सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२)
सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२) भट्टोजीदीक्षितः १९११ |
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान । यायात् ।यायाताम् । यायास्ताम् । अयासीत् | वा १०५० गतिगन्धनयोः । गन्धनं सूचनम् | भा १०५१ दीप्तौ । ष्णा १०५२ शौचे । श्रा १०५३ पाके । द्रा १०५४ कुत्सायाम् गतौ । प्सा १०५५ भक्षणे । पा १०५६ रक्षणे । पायास्ताम् । अपासीत् । रा १०५७ दाने । ला १०५८ आदाने । 'द्वावपि दाने' इति चन्द्रः । दाप् १०५९ लवने । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् |ख्या १०६० प्रकथने । अयं सार्वधातुकमात्रविषयः । सस्थानत्वं नमः ख्यात्रे (वा १५९१) इति वार्तिकं तद्भाष्यञ्चेह लिङ्गम् । 'सस्थानो जिह्वामूलीयः । स नेति ख्याञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः ।
इति अत इति चानुवर्तते । तदाह। आादन्तादिति ॥ जुस् वेति ॥ शाकटायनग्रहणाद्विकल्पलाभ इति भावः । एवकारस्तु 'लिट् च' 'लिङाशिषि' इत्युत्तरार्थ इति भाष्ये स्पष्टम् । नच 'लोटो लङ्वत्’ इत्यतिदेशात् यान्तु इत्यत्रापि जुस्विकल्प शङ्क्यः । 'नित्य डित' इत्यतो डित इत्यनुवृत्त्यैव सिद्धेर्लड्ग्रहणस्य लड्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्टम् । अयानिति ॥ जुसभावे रूपम् । अयासीत् । ष्णाधातु षोपदेशः । नस्य ष्टुत्वे णत्वनिर्देश. । स्नाति । स्नायात्- स्नेयात् । पा रक्षणे । 'एर्लिङि' इति सूत्रे, गातिस्था इत्यत्र च पिबतेरेव
ग्रहणादेत्त्वसिज्लुकौ न । तदाह । पायास्ताम् । अपासीत् इति ॥ दाप् लवने । घुत्वाभावात् ‘शेषे विभाषा' इति णत्वविकल्पम्मत्वा आह। प्रणिदाति-प्रनिदातीति।। घुत्वाभावादाशीर्लिङि लुङिच ‘घुमास्था’ इति ईत्त्वन्नेति मत्वा आह । दायास्तामिति । अदासीदिति च। ख्या प्रकथने । अयं सार्वधातुकमात्रविषयः इति ॥ मात्रशब्दोऽवधारणे । सार्वधातुक एवास्य ख्याधातो प्रयोग न त्वार्धधातुके इत्यर्थः । कुत इत्यत आह । सस्थानत्वमिति ॥ चक्षिडः ख्याञिति सूत्रे ख्यास्थाने ‘ख्शाञ्' इति वक्तव्यम् । अस्य शकारस्य पूर्वत्रासिद्धमित्यधिकारे यकारो वक्तव्य इत्युक्त्त्वा प्रयोजन सौप्रख्ये वुञ्विधिरित्युपक्रम्य सस्थानत्वं नम ख्यात्रे इत्युक्त वार्तिके । तत्र नञमध्याहृत्य नम ख्यात्रे इति सस्थानत्व न भवतीति व्याख्यात भाष्ये । तादिद वार्तिक भाष्यञ्च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थ । तत्र सस्थानपद व्याचष्टे । सस्थानो जिह्वामूलीयः इति ॥ प्राचीनाचार्यसमयादिति भाव । स नेति ॥ सः जिह्वामूलीय नम ख्यात्रे इत्यत्र न भवतीत्येतत् स्थाञादेशस्य ख्शादित्वविधौ शस्य यत्वविधौ च प्रयोजनमित्यर्थ । ख्शादित्वे इति ॥ यत्वविधावित्यस्याप्युपलक्षणम्॥ शकारस्थानिकयत्वस्यासिद्धत्वात् ‘शर्परे विसर्जनीयः' इति विसर्जनीय इष्टस्सिध्द्यति । जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तिकहृदयम् । ख्याधातोरस्यार्धधातुकेऽपि प्रयोगसत्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाभावात् असिद्धत्वाभावात् ‘शर्परे विसर्जनीय.’ इत्यस्याप्रवृत्तौ ‘कुप्वो' इति जिह्वामूलीयो दुर्वारस्स्यात्। ततश्चार्धधातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते। ज्ञापकस्य सामान्यापेक्षत्वादिति भावः सम्पूर्वस्येति ॥'सम्पूर्वस्य ख्यातेः प्रयोगो न' इति न्यासकारः । प्रा १०६१ पूरणे । 'मा १०६२ माने । अकर्मकः। तनौ ममुस्तत्र न कैटभद्विषः' इति माघः । उपसर्गवशेनार्थान्तरे तु सकर्मकः । 'उदरं परिमाति मुष्टिना ' । 'नेर्गद-' (सू २२८५) इत्यत्र नास्य ग्रहणम् । प्रणिमाति-प्रनिमाति । वच १०६३ परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । 'बहुवचनपरः' इत्यन्ये। 'झिपरः' इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् । विद १०६४ ज्ञाने |
२४६४ । विदो लटो वा । (३-४-८३)
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः इत्यादि ।
सार्वधातुकेऽपीति भावः। अत्र व्याख्यानमेव शरणम् । एवञ्च सङ्ख्याति इत्यादि नास्तीति फलितम् । सख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम्। मा माने इति ॥ मान परिमितिरिति भाव.। तदाह । अकर्मक इति ॥ माति घृत पात्रेऽस्मिन्निति भाव । परिमितभवतीत्यर्थः । सङ्गृहीत भवतीति यावत् । अत्रार्थे शिष्टप्रयोगसवाद दर्शयति । तनौ ममुस्तत्रेति ॥ 'तनौ ममुस्तत्र न कैटभद्विषः तपोधनाभ्यागमसम्भवा मुद’ इति माघकाव्ये । तपोधनस्य नारदस्य अभ्यागमेन आगमनेन सम्भवा मुद सन्तोषाः कैटभद्विष. श्रीकृष्णस्य तनौ शरीरे न ममु. परिमिता न बभूवु आधिक्यान्न सङ्गृहीता बभूवुरिति यावत् । अर्थान्तरे त्विति ॥ परिच्छेदे त्वित्यर्थ । उदरमिति ॥ उदर परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु । इति नैषधकाव्ये । कोऽपि कुतुकी दमस्वसु दमयन्त्याः उदर मुष्टिना परिमाति किमु परिगृण्हातीत्यर्थः । नास्य ग्रहणमिति ॥ घुप्रकृतिमाडिति भाष्यादिति भाव । एवञ्च ‘शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वा आह । प्रणिमाति-प्रनिमातीति ॥ ममौ । ममिथ-ममाथ । ममिव । माता । मास्यति । मातु । अमात् । अमासीत् । अमास्यत् । वच परिभाषणे । अनिट् । अयमन्तीति ॥ लटि प्रथमपुरुषबहुवचन नास्तीत्यर्थः । बहुवचन परः इति न प्रयुज्यत इति शेष. । अस्मिन् पक्षे पुरुषत्रये बहुवचन नास्ति । झिपर इति ॥ न प्रयुज्यत इति शेष । अस्मिन् पक्षे लिङादिष्वपि बहुवचन नास्तीति भावः । तत्र लिटि अकिति लिट्यभ्यासस्य’ इति सम्प्रसारणम्। उवाच । किति तु 'वचिस्वपि' इति सम्प्रसारणम् । ऊचतुः । उवचिथ-उवक्थ । उचिव । वक्ता । वक्ष्यति । वक्तु । अवचत् । वच्यादिति ॥ विधिलिङे रूपम् । आशीर्लिङि 'वचिस्वपि’ इति सम्प्रसारण मत्वा आह । उच्यादिति । लुडि 'अस्यति वक्ति' इति च्लेरडि ‘वच उम्' इति भावः । विद ज्ञाने इति ॥ अनिट्सु
लुग्विकरणस्याग्रहणात् अय सेट्। विदो लटो वा॥ 'परस्मैपदानां णलतुस्' इत्यादिसूत्रमनुवर्तते । विद इति पञ्चमी । तदाह । वेत्तिर्लटः इति ॥ विन्दतिविद्यत्योस्तु शेन श्यना चविवेद । विविदतुः । 'उषविद-' (सू २३४१) इत्याम्पक्षे 'विद' इत्यकारान्तनिपातनान्न लघूपधगुणः । विदाञ्चकार । वेदिता ।
२४६५ । विदांकुर्वन्त्वित्यन्यतरस्याम् । (३-१-४१)
वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते । इतिशब्दात् ।
२४६६ । तनादिकृञ्भ्य उः । (३-१-७९)
तनादेः कृञश्च 'उ' प्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेव सिद्धे कृञ्ग्रहणं 'गणकार्यस्यानित्यत्वे' लिङ्गम् । तेन 'न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम् । विदाङ्करोतु ।
व्यवधानात् नैते आदेशा । इत्यादीति ॥ । विदन्ति । वेत्सि । वित्थ । वित्थ । वेद्मि । विद्व । विद्म । विविदतुरिति ॥ विविदु । विवेदिथ । विविदथुः । विविद । विवेद । विविदिव । विविदिम । आम् पक्षे इति ॥ न लघूपधगुण इत्यन्वयः ।कुत इत्यत आह । अकारान्तनिपातनादिति ॥ ‘उंषविद’ इति सूत्रे विदेत्यकारान्तत्व आम्सन्नियोगेन निपात्यत इत्यर्थ. ।आमि अतो लोपः । तस्य स्थानिवत्त्वात् न लघूपधगुण इति भाव. । वेदितेति ॥ वेदिष्यतीत्यपि ज्ञेयम् । विदांकुर्वन्त्वित्यन्यतरस्याम् ॥ 'कृञ् चानुप्रयुज्यते लिटि' इत्युत्तररामदं सूत्रम् । इतिशब्द प्रकारे । एवञ्जातीयक वैकल्प्येन प्रत्येतव्यमित्यर्थः । वेत्तेरिति ॥ लुग्विकरणात् विदधातो लोटि परे आम्प्रत्ययो निपात्यत इत्यर्थः । लोडन्तेति ॥ आमन्ताद्विदेः लोडन्तकृञ्धातो अनुप्रयोगश्च निपात्यत इत्यर्थ । ननु 'विदाङ्कुर्वन्तु' इति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात् कथ लोडन्तसामान्यानुप्रयोग इत्याह । पुरुषेति ॥ कुर्वन्त्विति प्रथमपुरुषो बहुवचनञ्च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भाव. । इतिशब्दादिति ॥ तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः ।
तनादिकृञ्भ्य उः । शपोऽपवादः इति ॥ अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् । 'सार्वधातुके यक्’ इत्यत. सार्वधातुकग्रहणस्य 'कर्तरि शप्’ इत्यतः कर्तरीत्यस्य चानुवृत्तेरिति भाव. । तेनेति ॥ गणकार्यस्यानित्यतया 'श्वसेत्’ इत्यत्र अदादिगणकार्य शपो लुङ्न भवतीत्यर्थ । वस्तुतस्तु कृञ्ग्रसणस्यात्र भाष्ये प्रत्याख्यातत्वात् उक्तज्ञापनाभावात् विश्वसेदित्यसिद्धमेवेत्याहुः । विश्वस्तमित्यत्र तु आगमशास्त्रस्यानित्यत्वात् नेडित्याहुः । विदाङ्करोत्विति ॥ अत्र विदेर्लोटि आमि लोटो लुकि आमन्ताद्विदे कृञो लोडन्तस्यानुप्रयोगः । तत्र लोटस्तिपि 'एरु.' इत्युत्वे शपम्बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातडि तु ऋकारस्य गुणे रपरे तातडो डित्त्वात् उकारस्य गुणाभावे विदाङ्कुरुतात्२४६७ । अत उत्सार्वधातुके । (६-४-११०)
उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्डिति । उदिति तपरसामथ्यन्न गुणः । विदांकुरुतात् । विदांकुरुताम् । 'उतश्च–' (सू २३३४) इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादुत्वम् । विदांकुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अविदुः ।
२४६८ । दश्च । ८-२-७५)
धातोर्दान्तस्य पदस्य सिपि परे रुः स्याद्वा । अवे:-अवेव् । अस १०६५ भुवि । अस्ति |
२४६९ । श्नसोरल्लोपः । (६-४-१११)
श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः | सन्ति | ' तासस्त्योः -' (सू २१९१) इति सलोपः । असि । स्थ: । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके' (सू २४३२) इत्यधिकृत्य ।
इति स्थिते । अत उत् । उप्रत्ययान्तस्येति ॥ 'उतश्च ग्रत्ययात्' इत्यत. तदनुवृत्तेरिति भावः । कृञोऽकारस्य उदिति ॥ 'नित्य करोते' इत्यतः तदनुवृत्तेरिति भावः । क्ङितीति ॥ 'गमहन' इत्यत तदनुवृत्तेरिति भाव । अकारस्य उत्वे कृते तस्य लघूपधगुणमाशङ्क्य आह । तपरेति ॥ । इद स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदांकुरुतामिति ॥ विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् । ‘न भकुर्छुराम्’ इति निषेधात् ‘हलि च' इति दीर्घो न । हेर्लुगिति ॥ विदाङ्कुरु हि इति स्थिते ‘अत उत्सार्वधातुके' इत्युत्त्वम्परमपि वाधित्वा नित्यत्वात् ‘उतश्च प्रत्ययात्’ इति हेर्लुगित्यर्थ । तर्हि सार्वधातुकाभावात् कथमुत्त्वमित्यत आह । आभीयत्वेनेति ॥ विदांकुर्विx ॥ विदाङ्कुरुतात् । वेदाङ्कुरुतम् । विदाङ्कुरुत । विदाङ्करवाणीति । आट पित्त्वेन डित्त्वाभावादुकारस्य गुण इति भाव. । विदाङ्करवाव । विदाङ्करवाम । लड्याह । अवेदिति ॥ हल्ड्यादिना सिपो लोपे विशेषमाह । दश्च ॥ 'सिपि धातोरुर्वा' इत्यनुवृत्तम् । द इति षष्ठ्यन्तेन धातुर्विशेष्यते । तदन्तविधि । पदस्येत्यधिकृतम् । तदाह । धातोर्दान्तस्य पदस्येति ॥ अलोऽन्यस्येत्यन्त्यस्य ज्ञेयम् । अवेदिति । सिपो हल्ड्यादिलोपे दकारस्य
रुत्वविकल्प । अवित्तम् । अवित्त । अवेदम् । अविद्व । अविद्म । विद्यात् । विद्याताम् । विद्यात् । विद्यास्ताम् । अवेदीत् । अवेदिष्यत् । असभुवीति ॥ भवन भूः । सत्तायामित्यर्थ | अस्तीति ॥ सस्य चर्त्वेऽपि सकार एव भवति नतु तकार, अल्पप्राणतया प्रयत्नभेदात् । श्नसोरल्लोपः ॥ अत् इति लुप्तषष्ठीकम्पदम् । श्न अस् अनयोर्द्वन्द्वात्षष्ठीद्विवचनम् । शकन्ध्वादित्वात् पररूपम् । श्नेति श्नम्प्रत्ययैकदेशनिर्देशः । 'अत उत्सार्वधातुके ' इत्यतः सार्वधातुके इत्यनुवर्तते, 'गमहन' इत्यत क्डितीति । तदाह । श्नस्येत्यादिना । अस्तेर्भूः ॥ अस२४७० । अस्तेर्भूः । (२-४-५२)
बभूव | भविता । अस्तु । स्तात् । स्ताम् । सन्तु |
२४७१ । घ्वसोरेद्ध्वाभ्यासलोपश्च । (६-४-११९)
घोरस्तेश्चैत्त्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्त्वस्यासिद्धत्वाद्धेर्धिः । 'श्नसोः –' (सू २४६९) इत्यल्लोपः । एधि । तातङ्पक्षे एत्त्वं न । परेण तातङा बाधात् । 'सकृद्गतौ–' (प ४१) इति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । 'अस्तिसिचः-' (सू २२२५) इतीट् । आसीत् । 'श्नसोर–' (सू २४६९) ल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेपणादीण्न |
२४७२ । उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । (८-३-८७)
धातोर्भूभावः स्यात् आर्धधातुके परे इत्यर्थः । अस् हि इति स्थिते । घ्वसोरेद्धावभ्यासलोपश्च ॥ घु अस् अनयोर्द्वन्द्वः । एत् हौ इति च्छेद. । ननु अस् हि इति स्थिते 'हुझल्भ्योहेर्धिः' इति धित्वम्परत्वात् बाधित्वा ‘घ्वसो’ इति सकारस्य एत्त्वे कृते हुझल्भ्य. परत्वाभावात् कथन्धिभाव इत्यत आह । आभीयत्वेनेति ॥ तथाच अ एधीति स्थिते आह । श्नसोरिति ॥ नन्वाशिषि अस् हि इति स्थिते तातडं बाधित्वा परत्वादेत्त्वम्प्राप्नोतीत्यत आह । तातङ्पक्षे एत्त्वन्नेति ॥ कुत इत्यत आह । परेणेति ॥ ननु कृते तातडि तस्य स्थानिवत्त्वेन हित्वात्तस्मिन्परे ‘घ्वसो’ इत्येत्त्वङ्कुतो नेत्यत आह । सकृद्गताविति ॥ सकृत् एकवारं गतौ प्रवृत्तौ विप्रतिषेधे विरोधे सति यद्बाधितन्तद्बाधितमेव भवति, नतु पुनः प्रवर्तते इति तदर्थः । लडस्तिपि विशेषमाह । अस्तिसिचः इति ॥ इकारलोपे आटि वृद्धौ अस्तिसिचः इति ईडागम इत्यर्थे । ननु तसादौ डिति परत्वादाडागमात्प्राक् ‘श्नसो.' इत्यल्लोपे सति अजादित्वाभावात् कथमाडित्यत आह । श्नसोरल्लोपस्याभीयत्वेनेति । आस्तामिति ॥ अत्र कृते आडागमे तस्य लोपनिवृत्त्यर्थ ‘श्नसोरल्लोप' इति तपरकरणम् । वस्तुतस्तु आट आभीयत्वेनासिद्धत्वादेव लोपो न भवतीति ‘श्नसोरल्लोप’ इत्यत्र तपरकरण व्यर्थमिति भाष्ये स्पष्टम्। आसन्निति ॥ आसीः । आस्तम् । आस्त । आसम् । आस्व । अस्म । विधिलिङ्याह । स्यादिति ॥ स्याताम् । स्युरित्यादि । आशीर्लिङि आर्धधातुकत्वात् भूभावम्मत्वा आह । भूयादिति ॥ लुङि तु सिचि भूभावे 'गातिस्था' इति सिचो लुकम्मत्वा आह । अभूदिति ॥ तत्र 'अस्तिसिचोऽपृक्ते' इति ईडागममाशङ्क्य आह । सिचोऽस्तेश्चेति ॥ इह भूभावे सति अस्तेरश्रूयमाणत्वात् ईण्नेति भावः । उपसर्गप्रादुर्भ्याम् ॥ उपसर्ग. प्रादुस् अनयोर्द्धन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण सम्बध्द्यते न तु प्रादुसि। ततः परस्य अस्तेः
उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य पः स्याद्यकारेऽच च परे । निष्यात्। प्रादुःष्यात् । निषन्ति । प्रादुःषन्ति । 'यच्परः’ किम् । अभिस्तः । मृजूष् १०६६ शुद्धौ ।
२४७३ । मृजेर्वृद्धिः । (७-२-११४)
मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । । क्ङित्यजादौ वेष्यते*–' (वा ५०५७) । ‘व्रश्च–' (सू २९४) इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति ।
सस्यं इणः परत्वासम्भवात् । कोरित्यपि असम्भवान्न सम्बध्द्यते । अस्तिरिति पष्ठ्यर्थे प्रथमा । 'सहेस्साढस्सः' इत्यत. स इति षष्ठ्यन्तमनुवर्तते, मूर्द्धन्य इत्यधिकृतम् | य् अच् अनयोर्द्वन्द्वः । यचौ परौ यस्मादिति विग्रह. । यकारे अकारे च परे इति लभ्यते । तदाह । उपसर्गेणः इति ॥ । उपसर्गस्थादिण इत्यर्थ. । परस्येति ॥ । अस्तेः सस्य विशेषणमिदम् । न त्वस्तेः । तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति । निष्यात्-प्रादुःष्यादिति ॥ प्रादुस् इति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन प । षान्तत्वे तु प्रादुर्भ्यामिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वे उदाहरति । निषन्ति । प्रादुःषन्तीति । मृजूष् शुद्धाविति ॥ ऊदित्त्वमिङ्विकल्पार्थम् । 'पिद्भिदादिभ्योऽड्’ इत्यडर्थ पित्त्वम्। वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करणमनार्पमित्याहु । मृजेर्वृद्धिः ॥ 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितम् । मृजेरित्यवथxपष्ठी । तदाह । मृजेरिको वृद्धिः स्यादिति ॥ 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति परिभाषामभिप्रेत्य आह । धातुप्रत्यये परे इति ॥ धातोर्विहिते प्रत्यये इत्यर्थ. । तेन परिभृङ्भ्यामित्यत्र न वृद्धिरिति भाव . । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते इति ॥ मृजेर्वृद्धिरिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदम्पठितम् । व्रश्चेति षः इति ॥ मृज् ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्टः इति ॥ डित्त्वान्न वृद्धिः नापि गुण इति भाव । मृजन्ति-मार्जन्ति इति ॥ क्डित्यजादाविति वृद्धिविकल्प इति भाव । मार्क्षि । मृष्ठ. । मृष्ठ । मार्ज्मि । मृज्व । ममार्जेति ॥ णलि मृजेर्वृद्धिरिति भावः । अतुसादावजादौ किति वृद्धिविकल्प मत्वा आह । ममार्जतुः-ममृजतुरिति ॥ ममार्जुः-ममृजुः इत्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्प मृजेर्वृद्धिञ्च मत्वा आह । ममार्जिथ-ममार्ष्ठेति ॥ इडभावे जस्य व्रश्चेति पः । यस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः—ममृजथु. । ममार्ज-ममृज । ममार्जिव-ममृजिव-ममृज्व । ममार्जिम-ममृजिम-ममृज्म । लुट्याह । मार्जिता-मार्ष्टेति ॥ ऊदि -
- अत्र 'इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते । तदिहापि साध्यम्' इति 'इको गुण'-इति सूत्रस्थ भाष्यं मानम् । प्रकरणम्]२०९बालमनोरमा ।
ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ -ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि। अमार्ट् । अमार्जम् । अमार्जीत्-अमार्क्षीत् । रुदिर् १०६७ अश्रुविमोचने ।
२४७४ । रुदादिभ्यः सार्वधातुके । (७-२-७६)
'रुद् ’ 'स्वप् ' 'श्वस्' 'अन्’ 'जक्ष्' एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ।
२४७५ । रुदुश्च पञ्चभ्यः । (७-३-९८)
हलादेः पित: सार्वधातुकस्यापृक्तस्य ईट् स्यात् ।
२४७६ । अङ्गार्ग्यगालवयोः । (७-३-९९)
अरोदीत्-अरोदत् । अरुदिताम् । अरुदन् । अरोदीः-अरोदः । अरोदम् । प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् ।
दिटि तदभावे च 'मृजेवृद्धिः' इति भाव । मार्जिष्यति । मार्क्ष्यति । मार्ष्टु-मृष्टात् । मृष्टाम् । मार्जन्तु—मृजन्तु । मृड्ढीति ॥ हेरपित्त्वेन डित्त्वान्न वृद्धिः । व्रश्चादिना जस्य षः । हेर्धि. षस्य जश्त्वेन ड. धस्य ष्टुत्वेन ढः । मृष्टात् । मृष्टम् । मृष्ट । मार्जानि । मार्जाव । मार्जाम । लड्याह । अमार्ट् इति ॥ तिप इकारलोपे वृद्धौ रपरत्वे हल्ड्यादिना तकारलोपे व्रश्चादिना जस्य षः तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाम् । अमार्जन्-अमृजन् । अमार्ट् । अमृष्टम् । अमृष्ट । अमार्जमिति ॥ अमृज्व । अमृज्म । मृज्यात् । मृज्याताम् । मृज्यास्ताम्।
अमार्जीत्-अमार्क्षीदिति ॥ ऊदित्त्वादिङ्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाम् । अमार्जिषुरित्यादि सुगमम् । इडभावे अमार्ष्टाम् । अमार्क्षु । अमार्क्षीः । अमार्ष्टम् । अमार्ष्ट । अमार्क्षम् । अमार्क्ष्व । अमार्क्ष्म | अमार्जिष्यत् । अमार्क्ष्यत् । रुदिर्धातुरिरित् सेट् । रुदादिभ्यः ॥ इड्वलादेरित्यनुवृत्तिम्मत्वा आह । वलादेरिति । रुदितः इति ॥ डित्वान्न गुणः । रुदन्ति । रोदिषि । रुदिथः । रुदिथ । रोदिमि । रुदिवः । रुदिमः । रुरोद । रुरुदतुः । रुरोदिथ । रुरुदिव । रुरुदिम। रोदिता । रोदिष्यति । रोदितु। रुदितात्-रुदिताम् । रुदन्तु । रुदिहि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशङ्कय आह । हौ परत्वादिति। रुदिहीति ॥ हेरपित्त्वेन डित्त्वान्न लघूपधगुण इति भाव.। रुदितात् । रुदितम् । रुदित । रोदानि । रोदाव । रोदाम । रुदश्च पञ्चभ्य ॥ 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः' इत्यतो हलीति 'गुणोऽपृक्त्ते' इत्यत. अपृक्ते इति 'बुव ईट्' इत्यत ईडिति चानुवर्त्तते । रुद इति पञ्चमी । रुदादिभ्य इति विवक्षित इत्यभिप्रेत्य सूत्रशेष पूरयति । हलादेरित्यादिना । अङ्गार्ग्यगालवयोः ॥ अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अडागमः स्यादिति स्पष्टोऽर्थ । अरोदीरिति ॥ अरुदितम् । अरुदित इत्यपि ज्ञेयम् । अरोदमिति ॥ अरुदिव । अरुदिम इत्यपि ज्ञेयम् । ननु लिडस्तिपि
अरुदत्-अरोदीत् । ञि ष्वप् १०६८ शये । स्वपिति । स्वपितः । सुष्वाप | सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ |
२४७७ । सुविनिर्दुर्भ्यः सुपिसूतिसमाः । (८-३-८८)
एभ्यः सुप्यादेः सस्य षः स्यात् । 'षूर्वं धातुरुपसर्गेण युज्यते' ।
यासुटम्बाधित्वा परत्वात् 'अङ्गार्ग्यगालवयो ’ इति 'रुदश्च पञ्चभ्यः ’ इति च अडीटौ स्यातामित्यत आह । प्रकृतिप्रत्ययेति ॥ हलादिपित्सार्वधातुकापृक्तापेक्षत्वाच्चेत्यपि ज्ञेयम् । लुडि 'इरितो वा' इत्यड्पक्षे आह । अरुददिति ॥ अडभावपक्षे त्वाह । अरोदीदिति ॥ 'अस्ति सिचः' इति ईट् 'रुदश्च पञ्चभ्यः' इति तु नेह प्रवर्तते । सिचा व्यवहितत्वात् । ञि ष्वप् शये इति ॥ षोपदेशोऽयम् । आर्धधातुके अनिट् । स्वपितीति ॥ ‘रुदादिभ्य' इति इट् । स्वपितः इति ॥ स्वपन्ति । स्वपिषि । स्वपिथः । स्वपिथ । स्वपिमि । स्वपिवः । स्वपिमः । सुष्वापेति ॥ द्वित्वे 'लिट्यभ्यासस्य’ इति सम्प्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वामिति भावः । सुषुपतुरिति ॥ 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वादीति भाव. । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ-सुष्वप्थेति ॥ भारद्वाजनियमात्थलि वेडिति भाव. । सुषुपथुः । सुषुप । सुष्वाप-सुष्वप । सुषुपिव । सुषुपिम । सुविनिर्दुर्भ्यः ॥ कृतसम्प्रसारणस्य स्वप्धाताः स्वपीत्यनेन ग्रहणम्। सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्यते | समत्यनेनापि समशब्दस्य ग्रहणम् । षष्ठ्यर्थे प्रथमा । 'सहेस्साढस्स' इत्यतः स. इति षष्ठ्यन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् । तदाह । एभ्यः सुप्यादेरिति ॥ सुषुप्तिः, सुषूतिः, सुषुम, इत्युदाहरणानि । अत्र कृतसम्प्रसारणस्य स्वप्धातोर्ग्रहणात् सुस्वप्न इत्यत्र न षत्वमिति भाष्यम् । नन्वेव सति सु षुषुपतुरित्यत्र सुपूर्वस्य स्वप्धातोः कथ षत्वम् । कृतसम्प्रसारणस्य हि स्वप्धातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्व द्वित्वे कृते पश्चात् 'वचिस्वपि' इति सम्प्रसारणं तदा हलादिशेषे उत्तरखण्डस्यैव 'वचिस्वपि' इति सम्प्रसारण न त्वभ्यासस्य । अतुस: कितः उत्तरखण्डव्यवहितत्वात्, 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधाच्च । ततश्च सु सस्वप् अतुसित्यत्र पूर्वखण्डस्य कृतसम्प्रसारणत्वाभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाभावात्कथमनेन षत्वम् । इण्कवर्गाभ्याम्परत्वाभावेन आदेशप्रत्यययोः इत्यस्याप्युत्तरखण्डे अप्रवृत्तेः । यदि तु परत्वात्पूर्वं सम्प्रसारणे कृते पश्चात् द्वित्व तर्हि सुप् इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते । ‘पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इति परिभाषया सु इत्युपसर्गसम्बन्धस्य द्वित्वात्प्रागप्रवृत्ते । तथाच कृतसम्प्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैव 'आदेशप्रत्यययोः' इति षत्व स्यात् । न तु पूर्वखण्डस्य 'सात्पदाद्योः' इति निषेधात् । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्रूपत्वाभावेन 'सुविनिर्दुर्भ्यः' इत्यस्याप्यप्रवृत्तेः ।
नच एकदेशविकृतविकृतस्यानन्यत्व शङ्क्यम् । एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहणपरिभाषया षत्वस्य तत्राप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्य आह । पूर्वं धातुरित्यादिना ॥ लक्ष्यानुरोधादिह 'पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्याश्री
किति लिटि परत्वात्सम्प्रसारणे षत्वे च कृते द्वित्वम् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) । सुषुषुपतु:| सुषुषुपुः | पिति तु द्वित्वेऽभ्यासस्य सम्प्रसारणम् । षत्वस्यासिद्धत्वात्ततः पूर्वं 'हलादिः शेषः' (सू २१७९) । नित्यवाच्च । ततः सुपिरूपाभावान्न षः | सुसुष्वाप । सुस्वप्ता । अस्वपीत्-अस्वपत् |वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् । श्वस १०६९ प्राणने । श्वसिति | श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् | 'ह्म्यन्तक्षण' (सू २२९९) इति न वृद्धिः । अश्वसीत् । अन १०७० च । अनिति । आन | अनिता | आनीत्-आनत् |
२४७८ । अनितेः । (८-४-१९)
यते ततश्च द्वित्वात्प्रागेव परत्वात्सम्प्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुन. प्रसङ्गविज्ञानात् षुप् इत्यस्य कृतषत्वस्य द्वित्वे सति खण्डद्वयेऽपि षकारश्रवणं निर्बाधमित्यर्थः । तदुक्तम्भाष्ये “षुपि भूते द्विरुच्यते ” इति । ननु कृतषत्वस्य कथं द्वित्वं द्वित्वे कर्तव्ये षत्वस्यासिद्धत्वादित्यत आह पूर्वत्रासिद्धीयमिति ॥ ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे षत्व श्रूयेतेत्यत आह । पिति त्विति ॥ पिति णलि कित्त्वाभावात् 'वचिस्वपि' इत्यस्याप्रवृत्तौ कृते द्वित्वे ‘लिट्यभ्यासस्य’ इति पूर्वखण्डस्य सम्प्रसारणम् । सु सुप् स्वप अ इति स्थिते 'सुविनिर्दुर्भ्य' इति षत्वस्यासिद्धत्वात् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति ॥ कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भाव: | ततः इति ॥ हलादिशेषोत्तर सु इत्यस्यैव स्थित्या सुप् इति रूपस्याभावन्न ष इत्यर्थ | एकादेशविकृतत्वादनन्यत्वेऽपि अभ्यासस्यार्थवत्त्वाभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु-स्वपितात् । स्वपिताम् | स्वपन्तु । स्वपिहि-स्वपितात् । स्वपितम् । स्वपित । स्वपानि । स्वपाव । स्वपाम । लड्याह | अस्वपीत्-अस्वपदिति ॥ 'रुदश्च पञ्चभ्यः' इति ईटि 'अड् गाग्र्यगालवयोः' इत्यटि च रूपे । अन्यानि रुदिवद्रूपाणि । लिड्याह । सुप्यादिति ॥ 'वचिस्वपि' इति सम्प्रसारणमिति भावः ‘सुविनिर्दुभ्य.’ इति षत्वम्मत्वा आह । सुषुप्यादिति । अस्वाप्सीदिति ॥ अनिट्कत्वान्न सिज्लोप इति भावः । श्वस प्राणने इति ॥ वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ- 'रुदादिभ्यः' इति इट् । लडस्तिपि 'रुदश्च' इति ईटं अड् गाग्र्येत्यटश्च मत्वा आह |अश्वसीत्-अश्वसदिति ॥ विध्द्याशीलिङोः श्वस्यादिति सिद्धवत्कृत्य आह |श्वस्याताम् । श्वस्यास्तामिति । अन चेति ॥ अनधातुरपि प्राणने वर्तते इत्यर्थः | सेडयम् । सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति xट् । लडि ईडटौ मत्वा आह । आनीत् आनदिति । अनितेः ॥ 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गदसमासेऽपि' इत्यतः उप
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयो: । जक्षिति । जक्षितः ।
२४७९ । अदभ्यस्तात् । (७-१-४)
झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अजक्षुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुद्रादयः पञ्च गताः |
जागृ १०७२ निद्राक्षये। जागर्ति । जागृत: । जाग्रति । 'उषविद--' (सू २३४१) इत्याम्वा । जागराञ्चकार-जजागार ।
२४८० । जाग्रोऽविचिण्णल्ङित्सु । (७-३-८५)
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ।
सर्गादिति । तदाह । उपसर्गस्थादिति ॥ भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातु रोट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्य.' इति सेट् । अदभ्यस्तात् ॥ झस्येति ॥ झोऽन्त इत्यतस्तदनुवृत्तेरिति भाव । जक्षतीति ॥ 'जक्षित्यादय षट्' इत्यभ्यस्तसज्ञेतेि भावः । लडस्तिपि ईडटो. अजक्षीत्, अजक्षत् इति सिद्धवत्कृत्य आह । सिजभ्यस्तेति ॥ अदादेशापवादो जुस् । अन्तस्स्थादिरिति ॥ तालव्योप्मादिरित्यर्थः । बभ्रामेति ॥ जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृधातु ऋकारान्त. सेट् । जागर्तीति ॥ तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जाग्रतः इति ॥ डित्त्वान्न गुणः । जाग्रतीति ॥ 'जक्षित्यादयः षट्' इत्यभ्यस्तसज्ञायाम् 'अदभ्यस्तात्' इति झेरदादेश. । डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि । जागृथ. । जागृथ । जागर्मि । जागृवः । जागृमः । लिटि 'कास्यनेकाव्' इति नित्यमामि प्राप्ते आह । उषविदेत्याम् वेति । जागरामिति ॥ आमि ऋकारस्य गुणो रपरत्वञ्चेति भाव । आमभावे आह । जजागारेति ॥ अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते । जाग्रोऽवि ॥ जाग्र इति षष्ठी । मिदेर्गुण. इत्यतः गुण इत्यनुवर्तते । तदाह ।
जागर्तेर्गुणः स्यादिति ॥ । अविचिण्णलडित्स्विति च्छेदः । वि चिण् णल् डित् एषां द्वन्द्वे नञ्समासः । तदाह । विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति ॥ चिण्णल्पर्युदासात् वृद्धिविषयेऽप्यस्य प्रवृत्तिः । डित्पर्युदासात् गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्ति.। तदाह । वृद्धिविषये प्रतिषेधविषये चेति ॥ जजागरतुरिति ॥ अत्र कित्त्वेऽपि गुणः । जजागरुः । जजागरिथ । जजागरथुः । जजागर । जजागार-जजागर । जजागरिव । जजागरिम । विचिण्णलडित्सु तु न गुणः । वि जागृविः । चिण् अजागारि । णल् जजागार । डित्
२४८१ । जुसि च । (७-३-८३ )
अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । 'अजादौ' किम् जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि अजागरीत्। 'जागृ इस्' इत्यत्र यण्प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तलक्षणा वृद्धिः प्राप्ता, 'नेटि' (सू २२६८) इति निषिद्धा, ततः 'अतो हलादेः –' (सू २२८४) इति बाधित्वा 'अतो ल्रान्तस्य' (सू २३३०) इति वृद्धिः प्राप्ता, 'ह्म्यन्त ---' (सू २२९९) इति निषिद्ध्यते । तदाहुः --
'गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् ।
पुनर्वृद्धिर्निषेधोऽतो यण्पूर्वाः प्राप्तयो नव ।।' इति
दरिद्रा १०७३ दुर्गतौ । दरिद्राति |
२४८२ । इद्दरिद्रस्य । (६-४-११४)
जागृतः । वृद्धिविषये यथा ण्वुलि जागरकः । प्रतिषेधविषये यथा जजागरतु । कित्त्वेऽपि गुणः इत्याद्यूह्यम् । जागरिता । जागरिष्यति । जागर्तु-जागृतात् । जागृताम् । जाग्रतु । जागृहि-जागृतात् । जागृतम् । जागृत । जागराणि । जागराव । जागराम । लङ्याह । अजागरिति ॥ तिपि इकारलोपे हल्ड्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लडो झेरदादेशे प्राप्ते आह । अभ्यस्तत्वाज्जुसिति ॥ 'सिजभ्यस्तविदिभ्यश्च' इत्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । अजागृ उस् इति स्थिते ‘सार्वधातुकमपित्'इति डित्त्वादविचिण्णल्डित्स्विति पर्युदासादप्राप्ते गुणे आह। जुसि च ॥ अङ्गस्येत्यधिकृतम्। मिदेर्गुण इत्यत. गुण इत्यनुवर्तते । ‘इको गुणवृद्धी’ इति परिभाषया इक इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः । 'क्सस्याचि' इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधि । तदाह । अजादावित्यादिना । अजागरुरिति ॥ अजागः । अजागृतम् । अजागृत । अजागरम् । अजागृव । अजागृम । विधिलिङि यासुटो डित्वान्न गुण । जागृयात् । जागृयाताम् । जागृयुरिx ॥ जुसिचेत्यत्र अजादावित्युक्तेर्न गुण इति भावः । आशिषि तु जागर्यादिति ॥ किदाशिषि इति यासुटः कित्त्वात् 'जाग्रोऽविचिण्णल्डित्सु' इति गुण इति भावः । जागृधातोर्लुडि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति । जागृ इस् इत्यत्रेति | तत्र कृते इति ॥ 'जाग्रोऽविचिण्णल्' इति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति ॥ वृद्धा इति शेषः । अजागरिष्टाम् । अजागरिषुः इत्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः धनहीनीभवनम् । दरिद्रातीति ॥ धनहीनीभवतीत्यर्थ । इद्दरिद्रस्य ॥ सौत्रो ह्रस्व. । 'गमहन' इत्यत. क्डितीत्यनुवर्तते ।
दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रितः
२४८३ । श्नाभ्यस्तयोरातः । (६-४-११३)
अनयोरातो लोपः स्यात्क्ङिति सार्वधातुके। दरिद्रति । अनेकाच्त्वादाम् । दरिद्राञ्चकार । 'आत औ णल:' (सू २३७१) इत्यत्र 'ओ, इत्येव सिद्धे औकारविधानं दरिद्रातेरालोपे कृते श्रवणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव । 'दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः' (वा ४१४६) । 'लुङि वा' (वा
