘अट् कुप्वाड्’ इति णत्वापति । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्ते । मातृभोगीण इत्यत्र णत्वन्तु तद्धिताधिकारे वक्ष्यते । यूष्णः इति ॥ शसि रूपम् । यूष्णेति ॥ तृतीयैकव चनम् । नचाल्लोपस्य स्थानिवद्भावात् नकारस्य षात् परत्व नेति शङ्कयम्।‘रषाभ्याम्' इति षात्प रस्य हि नस्य णत्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावो नापेक्षित । किंतु णत्वाभावे.तदपेक्षा णत्वाभावश्चाशास्त्रीयत्वात्रातिदेश्य। स्थानिनि सति यत्कार्यं भवति तदेव हि स्थानि वत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येव कार्या भावस्त्वशास्त्रीयत्वान्नातिदेश्य इति स्थानिवत्सूत्रे अवोचाम यद्यपि “अच परस्मिन् इत्यत्र अशास्त्रीय कार्यभावोऽप्यतिदिश्यत इत्यभ्यधायि । तथापि नेह तस्यापि सूत्रस्य प्रवृत्ति रस्ति । स्थानीभूतादच पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्ते । इह चाल्लोपस्थानीभूतदकारात् पर स्यैव णत्वविधानादिति भाव. । ननु ‘अच परस्मिन्’ इति सूत्रे स्थानीभूतादच पूर्वस्मात् परस्य 49

१४६
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

यूष्णा । “पूर्वस्मादपि विधौ स्थानिवद्भाव ' इति पक्षे तु “ अड्व्यवाये इत्येवात्र णत्वम् । “पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । तस्य दोष संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् ।

२३६ । न लोपः प्रातिपदिकान्तस्य । (८-२-७)


विधावजादेशस्थानिवदिति पक्षोऽपि भाष्ये स्थित । एवञ्चात्र लोपादेशस्थानीभूतादकारात् पूर्वो य षकार तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सति अकरेण व्य वधानात् षात्परत्वाभावात् कथ णत्वमित्यत आह । पूर्वेस्मादिति ॥ पक्षे त्वित्यादिना अस्य पक्षस्यानित्यत्व सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्त सङ्गच्छते । चुरादौ ‘गण सङ्खयाने' इत्यदन्तो धातु । णिच् । अतो लोप । अल्लोपस्य स्थानिवद्भावात् ‘अत उपवाया इति वृद्धिर्न । ण्यन्तात् क्वो ल्यपि णिलोप बाधित्वा ‘ल्यपि लघुपूर्वात्’ इति णेरयादेश । पूर्व स्मात् परस्य विधौ स्थानिवद्भावस्य नित्यत्व इह ‘त्यपि लघुपूर्वात्’ इति णेरयादेशो न स्यात् । लोपस्थानीभूतादत पूर्वस्मात् परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहेि तत्वेन णेर्लघुपूर्वात् णकारात् परत्वाभावात् । तस्मात् ‘अच परस्मिन्’ इत्यत्र पूर्वस्मात् परस्य विधौ स्थानिवद्भावस्यानित्यत्व विज्ञायते । एवञ्च गोशव्दात् सम्बुद्धौ ओतो णित्वे वृद्धौ गौरिति सि ध्यति । अन्यथा औकारस्य स्थानीभूतादोकारात् । पूर्वो यो गकार तस्मात् परस्यास्सम्बुद्धेलॉप विधौ स्थानिवद्भावे ओकारादेड परत्वात् सम्बुद्धिलोपस्यादिति शब्देन्दुशेखरे स्पष्टम् । अङ्कयवाये इत्येवेति ॥ ‘अट् कुप्वाड्’ इति सूत्रेणैवेत्यर्थ । षादव्यवहितपरस्य नस्य णत्व विधावुदाहरणन्तु पुष्णातीत्यादि बोध्द्यम् । वस्तुतस्तु “तत्रापि ष्टुत्वेनैव सिद्ध षग्रहणम् उत्त रार्थम्” इति स्पष्टमाकरे । नन्वल्लोपस्य णत्वे कर्तव्ये कथ स्थानिवद्भाव । पूर्वत्रासिद्ध न स्थानि वदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह । पूर्वत्रेति ॥ सयोगादिलोपे लत्वे णत्वे च कर्तव्ये तस्य, पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोष बाध, अप्रवृत्तिरिति यावत् । सयोगादिलोपे यथा । चक्रयत्र । इह “अच परस्मिन्’ इति यणादेशस्य स्थानिवद्भावात् स्कोस्सयोगाद्यो ' इतिककारलोपो न । लत्वे यथा निगाल्यते । अत्र णिलोपस्य स्थानि

वत्वात् “अचि विभाषा' इति लत्वम् । णत्वे यथा । माषवपनी । वपतेल्र्युट्, अनादेश

उगित्वात् डीप्, ‘यस्येति च' इति नकारात् अकारस्य लोप । इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाभावात् ‘प्रातिपदिकान्तनुम्विभक्तिषु च' इति णत्वन्न । यूषन् म्यामिति स्थिते । न लोपः ॥ न इति स्थानषष्ठयन्त पृथक्पदम्। आर्ष षष्ठया लुक् । नकारस्य लोप स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वात् लोप शब्देन समासो न भवति । असामर्थ्यात् । कस्यान्ते इत्यपेक्षाया पदस्येत्यधिकृतम् अव यवषष्ठयन्तमन्वेति । पदस्य योऽयमन्तावयव , तस्य नकारस्य लोप इति । कीदृश पदमित्य पेक्षाया प्रातिपदिकान्तस्येति षष्ठयन्तमन्वेति । प्रातिपदिकसज्ञक यत् पद तस्य योऽयमन्ता

वयवो नकार तस्य लोप. स्यादिति । अत एव प्रातिपदिकान्तस्येति न समस्तमेक पदम् ।
प्रकरणम्]
१४७
बालमनोरमा ।

नेति प्रातिपदिकेति च लुप्तषष्टीके पदे । प्रातिपदिकसंज्ञकं यत्पद् तद् न्तस्य नकारस्य लोप स्यात् । नलोपस्यासिद्धत्वाद्दीर्घत्वमेत्त्वमैस्त्वं च न । यूषभ्याम् । यूषभि । यूषभ्य इत्यादि ।

२३७ । विभाषा ङिश्योः । (६-४-२३६)

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् डिश्यो परयो । यूष्णि-यूषणि । पक्षे रामवत् । “ पद्दन्नो-' (सू २२८) इति सूत्रे प्रभृतिग्रहण प्रकारार्थम् । तथा च । औड श्यामपि दोषन्ना देश । अत एव भाष्यै ‘ककुद्दोषणी' इत्युदाहृत । तेन “पदङ्किश्चरणोऽस्रियाम् स्वान्तं हृन्मानसं मन ' इत्यादि च सङ्गच्छते । आसन्यं प्राणमूचु इति च । आस्ये भव आसन्य । “ दोष् ’ शब्दस्य नपुंसकत्वमत एव


तस्य पदशब्देनान्वितत्व, नान्तशब्देन । असामर्थ्यात् । तदाह । नेति प्रातिपदिकेति च लुप्तषष्टीके पदे इति । तदन्तस्येति । तस्य पदस्य अन्तावयवो या नकार तस्येत्यर्थ । प्रातिपदिकग्रहण किम् । अहन् । तिडन्तस्य न भवति । पदग्रहण किम् राजानौ । ननु नलोपे सति यूषभ्यामित्यत्र “सुपि च' इति दीर्घस्यात् । यूषभिरित्यत्र 'अतो भिम ऐस्' इति ऐसादेशस्यात्। यूषभ्य इत्यत्र ‘बहुवचने झल्येत्’ इति एत्व स्यादित्यत आह्। नलोपस्यासिद्धत्वादिति ॥ इत्यादीति। यूष्णे-यूष्ण-यूष्णो -यूष्णाम् इति आदिशब्दार्थ । यूषन् डि इति स्थिते 'अल्लोपोऽन ' इति नित्ये अल्लोपे प्राप्ते । विभाषा ङिश्योः । अलोपोऽन इत्यनुवर्तते । अङ्गस्यति भस्येति चाधिकृतम् । भत्वेन च असर्वनामस्थानयजादि स्वादिपरत्व पूर्ववदनो लभ्यते । तदाह । अङ्गावयवः इति ॥ ङिश्योरिति ॥ डिश्च शी चेति विग्रह । ‘नपुसकाच्च' इति विहित एवात्र शी गृह्यते । नतु जश्शसोश्शि । तस्मिन् परे भत्वासम्भवात् । पक्षे इति ॥ यूषन्नादेशाभावपक्षे इत्यर्थं । अथ क्वचित् शसादिभ्योऽन्य त्रापि पदाद्यादेश साधयितुमाह । पद्दन्निति सूत्रे इति ॥ प्रकारेति ॥ प्रकारस्सादृश्यम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाण दर्शयति । अत एवेति प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थ । ‘ककुद्दोषणी याचते महादेव' इत्येव भाष्ये । औडादेश भूतशीभावे परत उदाहृतो दोषन्नादेश अतएव सङ्गच्छते इत्यन्वय । तेनेति ॥ प्रकारार्थ कप्रभृतिग्रहणेनेत्यर्थ । पदध्रिरित्यत्र पदिति प्रथमैकवचनम् । स्वान्त हृदित्यत्र हृदिति च सङ्गच्छत इत्यर्थ । आदिना निशादिसङ्गह । आासन्यं प्राणमिति ॥ आसन्यं प्राणमूचुरिति च अत एव सङ्गच्छते इत्यत्रान्वय । आसनशब्दस्य आसन्नादेश इति भ्रम वारयति । आस्ये भवः इति ॥ प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भाव । शरीरावयवाच्च' इत्यास्यशब्दात् भवार्थे यत्प्रत्यये आसन्नादेश । “ये चवाभावकर्मणो ' इति प्रकृति

'१४८
'
सिद्धान्तकौमुदीसहिता

भाषेयात्।तेन : दक्षिणं दोर्निशाचर.' इति सङ्गच्छते। भुजबाहू प्रवेष्टो दो.' इति साहचर्यात्पुंस्त्वमपि । “दोषं तख्य तथाविधस्य भजत ' इति द्वयोरह्णोर्भवो व्ध्यह्न।

२३८ । संख्याविसायपूर्वस्याह्नस्याहन्नादेशो वा ख्यात् डौ । (६-३-११०)

ठ्यह्नि-ठ्यहनि-ठ्यह्ने। विगतमहर्व्यह्न । व्यह्नि-व्यहनि-व्यह्ने । अह्न साय सायाह्न. । सायाह्नि सायाह्वनि-सायाह्ने

भावात् ‘नस्तद्धिते’ इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थत्वाभावे तु इह आसन्नादेशो न स्यात् । यत्प्रत्ययस्य शसादिषु सुप्सु अनन्तर्भावादिति भाव ननु दोषणी इति भाष्ये नपुसकप्रयोगोऽनुपपन्न । ‘दोष तस्य तथाविधस्य’ इत्यादौ पुस्त्वस्यैव प्रयोगदर्शनादित्यत आह दोष्शब्दस्येति ॥ अत एवेति ॥ ककुद्दोषणीति भाष्यादेव ज्ञेयमित्यर्थ तेन दक्षि णमिति ॥ “तमुपाद्रवदुद्यम्य दक्षिण दोर्निशाचर ' इति रघुवंशे । दक्षिण दोरुद्यम्य तमुपाद्रव दित्यन्वय । दोष्शब्दस्य द्वितीयैकवचन दो इति । पुस्त्वे दोषमिति स्यादिति भाव । ननु भाष्यानुसारात् दोष्शब्दस्य नपुसकत्वमेव स्यादित्यत आह । भुजेति ॥ 'भुजबाहू प्रवेष्टो दो इति कोशात् पुस्त्वमपीत्यर्थ । नन्वय केोश दोष्शब्दस्य नपुसकत्वेऽप्युपपन्न इत्यत आह साहचर्यादिति ॥ पुलिङ्गभुजादिशब्दसाहचर्यादित्यर्थ साहचर्याच्च कुत्र चित्” इति कोशे परिभाषितत्वादिति भाव । दोष्शब्दस्य पुस्त्वसाधने फल दर्शयति । दोषं तस्येति दोष तस्य तथाविधस्य भजतश्चापस्य गृहन् गुणम्” इति श्रीहर्ष । दोष हस्त दूषणञ्च भजत श्चापस्य गुण मौवी अतिशयञ्च गृहन्नित्यन्वय । अत्र दोषमिति दोष्शब्दस्य पुलिङ्गद्वितीयैक वचनम् । अत्र सुप्रभृतिष्विति वाच्ये शस्प्रभृतिष्विति वचनात् सुपि क्वचिदेव पदाद्यादेशा इति गम्यते। द्वयोरह्नोरिति ॥ तद्धितार्थेति समास। कालाठ्टञ् इति ठञ् ।द्विगोर्लुगनपत्ये' इति लुक् ।राजाहस्सखिभ्यष्टच् । इति टच्।'अहोऽह्न एतेभ्य' इत्यह्नादेश । रामशब्दवदूपाणि । डौ विशेषमाह । सङ्ख-याविसाय ॥ सङ्खया च विश्व सायश्च सङ्खयाविसाया ते पूर्वे यस्मादिति विग्रहः इत्यभिप्रेत्य आह । सङ्खश्येत्यादिना ॥ सङ्खयापूर्वमुदाहरति । ड्यह्नि-ड्यहनीति ॥ अल्लोपे तदभावे च रूपम् । ड्यह्ने इति ॥ अहन्नादेशाभावे रूपम् । एव विपूर्वमुदाहरति विगतमिति ॥ ‘प्रादयो गताद्यर्थे प्रथमया' इति समास । पूर्ववदह्नादेश । सायपूर्वमुदाहरति अह्नस्सायः इत्यादिना॥ अत एव ज्ञापकादेकदेशिसमास

इत्यदन्तप्पकरणम् ।
प्रकरणम्]
१४९
बालमनोरमा ।

॥ अथ आदन्तप्रकरणम् ।।


विश्वपा

२३९ । दीर्घाज्जसि च । (६-१-१०५)

दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् । वृद्धि विश्वपौ । मवर्णदीर्घ. विश्वपा । यद्यपीह औडि “नादिचि' (सू २६५) इत्येव सिद्भम। जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति । तथापि *गौर्यों ' 'गौर्य इत्याद्यर्थ सूत्रामहापि न्यायत्वादुपन्यस्तम् ।

२४० । आतो धातोः । (६-४-१४०)

अथ आकारान्ता निरूप्यन्ते । विश्वपाः इति ॥ आबन्तत्वाभावात् न सुलोप । एतदर्थमव हल्डयादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भाव । विश्व पाति रक्षतात्यर्थे आतोऽनुपसर्गे क ' इति प्राप्ते वाऽसरूपन्यायेन “ आतो मनिन्क्वनिव्वनिपश्च । इति चकाराद्विच् । यद्यपि तत्र 'विजुपश्छन्दसि' इत्यत छन्दसाल्यनुवर्तते । तथापि वदे अनेन विच् । लोके तु 'अन्येभ्योऽपि दृश्यते' इति विच् । अन्ये तु 'किप्च इति सूत्रेण क्विपमाहु । “घुमास्था' इतीत्वन्तु न । “वकारे ईत्वप्रतिषेध ' इति वाति कात् । क्वनिपि पावान इत्येतदर्थं तस्यावश्यकत्वान् । भाष्ये “क्विपस्त्वादन्तेभ्यो भाष्याद्यनु क्तक्विब्भ्येऽनभिधानमेव' इति शब्देन्दुशेखरे स्पष्टम् । एव पावान इत्यत्र वनिपा रूपसिद्धिमा श्रित्य *ईत्वमवकारादाविति वक्तव्यम्’ इति वार्तिक प्रत्याख्यातम्। ततश्च विश्वपा इत्येव । विश्व पा औ इति स्थिते 'प्रथमयो पूर्वसवर्ण ' इति प्राप्ते । दीर्घाज्जसि च ॥ ‘प्रथमयो' इत्यत पूर्वसवर्ण इति “नादिचि' इत्यत नति इचीति च अनुवर्तते । तदाह । दीर्घादित्यादिना ॥ नन्विद् सूत्र व्यर्थम्।'नादिचि' इत्येव सिद्धेरिति शङ्कते। यद्यपीह औङि नादिचीत्येव सिद्ध मिति ॥ ननु जसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिद सूत्रमावश्यकम् । तत्र ‘नादिचि' इत्यस्याप्रवृत्तेरित्यत आह्। जसि त्विति ॥ मातु पूर्वसवर्णदीर्घनिषध । पूर्वसव र्णदीर्धे सत्यपि जसि विश्वपा इति सिध्यति । तन्निषेधे सत्यपि “अकस्सवणे दीर्घ ' इति कृतेऽपि विश्वपा इत्येव रूप सिध्यति । अत किं तन्निषेधेनेत्यर्थ । परिहरति । तथापीति ॥ इत्यादी ति ॥ आदिना लक्ष्म्याविल्यादिसङ्गह । तत्र ‘नादिचि' इत्यस्य प्रसक्तया तन्निषेध आवश्यक इति भाव । ननु 'दीर्घज्जसि च' इति सूत्र यदि गौयौं इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरी शब्दनिरूपणावसर एव तदुपन्यासो युक्त इत्यत आह । इहापि न्याय्यत्वादिति ॥ विश्व पावित्यत्र ‘नादिचि' इत्यस्य 'दीर्घाज्जसि च' इत्यस्य च प्राप्तौ परत्वेन 'दीर्घाज्जसि च' इत्यस्यैव उपन्यासौचित्यादित्यर्थ । 'अमि पूर्व ' विश्वपाम् । औटि विश्वपौ । शसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीर्धे प्राप्त । आतो धातोः ॥ अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात

'१५०
'
सिद्धान्तकौमुदीसहिता

आकारान्तो यो धातुस्तदन्तस्य भख्याङ्गस्य लोपः स्यात् । “ अलोऽन्त्य स्य’ (सू ४२) । विश्वप । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादय । धातो 'किम्। हाहान् । टा सवर्णदीर्घ । हाहा । डे वृद्धि । हाहै। डसिडसो दीर्घ । हाहा । ओसि वृद्धि. । हाहौ । डौ आद्गुण । हाहे । शेषं विश्वपावत्। आत ' इति योगविभागादधातोरप्याकारलोप क्वचित् । क्त्व । श्न ।


इति षष्ठयन्तेन विशेष्यते । तदन्तविधि । “ अल्लोपोऽन ' इत्यतो लोप इत्यनुवर्तते । तदाह । आकारान्तो यः इति ॥ * अलोऽन्त्यस्य' इत्यन्त्यस्याकारस्य लोप इति शेष । विश्वपा भ्यामिति ॥ अभत्वादालोपो नेति भाव । इत्यादीति ॥ विश्वपाभि । विश्वपे । विश्वप । विश्वपो । विश्वपाम्। विश्वपि । विश्वपो । विश्वपासु । एव शङ्खध्मादय. इति । शङ्खेन शङ्ख वा धमतीति शङ्खमा । ‘मा शब्दाग्निसयोगयो' पूर्ववत् विच् क्विब्वा। आदिना सोमपादिसङ्गह । सोम पिबतीति सोमपा । कीलाल पिबतीति कीलालपा । वारिपर्यायेषु “पय कीलालममृ तम्' इत्यमर । मधु पिबतीति मधुपा इत्यादि । धातोः किमिति ॥ आतो नाप , इत्येव सूत्रयताम् । तावतैव रमा इत्याद्याबन्तेषु लोपव्यावृत्तेरिति प्रश्र । हाहानिति । पूर्वसवर्ण दीर्घे “तस्माच्छस ' इति नत्वम् । हाहा इति ॥ गन्धर्वविशेषवाचकमव्युत्पन्न प्रातिपदिकमे तत् । “हाहा हूहूचैवमाद्या गन्धर्वात्रिदिवौकस ?' इत्यमर । सुटि विश्वपावत् । शसि हाहा अस् इत्यत्रापि “आतो नाप ' इत्याल्लोपस्यात् । अतो धातुग्रहणमित्यर्थ । टा सवर्णदीर्ध इति ॥ टा इत्यविभक्तिकनिर्देश प्रक्रियादशाया न दुष्यति । तृतीयैकवचने सवर्णदीर्घ इत्यर्थ । एवमग्रेऽपि योज्यम् । डे वृद्धिरिति ॥ हाहा ए इति स्थिते ‘वृद्धिरेचि' इति वृद्धिरित्यर्थ । ङसिङसेरिति ॥ हाहा अस् इत्यत्र सवर्णदीर्घ इत्यर्थ । ओसि वृद्धिरिति ॥ हाहा ओस् इत्यत्र ‘वृद्धिरेचि' इति वृद्धिरित्यर्थे । डौ आद्गुणः इति ॥ हाहा इ इत्यत्र आद्रुण इति गुण एकार इत्यर्थ । क्ता, श्रा, इति प्रत्ययौ आकारान्तौ विश्वपावत् । नन्वधातुत्वात् कथमिह आल्लोप इत्यत आह । आत इति योगेति ॥ ' आतो धातो ' इत्यत्र आत इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोपस्यादित्यर्थ । तेन क्त श्र इति शसि रूप सिध्द्यति । धातो रिति योगान्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोप स्यादित्यर्थ । आब न्तव्यावृत्यर्थ हाहादिव्यावृत्यर्थश्चेदम् । आत इति योगविभागस्तु क्त श्र इत्यादौ क्वचिदाल्लो पार्थ । ननु मालेवाचरति माला । आचारक्विबन्तात् कर्तरि क्विप् । सुबुत्पत्ति । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वार । ‘सनाद्यन्ता ' इति धातुत्वात् आदन्तत्वाच्च । नच “ अनाप इति वक्तव्यम्’ इति वार्तिकादाबन्तेषु नाल्लोप इति उक्तरीत्या योगविभागमभ्युपगम्य अनाप

इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम् । एतद्वार्तिकभाष्यप्रामाण्यादेव आबन्तेभ्य

आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् ॥

इत्यादन्तप्रकरणम् ।


'
'१५१
बालमनोरमा ।

॥ अथ इदन्तप्रकरणम् ॥


हरि । 'प्रथमयो पूर्वसवर्ण ' (सू १६४) । हरी ।

२४१ । जसि च । (७-३-१०९)

ह्रस्वान्तस्याङ्गस्य गुण स्याज्जसि परे । हरय ।

२४२ । हस्वस्य गुणः । (७-३-१०८)

ह्रस्वस्य गुण स्यात्सम्बुद्वौ । “ एड्हृस्वात्–’ (सू १९३) इति सम्बुद्धिलोप । हे हरे । हरिम् । हरी । हरीन् ।

२४३ । शेषो ध्यसखि । (१-४-७)

अनदीसंज्ञौ हृस्वौ याविवर्णोवर्णौ तदन्तं सखिवर्ज घिसंज्ञं स्यात् ।


अथ इकारान्ता निरूयन्ते । हरिरिति ॥ हरिशब्दात् सु रुत्वविसर्गौ । नच विस र्जनीयस्य अकारादुपरि उपसङ्खयानेनाच्त्वात् तस्मिन् परत रेफादिकारस्य यणादेशश्शङ्कय । यणादेशे कर्तव्ये विसर्जनीयस्यासिद्धत्वात् । प्रथमयोः पूर्वसवर्णः इति ॥ हरि, औ, इति स्थिते अनेन पूर्वसवर्णदीर्घ सति हरी इति रूपमित्यर्थ । जसि हरि अस् इति स्थिते पूर्वसवर्ण दीर्घे प्राप्ते । जसि च ॥ 'ह्रस्वस्य गुण ' इत्यनुवर्तते । अङ्गस्येत्यधिकृत हृस्वेन विशेष्यते । तदन्ताविधि । तदाह । हृस्वान्तस्येत्यादिना ॥ हरयः इति ॥ अलोऽन्त्यपरिभाषया अन्य स्य गुण । इकारस्य तालुस्थानसाम्यादेकार । अयादेश । रुत्वविसर्गविति भाव । हे हरि सू इति स्थिते । ह्रस्वस्य गुणः ॥ “सम्बुद्धौ च' इत्यतस्सम्बुद्धावित्यनुवर्तते । तदाह । हृ स्वस्येत्यादिना ॥ अनेन रेफादिकारस्य गुण एकार । सम्बुद्धिदलोपः इति ॥ एड परत्वादिति भाव । नत्वत्र हूस्वात् परत्वमस्ति । परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते हूस्वातू परत्वाभावात् । हरिमिति ॥ आमि पूर्वरूपे रूपम्। हरीनिति ॥ पूर्वसवर्णदीर्घे ‘तस्माच्छस इति नत्वम् । तृतीयैकवचने हरि आ इति स्थिते घिकार्य वक्ष्यन् घिसज्ञामाह । शेषो ॥ ‘यू स्रयाख्येो' इत्यतो यू इत्यनुवर्तते । इश्च, उश्च, यू इवर्णश्च उवर्णश्च । 'डिति हृस्वश्च' इत्यतो हूस्व इत्यनुवर्तते । तच यूभ्या प्रत्येकमन्वेति । उक्तात् नदीसज्ञकात् अन्यश्शेष । स च यूभ्या प्रत्येकमन्वेति । शब्दखरूपमित्यद्याहार्य यूभ्या विशेष्यते । तदन्तविधि । तदाह । अनदी

१५२
[इदन्त
सिद्धान्तकौमुदीसहिता

शेष ' किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थम् । “ ह्रस्वौ' किम् । वातप्रम्ये । “यू' किम् । मात्रे ।

२४४ । आडो नाऽस्त्रियाम् । (७-३-१२०)

घे' परस्याडो ना स्यादस्रियाम् । आडिति टासंज्ञा प्राचाम् । हरिणा । 'अस्त्रियाम्' किम् । मत्या ।

२४५ । घेर्डिति । (७-३-१११)

घिसंज्ञकम्य डिति सुपि गुण स्यान् । हरये । “घे ' किम् । सख्थे । डिति' किम् । हरिभ्याम् । “सुपि' किम् । पट्टी । * घोर्डिति (सू २४५) इति गुणे जाते ।


संज्ञावित्यादिना ॥ शेषः किमिति । अनदीसज्ञकत्वविशेषण किमर्थमिति प्रश्न । मत्यै इति ॥ शेषग्रहणाभावे 'डिति हूस्वश्च' इति नदीत्वपक्षेऽपि पदसज्ञा स्यात् । ततश्च “ आण्ण द्या' इत्याडागमे प्राप्ते ‘घेर्डिति’ इति गुणे अयादेशे मतये इति स्यादिति भाव । शेषग्रहणाभावेऽपि मत्यै इत्यत्र घिसज्ञा न भवति । “ आकडारादेका सञ्ज्ञा ' इत्यनवकाशया नदीसज्ञया बाधादित्यत आह । एकसज्ञेति ॥ वातप्रम्ये इति ॥ ह्रस्वग्रहणाभावे वातप्रमी ए इति स्थिते ईकारा न्तस्यापि घिसज्ञा स्यात् । ततश्च “घेर्डिति' इति गुणे अयादेश च वातप्रमये इति स्यात् । अतो हूस्वग्रहणमिति भाव । मात्रे इति ॥ यू इत्यभावे मातृ ए इति स्थिते ऋकारान्त स्यापि घिसज्ञाया ‘घेर्डिति’ इति गुणे अकारे रपरत्वे मातरे इति स्यात् । अत इदुताविति भाव । वस्तुतस्तु इदुताविति व्यर्थमेव । मात्रे इत्यत्र ऋकारान्तस्य घित्वेऽपि *घेर्डिति' इति गुणो न भवति। ‘ऋतेो डि सर्वनामस्थानयो' इत्यत्र डिग्रहणात् ज्ञापकात् । तद्धि मातरि इत्यादौ सप्तम्ये कवचने गुणार्थम्। ऋकारस्यापि घित्वे तु ‘घेर्डिति’ इत्येव गुणसिद्धौ किं तेन। आडो नाऽस्त्रि याम् ॥ घेः परस्येति । “अञ्च घे ' इत्यतो घिग्रहणानुवृत्तरिति भाव । हरिणेति । नादेशे “ अट्कुप्वाड्' इति णत्वम् । ननु आडो विहितो नाभाव कथ टा इत्यस्य स्यादित्यत आह । आङितीति ॥ प्राचामाचार्याणा शाखे सज्ञितेत्यर्थ । मत्येति ॥ ‘स्त्रिया क्तिन्’ इति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भाव । हरिभि । हरिम्याम् । हरि ए इति स्थिते । घेर्डिति ॥ ‘सुपि च' इत्यतस्सुपीति ‘हूस्वस्य’ इत्यतो गुण इति चानुवर्तते । तदाह । धिसंज्ञकस्येत्यादिना ॥ यणोऽपवाद । हरये इति । गुणे अयादेश । सुपि किम् । पट्टीति ॥ ‘वोतो गुणवचनात्' इति डीष्। तस्य ङित्वेऽपि सुप्त्वाभावात् तस्मिन् परतो न गुण इत्यर्थे । नच ‘घेर्डिति’ इत्येव सूत्रयताम्। इद्रहण न कर्तव्यम् । ‘यस्मिन् विधि' इति परिभाषया डकारादौ सुपीत्यर्थलाभादिति वाच्यम् । एव सति “ आण्णद्या ' इत्यत्रापि डीत्येवानुवृत्तौ डका रादेराम आड़्विधीयेत । ततश्च मत्यामित्यत्र आण्ण स्यात् । आमो डादित्वाभावात् । नच स्थानि

प्रकरणम्]
१५३
बालमनोरमा ।

२४६ । डसिङसोश्च । (६-१-११०)

एडो डसिडसोरति परे पूर्वरूपमेकादेश स्यात् । हरे । हरे । हर्यो ।

२४७ । अञ्च घेः । (७-३-११९)

इदुद्भयामुत्तरम्य डेरौत्स्याद्वेरन्तादेशश्चाकार । वृद्धि हरौ । हयों हरिषु । एव श्रीपत्यग्रिविकव्यादय. ।

२४८ । अनड् सौ । (७-१-९३)


वद्रावेन डादित्व शङ्कयम् । अत्विधित्वात्। स्यानिनो डेर्डकारत्वेनाश्रयणात् । इद्वहणे तु स्थानि वद्भावस्सम्भवति । अनुबन्धकाये कर्तव्ये अनल्विधाविति निषेधाभावात् । आमादेशदशाया द्वेर्डकारस्य इत्सज्ञालोपाम्यामपहृतत्वेन आम्स्थान्यल्त्वाभावात् । अनुबन्धानामनेकान्तत्वान् । एकान्तत्वपक्षेऽपि अरश्रहणेन अनुबन्धस्य ग्रहण न भवति । * अनेकाल्शित्सर्वस्य' इत्यत्र शिद्वहणात् ज्ञापकात् । अन्यथा 'इदम इश्' इत्यादिशिता शकारेणानुबन्धेन सहानेकात्वादेव सिद्धे केि तेन । अतएव तिवाद्यादेशेषु पित्वादिस्सिद्यति । अत एव “सेर्हपिच' इत्यत्र अपि दित्यर्थवत् । अन्यथा पित्कार्यस्याल्विधित्वात्तत्र स्थानिवद्भावस्यैवाप्रसक्तया हे पित्वस्यैवाप्र सत्क्तौ किं तन्निषेधेन । तदिद स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपचितम् । गुणे कृते इति ॥ डसिडसोरिति शेष । हरे अस् इति स्थिते अपदान्तत्वात् 'एड पदान्तान्' इति पूर्वरूपे अप्राप्त अयादेशे प्राप्त । ङसिङसोश्च ॥ 'एड पदान्तात्' इत्यत एड इति, अतीति चानुवर्तते । “अमि पूर्व ' इत्यत पूर्व इत्यनुवर्तते । “एक पूर्वपरयो ' इत्यधिकृतम् । तदाह । एङो ङसिङसोरित्यादिना। हरेः इति । पूर्वरूपे रुत्वविसर्गौ । पञ्चम्येकवचनस्य षष्ठये. कवचनस्य च रूपमेतत् । यद्यपि डसिडसौ द्वौ । एडौ च द्वौ । तथापि न यथासङ्खयमिष्यते । यथासङ्खयमनुदेशस्समाना, स्वरितेन' इति सूत्रच्छेदमभ्युपगम्य यत्र स्वरितत्व प्रतिज्ञात तत्रैव यथासङ्खयविज्ञानादिति यथासङ्खयसूत्रभाष्ये स्पष्टम् । “अञ्च घे ' 'उपसर्गे घो कि इत्यादिनिर्देशाच्च । हर्योरिति ॥ षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । “हूस्व नद्याप ' इति नुट् । 'नामि' इति दीर्घ । ‘अट्कुप्वाड्’ इति णत्वम्। हरि इ इति स्थिते “घे- र्डिति’ इति गुणे प्राप्ते । अञ्च घेः ॥ 'डेराम्' इत्यतो डेरियनुवर्तते । इदुभ्याम्’ इति ‘औत्’ इति च सूत्रमनुवर्तते । तदाह । इदुद्भ्यामित्यादिना ॥ अन्तादेशः ॥ इतेि अलोऽन्त्यपरि भाषालभ्यमेतत् । वृद्धिरिति ॥ हरि औ इति स्थिते ‘वृद्धिरेचि' इति वृद्धौ, हरौ इति रूपामित्यर्थे । हरिष्विति ॥ “ आदेशप्रत्ययो ' इति षत्वम् । अथ सखिशब्दात् सु । सखि स् इति स्थिते । अनड् सौ ॥ 'सख्युरसम्बुद्वौ' इत्यनुवर्तते। ‘अङ्गस्य'इत्यधिकृतम्। तदाह ।

20
१५४
[इदन्त
सिद्धान्तकौमुदीसहिता

सख्युरङ्गस्यानडादेश स्यादसम्बुद्धौ सौ परे “ डिच' (सू ४३)

इत्यन्तादेश ।

२४९ । अलोऽन्यात्पूर्व उपधा । (१-१-६५)

अन्त्याद्दलः पूर्वो वर्ण उपधासज्ञ स्यात् ।

२५० । सर्वनामस्थाने चासम्बुधेधौ । (६-४-८)

नान्तस्योपधाया दीर्घ स्याद्सम्बुद्धों सर्वनामस्थाने परं ।

२५१ । अपृक्त एकाल्प्रत्ययः । (१-२-४१)

एकाल्प्रत्ययो य सोऽपृक्तसंज्ञ स्यात् ।

२५२ । हल्ङयाब्भ्यो दीर्घत्सुतिस्यपृक्तं हल् । (६-१-६८)


सख्युरङ्गस्येत्यादिना ॥ सो इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम् । असम्बुद्धा विति पर्युदासात् । अनडि डकार इत्, नकाराद्कार उच्चारणार्थ । अनेकाल्त्वात् सर्वादेश माशङ्कय आह । ङिञ्चेति । सखन् स् इति स्थिते उपवाकार्य वक्ष्यन् उपधासज्ञामाह । अलोऽन्त्यात् ॥ अल इति पञ्चमी । अन्यादिति सामानाधिकरण्यात् । अलप्रत्याहार वर्ण पर्याय । पूर्वोऽप्यलेव गृह्यते । साजात्यादित्याह । अन्त्यादलः इत्यादिना ॥ अल किम् । शिष्ट इत्यत्र शास्धातौ आस् इति सङ्घातात् पूर्वशकारस्य उपधात्व न भवति । अन्यथा शास इदड्हलो ' इति शकारस्य इकारप्रसङ्ग । वर्णग्रहण किम् । शास्धातौ शा इति समु दायस्य उपधात्व न भवति । अन्यथा शा इति समुदायस्य इकारस्यात् । न चालोन्त्यपरि भाषया आकारस्यैव इकारो भवतीति वाच्यम् । “नानर्थकेऽलोन्त्यविधि ' इति तन्निषेधात् । सर्वनामस्थाने ॥ “नोपधाया ' इति सूत्रमनुवर्तते । न इति लुप्तषष्ठीक पदम् । तेनाङ्गस्ये त्यवयवषष्ठयन्त विशेष्यते । तदन्तविधि । “ ढूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । ना न्तस्येत्यादिना ॥ सखान् स् इति स्थिते अपृक्तकार्य वक्ष्यन् अपृक्तसज्ञामाह । अपृक्तः ॥ एकालिति कर्मधारय । अत्रैकशब्दोऽसहायवाची । “एके मुख्यान्यकेवला ' इत्यमर । स् इत्यस्यापृक्तसज्ञायाम् । हल्डयाब्भ्यो ॥ हल् च, डी च, आप् च, इति द्वन्द्व । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि डयापोरेव दीर्घादिति विशेषणम्, न तु हल । अस म्भवात् । एवञ्च दीर्घदिति द्वित्वे एकवचनमार्षम् । हल्डयाब्भ्य इत्यस्य सुतिस्याक्षिप्तप्रकृति विशेषणतया प्रत्ययग्रहणपरिभाषया च तदन्तविधि । ततश्च हलन्ताच्च दीर्घडयाबन्ताच्च पर मिति लब्धम् । सु ति सि इति समाहारद्वन्द्व । अपृक्तमिति हलिति च सामानाधिकरण्येना न्वेति । उकारे इकारे च लुप्ते परिशिष्टस्सकारस्तकारश्च सु ति सि इत्यनेन विवक्षित । ततश्च हलित्यनेन सामानाधिकरण्य न विरुद्यते । 'लोपो व्यो ' इत्यतो लोप इत्यनुवर्तते । तच इह

प्रकरणम्]
१५५
बालमनोरमा ।


हलन्तात्परं दीर्घौ यौ डयापौ तदन्ताच पर सु ति सि इत्येतदपृक्त हलू लुप्यत हल्डयाव्भ्य ' किम् । ग्रामणी दीर्घात्' किम् । निष्कौशाम्बि अतिखत्व सुतिसि' इति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति अपृक्तम्' इति किम् । बिभर्ति हल् किम् ।बिभेद । 'प्रथमहल्' किम् । राजा । नलोपादिर्न स्यात्। संयोगान्तलोपस्यासि द्ध्त्वात् ।सखा । हे सखे ।

कर्मसाधनमाश्रीयते लुप्यत इति लोप कर्मणि घञ् । तदाह । हलन्तात्परमित्या दिना ॥ हल्ङ्याब्भ्यः किमिति ॥ राम इत्यादावदीर्घान्तत्वान्न दोष इति प्रश्र ग्राम णीरिति ॥ ग्राम नयतीति विग्रह । “णीञ् प्रापणे, सत्सूद्विष' इत्यादिना क्विप ।अग्रग्रामा भ्या नयतेर्णो वाच्य ' इति णत्वम् । हल्डयाबन्तत्वाभावान्न सुलोप । दीर्घत् किमिति ॥ डयापोदीर्घत्वाव्यभिचारात् किमर्थ दार्घत्वविशेषणमिति प्रश्न। निष्कौशाम्बिः । अतिखट्वः इति ॥ निष्क्रान्त कौशाम्ब्या , खट्वामतिक्रान्त, इति विग्रहे 'निरादय क्रान्ताद्यर्थे पञ्चम्या अत्यादय क्रान्ताद्यर्थे द्वितीयया' इति समास गोत्रियो ' इति हृस्वत्वम्। अत्र डयापोर्ह्रस्वत्वन्न सुलोप ।सुतिसि इति किमिति ॥ अमैत्सीदिति ॥ भिदे र्लुडि सिच् ।अत्र तकारात् सकारस्य लोपो न सुतिस्यन्यतमत्वाभावादित्यर्थ । ननु मिचस्सिरेवायमित्यत आह। तिपेति ॥ तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात् सिचो ग्रहण नेत्यर्थ । अपृक्तमिति किम् । बिभर्तीति ॥ अत्र ति इति समुदायस्य न हत्त्वम्। तकारस्तुयद्यपि तेरवयव । तथापि तस्य नापृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टस्सकारस्तकारश्च सु ति सि इत्यनेन गृह्यते । ह ल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव बिभर्तीत्यत्र लोपाभावसिद्धे । अपृक्तग्रहणस्य नेद प्रत्युदा हरणम् । द्वितीयहल्ग्रहणस्य प्रयोजन पृच्छति । हल् किमिति ॥ बिभेदेति ॥ भेिदे र्लिट् तिप् । णल अकारस्य हल्त्वाभावान्न लोप प्रथमहल् किमिति ॥ राजन् स् इति स्थिते उपधादीर्घे सयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्र। नन्विद राजेति कथ प्रत्युदा हरणम् । सयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह । नलोपादिर्न स्यादिति सयोगान्तलोपे सति नलोपो न स्यादिति भाव अभिनोऽत्रेत्यत्र उत्वमादिशब्दार्थ भिदेर्लडि सिप्। इतश्च इति इकारलोप । *सिपि धातो रुर्वा' इति रुत्वम् । सलोप अत्र ‘अतो रोरप्लुतात्' इत्युक्त्व न स्यात् । कुत इत्यत आह । संयोगान्तलोपस्या सिद्धत्वादिति ॥ हल्डयादिलोपस्तु नासिद्ध । षष्ठप्रथमपादस्थत्वादिति भाव अत्र क्वचित् पुस्तकेषु ‘दीर्घात् किमित्यारभ्य सयोगान्तलोपस्यासिद्धत्वात्' इत्यन्तस्सन्दर्भो न दृश्यते । युक्तश्चै तत् । मूलकृतैव प्रौढमनोरमायामस्य सन्दर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् सखेति ॥ सुलोपे सति “न लोप ' इति नकारलोप । नचेह सुपमाश्रित्य अनडेि कृते तन्नकार माश्रित्य सोर्लोपो न सम्भवति सन्निपातपरिभाषाविरोधादिति वाच्यम्।स्वतंन्त्र