'ई हल्यघो' इत्यत: हलि इति ‘अत उत्' इत्यतः सार्वधातुके इति । तदाह । दरिद्रातेरिति ॥ 'श्नाभ्यस्तयोः' इत्याल्लोपापवादः । अलोऽन्त्यस्येत्यन्त्यस्य इकार । दरिद्रितः इति ॥ 'सार्वधातुकमपित्' इति तसो डित्त्वादाकारस्य इकारः । श्नाभ्यस्तयोरातः ॥ 'गमहन' इत्यतः लोपः क्डितीत्यनुवर्तते । 'अत उत्' इत्यतः सार्वधातुके इति । तदाह । अनयोरिति ॥ श्नाप्रत्ययस्य अभ्यस्तस्य चेत्यर्थ. । दरिद्रतीति ॥ जक्शित्यादित्वादभ्यस्तत्वाददभ्यस्तादिति झस्य अदादेशे आकारलोपः । दरिद्रासि । दरिद्रिथः । दरिद्रिथ । दरिद्रामि । दरिद्रिवः । दरिद्रिमः । लिड्याह । अनेकाच्त्वादामिति ॥ इदञ्च ‘कास्प्रत्ययात्’ इति सूत्रभाष्ये स्पष्टम् । दरिद्राञ्चकारेति ॥ आमि सवर्णदीर्घः । कैयटमतमाह । आतः इति ॥ 'आत औ णल:' इत्यत्र प्रथमातिक्रमे कारणाभावात् ओकार एव विधातुमुचितः । वृद्धौ सत्यान्तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकारविधान दरिद्राधातोर्णलि 'दरिद्रातेरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्रौ इत्यौकारश्रवणार्थ सम्पद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेरसम्भवात् ददरिद्रो इत्योकार एव श्रूयेतेत्यर्थः । अत एवेति ॥ अस्मादेव दरिद्रातेः औकारश्रयणार्थात् औकारविधानाद्दरिद्रातेर्लिटि आम् नेति विज्ञायते । आमि सति णल एवाप्रसक्तेरित्यर्थः । इदञ्च ‘वस्वेकाजाद्धसाम्’ इति सूत्रभाष्ये ध्वनित कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति ॥ 'कास्प्रत्ययात्' इति 'वस्वेकाच्’ इति सूत्रस्यभाष्यकैयटविरोधादिति भाव. । ददरिद्रतुः। ददरिद्रुः। ददरिद्रिथ | ददरिद्रथुः । ददरिद्र । ददरिद्रौ । ददरिद्रिव । ददरिद्रिम । आर्धधातुके विवक्षिते इति ॥ 'आतो लोप इटि च' इत्याल्लोपो दरिद्रातेर्भवन् क्डिति अक्डिति च अजादावार्धधातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः
आल्लोपे कृते पचाद्यच् सिध्द्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तु 'श्याद्व्यधा' इत्यादन्तलक्षणो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोप बाधित्वा 'आतो युक् चिण्कृतो.' इति युकि दरिद्राय इति स्यात् । आर्धधातुके विवक्षिते तत प्रागेव आल्लोपे तु कृते आदन्तत्वाभावात् णप्रत्ययाभावे पचाद्यच्प्रत्ययो निर्बाध । तदिदं भाष्ये स्पष्टम् । लुङि वेति ॥ लुङि आल्लोपे वा वक्तव्य इत्यर्थः । 'अद्यतन्या वेति वक्तव्यम्’ इति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकधातुविहितलुङ्विभक्तिर्विवक्षिता । भाष्ये तस्या एवोदाहरणात् ।
४१४२) । 'सनि ण्वुलि ल्युटि च न' (वा ५०५८) । दरिद्रता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदरिद्रीत् । इट्सकौ अदरिद्रासीत् । चकासृ १०७४ दीप्तौ । झस्य अत् । चकासति । चकासाञ्चकार । 'धि च' (सू २२४९) इति सलोपः सिच एवेत्येके । चकाद्धि । 'चकाधि' इत्येव भाष्यम् ।
२४८४ । तिप्यनस्तेः । (८-२-७३)
सनि ण्वुलि ल्युटि च नेति ॥ एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा दरिद्रायकः आतो युक् । ल्युटि यथा दरिद्राणः । अनादेशे कृते आल्लोपाभावात् सवर्णदीर्घ । सनि यथा दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्यायन्निषेध. । तेन ‘तनिपतिदरिद्राणामुपसङ्खयानम्’ इति दरिद्रातेस्सनः इट्पक्षे ‘आतो लोप इटि
च' इत्याल्लोपो भवत्येव । दिदरिद्रिषति । तदुक्त भाष्ये । 'न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥' इति । दरिद्रितेति ॥ तासि इटि उदाहृतवार्तिकेन आल्लोप । 'आतो लोप इटि च' इत्यस्य सम्भवेऽपि न्याय्यत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु-दरिद्रितात् । दरिद्रिताम् । दरिद्रतु। दरिद्रिहि-दीरद्रितात् । दरिद्रितम् । दरिद्रित । दरिद्राणि । दरिद्राव । दरिद्राम । लङ्याह । अदरिद्रादिति ॥ इत्त्वम्मत्वा आह । अदरिद्रितामिति ॥ अदरिद्रुरिति ॥ जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भाव. । अदरिद्राः । अदरिद्रितम् । अदरिद्रित । अदरिद्राम् । अदरिद्रिव । अदरिद्रम । दरिद्रियादिति ॥ विधिलिङि सार्वधातुकत्वादित्त्वमिति भाव । आशीर्लिङ्याह। दरिद्र्यादिति ॥ 'आतो लोप' इति भाव । लुङि आतो लोपपक्षे आह। अदरिद्रीदिति ॥ अदरिद्रिष्टामित्यादि । आल्लोपाभावपक्षे त्वाह । इट्सकाविति ॥ अदरिद्रिष्यत् । चकासृदीप्ताविति ॥ ऋदित् सेट्। चकास्ति। चकास्तः इति सिद्धवत्कृत्य आह । झस्य अदिति ॥ जक्षित्यादित्वेन अभ्यस्तत्वादिति भाव.| चकासतीति ॥ चकास्सि । चकास्थः । चकास्थ । चकास्मि । चकास्वः । चकास्मः । चकासाञ्चकारेति ॥ अनेकाच्त्वादामिति भाव. । चकासिता । चकासिष्यति । चकास्तु । चकास्ताम् । चकासतु । हेर्धिभावे चकास् धि इति स्थिते धि च इति सलोप इति मतान्तरमाह । सिच एवेत्येके इति ॥ 'धि च' इति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः। 'धिसकारे सिचो लोपः' चकाद्धि इति प्रयोजनम् इति वार्तिकादिति तदाशयः। अस्मिन्पक्षे सकारस्य जश्त्वेन दकार. । तदाह । चकाद्धीति ॥ एक इत्यस्वरसोद्भावनम् । तद्बीजन्तु 'धिसकारे सिचो लोपः' इति वार्त्तिक प्रत्याख्याय सकारमात्रस्य 'धि च' इति लोपस्याभ्युगमः । तदाह । चकाधीत्येव भाष्यमिति ॥ चकास्तात् । चकास्तम् । चकास्त । चकासानि । चकासाव । चकासाम । लङि अ चकास् त् इति स्थिते । तिप्यनस्तेः ॥ न अस्तिः अनस्तिः तस्येति विग्रहः । पदस्येत्यधिकृतम् । 'झलाञ्जशोऽन्ते ' इत्यतः अन्ते
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । [ससजुषोरित्यस्यापवाद:] अचकान्-अचकाद् । अचकासुः ।
२४८५ । सिपि धातो रुर्वा । (८-२-७४)
पदान्तस्य धातोः सस्य रुः स्याद्वा । पक्षे [जश्त्वेन] दः । अचकाः--अचकात् । शासु १०७५ अनुशिष्टौ । शास्ति ।
२४८६ । शास इदङ्हलोः । (६-४-३४)
शास उपधाया इत्यस्यादङि हलादौ कृिति च । 'शासिवसि-'(सू २४१०) इति षः । शिष्टः । शासति । शशास । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतु
२४८७ । शा हौ । (६-४-३५)
शास्ते: शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशात्-अशाः । शिष्यात् । 'सर्तिशास्ति--'
इत्यनुवर्तते । 'ससजुषोः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । 'वसुस्रसुध्वंस्वनडुहां दः' इत्यतः द इति । तदाह । पदान्तस्येत्यादिना ॥ अनस्तेः किम् । 'सलिल सर्वमा इदम्' आः इत्यसधातोर्लडस्तिपि इकारलोपे 'बहुलं छन्दसि ' इति 'अस्ति सिच.' इति ईडभावे हल्ड्यादिलोपे रूपम् । प्रकृते तु चकासेर्लडस्तिपो हल्ङ्यादिलोपे सकारस्य दत्वे
'वाऽवसाने' इति चर्त्वजश्त्वे इत्यभिप्रेत्याह । अचकात्-अचकादिति ॥ अचकासुरिति ॥ सिजभ्यस्तेति जुसिति भावः । सिपि धातो रुर्वा ॥ पदस्येत्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यतः अन्ते इत्यनुवृत्तम् 'ससजुषोः' इत्यतः स इति लुप्तषष्ठीकमनुवर्तते । तदाह । पदान्तस्येति | पक्षे इति ॥ वसुस्रस्वित्यत तदनुवृत्तेरिति धावः । सिपि धातुत्वस्य अव्यभि चाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासुधातुरुदित् सेट् । शास इदङ्हलोः ॥ 'अनिदितां हल' इत्यतः उपधायाः क्डिति इत्यनुवर्तते । तदाह । शास उपधायाः इति । शासतीति ॥ जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि । शिष्ठः । शास्मि । शिष्वः । शिष्मः । आशासते इत्यत्र तु नेत्त्वम् । अङ्योग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति ॥ शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह । शा हौ ॥ शा इति लुप्तप्रथमाकम् । 'शास इदड्' इत्यतः शास इत्यनुवर्तते । तदाह । शास्तेरिति ॥ इत्त्वापवादः । ननु शासेश्शाभावे सति झल्परत्वाभावात्कथं हेर्धिरित्यत आह । तस्याभीयत्वेनेति ॥ यद्यपि 'धि च' इति सलोपे शाधीति सिद्धम् । तथापि सलोपस्यासिद्धत्वात् ‘शास इत्’ इति इत्त्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । लङ्याह । अशादिति ॥ 'तिप्यनस्ते.' इति दत्वे चर्त्वविकल्प इति भावः । अशा
(सू २३८२) इत्यङ् । अशिषत् । अशासिष्यत् ।
दीधीङ् १०७६ दीप्तिदेवनयोः । एतदादयः पञ्च धातवश्छान्दसाः |
दीधीते । 'एरनेकाचः–' (सू २७२) इति यण् । दीध्याते ।
२४८८ । यीवर्णयोर्दीधीवेव्योः । (७-४-५३)
एतयोरन्त्यस्य लोपः स्याद्यकारे इवर्णे च परे । इति लोपं बाधित्वा नित्यत्वाट्टेरेत्त्वम् । दीध्ये । 'दीधीवेवीटाम्' (सू २१९०) इति गुणनिषेधः । दीध्याञ्चक्रे । दीधिता । दीधिष्यते । वेवीङ् १०७७ वेतिना तुल्ये । वी गतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ।
अथ त्रयः परस्मैपदिनः । षस १०७८ षस्ति १०७९ स्वप्ने । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । 'पूर्वत्रासिद्धम्' (सू
सुरिति ॥ अभ्यस्तत्वाज्जुसिति भावः । अशाः-अशादिति ॥ ‘सिपि धातोः' इति रुत्वात् दत्वविकल्प इति भावः । अशिष्टम् । अशिष्ट । अशासम् । अशिष्व । अशिष्म । शिष्यादिति ॥ 'शास इत्’ इति इत्त्वे 'शासिवसि' इति ष इति भावः । अशिषदिति ॥ अडि इत्त्वमिति भाव । दीधीड्धातुरीकारान्तः ङित्त्वादात्मनेपदी । एतदादयः पञ्चेति ॥ इदञ्च माधवानुरोधेन । तत्वन्त्वग्रे वक्ष्यते । जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः । दीध्यते । दीधीषे । दीध्याथे । दीधीध्वे । लट इडादेशे आह । यीवर्णयोर्दीधीवेव्योः ॥ यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी । यि इत्यत्र इकार उच्चारणार्थः । 'तासस्त्यो' इत्यतो लोप इत्यनुवर्तते 'अलोऽन्त्यस्य' इत्यन्त्यस्य लोप । तदाह । एतयोरित्यादि ॥ आदीध्य गतः । आवेव्य गत । अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरण वक्ष्यते । इति लोपमिति ॥ लट इडादेशे दीधी इ इत्यत्र 'यीवर्णयो.' इति इवर्णपरत्वात्प्राप्त लोप परमपि बाधित्वा नित्यत्वाट्टेरेत्त्वमित्यर्थः । कृते अकृते च लोपे प्रवृत्तेरेत्त्वन्नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाभावान्न लोप इति भावः । गुणनिषेधः इति ॥ दीधी आमिति स्थिते 'सार्वधातुकार्धधातुकयो' इति प्राप्तस्य गुणस्य निषेध इत्यर्थ । दीधितेति ॥ इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भाव. । दीधीताम् । दीध्याताम् । दीध्यताम् । दीधीष्व । दीध्याथाम् । दीधीध्वम् । दीध्यै । दीध्यावहै । दीध्यामहै । अदीधीत । अदीध्याताम् । अदीध्यत । अदीधीथा । अदीध्याथाम् । अदीधीध्वम् । अदीधि । अदीधीवहि । अदीधीमहि । दीधीत । दीधीयाताम् । दीधिषीष्ट । दीधिषीयास्ताम् । दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवीङ् वेतिना तुल्ये इति ॥ दीधीवद्रूपाणि । इति जक्षित्यादयः । षस षस्ति स्वप्ने इति ॥ षोपदेशावेतौ । द्वितीय इदित् । तत्र षसधातोरुदाहरति । सस्तीति । ससन्तीति ॥ अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वा आह । सेसतुरिति ॥ सेसुः । सेसिथ । सेसथुः ।
१२) इति सलोपस्यासिद्धत्वात् 'अतो हे:' (सू २२०२) इति न लुक् । असत् । असस्ताम् । अस:-असत् । सस्यात् । असासीत्-अससीत् । सन्ति । इदित्त्वान्नुमि कृते 'संस्त् तस्' इति स्थिते 'स्कोः -–' ( सू ३८०) इति सलोपे 'झरो झरि सवर्णे' (सू ७१) इति तकारस्य वा लोपः । सन्त: । संस्तन्ति । 'बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य 'स्कोः–-' (सू ३८०) इति लोपाभावात् । संस्ति । संस्तः । संस्तन्ति । इत्येके । वश १०८० कान्तौ । कान्तिरिच्छा । वष्टि | उष्टः । उशन्ति । वक्षि | उष्ठः | उवाश | ऊशतुः |
सेस । ससास-ससस । सेसिव । सेसिम । ससिता । ससिष्यति । सस्तु-सस्तात् । सस्ताम् । ससन्तु । सस् हि इति स्थिते हेर्धिभावे 'धि च' इति सलोप मत्वा आह । सधीति ॥ तत्र धि इत्यस्य स्थानिवत्त्वेन हित्वात् ‘अतो हे:’ इति लुकमाशङ्क्य आह । पूर्वत्रेति ॥ सस्तात् । सस्तम् । सस्त । ससानि । ससाव । ससाम । लड्याह । असदिति ॥ असस् त् इति स्थिते हल्ड्यादिना तकारलोपे 'तिप्यनस्तेः' इति सस्य दत्वमिति भावः । असस्तामिति ॥ अससन् इत्यपि ज्ञेयम् । लड सिपि तु असस् स इति स्थिते 'सिपि धातोः' इति रुर्वा, पक्षे द, हल्ड्यादिलोप । तदाह । अस:-असदिति ॥ असस्तम् । असस्त । अससम् । असस्व । असस्म । लिड्याह । सस्यादिति ॥ सस्याताम् । सस्यास्ताम् इत्यादि । लुङ्याह । असासीदिति ॥ 'अतो हलादे.' इति वृद्धिविकल्प इति भाव । अससिष्यत् । अथ पस्तिधातोरुदाहरति । सन्तीति ॥ इदित्वान्नुम् । ‘नश्च' इत्यनुस्वारे सस् त् ति इति स्थिते ‘स्कोः’ इति सलोपे परसवर्णे 'झरो झरि ' इति प्रथमतकारस्य लोपविकल्पे एकत द्वित वा रूपमिति भाव. । संस्तन्तीति ॥ अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि सस्त् सि इति स्थिते 'स्को' इति सलोपे अनुस्वारस्य परसवर्णो नकारः । सवर्णपरत्वाभावात झरो झरि' इति तकारलोपो न । सन्त्सि । सन्थ । सन्थ । सस्त्मि । सस्त्वः । सस्त्म. । ससस्त । ससस्ततु. । ससस्तिथ । ससंस्तिव । ससस्तिम । सस्तिष्यति । सन्तु-सन्तात् । सन्ताम् । संस्तन्तु । संस्त् हि इति स्थिते हेर्धिभावे 'स्कोः' इति सलोपे परसवर्णे सन्त् धि इति स्थिते 'झरो झरि' इति तकारस्य लोपः । सन्धि । लोपाभावे तवकारस्य जश्त्वे सन्द्धि-सन्तात् । सन्तम् । सन्त । सस्तानि । सस्ताव । सस्ताम । लडस्तिपि असस्त् त् इति स्थिते हल्ड्यादिलोपे सयोगादिलोपे संयोगान्तस्य लोपे असन् । असन्ताम् । असस्तन् । असन् । असन्तम् । असन्त । असस्तम् । असस्त्व । असस्त्म । सस्त्यात् । असस्तीत् । असस्तिष्यत् । मतान्तरमाह । बहूनामिति । इत्याश्रित्येति ॥ तथाच प्रकृते लुडस्तिपि सस्त् ति इति स्थिते झलि परे अनुस्वारसकारतकाराणान्त्रयाणां समवायात् स् त्
इत्यनयोः सयोगसज्ञाविरहात् ‘स्को.’ इति लोपाभावात् सस्तीत्याद्यूह्यमित्यर्थः । वश कान्ताविति ॥ कान्तिरिच्छा । सेट् । वष्टीति ॥ 'व्रश्च' इति शस्य षत्वे तकारस्य ष्टुत्वेन टः । उष्टः इति ॥ डिति ‘ग्रहिज्या’ इति सम्प्रसारणे रूपमिति भावः । उवाशेति ॥ लिटि
वशिता । वष्टु-उष्टात् । उष्टाम् । उड्ढि । अवट् औष्टाम् । औशन् । अवशम्। उश्याताम् । उश्यास्ताम् । 'चर्करीतं च ' (ग सू १९५) | यङलुगन्तमदादौ बोध्यम् । ह्नुङ् १०८२ अपनयने । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट|
इति तिङन्तादादिप्रकरणम्
अकिति 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः । ऊशतुरिति ॥ परत्वाद्गहिज्येति सम्ग्रसारणे कृते द्वित्वे हलादिशेवे सवर्णदीर्घ इति भावः | उवशिथ | ऊशथुः | ऊश | उवाश-उवश | ऊशिव | ऊशिम | वशितेति ॥ अनेन सेट्त्वन्द्योतितम् । वशिष्यति | उष्टामिति ॥ उशन्त्वित्यपि ज्ञेयम् । उड्ढीति ॥ वश् हि इति स्थिते धिभावे अपित्त्वेन डित्त्वात् ग्रहिज्येति सम्प्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भाव: | वशानि । वशाव । वशाम | लङ्याह । अवडिति ॥ हल्ड्यादिलोपे शस्य षः षस्य डः तस्य चर्त्वविकल्प इति भाव | औशन्निति ॥ अवट् । औष्टम् । औष्ट । अवशमिति ॥ पित्त्वान्न सम्प्रसारणमिति भावः । औश्व । औश्म। विध्याशीर्लिङो. उश्यादिति सिद्धवत्कृत्य आह । उश्याताम् | उश्यास्तामिति ॥ अवशीत्-अवाशीत् । अवशिष्यत् । तदेव दीधीङ वेवीड् षस षस्ति वश एते पञ्चधातव छान्दसा एवेति माधवादय | तत्र 'दीधीवेवीटाम्' इति सूत्रे दीधीवेव्यो छन्दोविषयत्वादिति भाष्यम् । ‘जक्षित्यादय. षट्’ इति सूत्रे षसिवशी छान्दसाविति भाष्यम् । एतद्भाष्यादेव षस्तिधातोर्नात्र पाठ इति प्रतीयते । अत एव 'षसशास्ति स्वप्ने' इति पाठमभ्युपगम्य श्तिपा निर्देशेन शास एवार्थभेदात् पुनः पाठ इति कैयट आह । अत्र शासधातोरपि छान्दसवचन प्रायिकम् । वष्टि भागुरिरल्लोपम् | 'जयाय सेनान्यमुशन्ति देवाः इत्यादि प्रयोगदर्शनादित्यास्तान्तावत् । चर्करीतञ्चेति ॥ धातुपाठे गणसूत्रमिदम् । 'चर्करीतम्' इति यङ्ल्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा । तदाह । यङ्लुगन्तमदादाविति ॥ तेन यङ्लुगन्ताच्छबेव विकरण: तस्य लुक् न तु श्यनादि विकरणान्तरम् परस्मैपदिन इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव । ह्नुङ् अपनयने इति ॥ अनिडयम् | ह्नुते इति ॥ ह्नुवाते । ह्नुवते । इत्यादि । जुह्नुवे इति ॥ जुह्नुवाते । जुह्नुविरे । क्रादिनियमादिट् । जुह्नुविषे । जुह्नुविवहे । ह्नोता । ह्नोष्यते । ह्नुताम् । ह्नुष्व । ह्नवै । ह्नवावहै । अह्नुत | इति सिद्धवत्कृत्यविधिलिङ्याह । ह्नुवीतेति आशीर्लिंङ्याह । ह्नोषीष्टेति ॥ लुड्याह | अह्नोष्टेति ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदी-
व्याख्यायां बालमनोरमायां लुग्विकरणं समाप्तम्
॥ श्रीरस्तु ॥
॥अथ तिङन्तजुहोत्यादिप्रकरणम् ॥
हु १०८३ दानादनयोः । 'आदाने च' इत्येके । 'प्रीणनेऽपि' इति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः |
२४८९ । जुहोत्यादिभ्यः श्लुः । (२-४-७५)
शपः श्लुः स्यात् ।
२४९० । श्लौ । (६-१-१०)
धातोर्द्वे स्तः । जुहोति । जुहुत: । 'अद्भ्यस्तात्' (सू २४७९) इत्यत् । 'हुश्नुवोः-' (सू २३८७) इति यण् । जुह्वति ।
२४९१ । भीह्रीभृहुवां श्लुवच्च । (३-१-३९)
एतेभ्यो लिट्याम्वा स्यात् आमि श्लाविव कार्यं च । जुहवाञ्चकार। जुहाव।
अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानादनयोरिति ॥ दाने अदने चेत्यर्थः । भाष्यमिति ॥ 'तृतीया च होश्छन्दसि ' इति सूत्रस्थमिति शेषः । ननु यदि दानमिह प्रसिद्ध विवक्षितं तर्हि ब्राह्मणाय गा ददातीत्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह । दानं चेह प्रक्षेपः इति ॥ नन्वेवमपि कूपे घटम्प्रक्षिपति आहवनीये जलम्प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोग. स्यादित्यत आह । स चेति ॥ सः प्रक्षेपः विधिबोधिते आधारे आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः । कुत इत्यत आह । स्वभावादिति ॥ अनादिसिद्धलोकव्यवहारादित्यर्थः । तथाच विधिबोधिते आधारे विधिबोधितस्य हविषो देवतायै त्यज्यमानस्य हविषः प्रक्षेपे हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीये “सर्वप्रदान हविषस्तदर्थत्वात्” इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । जुहोत्यादिभ्यः श्लुः ॥ शपः इति ॥ 'अदिप्रभृतिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते । श्लौ ॥ शेषम्पूरयति । धातोर्द्वे स्तः इति ॥ 'एकाचो द्वे' इत्यतः 'लिटि धातोः' इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह । जुहोतीति । यणिति ॥ उवङपवाद इत्यर्थः । भीह्री ॥ भी ह्री भृ हु
होता । होष्यति । जुहोतु-जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् 'जुसि च' (सू २४८१) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । ञि भी १०८४ भये । बिभेति ।
२४९२ । भियोऽन्यतरस्याम् । (६-४-११५)
इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः-बिभीतः । बिभ्यति । बिभयाञ्चकार । बिभाय । भेता । ह्री १०८५ लज्जायाम् । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयाञ्चकार-जिह्राय । पॄ १०८६ पालनपूरणयोः ।
एषान्द्वन्द्वात्पञ्चम्यर्थे षष्ठी । ‘कास्प्रत्ययात्’ इत्यत. आम् लिटात्यनुवर्तते । तदाह। एतेभ्यः इति ॥ श्लुवदिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह । आमि श्लाविव कार्यञ्चेति । जुहवामिति ॥ आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति ॥ जुहुवतु । जुहविथ-जुहोथ । जुहुविव । हेर्धिरिति ॥ 'हुझल्भ्यो हेर्धि.' इत्यनेनेति भाव । जुहवानीत्यत्र आट पित्त्वेन अडित्वात् गुणे प्राप्ते तम्बाधित्वा 'हुश्नुवो.' इति यणि प्राप्ते आह । आटि परत्वादिति ॥ 'हुश्नुवोः' इत्यपेक्षया गुण. परत्वाद्भवतीत्यर्थ । लङि अजुहोत्, अजुहुता, इति सिद्धवत्कृत्य 'सिजभ्यस्त' इति जुसि ‘हुश्नुवो.’ इति यणमाशङ्क्य आह । परत्वाज्जुसि चेति गुणः इति । अजुहवुरिति ॥ अजुहोः । अजुहुतम् । अजुहुत । अजुहवम्। अजुहुव । अजुहुम। अहौषीदिति ॥ सिचि वृद्धि । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति ॥ अनिट् ईदन्तः । शपः श्लौ द्वित्वादि मत्वा आह । बिभेतीति ॥ भियोऽन्यतरस्याम् ॥ 'इद्दरिद्रस्य' इत्यतः इदिति 'गमहन' इत्यतः क्डितीति ‘ई हल्यघो' इत्यतः हलीति 'अत उत्' इत्यत. सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति । इकारः स्यादित्यादिना । बिभ्यतीति ॥ 'अदभ्यस्तात्' इत्यत् । बिभयामिति ॥ 'भीह्रीभृहुवा श्लुवच्च' इति श्लुवत्त्वात् द्वित्वादीति भाव. । बिभायेति ॥ बिभ्यतुः । बिभयिथ-बिभेथ । बिभ्यिव । बिभ्यिम । भेतेति ॥ भेष्यति । बिभेतु-बिभितात्-बिभीतात् । बिभिताम्-बिभीताम् । बिभ्यतु । बिभिहि-बिभीहि । बिभितात्-बिभीतात् । बिभितम्-बिभीतम् । बिभित-बिभीत । बिभयानि । बिभयाव । बिभयाम । अबिभेत् । अबिभिताम्-अबिभीताम् । अबिभयुः । अबिभेः । अबिभितम्-अबिभीतम् । अबिभयम् । अबिभिव-अबिभीव । बिभियात्-बिभीयात् । इत्यादि आशीर्लिङि बिभीयास्ताम् । अभैषीत् । अभेष्यत् । ह्री लज्जायामिति ॥ अनिट् । जिह्रियतीति ॥ 'अदभ्यस्तात्' इत्यत् । इयड् । जिह्रयामिति ॥ 'भीह्रीभृहुवाम्' इत्याम् । श्लुवत्त्वात् द्वित्वादीति भावः । जिह्रायेति ॥ जिह्रयिथ-जिह्रेथ । जिह्रियिव । ह्रेता । ह्रेष्यति | जिह्रेतु-जिह्रीतात् । जिह्रीहि । जिह्रयाणि । अजिह्रेत् । जिह्रीयात् । ह्रीयात् । अह्रैषीत् ।
२४९३ । अर्तिपिपर्त्योश्च । (७-४-७७)
अभ्यासस्येकारोऽन्तादेशः स्यात् श्लौ ।
२४९४ उदोष्ठ्यपूर्वस्य । (७-१-१०२)
अङ्गावयवौष्ठ्यपूर्वो य ऋत् तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्त्वं । रपरत्वं । 'हलि च' (सू ३५४) इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि 'ऋच्छत्यॄताम्' । (सू २३८३) इति गुणे प्राप्ते |
२४९५ । शॄदॄप्रां ह्रस्वो वा । (७-४-१२)
एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः ।
अह्रेष्यत् । पॄधातु सेट् । लटस्तिपि शप. श्लौ द्वित्वे पॄ पॄ इति स्थिते । अर्तिपिपर्त्योश्च ॥ 'अत्र लोपः' इत्यस्मादभ्यासस्येति 'भृञामित्' इत्यस्मात् इदिति 'निजान्त्रयाणाम्' इत्यतः श्लाविति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति । अभ्यासस्येत्यादिना ॥ तथाच अभ्यासेॠकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ॠकारस्य उत्त्वं शङ्कितुमाह । उदोष्ठ्य ॥ 'ॠत इद्धातोः' इत्यत ॠत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठ्यन्त ओष्ठ्यस्य विशेषणम् । अपरन्तु ॠता विशेष्यते । तदन्तविधिः । तदाह । अङ्गावयवौष्ठ्य इत्यादिना ॥ अङ्गावयवेति किम् । समीर्णः । ‘ॠ गतौ' क्र्यादि. तस्मात्सम्पूर्वात् त्क्तप्रत्यये 'ॠत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घे 'श्र्युकः किति' इति इण्निषेधे 'रदाभ्याम्' इति निष्ठानत्वे तस्य णत्वे समीर्ण इति रूपम् । तत्र मकारात्मकौष्ठ्यपूर्वत्वादित्त्व बाधित्वा उत्त्वं स्यात् । अङ्गावयवेत्युक्तौ तु मकारस्य ओष्ठ्यस्य अङ्गावयवत्वाभावादुत्त्वन्न भवति । तथाच प्रकृतेऽपि पॄतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता ताम्परिहरति । गुणवृद्धी इति ॥ इममिति ॥ उत्त्वविधिमित्यर्थः । पिपर्तीति ॥ उत्त्वात्परत्वाद्गुण इति भावः । पिपॄ तस इति स्थिते आह । उत्त्वमिति ॥ डित्त्वेन गुणाभावात् उदोष्ठ्येत्युत्त्वमिति भावः । पिपुरतीति ॥ अभ्यस्तत्वाददादेशे डित्त्वाद्गुणाभावादुत्त्वमिति भावः । पिपर्षि । पिपूर्थः । पिपर्मि । पिपूर्वः । पिपूर्मः । लिटि णल्याह । पपारेति ॥ उत्त्वात्परत्वाद्वृद्धिरिति भावः । 'अर्तिपिपर्त्योश्च' इत्यभ्यासस्य नेत्त्वम् । तत्र श्लावित्यनुवृत्तेः । प्राते इति ॥ गुणे नित्यम्प्राप्ते इत्यर्थः । शॄदॄप्राम् ॥ शॄ दॄ पॄ एषान्द्वन्द्वः । लिटीति ॥ 'दयतेर्दिगि लिटि' इत्यतः तदनुवृत्तेरिति भावः । यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्ट तथापि अस्य ‘ऋच्छत्यॄताम्’ इति गुणापवादत्वात्
गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम् । पप्रतुरिति ॥ पपॄ अतुस् इति स्थिते ॠकारस्य ह्रस्वे तस्य यणिति भावः । गुणपक्षे आह । पपरतुरिति ॥ गुण एव तु न विकल्पितः । गुणाभावे 'वार्णादाङ्गं बलीयः' इति यणम्बाधित्वा 'उदोष्ठ्य' इत्युत्त्वप्रसङ्गात् । पपरिथ ।
पपरतुः । पपरुः । परिता-परीता । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । 'ह्रस्वान्तोऽयम्' इति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि । प्रियात् । अपार्षीत् । पाणिनीयमते तु 'तं रोदसी पिपृतम्’ इत्यादौ छान्दसत्वं शरणम् । डुभृञ् १०८७ धारणपोषणयोः ।
२४९६ । भृञामित् । (७-४-७६)
'भृञ्' 'माङ्' 'ओ हाड्' एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावात् द्वित्वेत्त्वे । बिभरामास । बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् ।
पप्रथु.-पपरथुः । पप्र–पपर । पपार–पपर । पप्रिव-पपरिव । 'वॄतो वा' इति दीर्घविकल्पम्मत्वा आह । परिता-परीतेति ॥ परिष्यति परीष्यति । पिपर्तु-पिपूर्तात् । पिपूर्ताम् । पिपुरतु । पिपूर्हि-पिपूर्तात् । पिपूर्तम् । पिपूर्त । पिपराणि । पिपराव । पिपराम । लङ्याह । अपिपरिति ॥ अपि पॄ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति ॥ अभ्यस्तत्वात् जुस् । कृते 'जुसि च' इति गुणे रपरत्वम् । अपिपः । अपिपूर्तम् । अपिपूर्त । अपिपरम् । अपिपूर्व । अपिपूर्म । केचिदिति ॥ अन्ये आचार्या इत्यर्थ. । ह्रस्वान्तत्वपक्षे 'उदोष्ठ्य' इत्युत्त्वन्नेति मत्वा आह । पिपृतः इति ॥ ह्रस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि । पिपृहि । अपार्षीदिति ॥ हस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः । नन्वाचार्यान्तरसम्मत ह्रस्वान्तत्वङ्कुतोऽस्माभिरादर्तव्यम् इत्यत आह । पाणिनीयेति ॥ पाणिनिसम्मतदीर्घान्तत्वस्यैवाश्रयणे 'त रोदसी पिपृत' इत्यादौ 'उदोष्ठ्य' इत्युत्त्वापत्त्या ॠकारस्य ह्रस्वस्य श्रवणानापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीय स्यादित्यर्थः । डुभृञिति ॥ अनिडय ञित्त्वादुभयपदी। श्लौ सति द्वित्वादौ बिभर्तीत्यादि स्थितम् । भृञामित् ॥ भृञामिति बहुवचनाद्भृञादीनामिति लभ्यते। 'अत्र लोपः' इत्यतः अभ्यासस्येति 'निजान्त्रयाणाङ्गुणः श्लौ' इत्यतः त्रयाणा श्लाविति चानुवर्तते । तदाह । भृञ् माङित्यादिना ॥ बिभ्रतीति ॥ अभ्यस्तत्वाददादेशे यण् । बिभर्षि । बिभृथः । बिभृथ । बिभर्मि । बिभृवः । बिभृम: । बिभृते । बिभ्राते । बिभ्रते । बिभृषे । बिभ्राथे । इति सिद्धवत्कृत्य आह । बिभृध्वे इति ॥ बिभ्रे । बिभृवहे । बिभृमहे । श्लुवद्भावादिति ॥ 'भीह्रीभृहुवाम्' इत्यनेन इति भावः । बिभरामासेति ॥अनुप्रयोगसामर्थ्यादस्तेः भूभावो नेति भावः । बभरेति ॥ श्लावित्यनुवृत्तेर्भृञामिदिति नेत्त्वम् । बभ्रतुः । बभ्रुः । इत्यपि ज्ञेयम् । 'कृसृभृवृ' इति लिटि इण्निषेधः । थल्यपि 'अचस्तास्वत्' इति नित्यमिण्निषेधः । ॠदन्तत्वेन भारद्वाजमतेऽपि निषेधात् । तदाह । बभर्थेति ॥ बभ्रथुः । बभ्र । बभार-बभर इति सिद्धवत्कृत्य आह । बभृवेति ॥ क्रादित्वादिण्निषेध इति भावः । बभ्रे । बभ्राते । बभ्रिरे । बभृषे ।
अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत । माङ् १०८८ माने शब्दे च ।
२४९७ । ई हल्यघोः । (६-४-११३)
श्नाभ्यस्तयोरात ईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । 'श्नाभ्यस्तयोः-' (सू २४८३) इत्याल्लोपः । मिमाते । मिमते । प्रण्यमास्त । ओ हाङ् २०८९ गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । ओ हाक् १०८९ त्यागे । परस्मैपदी । जहाति ।
बभ्राथे । बभृढ्वे । बभ्रे । बभृवहे । वभृमहे । भर्ता । भरिष्यति । भरिष्यते । बिभर्तु-बिभृतात् । बिभृताम् । बिभ्रतु । इति सिद्धवत्कृत्य आह । बिभृहीति ॥ हेरपित्त्वेन डित्त्वाद्गुणनिषेध इति भावः । बिभृतात् । बिभृतम् । बिभृत इति सिद्धवत्कृत्य आह । बिभराणीति ॥ आट पित्त्वेन डित्त्वाभावान्न गुणनिषेध इति भावः । बिभराव । बिभराम । लङ्याह । अबिभरिति ॥ अबिभृ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिलोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति ॥ । अभ्यस्तत्वात् झेर्जुस् 'जुसि च' इति गुणः । अबिभः । अबिभृतम् । अबिभृत । अबिभरम् । अबिभृव । अबिभृम । अबिभृत । अबिभ्राताम् । अबिभ्रत । अबिभृथाः । अबिभ्राथाम् । अबिभृब्वम् । अबिभ्रि । अबिभृवहि । अबिभृमहि । आशीर्लिंङ्याह । भ्रियादिति ॥ 'रिड्शयग्लिड्क्षु' इति रिड्। आत्मनेपदे आशीर्लिङ्याह । भृषीष्टेति ॥ 'उश्च' इति कित्त्वान्न गुणः । अभार्षीदिति ॥ । अनिट्त्वान्नसिज्लोपः | सिचि वृद्धिः। रपरत्वमिति भावः । अभार्ष्टामित्यादि । आत्मनेपदे लुड्याह । अभृतेति ॥ 'ह्रस्वादङ्गात्' इति सिचो लुक् । अभृषातामित्यादि । माङ् माने इति ॥ अनिट् । डित्त्वादात्मनेपदी । श्लौ द्वित्वे ‘भृञामित्' इति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते । ई हल्यघोः ॥ ई इति लुप्तप्रथमाकम् । 'श्नाभ्यस्तयोरातः' इत्यनुवर्तते । 'गमहन' इत्यतः क्डितीति ‘अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते । तदाह । श्नाभ्यस्तयोरित्यादिना । आल्लोपः इति ॥ अजादौ क्डिति सार्वधातुके इति शेषः । मिमते इति ॥ अभ्यस्तत्वाददादेशः । मिमीषे । मिमाथे। मिमीध्वे । मिमे । मिमीवहे । मिमीमहे । ममे । ममाते । ममिरे । ममिषे । ममाथे । ममिध्वे । ममे । ममिवहे । ममिमहे । माता । मास्यते । मिमीताम् । मिमीष्व । मिमाथाम् । मिमीध्वम् । मिमै । मिमावहै । मिमामहै । अमिमीत । अमिमाताम् । अमिमत । अमिमीथाः । अमिमाथाम् । अमिमीध्वम् । अमिमि । अमिमीवहि । अमिमीमहि । मिमीत । मिमीयाताम् । मिमीरन् । मिमीथाः । मिमीयाथाम् । मिमीध्वम् । मिमीय । मिमीवहि । मिमीमहि । मासीष्ट । अमास्त । अमासाताम् । अमासत । अमास्थाः । अमासाथाम् । अमाध्वम् । अमासि । अमास्वहि । अमास्महि । अमास्यत । ओ हाङ् गताविति ॥ अनिट् । डित्त्वादात्मनेपदी । ‘भृञामित्’ इति इत्त्वम् । माड्धातुवद्रूपाणि । अभ्यासे चुत्वं
२४९८ । जहातेश्च । (६-४-११६)
इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्त्वम् । जहितः-जहीतः। जहति । जहौ । जहितात् ।
२४९९ । आ च हौ (६-४-११७)
जहातेर्हौ परे आ स्याच्चादिदीतौ । जहाहि-जहिहि-जहीहि । अजहात् । अजहुः । अजहाः ।
२५०० । लोपो यि । (६-४-११८)
जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । 'एर्लिङि' (सू २३७४) हेयात् । अहासीत् । डु दाञ् १०९१ दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । 'घ्वसोः–' (२४७१) इत्येत्त्वाभ्यासलोपौ । देहि ।
विशेष । तदाह । जिहीते इत्यादि ॥ इति भृञादयस्रयो गता । ओ हाक् त्यागे इति ॥ अनिट् । ओकारः ककारश्च इत् । जहातीति ॥ श्लौ द्वित्वे अभ्यासचुत्वमिति भाव. । तसादौ 'श्नाभ्यस्तयोरात.' इति नित्यमीत्त्वे प्राप्ते । जहातेश्च ॥ 'इद्दरिद्रस्य' इत्यतः इदिति 'भियोऽन्यतरस्याम्' इत्यत अन्यतरस्यामिति चानुवर्तते । 'गमहन' इत्यतः क्डितीति, 'ई हल्यघो.' इत्यतः हलीति च । इत्यभिप्रेत्य शेष पूरयति । इत्स्याद्वेति । जहतीति ॥ अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयो.' इत्याल्लोपः । जहाविति ॥ जहतु । जहुः । जहिथ-जहाथ । जहथुः । जह । जहौ । जहिव । जहिम । हाता । हास्यति । जहितादिति ॥ जहिताम्-जहीताम् । जहतु । आ च हौ ॥ आ इति लुप्तप्रथमाकम् । जहातेरिति ॥ 'जहातेश्च ' इत्यतः तदनुवृत्तेरिति भाव । चादिदीताविति ॥ 'इद्दरिद्रस्य' इत्यत. 'ई हल्यघो:' इत्यतश्च तयोरिह चकारेणानुकर्षादिति भावः । जहितात्-जहीतात् । जहितम्-जहीतम् । जहित-जहीत । जहानि । जहाव । जहाम । लड्याह । अजहादिति ॥ अजहिताम्-अजहीताम् । अजहुः । अजहाः इति ॥ अजहितम्-अजहीतम् । अजहित-अजहीत । अजहाम् । अजहिव-अजहीव । अजहिम-अजहीम । लोपो यि ॥ 'जहातेश्च' इत्यतो जहातेरिति 'श्नाभ्यस्तयोरात.' इत्यतः आत इति, 'अत उत्सार्वधातुके' इत्यत सार्वधातुके इति चानुवर्तते । यि इति सप्तम्यन्त सार्वधातुकविशेषणम् । तदादिविधि. । तदाह । जहातेरित्यादिना ॥ 'जहातेश्च' इत्यस्यापवाद. । आशीर्लिङ्याह । एर्लिङीति । अहासीदिति ॥ 'यमरम' इति सगिटौ । अहास्यत् । डु दाञ् उभयपदी । अनिट् । प्रणिददातीति ॥ 'नेर्गद' इति णत्वत् । दत्तः इति ॥ ददा तस् इति स्थिते अघोरिति पर्युदासादित्त्वाभावे 'श्नाभ्यस्तयो.' इत्याल्लोपः । ददतीति ॥ अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोप इति भाव । ददासि । दत्थः । दत्थ । ददामि । दद्वः । दद्मः । दत्ते इति ॥ ददाते । ददते । दत्से । ददाथे। दद्ध्वे । ददे । दद्वहे । दद्महे । ददौ इति ॥
29
अददात् । अदत्ताम् । अददुः । दद्यात् | देयात् | अदात् | अदाताम् । अदुः | अदित | डु धाञ् १०९५ धारणपोषणयो: 'दानेऽपि' इत्येके । प्रणिदधाति ।
२५०१ । दधस्तथोश्च । (८-२-३८)
द्विरुक्तस्य झषन्तस्य धाधातोर्बशो भष् स्यात्तथयोः परयोः स्ध्वोश्च परतः । 'वचनसामर्थ्यादालोपो न स्थानिवत्’ इति वामनमाधवौ । वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' धत्त: । दधति । धत्थः । धत्थ । दध्वः । दध्मः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित |
ददतु । ददु । ददिथ-ददाथ । ददथु । दद । ददौ । ददिव । ददिम । ददे । ददाते । ददिरे । ददिपे । ददाथे । ददिध्वे । ददे । ददिवहे । ददिमहे । दाता । दास्यति । दास्यते । ददातु-दत्तात् । दत्ताम् । ददतु । इति सिद्धवत्कृत्य देहि इत्यत्र आह । ध्वसोरिति ॥ दत्तात् । दत्तम् । दत्त । ददानि । ददाव । ददाम । दत्ताम् । ददाताम् । ददताम् । दत्स्व । ददाथाम् । दद्ध्वम् । ददै । ददावहै । ददामहै । लङ्याह । अददादिति । अददुरिति ॥
अभ्यस्तत्वात् जुस् । अददा । अदत्तम् । अदत्त । अददाम् । अदद्व । अदद्म । विधिलिङ्याह । दद्यादिति ॥ 'श्नाभ्यस्तयो' इत्याल्लोपः । आशीर्लिङि तु 'एर्लिङि' इत्येत्त्वमभिप्रेत्य आह । देयादिति ॥ दासीष्ट । लुङ्याह । अदादिति ॥ 'गातिस्था' इति सिचो लुगिति भावः । अदाः । अदातम् । अदात । अदाम् । अदाव । अदाम । लुङ्यात्मनेपदे आह । अदितेति ॥ अदा स् त इति स्थिते 'स्थाध्वोरिच्च' इति दाधातोरन्त्यस्य इकारः सिचः कित्त्वञ्च । कित्त्वान्न गुण: । 'ह्रस्वादङ्गात्' इति सिचो लुगिति भावः । अदिषाताम् । अदिषत । अदिथाः । अदिषाथाम् । अदिढ्वम् । अदिषि । अदिष्वहि । अदिष्महि । अदास्यत् । अदास्यत । डु धाञ् । ञित्त्वादुभयपदी । अनिट् । प्रणिदधातीति ॥ 'नेर्गद' इति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे 'श्नाभ्यस्तयो' इत्याल्लोपे दध् तस् इति स्थिते । दधस्तथोश्च ॥ धाधातोः कृतद्वित्वस्य दधा इत्यस्य दधः इति षष्ठ्यन्तम् । 'एकाचो बशः' इत्यतः झषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थ. । तकारथकारयोरिति लभ्यते । चकारात् स्ध्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते । तदाह । द्विरुक्तस्येत्यादिना ॥ तथाच अभ्यासे दकारस्य धकार. | तकारपरकत्वात् । न तु 'श्नाभ्यस्तयोराल्लोपस्य ‘अचः परस्मिन्’ इति स्थानिवत्त्वान्नतकारपरकत्व, नापि झषन्तत्वमित्यत आह । वचनसामर्थ्यादिति ॥ वस्तुतस्त्विति ॥ भष्भावस्य पूर्वत्रासिद्धीयत्वादेव तस्मिन् कर्तव्ये आल्लोपस्य स्थानिवत्त्वाप्रसत्तेर्वचनसामर्थ्याश्रयणक्लेशो वृथेति भावः । धत्तः इति ॥ धस्य चर्त्वेन त इति भावः । दधतीति ॥ 'अदभ्यस्तात्' इत्यदादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः । धत्थः इति ॥ थकारपरकत्वात् भष् । धत्थ । दधामि । दध्वः इति ॥ परनिमित्ताभावान्न भष् । दध्म । धत्ते इति ॥ दधाते। दधते। धत्से इति ॥ सकारपरकत्वाद्भषिति भावः दधाथे। धद्ध्वे इति॥ दद्ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः |
अथ त्रयः स्वरितेतः । णिजिर् १०९६ शौचपोषणयोः |
२५०२ । निजां त्रयाणां गुणः श्लौ । (७-४-७५)
णिजिर् विजिर् विष्लृ एषामभ्यासस्य गुणः स्याच्छलौ । नेनेक्ति । नेनिक्तः । नेनिजति । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्धि ।
२५०३ । नाभ्यस्तस्याचि पिति सार्वधातुके । (७-३-८७)
लघूपधगुणो न स्यात् । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत्-अनैक्षीत् । अनिक्त । विजिर् १०९४
दधे । दध्वहे । दध्महे । दधौ । दधे । धाता । धास्यति । धास्यते । दधातु-धत्तात् । धत्ताम् । दधतु । धेहीति ॥ ‘ध्वसो.’ इत्येत्त्वाभ्यासलोपाविति भावः । धत्तात् । धत्तम्। धत्त । दधानि । दधाव । दधाम । धत्ताम् । दधाताम् । दधताम् । धत्स्व । दधाथाम् । धद्ध्वम् । दधै । दधावहै । दधामहै । अधात् । अधत्त । दध्यात् । धासीष्ट । अधासीत् । अधितेति ॥ 'स्थाध्वोरिच्च' इति इत्त्वे 'ह्रस्वादङ्गात्' इति सिचो लुगिति भावः । अधास्यत् । अधास्यत ।
णिजिर् धातुः अनिडयं णोपदेशः इरित् । इकारस्य प्रत्येकमित्त्वाभावान्न नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदम्भवत्येव | तस्मादयमप्युभयपदी | एवं विजिरपि ज्ञेयः । निजां त्रयाणाम् ॥ । निजामिति बहुवचनात्तदादीनाङ्ग्रहणम् । 'अत्र लोप' इत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । णिजिर् इत्यादिना । नेनेत्क्तीति ॥ श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चो. कुत्वमिति भावः | अभ्यस्तत्वाददादेश मत्वा आह । नेनिजतीति ॥ नेनेक्षि । नेनिक्थः । नेनिक्थ । नेनेज्मि । नेनिज्वः । नेनिज्मः । नेनिक्ते । नेनिजाते । नेनिजते । नेनिक्षे । नेनिजाथे । नेनिग्ध्वे । निनिजे । नेनिज्वहे । नेनिज्महे । निनेज । निनिजतुः । निनेजिथ-निनेक्थ । निनिजथुः । निनिज । निनेज । निनिजिव । निनिजिम । निनिजे । निनिजाते । निनिजिरे । निनिजिषे । निनिजाथे । निनिजिध्वे । निनिजे । निनिजिवहे । नेक्ता । नेक्ष्यति । नेनेक्तु-नेनिक्तात् । नेनिक्ताम् । नेनिजतु । नेनिग्धीति ॥ अपित्त्वेन डित्त्वान्न गुणः । हेर्धि. । नेनिक्तात् । नेनिक्तम् । नेनिक्त । 'आडुत्तमस्य' इति पित्त्वेन अडित्त्वाल्लघूपधगुणे प्राप्ते । नाभ्यस्तस्याचि ॥ 'मिदेर्गुणः' इत्यतो गुण इति 'पुगन्त' इत्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति । लघूपधगुणो न स्यादिति । नेनिजानीति ॥ नेनिजाव । नेनिजाम । नेनिक्ताम् । नेनिजाताम् । नेनिजताम् । नेनिक्ष्व । नेनिजाथाम् । नेनिग्ध्वम् । नेनिजै । नेनिजावहै । नेनिजामहै । लडि परस्मैपदे आह । अनेनेगिति ॥ अनेनिजुरिति ॥ अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् । अनेनिक्तम् । अनेनिक्त । अनेनिजम् । 'नाभ्यस्तस्य' इति न गुणः । अनेनिज्व । अनेनिज्म । निक्षीष्ट । लुङ्याह । अनिजदिति ॥ इरित्त्वादडिति भावः । अनिक्तेति ॥ 'झलो झलि' इति सिज्लोपः ।
पृथग्भावे । वेवेक्ति-वेविक्ते । विवेजिथ । अत्र 'विज इट्' (सू २५३६) इति ङित्त्वं न 'ओ विजी' इत्यस्यैव तत्र ग्रहणात् । 'णिजिविजी' रुधादावपि । विष्लृ १०९५ व्याप्तौ । वेवेष्टि-वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ 'क्सस्याचि' (सू २३३७) इत्यल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ।
अथ आगणान्तात्परस्मैपदिनश्छान्दसाश्च । घृ १०९६ क्षरणदीप्त्योः । 'जिघर्म्यग्निं हविषा घृतेन' । 'भृञामित्' (सू २४९६)| 'बहुलं छन्दसि' सू (३५९८) इतीत्त्वम् । हृ १०९७ प्रसह्यकरणे । अयं स्रुवोऽभिाजिहर्ति होमान् । ऋ १०९८ सृ १०९९ गतौ । बहुलं छन्दसि (३५९८) इत्येव सिद्धे 'अर्तिपिपर्त्योश्च' (सू २४९३) इतीत्त्वविधानादयं भाषायामपि । अभ्यास-
अनिक्षाताम् इत्यादि । विजिरपि णिजिर्वत् । अत्रेति ॥ थलि इट्पक्षे 'विज इट्' इति विहित डित्त्व नेत्यर्थ । अतो न गुणनिषेध इति भावः । ओ विजी इत्यस्यैवेति ॥ व्याख्यानादिति भाव । रुधादावपीति ॥ ततश्च ‘रुधादिभ्य. श्नम्’ इति श्नम्विकरणावपि ताविति भाव । बिष्लृ व्याप्तौ इति ॥ लृदित् उभयपदी अनिट् । णिजेरिव रूपाणि । वेवेष्टीति ॥ ष्टुत्वेन तकारस्य टः । सिपि ‘पढोः’ इति षस्य कत्वम् । वेवेक्षि । वेविष्ठः । वेविड्ढि । अविषदिति ॥ लृदित्त्वादडिति भावः । तङि क्सः इति ॥ 'शल इगुपधात्' इत्यनेनेति भावः । आगणान्तादिति ॥ जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वे अभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृत । जघ्रति । 'जिघर्म्यग्नि हविषा घृतेन' इति बहृचमन्त्रपाठ. । 'जिघर्म्यग्नि मनसा घृतेन' इति तैत्तिरीयपाठः । अत्र इत्त्वमभ्यासस्य आह । भृञामिदिति ॥ ननु तत्र त्रयाणामेव ग्रहणमित्यत आह । बहुळमिति ॥ इत्त्व छान्दसमिति भावः । जघार । जघ्रतुः । जघर्थ । जघ्र । जघ्रिव । घरिष्यति । जघर्तु-जघृतात् । जघ्रतु । जघृहि । जघराणि । अजघः । अजघृताम् । अजघरु. । अजघरम् । अजघृव । जघृयात् । घ्रियात् । अघार्षीत् । अघरिष्यत् । हृ प्रसह्यकरणे इति ॥ घृधातुवद्रूपाणि । अयं स्रुवो अभिजिहर्ति होमानिति ॥ स्रुवे साद्यमाने याजमानो मन्त्रः । अत्रापि अभ्यासस्य इत्त्व छान्दसमिति भावः । ऋ सृ गताविति ॥ इमावनिटौ । तत्र ॠधातो. छान्दसत्वेऽपि लोकेऽपि क्वचित् प्रयोगं समर्थयति । बहुळमिति ॥ 'भृञामित्' । 'अर्तिपिपर्त्योश्च' 'बहुळ छन्दसि ' इति सूत्रस्थिति. । तत्र बहुळञ्छन्दसीत्येव ॠधातोरित्त्वसिद्धे. 'अर्तिपिपर्त्योश्च' इत्यर्तिग्रहणात् लोकेऽपि ॠधातोः श्लुविकरणस्य प्रयोगो विज्ञायते इत्यर्थः । एतच्चात्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भष्यात् श्लुविकरणस्यैव ॠधातो. 'अर्तिपिपर्त्योश्च' इत्यत्र ग्रहणम् । पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहणस्य चानुवृत्तेश्चेत्यलम् । अभ्यासस्यासवर्णे इति ॥ शपः श्लौ ॠ ति इति स्थिते द्वित्वे उरदत्त्वम्बाधित्वा 'अर्तिपिपर्त्योश्च' इत्यभ्या
स्यासवर्णे (सू २२९०) इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः | 'इडत्त्यर्ति–' (सू २३८४) इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति | इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति |भस ११०० भर्त्सनदीप्त्योः । बभस्ति । 'घसिभसोर्हलि–' (सू ३५५०) इत्पुपधालोपः । 'झलो झलि' (सू २२८१) इति सलोपः । बब्धः | बप्सति |
सॠकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ॠकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते 'अभ्यासस्यासवर्णे ' इति इयडि इयर्ति इति रूपमित्यर्थ. । इयृतः इति ॥ पूर्ववदेव द्वित्वादि । तस. अपित्त्वेन डित्त्वाद्गुणनिषेध इति भाव. । इय्रतीति ॥ पूर्ववदेव द्वित्वादि | अभ्यस्तत्वाददादेश: । डित्त्वान्न गुण । उत्तरखण्डस्य ॠकारस्य यण् रेफ इति भावः । इयर्षि | इयृथः । इयर्मि । इयृवः । इयृमः । लिट्याह । आरेति ॥ थलि 'अचस्तास्वत्' इति 'ॠतो भारद्वाजस्य' इति नित्यमिण्निषेधे प्राप्ते आह | इडत्त्यर्तीति । नित्यमिडिति ॥ आरिथ | आरिम । अर्तेति ॥ अनिट्त्वादिति भाव । अरिष्यतीति ॥ 'ॠद्धनो: स्ये' इति इडिति भाव: | इयर्तु-इयृतात् । इयृताम् । इय्रतु । इयृहि-इयृतात् । इयृतम् । इयृत | इयराणीति ॥ आट पित्त्वेन अडित्त्वान्न गुणनिषेध इति भाव: | इयराव | इयराम | लड्याह । ऐय: इति ॥ श्लौ ॠ त् इति स्थिते द्वित्वे अभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयडि उत्तरखण्डस्य गुणे रपरत्वे च हल्ड्यादिलोपे रेफस्य विसर्गे इयः इति स्थिते आटि वृद्धौ ऐय. इति रूपमिति भावः | नच लावस्थायामडिति पक्षे वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ड्यादिलोपे रेफस्य विसर्गे आः इति स्यादिति शङ्क्यम् । बहुल छन्दस्यमाड्योगेऽपि' इति बहुलग्रहणेनात्र लावस्थायामाडित्यस्यानाश्रयणादित्याहुः । ऐयरुरिति ॥ ऐय । ऐयृतम् । ऐयृत । ऐयरम् । ऐयृव | ऐयृम । विधिलिङ्याह । इयृयादिति ॥ यासुटो डित्त्वाद्गुणनिषेध इति भाव | इयृयाताम् इत्यादि । आशीर्लिङ्याह । अर्यादिति ॥ 'अकृत्सार्वधातुकयोः' इति दीर्घः प्राप्तः । तं बाधित्वा 'रिड् शयग्लिङ्क्षु' इति रिड् प्राप्तः | तम्बाधित्वा 'गुणोऽर्तिसयोगाद्योः' इति गुण इति भावः । लुडयाह । आरदिति ॥ 'सर्तिशास्त्यर्तिभ्यश्च' इत्यडि 'ॠदृशोऽडि' इति गुण इति भाव । आरिष्यत् । तदेव ॠधातु निरूप्य
सृधातु निरूपयति । ससर्तीति ॥ ससृत । सस्रति । इत्यादि सुगमम् । ससार । ससर्थ | ससृव | सर्ता । सरिष्यति । ससर्तु | अससः | अससृताम् । अससरु | ससृयात् । स्रियात् | असरत् | भस भर्त्सने इति ॥ अय सेट् । बभस्तीति ॥ श्लौ भस् ति इति स्थिते द्वित्वे अभ्यासजश्त्वमिति भावः | बभस् तस् इति स्थिते आह । घसिभसोरिति ॥ 'घसिभसोर्हलि च' इत्यस्यायमर्थः । छन्दसि अनयोरुपधाया लोपः स्यात्, हलादावजादौ च क्डिति परे इति । तथाच बभस् तस् इत्यत्र उपधालोपे 'झलो झलि' इति सकारलोपे तकारस्य 'झषस्तथोः' इति धत्वे भकारस्य जश्त्वमिति भावः | बप्सतीति ॥ अभ्यस्तत्वाददादेशे बभस् अति इति स्थिते 'घसिभसोः' इत्युपधालोपे भकारस्य चर्त्वमिति भावः |
कि ११०१ ज्ञाने । चिकेति । तुर ११०२ त्वरणे । तुतोर्ति । तुतूर्तः । तुतुरति । धिष ११०३ शब्दे । दिधेष्टि । दिधिष्टः । धन ११०४ धान्ये । दधन्ति । दधन्तः । दधनति । जन ११०५ जनने । जजन्ति ।
२५०४ । जनसनखनां सञ्झलोः । (६-४-४२)
बभस्सि | बब्ध । बब्ध । बभस्मि । बप्स्व. । बप्स्मः । बभास । बप्सतुः । बप्सुः । बभसिथ । बप्सथुः । बप्स । बभास-बभस । बप्सिव । बप्सिम । भसिता । भसिष्यति । बभस्तु-बब्धात् | बब्धाम् । बप्सतु । बब्धि-बब्धात् । बब्धम् । बब्ध । बभसानि । बभसाव । बभसाम । अबभः । अबब्धाम् । अबप्सुः । अबभ. । अबब्धम् । अबब्ध । अबप्सम् । अबप्स्व । बप्स्यात् । भस्यात् । अभासीत्-अभसीत् । अभसिष्यत् । कि ज्ञाने । चिकेतीति ॥ किधातोस्तिपि श्लौ
द्वित्वे अभ्यासकुत्वे उत्तरखण्डस्य गुण इति भाव. । चिकित. । चिक्यति । चिकेषि । चिकिथः । चिकिथ । चिकेमि । चिकिवः । चिकाय । चिक्यतुः । चिकयिथ-चिकेथ । चिक्यिव । केता । केष्यति । चिकेतु-चिकितात् । चिकिताम् । चिक्यतु । चिकिहि । चिकयानि । अचिकेत् । अचिकिताम् । अचिकयुः । अचिकेः । अचिकयम्। अचिकिव । चिकियात् । कीयात् । अकैषीत् । अकेष्यत् । तुर त्वरणे इति ॥ तुतूर्तः इति ॥ 'हलि च' इति दीर्घः । तुतोर्षि। तुतूर्थः । तुतूर्थ। तुतोर्मि । तुतूर्व । तुतोर । तुतुरथु. । तुतोरिथ । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु-तुतूर्तात् । तुतूर्ताम् । तुतुरतु । तुतूर्हि । तुतोराणि । अतुतोः । अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतोरम् । अतुतूर्व । तुतूर्यात् । तूर्यात् । अतोरीत् । अतोरिष्यत् । धिष शब्दे सेट् । दिधेष्टीति ॥ श्लौ द्वित्वादौ लघूपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति । दिधेक्षि । दिधिष्ठः । दिधेष्मि । दिधिष्वः । दिधेष । दिधिषतुः । दिधेषिथ । दिधिषिव । धेषिता । धषिष्यति । दिधेष्टु-दिधिष्टात् । दिधिषतु । दिधिड्ढि । दिधेषाणि । अदिधेट् । अदिधिष्टाम् । अदिधिषुः । अदिधेषम् । अदिधिष्व । दिधिष्यात् । अधैषीत् । अधेषिष्यत् । धन धान्ये इति ॥ धान्यार्जने इत्यर्थः । दधन्तीति ॥ क्षमूष् स्हने इति धातोः चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः । दधसि | दधन्थ । दधन्मि । दधन्वः । दधन्मः । दधान । दधनतुः । दधनिथ । दधनिव । धनिता । धनिष्यति । दधन्तु-दधन्तात् । दधन्ताम् । दधनतु । दधन्हि । दधनानि । अदधन् । अदधन्ताम् । अदधनुः । अदधन् । अदधन्तम् । अदधन्त । अदधनम् । अदधन्व । अदधन्म । दधन्यात् । धन्यात् । अधानीत्-अधनीत् । अधनिष्यत् । जन जनने इति ॥ उत्पत्तौ अकर्मकः । उत्पादने सकर्मकः | जनसन ॥ 'विड्वनोः' इत्यत. आदित्यनुवर्तते । तदाह । एषामाकारोऽन्तादेशः इति ॥ सन् झल् इत्यनयोः द्वन्द्वात् सप्तमीद्विवचनम्। सनि झलि चेति लभ्यते। 'अनुदात्तोपदेशे' इत्यतः झलि क्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्डितीत्यनुवृत्तं तु एतत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्डितीति लभ्यते । तथाच झलादौ सनीति झलादौ क्डितीति च परनिमित्तद्वयं लब्धम् । तदाह ।
एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजायात्-जजन्यात् । जायात्-जन्यात् । गा ११०६ स्तुतौ । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ।
इति तिडन्तजुहोत्यादिप्रकरणम् ।
झलादौ सनि झलादौ क्ङिति चेति ॥ सन्विशेषणञ्झलादाविति किम् । जिजनिषति । सिसनिषति । चिकनिषति । अथ क्डितोर्झल्विशेषणस्य प्रयोजनमाह । जज्ञतीति ॥ जजन् अति इति स्थिते अतेर्डित्त्वे झलादित्वाभावादात्त्वाभावे 'गमहन' इत्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावः । 'जनसनखना सन्' इत्याश्रित्य योगविभागेन उक्तार्थसिद्धिञ्चाश्रित्य झल्ग्रहणन्त्वत्र सूत्रे प्रत्याख्यातम् भाष्ये । जजंसीति ॥ 'नश्च' इत्यनुस्वार.। जजाथ. । जजाथ । जजन्मि । जजन्वः । जजन्म । जजानेति ॥ जज्ञतु । सेडयम् । जजनिथ। जज्ञथुः । जज्ञिव । जनिता । जनिष्यति । जजन्तु-जजातात् । जजाहि । जजनानि । अजजन् । अजजाताम् । अजज्ञु. । अजजनम् । अजजन्व । विधिलिङि 'ये विभाषा' इति मत्त्वा आह । जजायात्-जजन्यात् इति ॥ अजनीत्-अजानीत् । अजनिष्यत् । गा स्तुतौ। देवान्जिगातीति ॥ 'भृञामित्' इत्यत्र 'बहुळञ्छन्दसि' इति वचनादभ्यासस्य इत्त्वमिति भावः । जिगीतः इति ॥ 'ई हल्यघोः' इति ईत्त्वम् । जिगतीति ॥ अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः । जिगासि । जिगीथः । जिगीथ । जिगामि । जिगीवः । जगौ । जगतुः । जगिथ-जगाथ । जगिव । गाता । गास्यति । जिगातु-जिगीतात् । जिगीताम् । जिगतु । जिगीहि । जिगानि । आजगात् । अजिगीताम् । अजिगुः । अजिगाः । अजिगाम् । अजिगीव । जिगीयात् । आशिषि गायात् । अगासीत् । अगास्यत् ।
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी-
व्याख्यायां बालमनोरमायां श्लुविकरणं समाप्तम् ।
। श्रीरस्तु ।
॥ अथ तिङन्तदिवादिप्रकरणम् ॥
दिवु ११०७ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिxतिषु । झॄषन्ताः परस्मपादनः ।
२५०५ । दिवादिभ्यः श्यन् । (३-१-६९)
शापोऽपवादः 'हलि च' (सू ३५४) इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् । षिवु ११०८ तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यषेवीत्-न्यसेवीत् । स्रिवु ११०९ गतिशोषणयोः । ष्ठिवु १११० निरसने । केचिदिहेमं न पठन्ति । ष्णुसु ११११ अदने । 'आदाने' इत्येके । 'अदर्शने' इत्यपरे । सुष्णोस । ष्णसु १११२ निरसने । स्नस्यति । स सस्नास । क्नसु १११३ ह्वरणदीप्त्योः । ह्वरणं कौटिल्यम् । चक्नास । व्युष १११४ दाहे । वुव्योष । प्लुष १११५ च । नृती १११६ गात्रविक्षेपे । नृत्यति । ननर्त ।
अथ श्यन्विकरणधातवो निरूप्यन्ते । दिवु क्रीडेति ॥ उदिदयम् । तेन क्त्वायामिड्विकल्पः | निष्ठायाञ्च सेट्। झॄषन्ताः इति ॥ जॄप् झॄप् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थ । दिवादिभ्यः श्यन् ॥ 'कर्तरि शप्' इत्यत. कर्तरीति 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य आह । शापोऽपवादः इति ॥ शकारनकारावितौ । दिव् य ति इति स्थिते आह । हालि चेति दीर्घः इति ॥ श्यन. अपित्त्वेन डित्त्वान्न गुण इति भावः । दीव्यतः । दीव्यन्ति । इत्यादि सुगमम्। दिदेवेति ॥ दिदिवतु । दिदेविथ । दिदिविव । सेट्त्व सूचयति । देवितेति ॥ षिवु धातुरपि सेट् षोपदेशः दिवुधातुवत् । परिषीव्यतीति ॥ 'परिनिविभ्यस्सेव' इति षत्वमिति भाव । परिषिषेवेति ॥ स्थादिष्वेवाभ्यासस्य इति नियमस्तु न । तत्र प्राक्सितादित्यनुवृत्तेरिति भावः । 'सिवादीना वाडव्यवायेऽपि' इति मत्वा आह । न्यषेवीत्-न्यसेवीदिति ॥ स्रिवु धातुस्तु रेफवान् । ष्ठिवु निरसने इति ॥ 'सुब्धातुष्वक्कष्ठीवाम्' इति न सत्वम् । ष्ठीव्यति इत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिवुधातुवद्रूपाणि । ष्णसु धातुश्च षोपदेशः । नृती गात्रेति ॥ 'श्वीदितः'
२५०६ । सेऽसिचि कृतचृतछृदतृदनृतः । (७-२-५७)
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्य इड्वा स्यात् । नर्तिष्यति-नर्त्स्येति । नृत्येत् । नृत्यात् । अनर्तीत् । त्रसी १११७ उद्वेगे | 'वा भ्राश--' (सू २३२१) इति श्यन्वा । त्रस्यति-त्रसति । त्रेसतुः-तत्रसतुः | कुथ १११८ पूतीभावे । पूतीभावो दौर्गन्ध्यम् । पुथ १११९ हिंसायाम् | गुध ११२० परिवेष्टने । क्षिप ११२१ प्रेरणे । क्षिप्यति । क्षेप्ता | पुष्प ११२२ विकसने । पुष्प्यति । पुपुष्प । तिम ११२३ ष्टिम ११२४ ष्टीम ११२५ आर्द्रीभावे । तिम्यति । स्तिम्यति । स्तीम्यति । व्रीड ११२६ चोदने लज्जायां च । व्रीड्यति । इष ११२७ गतौ । इष्यति । षह १११८ षुह ११२९ चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति | जॄष् ११३० झॄष् ११३१ वयोहानौ । जीर्यति । जजरतुः-जेरतुः | जरिता-जरीता | जीर्येत् । जीर्यात् । 'जॄस्तम्भु--' (सू २२९१) इत्यङ्वा । 'ऋदृशोऽङि गुणः' (सू २४०६) । अजरत्-अजारीत् | अजारिष्टाम् । झीर्यति । जझरतु: |अझारीत् । षूङ् ११३२ प्राणिप्रसवे । सूयते । सुषुवे । 'स्वरतिसूति--'(सू २२७९) इति विकल्पं बाधित्वा 'श्र्युकः किति' (सू २३८१) इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता-सविता |
इत्याद्यर्थमीत्त्वम् । सेडयम् । सेऽसिचि ॥ से असिचि इति छेदः । सप्तमी षष्ठ्यर्थे । कृत चृत छृद तृद नृत् एषां समाहारद्वन्द्वात् पञ्चमी । 'उदितो वा' इत्यतो वेति आर्धधातुकस्येडिति चानुवर्तते | तदाह । एभ्यः इत्यादिना ॥ नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तदिति ॥ 'सेऽसिचि' इत्यत्र असिचि इत्युक्तेर्नित्यमिडिति भाव. । त्रसी उद्वेगे ॥ 'वा जॄभ्रमुत्रसाम्' इत्येत्त्वाभ्यासविकल्पौ मत्त्वा आह । त्रेसतुः-तत्रसतुरिति । कुथ पूतीभावे इति ॥ पवित्रीभवने इत्यर्थः । दुर्गन्धकरणे इति वा । (पूतिगन्धस्तु दुर्गन्धः) इत्यमरः । तिम ष्टिम ष्टीमेति ॥ द्वितीयतृतीयौ षोपदेशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षहषुहेति षोपदेशौ । चक्यर्थस्तृप्तिरिति ॥ यद्यपि 'चक तृप्तौ प्रतिघाते च' इत्युक्तम् । तथापि तृप्तिरेवेह विवक्षिता व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति त्क्तप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरिति ‘पूरणगुण’ इति सूत्रे कैयटः। जॄष् झॄष् वयोहानाविति सेट्कौ । जीर्यतीति ॥ 'ॠत
इद्धातोः' इति इत्त्वे 'हलि च' इति दीर्घ इति भावः । अतुसादौ 'ॠच्छत्यॄताम्' इति गुणे रपरत्वे 'वा जॄभ्रमुत्रसाम्' इत्येत्त्वाभ्यासलोपविकल्प इति भावः | जजरिथ | 'वृतो वा' इति मत्वा आह । जरिता-जरीतेति ॥ षूङ् प्राणिप्रसवे इति ॥ प्रसवः उत्पादन षोपदेशोऽयम् । विकल्पमिति ॥ परमपीति शेषः । निषेधे प्राप्ते इति ॥ पुरस्तात्प्रति
दृङ् ११३३ परितापे । दूयते । दीङ् ११३४ क्षये । दीयते ।
२५०७ । दीङो युडचि क्ङिति । (६-४-६३)
दीङः परस्याजादेः क्डित आर्धधातुकस्य युट् स्यात् । 'वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ' (वा ४०६२) दिदीये ।
२५०८ । मीनातिमिनोतिदीङां ल्यपि च । (६-१-५०)
एषामात्त्वं स्याल्ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः । डीङ् ११३५ विहायसा गतौ । डीयते । धीङ् ११३६ आधारे । धीयते । दिध्ये । धेता । मीङ् १२३७ हिंसायाम् । हिसा अत्र प्राणवियोगः । मीयते । रीङ् ११३८ श्रवणे । रीयते । लीङ् ११३९ श्लेषणे ।
२५०९ । विभाषा लीयतेः । (६-१-५१)
लीयतेरिति यका निर्देशो न तु श्यना । लीलीङोरात्त्वं वा स्यादेज्विषये ल्यपि च । लेता-लाता । लेष्यते—लास्यते । 'एज्विषये' किम् । लीयते ।
षेधकाण्डारम्भसामर्थ्यादिति भावः । दूङ् परितापे इति ॥ पीडने पीडितीभवने वेत्यर्थः । आद्ये सकर्मक । द्वितीये अकर्मकः । दीङ् क्षये इति ॥ क्षयो ह्रस्वः नाशो वा । दीङो युडचि ॥ 'आर्धधातुके ' इत्यधिकृतम् अचा विशेष्यते । तदादिविधिः । दीड इति पञ्चमी । सप्तमी षष्ठ्यर्थे । तदाह । दीङः परस्येत्यादिना ॥ दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वात् युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दीदीये इति रूपमिति भाव. । ननु युटि कृतेऽपि तस्यासिद्धत्वाद्यण् दुर्वारः। तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत यकारद्वय श्रूयेत । इत्यत आह । वुग्युटाविति ॥ मीनातिमिनोति ॥ 'आदेच उपदेशेऽशिति' इत्यत. आदित्यनुवर्तते । तदाह । एषामात्त्वं स्यात् ल्यपीति ॥ चकारात् एचः अशितीति परनिमित्तं समुच्चीयते । तत्र एच इत्यनन्तर निमित्ते इति शेष । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह । चकारादशित्येज्निमित्ते इति ॥ समुच्चीयत इति शेष.। लुड्याह । अदास्तेति ॥ इह आत्त्वे कृते डित्त्वे सत्यपि 'स्थाध्वोरिच्च' इति न भवति । स्थाध्वोरित्त्वे 'दीडः
प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तिकादिति भावः । धीङ् आधारे इति ॥ आधारः आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति ॥ लीयते । लिल्ये । लिल्यिषे । विभाषा लीयतेः ॥ ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति श्नाविकरणस्य ग्रहण न स्यादित्यत आह । यका निर्देशः इति ॥ ‘सार्वधातुके यक्’ इति विहितयका लीयतेरिति निर्देशः सच श्यन्श्नान्तसाधारणः । यक उभयत्रापि साधारण्यादिति भावः । 'मीनातिमिनोति' इत्यतः ल्यपीति 'आदेच.' इत्यतः आदिति एच इति च । तदाह । लीलीङोरित्यादिना ॥
लिल्ये । व्रीङ् ११४० वृणोत्यर्थे । व्रीयते । विव्रिये । 'स्वादय ओदितः (ग सू २९६) । तत्फलं तु निष्ठानत्वम् । पीङ् ११४१ पाने । पीयते । मा ङ् ११४२ माने । मायते । ममे । ईङ् ११४३ गतौ । ईयते । अयां चक्रे । प्रीङ् ११४४ प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ।
अथ चत्वारः परस्मैपदिनः । शो ११४५ तनूकरणे ।
२५१० । ओतः श्यनि । (७-३-७१)
लोपः स्याच्छ्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । 'विभाषा घ्राधेट्--' (सू २३७६) इति सिचो वा लुक् । लुगभावे 'यमरम—' (सू २३७७) इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् । छो ११४६ छेदने । छ्यति । षो ११४७ अन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ । दो ११४८ अवखण्डने । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ।
अथात्मनेपादिनः पञ्चदश । जनी ११४९ प्रादुर्भावे ।
स्वादय ओदितः इति ॥ धातुपाठपठितङ्गणसूत्रमिदम् । ‘षूड् प्राणिप्रसवे' इत्यारभ्य व्रीडन्ता ओदित्कार्यभाज इत्यर्थ:| निष्ठानत्वमिति ॥ 'ओदितश्च' इत्यनेनेति भाव | प्रीङ् प्रीताविति ॥ प्रीतिस्तुष्टिः । (मुत्प्रीतिः प्रमदो हर्षः) इत्यमर । एव सत्यकर्मकः । यथा फलमूलादिना हरिः प्रीयते । हृष्यतीत्यर्थः । यदा तु प्रीति तर्पणं ‘प्रीञ् तर्पणे' इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्ति तदा तु सकर्मक । तदाह । सकर्मकः इति । प्रीयते इति ॥ तर्पयतीत्यर्थ. । अथ चत्वारः परस्मैपदिनः इति ॥ ‘देा अवखण्डने’ इत्यन्ता इति भावः । शो तनूकरणे । अनिट् । ओतः शयनि ॥ 'घोर्लोपो लेटि वा' इत्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेष पूरयति । लोपः स्यादिति । शशाविति ॥ 'आदेच' इत्यात्त्वे णलिति भावः । शशतुरिति ॥ शशिथ-शशाथ । शशिव । शास्यतीति ॥ श्यतु । अश्यत् । श्येत् । शायात् । लुडि सिचि विशेषमाह । विभाषा घ्रेति ॥ सिचेा लुक्पक्षे आह । अशादिति ॥ ‘आत’ इति जुसिति मत्वा आह । अशुरिति ॥ सिचो लुगभावे सगिटौ मत्वा आह । अशासीदिति ॥ छोधातुरपि शोधातुवत् । षो अन्तकर्मणीति ॥ समापने विनाशने वेत्यर्थ । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ॥ 'ओतः श्यनि' इति लोपः । अभिष्यतीति । अभ्यष्यदिति ॥ 'प्राक्सितात्' इति षत्वम् । अभिससाविति ॥ स्थादिष्विति नियमात् न ष .। दो अवखण्डने । प्रणिदातेति ॥ 'नेर्गद' इति णत्वम् । देयादिति ॥ आशीर्लिङि एर्लिङीत्येत्त्वम्। अदादिति ॥ 'गातिस्था' इति सिचो लुक् । अथात्मनेपदिनः इति ॥ वाशृ शब्दे इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ॥ श्वीदितो निष्ठा
२५११ । ज्ञाजनोर्जा । (७-३-७९)
अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता | जनिष्यते । 'दीपजन-' (२३२८) इति वा चिण् |
२५१२ । जनीवध्योश्च । (७-३-३५)
अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि—अजनिष्ट | दीपी ११५० दीप्तौ । दीप्यते । दिदीपे । अदीपि-अदीपिष्ट । पूरी ११५१ आप्यायने | पूर्यते । अपूरि-अपूरिष्ट । तूरी ११५२ गतित्वरणहिंसनयोः | तूर्यते । तुतूरे । धूरी ११५३ गूरी ११५४ हिंसागत्योः । धूर्यते | दुधूरे । गूर्यते । जुगूरे । घूरी ११५५ जूरी ११५६ हिंसावयोहान्योः | शूरी ११५७ हिंसास्तम्भनयोः | चूरी ११५८ दाहे । तप ११५९ ऐश्वर्ये वा | अयं धातुरैश्वर्ये वा श्यनन्तङञ्च लभते । अन्यदा तु शब्विकरण: परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधातोराद्यवयवमिच्छन्ति । तप्यते | तप्ता | तप्स्यते । 'पत' इति व्यत्यासेन पाठान्तरम् । 'द्युत द्यामानि युतः पत्यमान:' |
याम्' इत्याद्यर्थमीदित्त्वम् । ज्ञाजनोर्जा ॥ शितीति ॥ ष्ठिवुक्लम्वाचमामित्यतस्तदनुवृत्तेरिनि भावः । जायते इति ॥ ज्ञाधातोस्तु श्नाविकरणत्वात् जानातीत्युदाहरणम्। उभयत्रापि जादेशस्य ह्रस्वान्तत्वे ‘अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्’ इति परिभाषया 'अतो दीर्घो यञि' इत्यप्राप्तौ जादेशस्य दीर्घान्तत्वमाश्रितम् । जज्ञे इति ॥ 'गमहन' इत्युपधालोपे नस्य श्चुत्वेन ञः । जायेत । जनिषीष्ट । लुडि अजन् स् त इति स्थिते आह । दीपेति । वा चिणिति ॥ सिच इति शेषः | अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् । जनीवध्योश्च ॥ 'अत उपधाया' इत्यत उपधाया इति 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति 'नोदात्तोपदेशस्य' इत्यतो नेति 'आतो युक्' इत्यतः चिण्कृतोरिति 'अचोञ्णिति' इत्यतः ञ्णितीति चानुवर्तते । तदाह । अनयोरिति ॥ दीपीधातुरीदित् । 'दीपजन' इति सिचः चिण्विकल्पं मत्वा आह । अदीपि-अदीपिष्टेति ॥ पूरीधातुरपि ईदित् । 'दीपजन' इति चिण्विकल्पं मत्वा आह । अपूरि-अपूरिष्टेति ॥
तूरी इत्यादयोऽपि ‘चूरी दाहे’ इत्यन्ता ईदित एव । तप ऐश्वर्येवेति ॥ श्यन् आत्मनेपदश्चेति शेषः | उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति । श्यनं तङञ्चेति ॥ अन्यदा त्विति ॥ ऐश्वर्यादन्यत्रार्थे वृत्तिदशायामित्यर्थः । केचित्त्विति ॥ ‘तप ऐश्वर्ये वा’ ‘वृतु वरणे' इति धातुपाठे स्थितम् । तत्र 'वावृतु वरणे ' इत्येव वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः । एवञ्च तप ऐश्वर्ये इत्येव स्थितम् । अस्मिन्पक्षे तपधातोः नित्यमेव श्यन् तङ् चेति भावः | तप्यते इति ॥ ईष्टे इत्यर्थः । प्रथमपक्षे ऐश्वर्ये तपतीत्यपि भवति । पत इतीति ॥ तपधातोस्तकारपकारयोः क्रमव्यत्यासेन 'पत ऐश्वर्ये वा' इति पाठान्तरमित्यर्थः । एव व्यत्यासेन पाठे
-वृतु ११६० वरणे । वृत्यते । पक्षान्तरे । वावृत्यते । 'ततो वावृत्यमाना सा रामशालां न्यविक्षत ।' इति भट्टिः । क्लिश ११६१ उपतापे । क्लिश्यते । क्लेशिता । काशृ ११६२ दीप्तौ । काश्यते । वाशृ ११६३ शब्दे । वाश्यते । ववाशे ।
अथ पञ्च स्वरितेतः । मृष ११६४ तितिक्षायाम् । मृष्यति—मृष्यते । ममर्ष—ममृषे । शुचिर् ११६५ पूतीभावे । पूतीभावः क्लेदः । शुच्यति-शुच्यते । शुशोच-शुशुचे । अशुचत्-अशोचीत्-अशोचिष्ट । णह ११६६ बन्धने । नह्यति—नह्यते । ननाह । नेहिथ—ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत् । रञ्ज ११६७ रागे । रज्यति-रज्यते । शप ११६९ आक्रोशे । शप्यति-शप्यते ।
अथैकादशानुदात्तेतः । पद ११७० गतौ । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ।
२५१३ । चिण् ते पदः । (३-१-६०)
पदश्च्लेश्चिण्स्यात्तशब्दे परे । प्रण्यपादि । अपत्साताम् । अपत्सत । खिद ११७१ दैन्ये । खिद्यते । चिखिदे । खेत्ता । अखित्त । विद ११७२
प्रयोग दर्शयति । द्युत द्यामानि युतः पत्यमानः इति ॥ “प्रवायुमच्छा बृहतीत्यृचः” एकदेशोऽयम् । पत्यमान इत्यस्य ईशान इत्यर्थः । अत्र लटश्शानच् आत्मनेपद श्यन् च । पक्षान्तरे इति ॥ वावृतु इति पाठपक्षे इत्यर्थः । वावृत्यते इति ॥ वृणोतीत्यर्थः । अपेक्षते इति यावत् । वावृतुधातोः प्रयोग दर्शयति । ततो वावृत्यमानेति ॥ अपेक्षमाणेत्यर्थः । न्यविक्षतेति ॥ 'नेर्विशः' इत्यात्मनेपदम् । 'शल इगुपधात्' इति क्सः । अथ पञ्च स्वरितेतः इति ॥ 'शप आक्रोशे' इत्यन्ता इत्यर्थः । शुच्यतीति ॥ क्लिन्नम्भवतीत्यर्थः । अशुचदिति ॥ इरित्त्वादडिति भावः । णह बन्धने इति ॥ णोपदेशोऽयम् । अनिट् । ननाहेति ॥ नेहतुः । भारद्वाजनियमात्थलि वेट् इति मत्वा आह । नेहिथननद्धेति ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ | इडभावे तु 'नहो धः' इति हस्य ध इति भावः | 'रञ्ज रागे' अनिट् । रज्यतीति ॥ 'अनिदिताम्' इति नलोप इति भावः । ररञ्ज । रेजतुः । नलोपे एत्त्वाभ्यासलोपौ । ररञ्जिथ-ररङ्क्थ । रेजिव । रङ्क्ता इत्यादि । अथैकादशेति ॥ 'लिश अल्पीभावे' इत्यन्ता इत्यर्थे । 'पद गतौ' अनिट् । चिण् ते पदः ॥ पदश्च्लेरिति ॥ 'च्लेस्सिच्' इत्यत च्लेरित्यनुवर्तते इति भावः । तशब्दे इति ॥ आत्मनेपदप्रथमैकवचने इत्यर्थः | इदञ्च भाष्ये स्पष्टम् । प्रण्यपादीति ॥ सिचश्चिणि उपधावृद्धौ 'चिणो