१५६
[इदन्त
सिद्धान्तकौमुदीसहिता

२५३ । सख्युरसम्बुद्धौ । (७-१-९२)

सख्युरङ्गात्पर सम्बुद्धिवर्ज सर्वनामस्थानं णिद्वत्म्यात् ।

२५४ । अचो ञ्णिति । (७-२-११५)

ञ्पिति णिति च परेऽजन्ताङ्गस्य वृद्धि स्यात् । सखायौ । सखाय । सखायम् । सखायौ । घिसज्ञाभावान्न तत्कार्यम् । सख्या । सख्ये ।

२५५ । ख्यत्यात्परस्य । (६-१-११२)

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य डसिडसोरत उत्स्यात् । सख्युः ।

कर्ता' इत्यादिनिर्देशेन अनडो नकारमाश्रित्य सुलोपे कर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तेरि त्याहु । हे सखे इति ॥ 'अनड् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनडभावे हूस्वस्य गुणे एड् हृस्वात्’ इति सुलोपे रूपम् । सखि औ इति स्थिते णित्कार्य वृद्धि वक्ष्यन् णिद्वद्भाव दर्शयति । सख्युरसम्बुद्धौ ॥ सख्युरिति दिग्योगे पञ्चमी । 'अङ्गस्य’ इत्यधिकृत पञ्चम्या विपरिणम्यते । परमित्ययाहार्यम् । * इतोऽत् सर्वनामस्थाने ’ इत्यतस्सर्वनामस्थाने इत्यनुवर्तते । असम्बुद्धावित्यभेदेनान्वेति । 'गोतो णित्’ इत्यतो णिदिति प्रथमान्तमनुवृत्तम् । तत्सामानाधकरण्यात् सप्तमी प्रथमा कल्प्यते । तदाह । सख्युरङ्गादत्यादिना ॥ णिद्यदिति ॥ णित्कार्यकृत् स्यादित्यर्थ । णिच्छब्दस्तत्कार्यातिदेशार्थ इति भाव । अचो ञ्णिति ॥ ञ् च ण् च व्णो तौ इतौ यस्य तत् ञ्णित् ‘मृजे' इत्यतो वृद्धिरित्यनुवर्तते । अङ्गस्येत्यधिकृतमचा विशेष्यते । तदन्तविधि । तदाह । अजन्तस्येत्यादिना ॥ स्थानसाम्यादिकारस्य वृद्धिरैकार । तस्य आयादेश इत्यभिप्रेत्य आह । सखायाविति ॥ एव सखाय, सखाय, सखायौ, सखीन्, इति शसि हरिवदूपम् । असर्वनामस्थानत्वाण्णित्वाभा वात् न वृद्धि । धिसंज्ञाभावादिति ॥ *शेषो ध्यसखि' इत्यत्र असखीति पर्युदासादिति भाव । तत्कार्यमिति ॥ घिप्रयुक्तकार्य नेत्यर्थ । सख्येति ॥ सखि आ इति स्थिते घित्वाभावात् ‘आडो नाऽस्त्रियाम्' इति नाभावाभावे यणि रूपम्। सख्ये इति॥ सखि ए इति स्थिते घित्वाभावात् ‘घेर्डिंति’ इति गुणाभावे याणि रूपम् । डसिडसो सखि अस् इति स्थिते घित्वा भावात् *घेर्डिति ' इति गुणाभावे यणि सख्यस् इति स्थिते । ख्यत्यात् परस्य ॥ खिखी इत्यनयो तिती इत्यनयोश्च कृतयणादेशयो ख्यत्य इति निर्देश । यकारादकार उच्चार णार्थ । “एड पदान्तात्' इत्यत अतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात् षष्ठय न्त विपरिणम्यते । “डसिडसोश्च' इत्यत डसिडसोरित्यनुवर्तते । अवयवषष्ठयेषा । ततश्च डसिङसोरवयवस्य अत इति लभ्यते । 'ऋत उत्' इत्यत उदित्यनुवर्तते । “एक पूर्वपरयो इति तु निवृत्तम् । परग्रहणसामर्थ्यात् । अन्यथा ख्यत्यादिति पञ्चमीनिर्देशादेव सिद्ध कि तेन । तदाह । खितिशब्दाभ्यामित्यादिना ॥ सख्युरिति । सख्यस् इति स्थिते यकारा

प्रकरणम्]
१५७
बालमनोरमा ।

२५६ । ओत । (७-३-११८)

इदुद्भया परस्य डेरोत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेष हरिवत् । शोभन सखा सुमखा । सुसखायौ । सुसखाय योगङ्गत्वात्तदन्तेऽपि प्रवृत्ति समुदायस्य सखिरूपत्वाभावात् * असखि (सू २४३) इति निषेधाप्रवृत्तेर्घिसज्ञा । सुसखिना । सुसखये । डमिडसो र्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् (सू २५५) इत्युक्त्व न सुसखे । सुसखावित्यादि । एवमतिशयित सखा अतिसखा । “परम सरवा यस्य


दकारस्य उकारे रुत्वविसगो । डो सखि इ इति स्थिते घित्वाभावात् “ अञ्च घे ' इत्यस्याप्र वृत्त्या सवर्णदीर्घे प्राप्ते । औत् ॥ 'इदुद्भग्राम्' इति सूत्रमनुवर्तते। डेगम् इत्यतो डेरिति प्रवर्तते । नदीमञ्जकेषु तु “इदुभ्याम् ’ इति पूर्वसूत्र प्रवर्तते अनस्सूत्रद्वयविषयादन्यस्सखि शव्द एवास्य सूत्रस्य विषय इति व्यक्तम् । एवञ्च उकारानुवृत्तिव्यैर्थेत्यत आह । उकारेति ॥ उकारानुवृत्ति अच्च घे इत्युत्तरसूत्रेऽनुवृत्त्यर्थेत्यर्थ । सख्यौ इति ॥ डेरौत्वे याण रूपमिति भाव। सुसखेति ।। प्रादिसमास । राजाहस्सरिसम्यष्टच्' इति टच्तु न भवति ‘न पूज नात्' इत निषधात् । अनड् सौ, उपधादीर्घ , हरडयादलोप नलोप इति नकारलोप इतिभाव । सुसखायौ । सुसखाय इति ॥ णिद्वद्राव वृद्धि आयादेश इति भाव । नन्व नड्णिद्वत्वे सखिशब्दस्य विधीयमाने कथ सुसखिशव्दे स्यातामित्यत आह । अनड इत्या दि ॥ अङ्गाधिकारस्थतया 'पदाङ्गाधिकारे' इति परिभाषया सखिशब्दान्तेऽपि प्रवृत्तिरित्यर्थ। नन्वेव सति सुसखिशब्दे असखि इति पर्युदासात् घित्वाभावे नात्वादि न स्यादित्यत आह समुदायस्येति ॥ नच सुसखिशब्दस्य सखिशब्दरूपत्वाभावेऽपि सखिशब्दान्तत्वादसखीति पर्युदासोऽपि दुर्निवार इति वाच्यम् शेषेो घ्यसखि' इत्यस्य पदाङ्गाधिकारस्थत्वाभावादिति भाव । सुसखिनेति । घित्वान्नात्वे रूपम् । सुसखये इति ॥ घेर्डिति ’ इति गुणे अया देश ङसीति । डसिडसो घोर्डिति इति गुणे कृते 'ख्यत्यात्' इत्युत्त्व नेत्यन्वय कुत इत्यत आह । कृतयणादेशत्वाभाव्दिति ।। ख्यत्यात्' इत्युत्त्व नेत्यन्वय । कुत इत्यत आह ।कृतयणादेशत्वाभावादिति ।। ख्यत्यात् इत्यत्र कृतयणादेशनिर्देशेन यत्र यणादेशप्रवृत्तिस्तत्रैवोत्त्वप्रवृत्तेरिति भाव । सुसखेरिति डसिङसोरेतदूपम् । सुस्सखा विति ॥ ‘अच्च घे' इत्यौत्वम् । एवमिति ॥ सुसखिशब्दवदित्यर्थ । अतिसखेति ॥ प्रादि समास “न पूजनात्' इति न टच् । वस्तुतस्तु उदाहृते सुसखिशब्दे अतिसखिशब्दे च घि सज्ञा न भवत्येव । ‘शेषो घ्यसखि' इत्यत्र हि असखीति शेषविशेषणम् । तदन्तविधि । सखि शब्दान्तभिन्नश्शेषो घिसञ्जक इति लभ्यते अत एव 'यस्यति च' इति सूत्रे “ईकारे परत इकारलोपे किमुदाहरणम् । सखीत्यत्र 'सख्यशिश्चीति भाषायाम् इति डीषि इकारलोप नच सवर्णदीर्घेण निर्वाहश्शङ्क्य सखीमातिक्रान्त अतिसखि । प्रादिसमास गोस्त्रियो

१५८
[इदन्त
सिद्धान्तकौमुदीसहिता


इति विग्रहे परमसखा । परममखायौ। इत्यादि । गौणत्वेऽप्यनङ्णित्वे प्रवर्तेते सखीमतिक्रान्तोऽतिसखि । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरेि वत् । इहानड़णित्वे न भवत । गोस्त्रियो (सू ६५६) इति हृस्वत्वेन सखिशब्दस्य लाक्षणिकत्वान् * लक्षणप्रतिपदोक्तयो प्रतिपदोक्तस्यैव ग्रह णात्' (प ११४)

२५७ । पतिः समास एव । (१-४-८)

पतिशब्द समास एव घिसंज्ञ स्यात् । पत्या । पत्ये । पत्यु । पत्यु


इति ह्रस्व अतिसखेरागच्छति इत्यत्र इकारलोपाभावात् सवर्णदीर्घे तस्य एकादेशस्य पूर्वा न्ततया सखिग्रहणेन ग्रहणात् असखीति पर्युदासे घिसज्ञाप्रतिषेधापत्ते इकारलेोपे तु सति डीषो हस्वत्वे कृते नाय सखिशब्द । डीषस्तदवयवत्वाभावात् इति भाष्य सङ्गच्छते इति, शव्दे न्दुशेखरे प्रपञ्चितम् । परमसखेति । बहुव्रीहित्वात्तत्पुरुषत्वाभावान्न टच । ननु बहुव्रीहौ सखिशब्दस्य गोणत्वात् कथमनङ्कणित्वे । गौणमुख्ययोर्मुख्ये कार्यसप्रत्यये , इति न्यायात् इत्यत आह । गौणत्वेऽपीति 'मिदचोऽन्त्यात्' इति सूत्रे “तृज्वत् क्रोष्टु, स्त्रियाञ्च' इति भाष्यकैयटयो तथा दृष्टत्वादिति भाव । अतिसखिरिति अत्यादय क्रान्ताद्यर्थे द्वितीयया इति समास गोस्त्रियो ' इति हृस्व राजाहस्साखिभ्यष्टच्' इति टच् तु न भवति तस्मिन् कर्तव्ये ह्रस्वस्य बह्वपेक्षतया बहिरङ्गतया चासिद्धत्वेन ईकारान्तत्वात् । नन्वेवमपि प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति परिभाषया सखीशब्दान्तादपि टच् स्या दित्याशङ्कय आह । लिङ्गविशिष्ठेति॥ शक्तिलाङ्गलाङ्कुश इति वार्तिके घटघटीग्रहणात्तस्या अनित्यत्वामिति भाव । ननु हरिवदिति कथम् । अनड़णिद्वद्भावयो प्रवृत्तौ रूपभेदादित्यत आह । इहेति ॥ कुतो न भवत इत्यत आह । गोस्त्रियोरिति ॥ लाक्षणिकत्वादिति लक्षण शास्त्र तत्र भव इत्यर्थे 'बह्वचोऽन्तोदात्तात्' इति वा अद्यात्मादित्वाद्वा ठक् । सखि शब्दस्वरूपस्य सामान्यतश्शास्त्रादुन्नेयत्वादिति यावत् । सखिशब्दस्तु नैवम् । समान ख्यायते जनैरित्यर्थे इणिति डिच्चेति यलोप इति चानुवर्तमाने 'समाने ख्य स चोदात्त ? इति ख्याधातो रिणश्च विशिष्योपादानेन व्युत्पादितत्वेन तस्य प्रतिपदोक्तत्वादिति भाव । ननु लाक्षणिक स्यापि ग्रहण कुनो नेत्यत आह । लक्षणेति ॥ लक्षणशब्देन लाक्षणिक विवक्षितम्। विशिष्य प्रत्यक्षोपपादित प्रतिपदोक्तमित्युच्यते । तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रह्णमिति परि भाषितत्वादित्यर्थ । प्रतिपदोक्त झटित्युपस्थितिकम् । लाक्षणिकन्तु लक्षणानुसन्धानाद्विळम्बि तोपस्थितिकम् प्रतिपदोक्तमादाय शास्रस्य चरितार्थत्वान्न लाक्षणिके प्रवृत्तिरिति न्यायसिद्धा चेय परिभाषा अथ पतिशब्दे विशेष दर्शयति । पतिस्समास एव ॥शेषोष्यसखि इत्यतो घीत्यनुवर्तते । तदाह । पतिशब्दः इत्यादिना ॥ पत्या । पत्ये इति ॥ घित्वा

प्रकरणम्]
१५९
बालमनोरमा ।

पतीनाम् । पत्यौ । शेषं हरिवत् । समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्त ।

२५८ । बहुगणवतुडति सङ्खया । (१-१-२८)

एते सङ्खयासंज्ञा. स्यु ।

२५९ । डति च । (१-१-२५)

डत्यन्ता सङ्ख्या षट्सज्ञा स्यात् ।

२६० । प्रत्ययस्य लुक्श्लुलुपः । (१-१-६१)

भावान्नात्वगुणाभावे यणि रूपम्। पत्युरिति ॥ ‘ख्यत्यात्' इत्युक्त्वम् । पत्याविति । घित्वा भावात् 'अञ्च घे ' इत्यभावे 'औत्' इति डेरौत्वे यणि रूपम्। आरम्भसामर्थ्यादेव नियमार्थत्वे सिद्धे एवकारस्तु पतिरेव समासे घिरिति विपरीतनियमव्यावृत्त्यर्थ । तेन हरिणेत्यादि सिध्द्यति । समासे तु भूपतये इति । भूपतिनेत्याद्युपलक्षणम्। “सीताया पतये नम” इत्यादि त्वार्षम् । अथ कतिशब्दे विशेष दर्शयति । कतिशब्दो नित्य बहुवचनान्त. इति । किमस्सङ्खयाप रिमाणे' इत्येन किशब्दात् बहुत्वसङ्खयावच्छिन्नसङ्खयेयविषयप्रश्र एव कति, इति भाष्ये स्पष्ट त्त्वा दिति भाव । अथ षट्सज्ञाकार्य वक्ष्यन् षट्सज्ञोपयोगिनी सङ्खयासज्ञामाह । बहुगण ॥ बहुश्च, गणश्च, वतुश्च, डतिश्च, इति समाहारद्वन्द्व । एतत् सङ्खयासज्ञ स्यादित्यर्थ । फलितमाह । एते इति ॥ बह्वादय इत्यर्थ । बहुगणशब्दाविह त्रित्वादिपरार्धान्तसङ्खयाव्यापकधर्मविशष वाचिनौ गृह्यते । न तु वैपुल्यसङ्घवाचिनो । सङ्खयायतेऽनयेति अन्वर्थसज्ञाविज्ञानात् । वतु डती प्रत्ययौ । सज्ञाविधावपि इह तदन्तग्रहणम् । केवलयो प्रयोगानर्हत्वात् । वतुरिह 'यत्त देतेभ्य परिमाणे वतुप्’ इति तद्धितप्रत्ययो गृह्यते । न तु *तेन तुल्य क्रिया चेद्वति ’ इति वतिरपि । उकारानुबन्धातू । डतिरपि * किमस्सङ्खयापरिमाणे डति च' इति विहित तद्वित एव गृह्यते । वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहित कृदपि । ननु ‘सङ्खयाया क्रियाभ्यावृतिगणने कृत्वसुच्' इत्यादिसङ्खयाप्रदेशेषु बह्वादीनामेव चतुर्णा ग्रहण स्यात् । न तु लोकप्रसिद्धसङ्खयावाचकानामपि । *कृत्रिमाकृत्रिमयो कृत्रिमे कार्यसम्प्रत्यय ’ इति न्यायात् । ततश्च पञ्चकृत्व इत्यादि न स्यादिति चेन्न । “सङ्खयाया अतिशदन्ताया कन्’ इत्यत्र तिश दन्तपर्युदासबलेन सङ्खयाप्रदेशेषु कृत्रिमाकृत्रिमन्यायाप्रवृत्तिज्ञापनात् । नहि विशतिविंशदादि शब्दाना कृत्रिमा सङ्खयासज्ञाऽस्ति । नचैव सति बहुगणग्रहणवैयर्थ्य शङ्कयम् । तयोर्नियत विषयपरिच्छेदकत्वाभावेन लोकसिद्धसङ्खयात्वाभावात् । अत एव भाष्ये “एतत्सूत्रमतिदेशार्थ यदयमसङ्खया सङ्खयेत्याह” इत्युक्त सङ्गच्छते इत्यास्ता तावत् । डति च ॥ डतीत्यविभक्तिको निर्देश । प्रत्ययत्वात्तदन्तग्रहणम्। पूर्वसूत्रात् सङ्खयेत्यनुवर्तते । ‘ध्णान्ता षट्’ इत्यतष्षडिति च । तदाह । डत्यन्तेति ॥ सङ्खयेति किम् । पति । अथ षट्सज्ञाकार्य लुकवक्ष्यन्नाह । प्रत्ययस्य लुक् ॥ ‘अदर्शन लोप' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शन लुक्श्लुलुप्सज्ञक स्यादित्यर्थ

१६०
[इदन्त
सिद्धान्तकौमुदीसहिता

लुक्श्लुलुप्शब्दै कृत प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञ स्यात् ।

२६१ । षड्भ्यो लुक् । (७-१-२२)

षड्भ्य परयोर्जश्शसोर्लुक् स्यात्

२६२ । प्रत्ययलोपे प्रत्ययलक्षणम् । (१-१-६२)

प्रत्यये लुप्तेऽपि तदाश्रित कार्य स्यात् । इति * जसि च' (सू २४१) इति गुणे प्राप्रे ।

२६३ । न लुमताङ्गस्य । (१-१-६३)

लुक् श्लु लुप् एते लुमन्त । लुमता शब्देन लुप्ते तन्निमित्तमङ्ग कार्य न स्यात् । कति । कति । कातिभि । कतिभ्य । कतिभ्य । ।


प्रतीयते । एव सति एकस्यैव प्रत्ययादर्शनस्य तिस्रोऽपि सज्ञास्स्यु । ततश्च हन्तीत्यत्र शब्लुकि 'श्लौ' इति द्वित्व स्यात् । जुहोतीत्यत्र श्लौ सति “उतो वृद्धिर्लुकि हलि” इति वृद्धिस्स्यात् । अतो नैवमर्थ । किन्तु लुक्श्लुलुप् इत्यनुवर्तते । ततश्च लुक् श्लु लुप् इत्युच्चार्य विहित प्रत्यय स्यादर्शन यथासख्यपरिभाषया क्रमात् लुगादिसज्ञ स्यादिति लम्यते । अतो नोक्तसङ्कर इत्यभि प्रेत्य आह । लुक्श्लुलुप्शब्दैरित्यादिना ।। “फले लुक्, जुहोत्यादिभ्य श्लु, जनपदे लुप् इत्यादिविधिप्रदेशेषु “अख्य सूत्रस्य शाटक वय' इतिवद्भाविसज्ञाविज्ञानात् नान्योन्याश्रय । तदेव कतिशब्दस्य षट्सज्ञायाम् । षड्भ्यो लुक् ॥ जश्शसोरित्यनुवर्तते । तदाह । षड्भ्यः प रयोरित्यादिना ॥ जसि लुप्तेऽपि 'जसि च' इति गुणमाशङ्कितुमाह। प्रत्ययलोपे प्रत्यय लक्षणम् ॥ प्रत्यय लक्षण निमित्त यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तक कार्य स्यादित्यर्थ । फलितमाह । प्रत्यये लुपतेऽपीत्यादिना ।। स्थानि वद्भावादेव सिद्धे अल्विध्यर्थमिद सूत्रम् । यत्र प्रत्ययस्यासाधारण रूप प्रयोजक तदेव कार्य प्रत्ययलोपे सति भवतीति नियमार्थश्चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति ॥ अनेन सूत्रेण लुप्त प्रत्ययमाश्रित्य ‘जसि च' इति गुणे प्राप्त इत्यर्थ । न लुमताङ्गस्य । प्रत्ययलोपे प्रत्ययलक्षणमित्यनुवर्तते । लु इत्येकदेशोऽस्यास्तीति लुमान् । लुक्शब्द इलुशब्द लुप्शब्दश्च । तेन शब्दन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्य न स्यादित्यर्थ । तदाह । लुक्श्लु इत्यादिना । अङ्गस्य इत्यनुक्तौ पञ्च सप्त इत्यादौ 'सुप्तिडन्तम्’ इति पद सज्ञा न स्यात् । जश्शसोर्लुका लुप्तत्वात् । ततश्च “न लोप प्रातिपदिकान्तस्य’ इति नलोपेो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवञ्च जसि लुका लुप्ते प्रत्ययलक्षणाभावात् 'जसि च' इति गुणो न भवति इत्यभिप्रेत्योदाहरति । कतीति । प्रसङ्गादाह । अस्मदिति । त्रिष्विति । पुस्रीनपुसकेष्वित्यर्थ । सरूपाः इति । समानानि रूपाणि येषामिति विग्रह ।

प्रकरणम्]
१६१
बालमनोरमा ।


कतिषु । अस्मद्युष्मद्षट्सज्ञकास्त्रिषु सरूपा । विशब्दो नित्यं बहुवचनान्त. । त्रय । त्रीन् । त्रिभि । तिभ्य । त्रिभ्य ।

२६४ । त्रेस्त्रयः । (७-१-५३)

त्रिशब्दस्य त्रयादेश स्यादामि । त्रयाणाम् । परमस्त्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्य द्विवचनान्त ।

२६५ । त्यदादीनामः । (७-२-१०२)

एषामकारोऽन्तादेशा स्याद्विभक्तौ । 'द्विपर्यन्तानामेवेष्टि ' (वा ४४६८)


लिङ्गविशेषबोधकटाबाद्यभावादिति भाव । नचैव सति ‘अलिङ्गे युष्मदस्मदी' इति माम आकम्’ इति सूत्रस्थभाष्यविरोध इति वाच्यम् । पदान्तरसन्निवान विना लिङ्गविशेषो युष्मदस्मच्छब्दाम्या न प्रतीयते इति हि तदर्थ । अत एव “न षट्स्वस्रादिभ्य ' इति पञ्चन्ना दिषट्सज्ञकेभ्यः टाब्डीब् निषेधस्सङ्गच्छते । अन्यथा स्रीत्वाभावादेव तदभावे सिद्धे कि तेन । अत एव च “डे प्रथमयो इति सूत्रे भाष्ये युष्माँनित्यत्र “तस्माच्छसो न पुसि' इत्युपन्यासस्सङ्गच्छते । अत एव च । ‘नेतराच्छन्दसि’ इति सूत्रे शिशीनुमादिभिर्युष्मदस्मादाद्यादेशाना विप्रतिषेधपर वार्तिक तद्भाष्य ञ्च सङ्गच्छते इति दिक् । त्रिशब्दे विशेषमाह । त्रिशब्दः इति । त्रि आम् इति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते । त्रेस्त्रयः ॥ “आमि सर्वनान्न ? इत्यत आमीत्यनुवर्तते । तदाह । त्रि शब्दस्यत्यादिना ॥ अनेकात्त्वात् सर्वादेश । नुट् दीर्घश्च । तदाह । त्रयाणामिति त्रेरयड्' इति तु नोक्तम् । अयड् अनड इत्यादिवत् डकारात्पूर्वस्य अकारस्य उच्चारणार्थत्व शङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् “पदाङ्गाधिकारे' इति परिभाषया त्रेरिति तदन्तग्रहणमित्य भिप्रेत्योदाहरति । परमत्रयाणामिति ॥ परमाश्च ते त्रयश्चेति विग्रह । प्रिया त्रयो यस्य इति प्रियत्रिशब्दो बहुव्रीहि । तस्यान्यपदार्थप्रधानत्वादेकद्विबहुवचनानि सन्ति । अतो। हरिवत्तस्य रूपाणि । तत्र त्रयादेशमाशङ्कय आह । गौणत्वे त्विति । त्रिशब्दस्य उपसर्ज नत्वे “त्रेस्रय' इति न भवतीति केचिदाहुरित्यर्थ । 'गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय ' इति न्यायात् इति भाव । वस्तुतस्त्विति । प्रियत्रयाणामित्येव रूप वस्तुत्वेन ज्ञेयामित्यर्थ । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते । तस्य पदकार्य एव प्रवृत्ते । अत एव उपसर्जनाना सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव च प्रियतित्रेत्यादौ ति स्रादय भाष्ये उदाहृतास्सङ्गच्छन्ते इत्यन्यत्र विस्तर । अथ द्विशब्दे विशेषमाह । द्विशब्दः इति ॥ तस्य द्वित्वनियतत्वादिति भाव । द्वि औ इति स्थिते । त्यदादीनामः ॥ “अष्टन आ किभक्तौ' इत्यतो विभक्तावित्यनुवर्तते । एषामिति ॥ त्यदादीनामित्यर्थ । त्यद् आदिर्ये षामिति विग्रह । अन्तादेश इत्यलोऽन्त्यपरिभाषालभ्य । विभक्तौ किम् । तत्फल ‘स्वमोर्नपुस कात्' इति लुकि अत्वन्न । द्विपर्यन्तानामिति ॥ सर्वादिगणे ये त्यदादय पठिता तेषामिह

१६२
[इदन्त
सिद्धान्तकौमुदीसहिता


द्वैौ । द्वौ । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयो । द्वयो । 'द्विप र्यन्तानाम्' इति किम् । भवान् । भवन्तौ । भवन्त । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्वि । द्वी। द्वय । द्वावतिक्रा न्तोऽतिद्वि । हरिवत् । प्राधान्ये तु परमद्वावित्यादि । औडुलोमि । औडुलोमी । उडुलोमा । “लोम्नोऽपत्येषु बहुष्वकारो वक्तव्य' (वा २५६०) । बाह्वादीञ्जोऽपवाद् । औडुलोमिम् । औडुलोमी । उडुलोमान् ।

इति इदन्ता ।

द्विपर्यन्तानामेव ग्रहणे भाव् कारस्य इच्छेत्यर्थ । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते राम शब्दवदूपाणीत्याह । द्वावित्यादि । द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरान्व यत्वयलोपैर्बाधात् किम क्वादेशविधानाञ्च तेषा त्यदादिष्वन्तर्भावेऽपि न दोप इति प्रश्र । भवान् । भवन्ताविति । भवत् स् इति स्थिते “उगिदचाम्' इति नुमि हल्डयादिलोपे सयोगान्तलोपे ‘सर्वनामस्थाने च'दति दीर्घे भवानिति रूपम् । द्विपर्यन्तानामित्यभावे तु भवत् स् इति स्थिते तकारस्य अत्वे कृते ‘अतो गुणे' इति पररूपे ‘उगिदचाम्' इति नुमि 'सर्वनामस्थाने' इति दीर्घे सुलोपे नलोपे भवा इति स्यात् । तथा भवत् औ इति स्थिते पूर्ववत्तकारस्य अत्वे पररूपे नुमि दीर्घ च भवानाविति स्यादिति भाव । अथ यदुक्त “सज्ञोपसर्जनीभूताना सर्वा दिगणकार्यमन्तर्गणकार्यश्च न भवति ' इति तत् स्मारयति । संज्ञायामित्यादिना ॥ द्वि र्नामेति ॥ नामेत्यव्यय प्रसिद्धौ । द्विरिति प्रसिद्ध कश्चित् इत्यर्थ । अत्र च सज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति । एकद्वित्रयादिष्वपि द्विसज्ञकत्वासम्भवादित्यभिप्रेत्य आह । द्वि., द्वी, द्वयः, इति । अतिद्विरिति ॥ “ अत्यादय ' इति समास । परमद्याविति ॥ कर्म वारयोऽयम् । सज्ञोपसर्जनत्वाभावादिह अत्व भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भाव । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा । तस्यापत्यमौ डुलोमि *बाह्वादिभ्यश्च' इति इञ् । ‘नस्तद्धिते' इति टिलोप । आदिवृद्धि । अस्य एकवचन द्विवचनयो सर्वत्र हरिवद्रूपम्। तदाह । औडुलोमि.। औडुलोमी, इति । बहुवचने तु उडुलोमा इति कथम् । बाह्यादिगणस्थत्वेन इव प्रसङ्गादित्यत आह । लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः॥ लोमन्शब्दात् बहुष्वपत्येषु विवक्षितेषु अकार प्रत्ययो वक्तव्य इत्यर्थ । बाह्वादीञः इति ॥ बाह्लादिगणाद्विहितस्य इणोऽपवाद इत्यर्थ । उडुलोमा इत्यत्र उडुलोमन् अम् इति स्थिते ‘नस्तद्धिते’ इति टिलोप । ञ्डिणत्वाभावात् कित्वाभावाच्च नादिवृद्धिरिति भाव । उडुलोमशब्द अकारान्त । तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भाव ।

इति इदन्तप्रकरणम् ।


प्रकरणम्]
१६३
बालमनोरमा ।

॥ अथ ईदन्तप्रकरणम् ॥



वातप्रमी ' (उ ४४१) इत्युणादिसूत्रेण माड ईप्रत्यय । स च कित् । वात प्रमिमीते इति वातप्रमी । ‘दीर्घाज्जसि च'(सू२३९) । वातप्रम्यौ। वानप्रम्य । हे वातप्रमा । “ अमि पूर्वे ' (सू १९४) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमाभ्याम् । वातप्रम्ये । वातप्रमाभ्याम् । वातप्रम्य । वातप्रमीभ्याम् । वातप्रम्य । वातप्रम्यो । वातप्रमम्याम् । दीर्घत्वान्न नुट् । डौ तु सवर्णदीर्घ । वातप्रमी । वातप्रम्यो । वातप्रमीपु । एव यीपायादय । यान्त्यनेनेति ययोर्मार्ग । पाति लोकमिति पपी सूर्य । “यापो किद्वे च' (उ ४३९) इति ईप्रत्यय । किबन्तवातप्रमीशब्दस्य


अथेदानीमाकारान्ता निरूयन्ते । तत्र वातप्रमीशव्दो द्विधा । ‘माड् माने'इति धातो राप्रत्ययान्त किबन्तश्च । तत्र प्रथम व्युत्पादयति । वातप्रमीरित्यादिना ॥ किदित्यन न्तर निपात्यते इति शेष । वातमिति ॥ वातमित्युपपदे कर्तरि माड्धातोरीप्रत्यये कित्त्वात् ‘आ तो लोपइटि च' इत्याल्लोपे ‘उपपदमतिड्’ इति समासे तस्मात् सुबुत्पत्तौ वातप्रमीरिति प्रथमैकवच नम् । अडयन्तत्वान्न सुलोप । एतदर्थमेव हन्डयादिसूत्रे सत्यपि दीर्घग्रहणे डीब्ग्रहणमिति भाव । दीर्घादिति ॥ वातप्रमी ओ इति स्थिते “दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घे निषिद्धे ‘इको यणचि' इति यणि वातप्रम्याविति रूपमित्यर्थ ! हे वातप्रमीरिति । दीर्घान्तत्वात् ‘हूस्वस्य गुण' इति न । अमीति ॥ वातप्रमी अम् इति स्थिते “ आमि पूर्व ’ इति पूर्वरूपे वातप्रमी मिति रूपमित्यर्थ । “एरनकाच ’ इति यण्तु न । ईप्रत्ययान्तस्य धातुत्वाभावात् । वात प्रमीनिति ॥ पूर्वसवर्णदीर्घ े“तस्माच्छस ' इति नत्वम् । वातप्रम्येति ॥ अघित्वात् ‘आडो नाऽस्त्रियाम्' इति नाभावस्याभावे यण् । वातप्रम्ये इति ॥ अघित्वात् डेडसिडस्सु घेर्डिति’ इति गुणो न । वातप्रम्यामिति ॥ आमि यणादेशे रूपम् । दीर्घत्वान्न नुडिति भाव । ह्रस्वनद्याप' इति ह्रस्वग्रहणादिति भाव । ङौ त्विति ॥ वातप्रमी ई इति स्थिते परत्वाद्यणा देश बाधित्वा सवर्णदीर्घे वातप्रमी इति रूपम् । अघित्वादिदुदन्तत्वाभावाच्च “अञ्च घे ' इति औत्' इति च, न भवति “ वस्तुतस्तु 'ईदूतो च सप्तम्यर्थे' इति सूत्रे सप्तम्यन्तमीदृ दन्त लोके नास्ति । “अतस्सोमो गौरी अधिश्रित , मामकी तनू' इति वेद एव तदुदाहरणम् इतिभाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयते, इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ॥ 'यापेो किङ्वे च' इति औणादिकसूत्रम् । याधातो, पाधातोश्च इप्रत्ययस्यात् स कित् । प्रकृतिभूतयोस्तयोर्द्वित्वञ्चेत्यर्थ । कित्त्वात् “ आतो लोप इटेि च' इत्याल्लोप । अभ्यासहूस्व । क्विबन्तवातेति ॥ 'माडू माने' इत्यस्मात् कर्तरि क्विपि

१६४
[इदन्त
सिद्धान्तकौमुदीसहिता


त्वाम शसि डौ च विशेष' । वातप्रम्यम् । वातप्रम्य । वातप्रम्यि । एरनेकाच (सू २७२) इांते वक्ष्यमाणो यण् । प्रधीवत् । बह्वय श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घडयन्तत्वात् “हलडयाप्' (सू २५२) इति सुलोप ।

२६६ । यू स्त्र्याख्यो नदी । (१-४-३)

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्त . । “प्रथमालिङ्गग्रहणश्च' (वा १०३६) पूर्व स्रयाख्यस्योपसर्जनत्वेऽपि इदानी नदीत्व वक्तव्यमित्यर्थ ।


घुमास्था' इति ईत्वे वातप्रमीशब्द इति केचित् । तन्न । “ईत्वमवकारादौ' इति वार्तिकविरोधात् 'मीञ् हिंसायाम्' इति मीधातो किपि तु वातप्रमीशब्दो निर्वाध । वक्ष्यमाणो यणिति ॥ अमि पूर्वरूप, शसि पूर्वसवर्णदीर्घ, डौ सवर्णदीर्घ, च बाधित्वा परत्वात् 'एरनेकाच ' इति यण् । ईकारान्तधातुत्वादिति भाव । प्रधीवदिति ॥ प्रकृष्ट न्यायतीति प्रधी । “ध्यायतेस्सम्प्रसारणञ्च' इति क्विपि यकारस्य सम्प्रसारणमिकार । सम्प्रसारणाच्च' इति पूर्वरूपम् । “हल ' इति दीर्घ । अस्य च ईकारान्तधातुत्वात् अमि शसि डौ च “एरनेकाच ' इति यणादेश । बह्वय. इति ॥ 'बह्वादिभ्यश्च' इति डीष् । श्रेयस्यः इति ॥ अतिप्रशस्ता इत्यर्थ । “ द्विवचनविभज्योपपदे ' इति ईयसुन्। । “ प्रशस्यस्य श्च इति श्च । 'उगितश्च' इति डीप् । बहुश्रेयसीति ॥ 'स्त्रिया पुवत्' इति पुवत्वम् । गोस्त्रियो ' इति हूस्वस्तु न । “ईयसो बहुव्रीहेर्नेति वाच्यम्' इति तन्निषेधात् । बहुश्रेयसी स् इति स्थिते प्रक्रिया दर्शयति । दीर्घडयन्तत्वादिति । ननु श्रेयसीशब्द एव डयन्त । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नच “स्त्रीप्रत्यये न तदादिनियम ' इति निषेधान्नेह तदादिनियम इति वाच्यम् । अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेध । इहतूपसर्जनत्वात्तदादिनियमोऽस्त्येवेति चेदस्तु श्रेयसीशब्दस्यैव डयन्तत्व, नतु बहुश्रेयसीशब्दस्य । तथाच हत्डयादिलोपोऽत्र निर्बाध । सो डयन्तात् श्रेयसीशब्दात्पर त्वस्य अनपायात् । नहि हल्डयाब्भ्य इति विहितविशेषणम् । प्रमाणाभावात् । या सा का इत्यादावव्याप्तेश्च । तत्र सोष्टाबन्ताद्विहितत्वाभावात् । यत्तत्किमिति हलन्तेभ्यस्सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टाप प्रवृत्ते । नच तत्र हलन्ताद्विहितत्वेन निर्वाहश्शङ्कय । य स क इत्यादावत्रिव्याप्तेश्च । कर्ता सखा इत्यादावव्याप्तिश्चेत्यास्ता तावत् । “दीर्घाज्जसेि च' इति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ । बहुश्रेयस्य । हे बहुश्रेयसी स् इति स्थिते न दीकार्य वक्ष्यन् नदीसज्ञामाह । यूस्त्र्याख्यौ नदी ॥ ईश्व ऊश्च यू । पूर्वसवर्णदीर्घ । दीर्घाज्जसि च ’ इति निषेधाभावश्छान्दस । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्रयाख्यौ । शब्दावित्यर्थौलभ्यते । यू इति तद्विशेषणम् । तदन्तविधि । स्त्रियामित्येव सिद्धे आख्याग्रहण नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचन छान्दसम् । तदाह । ईदू दन्तावित्यादिना ॥ यू किम् । मात्रे । “आण्नद्या ’ इति न भवति । स्त्रीलिङ्गाविति

प्रकरणम्]
१६५
बालमनोरमा ।


२६७ । अम्बार्थनद्योर्हस्वः । (७-३-१०३)

अम्बार्थाना नद्यन्ताना च ह्रस्व. स्यात्सम्बुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ।

२६८ । आण्नद्याः । (७-३-११२)

नद्यन्तात्परेषा डितामाडागम स्यात् ।

२६९ । आटश्च । (६-१-९०)

आटोऽचि परे वृद्धिरेकादेश स्यात् । बहुश्रेयस्यै । बहुश्रेयस्या बहुश्रेयस्या । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ।


किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये । ननु प्रकृते बहुश्रेयसीशब्दस्य पुलिङ्गत्वात् कथ नदीसजेत्यत आह । “प्रथमलिङ्गग्रहणञ्च' वार्तिकमेतन् । प्रथमस्य समासादिवृत्तिप्रवृत्ते पूर्व प्रवृत्तस्य स्त्रीलिङ्गस्य 'यू स्त्रयाख्यौ ? इत्यत्र ग्रहण कर्तव्य मित्यर्थ । नन्वेव सति समासादिवृत्त्यभावे गौर्यादिशब्दाना नदीत्व न स्यादित्याशङ्कय अपिशब्दमद्याहृत्य व्याचष्टे । पूर्वमित्यादिना ॥ समासादिवृत्तिप्रवृत्ते पूर्व स्त्रीलिङ्गस्य सत वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्व वक्तव्यमिति वार्तिकार्थ इति भाव । अम्बार्थनद्योर्हस्वः ॥ अम्बार्थानामिति ॥ अम्बापर्यायाणामित्यर्थ । नद्य न्तानामिति ॥ अङ्गाधिकारस्थत्वात्तदन्तविधि । तुत्यन्यायत्वादम्वार्थनामित्यत्रापि तदन्त विधिर्वोच्च । सम्बुद्धाविति सम्बुद्धे च' इत्यतस्तदनुवृत्तरिति भावअम्बागोर्या दिशब्देषु नदीत्वन्तु व्यपदेशिवद्भावेन तदन्तत्वात् ज्ञेयम् । हे बहुश्रेयसि इति ॥ हस्वे सति 'एड् हूस्वात्' इति सम्बुद्धिलोप । हूस्वे गुणस्तु न । प्रक्रियालाघवाय 'अम्बार्थनद्यो