सत्तायाम् । विद्यते । वेत्ता । बुध ११७३ अवगमने । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि-अबुद्ध । अभुत्साताम् । युध ११७४ सम्प्रहारे । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं 'युध्यति' इति युधमिच्छतीति क्यच् । 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' (प ९७) इति वा । अनो रुध ११७५ कामे । अनुरुध्यते । अण ११७६ प्राणने । अण्यते । आणे । अणिता । 'अन' इति दन्त्यान्तोऽयमित्येके । मन ११७७ ज्ञाने । मन्यते । मेने । मन्ता । युज ११७८ समाधौ । समाधिश्चित्तवृत्तिनिरोध: । अकर्मकः । युज्यते । योक्ता । सृज ११७९ विसर्गे । अकर्मकः । संसृज्यते सरसिजैररुणांशुभित्रै: । ससृजिषे । स्रष्टा । स्रक्ष्यते । 'लिङ्-सिचौ–’ (सू २३००) इति कित्त्वान्न गुणो नाप्यम् । सृक्षीष्ट । असृष्ट ।
लुक्’ इति तशब्दस्य लोपः ।‘नेर्गद’ इति णत्वमिति भाव । 'विद सत्तायाम्' वेत्तेति ॥ अनिडिति भाव. । लिटि क्रादिनियमादिट् । एव बुधधातुरपि । बोद्धेति ॥ तासि 'झपस्तथोः' इति तकारस्य धकारः । भोत्स्यते इति ॥ ‘एकाच.’ इति भष् । भुत्सीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वम् । 'दीपजन' इति चिण्विकल्प मत्वा आह । अबोधि-अबुद्धेति । कथं युध्द्यतीति ॥ आत्मनेपदित्वादिति भाव । समाधत्ते । युधमिति ॥ युध् शब्दः भावक्विबन्तः । युधमिच्छतीत्यर्थे 'सुप आत्मन:’ इति क्यजन्तात् परस्मैपदमित्यर्थः । अनुदात्तेत्त्वप्रयुत्तमात्मनेपदमनित्यमिति समाधानं त्वनुचितम् । तस्य भाष्यादृष्टत्वेन अप्रामाणिकत्वात् । अत एव 'व्यत्ययो बहुळम्' इति सूत्रभाष्ये प्रतीपमन्य ऊर्मिर्युध्द्यतीत्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुध कामे इति ॥ अनु इत्युपसर्गात्पर. रुधधातुः कामे वर्तते इत्यर्थः । युज समाधौ । अनिट् । अकर्मकः इति ॥ चित्तवृत्तेर्धीत्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति । सृजियुज्योः सकर्मकयोः कर्मवद्भा व इति कर्मवत्सूत्रवार्तिकात् । एतच्च कर्मकर्तृप्रक्रियाया स्पष्टीभविष्यति । सृज विसर्गे इति ॥ अनिट् । विसर्गस्सम्बन्धः । उपसर्गवशात् । तदाह । अकर्मकः इति । संसृज्यते इति ॥ अरुणांशुभित्रैः अरुणकिरणविकसितै. सरसिजैः कमलै. संसृज्यते सम्बध्नातीत्यर्थः । कमलिनीति शेष: । कर्तरि लकारोऽयम्, न त्वयङ्कर्मणि लकार, अकर्मकत्वात् । अर्थान्तरे तु सकर्मकोऽयमिति कर्मकर्तृप्रक्रियायां वक्ष्यते । लिट्याह । ससृजिषे इति ॥क्रादिनियमादिडिति भावः । स्रष्टेति ॥ 'सृजिदृशोर्झल्यमकिति' इत्यमागमे ॠकारस्य यणि व्रश्चादिना जस्य षः । ष्टुत्वेन तकारस्य ट इति भावः । स्रक्ष्यते इति ॥ पूर्ववदामि जस्य षत्वे 'षढोः' इति षस्य कत्वे, सस्य षत्व
असृक्षाताम् । लिश ११८० अल्पीभावे । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ।
अथागणान्तात्परस्मैपदिनः । राधः ११८१ अकर्मकाद्वृद्धावेव । एवकारो भिन्नक्रमः । राधोऽकर्मकादेव श्यन् । उदाहरणमाह । वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । द्रुह्यन्तमित्यर्थः । राध्यत्योदनः । सिध्यतीत्यर्थः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । 'राधो हिसायाम्' (सू २५३२) इत्येत्त्वाभ्यासलोपाविह न ।
मिति भावः । आशीर्लिङि आह । सृक्षीष्टेति ॥ अत्र लघूपधगुणमाशङ्कय आह । लिङ्सिचाविति । नाप्यमिति ॥ 'सृजिदृशोर्झल्यम्' इत्यमपि नास्तीत्यर्थ. । आकित्येव तद्विधानादिति भावः । लुङ्याह । असृष्टेति ॥ ‘झलो झलि’ इति सिचो लोप. । 'लिङ्सिचावात्मनेपदेषु' इति सिचः कित्त्वान्न गुणः नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति ॥ 'लिङ्सिचौ' इति कित्त्वान्न गुणः । अलिक्षतेति ॥ 'शल इगुपधात्' इति क्स. । आ गणान्तादिति ॥ दिवादिगणसमाप्तिपर्यन्तमित्यर्थ. । राधोऽकर्मकाद्वृद्धावेवेति ॥ श्यनिति शेष. । राधधातोरकर्मकाद्वृद्धावेवार्थे श्यनिति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरर्थान्तरे च श्यन् न स्यात् । इष्यते हि अपराध्यतीत्यादौ द्रोहाद्यर्थेऽपि श्यन् । तत्राह । एवकारो भिन्नक्रमः इति ॥ यस्मिन् क्रमे वृद्धावित्यत ऊर्ध्व एवकार पठितः ततोऽन्यः क्रमो यस्य स भिन्नक्रम इत्यर्थः । वृद्धावित्यत ऊर्ध्व पठित एवकार. अन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति । राधोऽकर्मकादेव श्यनिति ॥ एवञ्चार्थान्तरेऽपि श्यन् सिध्द्यति । शत्रु हिनस्तीत्यर्थे शत्रुमपराध्नोतीत्यत्र सकर्मकत्वात् न श्यनिति भावः । तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्कय अकर्मकक्रिया एवविधेति प्रदर्शनार्थन्तत् नतु परिसङ्ख्यानार्थमित्याह । उदाहरणमाह । वृद्धावितीति ॥ एवञ्च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भाव. । तथाविधार्थान्तराण्युदाहरति । यन्मह्यमित्यादिना ॥ 'क्रुधद्रुह' इति सम्प्रदानत्वम् । कृष्णाय राध्यतीति ॥ 'राधीक्ष्योर्यस्य विप्रश्नः' इति सम्प्रदानत्वम् । दैवमिति ॥ कृष्णस्य किमिदानीं शुभमशुभं वेति पृष्टो दैवज्ञः तस्य शुभाशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत् । ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह । दैवस्येति ॥ ननु 'राधोऽकर्मकाद्वृद्धावेव' इत्यत्र वृद्धिग्रहणस्य उपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकत्वात् रराधतु. इत्यादौ 'राधो हिसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ स्यातामित्यत आह। राधः इति ॥ इह नेति ॥ रराधतुः इत्यादौ राधेर्हिंसार्थकत्वे 'राधो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः । कुत इत्यत
हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च । व्यध ११८२ ताडने । ‘ग्रहिज्या –-’ (सू २४१२) इति सम्प्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्याधिथ-विव्यद्ध । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् । पुष ११८३ पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । 'पुषादि–-' (सू २३४३) इत्यङ् । अपुषत् । शुष ११८४ शोषणे । अशुषत् । तुष ११८५ प्रीतौ । दुष ११८६ वैकृत्ये । श्लिष ११८७ आलिङ्गने । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति |
२५१४ । श्लिष:-
अस्मात्परस्यानिटश्च्लेः क्स: स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपावावदन्यायात् |
आह । हिंसार्थस्येति ॥ नोन्मिषत्येवैषा शङ्का । राधेरकर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाभावादुक्तशङ्काया अनुन्मेषादित्यर्थः । ननु राध्नोति, राधयति, इति कथमित्यत आह । अयं स्वादिश्चुरादिश्चेति ॥ रराधिथ । क्रादिनियमात् नित्यमिट् । दीर्घकारवत्त्वेन 'उपदेशेऽत्वतः' इत्यस्याप्रवृत्तेः । अजन्तोऽकारवानित्यत्र च ह्रस्वाकारस्यैव विवक्षितत्वात् । राद्धा । अरात्सीत् । व्यध ताडने इति ॥ चतुर्थान्तोऽयम् । अनिट्। 'ग्रहिज्या' इति श्यनो डित्त्वात् 'लिट्यभ्यासस्य' इति यकारस्य सम्प्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न सम्प्रसारणम् । 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । विव्याधेति ॥ द्वित्वे कृते अभ्यासस्य 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः । विबिधतुरिति॥ परत्वात् ‘ग्रहिज्या’ इति सम्प्रसारणे कृते द्वित्वमिति भावः । भारद्वाजनियमात्थलि वेडित्यत आह । विव्याधिथ-विव्यद्धेति ॥ 'लिट्यभ्यासस्य' इति सम्प्रसारणम् ।अनिट्पक्षे 'झषस्तथोः' इति धः । अव्यात्सीदिति ॥ हलन्तलक्षणा वृद्धिः । पुषपुष्टौ । अनिट् । पुपोषिथेति ॥ अजन्ताकारवत्वाभावात् क्रादिनियमान्नित्यमिट् । अपुषदिति ॥ पुषाद्यङ्। डित्त्वान्न गुणः । शुषधातुरनिट् । अशुषदिति ॥ पुषाद्यङिति भावः । एवमग्रेऽपि । तुष् दुष् श्लिष् एते अनिटः । लुडि श्लिषः च्लेस्सिजादेशे प्राप्ते । श्लिष: ॥ च्लेरिति 'शल इगुपधात्' इत्यतः अनिटः क्स इति चानुवर्तते । तदाह । अस्मात्परस्येत्यादिना ॥ ननु 'शल इगुपधात्' इत्येव क्से सिध्दे किमर्थमिदमित्यत आह । पुषाद्यङोऽपवादः इति ॥ 'शल इगुपधात्' इति क्स बाधित्वा परत्वात् पुषाद्यङ् स्यात् तन्निवृत्तये पुनः क्सविधिरित्यर्थ. । ननु श्लिष इति क्सः यथा परमपि पुषाद्यङम्बाधते तथा 'चिण्भावकर्मणोः' इति चिणमपि परं बाधेत एवं सति 'उपाश्लेषि कन्या देवदत्तेन' इत्यत्र कर्मणि लुडि 'चिण्भावकर्मणोः' इति च्लेश्चिण् न स्यादित्यत आह । नतु चिणः इति ॥ 'श्लिषः' इति क्सविधिः 'चिण् भाव
---आलिङ्गने । (३-१-४६)
श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्र । योगविभागसामर्थ्यात् 'शल इगुपधात्--' (सू २३३६) इत्यस्याप्ययं नियमः 'अश्लिक्षत्कन्यां देवदत्तः' । 'आलिङ्गन एव' इति किम् । समाश्लिषज्जतुकाष्ठम् । आङ् । प्रत्यासक्ताविह श्लिषिः । कर्मण्यनालिङ्गने सिजेव न तु क्स: । एकवचने
कर्मणो.' इति चिण्विधेर्न बाधक इत्यर्थः । कुत इत्यत आह । पुरस्तादिति ॥ 'शल इगुपधादनिट क्स' 'श्लिषः' 'पुषादिद्युताद्यूलृदितः परस्मैपदेषु' 'चिण् भावकर्मणो' इति सूत्रक्रम इति भाव । आलिङ्गने श्लिष इति पूर्वसूत्रे यदनुवृत्तन्तत्सर्वमिहानुवर्तते, श्लिष इति च । तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'श्लिषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह । श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति ॥ नन्वयन्नियम. “अनन्तरस्य” इति न्यायात् श्लिष इति सूत्रप्राप्तस्यैव स्यात्, नतु 'शल इगुपधात्' इत्यस्यापीत्यत आह । शल इगुपधादित्यस्याप्ययं नियमः इति ॥ कुत इत्यत आह । योगविभागसामर्थ्यादिति ॥ यदि श्लिष इति प्राप्त एव क्स एव आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात् । 'श्लिष आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात्। अत 'शल इगुपधात्' इति क्सोऽपि श्लिपेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायते इत्यर्थ । अश्लिक्षत् कन्यां देवदत्तः इति ॥ आलिङ्गदित्यर्थ. । अत्र पुषाद्यडम्बाधित्वा अनेन क्स. । समाश्लिषज्जतुकाष्ठमिति ॥ जतु लाक्षा । साच काष्ठलग्नैवोत्पद्यते इति स्थितिः । जतु काष्ठञ्चेति समाहारद्वन्द्वः । (समाश्लिषज्जतुकाष्ठञ्च) इत्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाभावान्न क्सः । किन्तु पुषाद्यडेवेति भाव । नन्वजादित्वाभावेन आडागमस्यासम्भवात् समाश्लिषदित्ययुक्तमित्यत आह । आङिति ॥ समाश्लिषत् इत्यत्र श्लिषे प्राक् आङ्उपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थ । नन्वालिङ्गन समाश्लेषण तथाच समाश्लिषज्जतुकाष्ठम् इत्यत्रापि श्लिषेरालिङ्गनार्थकत्वात् क्सो दुर्वार इत्यत आह । प्रत्यासक्ताविहेति ॥ इह समाश्लिषज्जतुकाष्ठम् इत्यत्र । श्लिषिः प्रत्यासक्तौ संयोगे वर्तते नतु बाह्वादिना सवलनात्मकसम्बन्धविशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सः न त्वनालिङ्गने इति नियमात् अनालिङ्गने 'शल इगुपधात्' इत्यपि क्सो न भवतीत्युक्तमयुक्तम् । समाश्लिषज्जनुकाष्ठमित्यत्रानालिङ्गने 'शल इगुपधात्' इति क्सम्बाधित्वा परत्वात् पुषाद्यड एव प्राप्त्या क्सस्याप्रसक्तेरित्यत आह । कर्मणीति ॥ अनालिङ्गनवृत्ते श्लिषधतोः कर्मणि लुडि च्लेस्सिजेव भवति, न तु पुषाद्यड्, तस्य परस्मैपदविषयत्वात् । कर्मणि लुडश्च ‘भावकर्मणोः' इत्यात्मनेपदनियमात् । तस्य च सिच 'शल इगुपधात्' इति प्राप्त क्सः उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः । यदुक्त आलिङ्गने श्लिषश्च्ले. क्स पुषाद्यड एवापवादः नतु चिणः इति । तस्य
31
चिण् । अश्लेषि । अश्लिक्षाताम् । अश्विक्षत । अश्लिष्ठाः । अश्लिड्ढ्वम् । शक ११८८ विभाषितोऽमर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति--शक्यते वा हरिं द्रष्टुं भक्त: । शशाक । शेकिथ-शशक्थ । शेके । शक्ता । शक्ष्यति-शक्ष्यते । अशकत्-अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति । ष्विदा ११८९ गात्रप्रक्षरणे । धर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् । क्रुध ११९० क्रोधे । क्रोद्धा । क्रोत्स्यति । क्षुध ११९१ बुभुक्षायां । क्षोद्धा । कथं क्षुधित इति । सम्पदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु 'वसतिक्षुधोः---'
प्रयोजनमाह । एकवचने चिणिति ॥ तदेवोदाहृत्य दर्शयति । अश्लेषीति ॥ आलिङ्गिता कन्या देवदत्तेनेत्यर्थ . । श्लिषेरालिङ्गनार्थकात् कर्मणि लुडि प्रथमैकवचने तशब्दे परे 'चिण् भावकर्मणो' इति च्लेश्चिणि कृते 'चिणो लुक्' इति तशब्दस्य लुक् । अत्र श्लिष इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाभावाच्चिण् निर्बाध इति भाव । 'समाश्लेषि जतुना काष्ठम्' इत्यत्र तु अनालिङ्गनात् च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवञ्च आलिङ्गने अनालिङ्गनेऽपि श्लिष: कर्मणि लुडि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथानालिङ्गने श्लिषः कर्मणि लुडि 'शलः' इति क्सोऽपि नेति यदुक्तन्तदुदाहृत्य दर्शयति । आश्लिक्षातामिति ॥ 'अनालिङ्गने श्लिष. कर्मणि लुड. आतामि च्लेः क्साभावात् सिचि 'षढो' इति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वाश्लिक्षातामित्यत्र सत्यपि क्से 'क्सस्याचि' इत्यकारलोपे इष्ट सिद्धमित्यस्वरसात्कर्मणि लुडि झादावुदाहरति । अश्लिक्षतेत्यादि ॥ अश्लिष् स् झ इति स्थिते झोऽन्तादेश बाधित्वा 'आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचस्सस्य षत्वे अश्लिक्षतेतीष्यते । च्ले क्से तु सति अश्लिष् स् झ इति स्थिते 'क्सस्याचि' इत्यकारलोपाप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनत' इत्यदादेशो न स्यादिति भाव: | अश्लिष्ठाः इति ॥ श्लिषेः कर्मणि लुडस्थासि च्लेस्सिचि 'झलो झलि' इत्यसम्भवादश्लिक्षथाः इति स्यादिति भावः । अश्लिड्ढ्वमिति ॥ श्लिषः कर्मणि लुडो ध्वमि सिचि 'झलो झलि' इति सस्य लोपे षस्य जश्त्वेन डकारे ष्टुत्वेन धस्य ढ । क्से तु सति अश्लिक्षध्वम् इति स्यादिति भाव: । शक विभाषितः इति ॥ मर्षणे अर्थे शकधातुर्विकल्पित इत्यर्थ । विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः। व्याख्यानात् । तदाह । उभयपदीति ॥ मर्षणमिह सामर्थ्यम् । शक्यति-शक्यते वा हरिं द्रष्टुं भक्तः इति ॥ समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति ॥ स्वमते त्वनिट्क एवेति भावः । ननु अनिट्कारिकासु लृदितश्शकेः पाठात् कथमनिट्कत्वमित्यत आह । तन्मतेनेति ॥ ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्य अनिट्कारिकासु शकिः लृदित्पठितः इत्यर्थः । सम्पदादिव्किबन्तादिति ॥ क्षुध्यत इति क्षुध् भावे क्विप् । क्षुध् अस्य सञ्जाता क्षुधित इति विग्रहः ।
(सू ३०४६) इतीट् वक्ष्यते । शुध ११९२ शौचे । शुध्यति । शुशोध। शोद्धा । षिधु ११९३ संराद्धौ । ऊदित्पाठ: प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । रध ११९४ हिसासंराद्ध्योः । संराद्धिर्निष्पत्तिः । रध्यति । 'राधिजभोरचि' (सू २३०२) इति नुम् । ररन्ध । ररन्धतुः ।
२५१५ । रधादिभ्यश्च । (७-२-४५)
'रध्' नश्' 'तृप्' 'दृप्' 'द्रुह्' 'मुह्' ष्णुह्' 'ष्णिह्' एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ।
२५१६ । नेट्यलिटि रधेः । (७-१-६२)
लिड्वर्जे इटि रधेर्नुम् न स्यात् । रधिता-रद्धा । रधिष्यति-रत्स्यति । अङि तु नुम् । 'अनिदिताम्--' (सू ४१५) इति नलोपः । अरधत् । णश | ११९५ अदर्शने । नश्यति । ननाश । नेशतुः । नेशिथ ।
२५१७ । मस्जिनशोर्झलि । (७-१-६०)
नुम् स्यात् । ननंष्ठ । नेशिव-नेश्च । नेशिम-नेश्म । नशिता-नंष्टा । नशिष्यति-नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ।
२५१८ । नशेः षान्तस्य । (८-४-३६)
वसतिक्षुधोः इति ॥ वसेः क्षुधेश्च क्तानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यते इति ॥ कृत्स्विति शेष. । षिधु संराद्धाविति ॥ निष्पत्तावित्यर्थः । प्रामादिकः इति ॥ माधवादिसम्मतत्वादिति भाव । रध हिंसेति ॥ सेट् । चतुर्थान्तोऽयम् । ररन्धतुरिति ॥ एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि सयोगात्परत्वेन अकित्त्वान्नलोपो नेति भाव | रधादिभ्यश्च ॥ 'आर्धधातुकस्येड्वलादेः' इत्यनुवर्तते । 'स्वरतिसूति' इत्यतो वेति इत्यभिप्रेत्य शेष पूरयति । वलाद्यार्धधातुकस्य वेडिति ॥ 'आर्धधातुकस्य' इति नित्ये प्राप्ते विकल्पोऽयम् । लुटि तासि इटि 'रधिजभोरचि' इति नुमि प्राप्ते । नेट्यलिटि रधेः ॥ 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । तदाह । लिड्वर्जे इटीति । अङि त्विति ॥ पुषाद्यडि कृते सतीत्यर्थ । अरधदिति ॥ “मो अह द्विषतेऽरधम्” । णश अदर्शने इति ॥ णोपदेशोऽयं सेट् । 'रधादिभ्यश्च' इति वेट् । तत्र इट्पक्षे आह । नेशिथेति ॥ 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश् थ इति स्थिते । मस्जिनशोर्झलि ॥ नुम् स्यादिति ॥ ‘इदितो नुम्’ इत्यतस्तदनुवृत्तेरिति भावः । ननंष्ठेति ॥ व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ॥ 'उपसर्गादसमासे' इति णत्वम्। नशेः षान्तस्य ॥ 'रषाभ्याम्' इत्यतो ण
णत्वं न स्यात् । प्रनष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्श्यति--नशिष्यति । तृप ११९६ प्रीणने । प्रीणनं तृप्तिस्तर्पणं च 'नाग्निस्तृप्यति काष्ठानाम्' 'पितॄनतार्प्सीत्' इति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ--ततर्प्थ-तत्रप्थ । तर्पिता-तर्प्ता-त्रप्ता । 'कृशमृशस्पृश–-' इति सिज्वा । अतर्पीत्—अतार्प्सीत्-अत्राप्सीत्-अतृपत् । दृप ११९७ हर्षमोहनयोः । मोहनं गर्वः | दृप्यतीत्यादि |
'रधादित्वादिमौ वेट्कावमर्थमनुदात्तता'
द्रुह ११९८ जिघांसायाम् । 'वा द्रुहमुह' (सू ३२७) इति वा घः । पक्षे ढ: । दुद्रोहिथ-दुद्रोग्ध-दुद्रोढ । द्रोहिता-द्रोग्धा-द्रोढा । द्रोहिष्यति--ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत्। मुह ११९९ वैचित्त्ये । वैचित्त्य-भविवेकः । मुह्यति । मुमोहिथ-मुमोग्ध-मुमोढ । मोहिता-मोग्धा-मोढा । मोहिष्यति-मोक्ष्यति । अमुहत् । ष्णुह १२०० उद्निरणे । स्नुह्यति । सुष्णोह ।
इति 'न भाभूप्' इत्यत नेति चानुवर्तते इत्यभिप्रेत्य शेषम्पूरयति । णत्वं न स्यादिति ॥ षान्तस्येति किम् । प्रणश्यति । भूतपूर्वेति ॥ पूर्व पकारस्य सत इदानीमादेशवशेन पान्तत्वाभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थ । प्रनङ्क्ष्यतीति ॥ अत्र पस्य कत्वे कृतेऽपि भूतपूर्वगत्या पान्तत्वान्न णत्वमिति भाव । तृप प्रीणने । तृप्तिस्तर्पणञ्चेति ॥ आद्ये अकर्मकः । द्वितीये सकर्मक . । रधादित्वाद्वेडिति मत्वा आह । ततर्पिथ-ततर्प्थेति-तत्रप्थेति च ॥ 'अनुदात्तस्य चर्दुपधस्य' इत्यमिति भावः । ततृपिव-ततृप्व । सिज्वेति ॥ पक्षे पुषाद्यडिति भाव. । रधादित्वादिड्विकल्प. । तत्र सिचि इट्पक्षे आह । अतर्पीदिति ॥ इडभावपक्षे आह । अतार्प्सीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । 'अनुदात्तस्य च' इत्यम्पक्षे आह । अत्राप्सीदिति ॥ पुषाद्यड्पक्षे आह । अतृपदिति ॥ डित्त्वान्न गुण इति भाव । दृप हर्षेति ॥ तृपधातुवत् । ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह । ‘रधादित्वादिमौ वेट्कावमर्थमनुदात्तता’ इति ॥ द्रुह जिघासायाम् । अनुदात्तत्वाभावेऽपि रधादित्वाद्वेट् । तत्र इडभावे आह । वा द्रुहमुह इतीति । ध्रोक्ष्यतीति ॥ 'वा द्रुह' इति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम् । ढत्वपक्षेऽपि 'षढेा' इति कत्वे एतदेव रूपम् । तदाह । ढत्वघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति ॥ पुषादित्वादडिति भाव. । मुहधातुरनुदात्तत्वाभावेऽपि रधादित्वात् वेट् । मुमोहिथेति ॥ इट्पक्षे रूपम् । अनिट्पक्षे तु 'वा द्रुहमुह' इति घत्व मत्वा आह । मुमोग्धेति ॥ ढत्वपक्षे आह । मुमोढेति । मोक्ष्यतीति ॥ घत्वढत्वयोस्तुल्य रूपम् । ष्णुह ष्णिहेति षोपदेशौ । तदाह । सुष्णोह । सिष्णेहेति ॥ थलादावनिट्पक्षे 'वा द्रुह'
सुष्णोहिथ-सूष्णोग्ध-सुष्णोढ । सुष्णुहिव-सुष्णुह्व । स्नोहिता-स्नोग्धा--स्नोढा । स्नोहिष्यति-स्नोक्ष्यति । अस्नुहत् । ष्णिह १२०१ प्रीतौ । स्निह्यति । स्निष्णेह । वृत् । रधादयः समाप्ताः । पुषादयस्तु आ गणान्तादिति सिद्धान्तः । शमु १२०२ उपशमे ।
२५१९ । शमामष्टानां दीर्घः श्यनि । (७-३-७४)
शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् । तमु १२०३ काङ्क्षायाम्। ताम्यति । तमिता । अतमत् । दमु १२०४ उपशमे । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् । श्रमु १२०५ तपसि खेदे च । श्राम्यति । अश्रमत् । भ्रमु १२०६ अनवस्थाने । 'वा भ्राश-' (सू २३२१) इति श्यन्वा । तत्र कृते 'शमामष्टानाम्--' (२५१९) इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् । क्षमू १२०७ सहने । क्षाम्यति । चक्षमिथ-चक्षंथ । चक्षमिव-चक्षण्व । चक्षमिम-चक्षण्म । क्षमिता-क्षन्ता । अयमषित् । भ्वादिस्तु षित् ।
'अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा ' ।
इति घत्वविकल्प । पक्षे ढ । इति रधादय । आ गणान्तादिति ॥ दिवादिगणसमाप्तिपर्यताः पुषादय इत्यर्थ । सिद्धान्तः इति ॥ माधवादिभिस्तथाऽभ्युपगमादिति भाव । उपशमे इति ॥ उपशमो नाश इन्द्रियनिग्रहश्च । शमामष्टानाम् ॥ स्पष्टम् । बहुवचनात् शमादिग्रहणम् । तदाह । शमादीनामिति ॥ 'शमस्तमुर्दमुरथ श्रमुर्भ्रमुरपि क्षमु । क्लमुर्मदी चेत्येतेऽष्टौ शमादय.' इति स्थितिः । दमु उपशमे इति ॥ ननु शमु दमु उपशमे
इत्येव पठितु युक्तमित्यत आह । उपशम इति ण्यन्तस्येति ॥ शमधातोर्हेतुमण्ण्यन्तात् घञि 'नोदात्तोपदेशस्य' इति वृध्द्यभाव इत्यर्थ. । ततः किमित्यत आह । तेनेति ॥ ततश्च दाम्यतीत्यत्यस्य शमयतीत्यर्थ. । शेषं भ्वादिवदिति ॥ आर्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः । क्षमू सहने । ऊदित्त्वात् थलि वमादौ च इड्विकल्प. । तदाह । चक्षमिथेत्यादि ॥ षित्त्वाषित्त्वयो. फलभेद श्लोकार्धेन सङ्गृह्णाति । अषितः इति ॥ अषित क्षाम्यतेः श्यन्विकरणपठितस्य क्षमधातो क्तिनि क्षान्तिः इति रूपम् । अषित्त्वात् 'षिद्भिदादिभ्यः' इत्यड् न । क्षमूषस्तु भौवादिकात् षित. आत्मनेपदे शपि क्षमते इति रूपम् । क्तिन बाxत्वा षित्त्वादडि क्षमेति रूपञ्चेत्यर्थ । क्लमु ग्लानौ । नन्वस्य शमादिगणात् बहिरेव दिवादिगणे पाठोऽस्तु । नच 'शमामष्टानाम्' इति दीर्घार्थं शमादिगणे अस्य पाठ इति वाच्यम् । 'ष्ठिवुक्लम्वाचमा शिति' इत्येव शपि परे इव श्यनि परेऽपि दीर्घसिद्धे: । नच 'ष्ठिवुक्लम्वाचमां शिति' इत्यत्रैव क्लमुग्रहण त्यज्यतामिति वाच्यम् । शपि
क्लुमु १२०८ ग्लानौ । क्लाम्यति-क्लामति । शपीव श्यन्यपि 'ष्ठिवुक्लुमु--' (सू २३२०) इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् । मदी १२०९ हर्षे । माद्यति । अमदत् । शमादयोऽष्टौ गताः ।
असु १२१० क्षेपणे । अस्यति । आस । असिता ।
२५२० । अस्यतेस्थुक् । (७-४-१७)
अङि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे 'अस्यतिवक्ति-' (सू २४३८) इति वचनं तङर्थम् । तङ् तु, 'उपसर्गादस्यत्यूह्योः' इति वक्ष्यते । पर्यास्थत । यसु १२११ प्रयत्ने ।
२५२१ । यसोऽनुपसर्गात् । (३-१-७१)
२५२२ । संयसश्च । (३-१-७२)
श्यन्वा स्यात् । यस्यति-यसति । संयस्यति--संयसति । 'अनुपसगर्गात्' किम् । प्रयस्यति । जसु १२१२ मोक्षणे ।जस्यति । तसु १२१३ उपक्षये । दसु १२१४ च । तस्यति । अतसत् । दस्यति । अदसत् । वसु १२१५ स्तम्भे । वस्यति । ववास । ववसतुः । 'न शसदद--' (सू २२६३) इति निषेधः । वशादिरयमिति मते तु, बेसतुः । बेसुः । व्युष १२१६ विभागे ।
दीर्घान्तस्यावश्यकत्वादित्याशङ्क्य परिहरति । शपीव श्यन्यपीत्यादि घिनुणर्थः इत्यन्तम् ॥ 'शमित्यष्टाभ्यो घिनुण्' इति विधानादिति भाव । शमादयः इति ॥ 'शमु उपशमे' इत्यारभ्य ‘मदी हर्षे’ इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थ । असु क्षेपणे । अस्यतेस्थुक् ॥ शेष पूरयति । अङि परे इति ॥ 'ॠदृशोऽडि' इत्यतस्तदनुवृत्तेरिति भाव । थुकि ककार इत् उकार उच्चारणार्थ कित्त्वादस्धातोरन्त्यावयव । ननु पुषादित्वादेवास्यतेश्च्लेरडि सिद्धे 'अस्यतिवक्तिख्यातिभ्योऽड्' इत्यत्र अस्यतिग्रहण व्यर्थमित्याशङ्क्य निराकरोति । अस्य पुषादित्वादिति ॥ तङर्थमिति ॥ पर्यास्थतेत्यत्र आत्मनेपदे अडर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः । पुषाद्यड परस्मैपदमात्रविषयतया आत्मनेपदे अप्रसक्तेरिति भाव । नन्वस्यते केवलपरस्मैपदित्वादात्मनेपद दुर्लभमित्यत आह । तङ् तु उपसगर्गादिति ॥ वक्ष्यते इति ॥ पदव्यवस्थायामिति शेषः । यसु प्रयत्ने । यसोऽनुपसर्गात् । संयसश्च ॥ सूत्रद्वयमिदम् । श्यन् वा स्यादिति ॥ शेषपूरणम् । 'दिवादिभ्य श्यन्' इत्यतः 'वा भ्राश' इत्यतश्च तदनुवृत्तेरिति भाव. । अनुपसर्गाद्यस श्यन् वा स्यादिति प्रथमसूत्रार्थ. । सोपसर्गात्तु नित्य एव श्यन् अनुपसर्गदिति पर्युदासात् । सम्पूर्वात् यसेर्नित्यमेव
अयं दाहे पठितः । अर्थभेदेन त्वङर्थं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्त्योऽयम् 'व्युसति' इत्यन्ये । अयकार: 'बुस' इत्यपरे । प्लुष १२१७ दाहे । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद्भ्वादिपाठेन गतार्थमिति सुवचम् । विस १२१८ प्रेरणे । विस्यति । अविसत् । कुस १२१९ संश्लेषणे । अकुसत् । वुस १२२० उत्सर्गे । मुस १२२१ खण्डने । मसी १२२२ परिणामे । परिणामो विकारः । 'समी' इत्येके । लुठ १२२३ विलोडने । उच १२२४ समवाये । उच्यति । उवोच । ऊचतुः । मा भवानुचत् । भृशु १२२५ भ्रंशु १२२६ अधःपतने । बभर्श । अभृशत् । 'अनिदिताम्--' (सू ४८५) इति नलोपः । भ्रश्यति । अभ्रशत् । वृश १२२७ वरणे । वृश्यति । अवृशत् । कृश १२२८ तनूकरणे। कृश्यति । ञि तृषा १२२९ पिपासायाम् । हृष १२३० तुष्टौ । श्यन्नङौ भौवादिकाद्विशेषः । रुष १२३१ रिष १२३२ हिंसायाम् । 'तीषसह--' (सू २३४०) इति वेट् । रोषिता-रोष्टा । रेषिता--रेष्टा । डिप १२३३ क्षेपे । कुप १२३४ क्रोधे । गुप १२३५ व्याकुलत्वे । युप १२३६ रुप १२३७ लुप १२३८ विमोहने । युप्यति । रुप्यति । लु-
श्यनः प्राप्तौ द्वितीयसूत्रम् । व्युष विभागे । अयमिति ॥ दिवादिगण एव पुषादिभ्य प्रागय धातुः पठित इत्यर्थः । पौनरुक्तयमाशङ्क्य आह । अर्थभेदेन त्वङर्थं पुनः पठ्यते इति ॥ विभागात्मके अर्थविशेषे एव पुषाद्यडर्थमिह पुन पाठ इत्यर्थ । अव्युषदिति ॥ 'व्युष दाहे' इति पूर्व पठितस्य तु सिजेव । अव्योषीत् । ओष्ठ्यादिरिति ॥ दन्त्योष्ठ्यादिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्ते इत्यर्थः । अयकारः इति ॥ दन्तोष्ठ्यादिर्दन्त्योष्मान्तो यो धातुरुक्तः स एवाय यकाररहित इत्यन्ये मन्यन्ते इत्यर्थः । अयकारमिति पाठे क्रियाविशेषणम् । प्लुष दाहे । ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्राक् अस्य पाठः क्वचिद्दृश्यते । तत्र पौनरुक्त्यशङ्का परिहरति । पूर्वत्र पाठस्सिजर्थः इति ॥ पुषादावेव पाठे सति अडेव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अडभावात् सिच् श्रूयेत । तथाच सिच. कदाचित् श्रवणार्थ पूर्व पाठ इत्यर्थः। आहुरित्यस्वरसोद्भावनम् । तद्बीज दर्शयति । तभ्द्वादीति ॥ तत् दिवादिगणे पुषादिभ्य पूर्वमस्य पठन भ्वादिपाठेनैव सम्पन्नप्रयोजकमिति सुष्ठु वक्तु शक्यमित्यर्थः । एवञ्च भ्वादिपाठात् शब्विकरण लुडि सिचः श्रवणञ्च सिद्धयति । पुषादौ पाठात्तु श्यन्विकरणः अड् च सिध्यति । अतः दिवादिगणे पुषादिभ्य
प्रागस्य पाठो व्यर्थ एवेति भावः । एतदेवाभिप्रेत्य मूले दिवादिाणे पुषादिगणात् प्राक् प्लुष दाहे इति न पठितामिति बोध्द्यम् । मसी परिणामे इति ॥ ईदित्त्वं 'श्वीदित' इत्येतदर्थम् । मस्यति । समी इत्येके इति ॥ सम्यति । भृशु भ्रशु अधःपतने । द्वितीयधातोराह । अनिदितामिति ॥ युप रुप लुप विमोहने इति ॥ धातुवृत्त्यादिविरोधा
प्यति । लोपिता । लुप्यति: सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् । लुभ १२३९ गार्ध्ये । गार्ध्यमाकाङ्क्षा । 'तीषसह -' (सू २३४०) इति वेट् । लोभिता-लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् । भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः । क्षुभ १२४० सञ्चलने । क्षुभ्यति । णभ १२४१ तुभ २२४२ हिसायाम् । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते | तेषां द्युतादित्वादङ् सिद्ध: | क्र्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यन्नर्थः । क्लिदू १२४३ आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ--चिक्लेत्थ । चिक्लिदिव-चिक्लिद्व । चिक्लिदिम-चिक्लिद्म । क्लेदिता-क्लेत्ता । ञि मिदा १२४४ स्नेहने । 'मिदेर्गुण:' (सू २३४६) । मेद्यति । अमिदत् । द्युतादिपाठादेव अमिदत् अमेदिष्टेति सिद्धे इह पाठः अमेदीदिति मा भूदिति। द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । ञि क्ष्विदा १२४५ स्नेहनमोचनयोः । ऋधु १२४६ वृद्धौ । आनर्ध । आर्धत् । गृधु १२४७ अभिकाङ्क्षायाम् । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते मृग्यतीत्यादि सिद्धिरित्याहुः ।
इति तिडन्तदिवादिप्रकरणम् ।
दुदित्पाठो लेखकप्रमादादायात. । इह पाठस्त्विति ॥ क्षुभिनभितुभीना इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः । वस्तुतस्तु पुषादे प्रागेव एषान्त्रयाणम्पाठो युक्तमिति भाव । ञि मिदा स्नेहने । अमिददिति ॥ ननु भ्वाद्यन्तर्गणे द्युतादौ 'ञि मिदा स्नेहने' इत्यात्मनेपदिषु पठितो लुडि तु 'द्युद्भ्यो लुडि’ इत्यत्र परस्मैपदविकल्पः उक्त. । द्युताद्यड् तु परस्मैपद एव न तु तडि । एवञ्च द्युतादिपाठादेव परस्मैपदपक्षे अडि अमिददिति तडि तु अडभावे अमेदिष्टेति सिद्धम् । तथाच पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्यते । द्युतादिपाठादेवेत्यादि सिद्धे इत्यन्तेन ॥ तामिमा शङ्काम्परिहरति । इह पाठः अमेदीदिति मा भूदितीति ॥ पुषादावस्य पाठः अमदीदिति व्यावृत्यर्थ इत्यर्थः । पुषादिभ्य. प्रागेव दिवादावस्य पाठे तु तस्माल्लुडि अडसम्भवादमेदीदिति स्यादिति भावः । नन्वेव सति भ्वाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः । द्युतादिभ्यो बहिरेवात्मनेपदिषु पठ्यताम् । एवञ्च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति । द्युतादिभ्यो बहिरेवात्मनेपदेषु पाठस्तूचितः इति ॥ सूचित. इति पाठे तु सुतरामुचित इति व्याख्येयम् । ञिष्विदेत्यादि व्यक्तम् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्याया
बालमनोरमाया श्यन्विकरणं समाप्तम् ।
॥ अथ तिङन्तस्वादिप्रकरणम् ।।
षुञ् १२४८ अभिषवे । अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च । तत्र स्नाने अकर्मकः ।
२५२३ । स्वादिभ्यः श्नुः । (३-१-७३)
सुनोति । सुनुत:। 'हुश्नुवोः -' (सू २३८७) इति यण् । सुन्वन्ति । सुन्वः-सुनुवः । सुन्वहे-सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । 'स्तुसुधूञ्भ्यः –' (सू २३८५) इतीट् ।
अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुष्पोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति ॥ सुरोत्पादनमित्यर्थः । स्वादिभ्यः श्नुः ॥ कर्त्रर्थे सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः । शपोऽपवाद. । सुनोतीति ॥ लटस्तिपि श्नु शकार इत् शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति डित्त्वात्तस्मिन् परे धातोर्न