र्ह्रस्व ' इत्यनुक्ता, अम्बार्थनद्योर्गुण, इति वाच्ये हृस्वविधिसामर्थ्यादिति स्पष्ट भाष्ये । बहुश्रे

यस्यौ । बहुश्रेयस्य 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यण् । अमि पूर्व । बहुश्रेय सीम् । बहुश्रेयस्यौ । बहुश्रेयसीन् इति ॥ पूर्वसवर्णदीर्घे सति “तस्माच्छस ' इति नत्व मिति भाव । बहुश्रेयस्या । अघित्वान्नाभावो न, किन्तु यणादेश । बहुश्रेयसीभ्याम् । बहुश्रे यसीभि । बहुश्रेसी ए इति स्थिते घित्वाभावान्न तत्कार्यम् । यणि बहुश्रेयस्ये इति प्राप्ते । आण्नद्या. ॥ अङ्गस्येत्यधिकृत पञ्चम्या विपरिणम्यते । नद्या इति पञ्चम्यन्तेन विशेष्यते । तदन्तविधि । *घेर्डिनि ' इत्यत डितीत्यनुवृत्त षष्ठया विपरिणम्यते । तदाह । नद्यन्ता दित्यादिना ॥ टित्वादाद्यवयव । बहुश्रेयसी आ ए इति स्थिते । आाटश्च ॥ “इको यणचि इत्यत अचीति ‘वृद्धिरेचि' इत्यत वृद्धिरिति चानुवर्तते । “एक पूर्वपरयो ' इति चाधि कृतम् । तदाह । आटोऽचीत्यादिना । बहुश्रेयस्यै इति । बहुश्रेयसी आ ए इति स्थिते आटश्च' इति वृद्धौ यणादेशे च रूपमिति भाव । यद्यपि *वृद्धिरेचि' इत्येव सिद्धम् । तथापि

ऐक्षत इत्याद्यर्थम् 'आटश्च' इति सूत्रम् । इहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्याः इति ॥
१६६
[इंद्न्त
सिद्धान्तकौमुदीसहिता

२७० । ङेराम्नद्याम्नीभ्यः । (७-३-११६)

नद्यन्तादाबन्तान्नीशब्दाच्च डेराम् स्यात् । इह परत्वादाटा नुट् बाध्यते। बहुश्रेयस्याम् ।शेषमीप्रत्ययान्तवातप्रमीवत् । अड्यन्तत्वान्न सु लोप । अतिलक्ष्मी ।शेष बहुश्रेयसीवत् । कुमारीमिच्छन्कुमारीवाचरन्वा ब्राह्मण कुमारी । क्यजन्तादाचारकिबन्ताद्वा कर्तरि क्विप् । * हल्ड-याप् (सू २५२) इति सुलोप ।


डसिडसोर्बहुश्रेयसी आ अस् इति स्थिते “ आटश्च' इति वृद्धौ आकारे यणि रूपमिति भाव । अत्रापि सवर्णदीर्घेण सिद्धम् । न्यायत्वात् “ आटश्च ’ इति वृद्धि।नध्यन्तात्परतवादिति ॥ श्रेयसीशब्दस्य ईकारान्तानित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयसीशब्दस्य नद्यन्तत्वादिति भाव । बहुश्रयसी इ इतेि स्थिते ' अच्च घे ' इति 'इदुद्भयाम्' इति च न भवति । अघित्वात् सवर्ण दीर्घे प्राप्ते । डेराम्नद्यास्त्रीभ्यः ॥ आङ्गत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधि अभि प्रेत्य आह । नद्यन्तादित्यादिना ॥ डेरिति सप्तम्येकवचनम् । व्याख्यानात् । नन्वामि कृते हूस्वनद्याप ' इति नुटि “यदागमा ' इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् “ आण्नद्या इति आडागमस्यादित्याशङ्कय आह । इह परत्वादिति ॥ न च कृतेऽग्याडागमे

नुट् किन्न  स्यादिति वाच्यम् । ‘विप्रतिपेधेन यद्वाधित तद्वाधितमेव' इति न्यायादिति भाव । शेष

मीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि ईवर्णान्तधातुत्वाभावेन अमि शसि डोच ‘एरनेकाच इति यण प्राप्त्यभावादिति भाव । 'लक्षेर्मुट् च' इति लक्षवातोरीप्रत्यये तस्य मुटि च लक्ष्मी शब्द । लक्ष्मीमतिक्रान्त इति विग्रहे “अत्यादय क्रान्ताद्यथे' इति समास इति भाव । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनहस्व । अङयन्तत्वादिति ॥ औणादिकप्रत्ययान्तत्वादिति भाव । शेष बहुश्रेयसीवदिति ॥ 'प्रथमलिङ्गग्रहणञ्च ' इति नदीत्वादिति भाव । अथ धातुत्वमापन्ने कुमारीशब्दे पुलिङ्गे बहुश्रेयसीशब्दाद्वैलक्षण्य दर्शयितुमाह । कुमारी मिच्छान्नित्यादिना । क्यजन्तादिति ॥ कुमारीमात्मन इच्छतीत्यर्थे 'सुप आत्मन क्यच्’ इति क्यच । कचावितौ । “सनाद्यन्ता ? इति क्यजन्तस्य धातुत्वात् तदवयवसुप अम “सुपेो धातुप्रातिपदिकयो ' इति लुक्। तत क्विप् च ’ इति कर्तरि क्विप् ।कपावितौ । इकार उच्चारणार्थ । अतो लोप , “लोपो व्यो ' इति यलोप । “वेरपृक्तस्य' इति वलोप १ कुमारी इति रूपम् । आचारक्विबन्तादिति ॥ कुमारीवाचरतीत्यर्थे 'सर्वप्राति पदिकेभ्य क्विब्वा वक्तव्य ' इति क्विप्। कपावितो । ‘वेरपृक्तस्य इतिवलोप। 'सना द्यन्ता ' इति धातुत्वान् कर्तरि क्विप् । तस्य च पूर्ववत् कृत्स्रलोप । कुमारीति रूपम् । नच क्विबर्थ प्रति कुमारशब्दस्य उपसर्जनत्वात् गोस्त्रियो ' इति ह्रस्वशङ्कय गोस्त्रियो इत्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात् । “कृत्रिमाकृत्रिमयो कृत्रिमस्यैव ग्रहणात्' । हल्ल्ड-याबिति सुलोपः इति । नच क्यजन्ते कथ सोलोप पूर्वस्माद्विधावल्लोपस्य । स्थानिवद्भावादिति वाच्यम् । 'क्वौ लुप्तन्न स्थानिवत्' इति निषेधादिति भाव । कुमारी कपावता

प्रकरणम्]
१६७
बालमनोरमा ।


२७१ । अचि श्नुधातुभूवां य्वोरियडुवडौ । (६-४-७७)

श्नुप्रत्ययान्तम्य इवणवर्णान्तस्य धातो “ भ्रृ' इत्यस्य चाङ्गस्येयडुवडौ स्तोऽजादौ प्रत्यये परे । “डिच' (सू ४३) इत्यन्तादेश । आन्तरतम्यादेरि यड् । ओरुवड् । इतीयडि प्राप्ते ।

२७२ । एरनेकाचोऽसंयोगपूर्वस्य । (६-४-८२)

धात्ववयवसयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याने काचोऽङ्गस्य यण् स्याद्जादौ प्रत्यये परे । इति यण् । कुमार्यो । कुमार्य


औ इति स्थिते 'इको यणचि' इति यणपवादमियडमाशङ्कितुमाह । अचि श्नु ॥ इश्च उश्च यू तयो य्वो इवर्णोवर्णयोरित्यर्थ । श्नुश्च धातुश्च भ्रूश्चेति द्वन्द्व । प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्त विवक्षितम् । य्वोरिति धातोरेव विशेषणम् । तदन्तविधि । श्नुभ्रूवोस्तु नित्यमुवर्णान्तत्वान्न तद्विशेषणम् । इवर्णान्तत्वन्तु असभवान्न तद्विशेषणम् । 'सम्भवव्यभि चाराम्या स्याद्विशेषणमयैवत्' इति न्यायात् । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधि । तदाह । श्नुप्रत्ययान्तस्येत्यादिना ॥ य्वो किम् । चक्रतु । अचीति किम् । आप्नुयात् । इयडुवड् इत्यनयोरनेकात्वात् सर्वा देशत्वमाशङ्कय आह । ङिञ्चेत्यन्तादेश. इति । नच 'इनुधातुभ्रूवा इवणेवर्णयो । इत्येव व्याख्यायता, डित्वञ्च न क्रियतामिति वाच्यम् । एव सति क्षिपति इत्यादावति व्याप्ते । नच अजादप्रत्यये परत इत्यनेन तन्निरास शङ्कय । अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्ग विशेषणतया एवोचितत्वादित्यलम् । आन्तरतम्यादिति ॥ तालुस्थानिकस्य स्य तादृश एव इयड् । ओष्ठस्थानिकस्य उवर्णस्य तादृश एवोवडित्यर्थ । इती यङिः प्राप्त इति । कुमारी औ इत्यादाविति शेष । एरनेकाचः ॥ 'इणो यण्' इत्यत याणित्यनुवर्तते । एरिति षष्ठयन्तम् । इवर्णस्येत्यर्थ । पूर्वसूत्रे श्नु वातुभ्रूवाम्, इति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठयन्तमनुवर्तते न तु श्नुभ्रूवावपि । तत्र इवर्णाभावात् । धातोरित्यनुवृत्तञ्चावर्तते । एकमवयवषष्ठयन्तम् । अन्यत् स्थानषष्ठयन्तम् । एरिति च धातोरिति षष्ठयन्तस्य विशेषणम् । तदन्तविधि । इवर्णान्तवातोरित्यर्थं । अवयवषष्ठयन्तकृतधातोरित्येतत् असयोगपूर्वस्येत्यत्र सयोगाशे अन्वेति । धात्ववयवसयोग पूर्वो यस्मात् स धात्ववयवसयोगपूर्वं तद्भिन्न असयोगपूर्व तस्येति इवर्णविशेषणम् । अङ्गस्येत्यधिकृत स्थानषष्ठयन्तधातुना विशेष्यते । तदन्तविधि । अनेक अच् यस्य तस्य ‘अनेकाच 'इति अङ्गान्वयि। “ अचि श्नुधातुभ्रूवाम्' इत्यतोऽचीत्यनुवर्तते। तञ्चाङ्गाक्षि प्तस्य प्रत्ययस्य विशेषणम् । तदादिविधि । तदाह । धात्ववयवेत्यादिना ॥ हरिं, हरीन् इत्यादौ यण्निवृत्त्यर्थ धातोरित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन् बाधित्वा

१६८
ईदन्त
सिद्धान्तकौमुदीसहिता


हे कुमारि । अमि शसि च कुमार्यम् । कुमार्ये । कुमार्यै । कुमार्या । कुमार्या. । कुमारीणाम् । कुमार्याम् । कुमार्यो । प्रधी । प्रध्यौ । प्रध्य । प्रध्यम् । प्रध्य । उन्नयतीत्युन्नी । धातुना सयोगस्य विशेषणादिह स्यादेव यण् । उन्नयौ । उन्नय । हे उन्नी । उन्नयम् । डेराम् उन्न-याम् । एवं ग्रामणी । “ अनेकाच ' किम् । नी । नियौ । निय । अमि शसि च


यणु स्यात् । धात्ववयवेति सयोगविशेषणस्य तु प्रयोजनम् । उन्नीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति । अनेकाचोऽसयोगादित्येव सुवचम् । य्वोरित्यनुवर्तते । धात्ववयवसयोगात् परौ न भवत यौ इवर्णोवर्णौ तदन्तस्येत्यर्थलाभ । “ ओस्सुपि' इति तु नियमार्थ । उवर्ण स्य सुप्येव यणिति । ततश्च लुलुवतुरित्यादौ त्वतिप्रसङ्गाभाव इत्यलम् । इति याणिति । कु मार्यौ, कुमार्यं , इत्यत्र 'एरनेकाच ' इति यडपवादो यणित्यर्थ । नन्वन्तर्वर्तिसुपा अमा क्य जन्तस्य कुमारीशब्दस्य पदत्वात् 'इकोऽसवर्णे' इति प्रकृतिभावस्यात् । अल्लोपस्य स्थानि वद्भावेऽपि तमाश्रित्यैव स दुर्वार इति चेन्मैवम् । “न क्ये' इति क्याचि नान्तस्यैव पदत्वनि यमात् । अमि शसि चेति । अमि पूर्वरूप शसि पूर्वसवर्णदीर्घश्च बाधित्वा इयडि प्राप्ते तदपवादे * एरनेकाच ’ इति यणि अमि कुमार्यम्, शसि कुमार्य, इति रूपम् । * तस्माच्छस इति नत्वन्तु न । कृतपूर्वसवर्णदीर्घात् परत्वाभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शमो रेव रूपविशेष इति भाव । प्रधीरिति ॥ प्रध्द्यायतीति प्रधी । ‘ध्यायतेस्सम्प्रसारणञ्च ’ इति क्विप् । यकारस्य सम्प्रसारणमिकार । 'सम्प्रसारणाञ्च' इति पूर्वरूपम् । ‘हल' इति दीर्घ । कृदन्तत्वेन प्रातिपदिकत्वात् सुबुत्पत्ति । अडयन्तत्वान्न सुलोप । अजादौ सर्वत्र “एरनेकाच इति यणेव । अस्त्रीत्वान्नदीकार्य न । हे प्रधी –प्रध्यौ-प्रध्य । प्रध्य-प्रध्य । प्रध्या । प्रध्ये । प्रध्यो । प्रध्यि । प्रकृष्टा धीर्यस्य स इति विग्रहे तु, धीशब्दस्य नित्यस्त्रीत्वात् *प्रथमलिङ्गग्रहण च' इति नदीत्वान्नदीकार्यम् । अडयन्तत्वान्न सुलोप । प्रधी । शेषमुदाहृतक्वबन्तकुमारीशब्द वत् । हे प्रधी -प्रध्यौ-प्रध्य । प्रध्यम्-प्रध्यौ-प्रध्य । प्रध्या । प्रद्धयै । प्रद्धयो । प्रधीनाम् । प्रध्याम् । उन्नीरिति ॥ 'सत्सूद्विष' इत्यादिना उत्पूर्वन्नीधातो क्विप् । सुबुत्पति । अडय न्तत्वान्न सुलोप । अजादौ तु प्रत्यये परे “एरनेकाच' इति यण् । नन्वत्र इवर्णस्य सयोग पूर्वकत्वात् कथमत्र यणित्यत आह । धातुनेति ॥ धात्ववयवसयोगपूर्वस्यैव यण् पर्युदस्यते । नचात्र सयोगो धात्ववयव इति भाव । हे उन्नीरिति ॥ अस्त्रीत्वादनदीत्वात् “अम्बार्थ इत्यादिना नदीकार्य नेति भाव । उन्न्यमिति ॥ पूर्वरूपापवादो यणिति भाव । शसादौ उन्न्य । उन्न्या । उन्न्ये। उन्न्य । उन्न्यो । डेरामिति ॥ नदीत्वाभावेऽपि “डेराम्’ इति सूत्रे नीशब्दस्य पृथक्करणादाम् । आङ्गत्वेन नीशब्दान्तादपि भवतीति भाव । एवं ग्रामणीरि ति ॥ ग्राम नयति नियच्छतीति ग्रामणी । “ अग्रग्रामाभ्या नयतेणेों वाच्य ? इति णत्वम् । अनेकाचः किमिति ॥ 'एरनेकाच ' इत्यत्रेति शेष । नीरिति ॥ नीधातो केवलात् पूर्ववत् क्विप् । अनेकाच्त्वाभावान्न यण् । किन्तु 'अचि श्नुधातु' इति इयड् । एतावदेव उन्नी

प्रकरणम्]
१६९
बालमनोरमा ।

परत्वादियड् । नियम् । निय । डेराम् । नियाम् । “ असंयोगपूर्वस्य' किम् सुश्रियौ । यवक्रियौ । “ गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४) शुद्धधियौ । परमधियौ । कथं तर्हि * दुर्धिय वृश्चिकभिय ' इत्यादि उच्यते । “दु.स्थिता धीर्येषाम्' इति विग्रहे 'दुर्' इत्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ता प्रादयस्त प्रत्येव गत्युपसर्गसज्ञा । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी वा भीर्वृश्चिकभीरित्युत्तरपदलोपो वा । शब्दादस्य वैलक्षण्यमिति भाव । सुश्रियाविति । “श्रिञ् मेवायाम्'। 'क्विब्वचि' इत्यादिना क्विप् प्रकृतेदीर्घश्च । सु श्रयतीति शोभना श्रीरस्येति वा सुश्री तत अजादिप्रत्यये यण न भवति । इवर्णस्य वात्ववयवसयोगपूर्वकत्वादिति भाव। यवक्रियाविति॥ यवान् क्रीणा तीति यवक्री । क्रीञ्धातो क्विपि रूपम् । अत्रापि धात्ववयवसयोगपूर्वकत्वान्न यणिति भाव एरनेकाच ' इतिसूत्रे ‘गतिकारकपूर्वस्यैवेष्यते’ इति वार्तिक पठितम् । तत्तात्पर्यंत सगृह्णाति गतिकारकेतरेति । यथाश्रुते तु उदाहृतविवन्तकुमारीशब्दे यण् न स्यात् । शुद्धधि याविति । शुद्धा थीर्यस्येति विग्रह । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात् तत्पूर्वकस्य न यणिति भाव । शुद्ध ब्रह्म ध्यायतीति विग्रहे तु स्यादेव यण् । शुद्धध्यौ, इत्यादि । कथं त र्हीति । यदि गतिकारकेतरपूर्वस्यैव यण् पर्युदस्यते, गतिकारकपूर्वस्य तु अवश्य यण्, तदा दुर्धिय, वृश्चिकभिय , इत्यादि कथमित्यन्वय आदिना दुवियौ, वृश्चिकभियौ, इत्यादिसङ्गह दुस्स्थिता धीर्येषामिति विग्रह । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप ' इति बहु व्रीहि । पूर्वेपदे उत्तरखण्डस्य लोपश्च । वृश्चिकात् भीरिति विग्रह अत्र दुरो गतित्वात् वृश्चि कस्यापादानत्वाच्च गतिकारकपूर्वत्वात् पर्युदासाभावे सति इयडपवादोऽत्र यण् दुर्वार इत्याक्षेप। उच्यते इति । परिहार इति शेष। गतित्वमेव नास्तीति ।। उपसर्गा क्रियायोगे गतिश्च' इति प्रादीना क्रियान्वये गत्युपसर्गसज्ञे विहिते । धीशब्दश्च बुद्धिगुणवाची न तु क्रिया वाची । अतेो न त प्रति दुरो गतित्वमिति गतिपूर्वकत्वाभावात् नात्र यण् । किन्तु इयडेवे त्यर्थ । ननु लुप्तस्य स्थिताशब्दस्य क्रियानिमित्तकत्वात् त प्रति दुरो गतित्वमस्त्येवेत्यत आह । यत्क्रियेति । यया क्रियया युक्ता प्रादय त प्रत्येव तद्वाचकशब्द प्रत्येव गत्युपसर्ग सज्ञका इत्यर्थ । नचैवमप्यत्र स्थिताशब्द लुप्त प्रति प्रवृत्त दुरो गतित्वमादाय दुर्धीशब्दस्य गतिपूर्वकत्वमस्येवेति वाच्यम्। 'यत्क्रियायुक्ता प्रादय तत्क्रियावाचक प्रत्येव गत्युपसर्गत्वम् तथाविधक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात् “यक्रियायुक्ता ’ इति च प्रत्यासतिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्यापादानत्व नेह विवक्षितमित्यन्वय । कुत इत्यत आह । बुद्धिकृतमिति ॥ आरोपितमित्यर्थ । अपादानत्व हि विश्लेषावधि


इति भ
१७०
[ईदन्त
सिद्धान्तकौमुदीसहिता


२७३ । न भूसुधियोः । (६-४-८५)

एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधिय इत्यादि । सखाय मिच्छति सखीयति । तत. क्विप् । अलोपयलोपौ । अलोपस्य स्थानिवत्वाद्यणि प्राप्ते * कौ लुप्त न स्थानिवत्' (वा ४३१) । एकदेशविकृतस्यानन्यतयानड्


त्वम् । नह्यत्र वृक्षात् पर्ण पततीत्यत्र पर्णविश्लेषे वृक्षस्येव भयविश्लेषे वृश्चिकस्य अवधित्व मस्ति । वृक्षे पर्णवत् वृश्चिके सश्लेषाभावात् । विश्लेषस्य सश्लेषपूर्वकत्वात् । उक्तञ्च भाष्ये विवक्षात कारकाणि भवन्ति ' इति । प्रकृते च वृश्चिके अपादानत्वारोपस्य वक्त्रधीनत्वात् इह च तदनारोपात् सम्बन्धमात्रविवक्षया षष्ठीमाश्रित्य वृश्चिकस्य भीरिति षष्ठीसमासे वृश्चिक भीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतरपूर्वकत्वात् नात्र यणिति भाव । नच वृश्चिका द्भीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्ते “भीत्रार्थानाम्' इति व्यर्थमिति वाच्यम् । तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापतेरित्यलम् । परिहारान्तरमाह । वृश्चिकसम्बन्धिनीति ॥ उत्तरपदेति । वृश्चिकसम्बन्धिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोप । शाकपार्थिवादित्वादित्यर्थ । सुष्ठु ध्यायतीति सु शोभना धीर्यस्येति वा विग्रहे सुधीशब्द । अत्र अजादौ परे “एरनेकाच ' इति प्राप्ते । न भूसुधियोः ॥ 'इणो यण्’ इत्यत यणिति * ओ सुपि' इत्यतस्सुपीति * इको यणचि' इत्यत अचीति चानुवर्तते । तदाह । एतयोरित्यादिना । एतयोरिति सूत्रोक्तभूसुधियो परामर्श । अचीति ॥ अजादावित्यर्थ । यणि प्रतिषिद्धे इयडमभिप्रेत्य आह । सुधियाविति ॥ आदिना अजादि सर्वसङ्गह । प्रधीवदूपाणि । इयडेव विशेष । अचीति वस्तुस्थिति । अनजादौ यण प्रसक्तव्य भावात् । सुपीति किम्। सुधीभिरुपास्य सुद्धयुपास्य । ‘इको यणचि' इति तु भवत्येव । “अनन्त रस्य” इति न्यायेन “एरनेकाच , ओ सुपि' इति च विहितयण एव प्रतिषेधात् । वस्तुतस्तु सुपीति चानुवर्तनीयम् । “एरनकाच ' इति यणो ह्यत्र न प्रसक्ति । तस्य अजादिप्रत्यये विधानात् । उपास्यशब्दस्य प्रत्ययत्वाभावात् । सुधिया उपास्य सुद्धयुपास्य, इत्यत्र तु अन्तर्व र्तिनी विभक्तिमाश्रित्य “एरनकाच ' इति यणेो “न भूसुधियो ' इति प्रतिषेधेऽपि उपास्य इत्यचमाश्रित्य ‘इको यणचि' इति भवत्येव । ‘अनन्तरस्य इति न्यायेन तस्यात्र प्रतिषेधाभावादित्य लम् । सखीयतीति ॥ ‘सुप आत्मन' इति सखीशब्दात् क्यचि कृते ‘अकृत्सार्वधातुकयो' इति दीर्घ सखीयतीति रूपम् । ततः क्विबिति ॥ तस्मात् सखीशब्दात् ‘सनाद्यन्ता' इति धातुसज्ञ कात् “क्विप्च' इतिसूत्रेण किबित्यर्थं । अल्लोपयलोपाविति ॥ “ अतो लोप ' इति यकारा दकारस्य लोप * लोपो व्यो ' इति यलोप इत्यर्थ । यलोपे कर्तव्ये अल्लोपस्तु न स्थानिवत् । ‘न पदान्त' इति यलोपे स्थानिवत्वनिषेधात् । स्थानिवत्वादिति ॥ * अच परस्मिन्’ इत्यने. नेति शेष । यणि प्राप्ते इति ॥ खकारादीकारस्य ‘इको यणचि' इत्यनेनेति शेष । नचान्तर्व र्तिविभक्तिसुपा पदान्तत्वात् ‘न पदान्त' इति निषेधश्शङ्कय । ‘न क्ये' इति क्यचि नान्तस्यैव हि पदत्वात्। क्वौ लुप्तमिति ॥ न पदान्तसूत्रे क्विलुगुपधात्वचड्परनिर्ह्रासकुत्वेषूपसङ्खयानम् ’ इति

प्रकरणम्]
१७१
बालमनोरमा ।

णित्वे । सखा । सखायौ । सखाय । हे सखी । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते । ततोऽपि परत्वात् 'सख्युरसंबुद्वौ' (सू २५३) इति प्रवर्तते । सखायम् । सखायौ । शसि यण् । सख्य । सह खेन वर्तत इति मख । तमिच्छतीति सखी । सुखमिच्छतीति सुखी । सुतमिच्छतीति सुती । सख्यौ । सुख्यौ । सुत्यौ । “ख्यत्यात्' २५५ इति दीर्घस्यापि ग्रहणादुकार सख्यु । सुख्यु । सुत्यु । लूनमिच्छतीति लूनी । क्षाममिच्छतीति क्षामी । प्रस्तीममिच्छतीति प्रस्तीमी । एषा डसिडसोर्यण । नत्वमत्वयोरसिद्धत्वात् ख्यत्यात्-' (सू २५५) इत्युक्त्वम् । लून्यु . । क्षाम्यु । प्रस्तीम्यु । वार्तिके क्विलुगित्यशस्यायमनुवाद । तत्र लुगिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे त्क्त । क्विप्प्रत्ययपरको लोप न स्थानिवदित्यर्थ । ततश्च खकारादीकारस्याच्पर कत्वाभावात् न यणिति भाव । यद्यपि “न पदान्त' इतिसूत्रे क्वौ लुप्त न स्थानिवदिति निरा कृत्य, क्वौ विधि प्रति न स्थानिवदित्येव स्वीकृतम् । तथापि गोमत्यते क्विपि गोमानिति भाष्यात् क्वौ लुप्तन्न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशखरे स्थितम् । ततश्च सखायमि च्छतीत्यर्थे सखी इति ईदन्त रूप स्थितम् । ततस्सुबुत्पत्ति । अनङ्गणित्वे इति ॥ 'अनड् सौ, सख्युरसम्बुद्धौ' इत्युभाभ्यामिति शेष । इदन्तसखिशब्दस्य विधीयमाने अनङ्कणित्वे कथ सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह । एकदेशेति । हे सखीरिति ॥ अडय न्तत्वान्न सुलोप । स्त्रीत्वाभावान्नदीत्वाभावात् नदीकार्य न भवति । यणि प्राप्ते इति ॥ 'एरने काच ' इत्यनेनेति शेष । शसि यणिति ॥ पूर्वसवर्णदीर्घपवादो यण् । कृतपूर्वसवर्णदीर्घ त्वाभावान्नत्व नेति भाव । सख्या । सख्ये । सख्यु । सख्यो । सख्यौ । सह खेनेति । खमाकाश खकारो वा । तेन सहेति तुल्ययोगे' इति बहुव्रीहि । ‘वोपसर्जनस्य’ इति सभाव । तमिच्छतीति ॥ सखमात्मन इच्छति इत्यर्थे 'सुप आत्मन ' इति क्यच् । “क्यचि च' इती त्वम् । ‘सनाद्यन्ता' इति धातुत्वात् क्विपि अल्लोपयलोपयो सखीशब्द । एव सुखीशब्द , सुती शब्दश्च । सखीरिति ॥ अडयन्तत्वान्न सुलोप । सख्यावित्यादि ॥ अजादौ “एरनेकाच इति याणिति भाव । सख्यम् । सख्य । सख्या । सख्ये । दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भाव । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम्। लूनीरिति ॥ ‘लूञ् छेदने' क्त । “ल्वाविभ्य ' इति नत्वम्। क्याच ईत्वम् । अडयन्तत्वान्न सुलोपः। ‘क्षे क्षये क्त । “ आदेच उपदेशेऽशिति ’ इत्यात्त्वम् । ‘क्षायो म' इति मत्वम्। क्यजादि पूर्ववत्। प्रस्ती मीरिति ।। ‘स्त्यै, ष्टयै, शब्दसङ्घातयेो 'क्त । ‘आदेच' इत्यात्त्वम्। ‘प्रस्त्योऽन्यतरस्याम्' इति म । स्त्य प्रपूर्वस्य' इति सम्प्रसारणम्। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । ‘हल' इति दीर्घ । क्य जादि पूर्ववत् । सखी, सुतीत्यादिवदूपाणि । ङसिङसोर्यणिति ॥ 'एरनेकाच ' इत्यनेनेति शेष । असिद्धत्वादित्यनन्तर त्यात् परत्वादिति शेष । शुष्कीयतेरिति ॥ *इक्रश्तिपौ धातुनिर्देशे, इति श्तिपा निर्देशोऽयम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्तात् शुष्कीयधातो

१७२
[ईदन्त
सिद्धान्तकौमुदीसहिता


शुष्कीयतेः क्विप् । शुष्की. । पक्वी। इयड् । शुष्कियौ । शुष्किय । डसिडसो शुष्किय., इत्यादि ।

इति ईदन्ता ।



॥ अथ उदन्तप्रकरणम् ॥


शम्भुर्हरिवत् । एवं विष्णुवायुभान्वादय. ॥

२७४ । तृज्वत्क्रोष्टुः । (७-१-९५)

क्रोष्टुस्तृजन्तेन तुल्यं वर्तते, असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्द प्रयोक्तव्य इत्यर्थः ।


क्विपि शुष्कीरिति रूपमित्यर्थ । अडयन्तत्वान्न सुलोप । शुषधातो त्क्त शुष्क । ‘शुष क’ इति कत्वम् । सखीसुतीत्यादिशब्दवत् शुष्कीशब्द । शुष्कियावित्यादि । सयोगपूर्वत्वान्न यण् । किन्तु इयडिति विशेष इति भाव । ङसिङसोः शुष्किय. इति ॥ न च कत्वस्यासिद्ध त्वात् ख्यत्यात् परत्वादुत्व शङ्कयम् । इयडादेशे सति कृतयणादेशत्वाभावात् इति भाव ॥


इति ईदन्तप्रकरणम् ।


अथ उदन्ता निरूप्यन्ते । शम्भुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ ऊकार । गुणस्तु ओकार । अव् इत्यादयोऽपि विशेषास्त्वान्तरतम्यात् सङ्गता इति भाव । “कुश आह्वाने, रोदने च' इति धातो “सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन्” इति तुन्प्रत्यये 'व्रश्च' इति शस्य षकारे ष्टुत्वेन टकारे च क्रोष्टुशब्द । कुशधातो कर्तरि तृचि तु क्रोष्टशब्द । द्वावपि सृगालवाचिनौ । तयोरविशेषेण सर्वत्र प्रयोगे प्राप्त विशेष दर्शयितुमाह । तृज्वत्क्रो ष्टुः ॥ प्रययग्रहणपरिभाषया तृच् इति तृजन्त गृह्यते । “तेन तुल्यम्' इति तृतीयान्ताद्वति । इतोऽत् सर्वनामस्थाने' इत्यतस्सर्वनामस्थाने इति “सख्युरसम्बुद्धौ' इत्यतोऽसम्बुद्धाविति चानुवर्तते । तदाह । क्रोष्टुस्तृजन्तेनेत्यादिना ॥ “कार्यरूपनिमित्तार्थशास्त्रतादात्म्य शब्दिता । व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षते ॥” इति। तत्र प्राधान्यादिह तृजन्तरूपमेव अति दिश्यते । तच्च न कर्तृ भर्तृ इत्यादितृजन्तरूपम् किन्तु क्रोष्ट इत्येव तृजन्तरूप अतिदिश्यते । । कुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्च, इत्यभिप्रेत्य फलितमाह । क्रोष्टुशब्दस्य स्थाने

इति ॥ निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रदर्शयिष्याम । क्रोष्ट स् इति स्थिते
प्रकरणम्]
२७३
बालमनोरमा ।

२७५ । ऋतो डिग्सर्वनामस्थानयो ।(७३-११०)

डौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुण स्यात् , इति प्राप्ते ।

२७६ । ऋदुशनस्पुरुदंसोऽनेहसां च । (७-१-९४)

ऋदन्तानामुशनसादीनां चानड्स्यादसम्बुद्धौ सौ परे ।

  २७७ ।अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहो

१७३ तृपोतृप्रशास्तृणाम् । (६-४-११)

अबादीनामुपधाया दीर्घ. खादसम्बुद्धौ सर्वनामस्थाने परे । नप्त्रादि ग्रहण व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नाना तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव ।


ऋतो ङि ॥ “हूस्वस्य गुण ' इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधि । तदाह । ङौ सर्वेत्यादिना ॥ ऋदुशनस् ॥ 'सख्युरसम्बुद्धौ इत्यत असम्बुद्धाविति “अनड् सौ' इत्यत अनडिति चानुवर्तते । अङ्गस्यत्यधिकृतम् ऋदा दिभिर्विशेष्यते । तदाह । ऋदन्तानामित्यादिना ॥ उशनसादिष्वपि तदन्तविधिर्बोध्य । अनडि डकार इत्, नकारादकार उच्चारणार्थ । 'डिच' इत्यन्तादेश । कोष्टन् स् इति स्थिते । अप्तृन् ॥ “नोपधाया ' इत्यत उपधाया इत्यनुवर्तते । “सर्वनामस्थाने चासम्बुद्धौ' इति चकारवर्जमनुवर्तते । तदाह । अबादीनामिति ॥ अत्र अष्टाध्याय्या तावत् ‘तृन्’ इतिसूत्रेण ण्वुल्तृचौ' इतिसूत्रेण च कर्तरि तृन्तृचौ विहितौ । तथा उणादिषु “शसिक्षदा दिभ्यस्सज्ञायाश्चानिटौ” “बहुळमन्यत्रापि” इति सूत्राभ्या तृन्नृचौ विधाय 'नप्तृ, नेष्टृ, त्वष्टृ, होतृ, पोतृ, भ्रातृ, जामातृ, पितृ, दुहितृ' इतिसूत्रेण नप्त्रादयो निपातिता । ततश्च सज्ञा शब्दा तृन्तृजन्ता औणादिका इति स्थिति । तत्र तृजन्तत्वादेव सिद्धे नप्त्रादिग्रहण व्यर्थः मित्यत आह । नप्त्रादिग्रहणमिति ॥ नियमशरीरमाह । उणादीति ॥ तेनेति ॥ औणादिकेषु नात्रादिसप्तानामेव तुन्तजन्ताना दीर्घ इति नियमेन तदितरेषा पितृभ्रात्रादीना न दीर्घ इति भाव । नच प्रशास्तृशब्द औणादिको न भवतीति भ्रमितव्यम् । तस्यापि सज्ञाशब्दस्य शसिक्षदादिगणप्रविष्टत्वेन औणादिकत्वात् । अत्र मूले व्युत्पत्तिपक्षे इत्युक्त्या अव्युत्पत्तिपक्षे नप्त्रादिसप्ताना तृन्तृजन्तत्वाभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दाना तु औणादिकानामव्युत्पन्नतया तृन्तृजन्तत्वाभावादेव न दीर्घ इति सूचितम् । नन्वेव सति उद्गातृशब्दस्यापि सज्ञाशब्दस्य शसिक्षदादित्वेन औणादिकत्वात् तस्य च नप्त्रादिसप्तस्वनन्तर्भा वात् कथ दीर्घ इत्यत आह । उद्गातृशब्दस्येति ॥ ' ण्वुलतृचौ' इतिसूत्रस्थभाष्ये तु अप्तृ इत्येवास्तु, तृन्तृचोग्रहणम्मास्त्विति प्रपञ्चितम् । तृन्निति भाष्ये तु तृन्विधौ 'ऋत्विक्षु

१७४
[ईदन्त
सिद्धान्तकौमुदीसहिता

'समथ'-(सू ६४७) सूत्रे “उद्गातार ' इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टार । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ।

२७८ । विभाषा तृतीयादिष्वचि । (७-१-९७)

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ।

२७९ । ऋत उत । (६-१-१११)

ऋदन्तान्डसिडसोरति परे उकार एकादेश. स्यात् । रपरत्वम् ।


चानुपसर्गस्य' इति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रतिहर्ता औणादिकतृजन्त एवायम् । नयतेस्तृन् वक्तव्य षुक्च । नेष्टा । त्विषेर्देवताया तृन् वक्तव्य । अकारश्चोपधाया । अनेिट्त्वञ्च । त्वष्टा । 'क्षतश्च तृन् वक्तव्य ' । क्षत्ता । इत्येव होतृ, पोत नेष्ट्र, त्वष्टृ, क्षत्तृ शब्दा तृन्नन्ता व्युत्पादिता । तन्मते तु तेषा पञ्चानामिह ग्रहण प्रप ञ्चार्थम् । नप्तृशास्तृग्रहणमेव उक्तनियमार्थमित्यन्यत्र विस्तर । क्रोष्टेति ॥ क्रोष्टन् स् इति स्थिते एकदेशविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घ । हत्डयादिना सुलोप । नलोप । यद्यपि

  • सर्वनामस्थाने च' इत्येवात्र दीर्घस्सिध्द्यति । तथापि परत्वादप्तृन्नित्येव दीर्घो न्याय्य ।

क्रोष्ठाराविति ॥ कोष्टु औ इति स्थित । तृज्वद्भावे “ ऋतो डि' इति गुणे अकारे रपरत्वे एकदेशविकृतस्यानन्यतया तृजन्तत्वाद्दीर्धे रूपम् । एव क्रोष्टार । क्रोष्टारम् । क्रोष्टारौ । हे क्रोष्टी । असबुद्धावित्यनुव्रत्तेर्न तृज्वद्भाव । शसि शभुवदूपम् । क्रोष्टूनिति ॥ 'सर्व नामस्थाने ' इत्यनुवृत्ते न तृज्वद्भाव । क्रोष्ट आ इति स्थिते । विभाषा तृतीयादिष्वचि ॥ तृज्वत्क्रोष्टुरित्यनुवर्तते । अचीति तृतीयादिविभक्तिविशेषणम् । तदादिविधि । तदाह । अजादिष्विति । क्रोष्ट्रेति ॥ तृज्वद्भावे कोष्ट आ इति स्थिते । ऋकारस्य यण् रेफ । एव क्रोष्ट्रे इति । तृज्वद्भावाभावपक्षे क्रोष्टुना । क्रोष्टवे । शम्भुवत् । “डसिडसोस्तृज्वत्वे क्रोष्टृ अस् इति स्थिते । ऋक्त उत् । 'एड पदान्तादति' “डसिडसोश्च' इत्यत अतीति डसिडसोरिति चानुवर्तते । डसिडसोरित्यवयवषष्ठी अतीत्यत्रान्वेति । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधि । तदाह । ऋदन्तादित्यादिना ।। रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भाव । उदिति तपरकरण द्विमात्रनिवृत्त्यर्थम् । “नच भाव्यमानोऽणु सवर्णान् गृह्णाति' इत्येव तन्निवृत्ति स्सिध्द्यतीति वाच्यम् । तस्यानित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वन्तु अनेनैव तपरकरणेन ज्ञाप्यते । ततश्च “यवलपरे यवला वा' इति मकारस्य अनुनासिका एव भवन्तीति “च्छ्वो ' इतिसूत्रे कैयट । यत्तु तपरत्व ‘ढ्रलोप ' इति दीर्घनिवृत्त्यर्थमिति । तन्न । “उरण्रपर ' इतिसूत्रे ‘ऊ रपर ' इति भाष्यप्रयोगविरोधात् । “सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैतोरस्यभाव्यन्त सवितू रश्मयो यथा ॥” इति रामायणप्रयोग

प्रकरणम्]
१७५
बालमनोरमा ।

२८० । रात्सस्य । (८-२-२४)

रेफात्संयोगान्तस्य सस्यैव लोप , नान्यस्य, इति रेफस्य विसर्ग । क्रोष्टु । आमि परत्वात्तृज्वद्भावे प्राप्ते “नुमचिरतृज्वद्भावेभ्यो नुट पूर्वविप्रतिषेधेन ' (वा ४३७४) । क्रोष्टृरनाम् । क्रोष्टरि । क्रोष्ट्रो. । पक्षे हलादौ च शम्भुवत् ।

      इत्युदन्ता ।

॥ अथ ऊदन्तप्रकरणम् ॥


हू'हूः । हूह्वौ । हूह्न । हूहूम्। हूह्वौ । हूहून इत्यादि । अतिचमूशब्दे तु'

विरोधाच्चेत्यलम् । क्रोष्टुर् स् इति स्थिते । रात्सस्य । “सयोगान्तस्य लोप ' इत्येव सिद्धे नियमार्थमिदमित्याह । सस्यैवेति ॥ तेन ऊर्क इत्यादौ न सयोगान्तलोप । रेफस्य विसर्गः इति ॥ 'खरवसानयो ? इति विसर्ग इत्यर्थ । परत्वादिति ॥ परत्वान्नुट वाधित्वा तृज्वत्वे कृते ततो नुटि 'नामि' इति दीर्घ णत्वे कृते क्रोष्टूणामिति स्यादित्यर्थ न च नुट् नित्य इति वाच्यम् । तृज्वत्वे कृते सन्निपातपरिभाषया नुटो दुर्लभत्वात् । नुम चिरेति ॥ अविरेत्यनुकरणम् । अचिर इति विहितो रेफो विवक्षित । प्रकृतिवदनुकरण भवतीति त्वनित्यम् । ततश्च चिरेत्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टूनामिति ॥ तृज्वत्त्व बाधित्वा नुटि कृते 'नामि' इति दीर्घ रूपम् । क्रोष्टरीति ॥ तृज्वत्वे क्रोष्टृ इ इति स्थिते 'ऋतो डेि' इति गुणे रपरत्वे रूपम् । क्रोष्टृोरिति ॥ तृज्वत्वे ऋकारस्य यण रेफ । पक्षे इति ॥ तृतीयादिष्वजादिषु तृज्वत्वाभावपक्षे इत्यर्थ । ननु 'तृज्वत्कोष्टु. स्त्रियाञ्च, विभाषा तृतीयादिष्ववि' इति त्रिसूत्री व्यर्था । सृगालवाचिनो क्रोष्टक्रोष्टुशब्दयो स्वतन्त्रयोस्सत्त्वादिति चेत् । श्रृणु । सर्वेनामस्थाने स्त्रियाश्च ऋदन्तस्यैव केोष्टुशब्दस्य प्रयोग । तृतीयादिष्वजादिषु तु उभयस्य, शसि हलादिषु, च ऋदन्तस्यैवेति नियमार्था त्रिसूत्रीति ॥

इति उदन्ता ।



अथ ऊदन्ता निरूप्यन्ते । हूहूरेिति ॥ गन्धर्वविशेषवाचि अव्युत्पन्न प्राति पदिकमेतत् । हूह्णौ । हूह्ण, इत्यादि । “दीर्घज्जसि च' इति पूर्वसवर्णदीर्घनिषेधः । ‘इको यणवि' इति यणि रूपम् । हे हूहू ।हूहूम् । हूह्णौ । हूहून् । हृूह्वा । हृूहे । हूह्णो । हो । हूह्णाम् । हूह्णि । अतिचमूशब्दे त्विति ॥ चमूमतिक्रान्त अतिचमू । ‘अत्या

१७६
[ऊदन्त
सिद्धान्तकौमुदीसहिता

नदीकार्य विशेष । हे अतिचमु । अतिचम्वै । अतिचम्वा । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । स्वलपू ।

२८१ । ओः सुपि । (६-४-८३)

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्या नेकाचोऽङ्गस्य यण् स्यादजादौ सुपि । ‘गतिकारकेतरपूर्वपदस्य यण् नेष्यते (वा ५०३४) । खलप्वौ । खलप्व , इत्यादि । एवं सुल्वाद्य । “अनेकाच किम् । ल् । लुवौ । लुव | * धात्ववयव -' इति किम् । उल्लूः । उल्ल्वौ उल्ल्व। असंयोगपूर्वस्य' किम् । कटप्रू । कटप्रवेौ । कटप्रव । { गति इत्यादि किम्। परमलुवौ । “सुपि' किम्। लुलुवतु । स्वभू । “न भूसुधियो (सू २७३) स्वभुवौ । स्वभुव । एवं स्वयम्भू ।

२८२ । वर्षाभ्वश्च । (६-४-८४))


दय क्रान्ताद्यर्थे' इति समास । स्त्रीप्रत्ययान्तत्वाभावात् 'गोस्त्रियो इति ह्रस्वो न भवति । नदीकार्यमिति ॥ ‘प्रथमलिङ्गग्रहणश्च' इति वचनादिति भाव । खलपूरिति ॥ खल पुनातीति क्विप् । खलपू औ, अम्, इति स्थिते । “ अचि श्नुधातु' इति उवडि प्राप्त । ओ. सुपि ॥ 'एरनेकाच ' इति सूत्र एरिति वर्जमनुवर्तते । * अचि श्नुधातु इत्यत अचीत्यनुवृत्तम् । तेन सुपीति विशेष्यते । तदादिविधि । “ इणो यण् ? इत्यत यणित्यनुवर्तते । तदाह । धात्ववयवेत्यादिना । गतिकारकेति ॥ इदमपि वार्तिकम् । अत्र अनुवर्तते इति भाव । खलप्वौ, खलप्वः, इति ॥ कारकपूर्वकत्वादिह यणिति भाव । हे खलपू । खलप्वम् । खलाप्वौ । खलप्व । खलत्वा । खलप्वे । खलप्व । खलप्व । खल प्वो । खलप्वि । इह अजादौ “एरनकाच ' इति यण असम्भवात् उवडि प्राप्त अनेन सूत्रेण यणि हूवपम् । उवडोऽपवाद इति फलितम् । इयडुवडौ “एरनेकाच ' इति * ओ सुपि इति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घपवादा । एव सुल्वादयः इति ॥ सुष्ठु लुनातीति सुलू । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलरित्यादिसङ्गह । कटप्रूरिति । 'प्रु गतौ' क्विब्वचि' इत्यादिना केिप् । उकारस्य दीर्घश्च । परमलुवाविति ॥ परमश्वासौ लूश्चेति विग्रह् । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति ॥ अतुसि लुल्ल् इत्यस्य अनेका च्त्वेऽपि सुप्परकत्वाभावान्न यणिति भाव । स्वभूरिति । स्वस्मात् भवतीति क्विप् । कार कपूर्वकत्वाद्यणि प्राप्त आह । न भूसुधियोरिति ॥ वर्षासु भवति वर्षाभू । वर्षर्तावुत्पन्न इत्यर्थ । वर्षाशब्दो नित्यस्त्रीलिङ्गबहुवचनान्त । “ अप्सुमनस्समासिकतावर्षाणा बहुत्वञ्च' इति लिङ्गानुशासने स्रयधिकारे सूत्रकृतोक्त्ते । वर्षाभूर्दर्दुरे पुमान्’ इति यादव । ‘न भूसुधियो इति निषेधे प्राप्ते । वर्षाभ्वश्च ॥ ‘ओः सुपि’ इत्यनुवर्तते । ‘अचि श्नुधातु' इत्यत. अचीति’च

प्रकरणम्]
१७७
बालमनोरमा ।


अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्व । दृभतीति दृम्भू. । * अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिष्ट्र ' (उ ९३) इत्युणादिसूत्रेण निपातित । दृम्भ्वौ । दृम्भव । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेष हूहूवत् । दृन' इति नान्ते हिसार्थेऽव्यये भुव क्विप् । दृन्भू । “दृन्करपुनपूर्वस्य भुवो यण् वक्तव्य (वा ४११८) दृन्भ्वम्। दृन्भ्व . इत्यादि । खलपूवत् । करभू । करभ्वम्-करभ्व' । दीर्घपाठे तु * कर ' एव *कार ' स्वार्थिक प्रज्ञाद्यण् । कारभ्वम् । कारभ्व । पुनर्भूर्यौगिक पुसि । पुनर्भ्वौ । इत्यादि । दृग्भू-काराभू' शब्दौ स्वयम्भूवत् । इत्यूदन्ता ।


इणो यण् ’ हत्यत यणिति चानुवर्तते । तदाह । अस्येति । वर्षाभूशब्दस्येत्यर्थ । दृभ तीति ॥ ‘दृभी ग्रन्थे' । तुदादि । शविकरणस्य “सार्वधातुकमपित्' इति डित्वान्न गुण । नि पातितः इति । कूप्रत्ययेो नुम् चेह निपात्यत इत्यर्थ । “नश्वापदान्तस्य’ इत्यनुस्वार , * अनु स्वारस्य ययि ' इति तस्य परसवर्णो मकार । अत्र च ऊकारो न धात्ववयव । अत उवड् ओ सुपि इति यण्च न । किन्तु ‘इको यणचि' इत्येव यण् । स च ‘अमि पूर्व ' इत्यनेन बाध्द्यते इत्याशयेन आह । दृम्भूमिति ॥ शसि ‘दीर्घाज्जसि च' इति निषेधाप्रवृत्या पूर्वसवर्णदार्घेण ‘इको यणचि' इति यण् वाध्यते इत्यभिप्रेत्य आह । दृम्भूनिति ।। दृम्भ्वा । दृम्भ्वे । दृम्भ्व । दृम्भ्व । दृम्भ्वो । दृम्भ्वाम् । इह तु “दृन्कर' इति यण् न भवति । भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्य अनर्थकत्वात् । दृन्निति नान्तमव्यय हिसाया वर्तते । तस्मिन्नुपपदे भूधातो क्विबित्यर्थ । दृन् हिंसा भवते प्राप्तोतीति विग्रह । दृन्भूरिति ॥ तरुविशेष । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकार । तस्य पदान्तत्वात् “नश्वापदान्तस्य' इति नानुखार । अत एव न परसवर्ण । ' न भूसुधियो ' इति निषेधे प्राप्ते । “इन्करपुन पूर्वस्य भुवो यण् वक्तव्य' । दृन्भ्वमिति ॥ यणा पूर्वरूप बाध्द्यत इति भाव । दृन्भ्वः इति ॥ शसि यणा पूर्वसवर्णदीर्घो बाध्द्यत इति भाव । करात् करे वा भवतीति करभू । दृन्भूवदित्यभिप्रेत्य आह्। करभ्वम्। करभ्वः, इति ॥ 'दृन्कर’ इत्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठइति मता न्तरम् । तत्राह। दीर्घेति । स्वार्थिकः इति ॥ स्वस्या प्रकृतेरर्थस्वार्थ, तत्रभव स्वार्थिक । अद्यात्मादित्वाठ्ठञ् । प्रज्ञाद्यणिति ॥ 'प्रज्ञादिभ्योऽण्' इति प्रज्ञादिभ्यस्स्वार्थे अण्विधाना दिति भाव । दीर्घपाठे करपूर्वस्य उवडेव । हूस्वपाठे करपूर्वस्य यणेवेति विवेक । पुनर्भवतीति पुनर्भू । ननु “पुनर्भूर्देिधिषूरूढा” इति कोशात् पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात् स्त्रीलिङ्गाधिकार एव तन्निरूपण युक्तमित्यत आह । पुनर्भूर्यौगिकः पुंसीतेि ॥ पुन भवतीति क्रिया निमित्तस्य पुनर्भूशब्दस्य पुलिङ्गत्वमप्यस्तीत्यर्थ । दृग्भू इति ॥ दृशो भवतीति दृग्भू । काराया भवतीति काराभू । कारा बन्धनालय । स्वयम्भूवदिति॥तत्र न भूसुधियो इति यण. प्रतिषेधात् प्रतिप्रसवाभावाच्चेति भाव ।

इत्यूदन्ता: ।

१७८
[ऋदन्त
सिद्धान्तकौमुदीसहिता


। अथ ऋद्दन्तप्रकरणम् ॥



धाता । हे धातः । धातारौ । धातार । * ऋवर्णान्नस्य णत्व वाच्यम् (वा ४९६९) । धातृणामित्यादि । एव नप्तरादय । उद्भातारौ । पिता । व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घ. । पितरौ । पितर. । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादय । ना । नरौ । नर । हे नः।


अथ ऋदन्ता निरूप्यन्ते । धातेति ॥ 'डु वाञ् धारणपोषणयो ' । तत्र तृन् तृज्वा स्याताम् । क्रोष्टुशब्दवदनड्दीर्घसुलेपनलोपा । हे धातरिति ॥ 'ऋदुशनस्' इत्य त्रासम्बुद्धावित्यनुवृत्तेर्नानड् । 'ऋतो डि’ इति गुण अकार, रपरत्व, हल्डयादिलोप, विसर्ग । अप्तृन्' इति दीर्घस्तु न । असम्बुद्धावित्यनुवृत्ते । धाताराविति । डिसर्वनामस्थानयो ‘ऋतोडि’ इति गुण अकार, रपरत्वम्, ‘अप्तृन्' इति दीर्घश्च । धातार । वातारम् । वातारौ । शसि पूर्वसवर्णदीर्घ ऋकार, नत्वम् । धातृन् । टा यण् । वात्रा । डे यण् । धात्रे । डडिसो ऋत उत्', रपरत्वम्, सलोप , विसर्ग । धातु । धातु । धात्रो । धात्रो । आमि हूस्वनद्याप ' इति नुट् । ‘नामि’ इति दीर्घ । नकारस्य रेफषकाराम्या परत्वाभावादप्राप्ते णत्वे । ऋवर्णान्नास्य णत्वं वाच्यम्। ऋवर्णात् परस्येत्यर्थ । इदन्तु वार्तिक णत्वविधायकसूत्राणा सर्वेषा शेषभूतम् । डौ 'ऋतो डि ' इति गुण अकार, रपरत्वम् । वातरि । धातृषु । नच धातृशब्दस्य हिरण्यगर्भसज्ञाशब्दत्वात् औणादिकशसिक्षदादितन्तृजन्तत्वादिह कथम् “अप्तृन् इति दीर्घ । औौणादिकतृन्तृजन्तेषु नप्तादिसप्तानामेव दीर्घ इति नियमादिति वाच्यम्। धाञ्धातो शसिक्षदादित्वकल्पनाया प्रमाणाभावेन धातशब्दस्य औणादिकत्वाभावादिति भाव । एव नप्त्रादयः, इति ॥ नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, प्रशास्तृ, शब्दा धातृशब्दवदित्यर्थ । उद्रातृशब्दस्य औणादिकतृन्तजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्रातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्त प्राक् । तदेतत् स्मारयति । उद्भाताराविति । पितेति । धातृवदनडादि । सर्वनामस्थाने तु 'ऋतो डि' इति गुण अकार, रपरत्वम् । “अप्तृन्’ इति दीर्घस्तु नेत्याह । व्युत्पत्तीति ॥ पातीति पिता । तृच्प्रत्यय, इट्, आकारलोपश्चेति व्युत्पतिबोध्द्या । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशङ्कैव नास्तीति भाव । पितरौ-पितर । पितरम्-पितरौ-पितृन्, इत्यादि धातृवत् । एवं जामातृभ्रात्रादय- इति ॥ उणादिषु ‘नप्तृ, नेष्ट, त्वष्ट, होतृ, पोतृ, भ्रातृ, जामातृ, मातृ , पितृ, दुहितृ इतिसूत्रे पितृजामातृभ्रातृशब्दा व्युत्पादिता । तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता। भ्राजेस्तृनि, तृचि, वा जलोप । भ्राता । जाया मातीति जामाता । तृन्प्रत्यय तृज्वा यालोपश्च । अनयोरप्यौणा दिकयोर्नप्त्रादिष्वनन्तर्भावात् न दीर्घ इत्यर्थ । आदिना मन्तृ, हन्तृ इत्यनयो ग्रहणम् ।

प्रकरणम्]
१७९
बालमनोरमा ।

२८३ । नृ च । (६-४-६)

नृ' इत्येतस्य नामि वा दीर्घ. स्यात् । नृणाम्-नृणाम् ।

    इत्यृदन्ता ।


॥ अथ ऋदन्तप्रकरणम् ॥



'कृ' 'तृ' अनयोरनुकरणे * प्रकृतिवदनुकरणम्-' (प ३७) इति तयोरुणादिषु “तुन्तृचौ शमिक्षदादिभ्य ' इति प्रकरणे बहुळमन्यत्रापि इत्यत्र उदाहृतत्वात् । नेति ॥ नृशब्दो मनुष्यवाची । तस्मात् सु । 'ऋदुशनस्' इत्यनङ् । “अप्तृन्' इतिसूत्रे अनन्तर्भावात् 'सर्वनामस्थाने च' इति नान्तत्वप्रयुक्तो दीर्घ । हत्डयादिलोप । नलोप । ना इति रूपम्। नरौ । नरः, इति ॥ ‘ऋतो डि’ इति गुणो रपर। अप्तृन्नाद्यनन्तर्भावात् नान्तत्वा भावाच्च न दीर्घ । हे नः इति ॥ 'ऋतेो डि इति गुणेो रपर । हल्डयादिलोपो विसर्गश्च । नरम्-नरौ । शसिपूर्वसवर्णदीर्घो ऋकार, नत्वम्, नृन । टादाववि यणि रेफ । त्रा । त्रे । डसिडसेो , ऋत उत्, रपर, सलोप, विसर्गश्च । नु । नु । त्रेो । आमि नुट् । नगमि' इति नित्य दीर्घे प्राप्ते । नृ च ॥ नृ इति लुप्तषष्ठाकम् । “नामि' इति सूत्रमनुवर्तते । ढलोपे' इत्यतो दीर्घ इत्यनुवर्तते । “छन्दम्युभयथा' इत्यत उभयथेत्यनुवर्तते । तदाह । नृ इत्येतस्येत्यादिना । नृणाम् । नृणाम्, इति ॥ ऋवर्णान्नस्य’ इति णत्वम्। डौं ‘ऋतो डि' इति गुण रपरत्वम् । नरि । त्रेो । नृषु ॥

अथ ऋदन्ता निरूप्यन्त । कृ इत्यादिना ॥ कृ, तृ इत्यनयोरनुकरणे इत्वे रप रत्वे इत्यन्वय । ‘कृ विक्षेपे ।'तृ प्लवनतरणयो ' । कृ, तृ इत्याभ्या शब्दाभ्या अनुकरणे क्रिय माणे अनुकरणभूताम्या ताभ्या धातुपाठपठितौ कृ, तृ, इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थ । अनुकार्यञ्च अनुकरणात् भिन्नमिति ‘मतौ छ' इतिसूत्रभाष्ये स्थितम् । आनुपूर्वी व्यत्ययेऽपि वाचकसादृश्यात् अर्थोपस्थापकत्वामिति कैयटे, *प्राग्दीव्यतोऽणु’ इत्यत्र भाष्ये च स्पष्टमेतत् । ततश्च अनुकार्याभ्या कृ, तृ इत्याभ्या अनुकरणभूतयो कृ, तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात् सुबुत्पत्ति । ननु अनुकरणभूतयोरनयोरनुकार्यशब्दस्वरूपवाचकत्वात् क्रिया वाचकत्वाभावेन धातुत्वाभावात् 'ऋत इद्धातो ’ इति कथमित्वम् । न च 'प्रकृतिवदनुकरण म्’ इति वचनात् अनुकरणभूतयो धातुत्वमिति वाच्यम् । एव सति अधातुरिति धातुपर्युदासात् प्रातिपदिकत्वानुपपत्तेरित्यत आह। प्रकृतिवदनुकरणमिति वैकल्पिकातिदेशादिति ॥ यत्तदेतेभ्य परिमाणे वतुप्’ इत्यत्र त्यदाद्यत्वनिर्देशात् 'त्यदादीनि सर्वैर्नित्यम्’ इत्येकशेषाकरणात्

१८०
[लद्न्त
सिद्धान्तकौमुदीसहिता


वैकल्पिकातिदेशादित्वे रपरत्वे, की । किरौ । किर. । ती । तिरौ । तिरः, इत्यादि गीर्वत् । इत्वाभावपक्षे तु * ऋदुशनस् –' (सू २७६) इति ऋतो डि– ' (सू २७५) इति च तपरकरणादनड्गुणौ न । कृ । क्रौ । क्र । कृम् । क्रौ । कृन् । क्रा । क्रे इत्यादि ।

इत्यृदन्ता



॥ अथ लृदन्तप्रकरणम् ॥



'गम्ल ' ' शक्ल' अनयोरनुकरणे अनड् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमल । गमलम् । गमलौ । गमृन् । गम्ला । गम्ले।