गुणः । श्नोस्तु तिपमाश्रित्य गुण इति भाव । सुनुतः इति ॥ तसो डित्त्वात् श्नोर्न गुण इति भावः । सुनु अन्ति इति स्थिते 'अचि श्नुधातु' इति उवडमाशङ्क्य आह । हुश्नुवोरिति ॥ सुनोषि । सुनुथः । सुनुथ । सुनोमि । वसि मसि च 'लोपश्चास्यान्यतरस्यां म्वो' इत्युकारलोपविकल्प मत्वा आह । सुन्वः-सुनुवः इति ॥ सुन्म.-सुनुमः इत्यपि ज्ञेयम् । अथ लटस्तडि सुनुते । सुन्वाते। सुन्वते । सुनुषे। सुन्वाथे। सुनुध्वे । सुन्वे। इति सिद्धवत्कृत्य आह । सुन्वहे-सुनुवहे इति ॥ 'लोपश्चास्य' इत्युकारलोपविकल्प इति भाव । सुन्महे-सुनुमहे इत्यपि ज्ञेयम् । सुषावेति ॥ सुषुवतुः । सुषुवुः । सुषविथ-सुषोथ । सुषुवथुः । सुषुव । सुषाव-सुषव । सुषुविव । सुषुविम । अथ लिटस्तड्याह । सुषुवे इति ॥ सुषुवाते । सुषुविरे । सुषुविषे । सुषुवाथे । सुषुविध्वे । सुषुवे । सुषुविवहे । सुषुविमहे । सोतेति ॥ अनिट्त्वसूचनमिदम् । सोष्यति । सोष्यते । सुनोतु-सुनुतात् । सुनुताम् । सुन्वन्तु । इति सिद्धवत्कृत्य आह । सुनु इति ॥ 'उतश्च प्रत्ययात्' इति हेर्लुक् । सुनुतात् । सुनुतम् । सुनुत । सुनवानीति ॥ 'हुश्नुवोः' इति यणम्बाधित्वा परत्वाद्गुणः । आटः पित्त्वेन अडित्त्वादिति भावः । सुनवाव । सुनवाम । लोटस्तडि सुनुताम् । सुन्वाताम् । सुन्वताम् । सुनुष्व । सुन्वाथाम् । सुनुध्वम् । इति सिद्धवत्कृत्य आह । सुनवै इति ॥ 'हुश्नुवोः' इति यणम्बाधित्वा परत्वात् गुणः। आटः पित्त्वेन डित्त्वाभावादिति भावः। सुनवावहै । सुनवामहै। असुनोत् । असुनुताम् । असुन्वन् । असुनोः । असुनवम् । असुनुव । असुन्व । असुनुत । असुन्वाताम् । असुन्वत । इत्याद्यूह्यम् । विधिलिङ्याह । सुनुयादिति ॥ यासुटो डित्त्वात् श्नोर्न गुण इति
असावीत्। असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव |
२५२४ । सुनोतेः स्यसनोः । (८-३-११७)
स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति । षिञ् १२४९ बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता । शिञ् १२५० निशाने | तालव्यादिः । शेता । डु मिञ् १२५१ प्रक्षेपणे 'मीनातिमिनोति--' (सू २५०८) इत्यात्त्वम् | ममौ | ममिथ-ममाथ | मिम्ये |
भावः | सूयादिति ॥ आशीर्लिङि 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भाव | सोषीष्ट | लुडि परस्मैपदे सिचः इण्निषेधे प्राप्ते आह । स्तुसुधूञ्भ्यः इति इडिति ॥ असाविष्टामित्यादि । लुडस्तड्याह | असोष्टेति ॥ असोषातामित्यादि । असोष्यत् । असोष्यत | 'उपसर्गात् सुनोति' इति षत्वम्मत्वा आह । अभिषुणोतीति ॥ षात्परत्वाण्णत्वम् | अभ्यषुणोदिति ॥ 'प्राक् सितादड्व्यवायेऽपि' इति षत्वम् । अभिसुषावेति ॥
'स्थादिष्वभ्यासेन' इत्युत्तरखण्डस्य ष | सुनोतेः स्यसनो: ॥ 'अपदान्तस्य मूर्द्धन्य' इत्यधिकृतम् । ‘न रपर’ इत्यतो नेत्यनुवर्तते । तदाह । षो न स्यादिति ॥ स्ये उदाहरति | विसोष्यतीति ॥ अत्र 'उपसर्गात् सुनोति' इति प्राप्तः षो न भवति । सनि तु अभिसुसूरित्युदाहरणम् । षुञः सनि द्वित्वे अभिसुसुस इति सनन्तात् व्किपि अतो लोपे अभिसुसुस् इत्यस्मात् सोर्हल्ड्यादिलोपे सस्य रुत्वे 'र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः । सुसूषते इति तु नोदाहरणम् । 'स्तौतिण्योरेव षण्यभ्यासात्' इति नियमादेव षत्वाभावसिद्धेरित्यलम् | षिञ् बन्धने इति ॥ षोपदेश. अनिट् च । षुञ इव रूपाणि । विसिनोतीति ॥ 'सात्पदाद्यो:' इति षत्वनिषेधः | 'उपसर्गात्सुनोति' इति तु न ष: | सुनोत्यादिष्वनन्तर्भावादिति भावः | सिषायेति ॥ णलि वृद्धौ आयादेश: | अतुसादौ 'एरनेकाच.' इति यण् । सिष्यतुरित्यादि | लिटस्तड्याह । सिष्ये इति ॥ सिषि ए इति स्थिते 'एरनेकाचः’ इति यणिति भावः | सिष्याते । सिष्यिरे । इत्यादि । असैषीत् । शिञ् निशाने इति ॥ षिञ्वत् । डु मिञ् प्रक्षेपणे इति ॥ मिनोति । उपदेशे एजन्तत्वाभावादात्त्वे अप्राप्ते आह । मीनातिमिनोतीत्यात्त्वमिति ॥ एज्विषये अशितीति शेष. । ममाविति ॥ आत्त्वे कृते णल औत्वमिति भाव | अतुसादावेज्विषयत्वाभावान्नात्त्वम् | 'एरनेकाच' इति यण् । मिम्यतुः | मिम्युः । भारद्वाजनियमात्थलि वेडिति मत्वा आह । ममिथ-ममाथेति ॥ थल पित्त्वेन अकित्त्वादेज्विषयत्वम् । इट्पक्षे 'आतो लोपः' इति भाव: | मिम्यथुः । मिम्य । ममौ | मिम्यिव । मिम्यिम । लिटस्तड्याह । मिम्ये इति ॥ एश आदिशित्त्वाभावात् कित्त्वेन एज्विषयत्वाभावाच्च नात्त्वमिति भावः । मिम्याते । मिम्यिरे। मिम्यिषे । मिम्याथे । मिम्यिध्वे | मिम्ये । मिम्यिवहे । मिम्यिमहे । मातेति ॥ एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः | मास्यति । मास्यते । सार्वधातुकेषु षुञ्वत् । मीयादिति ॥ आशीर्लिङि परस्मैपदे यासुटः
माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । चिञ् १२५२ चयने । प्रणिचिनोति ।
२५२५ । विभाषा चेः । (७-३-५८)
अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय-चिचाय । चिक्ये-चिच्ये । अचैषीत्। अचेष्ट । स्तृञ् १२५३ आच्छादने । स्तृणोति । स्तृणुते । 'गुणोऽर्ति–' (सू २३८०) इति गुणः । स्तर्यात् ।
२५२६ । ऋतश्च संयोगादेः । (७-२-४३)
ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वास्यात्तङि । स्तरिषीष्ट-स्तृषीष्ट । अस्तरिष्ट-अस्तृत । कृञ् १२५४ हिंसायाम् । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट। अकार्षीत् । अकृत । वृञ् १२५५ वरणे ।
कित्त्वादेज्विषयत्वाभावादात्त्वाभावे 'अकृत्सार्व' इति दीर्घ इति भाव. । आशीर्लिङि तडि आह । मासीष्टति ॥ एज्विषयत्वादात्त्वमिति भाव । लुडि परस्मैपदे सिचि आत्त्वे 'यमरम' इति सगिटौ मत्वा आह । अमासीदिति ॥ सकि सिच इटि सिज्लोपः । अमास्तेति ॥ लुडि तडि सिचि आत्त्वमिति भाव । अमासाताम् । अमासत इत्यादि । चिञ् चयने इति ॥ चयन रचना । अनिट् । सार्वधातुके षुञ्वद्रूपाणि । प्रणिचिनोतीति ॥ 'नेर्गद' इति णत्वमिति भाव । विभाषा चेः ॥ 'चजो कु घिण्ण्यतोः' इत्यतः कुग्रहणमनुवर्तते । 'अभ्यासाच्च' इत्यत अभ्यासादिति । 'सन्लिटोर्जेः' इत्यतः सन्लिटोरिति च । तदाह । अभ्यासादित्यादिना । स्तृञ् आच्छादने इति ॥ अनिट् । लिटि तस्तार । अतुसादौ 'ॠतश्च सयोगादेर्गुणः' इति गुण. । वृद्धिविषये तु नास्य प्रवृत्तिः । तस्तरतु । ॠदन्तत्वात्थल्यपि नित्य नेट् । तस्तर्थ । तस्तरिव । तस्तरे । तस्तराते । तस्तरिरे । तस्तरिषे । तस्तरिवहे | स्तर्ता । 'ॠद्धनो. स्ये' स्तरिष्यति । आशीर्लिङि परस्मैपदे यासुट कित्त्वाद्गुणनिषेधे प्राप्ते आह । गुणोऽर्तीति गुणः इति ॥ तडि आशीर्लिङि स्तृ षीष्ट इति स्थिते । ऋतश्च संयोगादेः ॥ 'लिङ्सिचोरात्मनेपदेषु' इत्यनुवर्तते । 'इट् सनि वा’ इत्यत इड्वेति । तदाह । ऋदन्तादित्यादिना ॥ लुडि परस्मैपदे अस्तार्षीत् । लुडस्तडि त्वाह । अस्तरिष्ट-अस्तृतेति ॥ 'ॠतश्च सयोगादेः' इति इट्पक्षे गुणः । इडभावपक्षे तु 'ह्रस्वादङ्गात्' इति सिचो लोप । कृञ् हिसायाम् । चकर्थेति ॥ 'कृसृभृवृ' इति थल्यपि नित्यमिण्निषेधः । चकृव । क्रियादिति ॥ आशीर्लिङि 'रिड् शय
ग्लिड्क्ष्वु' इति रिड् । कृषीष्टति ॥ 'उश्च' इति कित्त्वान्न गुणः । अकार्षीदिति ॥ सिचि वृद्धि. रपरत्वम् । अकृतेति ॥ 'ह्रस्वादङ्गात्' इति सिचो लोपः । वृञ् वरणे । सेट् ।
२५२७ । बभूथाततन्थजगृभ्मववर्थेति निगमे । (७-२-६४)
एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता-वरीता ।
२५२८ । लिङ्सिचोरात्मनेपदेषु । (७-२-४२)
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि |
२५२९ । न लिङि । (७-२-३९)
वॄतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट-वृषीष्ट । अवारीत् । अवरिष्ट-अवरीष्ट-अवृत । धुञ् १२५६ कम्पने । धुनोति । धुनुते । अधौषीत् । अधोष्यत् । दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । 'स्वरतिसूति--' (सू २२७९) इति वेट् । दुधविथ-दुधोथ । किति लिटि तु 'श्र्युकः--' (सू २३८१) इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् । दुधुविव । 'स्तुसुधूञ्भ्यः -' (सू २३८५) इति नित्यमिट्। अधावीत् । अधविष्ट-अधोष्ट ।
अथ परस्मैपदिनः । टु दु १२५७ उपतापे । दुनोति । हि १२५८ गतौ वृद्धौ च |
ववार । वव्रुः । बभूथाततन्थ ॥ निगमो वेद । तदाह । एषां वेदे इति ॥ ननु 'कृसृभृवृ' इति निषेधादेव थलि ववर्थेति सिद्धे किमर्थ ववर्थग्रहणमित्यत आह । तेन भाषायां थलीडिति ॥ निगम एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । वव्रे । वव्राते । ववृषे । 'वॄतो वा' इति मत्वा आह । वरिता-वरीतेति ॥ लिङ्सिचो: ॥ 'इट् सनि वा' इत्यतः इड्वा इत्यनुवर्तते । 'वॄतो वा' इत्यतो वॄत इति । तदाह । वृङ्वृञ्भ्यामित्यादिना ॥ न लिङि ॥ 'वॄतो वा' इत्यतो वॄत इत्यनुवर्तते । लिडीति षष्ठ्यर्थे सप्तमी । 'आर्धधातुकस्येट्' इत्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते । 'ग्रहोऽलिटि' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । वॄतः इति ॥ वृड्वृञ्भ्यामॄकाराच्चेत्यर्थः । वरिषीष्टेति ॥ इट्पक्षे 'वॄतो वा' इति प्राप्तो दीर्घो न भवति । वृषीष्टेति ॥ इडभावपक्षे 'उश्च' इति कित्त्वान्न गुणः । अवारीदिति ॥ लुडि परस्मैपदे सिचि वृद्धि. । अवारिष्टाम् । अवारिषुः । 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वॄतो वा' इति न दीर्घः । लुडस्तडि सिचि 'लिङ्सिचो:' इति इट्पक्षे 'वॄतो वा' इति दीर्घविकल्पं मत्वा आह । अवरिष्ट-अवरीष्टेति | अवृतेति ॥ इडभावपक्षे 'ह्रस्वादङ्गात्' इति सिचो लोप. । धुञ् कम्पने इति ॥ ह्रस्वान्तोऽयमनिट् । षुञ इव रूपाणि । दीर्घान्तोऽप्ययमित्यादि व्यक्तम् । अथ परस्मैपदिनः इति ॥ राध साध ससिद्धावित्येतत्पर्यन्ता इत्यर्थः । 'टु दु उपतापे' इत्यारभ्य 'स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्रस्वान्ताः । हि गताविति ॥ प्राहिणोतीत्यत्र भिन्नपदत्वात् णत्वे प्राप्ते आह । हिनु
२५३० । हिनुमीना । (८-४-१५)
उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ।
२५३१ । हेरचङि । (७-३-५६)
अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि । जिघाय । पृ १२५९ प्रीतौ । पृणोति । पर्ता । स्पृ १२६० प्रीतिपालनयो: । 'प्रीतिचलनयोः' इत्यन्ये | 'चलनं जीवनम्' | इति स्वामी । स्पृणोति । पस्पार । 'स्मृ' इत्येके । स्मृणोति । पृणोत्यादयस्त्रयोऽपि छान्दसा इत्याहुः । आप्लृ १२६१ व्याप्तौ । आप्नोति । आप्नुतुः । आप्नुवन्ति । आप्नुवः ।आप्ता । आप्नुहि । । लृदित्त्वादङ् । आपत् । शक्लृ १२६२ शक्तौ । अशकत् । राध १२६३ साध १२६४ संसिद्धौ । राध्नोति ।
२५३२ । राधो हिंसायाम् । (६-४-१२३)
एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । साध्नोति । साद्धा । असात्सीत् । असाद्धाम् ।
अथ द्वावनुदात्तेतौ । अशू १२६५ व्याप्तौ सङ्घाते च । अश्नुते ।
मीना ॥ हिनु मीना अनयोर्द्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । 'रषाभ्यान्नो ण' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च । तदाह । उपसर्गस्थादिति ॥ हेरचङि ॥ 'चजो' इति सूत्रात् कुग्रहणमनुवर्तते । 'अभ्यासाच्च' इत्यत । अभ्यासादिति ॥ 'हो हन्ते' इत्यत ह इति षष्ठ्यन्तमनुवर्तते । तदाह । अभ्यासात्परस्येति ॥ जिघायेति ॥ जिघ्यतुः । जिघयिथ-जिघेथ । जिघ्यिव । आप्लृ व्याप्तौ । अनिट् । आप्नुवन्तीति ॥ सयोगपूर्वकत्वात् 'हुश्नुवो' इति न यण् । आन्पुवः इति ॥ सयोगपूर्वकत्वात् 'उतश्चप्रत्ययात्' इति नोकारलोपविकल्प.। आप्नुहीति ॥ सयोगपूर्वकत्वादेव 'उतश्च प्रत्ययात्' इति हेर्न लुक् । शक्लृ शक्ताविति ॥ शक्नोति । शशाक । शेकतु । शशक्थ-शेकिथ । शेकिव । शक्ता । शक्ष्यति । अशकदिति ॥ लृदित्त्वादड् । राध साध ससिद्धौ । अनिटौ । दीर्घकारवत्त्वात् 'अत एकहल्' इत्यप्राप्तावाह । राधो हिंसायाम् ॥ 'घ्वसो' इत्यत एदिति अभ्यासलोप इति च अनुवर्तते । 'गमहन' इत्यतः कितीति । 'अत एकहल्मव्द्ये' इत्यत लिटीति 'थलि च सेटि' इति च सूत्रमनुवर्तते । तदाह । एत्त्वेत्यादिना । अपरेधतुरिति ॥ उपसर्गवशादिह हिसाया वृत्ति । अन्यत्र रराधतुः । थल्यपि क्रादिनियमान्नित्यमिट् ।
'उपदेशेऽत्वत' इत्यत्र तपरकरणादिह नेण्निषेधः । तदाह । रेधिथेति । राद्धेति ॥ 'झषस्तथो' इति ध.। अशू व्याप्ताविति ॥ ऊदित्त्वाद्वेट् । अश्नुते इति ॥ अश्नुवाते ।
२५३३ । अश्नोतेश्च । (७-४-७२)
दीर्घादभ्यासादवर्णात्परस्य नुट् स्यात् । आनशे । अशिता-अष्टा । अशिष्यते--अक्ष्यते । अश्नुवीत । अक्षीष्ट-अशिषीष्ट । आशिष्ट-आष्ट । आक्षाताम् । ष्टिघ १२६६ आस्कन्दने । स्तिघ्नुते । तिष्टिघे । स्तेघिता ।
अथ आ गणान्तात्परस्मैपदिनः । तिक १२६७ तिग १२६८ गतौ च । चादास्कन्दने । तिक्नोति । तिग्नोति । षघ १२६९ हिंसायाम् । सघ्नोति । ञिधृषा १२७० प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता । दम्भु १२७१ दम्भने । दम्भनं दम्भः । दभ्नोति । ददम्भ । 'श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिट: कित्त्वं वा' इति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । 'अनिदिताम् --' (सू ४१५) इति नलोपः । तस्याभीयत्वादसिद्धत्वेन एत्त्वाभ्यासलोपयोरप्राप्तौ 'दम्भेश्च एत्त्वाभ्यासलोपौ वक्तव्यौ' (वा ४१५३) देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । 'देभ' इति रूपान्तरं बोध्यम् । अपिद्विषयकमिति न्यासकारादिमते तु, ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् । ऋधु १२७२ वृद्धौ । 'तृप प्रीणने' इत्येके । क्षुभ्नादित्वाण्णत्वं न । तृप्नोति । 'छन्दसि' (गण १९७) आगणान्तादधिकारोऽयम् । अह १२७३ व्याप्तौ । अह्नोति । दध १२७४ घातने पालने च । दध्नोति । चमु १२७५ भक्षणे ।
अश्नुवते । सयोगपूर्वकत्वात् ‘हुश्नुवो.’ इति न यण् । अश्नोतेश्च ॥ 'अत्र लोप' इत्यतः अभ्यासस्येत्यनुवर्तते । 'तस्मान्नुट्' इति च । तच्छब्देन 'अत आदे.' इति कृतदीर्घ आकारः परामृश्यते । तदाह । दीर्घादिति । आनशे इति ॥ आनशिषे । आनक्षे । आनशिवहे । आनश्वहे । अष्टेति ॥ व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिङ्याह । अश्नुवीतेति ॥ आशीर्लिङि ऊदित्त्वादिड्विकल्प मत्वा आह । अक्षीष्ट-अशिषीष्टेति ॥ लुडि सिच इट्पक्षे आह । आशिष्टेति ॥ अनिट्पक्षे 'झलो झलि' इति सिचो लोप मत्वा आह । आष्टेति ॥ ष्टिघधातुप्षोपदश । सेट् | आ गणान्तादिति ॥ स्वादिगणसमाप्तिपर्यन्तमित्यर्थ | इत्युक्तमिति ॥ कित्त्वपक्षे आह ।अनिदितामिति नलोपः इति ॥ नन्वनिदितामिति नलोपे सति 'अत एकहल्मध्द्ये' इत्येत्त्वसिद्धे' 'दम्भेश्च' इति व्यर्थमित्यत आह । तस्याभीयत्वादिति ॥ नलोपस्येत्यर्थ । दभ्यादिति ॥ आशीर्लिङि 'अनिदिताम्' इति न लोप । छन्दसीति ॥ गणसूत्रम् । तद्व्याचष्टे । आगणान्तादिति । रेि क्षि इति ॥ रि क्षि चिरि जिरि दाश दृ इति षट्
चम्नोति । रि १२७६ क्षि १२७७ चिरि १२७८ जिरि १२७९ दाश १२८० दृ १२८१ हिंसायाम् । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । 'न तद्यशः शस्त्रभृतां क्षिणोति' ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । दृणोति । वृत् ।
इति तिडन्तस्वादिप्रकरणम् ।
॥ अथ तिङन्ततुदादिप्रकरणम् ॥
तुद १२८२ व्यथने । इतः षट् स्वरितेतः ।
२५३४ । तुदादिभ्यः शः । (३-१-७७)
तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त । णुद १२८३ प्रेरणे । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता । दिश १२८४ अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् ।
धातवः | आद्यद्वितीयावेकाक्षरौ । तदाह | रिणोति । क्षिणोतीति । अयम्भाषायामपीति ॥ क्षिधातुरित्यर्थ. । तत्र प्रयोग दर्शयति । न तद्यशः इति । वृदिति ॥ स्वादयो वृत्ता इत्यर्थः ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी-
व्याख्याया बालमनोरमाया श्नुविकरण समाप्तम् ।
अथ शविकरणा धातवो निरूप्यन्ते । इतष्षडिति ॥ 'ॠषी गतौ' इत्यत. प्रागित्यर्थः । तुदादिभ्यश्शः ॥ कर्त्रर्थे सार्वधातुके परे तुदादिभ्यश्शः स्यात् । स्वार्थे इत्यर्थ. । शबपवादः । तुदतीति ॥ लघूपधगुण बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपित्' इति डित्त्वान्न गुण इति भावः । अजन्ताकारवत्त्वाभावात् क्रादिनियमाल्लिटि थल्यपि नित्यमिट्। तदाह । तुतोदिथेति । तोत्तेति ॥ अनिडिति भाव.। अतौत्सीदिति ॥ हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् । दिशधातुरप्यनिट् । देष्टेति ॥ व्रश्चेति षत्वे ष्टुत्वम् । स्येतु 'षढोः' इति षस्य कत्वञ्च । देक्ष्यति । दिक्षीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वान्न गुणः । ‘शल इगुपधात्’ इति क्स मत्वा आह । अदिक्षत् । अदिक्षतेति ॥ 'भ्रस्ज
अदिक्षत । भ्रस्ज १२८५ पाके । 'ग्रहिज्या-' (सू २४१२) इति सम्प्रसारणम् । सस्य श्चुत्वेन शः । शस्य श्चुत्वेन ज: । भृज्जति-भृज्जते ।
२५३५ । भ्रस्जो रोपधयो रमन्यतरस्याम् । (६-४-४७)
भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्त्वादन्त्यादच: परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतु: । बभर्जिथ-बभर्ष्ठ । बभर्जे । रमभावे, बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । 'स्कोः--' (सू ३८०) इति सलोपः । 'व्रश्च–' (सू २९४) इति षः । बभ्रष्ठ | बभ्रज्ज | भ्रष्टा-भर्ष्टा | भ्रक्ष्यति-भर्क्ष्यति । क्ङिति रमागमं बाधि-
पाके' अनिट् । भ्रस्ज् अ ति इति स्थिते आह । ग्रहिज्येति ॥ डित्त्वाद्रेफस्य सम्प्रसारणमृकारः पूर्वरूपञ्चेति भावः | भ्रस्ज् अ ति इति स्थिते आह | सस्येत्यादि ॥ णलि भ्रस्ज् अ इति स्थिते । भ्रस्जो रोपधयोः ॥ भ्रस्ज इत्यवयवषष्ठी । रोपधयोरिति स्थानषष्ठी। रश्च उपधा च तयोरिति विग्रह.। रेफादकार उच्चारणार्थः । रेफस्य उपधायाश्च स्थाने इति लभ्यते । 'आर्धधातुके' इत्यधिकृतम् । तदाह । भ्रस्जे रेफस्येत्यादिना ॥ रमि मकार इत् अकार उच्चारणार्थ. । तदाह । मित्त्वादन्त्यादचः परः इति ॥ तथाच रेफाकारादुपरि सकारात् प्राक् रेफ आगम इति फलितम् । भ्र र् स् ज् अ इति स्थितम् । ननु रम आगमत्वे रोपधयोरिति कथ स्थानषष्ठीनिर्देश इत्यत आह । स्थानेति ॥ स्थान प्रसङ्गः । रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफ. प्रयोज्यः । भकारादुपरि रेफ. जकारात्प्राक्सकारश्च न
प्रयोज्याविति लब्धम् । तथाच तयोर्निवृत्तिः फलितेति भाव । एवञ्च भर्ज् अ इति स्थिते द्वित्वादौ रूपमाह । बभर्जेति ॥ अतुसादावपि सयोगात्परत्वात्कित्त्वाभावात् 'ग्रहिज्या' इति सम्प्रसारणन्न भवति । भारद्वाजनियमात्थलि वेडिति मत्वा आह । बभर्जिथ-बभर्ष्ठेति ॥ इडभावपक्षे बभर्ज् थ इति स्थिते 'व्रश्च' इति जस्य षः । ष्टुत्वेन थस्य ठ इति भाव. । बभर्जिव । लिटस्तड्याह । बभर्जे इति ॥ बभर्जाते इत्यादि सुगमम् । रमभावे आह। बभ्रज्जेति ॥ णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकार इति भाव । 'लिट्यभ्यासस्य' इति सम्प्रसारणस्य न प्रसक्तिः । अभ्यासे हलादिशेषण रेफाभावात् । बभ्रज्जुतुरिति ॥ सयोगात्परत्वादकित्त्वात् 'ग्रहिज्या' इति न सम्प्रसारणमिति भाव । बभ्रज्जिथेति ॥ थलि भारद्वाजनियमादिट्पक्षे रमभावपक्षे रूपम् । तत्र इडभावपक्षे बभ्रस्ज् थ इति स्थिते आह । स्कोरिति ॥ व्रश्चेति ष: इति ॥ जस्येति शेष । रमभावपक्षे लिटस्तड्याह। बभ्रज्जेति ॥ बभ्रज्जाते | बभ्रज्जिषे । इत्यादि सुगमम् । भ्रष्टेति ॥ रमभावपक्षे रूपम् । भर्ष्टेति ॥ रमागमे भर्ज् ता इति स्थिते जस्य श्चुत्वेन शः शस्य 'व्रश्च' इति षः ष्टुत्वेन तकारस्य ट इति भावः । एव भ्रक्ष्यति-भर्क्ष्यतीति ॥ ‘षढोः’ इति कत्वे सस्य षत्वमिति विशेषः । भृज्जतु । अभृज्जत् ।
त्वा सम्प्रसारणं पूर्वविप्रतिषेधेन' (वा ४०७८) । भृज्ज्यात्। भृज्ज्यास्ताम् । भर्क्षीष्ट्-भ्रक्षीष्ट । अभार्क्षीत्-अभ्राक्षीत् । अभर्ष्ट-अभ्रष्ट। क्षिप १२८६ प्रेरणे । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त । कृष १२८७ विलेखने । कृषति । कृषते । क्रष्टा-कर्ष्टा । कृष्यात् । कृक्षीष्ट । 'स्पृशमृश-' (वा १८२३) इति सिज्वा । पक्षे क्स: । सिचि अम्वा । अक्राक्षीत्-अकार्क्षीत्-अकृक्षत् । तङि 'लिङ्सिचौ–' (सू २३००) इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षत। अकृक्षाताम्। अकृक्षन्त । ऋषी १२८८ गतौ। परस्मैपदी । ऋषति । आनर्ष । जुषी १२८९ प्रीतिसेवनयोः । आत्मनेपदिनश्चत्वारः । जुषते । ओ विजी १२९० भयचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते ।
भृज्जेत् । ननु आशीर्लिङि भ्रस्ज् यात् इति स्थिते यासुटः कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यात् इति रूप वक्ष्यति । तदयुक्त सम्प्रसारण बाधित्वा परत्वात् रमागमे कृते भर्ज्ज्यात् इति प्रसङ्गादित्यत आह । क्ङिति रमागममिति ॥ आशीर्लिङस्तडि सीयुटि रमागमपक्षे आह । भर्क्षीष्टेति ॥ रमभावे तु अकित्त्वात्सम्प्रसारणाभावादाह। भ्रक्षीष्टेति ॥ लुडि परस्मैपदे रमागमविकल्पं मत्वा आह। अभार्क्षीत्--अभ्राक्षीदिति ॥ आत्मनेपदे सिचि रमागमविकल्प मत्वा आह । अभर्ष्ट-अभ्रष्टेति ॥ 'झलो झलि' इति सिज्लोपः। क्षिप प्रेरणे इति ॥ अनिट् । अजन्ताकारवत्त्वाभावात् क्रादिनियमात्थलि नित्यमिट् । चिक्षेपिथ । एव कृषधातुरपि । चकर्षिथ । लुटि तासि 'अनुदात्तस्य चर्दुपधस्य' इत्यमागमविकल्प । अमागमाभावे गुणे रपरत्वम् । तदाह । क्रष्टा-कर्ष्टेति ॥ आशीर्लिङि परस्मैपदे आह । कृष्यादिति ॥ कित्त्वात् झलादित्वाभावाच्च अमागमो गुणश्च नेति भावः । आशीर्लिङस्तड्याह । कृक्षीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वादमागमो गुणश्च नेति भाव । लुडि परस्मैपदे आह । स्पृशमृशेति सिज्वेति । पक्षे इति ॥ सिजभावपक्षे 'शलः' इति क्स इत्यर्थः । सिचि अम्वेति ॥ सिच्पक्षे 'अनुदात्तस्य च' इत्यमागमविकल्प इत्यर्थः । क्से तु कित्त्वादमागमो नेति भाव । अक्राक्षीदिति ॥ सिचि अमागमे रूपम्। अकार्क्षीदिति ॥ सिचि अमभावपक्षे हलन्तलक्षणावृद्धिरिति भावः । क्सादेशपक्षे आह। अकृक्षदिति ॥ कित्त्वादमागमो गुणश्च नेति भाव। तङीति ॥ तडि सिच्पक्षे अकृष् स् त इति स्थिते 'लिड्सचौ' इति कित्त्वादम् नेत्यर्थः । गुणोऽपि नेति ज्ञेयम्। अकृष्टेति ॥ 'झलो झलि' इति सिज्लोप इति भाव । अकृक्षतेति ॥ सिच्पक्षे अनतः परत्वाददादेश इति भाव.| क्सादेशपक्षे आह । अकृक्षतेति ॥ कित्त्वादम्
नेति भावः । अकृक्षन्तेति ॥ क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाभावात् 'क्सस्याचि' इत्यकारलोपाभावादत. परत्वाददादेशाभावे अन्तादेश इति भावः । ऋषी गताविति ॥ सेट् । आनर्षिथ । आनर्षिव । अर्षिता । आर्षीत् । ओ विजी भयेति ॥ सेट् ।
२५३६ । विज इट् । (१-२-२)
विजे: पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते । ओ लजी १२९१ ओ लस्जी १२९२ व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे |
अथ परस्मैपदिनः । ओ व्रश्चू १२९३ छेदने । 'ग्रहिज्या--' (सू २४१२) वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्विथ-वव्रष्ठ । 'लिट्यभ्यासस्य -' (सू २४०८) इति सम्प्रसारणम् रेफस्य ऋकार । 'उरत्' (सू २२४४) । तस्य च 'अचः परस्मिन्-' (सू ५०) इति स्थानिवद्भावात् 'न सम्प्रसारणे-' (सू ३६३) इति वस्योत्वं न । व्रश्चिता-व्रष्टा । व्रश्चिष्यति-व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत्-अव्राक्षीत् |
उद्विजितेत्यादौ लघूपधगुणे प्राप्ते । विज इट् ॥ 'गाड्कुटादिभ्यः' इत्यतः डिदित्यनुवर्तते । तदाह । विजेः परः इत्यादि ॥ उद्विजिता । उद्विजिषीष्ट । उदविजिष्ट। व्रश्च्धातुरूदित्त्वाद्वेट् । ग्रहिज्येति ॥ लटि व्रश्च् अ ति इति स्थिते शस्यापित्त्वेन डित्त्वात् 'ग्रहिज्या' इति रेफस्य सम्प्रसारणमृकारः पूर्वरूपञ्चेति भाव. । तदाह । वृश्चतीति ॥ वृश्चतः । वृश्चन्तीत्यादि । वव्रश्चेति ॥ णलि रूपमिदम् । थलि च प्रक्रिया अनुपद वक्ष्यते। अतुसादौ सयोगात्परत्वेन कित्त्वाभावात् 'ग्रहिज्या' इति न सम्प्रसारणम् । तदाह । वव्रश्चतुरिति ॥ ऊदित्त्वात्थलादौ वेट् । तदाह । वव्रश्चिथ-वव्रष्ठेति ॥ धातुपाठे व्रश्चू इत्यत्र व्रस् च् इति स्थिते सस्य श्चुत्वेन शकारनिर्देशः । तथाच वव्रश्च् थ इति स्थिते श्चुत्वस्यासिद्धत्वात् 'स्कोः' इति सकारलोपे, चस्य 'व्रश्च' इति षत्वे ष्टुत्वेन थस्य ठत्वे वव्रष्ठेति रूपम् । वव्रश्चिव । ननु णलि थलि च अकिति द्वित्वे कृते 'लिट्यभ्यासस्य’ इत्यभ्यासावयवयोर्वकाररेफयोर्द्वयोरपि सम्प्रसारणं स्यात् । नच 'न सम्प्रसारणे सम्प्रसारणम्' इति वकारस्य सम्प्रसारणनिषेधः शङ्क्य: । पूर्व वकारस्य सम्प्रसारणसम्भवादित्यत आह । लिट्यभ्यासेति ॥ 'न सम्प्रसारणे' इति निषेधादेव ज्ञापकात् प्रथम रेफस्य ॠकारस्सम्प्रसारणमित्यर्थः | तस्य सम्प्रसारणसम्पन्नस्य ॠकारस्य अकारविधिं स्मारयति । उरदिति ॥ ननु ॠकारस्य अकारे कृते वकारस्य सम्प्रसारण स्यात् । सम्प्रसारणपरकत्वविरहेण 'न सम्प्रसारणे' इति निषेधाप्रवृत्तेरित्यत आह । तस्य चेति ॥ अकारस्येत्यर्थः । नच उरदत्त्वस्य परनिमित्तकत्वाश्रवणात् कथ स्थानिवत्त्वमिति वाच्यम् । आपादपरिसमाप्तेरङ्गाधिकारः इत्यभ्युपगम्य अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वाभ्युपगमात् । “लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः” इति न्यायस्तु 'न सम्प्रसारणे' इति निषेधादेव न स्थानिभेदे प्रवर्तते इति ज्ञायते । अत एव सुद्ध्युपास्य इत्यादौ धकारस्य द्वित्वे कृते पूर्व धकारस्य जश्त्वेन दकारे तस्य
द्वित्वमित्यास्तान्तावत् । आशीर्लिड्याह । वृश्च्यादिति ॥ कित्त्वात् सम्प्रसारणमिति भावः । अव्रश्चीदिति ॥ ऊदित्त्वादिट्पक्षे 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः । इडभावं मत्वा आह ।
व्यच १२९४ व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत्-अव्यचीत् । 'व्यचेः कुटादित्वमनसि' (वा ३४५६) इति तु नेह प्रवर्तते । 'अनसि' इति पर्युदासेन कृन्मात्रविषयत्वात् । उछि १२९५ उञ्छे । उञ्छति । उछी १२९६ विवासे । उच्छति । ॠच्छ १२९७ गतीन्द्रियप्रलयमूर्तिभावेषु । 'ऋच्छत्यॄताम्' (सू २३८३) इति गुण: । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता । मिच्छ १२९८ उत्क्लेशे । उत्क्लेशः पीडा । मिमिच्छ । अमिच्छीत् । जर्ज १२९९ चर्च १३०० झर्झ १३०१ परिभाषणभर्त्सनयोः । त्वच १३०२ संवरणे । तत्वाच । ॠच १३०३ स्तुतौ । आनर्च । उब्ज १३०४ आर्जवे । उज्झ १३०५ उत्सर्गे । लुभ १३०६ विमोहने । विमोहनमाकुलीकरणम् । लुभति । लोभिता-लोब्धा । लोभिष्यति । रिफ १३०७ कत्थनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरेफ । 'रिह' इत्येके । 'शिशुं न विप्रा मतिभी रिहन्ति' । तृप १३०८ तृम्फ १३०९ तृप्तौ ।
अव्राक्षीदिति ॥ अव्रश्च् सीत् इति स्थिते हलन्तलक्षणा वृद्धिः। श्चुत्वस्यासिद्धत्वात् ‘स्को’ इति सलोपः। 'व्रश्च' इति चस्य षः तस्य 'षढोः' इति क. सस्य ष इति भावः | “नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजश्शकारश्चेत् षाट्टवर्गस्तबर्गज.” इत्याहुः । व्यच व्याजीकरणे । सेट् । शे 'ग्रहिज्या' इति सम्प्रसारण मत्वा आह । विचतीति ॥विव्याचेति ॥ ‘लिट्यभ्यासस्य’ इत्यभ्यासयकारस्य सम्प्रसारणम् । 'न सम्प्रसारणे' इति न वकारस्य । विविचतुरिति ॥ कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणे कृते द्वित्वादीति भावः । विव्यचिथ। विव्यचिव । विच्यादिति ॥ आशीर्लिङि कित्त्वाद्यकारस्य सम्प्रसारणम् । 'अतो हलादेः' इति वृद्धिविकल्पं मत्वा आह । अव्याचीत्-अव्यचीदिति ॥ ननु 'व्यचेः कुटादित्वमनसि' इति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यति, इत्यादावपि 'गाड्कुटादिभ्यः' इति डित्त्वात् सम्प्रसारण स्यादित्यत आह । व्यचेरिति ॥ कृन्मात्रेति ॥ अवधारणे मात्रशब्दः । 'उछि उञ्छे' ‘उछी विवासे’ इति भ्वादौ पठितौ । इह तयोः पाठस्तु शविकरणार्थः । तेन उञ्छती-उञ्छन्ती । उच्छती। उच्छन्ती । इति 'आच्छीनद्योः' इति नुम्विकल्पस्सिध्द्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तर. । ऋच्छगतीति ॥ 'छे च' इति तुकि तस्य श्चुत्वेन चकारनिर्देशः । ॠच्छति । णलि लघूपधत्वाभावाद्जगुणे अप्राप्ते आह । ऋच्छत्यॄतामिति ॥ द्वित्वे उरदत्त्वे हलादिशेषे 'अत आदे.' इति दीर्घे आ अर्च्छ इति स्थिते बहुहल्त्वात् द्विहल्त्वाभावान्नुटि अप्राप्ते आह । द्विहल्ग्रहणस्येति ॥ आनर्च्छेति ॥ 'इजादेः' इत्यत्र अनृच्छः इति पर्युदासादाम् न । ऋच्छितेति ॥ ‘ॠच्छत्यॄताम्’ इत्यत्र लिटीत्यनुवृत्तेर्न गुण इति भावः । लुभधातुस्सेट । 'तीषसह' इति वेडिति मत्वा आह । लोभिता-लोब्धेति ॥ शिशुन्नेति ॥ नशब्द इवार्थे । विप्राः
आद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता । 'स्पृशमृश-' इति सिज्विकल्पः पौषादिकस्यैव । अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् 'अनिदिताम्–' (सू ४१५) इति नलोपे 'शे तृम्फादीनां नुम् वाच्यः' (वा ४३२३) आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फन्ति । ततृम्फ । तृफ्यात् । तुप १३१० तुम्प १३११ तुफ १३१२ तुम्फ १३१३ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति । दृप १३१४ दृम्फ १३१५ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृफति । दृम्फति । ॠफ १३१६ ॠम्फ १३१७ हिंसायाम् । ॠफति । आनर्फ । ऋम्फति | ॠम्फाञ्चकार । गुफ १३१७ गुम्फ १३१९ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ । उभ १३२० उम्भ १३२१ पूरणे । उभति । उवोभ । उम्भति |'उम्भाञ्चकार' । शुभ १३२२ शुम्भ १३२३ शोभार्थे । शुभति । शुम्भति । दृभी १३२४ ग्रन्थे । दृभति । चृती १३२५ हिंसाश्रन्थनयोः । चर्तिता । 'सेऽसिचि–' (सू २५०६) इति वेट् । चर्तिष्यति-चर्त्स्यति । अचर्तीत् । विध १३२६ विधाने । विधति । वेधिता । जुड १३२७ गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । 'मरुतो जुनन्ति' मृड १३२८ सुखने । मृडति । मर्डिता । पृड १३२९ च । पृडति । पृण १३३० प्रीणने । पृणति । पपर्ण । वृण १३३१ च । वृणति । मृण १३३२ हिंसायाम् । तुण १३३३ कौटिल्ये । तुतोण । पुण १३३४ कर्मणि शुभे । पुणति । मुण १३३५ प्रतिज्ञाने । कुण १३३६ शब्दोपकरणयोः । शुन १३३७ गतौ । द्रुण १३३८ हिंसागतिकौटिल्येषु । घुण ४३३९ घूर्ण १३४० भ्रमणे । षुर १३४१ ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि सूर्यात् । कुर १३४२ शब्दे । कुरति । कूर्यात् । अत्र 'न भकुर्छुराम्' (सू १६२९) इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः । खुर १३४३ छेदने । मुर १३४४ संवेष्टने ।
शिशुमिव मतिभिः रिहन्ति हिसन्ति इत्यर्थः । तृपधातुश्श्यन्विकरण एवानिट् । अङपवादत्वादिति ॥ अपवादस्य उत्सर्गव्याप्यत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति ॥ श्रन्थनं विस्रसनम् । चृततीत्यादि सुगमम् । “अथास्य योक्र विचृतेत्” इत्याश्वलायनः ।
क्षुर १३४५ विलेखने । घुर १३४६ भीमार्थशब्दयोः । पुर १३४७ अग्रगमने । वृहू १३४८ उद्यमने । दन्त्योष्ठ्यादिः । पवर्गादिरित्यन्ये । तृहू १३४९ । स्तृहू १३५० तृंहू १३५१ हिंसार्थाः । तृहति । ततर्ह । स्तृहति । तस्तर्ह । तर्हिता-तर्ढा । स्तर्हिता-स्तर्ढा । अतृंहीत्-अतार्ड्क्षीत् । अतार्ढाम् । इषु १३५२ इच्छायाम् । 'इषुगमि-' (सू २४००) इति छः । इच्छति | एषिता-एष्टा । एषिष्यति । इष्यात् । ऐषीत् । मिष १३५३ स्पर्धायाम् । मिषति । मेषिता । किल २३५४ श्वैत्यक्रीडनयोः । तिल १३५५ स्नेहे । चिल १३५६ वसने । चल १३५७ विलसने । इल १३५८ स्वप्नक्षेपणयोः । विल १३५९ संवरणे ।दन्त्योष्ठ्यादिः । बिल १३६० भेदने । ओष्ठ्यादिः । णिल १३६१ गहने । हिल १३६२ भावकरणे । शिल १३६३ षिल १३६४ उञ्छे । मिल १३६५ श्लेषणे । लिख १३६६ अक्षरविन्यासे । लिलेख । कुट १३६७ कौटिल्ये । 'गाङ्कुटादिभ्यः–' (सू २४६१) इति ङित्त्वं । चुकुटिथ । अञ्णित इति किम्। चुकोट । कुटिता । पुट १३६८ संश्लेषणे । कुच १३६९ सङ्कोचने । गुज १३७० शब्दे । गुड १३७१ रक्षायाम् । डिप १३७२ क्षेपे । छुर १३७३ छेदने । 'न भकुर्छुराम्' (सू १३२९) इति न दीर्घः । छुर्यात् । स्फुट १३७४ विकसने । स्फुटति । पुस्फोट । मुट १३७५ आक्षेपमर्दनयोः । त्रुट १३७६ छेदने । 'वा भ्राश–' (सू २३२१) इति श्यन्वा । त्रुट्यति-त्रुटति । तुत्रोट । त्रुटिता । तुट १३७७ कलहकर्मणि । तुटति । तुतोट । तुटिता । चुट १३७८ छुट १३७९ छेदने । जुट १३८० बन्धने । कड १३८१ मदे । लुट १३८२ संश्लेषणे । कृड १३८३ घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । कुड १३८४ बाल्ये । पुड १३८५
विस्रंसयेदित्यर्थः । उपसर्गवशात् “यजमानो मेखलां विचृतते” इत्यापस्तम्बसूत्रे तु तड् आर्षः । षुधातुष्षोपदेशः । कुर शब्दे । करोतेरेवेति व्याख्यानमेवात्र शरणम् । वृहूधातुः ॠदुपध. । ऊदित्त्वाद्वेट्कः । पवर्गादिरिति ॥ पवर्गतृतीयादिरित्यर्थः । तृहू स्तृहू तृंहू इति ॥ त्रयोऽपि ॠकारवन्तः । तृतीयोऽनुस्वारवान् । ऊदित्त्वाद्वेट्। तर्ढेति ॥ तृहेस्तासि ढत्वधत्वष्टुत्वढलोपाः । एव स्तर्ढा । तृण्ढा । अतर्हीत्-अतार्क्षीत् । अस्तर्हीत्-अस्तार्क्षीत् । इति सिद्धवत्कृत्य आह । अतृंहीत्-अतार्ङ्क्षीदिति ॥ तृहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढ: ढस्य क. षत्व । अनुस्वारस्य परसवर्णो डकार इति भावः । अतार्ढामिति ॥ तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढलोपा इति भावः।
उत्सर्गे । घुट १३८६ प्रतिघाते । तुड १३८७ तोडने । तोडनं भेदः । थुड १३८८ स्थुड १३८९ संवरणे । थुडति । तुथोड । तुस्थोड । 'खुड' 'छुड' इत्येके । स्फुर १३९० फुल १३९१ सञ्चलने । 'स्फुर स्फुरणे' । 'स्फुल सञ्चलने' इत्येके ।
२५३७ । स्फुरतिस्फुलत्योर्निर्निविभ्यः । (८-३-७६)
षत्वं वा स्यात् । निष्फुरति-निःस्फुरति । 'स्फर' इत्यकारोपधं केचित्पठन्ति । पस्फार । 'स्फुड १३९२ चुड १३९३ व्रुड १३९४ संवरणे' 'क्रुड १३९५ भृड १३९६ निमज्जने' इत्येके । 'गुरी १३९७ उद्यमने' अनुदात्तेत् । गुरते । जुगुरे । गुरिता । 'णू १३९८ स्तवने' । दीर्घान्तः । 'परिणूतगुणोदयः' । इतश्चत्वारः परस्मैपदिनः । नुवति । अनुवीत् । 'धू १३९९ विधूनने' । धुवति । 'गु १४०० पुरीषोत्सर्गे' । जुगुविथ-जुगुथ । गुता । गुष्यति । अगुषीत् । 'ह्रस्वादङ्गात्' (सू २३६९) । अगुताम् । अगुषुः । 'ध्रु १४०१ गतिस्थैर्ययो:' । 'ध्रुव' इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रुव्यात् । अध्रुवीत् । अध्रुविष्टाम् । 'कुङ् १४०२ शब्दे' । दीर्घान्तः इति कैयटादयः । कुविता । अकुविष्ट । 'ह्रस्वान्तः' इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः ।
'पृङ् १४०३ व्यायामे' । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् । 'मृङ् १४०४ प्राणत्यागे ।
२५३८ । म्रियतेर्लुङ्लिङोश्च । (१-३-६१)
एवं अस्तार्ढाम् । अतार्ण्ढाम् । स्फुर स्फुरणे । स्फुरतिस्फुलत्योः ॥ मूर्द्धन्य इत्यधिकृतम् | 'सिवादीना वा' इत्यतो वेत्यनुवर्तते । तदाह । षत्वं वा स्यादिति ॥ शेषपूरणम् । णू स्तवने इति ॥ णोपदेशः | परिणूतेति ॥ ‘श्र्युकः किति’ इति नेट् । कुड् शब्दे । दीर्घान्तः इति ॥ ततश्चाय सेट् । पृङ् व्यायामे इति ॥ ह्रस्वान्तोऽयमनिट् । 'ॠद्धनोः स्ये' इति इटं मत्वा आह । व्यापरिष्यते इति ॥ मृड्धातुरनिट् । म्रियतेः ॥ ‘अनुदात्तडित.’ इत्यतः आत्मनेपदमित्यनुवर्तते । चकारेण ‘शदेश्शितः’ इत्यत शित इत्यनुकृष्यते ।
लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत।
अथ परस्मैपदिनः सप्त । रेि १४०५ पि १४०६ गतौ । लघूपधगुणादन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता । धि १४०७ धारणे । क्षि १४०८ निवासगत्योः । षू १४०९ प्रेरणे । सुवति । सविता | कॄ १४१० विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता-करीता । कीर्यात् । अकारीत् ।
२५३९ किरतौ लवने । (६-१-१४०)
उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति । 'अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम्' (वा ३६९९) । उपास्किरत् । उपचस्कार |
२५४० । हिंसायां प्रतेश्च । (६-१-१४१)
उपात्प्रतेश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । गॄ १४११ निगरणे ।
२५४१ । अचि विभाषा । (८-२-२१)
प्रकृतिभूतादित्यध्द्याहार्यम् । तदाह । लुङ्लिङोरिति ॥ तङ् स्यादिति ॥ आत्मनेपदं स्यादित्यर्थः । म्रियमाणः इत्यत्र आनस्यापि इष्टत्वात् । ननु ङित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह । नान्यत्रेति ॥ तर्हि डित्व व्यर्थमित्यत आह । ङित्त्वं स्वरार्थमिति ॥ 'तास्यनुदात्तेङिददुपदेशाल्लसार्वधातुकमनुदात्तम्' इत्येतदर्थमित्यर्थः । म्रियते इति ॥ शे कृते रिडियडाविति भावः । ॠदन्तत्वात् भारद्वाजमतेऽपि नेडित्याह । ममर्थेति । मम्रिवेति ॥ क्रादिनियमादिट् । मर्ता । ‘ॠद्धनोः स्ये' इति इटं मत्वा आह । मरिष्यतीति ॥ रि पि गताविति ॥ द्वाविमावनिटौ । ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्यत आह । अन्तरङ्गत्वादियङिति ॥ कॄ विक्षेपे इति ॥ दीर्घान्तोऽयं सेट् | किरतीति ॥ 'ॠत इद्धातोः' इति इत्त्व रपरत्वम् । चकरतुरिति ॥ कित्त्वेऽपि 'ॠच्छत्यॄताम्' इति गुण इति भावः । 'वॄतो वा' इति मत्वा आह । करिता-करीतेति ॥ किरतौ लवने ॥उपादिति ॥ 'उपात् प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः । सुडागमः इति ॥ 'सुट् कात्पूर्वः' इत्यतस्तदनुवृत्तेरिति भावः । 'अभ्यासव्यवायेऽपि' इति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् । हिंसायां प्रतेश्च ॥ चकारादुपादिति समुच्चीयते । तदाह । उपादिति । गॄ निगरणे इति ॥ निगरणं भक्षणम् । सेट् । अचि विभाषा ॥ ‘ग्रो यडि’ इत्यतः
गिरते: रेफस्य लत्वं वा स्यादजादौ । गिरति-गिलति । जगार--जगाल । जगरिथ-जगलिथ । गरिता-गलिता । दृङ् १४१२ आदरे । आद्रियते । आद्रियेते । आदद्रे । अदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् । धृङ् १४१३ अवस्थाने । ध्रियते ।
अथ परस्मैपदिनः षोडश । प्रच्छ १४१४ ज्ञीप्सायाम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ—पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः । सृज १४१५ विसर्गे । 'विभाषा सृजिदृशोः' (सू २४०४) । ससर्जिथ-सस्रष्ठ । स्रष्टा । स्रक्ष्यति । 'सृजिदृशोर्झल्यमकिति' (सू २४०५) इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् । टु मस्जो १४१६ शुद्धौ । मज्जति । ममज्ज । मस्जिनशोर्झलि' (सू २५१७) इति नुम् । 'मस्जेरन्त्यात्पूर्वो नुम् वाच्यः (वा ३२१) । संयोगादिलोपः । ममङ्क्थ । ममज्जिथ ।
ग्र. इत्यनुवर्तते । ‘कृपो रो ल.’ इत्यतः रो ल इति । तदाह । गिरतेरिति ॥ अजादाविति ॥ 'धातो. कार्यमुच्यमान तत्प्रत्यये भवति' इति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेति 'मृजेर्वृद्धि' इति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति ॥ ह्रस्वान्तोऽयम् । अनिट् । आद्रियते इति ॥ रिड् इयड् । 'ॠद्धनोः स्ये' इति इट मत्वा आह । आदरिष्यते इति । आादृषीष्टेति ॥ 'उश्च' इति कित्त्वान्न गुणः |आादृतेति ॥ 'ह्रस्वादङ्गात्' इति सलोपः । प्रच्छ ज्ञीप्सायामिति ॥ ज्ञातुमिच्छा ज्ञीप्सा । अनिडयम् । पृच्छतीति ॥ शस्य डित्त्वात् 'ग्रहिज्या' इति रेफस्य सम्प्रसारण ॠकारः पूर्वरूपञ्चेति भाव । पप्रच्छतुरिति ॥ सयोगात् परत्वेन कित्त्वाभावान्न सम्प्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति मत्वा आह । पप्रच्छिथ-पप्रष्ठेति ॥ इडभावपक्षे व्रश्चादिना छस्य षः थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति ॥ छस्य व्रश्चेति ष' तकारस्य ष्टुत्वेन टः । नच षत्वस्यासिद्धत्वात् पूर्व तुकि ततः छस्य षत्वे ष्टुत्वयोः प्रट्ष्टेति स्यादिति वाच्यम् । व्रश्चेतिसूत्रे
सतुकस्य छस्य ग्रहणात् । किरादयो वृत्ताः इति ॥ नचैव सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहण व्यर्थ । किरादीनाम्पञ्चत्वादिति वाच्यम् । तस्य 'रुदादिभ्यस्सार्वधातुके' इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट्। सृजति । ससर्ज । ससृजतु. । अजन्ताकारवत्त्वाभावेऽपि 'विभाषा सृजिदृशो.' इति थलि वेट् इति मत्वा आह । ससर्जिथ-सस्रष्ठेति ॥ इडभावे 'व्रश्च' इति जस्य षः थस्य ष्टुत्वेन ठः पित्त्वेन अकित्त्वात् 'सृजिदृशो' इत्यमागम इति भावः । ससृजिव । टु मस्जो शुद्धौ । मज्जतीति ॥ सस्य श्चुत्वेन श: तस्य जश्त्वेन ज इति भाव. । ममङ्क्थेति ॥ मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थ इति स्थिते 'स्को' इति सकारलोपे ममज् थ इति स्थिते जस्य कुत्वेन गकारे 'मस्ज्नशो.' इति नुमि तस्यानुस्वारे तस्य परसवर्णो ङकार गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात् परत्र नुमि सत्यपि इद
मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः । रुजो १४१७ भङ्गे | रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् । भुजो १४१८ कौटिल्ये । रुजिवत् । छुप १४१९ स्पर्शे । छोप्ता । अच्छौप्सीत् । रुश १४२० रिश १४२१ हिसायाम् । तालव्यान्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति । लिश १४२२ गतौ । अलिक्षत् । स्पृश १४२३ संस्पर्शने ।स्प्रष्टा-स्पर्ष्टा |स्प्रक्ष्यति--स्पर्क्ष्यति । अस्प्राक्षीत्-अस्पार्क्षीत्-अस्पृक्षत् । विच्छ १४२४ गतौ । 'गुपूधूप--'(सू २३०३) इत्यायः । आर्धधातुके वा | विच्छायति । विच्छायाञ्चकार--विविच्छ | विश १४ २५ प्रवेशने । विशति । वेष्टा । मृश १४२६ आमर्शने | आमर्शनं स्पर्शः | अम्राक्षीत्-अमार्क्षीत्-अमृक्षत् । णुद १४२७ प्रेरणे । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुन: पाठ: | षद्लृ १४२८ विशरणगत्यवसादनेपु । ‘सीदति’ इत्यादि भौवादिकवत् । इह पाठो नुम्विकल्पार्थ: | सीदती--सीदन्ती | ज्वलादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः । शद्लृ १४२९ शातने । स्वरार्थ एव पुनः पाठः | शता तु नास्ति | 'शदेः शितः' (सू २३६२) इत्यात्मनेपदोक्त्तेः |
सिध्द्यति । तथापि अन्त्यात् पूर्वो नुमित्यस्य मग्न इत्यादौ नलोप फलम् । अन्यथा उपधात्वाभावान्नस्य लोपो न स्यादिति भाव: | एव मङ्क्तेति ॥ मङ्क्ष्यति इत्यत्र तु सस्य षत्व विशेष: | 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिट | 'अनुदात्तस्य चर्दुपधस्य' इत्यम्विकल्प मत्वा आह । स्प्रष्टा-स्पर्ष्टेति ॥ णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'शद्लृ शातने' इत्यन्ता अनिट: | तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्य नेट् । मृशे. 'अनुदात्तस्य च' इत्यम्विकल्पः । तदाह । अम्राक्षीत्-अमार्क्षीदिति ॥ 'स्पृशमृश' इति सिज्वेति भाव. । सिजभावे ‘शलइगुपधात्’ इति क्स मत्वा आह । अमृक्षदिति ॥ णुदधातुर्णोपदेश.। ननु तनादिगण एवास्मिन् स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह | कर्त्रभिप्रायेऽपीति ॥ षद्लृधातोर्भ्वादौ पठितादेव सीदति इत्यादि सिद्धेः इह पाठो व्यर्थ इत्यत आह | इह पाठः इति ॥ सीदन्ती इति शत्रन्तात् शविकरणात् डीपि 'आच्छीनद्योः' इति नुम् विकल्पार्थ इह पाठ इत्यर्थः । भ्वादावेव पाठे तु 'शप्श्यनोर्नित्यम्' इति नित्यो नुम् स्यादिति भावः | तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह | ज्वलादाविति ॥ 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भाव: | तदुदाहृत्य दर्शयति । सादः इति ॥ उभयत्र पाठस्य फलान्तरमाह । स्वरार्थश्चेति ॥ तदेव विशदयति । शबनुदात्तः इति ॥ 'अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः । शस्तूदात्तः इति ॥ 'प्रत्यय आद्युदात्तश्च' इत्यनेनेति भावः । ननु 'शद्लृ शातने' इत्यस्य भ्वादौ पाठादेव सिद्धे इह पाठो व्यर्थ इत्यत आह । स्वरार्थ एवेति ॥ प्रागुक्तपित्त्वापित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । ननु शत्रन्तात् डीपि उक्तरीत्या नुम्विकल्पार्थोऽपि कुतो न स्यादित्यत आह । शता तु
अथ षट् स्वरितेतः । मिल १४३० सङ्गमे । 'मिल संश्लेषणे' इति पठितस्य पुन: पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल। मिमिले । मुच्लृ १४३१ मोक्षणे ।
२५४२ । शे मुचादीनाम् । (७-१-५९)
नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् । लुप्लृ १४३२ छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त । विद्लृ १४३३ लाभे । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः ।तृन्तृचौ । लिप १४३४ उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । 'लिपिसिचि–' (सू २४१८) इत्यङ् । तङि तु वा । अलिपत् । अलिपत-अलिप्त । षिच १४३५ क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिच्क्त-असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ।
अथ त्रयः परस्मैपदिनः । कृती १४३६ छेदने । कृन्तति । चकर्थ । कर्तिता । कर्तिष्यति-कर्त्स्यति । अकर्तीत् । खिद १४३७ परिखाते । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च । पिशि १४३८ अवयवे । पिंशति । पेशिता । अयं दीपनायामपि । 'त्वष्टा रूपाणि पिंशतु' वृत् । मुचादयस्तुदायश्च । । इति तिङन्ततुदादिप्रकरणम् ।
नास्तीति ॥ शदेर्लटश्शानजेव नतु शत्रादेश इत्यर्थः । कुत इत्यत आह । शादेश्शितः इतीति ॥ मिल सङ्गमे । पठितस्येति ॥ अस्मिन्नेव तुदादिगणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थः इति ॥ पूर्वत्र पाठस्तु कर्त्रभिप्रायेऽपि परस्मैपदार्थ इत्यर्थः । 'मुच्लृ मोक्षणे'। शे मुचादीनाम् ॥ नुम् स्यादिति ॥ शेषपूरणम्। ‘इदितो नुम्’ इत्यतस्तदनुवृत्तेरिति भाव. । मुक्षीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वान्न गुण इति भावः । अमुचदिति ॥ लृदित्त्वादडिति भावः । लुडि तडि आह । अमुक्तेति ॥ 'झलो झलि' इति सिज्लोप इति भावः । लिप उपदेहे । तङि तु वेति ॥ 'आत्मनेपदेष्वन्यतरस्याम्' इत्यनेनेति शेषः । 'षिच क्षरणे' । अभिषिञ्चतीति ॥ 'उपसर्गात्सुनोति' इति षः । अभ्यषिञ्चदिति ॥ 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम्। अभिषिषेचेति ॥ 'स्थादिष्यभ्यासेन' इति ष.। कृती छेदने इति ॥ ईदित्त्व 'श्वीदितः' इत्येतदर्थम् । 'सेऽसिचि' इति वेडिति मत्वा आह । कर्तिष्यति-कर्त्स्यतीति । पिशि अवयवे इति ॥ अवयवक्रियायामित्यर्थ । रूपाणि पिंशत्विति ॥ प्रकाशयत्वित्यर्थः ।
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां शविकरण समाप्तम् ।
। श्रीरस्तु ।
॥ अथ तिङन्तरुधादिप्रकरणम् ॥
रुधिर् १४३९ आवरणे । नव स्वरितेतः इरितश्च ।
२५४३ । रुधादिभ्यः श्नम् । (३-१-७८)
शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि । 'श्नसोरल्लोपः' (सू २४६९) । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न । 'न पदान्त-' (सू ५१) इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रोत्स्यते। रुणध्दु । रुन्धात् । रुन्धि। रुणधानि । रुणधै।अरुणत्। अरुन्धाम् । अरुणत्-अरुणः । अरुणधम् । अरुधत्-अरौत्सीत् । अरुद्ध । भिदिर् १४४०
अथ श्नम्विकरणा धातवो निरूप्यन्ते । रुधिरित्यादिना । रुधादिभ्यः श्नम् ॥ कर्त्रर्थे सार्वधातुके परे रुधादिभ्य श्रम्प्रत्ययस्स्यात् स्वार्थे इत्यर्थः । तदाह । शपोऽपवादः इति ॥ श्नमि शमावितौ । मित्त्वस्य फलमाह । मित्त्वादन्त्यादचः परः इति ॥ प्रत्ययत्वात् शकारस्येत्संज्ञा । शकारनिर्देशस्य 'श्नसोरल्लोप ' 'श्नान्न लोपः' इत्यत्र विशेषणार्थ.। नतु सार्वधातुकसंज्ञार्थ । फलाभावात् । नच ‘सार्वधातुकमपित्’ इति कित्त्वे गुणनिषेध फलमिति शङ्क्यम् ।
श्नमः पूर्वस्य इगन्तस्य अङ्गत्वाभावादेव गुणाप्रसत्ते । ननु श्नम. प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणत्सि इति स्यादित्यत आह । नित्यत्वाद्गुणं बाधते इति ॥ कृते अकृते च गुणे प्रवृत्ते श्नम् नित्यः । तस्मिन् सति लघूपधत्वाभावान्न गुण इति भाव । रुणद्धीति ॥ रुनध् ति इति स्थिते 'झषस्तथो.' इति धत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रिया दर्शयति । श्नसोरल्लोपः इति ॥ क्डिति सार्वधातुके तद्विधेरिति भावः । रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्क्य आह । णत्वस्यासिद्धत्वादिति ॥ ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह । तस्यासिद्धत्वादिति ॥ परसवर्णसम्पन्ननस्येत्यर्थः । नन्विह अल्लोपस्य ‘अच. परस्मिन्’ इति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह । न पदान्तेति । रुन्धः इति ॥ ‘झषस्तथो.’ इति ध । रुन्धन्तीति ॥ रुणत्सि । रुन्ध. । रुन्ध । रुणध्मि । रुन्ध्वः । रुन्ध्मः । रुन्धे इति ॥ रुन्धाते । रुन्धते । रुन्त्से । रुन्धाथे । रुन्ध्द्वे । रुन्धे । रुन्ध्वहे । रुन्ध्महे । रुरोध । रुरोधिथ । अरुणदिति ॥ लडि हल्ड्यादिना तिपो लोप । धस्य चर्त्वविकल्पः । सिपि तु हल्ड्यादिना लुप्ते 'दश्च' इति रुत्वविकल्प मत्वा आह । अरुणत्-अरुणः इति ॥ रुन्ध्यात् । रुन्धीत । रुत्सीष्ट । इरित्त्वादड्विकल्पं मत्वा आह। अरुधत्-अरौत्सीदिति ॥ अडभावे सिचि हलन्तलक्षणा वृद्धि । लुङस्तड्याह । अरुद्धेति ॥
विदारणे । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । अभिनत्-अभिनः । अभिनदम् । अभिन्त । अभिदत्-अभैत्सीत् । अभित्त । छिदिर् १४४१ द्वैधीकरणे । अच्छिदत्-अच्छैत्सीत् । अच्छित्त । रिचिर् १४४२ विरेचने । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत्-अरैक्षीत् । अरिक्त । विचिर् १४४३ पृथग्भावे । विनक्ति। विङ्क्ते । क्षुदिर् १४४४ सम्पेषणे । क्षुणत्ति । क्षन्ते । क्षोत्ता । अक्षुदत्-अक्षौत्सीत् । अक्षुत्त । युजिर् १४४५ योगे । योक्ता । उ छृदिर् १४४६ दीप्तिदेवनयोः । छृणत्ति । छृन्ते । चच्छर्द । 'सेऽसिचि -' (सू २५०६) इति वेट् । चच्छृदिषे-चच्छृत्से । छर्दिता । छर्दिष्यति-छर्त्स्यति । अच्छृदत्-अच्छर्दित् । अच्छर्दिष्ट । उ तृदिर् १४४७ हिसानादरयोः । तृणत्तीत्यादि । कृती १४४८ वेष्टने । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् । ञि इन्धी १४४९ दीप्तौ । त्रय आत्मनेपदिनः ।
२५४४ । श्नान्न लोपः । (६-४-२३)
श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोप: । (सू २४६९) । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः । खिद १४५० दैन्ये ।
‘झलो झलि’ इति सिज्लोप । भिनत्तीति ॥ भिन्तः । भिन्दन्ति । भिनत्सि । भिन्थः । भिनद्मि । भिन्द्व । भिन्द्म. । भिन्ते इति ॥ भिन्दाते । भिन्दते । भिन्त्से । भिन्दाथे । भिन्ध्वे । भिन्दे । भिन्द्वहे । बिभेद । बिभेदिथ । बिभिदिव । बिभिदे । बिभिदिषे । अभिन्तेति ॥ लडि तडि रूपम् । अभिनत्-अभिनः इति ॥ 'दश्च' इति रुर्वेति भावः । लुडः परस्मैपदे आह । अभिदत्-अभैत्सीदिति ॥ इरित्त्वादड् वेति भाव । लुङि तड्याह । अभित्तेति ॥ 'झलो झलि’ इति सिज्लोपः । अभित्सातामित्यादि । उ छृदिरिति ॥ उकार इत् । ‘उदितो वा’ इति त्त्कायामिड्विकल्पार्थः । ञि इन्धी दीप्तौ । ईदित्त्व 'श्वीदित' इत्येतदर्थम् । श्नमि कृते इन न् ध् ते इति स्थिते । श्नान्न लोपः ॥ श्नम्प्रत्ययैकदेशस्य श्न इत्यस्य श्नादिति पञ्चमी । नेति लुप्तषष्ठीकम् । तदाह । श्नमः परस्य नस्येति ॥ नकारस्येत्यर्थः । अकार उच्चारणार्थः । तथाच इन ध् ते इति स्थिते आह । श्नसोरल्लोपः इति ॥ तथाच इन्ध् ते इति स्थिते 'झषस्तथो' इति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्ठितमाह । इन्धे इति ॥ यद्यपि 'अनिदिताम्' इत्येवात्र नलोपः सिध्द्यति । तथापि अनक्ति इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तमिति भावः । इन्धते । इन्ध्वे । इन्धाम् । इन्त्स्व । इन्ध्वम् । इनधै इति ॥ श्नमि उत्तमस्य इटः एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन डित्त्वाभावात् 'श्नसोरल्लोपः' इत्यभावे रूपमिति भावः । अत्र नलोपार्थमपि श्नान्न
खिन्ते । खेत्ता । विद १४५१ विचारणे । विन्ते । वेत्ता ।
अथ परस्मैपदिनः । शिष्लृ १४५२ विशेषणे । शिनष्टि । शिष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम्। ष्टुत्वं 'झरो झरि--' (सू ७१) इति वा डलोपः । अनुस्वारपरसवर्णो शिण्ढि-शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्त्वादङ् । अशिषत् । पिष्लृ १४५३ संचूर्णने । शिषिवत् । पिनष्टि । भञ्जो १४५४ आमर्दने । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता । भुज १४५५ पालनाभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् । तृह १४५६ हिसि १४५७ हिंसायाम् ।
लोप इत्यावश्यकम् । आट पित्त्वेन डित्वाभावात् 'अनिदिताम्' इत्यस्याप्रवृत्ते । इनधावहै। लड्याह । ऐन्धेति । ऐन्धाः इति ॥ 'झषस्तथो.' इति थस्य धः । इन्धीत । लुडि ऐन्धिष्ट । शिष्लृ विशेषणे । अनिट् । शिशेषिथेति ॥ अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । शि न ष् हि इति स्थिते अल्लोपे शि न् ष् हि इति स्थिते आह । हेर्धिरिति ॥ शिन् ष् धि इति स्थिते आह । जश्त्वमिति ॥ 'झला जश् झशि' इति षस्य ड इति भाव.। ष्टुत्वमिति ॥ धस्य ढ इति भाव । यद्यपि जश्त्वस्यासिद्धत्वात्ततः प्रागेव ष्टुत्वस्य उपन्यासो युक्त | तथापि जश्त्व ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपर क्रमस्तु न विवक्षितः । झरः इति ॥ जश्त्वसम्पन्नस्य डस्य लोपविकल्प इत्यर्थ.। अनुस्वारपरसवर्णाविति ॥ नकारस्य 'नश्च' इत्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थ । 'न पदान्त' इति निषेधान्नालोप स्थानिवत् । ढस्य लोपपक्षे उदाहरति । शिण्ढीति ॥ ढस्य लोपाभावे उदाहरति । शिण्ड्ढीति ॥ वस्तुतस्तु सानुस्वार एव पाठ उचित. ‘दीर्घादाचार्याणाम्’ इत्युत्तर 'अनुस्वारस्य ययि परसवर्ण' 'वा पदान्तस्य' ' तोर्लि' 'उद. स्थास्तम्भ्वोः पूर्वस्य’ झयो होऽन्यतरस्याम् । 'शश्छोटि' इति षट्सूत्रपाठोत्तर 'झलाञ्जश्झशि' 'अभ्यासे चर्च' 'खरि च' 'वावसाने' 'अणोऽप्रगृह्यस्यानुनासिक' इति पञ्चसूत्रपाठ इति भाष्यसम्मताष्टाध्यायीपाठे परसवर्णदृष्ट्या 'झलाञ्जश्झशि' इत्यस्य ‘झरो झरि' इत्यस्य चासिद्धत्वेन यय्परत्वाभावे परसवर्णाप्राप्तेरिति शब्देन्दुशेखरे स्थितम् । शिष्टात्। शिष्टम् । शिष्ट । शिनषाणीति ॥ आटः पित्त्वेन डित्त्वाभावात् 'श्नसोः' इत्यल्लोपो नेति भावः । अशिनडिति ॥ लडस्तिपो हल्ड्यादिलोपे षस्य जश्त्वमिति भावः । अशिष्टाम् । अशिषन् । अशिनट् । अशिष्टम् । अशिष्ट । अशिनषम् । अशिष्व । अशिष्म । भञ्जो आमर्दने । भनक्तीति ॥ श्नमि भ न न् ज् ति इति स्थिते 'श्नान्न लोपः' इति नलोप इति भाव । भङ्क्तः । भञ्जन्तीत्याद्यूह्यम् । भारद्वाजनियमात्थलि वेडिति मत्वा आह । बभञ्जिथ-बभङ्क्थेति ॥ भङ्क्तेति ॥ अनिडिति भावः । भुज पालनेति ॥ 'भुजोऽनवने' इति तड् वक्ष्यते । भुङ्क्ते । भुञ्जाते इत्यादि । तृह, हिसि, हिंसायाम् । ॠदुपध ।
२५४५ । तृणह इम् । (७-३-९२)
तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढ: | ततई । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता । उन्दी १४५८ क्लेदने | उनत्ति । उन्त: । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् | औन्दन् । औनः—औनत् । औनदम् । अञ्जू १४५९ व्यक्तिमर्षणवकान्तिगतिषु | अनक्ति | अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ-आनङ्क्थ | अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् |
सेट् | श्नमि कृते णत्वे तृणह् ति इति स्थिते । तृणह इम् ॥ तृणह इति षष्ठी । कृतश्नमः तृहधातोर्निर्देश |'नाभ्यस्तस्य' इत्यत पितीति 'उतो वृद्धिः' इत्यत हलीति चानुवर्तते । फलितमाह । तृहः श्नमि कृते इति ॥ मित्त्वादच पर । श्नमि कृते इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम् बाध्द्येत | 'सत्यपि सम्भवे बाधनम्भवति' इति
न्यायात् । अन्यथा 'ब्राह्मणेभ्यो दधि दीयताम् । तक्र कौण्डिन्याय' इत्यत्र तक्रेण दधि न बाध्द्येत | श्नमा शप्च बाध्द्येत | देशभेदेन उभयसम्भवादिति भाव | तृणेढीति ॥ तृणह् ति इति स्थिते इमागमे आद्गुणे तृणे ह् ति इति स्थिते | ढत्वधत्वष्टुत्वढलोपा इति भाव: | तृण्ढः इति ॥ तसि श्नमि कृते तृणह् तस् इति स्थिते तसः अपित्त्वादिमागमाभावे श्नसो इत्यल्लापे ढत्वधत्वष्टुत्वढलोपा इति भाव । तृहन्ति । तृणेक्षि | तृण्ढः । तृण्ढ । तृणेह्मि । तृह्व । तृह्म | ततर्हेति ॥ ततृहतुः । ततर्हिथ । ततृहिव | तर्हितेति ॥ सेडिति भाव । तर्हिष्यति । तृणेढु-तृण्ढात् । तृण्ढाम् । तृंहन्तु । तृण्ढि-तृण्ड्ढि | तृण्ढात् । तृण्ढम् । तृण्ढ । तृणहानि । तृणहाव । तृणहाम । अतृणेडिति ॥ लडस्तिपि श्नमि इम् हृल्ड्यादिलोपः ढत्वजश्त्वे इति भाव । अतृण्ढाम् । अतृहन् । अतृणेट् । अतृण्ढम् । अतृण्ढ । अतृणहम् । अतृह्व । अतृह्म । तृह्यात् । तृह्यात् । अतर्हीत् । अतर्हिष्यत् | हिसिधातोरुदाहरति । हिनस्तीति ॥ इह श्नमि इदित्त्वान्नुमि च कृते ‘ श्नान्न लोप.’ इति नुमो लोप इति भावः । हिस्तः । हिसन्ति । हिनस्सि । हिस्थः । हिस्थ । हिनस्मि । हिस्वः | हिस्म.। जिहिंसेति ॥ किति इदित्त्वान्नलोपो न । जिहिसतु. । जिहिसिथ । हिंसितेति ॥ सेडिति भावः । हिसिष्यति । हिनस्तु । हिस्ताम् । हौ श्नमि नुमि कृते 'श्नान्नलोपः' इति नुमो लोपे हेरपित्त्वेन डित्त्वात् 'श्नसोः' इत्यल्लोपे 'धि च' इति सलोपे, हिन्धि इति रूपम्। हिस्तात् | हिनसानि । अहिनत् । अहिस्ताम् । अहिसन् । सिपि रुर्वा । अहिन –अहिनत् । अहिस्तम् । अहिनसम् । अहिस्व । हिस्यात् । हिस्याताम् । आशीर्लिङि श्नमभावान्नुमेव | इदित्त्वान्नलोपो न | हिस्यादित्येव । हिस्यास्ताम् । अहिसीत् । अहिसिष्यत् । उन्दी क्लेदने | उन्दन्तीति ॥ उनत्सि | उन्थः | उनद्मि | उन्द्व: | उन्दामिति ॥ इजादेश्चेत्याम् | उन्दिता । उन्दिष्यति । उनत्तु-उन्तात् । उन्धि । उनदानि । लड्याह । औनदिति ॥ औन्ताम् । औन्दन् । औनः—औनत् । औनदम् । औन्द्व। उन्द्यात् । उद्यात् । अञ्जूधातुः
२५४६ । अञ्जेः सिचि । (७-२-७१)
अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् । तञ्चू १४६० सङ्कोचने । तङ्क्ता-तञ्चिता । ओ विजी १४६१ भयचलनयोः ।विनक्ति । विङ्क्तः । 'विज इट्' (सू २५३६) इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् । वृजी १४६२ वर्जने । वृणक्ति । वर्जिता । पृची १४६३ सम्पर्के । पृणक्ति । पपर्च |
। इति तिङन्तरुधादिप्रकरणम् ।
नोपधः । कृतपरसवर्णनिर्देश. । ऊदित्त्वाद्वेट्। अनक्तीति ॥ श्नमि कृते परसवर्णस्यासिद्धत्वात् ‘श्नान्न लोप.’ इति नकारलोपे जस्य कुत्वेन ग. तस्य चर्त्वेन क इति भावः | अङ्क्तः इति ॥ नलोपे अल्लोपे जस्य कुत्वेन गः गस्य चर्त्वेन क श्नमो नस्य परसवर्णो ड इति भावः । अञ्जन्तीति ॥ नलोपाल्लोपौ | श्नमो नस्य परसवर्णो ञ इति भाव । अनङ्क्षि । अङ्क्थः । अनञ्ज्मि । अञ्ज्व: । अङ्ग्धीति ॥ हौ श्नमि धिभावे नलोपाल्लोपौ । जस्य कुत्वेन गकारः नस्य परसवर्णो डकार इति भावः । अनजानीति ॥ श्नान्नलोप.। आटः पित्त्वादल्लोपो न । लङयाह । आनगिति ॥ आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् । अञ्जेस्सिचि ॥ ‘इडत्यर्ति’ इत्यत इडित्यनुवर्तते । ऊदित्त्वादेव सिद्धे नित्यार्थमिदम् । तदाह । अञ्जेरित्यादिना ॥ तञ्चू सङ्कोचने । नोपधः कृतपरसवर्णनिर्देश । अञ्जूवद्रूपाणि । यथायोग्यमूह्यानि । ओ विजीति ॥ ओकार इत् । अनिट्सु इरितो ग्रहणादय सेट् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां श्नम्विकरणं समाप्तम् ।
। श्रीरस्तु ।
॥ अथ तिङन्ततनादिप्रकरणम् ।।
अथ सप्त स्वरितेतः । तनु १४६४ विस्तारे । 'तनादिकृञ्भ्य उः' (सू २४६६) । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्-अतानीत् ।
२५४७ । तनादिभ्यस्तथासोः । (२-४-७९)
तनादेः सिचो वा लुक्स्यात्तथासोः । थासा साहचर्यादेकवचनतशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट-अतानिष्ट । 'अनुदात्तोपदश--'
अथ उविकरणधातवो निरूप्यन्ते । तनुधातुरुदित् । 'उदितो वा' इति प्रयोजनम् । तनादिकृञ्भ्य उः ॥ कर्त्रर्थे सार्वधातुके तनादिभ्यः कृञश्च उप्रत्यय स्यात् स्मार्थे इत्यर्थ । शपोऽपवाद । तनोतीति ॥ उप्रत्ययस्य तिपमाश्रित्य गुण: । तसादौ तु डित्त्वान्न गुणः । तनुतः । झोऽन्तादेशे कृते उवडम्बाधित्वा 'हुश्नुवो' इति यण् । तन्वन्ति । तनोषि । तनुथ । तनुथ। तनोमि। 'लोपश्चास्यान्यतरस्याम्' इत्युकारलोपविकल्पमभिप्रेत्याह । तन्वः-तनुवः इति ॥ तड्याह । तनुते इति ॥ तन्वाते । तन्वते । तनुषे । तन्वाथे । तनुध्वे । तन्वे । तनुवहे । तन्वहे । तनुमहे । तन्महे । ततानेति ॥ तेनतु. । तेनिथ । तेन । तेनिव । तड्याह । तेने इति ॥ तेनाते । तेनिरे । तेनिषे । तेनाथे । तेनिध्वे । तेने । तेनिवहे । तेनिमहे । तनिता । तनिष्यति । तनिष्यते । तनोतु-तनुतात् । तनुताम् । तन्वन्तु । ‘उतश्च प्रत्ययात्’ इति हेर्लुक मत्वा आह । तन्विति ॥ तनुतात् । तनुतम् । तनुत । तनवानि । तनवाव । तनवाम ।अतनोत् । अतनुताम् । अतन्वन् । अतनोः । अतनवम् । अतन्व । अतनुव । तनुयात् । तन्वीत । तनिषीष्ट । अतो हलादेरिति वृद्धिविकल्पं मत्वा आह । अतनीत्-अतानीदिति ॥ अतनिष्टाम् । अतनिषुः । अतनीः । अतनिष्टम् । अतनिष्ट । अतनिषम् । अतनिष्व । अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतानिष्यत् । लुड प्रथमैकवचने मध्द्यमपुरुषैकवचने च विशेषमाह । तनादिभ्यस्तथासोः॥ 'गातिस्था' इत्यतस्सिच इति 'ण्यक्षत्रियार्ष' इत्यतो लुडीति
‘विभाषा घ्राधेट्’ इत्यतो वेति चानुवर्तते । तदाह । तनादेरित्यादिना ॥ एकवचनतशब्दो गृह्यते इति ॥ नतु लुडादेशपरस्मैपदमध्द्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति ॥ लुडि मध्द्यमपुरुषबहुवचने सिचि वृद्धिविकल्पे सति अतनिष्ट, अतानिष्टेत्यत्र सिचो नाय लुग्विकल्प इत्यर्थ. । तदेव प्रत्युदाहरणमुक्त्वा सूत्रस्योदाहरणं वक्ष्यन् प्रक्रियां दर्शयति । अनुदात्तोपदेशेत्यनुनासिकलोपः । तङीति ॥ तडि प्रथमैकवचने तशब्दे मध्द्यमपुरुषैकवचने थासि च सिचो लुकि 'अनुदात्तोपदेश' इति नकारस्य लोप इत्यर्थः । तदाह । अतत
(सू २४२८) इत्यनुनासिकलोपः । तङि । अतत-अतनिष्ट । अतथा:—अतनिष्ठाः । षणु १४६५ दाने । सनोति। सनुते । 'ये विभाषा' (सू २३१९) । सायात्-सन्यात् । 'जनसन-' (२५०४) इत्यात्त्वम् । असात-असनिष्ट । असाथाः—असनिष्ठाः । क्षणु १४६६ हिंसायाम् । क्षणोति । क्षणुते । 'ह्म्यन्त-' (सू २२९९) इति न वृद्धिः । अक्षणीत् । अक्षत-अक्षणिष्ट । अक्षथाः-अक्षणिष्ठाः । क्षिणु १४६७ च । उप्रत्ययनिमित्तो लघूपधगुणः । 'संज्ञापूर्वको विधिरनित्यः' (९४) इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति-क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित-अक्षेणिष्ट । ऋणु १४६८ गतौ । ऋणोति-अर्णोति । अर्णुतः । अर्णुवन्ति । आनर्ण । आनृणे । अर्णितासि । आर्णीत् । आर्त-आर्णिष्ट । आर्था:-आर्णिष्ठाः । तृणु १४६९ अदने । तृणोति--तर्णोति । तृणुते-तर्णुते । घृणु १४७० दीप्तौ । जघर्ण । जघृणे ।
अथ द्वावनुदात्तेतौ । वनु १४७१ याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान । मनु १४७२ अवबोधने । मनुते । मेने । डु कृञ् १४७३ करणे । करोति । 'अत उत्सार्वधातुके' (सू २४६७) कुरुतः । यण् 'न भकुर्छुराम्' (सू १६२९) इति न दीर्घः । कुर्वन्ति ।
२५४८ । नित्यं करोतेः । (६-४-१०८)
अतनिष्टेति ॥ अतथाः-अतनिष्ठाः इति च ॥ अतनिषाथामित्यादि सुगमम् । 'षणु दाने'। षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति ॥ सिचो लुक्पक्षे रूपम् । असनिष्टेति ॥ इट् । झलादिपरकत्वाभावादात्त्वन्नेति भावः । क्षणुधातुरदुपधः । “वज्रेऽध्वर्युः क्षण्वीत” इति तैत्तिरीये । क्षिणु चेति ॥ इदुपधः । अयमपि हिसायामित्यर्थः । “वज्रेऽध्वर्युः क्षिण्वीत” इति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह । उप्रत्ययनिमित्तः इति ॥ 'ॠणु गतौ' । अत्रापि क्षणुवत् । मतभेदाल्लघूपधगुणतदभावौ । तदाह । ऋणोति-अर्णोतीति ॥ एवमग्रेऽपि । अर्णुवन्तीति ॥ सयोगपूर्वकत्वात् 'हुश्नुवोः' इति न यणिति भावः । डु कृञ् करणे । करोतीति ॥ उप्रत्ययमाश्रित्य ॠकारस्य गुणः रपरत्वम् । उकारस्य तु तिपमाश्रित्य गुणः । कुरुतः इति ॥ तसो डित्त्वादुकारस्य न गुणः । कुरु अन्ति इति स्थिते उवडमाशङ्क्य आह । यणिति ॥ 'हुश्नुवोः' इत्यनेनेति शेषः | उकारस्य यणि कुर्व् अन्ति इति स्थिते 'हलि च' इति दीर्घमाशङ्क्य आह । नभेति ॥ वसि मसि च ‘लोपश्चास्यान्यतरस्याम्’ इत्युकारलोपविकल्पे प्राप्ते। नित्यं करोतेः ॥ 'उतश्च प्रत्य-
35
करोतेः प्रत्ययोकारस्य नित्यं लोपः स्याद्वमयोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । कर्ता । करिष्यति ।
२५४९ । ये च (६-४-१०९)
कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि क्रियात् । कृषीष्ट । अकार्षीत् । 'तनादिभ्यः -' (सू २५४७) इति लुकोऽभावे 'ह्रस्वादङ्गात्' (सू २३६९) इति सिचो लोपः । अकृत । अकृथाः ।
२५५० । संपरिभ्यां करोतौ भूषणे । (६-१-१३७)
२५५१ । समवाये च । (६-१-१३८)
सम्परिपूर्वस्य करोतेः सुट् स्याद्भूषणे सङ्घाते चार्थे । संस्कररोति | अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । 'संस्कृतं भक्षाः' (सू १२१७) इति ज्ञापकात् । 'परिनिविभ्यः-' (सू २२७५) इति षः । परिष्करोति । 'सिवादीनां वा--' (सू २३५९) । पर्यष्कार्षीत्-पर्यस्कार्षीत् ।
२५५२ । उपात्प्रतियत्नवैकृतवाक्याध्द्याहारेषु च । (६-१-१३९)
उपात्कृञः सुट् स्यादेष्वर्थेषु । चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः । वाक्यस्याध्द्याहारः आकाङ्कितैकदेशपूरणम् ।