'ग्रेो यडि, क्षियो दीर्घत्' इत्यादौ धात्वनुकरणे विभक्तिनिर्देशाच्च, प्रकृतिवदनुकरणमिति पाक्षि कम्। ततश्चात्रातिदेशमात्रमादायधातुत्वात् ‘ऋत इद्धातो 'इतीत्वम्। अतिदेशाभावमादाय धातु त्वाभावात् प्रातिपदिकत्वात् सुबुत्पत्तिश्च न विरुद्यत इति भाव । कीरिति । कृधातुरि त्यर्थ । ऋकारस्य इत्वे रपरत्वे 'र्वोरुपधाया ' इति दीर्घ । सोर्हल्डयादिलोप, विसर्गश्च । किराविति । अपदान्तत्वात् ' र्वो ' इति न दीर्घ । तीरिति ॥ तृधातुरित्यर्थ गीर्वदिति ॥ गीर्शव्दवद्रूपाणीत्यर्थ । किरम्-किरौ-किर । किरा-कीर्भ्याम्-कीर्भि । किरे । किर । किरो । कीर्षु । भ्यामादौ “स्वादिष्वसर्वनामस्थाने' इति पदत्वात् दीर्घ । इत्त्वाभावेति ॥ प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् अनुकरणस्य धातुत्वाभावात् ‘ऋत इद्धातो ' इति इत्त्वाभावे सतीत्यर्थ । अनड्गुणौ नेति ॥ 'ऋत उत्' इत्युत्त्वमपि तपरकरणान्नेति द्रष्ट व्यम् । अत एव “ग्रो यडि' इत्यादिनिदेशास्सङ्गच्छन्ते । कृरिति । कृधातुरित्यर्थ । कौ । क, इत्यादौ यण् । इत्यादीति ॥ क्र । क्रेो । को । क्राम् । क्रि ।

इत्यृदन्ता


अथ लृदन्ता निरूप्यन्ते। गम्लृ शक्लृइति ॥ ‘गम्लृ गतौ' ‘शक्लृ शत्तौ।' अजन्तौ धातू। अनडिति ॥ 'ऋदुशनस्’ इत्यनेनेति शेष । ऋलृवर्णयोस्सावर्ण्यादिति भाव । गुणविष ये त्विति ॥ डौ सर्वनामस्थाने च 'ऋतो डेि' इति गुण अकार, लपर इत्यर्थ । “उरणूपर इत्यत्र रप्रत्याहारग्रहणादिति भाव । गमृनिति ॥ लृवर्णस्य दीर्घाभावात् ऋवर्ण एव ।

प्रकरणम्]
१८१
बालमनोरमा ।

डसिडसोस्तु * ऋत उत्' (सू २७९) इत्युक्त्त्वे लपरत्वे * सयागान्तस्य लोप (सू ५४) । गमुल् । शकुल् , इत्यादि ।

इति लदन्ता ।


॥ अथ एद्दन्तप्रकरणम् ।।



इना सह वर्तते इति से । सयौ । सय । स्मृते । स्मृतयौ । स्मृतय. ।

पूर्वसवर्णदीर्घ नत्वमिति भाव । डसिडन्सोस्त्विति ॥ गम्लृ अस् इति स्थित 'ऋत उत् लपर । गमुल्स् इति स्थिते 'सयोगान्तस्य लोप ' गमुल् इति रूपम् । इत्यादीति ॥ गम्लृभ्याम् । गम्लृभि । गम्लृभ्य । गम्लृभ्य । आमि तु गमृणाम् । गमलि । गम्लो । गम्लृषु। वस्तुतस्तु “उरणपर ' इत्यत्र अजिति वक्तव्ये अण्ण्ग्रहणसामर्थ्यात् अण् पूर्वेणैवेत्युक्त भाष्ये । यदि लृकारस्य यण् लकार स्यात्, तर्हि लपरत्वार्थ परेणाण्ग्रहण स्यावश्यकत्वात् तदसगतिस्पष्टैव । तस्मादेवञ्जातीयकाना प्रयोगो न भाष्यसम्मत इत्याहु ॥

इति लदृन्ता ।

अथ एदन्ता निरूप्यन्ते । इनेति ॥ अ विष्णु तस्यापत्यम् इ । ‘अत इञ् ।

  • यस्येति च' इत्यकारलोप । इना सहेत्यर्थे “तेन सहेति तुल्ययोगे ' इति बहुव्रीहि

वोपसर्जनस्य’ इति सत्त्वम् । ‘आद्गुण' से इति रूपम् । ततस्सु, रुत्वविसगैौ । से । एव स्मृते । स्मृत इ येनेति विग्रहे “ अनेकमन्यपदार्थे' इति बहुव्रीहि । नच एकादेशस्य पूर्वान्तत्वात् स इत्यस्य अव्ययत्वात् “अव्ययादाप्सुप.' इति लुक् शङ्कय । अव्ययमिति महासज्ञया लिङ्गाद्यनन्वितार्थस्यैव अव्ययत्वात् । अजादौ अयादेश मत्वा आह । सयौ । सयः, इति ॥ 'एड् हूस्वात्' इति सम्बुद्धिलोप । हे से । नन्वेव सति हे हरे इत्यत्र सम्बु द्धिलोपो न स्यात् । सम्बुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य सम्बुद्धिविघातक सुलोप प्रति सन्निपातपरिभाषया निमित्तत्वायोगात् । नचैवसत्येङ्ग्रहणवैयर्थे शङ्कयम् । हे से, इत्यत्र चरितार्थत्वादिति चेत् । श्रृणु । हे हरे, इत्यत्र सम्बुद्धिलोपस्य स्वोपजीव्यगुणविघातकत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य गुणस्य निर्बाधत्वात् । क्वेचित्तु गुणात् सम्बुद्धे. इत्यनुक्ता। ‘एड् हूस्वात्' इत्युक्ते सन्निपातपरिभाषा वाधित्वापि मम्बुद्धिलोप प्रवर्तत इत्याहु । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्तया से इत्यस्य पदत्वेनायादेश बाधि त्वा ‘एड पदान्तात्’ इति पूर्वरूपापतेरिति वाच्यम् 'उत्तरपदत्वे चापदादिविधौ' इति प्रति षेवात् । उत्तरपदस्य तद्धटितस्य वा पदत्व कर्तव्ये अन्तर्वर्तिविभक्त्ते प्रत्ययलक्षण नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरण वा अस्तु । तत्र जसि अया देशस्य निर्बाधत्वात् ॥

इत्येदन्ता ।
१८२
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


२८४ । गोतो णित । (७-१-९०)

गोशब्दात्पर सर्वनामस्थान णिद्वत्स्यात् । गौ । गावौ । गाव ।

२८५ । औतोऽम्शसोः । (६-१-९३)

आ ओत ' इति च्छेद । ओकारादम्शसोरचि परे आकार एकादेश स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह। अचिनवम्। असुनवम् । गाम् । गावौ । गा ! गवा । गवे । गो इत्यादि ! * ओतो णिदिति वाच्यम्' (वा

अथ ओदन्ता निरूप्यन्ते । गो स् इति स्थिते । गोतो णित् ॥ गोत इति तपरकरणम्। “इतोऽत् सर्वनामस्थाने' इत्यतस्सर्वनामस्थाने इत्यनुवृत्त प्रथमया विपरि णम्यते। तदाह । गोशब्दादित्यादिना ।। णिद्वत्यादिति । णिति परे यत कार्य तत्कार्यकारीत्यर्थ । गौरिति ॥ णिद्वत्वे 'अचो ञ्णिति' इति वृद्धि, औकार । रुत्वविसर्गाविति भाव । गावौ । गावः, इति । णिद्वत्वे वृद्धि आवादेशश्चेति भाव । हे गो । वृद्धौ एड परत्वाभावान् न सम्वुद्धिलाप । आमि गो अम् इति स्थिते णिद्वत्वात् वृद्धो प्राप्तायाम् । औतोऽम्शसोः ॥ छेदः इति ॥ आ ओत इति च्छेद, व्याख्यानादिति भावः । ओत इति तपरकरणम् । ओकारादित्यर्थ । अम् च शस् च अम्शसैौ, तयोरिति विग्रह । अवयवषष्ठयन्तमेतत् । “इको यणचि' इत्यत अचीत्यनुवर्तते । “एक पूर्वपरयो इत्यधिकृतम् । तदाह । ओकारादित्यादिना । शस् इह सुबेव गृह्यते । नतु ‘बह्वल्पा र्थात्' इति तद्धित शस् । अचीत्यनुवृत्ते । तद्धितस्य च शस अजादित्वासम्भवात् । 'लश क्वतद्धिते इत्यत्र तद्धितपर्युदासात् । ननु 'चिञ् चयने' लड् , अडागम, उत्तमपुरुषो मिप् । “तस्थस्थामपाम्' इति तस्य अमादशा । श्नुविकरण । “सार्वधातुकार्धधातुकयो इति गुण , ओकार । अचिना अम् इति स्थिते अवादेशे अविनवमिति रूपम् । तत्र अचिनो अम् इति स्थिते । अवादेश बाधित्वा “औतेोऽम्शसो ? इत्यात्वे “अचिनाम्' इति स्यादित्यत आह । शसेति ॥ गामिति ॥ परापि “अचो ञ्णिति' इति वृद्धिरिह न भवति । आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम् । नहि वृद्धिविषयादन्यत्र आत्वस्य प्रवृत्तिरस्तीति तदाशय । नच द्याशब्दादमि आत्व सावकाशम् । ‘गोतो णित्’ इति णित्वस्य तत्राभावे वृद्धे रप्रसक्तेरिति वाच्यम्। अस्मादव भाष्यात् ‘ओतो णित्' इति णित्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धि विषयत्वादिति भाव । गाः इति ॥ असर्वनामस्थानत्वान्न णिद्वत्वम् । नापि वृद्धि । “ औतोऽ


१ इद च (३६१९) वातिक्रव्याख्यायाम् “ ओता णित्’ इतिसूत्र पाठतव्यम् इति कैयटेन

सूत्रप्रतिनिधित्वनोक्तम् “ अनवकाशमात्व वृद्धिं बाधिष्यत' इति भाष्ये ध्वनितम् ।
प्रकरणम्]
१८३
बालमनोरमा ।

५०३५) । विहितविशेषण च । तेन। सुध्यौ।सुध्यावौ । सुद्याव । सुद्या मित्यादि । * ओकारान्ताद्विहित सर्वनामस्थानम् ' इति व्याख्यानान्नेह । हे भानो । हे भानव । उ शम्भु स्मृतो यन्न स्म स्मृतौ । स्मृतावौ । स्मृताव । स्मृताम् । स्मृतावौ । स्मृता इत्यादि ।

इत्योदन्ता



म्शसो ' इत्यात्वमिति भाव । टादावचि अवादेश मत्वा आह । गवा । गवे, इति । गोरि ति ॥ 'डसिडसोश्च' इति पूर्वरूपमिति भाव । इत्यादीति ॥ गवो । गवाम् । गवि इत्यादिशव्दार्थ । द्योशब्द ओकारान्तस्त्रीलिङ्ग । “सुरलोको द्योदिवो द्वे स्त्रियाम्' इत्यमर । सु शोभना द्यौ यस्येति बहुव्रीहौ पुत्लिंङ्ग । सुद्योस् इत्यादिसर्वनामस्थाने 'गोतो णित् इत्यप्राप्ते । ओतो णिदिति वाच्यम् । गोत इति गकारमपनीय 'ओतो णिन्’ इति वाच्यमित्यर्थ । तत्र प्रमाणमनुपदमवोक्तम् । नन्विद वार्तिकम् । तत्र ओति इति तपरकर णम् । ओकारात् सर्वनामस्थान णिदिति लभ्यते । विहितेति । ओकाराद्विहित सर्वनाम स्थानमित्येवमोत इत्येतद्विहितविशेषणमाश्रयणीयमित्यर्थ । तेनेति ॥ गोत इति गकारमप नीय ओत इतिवचनेनेत्यर्थ । सुद्यामित्यादीति । गोशब्दवद्रूपाणीति भाव । हे भानो इति ॥ ओकारात् पर सर्वनामस्थान णिदिति व्याख्याने तु भानुशब्दात् सम्बुद्धौ “ह्रस्वस्य गुण ' इति गुणे ओकारे सति सो ओकारात् परत्वात् णिद्वत्वे द्वै औकारे एड परत्वा भावात् सुलोपाभावे रुत्वविसर्गयो हे भानौ इति स्यात् । अतो विहितविशेषणमित्यर्थ । ननु एड्हूस्वात् सम्बुद्धे ' इत्यत्र एड्ग्रहणसामर्थ्यादेव हे भानो, इत्यत्र णित्व तत्प्रयुक्तवृद्धिश्च न भवति । अन्यथा “एद्रस्वात्' इत्येव ब्रूयात् । अतो विहितविशेषणमित्यर्थस्यास्वारस्यादित्यत आह । हे भानव. इति ॥ तत्र ‘जसि च' इति गुणे भानो अस् इति स्थिते ओत परत्वा ण्णिद्वत्वे वृद्धौ आवादेशे भानाव इति स्यात् । अतो विहितविशेषणमिति भाव । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो, हे भानव, इत्यत्र णिद्वत्वाभावोपपत्ते विहितविशेषणत्वा श्रयण व्यर्थमेव । उः शम्भुरिति । उ इत्यस्य विवरण शम्भुरिति । उ स्मृतो येनेति विग्रहे बहुव्रीहि । ‘निष्ठा' इति स्मृतशब्दस्य पूर्वनिपात । आद्गुण । स्मृतो इति रूपम् । ततस्सु बुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तु “गोतो णित्' इति सूत्रशेषतया 'द्योश्च वृद्धिर्वक्तव्या इत्येव वार्तिक भाष्ये दृश्यते । ‘औतोऽम्शसो' इत्यत्र ओते णिदिति तु न दृश्यते । अतोऽन्य दोकारान्त प्रातिपदिक नास्तीत्याहु ॥


इत्योदन्ता ।


'१८४
'
सिद्धान्तकौमुदीसहिता


॥ अथ ऐद्न्त प्रकरणम् ॥

२८६ । रायो हलि । (७-२-८५)

रैशब्दस्य आकारोऽन्तादेश स्याद्वलि विभक्तौ । रा । अच्यायादेश । रायौ । राय । रायम् । रायौ । राय । राया । राभ्यामित्यादि ।

इत्यैदन्ता ॥

॥ अथ औदन्तप्रकरणम् ।

ग्लौ । ग्लावौ । ग्लाव । ग्लावम् । ग्लावौ । ग्लाव., इत्यादि । औतोऽम्शसो' (सू २८५) इतीह न प्रवर्तते । *ऐऔच्' (प सू ४) इति सूत्रण ओदौतो सावर्ण्याभावज्ञापनात् ।

इत्यौदन्ता ॥

इत्यजन्तपुल्लिंङ्गप्रकरणम् ।


अथैदन्त. निरूप्यन्ते । रेशव्दो धनवाची । “ अर्थरैविभवा अपि ?' इत्यमर । तस्य हलादिविभक्तिषु विशेष दर्शयति । रायो हलि ॥ राय इति रैशब्दस्य षष्ठयन्तम् ।

  • अष्टन आ विभक्तौ' इत्यत आ इति विमक्ताविति चानुवर्तते । हलीत्यनेन विभक्ताविति

विशेष्यते । तदादिविधि । तदाह । रैशब्दस्येत्यादिना ॥ हल्ग्रहणादचि आत्व न, किन्तु आयादेश एवेत्यत आह । अचीति ॥ रा । आत्वे रुत्वविसर्गौ । अचि आयादेश मुदाहरति । रायौ । रायः, इति ॥ इत्यादीति ॥ राभि । राये । राभ्याम् । राभ्य । राय । राभ्याम् । राभ्य । राय । रायो । रायाम् । रायि । रायो । रासु । रैशब्दश्छान्दस इति भाष्यम् । क्यजन्त एव छान्दम् इति पक्षान्तरम् ॥

इत्यैदन्ता ।

अथ औदन्ता निरूप्यन्ते ॥ ग्लौशब्दश्चन्द्रवाची । “ग्लौमृगाङ्क कलानिधि ?’ इत्यमर । तस्य हलादौ न कश्चित्विकार । अचि तु आवादेश इति मत्वा आह । ग्लौः । ग्लावौ । ग्लावः, इति । ग्लावम्-ग्लावौ-ग्लाव । ग्लावा-ग्लौम्याम्-ग्लौभिः । ग्लावे-ग्लौभ्याम्-ग्लौभ्य । ग्लाव -ग्लौम्याम्-ग्लौम्य । ग्लाव -ग्लावो -ग्लावाम् । ग्लावि । ग्लावो । ग्लौषु । ननु “ औतोऽम्शसो ' इत्यत्र ओत्ग्रहणेन सावर्ण्यादौकारस्यापि ग्रहणात् 'अशसोग्लौशब्दस्य आत्व कुतो न स्यादित्यत आह । औतोऽम्शसोरितीह नप्रव र्तते इति ॥ ऐऔजित्यादिग्रन्थस्तु सज्ञाप्रकरणे व्याख्यात । एव जनानवतीति जनौ । क्विप् । ज्वरत्बरेत्यूठ् । एत्येधतीति वृद्धि । जनावौ । जनाव इत्यादि ।

इत्यौदन्ता

इति श्रीवासुदेवदीक्षिताविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमाया अजन्तपुल्लिंङ्गनिरूपण समाप्तम् ।


। श्रारस्तु ।

॥ अथ अजन्तस्त्रीलिङ्गे आदन्तप्रकरणम् ।।


रमा ।


२८७ । औङ आपः । (७-१-१८)

आबन्तादङ्गात्परस्यौङ शी स्यात् । औड् इत्यौकारविभक्त संज्ञा ।

२८८ । सम्बुद्दौ च । (७-३-१०६)

आप एकार स्यात्सम्बुद्वेो । * एड्हस्वात्--' (सू १९३) इति सम्वुद्धिलोप । हे रमे । हे रमे । हे रमा । रमाम् । रमे । रमा । स्त्रीत्वान्न त्वाभाव ।


अथ अजन्तस्त्रीलिङ्गा निरूप्यन्ते । रमेति ॥ रमते इति रमा । “रमु क्रीडायाम् पचाद्यचि‘अजाद्यतष्टाप्' । प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि “डयाप् प्रातिपदिकात्’ इति डयापो पृथग्ग्रहणात् , लिङ्गविशिष्टपरिभाषया वा स्वादय । 'हृत् इयाप् ' इति सुलोप । अथ रमा औ इति स्थिते। औङ आप॥ आप इति पञ्चमी प्रत्ययग्रहणपरिभाषया आवन्त विवक्षितम् । अङ्गस्येत्याधिकृत पञ्चम्या विपरिणम्यते । औड इति षष्ठी । “जसश्शी इत्यतश्शीत्यनुवर्तते । तदाह । आबन्तादित्यादिना ॥ ौड्शब्दस्याप्रसिद्धार्थत्वादाह । औङिन्तीति ॥ सज्ञेति ॥ प्राचा शास्त्रे स्थितेति शेष । रमे इति ॥ रमा औ इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रख्यत्वात् “लशकतद्धिते' इति शस्येत्सज्ञाया लोपे “ आद्गुण इति एकार । 'यस्येति च' इति लोपस्तु न । अभत्वात् । जसि सवर्णदीर्घम्मत्वा आह । रमाः इति ॥ पूर्वसवर्णदीर्घस्तु न भवति । “दीर्घाञ्जसि च' इति निषेधात् । हे रमा स् इति स्यिते । सम्बुद्धौ च ॥ 'बहुवचने झत्येत्’ इत्यत एदिति “आडि चाप ' इत्यत आप इति चानुवर्तते । तदाह । आपः इत्यादिना ॥ आबन्तस्येत्यर्थ । “ अलोऽन्यस्य' । हे रमे स् इतेि स्थिते प्रक्रिया दर्शयति । एड् ह्रस्वादिति ॥ हल्डयादिलोपस्तु न । परत्वात् प्रतिपदोक्तत्वाच एत्त्वे कृते हल्डयादिलोपस्याप्राप्तौ ‘एड् ह्रस्वात्’ इति लोपस्यैव हि परत्वेन न्याय्यत्वादिति भाव । रमामिति ॥ “अमि पूर्व ' इति पूर्वरूपम् । औडश्शी भावे आद्गुण मत्वा आह । रमे इति ॥ स्त्रीत्वादिति । शसि रमा अस् इति स्थिते 12 2