यात्' इत्यनुवर्तते । ‘लोपश्चास्यान्यतरस्याम्’ इत्यतः लोपः म्वोरिति च । तदाह। करोतेरिति ॥ चकर्थेति ॥ 'कृस्पृभृवृ' इति नेडिति भाव.। अजन्तत्वेऽपि ॠदन्तत्वात् भारद्वाजमतेऽपि नेट् । करिष्यतीति ॥ करोतु-कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै । करवावहै । करवामहै । अकरोत् । अकुरुताम् । अकुरुत । अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते । ये च ॥ 'लोपश्चास्यान्यतरस्याम्' इत्यतो लोप इति अस्येति चानुवर्तते । अस्येत्यनेन पर्वसूत्रे उत इत्युपात्तः उत्परामृश्यते । ‘नित्यङ्करोतेः’ इत्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्त प्रत्ययो यकारेण विशेष्यते तदादिविधि । तदाह । कृञः उलोपः इति । आशिषि क्रियादिति ॥ 'रिड् शयग्लिड्क्षु' इति रिडिति भाव। कृषीष्टेति ॥ 'उश्च' इति कित्त्वान्न गुण इति भाव । अकार्षीदिति ॥ सिचि वृद्धौ रपरत्वमिति भाव । ननु लुडस्तडि अकृ स् त इति स्थिते 'तनादिभ्यस्तथासो' इति सिचो लुकि अकृतेतीष्ट सिध्द्यति । सिचो लुगभावे तु
सकार श्रूयेतेत्यत आह । तनादिभ्यः इत्यादि ॥ संपरिभ्याम् । समवाये च ॥ सुट् स्यादिति ॥ 'सुट् कात्पूर्व.' इत्यतः 'नित्य करोते' इत्यतश्च तदनुवृत्तेरिति भावः । प्रागुक्तयोरिति ॥ भूषणसमवाययोरित्यर्थ । ननु ‘सपरिभ्याम्’ इति सुट् पदद्वयापेक्षत्वात्
उपस्कृता कन्या । अलङ्कृतेत्यर्थः । उपस्कृताः ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते। गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्द्याहारेण ब्रूते इत्यर्थः ।
२५५३ । सुट्कात्पूर्वः । (६-१-१३५)
'अडभ्यासव्यवायेऽपि' इत्युक्तम् । सञ्चस्कार । 'कात्पूर्वः' इत्यादि भाष्ये प्रत्याख्यातम् । तथा हि 'पूर्वं धातुरुपसर्गेण युज्यते' । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च 'ऋतश्च संयोगादेर्गुणः' (सू २३८९) सञ्चस्करतुः । 'कृसृभृवृ–' (सू २२९३) सूत्रे ‘ॠतो भारद्वाजस्य’ (सू २२९६)
बहिरङ्ग । 'लिटि धातोः' इति द्वित्वन्तु प्रकृतिप्रत्ययमात्रापेक्षत्वादन्तरङ्गम् । ततश्च सञ्चस्कार इत्यत्र परमपि सुट बाधत्वा द्वित्वे कृते अभ्यासात्प्रागेव सुटि प्राप्ते । सुट्कात्पूर्वः ॥ षष्ठस्याद्यपादे इदं सूत्रम् | ‘सम्परिभ्याङ्करोतौ भूषणे’ 'समवाये च' 'उपात्प्रतियत्न' इत्यारभ्य 'अनुदात्त पदमेकवर्जम्' इत्यतः प्रागिदमधिकृत्य वेदितव्यमित्यर्थः । एवञ्च पूर्व इत्युक्तेरभ्यासात् प्राक् न सुडिति भाव । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्। सस्करीतीत्यादौ अव्यवहिते सुड्विधेश्चरितार्थत्वात् । किञ्च समस्करोत् इत्यत्र अटा व्यवधानात् कथ सुट् । नह्यडागम कृञ्भक्त । अङ्गभक्तत्वात् । विकरणान्तस्यैवाङ्गत्वादित्यत आह । अडभ्यासव्यवायेऽपीत्युक्तमिति ॥ वार्तिकमिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि सम्पर्यादिभ्यः परस्मात् कात्पूर्वस्सुडित्यर्थः। इत्यादीति ॥ सुट् इत्येवाधिकृतमस्तु ‘कात्पूर्वः’ इति ‘अडभ्यासव्यवायेऽपि’ इति मास्त्वित्येव भाष्ये प्रत्याख्यातमित्यर्थः । तदेवापपादयितु प्रतिजानीते । तथा हीति ॥ पूर्वं धातुरुपसर्गेण युज्यते इति ॥ पश्चात्साधनेनेति शेषः । ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकङ्कार्य पश्चादनुपतिष्यद्धातुप्रत्ययसम्बन्धनिमित्तकात्कार्यादन्तरङ्गम् । प्रथमोपस्थितत्वात् । तदुक्त भाष्ये । “पूर्व धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्गम्” इति । तदाह । अन्तरङ्गत्वात्सुट् ॥ ततो द्वित्वमिति ॥ तथा सुटि कृते स्कृ इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे ‘शर्पूर्वाः खयः’ इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे सञ्चस्कारेति रूपसिद्धेः ‘कात्पूर्वः’ इति अडभ्यासव्यवायेऽपि, इति च न कर्तव्यमिति भावः | एव समस्करोदित्यत्रापि विकरणान्ताङ्गभक्ताडागमापेक्षया अन्तरङ्गत्वात् प्रथम सुड् भविष्यतीति कृत्वा अड्व्यवायेऽपीत्यशो न कर्तव्य इत्यूह्ययम् । पूर्व धातुरुपसर्गणत्याश्रयणे फलान्तरमप्याह । एवञ्चेति ॥ उत्क्तरीत्या अन्तरङ्गत्वात् सुटि कृते सस्कृ इत्यस्माल्लिटः अतुसि 'ॠतश्च सयोगादेर्गुणः' इति गुणे सञ्चस्करतुरिति सिध्द्यति । “पूर्व धातुस्साधनेन युज्यते” इत्याश्रयणे तु चकरतुरिति परिनिष्ठितस्य समित्युपसर्गसयोगासिध्देरिति भावः । ननु सञ्चस्करिव, सञ्चस्करिम, इत्यत्र च 'कृसृभृवृ' इति ‘ॠतो भारद्वाजस्य’ इति च इण्निषेधः स्यादित्यत आह । कृसृभृवृ सूत्रे इत्यादि ॥ नन्वाशीर्लिङि सस्कियादित्यत्र 'गुणोऽर्तिसंयोगाद्यो' इति गुणः कुतो नेत्यत
इति सूत्रे च 'कृञोऽसुट इति वक्तव्यम्' (वा ४४०१) 'तेन ससुट्कात्परस्येट्' । सञ्चस्करिथ । सञ्चस्करिव । 'गुणोऽर्ति-' (सू २३८०) इति सूत्रे 'नित्यं छंदसि' (सू ३५८७) इति सूत्रात् 'नित्यम्' इत्यनुवर्तते । 'नित्यं यः संयोगादिस्तस्य' इत्यर्थात् सुटि गुणो न । संस्क्रियात् । 'ॠतश्च संयोगादे:' (सू २५२६) इति लिङ्सिचोर्नेट् । 'एकाच उपदेशे-' (सू २२७६) इति सूत्रात् 'उपदेशे' इत्यनुवर्त्य 'उपदेशे यः संयोगादिः' इति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ।
इति तिङन्ततनादिप्रकरणम् ।
आह । गुणोऽर्तीत्यादि ॥ ननु तडि संस्कृषीष्ट, इति लिडि समस्कृत, समस्कृषाताम्, इति लुडि च 'ॠतश्च संयोगादे.' इति इट् कुतो नेत्यत आह । ऋतश्चेत्यादि ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमायां उविकरणनिरूपण समाप्तम् ।
। श्रीरस्तु ।
॥ अथ तिङन्तक्र्यादिप्रकरणम् ।
डु क्रीञ् १४७४ द्रव्यविनिमये ।
२५५४ । क्र्यादिभ्यः श्ना । (३-१-८१)
क्रीणाति । 'ई हल्यघोः' (सू २४९७) । क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च | एवं झस्य अद्भावः | ततः 'श्नाभ्यस्तयोः-' (सू २४८३) इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणते । चिक्राय । चिक्रियतुः । चिक्रयिथ-चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीयात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट । प्रीञ् १४७५ तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते । श्रीञ् १४७६ पाके । मीञ १४७७ हिंसायाम् । 'हिनुमीना' (सू २५३०) । प्रमीणाति । प्रमीणीतः । 'मीनातिमिनोति-' (सू २५०८) इत्येज्विषये आत्त्वम् । ममौ । मिम्यतुः । ममिथ-ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् | अमास्त । षिञ् १४७८ वन्धने । सिनाति । सिनीते । सिषाय । सिष्ये | सेता | स्कुञ् १४७९ आप्रवणे ।
अथ श्नाविकरणधातवो निरूप्यन्ते । डु क्रीञिति ॥ क्र्यादिभ्यः श्ना ॥ कर्त्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात् । स्वार्थे इत्यर्थः । शपोऽपवादः । क्रीणातीति ॥ श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन डित्त्वादीकारस्य न गुण इति भावः । ई हल्यघोरिति ॥ हलादौ क्डिति सार्वधातुके ईत्वमिति भाव । क्री णा झि इति स्थिते 'ई हल्यघो' इति ईत्वमाशङ्क्य
आह । ईत्वात्पूर्वमिति । नित्यत्वादिति ॥ अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भाव । एवं झस्येति ॥ क्री णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्वात्पूर्वमित्यर्थः । ततः इति ॥ अन्तादेशाददादेशाच्च पश्चादित्यर्थः । अजादौ क्डिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः । भारद्वाजनियमात्थलि वेडिति मत्वा आह । चिक्रयिथ-चिक्रेथेति । चिक्रियिंवेति ॥ क्रादिनियमादिडिति भावः । क्रीणातु । क्रीणीहि । अक्रीणात् । अत्रक्रीणीत । क्रीणीयात् ।
२५५५ । स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च । (३-१-८२)
चात् श्ना । स्कुनोति। स्कुनुते । स्कुनाति। स्कुनीते । चुस्काव। चुस्कुवे । स्कोता । अस्कौषीत् । अस्कोष्ट । 'स्तन्भ्वादयश्चत्वारः सौत्राः' । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ । द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति-विष्टभ्नाति । अवष्टभ्नोति--अवष्टभ्नाति । अवतष्टम्भ । 'जॄस्तन्भु -' (सू २२९१) इत्यङ् वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ।
२५५६ । वेः स्कभ्नातेर्नित्यम् । (८-३-७७)
वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति-विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ।
२५५७ । हलः श्नः शानज्झौ । (३-१-८३)
हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे 'स्तभ्नुहि' इत्यादि । युञ् १४८० बन्धने । युनाति । युनीते । योता । क्नूञ् १४८१ शब्दे । क्नूनाति । क्नूनीते । क्नविता । द्रूञ् १४८२ हिंसायाम् । द्रूणाति । द्रूणीते । पूञ् १४८३ पवने ।
२५५८ । प्वादीनां ह्रस्वः । (७-३-८०)
शिति परे । पुनाति । पुनीते । पविता । लूञ् १४८४ छेदने । लुनाति । लुनीते । स्तॄञ् १४८५ आच्छादने । स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता-स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । 'लिङ्सिचो:-'
क्रीणीत । सौत्राः इति ॥ नोपधा इत्यपि ज्ञेयम् । नलोपः इति ॥ ‘अनिदिताम्’ इत्यनेनेति भावः । विष्टभ्नोतीति ॥ ‘स्तन्भे:’ इति षत्वम् । अवष्टभ्नोतीति ॥ 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् ।अवतष्टम्भेति ॥ 'स्थादिष्वभ्यासेन' इति षत्वम् । व्यष्टभदिति ॥ ‘प्राक्सितात्’ इति षत्वम् । स्तभानेति ॥ श्नाप्रत्ययस्य शानजादेशे कृते 'अतो हे' इति लुक् । प्वादीनां हृस्वः ॥ 'ष्ठिवुक्लम्वाचमाम्' इत्यतश्शितीत्यनुवर्तत इत्यभिप्रेत्य शेषम्पूरयति । शिति परे इति । पवितेति ॥ ऊकारान्तत्वात् सेडिति भाव । स्तॄञ् आछादने । सेट् । तस्तरतुरिति ॥ कित्त्वेऽपि 'ॠच्छत्यॄताम्' इति गुणः । स्तरिता-स्तरीतेति ॥ 'वृतो वा' इति दीर्घविकल्पः । आशिषि स्तीर्यादिति ॥ ‘ॠत इद्धातोः’ इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घः । स्तॄ षीष्ट इति स्थिते आह । लिङ्सिचोरिति वेडिति ॥ ‘वॄतो वा’ इति दीर्घविकल्पनिषेधसूत्र
अचचहत् । 'चप' इत्येके । चपयति । रह १६२८ त्यागे इत्येके । अरीरहत् । कथादेस्तु अररहत् । बल १६२९ प्राणने । बलयति । चिञ् | १६३० चयने ।
२५६९ । चिस्फुरोर्णौ । (६-१-५४) ।
आत्त्वं वा स्यात् ।
२५७० । अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ । (७-३-३६) ।
एषां पुक् स्याण्णौ । चपयति-चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयते । प्रणिचयति-प्रनिचयति । नान्ये मितोऽहेतौ (ग सू १९८)। अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं
त्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृध्द्यभावे च मित्त्वाद्ध्रस्वे च न विशेष । तथापि अदन्तात् चडि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे अचचहदिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति ॥ 'चह परिकल्पने' इत्यस्य स्थाने 'चप' इत्येके पठन्तीत्यर्थ.। 'रह त्यागे' इत्येके इत्यपि तथैव व्याख्येयम् । एवञ्च ज्ञपादिषु पञ्चसु चहधातुः चपधातुः रहधातुर्वा अन्यतमस्तृतीय, बलधातुश्चतुर्थ, चिञ्धातुः पञ्चमः, इति कृत्वा ज्ञपादिपञ्चाना मतत्रयेऽपि पञ्चत्वात् ज्ञपादिपञ्चकत्वस्य न विरोध । 'रह त्यागे' इत्यस्यापि कथादिपाठफलमाह । कथादेस्तु अररहदिति ॥ अदन्तत्वेन अग्लेपित्वान्न दीर्घसन्वत्त्वे इति भावः । 'वल प्राणने च' इत्यनुवृत्त्या मित्त्वस्यानुकर्षणाध्द्रस्व मत्वा आह । बलयतीति ॥ चिस्फुरोर्णौ ॥ 'आदेच उपदेशे' इत्यत. आदिति 'विभाषा लीयतेः' इत्यतः विभाषेति चानुवर्तते इति मत्वा शेष पूरयति । आत्त्वं वा स्यादिति ॥ चिञो णिचि आत्त्वे चा इ इति स्थिते । अर्तिह्री ॥ अर्ति ह्री व्ली री क्नूयी क्ष्मायी आत् एषान्द्वन्द्वात् षष्ठी । पुक् णौ इति छेदः । तदाह । एषां पुक् स्याण्णौ इति ॥ पुकि ककार इत्, उकार उच्चारणार्थः कित्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्य मित्त्वस्यानुकर्षणेन मित्त्वाध्द्रस्वे चपि इत्यस्मात्तिबादौ परिनिष्ठितमाह । चपयतीति ॥ आत्त्वाभावपक्षे त्वाह । चययतीति ॥ चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्रस्व इति भाव.। ननु चिञ्धातोरिह ञित्करण व्यर्थम् । ण्यन्तात् णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्यास्य नित्य ण्यन्तत्वेन चयति चयते इति केवलस्याण्यन्तस्य शशशृङ्गायमाणत्वादित्यत आह । ञित्करणसामर्थ्यादिति ॥ एवञ्च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भाव । 'शेषे विभाषाकखादौ' इति णत्वविकल्पमत्वा आह । प्रणिचयति-प्रनिचयति इति ॥ 'नान्ये मितोऽहेतौ' इति चुरादिगणसूत्रम्। अहेताविति च्छेद । 'हेतुमति च' इति सूत्रेण विहितो णिच् हेतुशब्देन विवक्षितः । स न भवतीत्यहेतुः स्वार्थणिच् । तास्मिन्परे इति लभ्यते । किमपेक्षया अन्ये इत्याकांक्षायां इत प्राक्पठितज्ञपादिचिञन्तेभ्य इति लभ्यते । तदाह । अहेतौ स्वार्थे णिचीत्यादिना ॥
मित्त्वं न । घट्ट १६३१ चलने । मुस्त १६३२ सङ्घाते । खट्ट १६३३ संवरणे । षट्ट १६३४ स्फिट्ट १६३५ चुबि १६३६ हिंसायाम् । पुल १६३७ सङ्घाते । 'पूर्ण' इत्येके । 'पुण' इत्यन्ये । पुंस १६३८ अभिवर्धने । टकि १६३९ बन्धने ।टङ्कयति-टङ्कति । धूस १६४० कान्तिकरणे । धूसयति । दन्त्यान्तः । 'मूर्धन्यान्तः' इत्येके । 'तालव्यान्तः' इत्यपरे । कीट १६४१ वर्णे । चूर्ण १६४२ सङ्कोचने । पूज १६४३ पूजायाम् । अर्क १६४४ स्तवने । 'तपने' इत्येके । शुठ १६४५ आलस्ये । शुठि १६४६ शोषणे । शुण्ठयति-शुण्ठति । जुड १६४७ प्रेरणे गज १६४८ मार्ज १६४९ शब्दार्थौ । गाजयति । मार्जयति । मर्च १६५० च । मर्चयति । घृ १६५१ प्रस्रवणे । 'स्रावणे' इत्येके । पचि १६५२ विस्तारवचने । पञ्चयति । 'पञ्चते' इति व्यक्तार्थस्य शपि गतम् । तिज १६५३ निशाने । तेजयति । कॄत १६५४ संशब्दने ।
१५७१ । उपधायाश्च । (७-१-१०१)
धातोरुपधाभूतस्य ॠत इत्स्यात् । रपरत्वम् । 'उपधायां च' (२२६५) इति दीर्घः । कीर्तयति । 'उरृत्' (२५६७) । अचीकृतत्-अचिकीर्तत् । वर्ध १६५५ छेदनपूरणयोः । कुबि १६५६ आच्छादने । कुम्बयति । 'कुभि' इत्येके । लुबि १६५७ तुबि १६५८ अदर्शने । 'अर्दने' इत्येके । ह्लप १६५९ व्यक्तायां वाचि । 'क्लप' इत्येके । चुटि १६६० छेदने । इल १६६१ प्रेरणे । एलयति । ऐलिलत् । म्रक्ष १६६२ म्लेच्छने । म्लेच्छ १६६३ अव्यक्तायां वाचि । ब्रूस १६६४ बर्ह १६६५ हिंसायाम् । केचिदिह गर्ज गर्द शब्दे गर्ध अभिकाङ्क्षायां इति पठन्ति । गुर्द १६६६ पूर्वनिकेतने । जसि १६६७
अहेतावित्यस्य व्याख्यान स्वार्थे णिचीति । तेनेति ॥ ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधो नेत्यर्थः । शमादीनामिति ॥ 'शम आलोचने' । 'अम रोगे' इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थ. । अमन्तत्वेति ॥ 'जनीजॄष्न्कसुरञ्जोऽमन्ताश्च' इत्यमन्तत्वनिमित्तकमित्यर्थः । कॄत संशब्दने । उपधायाश्च ॥ 'ॠत इद्धातोः' इत्यनुवर्तते । तदाह । धातोरित्यादिना ॥ चडि 'उर् ॠत्' इत्युपधाया ॠत्त्वपक्षे आह । अचीकृतदिति ॥ उपधाया ॠत्त्वे कृत् इत्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वे 'दीर्घो लघोः' इति दीर्घ इति भावः । ॠत्त्वाभावपक्षे आह । अचिकीर्तदिति ॥ ॠत इत्त्वे रपरत्वे 'उपधा
रक्षणे । 'मोक्षणे' इति केचित् । जंसयति-जंसति । ईड १६६८ स्तुतौ । जसु १६६९ हिंसायाम् । पिडि १६७० सङ्घाते । रुष १६७१ रोषे । 'रुट' इत्येके । डिप १६७२ क्षेपे । ष्टुप १६७३ समुच्छ्राये ।
आ कुस्मादात्मनेपदिनः । 'कुस्मनाम्नो वा' इति वक्ष्यते । तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् । चित १६७४ सञ्चेतने । चेतयते । अचीचितत । दशि १६७५ दंशने । दंशयते । अददंशत । इदित्त्वाण्णिजभावे दंशति ।आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातार : । नलोपे सञ्जिसाहचर्याभ्द्वादेरेव ग्रहणम् । दसि १६७६ दर्शनदंशनयोः । दंसयते-दंसति । 'दस' इत्यप्येके । डप १६७७ डिप १६७८ सङ्घाते । तत्रि १६७९ कुटुम्बधारणे । तन्त्रयते । चान्द्रा धातुद्वयमिति मत्वा 'कुटुम्बयते' इत्युदाहरन्ति । मत्रि १६८० गुप्तपरिभाषणे । स्पश १६८१ ग्रहणसंश्लेषणयोः । तर्ज १६८२ भर्त्स १६८३ तर्जने । बस्त १६८४ गन्ध १६८५ अर्दने । बस्तयते । गन्धयते । विष्क १६८६ हिंसायाम् । 'हिष्क' इत्येके | निष्क १६८७ परिमाणे । लल १६८८ ईप्सायाम् । कूण १६८९ सङ्कोचे । तूण १६९० पूरणे । भ्रूण १६९१ आशाविशङ्कयोः । शठ १६९२ श्लाघायाम् । यक्ष १६९३ पूजायाम् । स्यम १६९४ वितर्के । गूर १६९५ उद्यमने । शम १६९६ लक्ष १६९७ आलोचने । 'नान्ये मितः-' इति मित्त्वनिषेधः । शामयते । कुत्स १६९८ अवक्षेपणे । त्रुट १६९९ छेदने । 'कुट' इत्येके । गल १७०० स्रवणे । भल १७०१ आभण्डने । कूट १७०२ आप्रदाने । 'अवसादने' इत्येके । कुट्ट १७०३ प्रतापने । वञ्चु १७०४ प्रलम्भने । वृष १७०५ शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यं, शक्ति-
याञ्च' इति दीर्घे कीर्त् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे कुत्वे इति भावः । लघुपरकत्वाभावेन सन्वद्भावविषयत्वाभावान्नाभ्यासदीर्घः । आकुस्मादित्यत्र आडभिविधाविति मत्वा आह | तमभिव्याप्येति ॥ ननु 'णिचश्च' इति सिद्धे आत्मनेपदविधान व्यर्थमित्यत आह । अकर्तृगामीति ॥ ननु 'दशि दशने' णिजभावे दशति इति कथम् । आकुस्मीयत्वेन णिजभावेऽपि तडो दुर्वारत्वादित्यत आह । आकुस्मीयमिति ॥ 'दशसञ्जस्वञ्जा शपि' इति नलोपमाशङ्क्य आह । नलोपे सञ्जीति ॥ स्पश ग्रहणेति ॥ अपस्पशत 'अत्स्मृदॄत्वर' इति अभ्यासस्य अत्त्व इत्त्वापवाद. । गूर उद्यमने । अयन्दीर्घोपधः । गूरयते । तुदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दीर्घादौ तु 'घूरी, गुरी हिसागत्योः' इति दीर्घोपध एवेति
सम्बन्धश्च । वर्षयते । मद १७०६ तृप्तियोगे । मादयते । दिवु १७०७ परिकूजने । गृ १७०८ विज्ञाने । गारयते । विद १७०९ चेतनाख्यानविवासेषु । वेदयते |
सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ।।
मान १७१० स्तम्भे । मानयते । यु १७११ जुगुप्सायाम् । यावयते । कुस्म १७१२ नाम्नो वा (ग सू १९९) 'कुस्म' इति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा 'कुस्म' इति प्रातिपदिकम् । ततो धात्वर्थे णिच् ।इत्याकुस्मीया: ।
चर्च १७१३ अद्ध्ययने । बुक्क १७१४ भाषणे । शब्द १७१५ उपसर्गादाविष्कारे च । चाद्भाषणे । प्रतिशब्दयति ।प्रतिश्रुतमाविष्करोतीत्यर्थः । 'अनुपसर्गाच्च' । 'आविष्कारे' इत्येव । शब्दयति । कण १७१६ निमीलने । काणयति | 'णौ चङ्युपधाया ह्रस्वः' (सू १३२४) । 'काण्यादीनां वा '
केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे विकरणभेद सङ्गृण्हाति । सत्तायां विद्यते इत्यादिश्लोकेन ॥ 'कुस्म नाम्नो वा' गणसूत्रम् । कुस्मेति पृथक्पद अविभक्तिकम् । तदाह । कुस्म इति धातुरिति ॥ कुत्सितस्मयने वर्तते इति शेषपूरण, व्याख्यानादिति भाव. । कुस्मयते इति ॥ आकुस्मीयत्वादकर्तृगेऽपि फले आत्मनेपदम् ।आकुस्मादात्मनेपदिन इत्यत्र आडभिविधावित्याश्रयणादिति भाव । अचुकुस्मतेति ॥ उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाभावान्न सन्वत्त्वमिति भाव । नाम्नो वेत्यश व्याचष्टे । अथवेति ॥ नाम प्रातिपदिक तस्माद्वा णिज्भवतीत्यर्थ । तच्च प्रातिपदिकङ्कुस्मशब्दात्मकमेव गृह्यते प्रत्यासक्तया । तथाच कुस्मेति धातो कुस्मेति प्रातिपदिकाद्वा णिजिति फलितम् । तत्र धातोः णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकात् णिचि विशेषमाह । ततः इति ॥ तस्मात् प्रातिपदिकादित्यर्थ. । धात्वर्थे इति ॥ करोतीत्यर्थे आचष्टे इत्यर्थे वेत्यर्थः । नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकात् णिच् सिद्ध इति वाच्यम् । 'आकुस्मादात्मनेपदिन.' इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः । शब्द उपसर्गादिति ॥ उपसर्गात्पर. शब्दधातु आविष्कारे वर्तते इत्यर्थः । अनुपसर्गाच्चेति ॥ अनुपसर्गात्परोऽपि शब्दधातु णिच लभते इत्यर्थः । आविष्कारे इत्यस्यैवानुवृत्त्यर्थ पृथगुक्ति: । शब्द आविष्कारे चेत्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् । तदाह ।
आविष्कारे इत्येवेति । काण्यादीनामिति ॥ इद वार्तिक 'भ्राजभासभाष' इति सूत्रे भाष्ये
(वा ४६१३) इति विकल्प्यते । अचीकणत्-अचकाणत् । जभि १७१७ नाशने । जम्भयति-जम्भति । षूद १७१८ क्षरणे । सूदयति । असूषुदत् । जसु १७१९ ताडने । जासयति—जसति । पश १७२० बन्धने । पाशयति । अम १७२१ रोगे ।आमयति । 'नान्ये मित:-' इति निषेध । 'अम' गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ 'न कम्यमिचमाम्' इति निषेध: । आमयति । चट १७२२ स्फुट १७२३ भेदने । विकासे शशपोः 'स्फुटति--स्फोटते' इत्युक्तम् । घट १७२४ सङ्घाते । घाटयति । 'हन्त्यर्थाश्च' (ग सू २००) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थ: | दिवु १७२५ मर्दने । उदित्त्वाद्देवतीत्यपि । अर्ज १७२६ प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति । घुषिर् १७२७ विशब्दने । घोषयति । 'घुषिरविशब्दने' । (सू ३०६३) इति सूत्रे 'अविशब्दने' इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्त्वादङ्वा । अघुषत्-अघोषीत् । प्यन्तस्य तु अजू-
पठितम् । 'काणि राणि श्राणि भाणि हेठि लोपय. षट् काण्यादय' इति भाष्यम् । अचीकरणदिति ॥ ह्रस्वत्वपक्षे लघुपरत्वादभ्यासस्य सन्वत्त्वमिति भावः | शशपोरिति ॥ शविकरणे शब्विकरणे चेत्यर्थ । हन्त्यर्थाश्चेति ॥ गणसूत्रमिद । हन हिसागत्योरिति हनधातोहिंसा गमनञ्चार्थः । एतदर्थकाः ये धातव भ्वादिषु नवसु गणेषु पठिता ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् । तदाह । नवगण्यामित्यिदि ॥ 'दिवु सर्दने' । उदित्त्वादिति ॥ उदित्करणम् 'उदितो वा' इति क्त्वायाxxडकल्पार्थम् । द्यूत्वा-देवित्वा । इडभावे ऊठ् । इटि तु ‘नक्त्वा सेट्’ इति कित्त्वनिषेधात् गुण इति स्थिति: । अस्य नित्यण्यxत्वे सति णिचा व्यवहितत्वेन क्त्वायामिड्विकल्पस्य अप्रसक्तेरुदित्करण व्यर्थ सत् ज्ञापयति अस्य दिवुधातो णिज्विकल्प इतीति भावः । 'घुषिर् विशब्दने' । विशब्दन शब्देन स्वाभिप्रायाविष्करण प्रतिज्ञानञ्च । भ्वादौ त्वय धातुरविशब्दनार्थक पठित । घोषयतीति ॥ शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थ । प्रतिजानीते इति वा । लिङ्गादिति ॥ इण्निषेधप्रकरणे 'घुषिर् अविशब्दने' इति सूत्रम् । अविशब्दनार्थकात् घुषधातोर्निष्ठाया इण्नस्यादित्यर्थः । यथा-घुष्टा रज्जु । प्रसारितेत्यर्थः ।अविशब्दने इति किम् । अवघुषित वाक्यम् । प्रतिज्ञातमित्यर्थ । अत्र विशब्दनार्थकत्वान्नेण्निषेधः इति स्थितिः । तत्र विशब्दनार्थकस्य घुषधातोः चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेति इण्निषेधे विशब्दनपर्युदासो व्यर्थस्सन् चौरादिकस्यास्य विशब्दनार्थकस्य घुषेः णिचि विकल्पङ्गमयति । एवञ्च अवघुष्ट वाक्यमित्यत्र चौरादिकघुषेर्विशब्दनार्थकस्य निष्ठायाम् इति इण्निषेधो निर्बाधः इति भाष्ये स्पष्टम् । इरित्त्वादङ् वेति ॥ णिजभावपक्षे इति शेष. । ननु इरित्त्वादेव णिज्विकल्पे सिद्धे 'घुषिरविशब्दने' इति इण्निषेधसूत्रे अविशब्दने
घुषत् । आङः क्रन्द १७२८ सातत्ये । भौवादिकः क्रन्दधातुराह्वानाद्यर्थ उक्तः । स एवाङ्पूर्वो णिचं लभते सातत्ये । आक्रन्दयति । अन्ये तु 'आङ्पूर्वो घुषिः क्रन्दसातत्ये' इत्याहुः । आघोषयति । लस १७२९ शिल्पयोगे । तसि १७३० भूष १७३१ अलङ्करणे । अवतंसयति-अवतंसति । भूषयति । अर्ह १७३२ पूजायाम् । ज्ञा १७३३ नियोगे । आज्ञापयति । भज १७३४ विश्राणने । शृधु १७३५ प्रसहने । 'अशशर्धत्-अशीशृधत्' । यत १७३६ निकारोपस्कारयो: । रक १७३७ लग १७३८ आस्वादने | 'रघ' इत्येके । 'रग' इत्यन्ये । अञ्चु १७३९ विशेषणे । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् । लिगि १७४० चित्रीकरणे । लिङ्गयति-लिङ्गति । मुद १७४१ संसर्गे । मोदयति सक्तून्घृतेन । त्रस १७४२ धारणे । 'ग्रहणे' इत्येके । 'वारणे' इत्यन्ये । उध्रस १७४३ उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । उध्रासयति । मुच १७४४ प्रमोचने, मोदने च । वस १७४५ स्नेहच्छेदापहरणेषु । चर १७४६ संशये । च्यु १७४७ सहने । 'हसने च' इत्येके । च्यावयति । 'च्युस' इत्येके । च्योसयति । भुवोऽवकल्कने १७४८ । अवकल्कनं मिश्रीकरणमित्येके । चिन्तन x त्यन्ये । भावयति । कृपेश्च १७४९ । कल्पयति ।
इति पर्युदासस्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न । अत एव भाष्य रित्त्वाभावविज्ञानात् । एवञ्च 'घुषिरविशब्दने' इत्यत्र घुषिरित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् । इरित्त्वादड्वेति मूलन्तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तान्तावत् । आङः क्रन्द सातत्ये इति ॥ आडः परः क्रन्दधातुः आह्वानसातत्येऽर्थे णिच लभते इत्यर्थः । यद्वा आड इत्यनन्तर घुषिरित्यनुवर्तते । क्रन्दसातत्ये इत्यर्थनिर्देशः । तदाह । अन्ये त्विति ।लसशिल्पयोगे इति ॥ कौशले इत्यर्थः । तसि भूषेति ॥ अत्र तसिः प्रायेण अवपूर्वः । तदाह । अवतंसयतीति । ज्ञा नियोगे इति ॥ आड्पूर्वः । तदाह । आज्ञापयतीति ॥ आदन्तत्वात् पुक् । अजिज्ञपत् । यत् निकारेति ॥ तालव्यान्तस्थादिः । यत्तो वा प्रैषो वा निकार । यातयति । अयीयतत् । अञ्चु विशेषणे इति ॥ व्यावर्तने इत्यर्थः । उदित्त्वमिति ॥ 'उदितो वा' इत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः । ण्यन्तात्तु णिचा व्यवधानात् इड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्य नित्यण्यन्तत्वादण्यन्तत्व असिद्धमित्यत आह । अत एवेति ॥ च्यु सहने इति ॥ च्यावयति । अचुच्यवत् । भुवोऽवकल्कने इति ॥ अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति ॥ अवकल्कनवृत्तेः कृपेः।
'आ स्वदः सकर्मकात्' (ग सू २०१) । स्बदिमभिव्याप्य सम्भवत्कर्मभ्य एव णिच् । ग्रस १७५० ग्रहणे । ग्रासयति फलम् । पुष १७५१ धारणे पोषयत्याभरणम् । दल १७५२ विदारणे । दालयति । पट १७५३ पुट १७५४ लुट १७५५ तुजि १७५६ मिजि १७५७ पिजि १७५८ लुजि १७५९ भजि १७६० लघि १७६१ त्रसि १७६२ पिसि १७६३ कुसि १७६४ दशि १७६५ कुशि १७६६ घट १७६७ घटि १७६८ बृहि १७६९ बर्ह १७७० बल्ह १७७१ गुप १७७२ धूप १७७३ विच्छ १७७४ चीव १७७५ पुथ १७७६ लोकृ १७७७ लोचृ १७७८ णद १७७९ कुप १७८० तर्क १७८१ वृतु १७८२ वृधु १७८३ भाषार्थाः । पाटयति । पोटयति । लोटयति । तुञ्जयति । तुञ्जति । एवं परेषाम् । घाटयति । घण्टयति ।
२५७२ । नाग्लोपिशास्वृदिताम् । (७-४-२)
णिच्यग्लोपिनः शास्तेः ऋदितां चोपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वात् वर्तति । वर्धति । रुट १७८४ लजि १७८५ अजि १७८६ दसि १७८७ भृशि १७८८ रुशि १७८९ शीक १७९० रुसि १७९१ नट १७९२ पुटि १७९३ जि १७९४ चि १७९५ रघि १७९६ लघि १७९७ अहि १७९८ रहि १७९९ महि १८०० च । लडि १८०१ तड १८०२ नल १८०३ च । पूरी १८०४ आप्यायने । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा ।पूरयति-पूरति ।
णिच् स्यादित्यर्थः । कल्पयतीति ॥ 'कृपो रो लः' इति लत्वम् । कृपेश्चेति पाठान्तरम् । आस्वदस्सकर्मकादिति ॥ आडभिविधौ । तदाह । स्वदिमभिव्याप्येति ॥ तत्र 'ष्वद आस्वादने' इत्यस्य अकर्मकत्वादाह । सम्भवत्कर्मभ्यः इति ॥ इत आरभ्य आस्वदीयास्सकर्मकाः । स्वदिस्त्वकर्मकः । पट पुटेति ॥ एकत्रिंशत् धातवः । आद्यास्त्रयष्टान्ताः । आद्यद्वितीयौ पवर्गप्रथमादी । चतुर्थाद्या एकादश इदितः । त्रिसिपिसी इदुपधौ । अदुपधौ इत्येके । षोडशसप्तदशाविदितौ । अलुलोकत्-अलुलोचत्, इत्यत्र उपधाह्रस्वे प्राप्ते । नाग्लोपि ॥ 'णौ चड्युपधायाः' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति । द्वितीयन्तु निषेधे परनिमित्तम्। तदाह । णिच्यग्लोपिनः इत्यादि ॥ ॠदित्त्वान्नाग्लोपीति निषेधेन उपधाह्रस्वाभावे सति लघुपरकत्वाभावान्नाभ्यासदीर्घ इति भावः । उदित्त्वादिति ॥ 'वृतु वृधु' इत्युदित्त्वं 'उदितो वा' इत्यण्यन्तात् क्त्वायामिड्विकल्पार्थम्। ण्यन्तात्तु णिचा व्यवधानात् नेड्विकल्पप्रसक्तिः । अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी आप्यायने । इण्निषे
रुज १८०५ हिंसायाम् । ष्वद १८०६ आस्वादने । 'स्वाद' इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेशत्वात् असिस्वदत् ।
'आ धृषाद्वा' (ग सू २०२) । इत ऊर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य । युज १८०७ पृच १८०८ संयमने ।योजयति-योजति । अयौक्षीत् । पर्चयति-पर्चति । पर्चिता । अपर्चीत् । अर्च १८०९ पूजायाम् । षह १८१० मर्षणे । साहयति 'स एवायं नागः सहति कलभेभ्यः परिभवम्' ईर १८११ क्षेपे । ली १८१२ द्रवीकरणे । लाययति-लयति । लेता ।वृजी १८१३ वर्जने । वर्जयति-वर्जति । वृञ् १८१४ आवरणे । वारयति--वरति--वरते । वरिता-वरीता । जॄ १८१५ वयोहानौ । जारयति-जरति । जरिता-जरीता । ज्रि १८१६ च । ज्राययति-ज्रयति । ज्रेता । रिच १८१७ वियोजन- सम्पर्चनयोः । रेचयति-रेचति । रेक्ता । शिष १८१८ असर्वोपयोगे | शेषयति-शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये । तप १८१९ दाहे । तापयति-तपति । तप्ता । तृप १८२० तृप्तौ । 'सन्दीपने' इत्येके ।
धायेति ॥ अण्यन्तात् क्त्वायामिण्निषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसत्ते । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेश । तदाह । असिष्वददिति ॥ आदेशसकारत्वात्षः । अभ्यासेकारस्य सयोगपरकत्वेन गुरुत्वान्नाभ्यासदीर्घः । दीर्घस्यत्विति ॥ दीर्घमध्यस्य त्वित्यर्थः । अषोपदेशत्वादिति ॥ ह्रस्वमध्द्यस्यैव स्वदेः षोपदेशेषु परिगणनादिति भावः । इत्यास्वदीयाः। आधृषाद्वेति ॥ गणसूत्रम् । विभाषितणिचः इति ॥ विकल्पितणिच्काः प्रत्येतव्या इत्यर्थ. । आडभिव्याप्ताविति मत्वा आह । धृषधातुमभिव्याप्येति ॥ णिजभावपक्षे आह । अयौक्षीदिति । अर्च पूजायामिति ॥ अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते । अस्य भ्वादौ पाठः अनार्षः । अनेनैव सिद्धेः । नच परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम् । भ्वादौ तस्याप्यात्मनेपदीयतायाश्शाकटायनसम्मतत्वेन माधवोक्ते । एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिक एवेत्याहुः । ली द्रवीकरणे । लाययतीति ॥ लीलोरिति नुक् तु न । लासाहचर्यात् हेतुमण्णावेवास्य प्रवृत्तेः । लेतेति ॥ विभाषा लीयतेः इत्यात्त्वन्तु न । तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् आवरणे | वरिता-वरीतेति ॥ 'वॄतो वा' इति दीर्घः । आशीर्लिङि व्रियात् । आत्मनेपदे तु 'लिङ्सिचोः' इति वेट् । वृषीष्ट-वरिषीष्ट । इडभावपक्षे उश्चेति कित्त्वान्न गुणः । ‘न लिडि’ इति इटो न दीर्घः । अवृत । ज्रि चेति ॥ ह्रस्वान्तोऽयम् । रिच वियोजने इति ॥ अनिडयम् । ततश्च णिजभावपक्षे नेट् । तदाह । रेक्तेति । शिष असर्वेति ॥ अयमप्यनिट् । तदाह । शेष्टेति । अशिक्षदिति ॥ शल इगुपधादिति क्सः । अयं विपूर्वो अतिशये इति ॥ वर्तत इति शेषः । अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति ॥ अनिट्सु
तर्पयति-तर्पति । तर्पिता । छृदी १८२१ संदीपने । छर्दयति-छर्दति । छर्दिता । छर्दिष्यति । 'सेऽसिचि-' (सू २५०३) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । 'चृप छृप दृप सन्दीपने' इत्येके । चर्पयति । छर्पयति । दृभी १८२२ भये । दर्भयति । दर्भति । दर्भिता । दृभ १८२३ संदर्भे । अयं तुदादावीदित् । श्रथ १८२४ मोक्षणे । 'हिंसायां' इत्येके । मी १८२५ गतौ । माययति-मयति । मेता । ग्रन्थ १८२६ बन्धने । ग्रन्थयति-ग्रन्थति । शीक १८२७ आमर्षणे । चीक १८२८ च । अर्द १८२९ हिसायाम् । स्वरितेत् । अर्दयति-अर्दति-अर्दते । हिसि १८३० हिंसायाम् ।हिंसयति-हिंसति । 'हिनस्ति' इति श्नमि गतम् । अर्ह १८३१ पूजायाम् । आड: षद १८३२ पद्यर्थे । आसादयति-आसीदति । 'पाघ्रा--' (सू २३३०) इति सीदादेश: । आसत्ता । आसात्सीत् । शुन्ध १८३३ शोचकर्मणि । शुन्धिता ।अशुन्धीत् । अशुन्धिष्टाम् । छद १८३४ अपवारणे । स्वरितेत् । जुष १८३५ परितर्कणे । परितर्कणमूहो हिसा वा । 'परितर्पणे' इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति-जोषति । प्रीतिसेवनयोर्जुषत इति तुदादौ । धूञ् १८३६ कम्पने । णावित्यधिकृत्य 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा ४५१९) । धूनयति-धवति-धवते । केचित्तु 'धूञ्प्रीणोः-' इति पठित्वा प्रीणातिसाहचर्याध्दुनोतेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च, स्वादौ ह्रस्वश्च । तथा च कविरहस्ये-- 'धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् । वायुर्विधूनयति चम्पकपुष्षरेणून्यत्कानने धवति चन्दनमञ्जरीश्च । प्रीञ् १८३७ तर्पणे । प्रीणयति । 'धूञ्प्रीणोः-' इति हरदत्तोक्तपाठे तु प्राययति-प्रयति-प्रयते । श्रन्थ १८३८ ग्रन्थ १८३९ सन्दर्भे। आप्लृ १८४० लम्भने । आपयति-आपति । आपत् । आप्ता । स्वरितेदयमित्येके । आपते । तनु १८४१ श्रद्धोपकरणयोः 'उपसर्गाच्च दैर्घ्ये' । तानयति-वितानयति-तनति--
श्यना निर्देशादयं सेट् । तदाह । तर्पितेति । छृदी सन्दीपने इति ॥ ईदित्वन्निष्ठायामिण्निषेधार्थम् । धुवति स्फुटितेति ॥ शविकरणस्य रूपम् । शस्य ङित्वाद्गुणाभावे उवड् । प्रीञ् तर्पणे । प्रीणयतीति ॥ 'धूञ्प्रीञोः' इति वार्तिकान्नुगिति भाव. । हरदत्तेति ॥ अनेन भाष्यासम्मतत्वं सूचितम् । उपसर्गाच्चेति ॥ दैर्घ्ये तु उपसर्गादनुपसर्गाच्च परस्तनु
वितनति । 'चन श्रद्धोपहननयोः' इत्येके । चानयति-चनति । वद १८४२ सन्देशवचने । वादयति । स्वरितेत् । वदति-वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् । वच १८४३ परिभाषणे । वाचयति-वचति । वक्ता । अवाक्षीत् । मान १८४४ पूजायाम् । मानयति-मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे तु 'मानयते' (इत्याकुस्मीया:) 'मन्यते' इति दिवादौ । 'मनुते' इति तनादौ च । भू १८४५ प्राप्तावात्मनेपदी । भावयते—भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति । गर्ह १८४६ विनिन्दने । मार्ग १८४७ अन्वेषणे । कठि १८४८ शोके ।उत्पूर्वोऽयमुत्कण्ठायाम् । 'कण्ठते इत्यात्मनेपदी गतः । मृजू १८४९ शौचालङ्कारयोः । मार्जयति-मार्जति । मार्जिता-मार्ष्टा । मृष १८५० तितिक्षायाम् । स्वरितेत् । मर्षयति-मर्षति-मर्षते । मृष्यति—मृष्यते इति दिवादौ । सेचने शपि मर्षति । धृष १८५१ प्रसहने । धर्षयति-धर्षति । इत्याधृषीयाः ।
अथादन्तः । कथ १८५२ वाक्यप्रबन्धे । अल्लोपस्य स्थानिवद्भावान्न वृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् । वर १८५३ ईप्सायाम् । वरयति । वारयतीति गतम् । गण १८५४ सङ्खयाने । गणयति ।
धातुराधृषीयो वेदितव्य इत्यर्थ । श्रद्धोपकरणयोस्त्वनुपसर्गादेवेति भावः । 'वच परिभाषणे' । अवाक्षीदिति ॥ अस्यतिवक्तीति लुका निर्देशादड् नेति भावः । वचिस्वपीति सम्प्रसारणम् । उच्यात् । इत्याधृषीयाः । अथादन्ता इति ॥ वक्ष्यन्ते इति शेषः । अन्ते अकारो नेत्संज्ञकः नाप्युच्चारणार्थ इति भावः । तत्र कथधातोर्णिचि अतो लोपे कथि इत्यस्मात् तिपि शपि गुणे अयादेशे कथयतीति रूप वक्ष्यति । तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह । अल्लोपस्य स्थानिवद्भावादिति ॥ अचः परस्मिन्नित्यनेनेति भावः । अत्रेदमवधेयम् । स्थानिनि सति शास्त्रीय यत्कार्य तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते । यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्य भावस्य अशास्त्रीयत्वान्नातिदेशः । अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः । ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् । 'अचः परस्मिन् ' इत्यत्र तु स्थानिनि सति यत् शास्त्रीयङ्कार्यं प्रसज्यते तस्य तदभावस्य चाशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । अतोऽत्र धकारादकारे सति प्रसक्तस्य उपधावृध्द्यभावस्य अशास्त्रीयत्वेऽप्यतिदेश इति सिद्धम् । लुङि चङि अचकथत् इत्यत्र सन्वत्त्वमाशङ्क्याह । अग्लोपित्वादिति ॥ सन्वत्त्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वन्नापेक्षत इति पृथगुक्तिः । एवङ्कथादौ सर्वत्र ज्ञेयम् । गण सङ्ख्याने । चङि अल्लोपस्य स्थानि
२५७३ । ई च गणः । (७-४-९७)
गणेरभ्यासस्य ईत्स्याच्चङ्परे णौ । चादत् । अजगणत्--अजीगणत् । शठ १८५५ श्वठ १८५६ सम्यगवभाषणे । पट १८५७ वट १८५८ ग्रन्थे । रह १८५९ त्यागे । अररहत् । स्तन १८६० गदी १८६१ देवशब्दे । स्तनयति । गदयति ।अजगदत् । पत १८६२ गतौ वा । वा णिजन्तः । वा अदन्त इत्येके । आद्ये पतयति-पतति । पताञ्चकार । अपतीत् ।द्वितीये पातयति । अपीपतत् । पष १८६३ अनुपसर्गात् । गतावित्येव । पषयति । स्वर १८६४ आक्षेपे । स्वरयति । रच १८६५ प्रतियत्ने । रचयति । कल १८६६ गतौ संख्याने च । चह १८६७ परिकल्कने । परिकल्कनं दम्भः शाठ्यं च । मह १८६८ पूजायाम् । महयति । महति इति शपि गतम् । सार १८६९ कृप १८७० श्रथ १८७१ दौर्बल्ये । सारयति । कृपयति । श्रथयति । स्पृह १८७२ ईप्सायाम् । भाम १८७३ क्रोधे । अबभामत् । सूच १८७४ पैशुन्ये । सूचयति । अषोपदेशत्वान्न षः । असूसुचत् । खेट १८७५ भक्षणे । तृतीयान्त इत्येके । 'खोट' इत्यन्ये । क्षोट १८७६ क्षेपे । गोम १८७७ उपलेपने । अजुगो मत् । कुमार १८७८ क्रीडायाम् । अचुकुमारत् । शील १८७९ उपधारणे ।
वत्त्वात् दीर्घसन्वद्भावयोरभावे अजगणदित्येव प्राप्ते आह । ई च गणः ॥ 'सन्वल्लघुनि' इत्यतश्चड्परे इति, अत्र लोप इत्यतः अभ्यासस्येति, चानुवर्तते । तदाह । गणेरभ्यासस्येति ॥ 'अत्स्मृदॄत्वर' इति पूर्वसूत्रादद्ग्रहणञ्चकारादनुकृष्यते । तदाह । चाददिति । स्तनगदीदेवशब्दे इति ॥ पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तात् इकि अल्लोपे गदीति निर्देश । एवञ्च प्राकरणिकमदन्तत्वन्नव्याहन्यते । पत गतौ वेति ॥ गतावर्थे पतधातुः णिच वा लभत इत्यर्थः । तदाह । वा णिजन्त इति ॥ आधृषीयत्वाभावात् विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवान्वय.। णिच् तु नित्य एव । तदाह । वा अदन्त इत्येके इति ॥ प्रथमपक्षे तु अदन्तत्वमेव । तदाह । आद्ये पतयतीति ॥ अल्लोपस्य रथानिवत्त्वान्न वृद्धिः । पताञ्चकारेति ॥ णिजभावेऽप्यदन्तत्वात् कास्यनेकाच् इत्यामिति भावः । चडि अपपतत् ।अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति ॥ तकारादकारस्य उच्चारणार्थत्वादुपधावृद्धिरिति भावः । अपीपतदिति ॥ अग्लोपित्वाभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति ॥ अजन्तत्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति । 'स्पृह ईप्सायाम् ।' आप्तुमिच्छा ईप्सा । अबभामदिति ॥ चडि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः | सूच पैशुन्ये । अषोपदेशत्वादिति ॥ अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति ॥ टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः अकटुभाषणम् ।
उपधारणमभ्यासः । साम १८८० सान्त्वप्रयोगे । अससामत् । 'साम सान्त्वने' इत्यतीतस्य तु असीषमत् । वेल १८८१ कालोपदेशे । वेलयति । 'काल' इति पृथग्धातुरित्येके । कालयति । पल्पूल १८८२ लवनपवनयोः । वात १८८३ सुखसेवनयोः । 'गतिसुखसेवनेषु' इत्येके । वातयति । अववातत् । गवेष १८८४ मार्गणे । अजगवेषत् । वास १८८५ उपसेवायाम् । निवास १८८६ 'आच्छादने' । अनिनिवासत् । भाज १८८७ पृथक्कर्मणि । सभाज १८८८ प्रीतिदर्शनयो: । 'प्रीतिसेवनयोः' इत्यन्ये । सभाजयति । ऊन १८८९ परिहाणे । ऊनयति । 'ओः पुयण्जि–' (सू २५७७) इति सूत्रे 'पययोः' इति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं 'णिचि अच आदेशो न
अससामदिति ॥ अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्व । ननु साम सान्त्वने इति कथादे. प्राक् चुरादौ पाठो व्यर्थः अनेनैव सिद्धे इत्यत आह । साम सान्त्वने इत्यतीतस्य तु असीषमदिति ॥ पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया च उपधाह्रस्व. दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपि साम सान्त्वप्रयोगे इत्येव प्राक् चुरादौ पठितम् । तथापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणे । मार्गण अन्वेषणम् । चडि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्व । तदाह । अजगवेषदिति ॥ 'निवास आच्छादने' । अनिनिवासत् । 'ऊन परिहाणे' परिहाणन्न्यूनीभावः । ऊनयतीति ॥ णावतो लोप इति भाव. । ननु लुडि चडि ऊन इ अत् इ इति स्थिते णिलोपे ‘चडि’ इत्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूप वक्ष्यति । तदनुपपन्नम् । द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्त्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्य द्विर्वचनेऽचीति निषेधः शङ्क्यः । अल्लोपनिमित्तस्य णिचो द्वित्वनिमित्तत्वाभावात् इत्यत आह । ओः पुयण्जीत्यादि ॥ ओ:पुयण्ज्यपरे इति सूत्रे ओः पययोरपरयोरित्येव वक्तव्ये
पु इति पवर्गस्य यणिति प्रत्याहारस्य जकारस्य च ग्रहण लिङ्गमित्यन्वय । कुत्र लिङ्गमित्यत आह । णिचीत्यादि ॥ द्वित्वे कार्ये णिज्निमित्तकः अच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वय: । तथाहि । ओ पुयण् ज्वपर इति सूत्रम् । सनि परे यदङ्गन्तदवयवाभ्यासोवर्णस्य इकारस्स्यात् अवर्णपरकेषु पवर्गयण्जकारेषु परत इति तदर्थः । पूड् पिपावयिषति । भू बिभावयिषति । यु यियावयिषति । रुरिरावयिषति । लूञ् लिलावयिषति। जु जिजावयिषति । इत्युदाहरणानि । अत्र द्वित्वम्प्रत्यनिमित्ते णिचि 'द्विर्वचनेऽचि' इति निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद्वृध्द्यावादेशयोः कृतयोः अभ्यासेष्वाकारस्य ह्रस्वे सति ‘सन्यत:’ इत्येव इत्त्वसिद्धेः पवर्गयण् प्रत्याहारजकारग्रहणं व्यर्थम् । ओः पययोरपरयोः इत्येव सूत्रमस्तु ।पकारयकारग्रहणन्तु न व्यर्थम् । पिपावयिषति यियावयिषतीत्यत्र उत्क्तरीत्या ‘सन्यत:’ इति इत्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूड्धातोर्युधातोश्च अण्यन्तात् 'सनि अभ्यासे' इत्त्वार्थ तदावश्यकत्वात् । तत्र हि
स्याद्द्वित्वे कार्ये इति । 'यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्येऽच्प्रक्रियायां परिनिष्ठिते रुपे वावर्णो लभ्यते, तत्रैवायं निषेधः' । ज्ञापकस्य सजातीयापेक्षत्वात् तेन 'अचिकीर्तत् इति सिद्धम् । प्रकृते तु 'न' शब्दस्य द्वित्वम् । तत उत्तर-
इको झलिति सनः कित्त्वात् श्र्युक कितीति प्राप्तमिण्निषेधम्बाधित्वा 'म्मिपूड्रञ्जज्वशा सनि' इति सनीवन्तर्द्धभ्रस्जदम्भुश्रिस्वयूर्णुभरज्ञपिसनामिति च सूत्राभ्यामिटि कृते इडादेस्सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततया 'द्विर्वचनेऽचि' इति गुणावादेशयोर्निषेधे सति पू यु इत्यनयोर्द्वित्वे अभ्यासे अकाराभावेन 'सन्यत.' इत्यस्याप्रवृत्त्या तत्र इत्त्वार्थ पययोरित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणन्तु द्वित्वे कार्ये णावच आदेशो नेत्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुप्ते सति ‘चडि’ इति द्वित्वे कार्ये प्रत्ययलक्षणमाश्रित्य णिचि गुणावादेशयो प्रतिषेधे सति उवर्णान्तानान्द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतः द्वित्वे कार्ये णावच आदेशो नेति विज्ञायते इत्यर्थ । ननु 'कॄत सशब्दने' अस्मात् णौ 'उपधायाश्च' इति ॠत इत्त्वे रपरत्वे किरत् इत्यस्मात् लुडि चडि णिलोपे द्वित्वे अभ्यासे उरदत्त्वे हलादिशेषे कस्य चुत्वे उत्तरखण्डे इकारस्य 'उपधायाश्च' इति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कॄत् इत्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे ॠत इत्त्वे रपरत्वे, उपधादीर्घे, अचिकीर्तदित्यापत्तेरित्यत आह । यत्र द्विरुक्तावित्यादि ॥ यत्र धातौ चडि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्यय निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याचोऽभावादाद्योऽजिति व्यर्थमेव । तथापि स्पष्टार्थन्तदित्याहु.। नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र कि वर्णः द्वित्वप्रवृत्तिवलायां विवक्षितः उत परिनिष्ठिते रूपे विवक्षितः । नाद्यः । क्षुधातोर्ण्यन्तात् सनि चुक्षावयिषतीत्यत्र क्षु इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाभावेन वृध्द्यावादेशयोर्निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद्वृध्द्यावादेशयोः क्षाव् इत्यस्य द्वित्वे चिक्षावयिषतीत्यापत्ते .। न द्वितीयः । ऊन इ अ त् इति स्थिते सति न इत्यस्य द्वित्त्वे अभ्यासोत्तरखण्डे अल्लोपे सत्यवर्णाभावेन णौ अल्लोपस्य निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वादतो लोपे सति नि इत्यस्य द्वित्वे औनिनदित्यापत्तेरित्यत आह । प्रक्रियायां परिनिष्ठिते रूपे वेति ॥ न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जा अभ्यासोत्तरखण्डे अवर्णपरत्वनियमादिति भाव । सिद्धमिति ॥ प्रक्रियाया परिनिष्ठिते वा उत्तरखण्डे अवर्णाभावादॄत इत्त्वस्य न निषेध इति भावः । एव च चुक्षावयिषति इत्यत्र क्षु इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डे अवर्णाभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वात् णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाल्लोपस्य निषेध इत्याह । प्रकृते त्विति ॥ औननदित्यत्रेत्यर्थः । नशब्दस्येति ॥ अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डे अवर्णालाभादल्लोपस्य निषेधे सति नशब्दस्यैव
खण्डेऽल्लोपः । औननत् । मा भवानूननत् । ध्वन १८९० शब्दे । अदध्वनत् । कूट १८९१ परितापे । 'परिदाहे' इत्यन्ये । सङ्केत १८९२ ग्राम १८९३ कुण १८९४ गुण १८९५ चामन्त्रणे । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् । केत १८९६ श्रावणे निमन्त्रणे च । केतयति । निकेतयति । 'कुण गुण चामन्त्रणे' । चकारात्केतने । कूण १८९७ सङ्कोचनेऽपि । स्तेन १८९८ चौर्ये । अतिस्तेनत् ।
आ गर्वादात्मनेपदिनः । पद १८९९ गतौ । पदयते । अपपदत । गृह १९०० ग्रहणे । गृहयते । मृग १९०१ अन्वेषणे । मृगयते । 'मृग्यति' इति कण्ड्वादिः । कुह १९०२ विस्मापने । शूर १९०३ वीर १९०४ विक्रान्तौ । स्थूल १९०५ परिबृंहणे । स्थूलयते । अतुस्थूलत । अर्थ १९०६ उपयाच्ञायाम् । अर्थयते । आर्तथत । सत्र १९०७ सन्तानक्रियायाम् । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते । गर्व १९०८ माने । गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । 'धातोरन्त उदात्तः' लिटि 'आम्' च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ।
द्वित्वं न तु निशब्दस्येति भावः । ततः इति ॥ नशब्दस्य द्वित्वानन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्थमेव ऊनधातोरदन्तत्व स्थितम् । फलान्तर सूचयन्नाह । मा भवान् ऊननदिति ॥ अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति ॥ केत श्रावणे इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति समुच्चीयते इति शेषः । सङ्कोचनेऽपीति ॥ इतिशब्दः पाठान्तरसमाप्तौ 'स्तेन चौर्ये' अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह । अतिस्तेनदिति ॥ गृह ग्रहणे । ॠदुपधोऽयम् । गृहयते इति ॥ अल्लोपस्य स्थानिवत्वान्न गुण इति भावः । लुडि अजगृहत । अग्लोपित्वान्न सन्वत्त्वम् । मृग अन्वेषणे । मृगयते इति ॥ इहाप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग अन्वेषणे' इत्याधृषीयस्य तु मार्गयति-मार्गति इति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति ॥ अर्थ इ इति स्थिते अतो लोपः । न तु 'अचो ञ्णिति' इति वृद्धिः । वृद्धेर्लोपो बलीयानिति न्यायात् । अर्थवेदयोरित्यापुक्तु न । तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः । अदन्तत्वे फलाभावात् । नच सन्वत्त्वानिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यम् । लघुपरकत्वाभावादेव तदप्रसक्ते । नाप्यल्लोपस्य स्थानिवद्भावात् उपधावृद्धिनिवृत्त्यर्थमदन्तत्वामिति शङ्क्यम् । गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह । अदन्तत्वसामर्थ्याण्णिज्विकल्पः इति ॥ ननु गर्वते इत्यत्र णिजभावेऽप्यदन्तत्व निष्फलमिति कथन्तस्य विकल्पज्ञापकतेत्यत आह । धातोरन्त उदात्तः इति ॥ तेन गर्वते इत्यत्र वकारादकार उदात्तः फलति । अदन्तत्वाभावे तु गकारादकार उदात्तः
सूत्र १९०९ वेष्टने । सूत्रयति । असुसूत्रत् । मूत्र १९१० प्रस्रवणे । मूत्रयति-मूत्रति । रूक्ष १९११ पारुष्ये । पार १९१२ तीर १९१३ कर्मसमाप्तौ । अपपारत् । अतितीरत् । पुट १९१४ संसर्गे । पुटयति । धेक १९१५ दर्शने इत्येके । अदिधेकत् । कत्र १९१६ शैथिल्ये । कत्रयति--कत्रति । 'कर्त' इत्यप्येके । कर्तयति-कर्तति । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च'(ग सू २०३) प्रातिपदिकाद्धात्वर्थे णिच्स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुव्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृध्दौ सत्यां टिलोपः । अपीपटत् । 'णौ चङि–' (सू २३१४) इत्यत्र भाष्ये तु 'वृद्धेर्लोपो बलीयान्' इति स्थितम् ।
स्यादिति भावः । लिट्याम् चेति ॥ गर्वाञ्चक्रे इत्यत्र 'कास्यनेकाच' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थ.। अन्यथा अनेकाच्त्वाभावादाम् न स्यादिति भाव । एवमत्रेऽपीति ॥ 'मूत्र प्रस्रवणे' इत्यादावित्यर्थः । इत्यागर्वीया । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्प.। 'कत्र शैथिल्ये' । कर्त इत्यपीति ॥ अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वा आह । कर्तयति । कर्ततीति ॥ 'प्रातिपदिकाद्धात्वर्थे बहुळमिष्ठवच्च' चुरादिगणसूत्रमिदम् । इष्ठवदिति ॥ सप्तम्यन्ताद्वति । तेन भुवमाचष्टे भावयतीत्यत्र 'इष्टस्य यिट् च' इति यिडागमो न भवति। तदाह । इष्ठे यथेति ॥ अत्र धात्वर्थे इत्यनेन करणम् । आख्यान दर्शन वचन श्रवण इत्यादि गृह्यते ।पुंवद्भावेति ॥ अतिशयेन पट्वी पटिष्ठेत्यत्र भस्याढे इति पुवत्त्वम् । द्रढिष्ठ इत्यत्र 'र ॠतो हलादेर्लघोः' इति रभावः । अतिशयेन साधुस्साधिष्ठ इत्यत्र टिलोप । अतिशयेन स्रग्वी स्रजिष्ठः इत्यत्र 'विन्मतोर्लुक्' इति विनो लुक् । अतिशयेन गोमान् गविष्ठ. इत्यत्र मतुपो लुक् । अतिशयेन स्थूलः स्थविष्ठ इत्यादौ 'स्थूलदूरयुव' इत्यादिना यणादिलोप. पूर्वस्य च गुण.। अतिशयेन प्रिय प्रेष्ठ. इत्यादौ प्रियस्थिरेत्यादिना प्रस्थाद्यादेश । अतिशयेन स्रग्वी स्रजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठ इव णावपि परतः स्युरित्यर्थ. । पटयतीति ॥ पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वात् टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात् सन्वत्त्वन्न स्यादित्यत आह । परत्वाद्वृद्धौ सत्यां टिलोपः इति ॥ 'अचो ञ्णिति' इति उकारस्य वृद्धौ कृताया औकारस्य टेर्लोप. । अकृतायान्तु वृद्धौ उकारस्य टेर्लोप । ततश्च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्य' इति न्यायेन टिलोप. अनित्य । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साप्यनित्या । एवञ्च वृद्धिटिलोपयोरुभयोर्मध्द्ये परत्वात् उकारस्य वृद्धि औकार. तस्यावादेशात्प्रागेव परत्वात् वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोप इत्यर्थ. । एवञ्च अनग्लोपित्वात् सन्वत्त्वमिति मत्वा आह । अपीपटदिति ॥ एतच्च 'मुण्डमिश्र' इति सूत्रे भाष्यकैयटयो. स्पष्टम् । स्थितमिति ॥ तथाच वृद्धेः प्रागुकारस्य लोपे अग्लोपित्वान्न सन्वत्त्वमित्यर्थ.। भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु 'वृद्धेः लोपो बलीयान्' इति 'णौ चडि' इति सूत्रभाष्यमेव प्रमाणम् । 'मुण्डमिश्र'
39
अपपटत् । 'तत्करोति तदाचष्टे' (ग सू २०४)। पूर्वस्यैव प्रपञ्चः । करोत्याचष्टे इति धात्वर्थमात्रं णिजर्थः ।लडर्थस्त्वविवक्षितः । 'तेनातिक्रामति' (ग सू २०५) । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति । 'धातुरूपं च' (ग सू २०६) । णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते । चशब्दोऽनुक्तसमुच्चयार्थः । 'तथा च वार्तिकम्--आख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' (वा १७६६) इति । कंसवधमाचष्टे कंसं घातयति । इह 'कंसं हन्' इ इति स्थिते ।
इति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुवद्भावादिकमुदाह्रियते । एनीमाचष्टे एतयति । पुवद्भावात् डीब्नकारयोर्निवृत्ति । दृढमाचष्टे द्रढयति 'र ॠत ' इति रभाव: । स्रग्विणमाचष्टे स्रजयति । विन्मतोरिति विनो लुक् ।गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । प्रियमाचष्टे प्राययति । स्थिरमाचष्टे स्थापयति, इत्यादिषु यणादिलोपप्रस्थस्फाद्यादेशा. । अत्र वृद्धिर्भवत्येव । द्वयोरिति निर्देशेन अङ्गवृत्तपरिभाषाया अनित्यत्वाश्रयणात् । स्रग्विणमाचष्टे स्रजयति । सुबन्तात् विहितस्य विनो लुकि अन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तङ्कुत्व भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थ: ।आचारव्किबिव प्रातिपादिकादेवेदम् । ननु 'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे किमर्थमिदमित्यत आह । पूर्वस्यैव प्रपञ्च इति ॥ ननु करोति आचष्टे इति वर्तमाननिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह । करोत्याचष्टे इत्यादि ॥ लडर्थ इत्युपलक्षण भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् । 'प्रातिपदिकाद्धात्वर्थे' इत्यस्यैव प्रपञ्चः । वाचा अतिक्रामति वाचयति इत्यत्र कुत्वन्तु न शङ्क्यम् । असुबन्तादेव प्रातिपदिकात् प्रत्ययोत्पत्तेः । धातुरूपञ्चेति ॥ इदमपि गणसूत्रम् । णिच्प्रकृतिरिति प्रतिपद्यते इति चाध्द्याहृत्य व्याचष्टे । णिच्प्रकृतिर्धातुरूपम्प्रतिपद्यते इति ॥ ननु प्रातिपादकात् धात्वर्थे णिच् भवति णिच्प्रकृतिर्धातुरूपञ्च प्रतिपद्यते इति प्रतीयमानार्थाश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजधातुरादेशः स्यादित्यत आह । चशब्दोऽनुक्तसमुच्चयार्थः इति ॥ किमनुक्त समुच्चीयते इत्यत आह । तथाच वार्तिकमिति ॥ आख्यानात् कृत इति ॥ 'हेतुमति च' इति सूत्रे इदं वार्तिकं स्थितम् । आख्यान वृत्तकथाप्रबन्धः । तद्वाचिन. कृदन्तात् कसवधादिशब्दान् तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक् तस्यैव कृत. या प्रकृति हनादिधातुरूपा तस्या. प्रत्यापत्ति आदेशादिविकारपरित्यागेन स्वरूपेणावस्थानम्भवतीत्यर्थः । प्रकृतिवच्च कारकम् इत्यशस्तु मूल एव व्याख्यास्यते । कसवधमाचष्टे कस घातयतीत्युदाहरणम् । हनन वध 'हनश्च वधः' इति भावे हनधातो. अप्प्रत्ययः प्रकृतेः वधादेशश्च । कंसस्य वधः कंसवधः तदन्वाख्यानपरवाक्यसन्दर्भो विवक्षित. । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुकप्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथाच फलितं दर्शयति । इह कंसं हन् इ इति स्थिते इति ॥
२५७४ । हनस्तोऽचिण्णलोः । (७-३-३२)
हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता | ततश्चाड्द्वित्वयोर्दोषः । किञ्च कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् 'प्रकृतिवच्च' इति चकारो भिन्नक्रम: । कारकं च । चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च
हनस्तोऽचिण्णलोः ॥ हन इति षष्ठी । त इत्यत्र अकार उच्चारणार्थ । तदाह । हन्तेस्तकार इति ॥ अन्तादेश इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ॥ 'अचो ञ्णिति' इत्यतस्तदनुवृत्तेरिति भावः । तथाच हनो नकारस्य तत्वे 'हो हन्ते' इति कुत्वेन हस्य घकारे घातीति ण्यन्त फलितम् । ततो लटि घातयति इति रूप स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृतौ कxमिति च स्थितम् । 'आख्यानात् कृत’ इति वार्तिकस्थ प्रकृतिवच्च कारकमित्यश शxत्तरत्वेन योजयिष्यन् शङ्कामवतारयति । नन्विति । कंसविशिष्टस्येति ॥ कंसवधशब्दस्यैवेत्यर्थ ।तस्मादेव णिचो बिधानादिति भाव. । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह । ततश्चेति ॥ कंसवधशब्दस्याङ्गत्वात् अड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् । कंस इत्यस्य द्विर्वचन स्यात् । इष्यते तु कंसमजीघतत् इत्येव हनधातोरेवोभयमित्यर्थः । किञ्चेति ॥ कंसङ्घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह । धातोरिति ॥ धातोर्हन् इत्यादि तत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वार्त्रघ्नमित्यत्र 'हनस्तोऽचिण्णलोः' इति तत्वन्न भवतीति 'हनस्तोऽचिण्णलोः' इति सूत्रे भाष्ये स्पष्टम् । तथाच प्रकृते कंसं घातयतीत्यत्र 'हो हन्ते' इति कुत्वं 'हनस्तोऽचिण्णलो' इति तत्वञ्च न स्याताम् । अत्र णिच प्रातिपदिकाद्विहितत्वेन धातेर्विहितत्वाभावादित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपो बोध्यः | तत्परिहारस्यापि वक्ष्यमाणत्वात् । तामिमा शङ्कामर्धङ्गीकारेण परिहरति । सत्यमिति ॥ कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते दोषापादनन्तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति ॥ 'आख्यानात् कृत' इति वार्तिके प्रकृतिवच्चेति चकार भिन्नक्रमः । प्रकृतिवदित्यनन्तरपठित चकारः कारकमित्यस्मादूर्ध्व निवेशनीय इति भावः । तदेवाभिनीय दर्शयति । कारकञ्चेति ॥ चकारोऽयमनुक्तसङ्गहार्थ इत्याह । चात्कार्यमिति ॥ समुच्चीयते इति शष .। तथाच कारकङ्कार्यञ्च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देत हेतुमण्णिच. प्रकृतिर्विवक्षिता । व्याख्यानात् ।प्रकृताविव प्रकृतिवत् सप्तम्यन्ताद्वति. । तदाह । प्रकृतेर्हन्यादेर्हेतुमण्णाविति ॥ प्रयुज्यमाने सतीति शषः |कारकमित्यस्य विवरणन्द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः तं प्रेरयतीत्यर्थे कंसङ्घातयति । कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यत् द्वितीयादिकारकविभक्तयन्त यच्च कार्यङ्कुत्वतत्वाड्द्वित्वादि
तत्सर्व आख्यानात् कृत इत्यस्योदाहरणे कंसवधमाचष्टे कंसङ्घातयति कंसवधमाचष्ट कंसमजी
कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । 'कर्तृकरणाद्धात्वर्थे' । (ग सू २०७ ) । कर्तुर्व्यापारार्थं यत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति । असयति । वल्क १९१७ दर्शने । चित्र १९१८ चित्रीकरणे । 'आले-ख्यकरणे' इत्यर्थः । कदाचिद्दर्शने । 'चित्र' इत्ययमभ्दुतदर्शने णिचं लभते । चित्रयति । अंस १९१९ समाघाते । वट १९२० विभाजने । लज १९२१ प्रकाशने । 'वटि' 'लजि' इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये ।वण्टापयति । लञ्जापयति | शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते 'कथापयति' 'गणापयति' इत्यादि । मिश्र १९२२ सम्पर्के । संग्राम १९२३ युद्धे । अयमनुदात्तेत् । अकारप्रश्लेषात् ।
घतदित्यादावपि भवतीति फलितम् । तत्र कारकमित्यनेन कसात् पष्ठी निरस्ता । उदाहृतहेतुमण्ण्यन्तस्थले कृद्योगाभावेन कर्मणि द्वितीयाया एव सत्त्वात् । कार्यमित्यनेन तु कुत्वतत्वे कंसस्य अड्द्वित्वनिरासश्चेति बोध्द्यम् । आख्यानशब्दश्च कथञ्चिद्वृत्तानुवादपर , न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्द्यति । द्वितीयान्तमित्यत्र द्वितीयाग्रहणमुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्द्यतीति भाष्ये स्पष्टम् । 'कर्तृकरणाद्धात्वर्थे' इदमपि गणसूत्रम् । प्रातिपदिकाद्धात्वर्थे इत्यस्यैव प्रपञ्चः । कर्तुः करण कर्तृकरणं, न तु कर्ता च करणञ्च इति द्वन्द्वः । व्याख्यानात् । तदाह । कर्तुर्व्यापारार्थमिति ॥ अभिमतफलोत्पादनार्थमित्यर्थ | साधकतममिति यावत् | नन्वेव सति करणाद्धात्वर्थे इत्येव सिद्धे कर्तृग्रहण व्यर्थमित्यत आह । न तु चक्षुरादिमात्रमिति ॥ कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात् करणादिशब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तु 'साधकतमङ्करणम्' इति शास्त्रप्रसिद्धकरणस्य ग्रहणौचित्यात् कर्तृग्रहण स्पष्टार्थमेव । केचित्तु कर्तृकरणादिति द्वन्द्वमाश्रित्य देवदत्तेन वाचयति देवदत्तयतीति कर्तुरुदाजह्र. । कदाचिद्दर्शने इति ॥ चित्रेत्यनुवर्तते । तदाह । चित्र इत्ययमिति ॥ कदाचिद्दर्शने इत्यस्य विवरणमद्भुतदर्शने इति । चित्र चित्रकरणे । कदाचिद्दर्शनयोरित्येव सुवचम् । वटि लजि इत्येके इति ॥ ननु कथादावनयोः पाठो व्यर्थः । इदितोरनयो टकारान्तयोरदन्तत्वस्याप्रसक्ते फलाभावाच्चेत्यत आह । अदन्तेष्विति ॥ अदन्तषु पाठबलात् वण्टलञ्जेति कदाचिददन्तमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाभावादतो लोपम्बाधित्वा 'अचो ञ्णिति' इति वृद्धौ 'अर्तिह्री' इति पुगित्यर्थ. । फलितमाह । वण्टापयतीति ॥ शाकटायनस्त्विति ॥ ॠषिविशेषोऽयम् । 'सङ्ग्राम युद्धे' गणसूत्रमिदम् । युद्धवाचिसङ्ग्रामेति प्रातिपदिक करोत्यर्थे णिच लभते इत्यर्थः । ननु 'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे किमर्थमिदमित्यत आह । अनुदात्तेदिति ॥ एतदात्मनेपदार्थमिति भाव । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात् कथमनुदात्तेत्त्वमित्यत आह । अकारप्रश्लेषादिति ॥ सङ्ग्रामशब्दादनुदात्तानुनासिक पररूपेण प्रश्लिष्य निर्देशादिति भावः । असस
अससङ्ग्रामत । स्तोम १९२४ श्लाघायाम् । अतुस्तोमत् । छिद्र १९२५ कर्णभेदने | 'करणभेदने' इत्यन्ये | 'कर्ण' इति धात्वन्तरमित्यन्ये । अन्ध १९२६ दृष्ट्युपघाते । 'उपसंहारे' इत्यन्ये । आन्दधत् । दण्ड १९२७ दण्डनिपातने । अङ्क १९२८ पदे, लक्षणे च । आञ्चकत् । अङ्ग १९२९ च | आञ्जगत् । सुख १९३० दु:ख १९३१ तत्क्रियायाम् । रस १९३२ आस्वादनस्नेहनयोः । व्यय १९३३ वित्तसमुत्सर्गे । अवव्ययत् । रूप १९३४ रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया | छेद १९३५ द्वैधीकरणे | अचिच्छेदत् । छद १९३६ अपवारणे इत्येके | छदयति । लाभ १९३७ प्रेरणे । व्रण १९३८ गात्रविचूर्णने । वर्ण १९३९ वर्णक्रियाविस्तारगुणवचनेषु | वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः | हरिं वर्णयति । स्तौतीत्यर्थ: | 'बहुलमेतन्निदर्शनम्' । (ग सू २०८) । अदन्तधातुनिदर्शनमित्यर्थः | बाहुळकादन्येऽपि बोध्याः | तद्यथा | पर्ण १९४० हरितभावे । अपपर्णत् । विष्क १९४१ दर्शने । क्षप १९४२ प्रेरणे | वस १९४३ निवासे । तुत्थ १९४४ आवरणे । एवमान्दोलयति । प्रेङ्खोलयति | विडम्बयति । अवधीरयति इत्यादि । अन्ये तु दशगणीपाठो ‘बहुलम्’ इत्याहुः | तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो 'बहुळम्' इत्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थे णिच् । 'रामो राज्यमचीकरत्' इति यथेत्याहुः चुरादिभ्य एव बहुलं णिजित्यर्थ इत्यन्ये | सर्वे पक्षाः प्राचां
ड्ग्रामतेति ॥ लुडि चडि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात् तत. प्रागाडिति भावः | एतच्च भृशादिसूत्रे कैयटे स्पष्टम् | अग्लोपित्वान्नोपधाह्रस्व | सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थ | सुखदुःखेति प्रातिपदिकाभ्यान्तत्करोतीत्यर्थे णिच् स्यादिति यावत् | 'प्रातिपदिकाद्धात्वर्थे' इत्येव आभ्या णिजित्याहु | 'बहुलमेतन्निदर्शनम्' गणसूत्रमिदम् । एतेषां कथादीनां अदन्तानान्निदर्शन पाठ इत्यर्थ | तदाह | अदन्तेति ॥ बहुलग्रहणस्य फलमाह । बाहुळकादिति । अपपर्णदिति ॥ अग्लोपित्वान्न सन्वत्त्वमिति भाव | 'क्षिप प्रेरणे' क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुण | एवमग्रेऽपि । 'वस निवासे' अदन्तत्वान्नोपधावृद्धि । आन्दोलयतीत्यादौ अदन्तत्वेन अग्लोपित्वान्नोपधाह्रस्वः । तदेवं 'बहुळमेतन्निदर्शनम्' इत्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह | अन्ये त्विति ॥ भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा. जुप्रभृतय. लौकिकाः । प्रेङ्खोलादय वैदिका. । 'तद्रक्षासि रात्रिभिरसुभ्नन्' इत्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थ. । मतान्तरमाह | अपरे त्विति ॥ चुरादिभिन्ना उदाहृताः ये नव गणा तेभ्योऽपि क्वचित् स्वार्थे णिच्
ग्रन्थे स्थिताः । 'णिङङ्गान्निरसने' (ग सू २०९) । अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति । हस्तयते । पादयते । 'श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च' (ग सू २१०) । श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते, णिङ् च धात्वर्थे । श्वेताश्वमाचष्टे, तेनातिक्रामति, वा श्वेतयते । अश्वतरमाचष्टे अश्वयते । गालोडितं वाचां विमर्शः । तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि । 'पुच्छादिषु धात्वर्थे इत्येव सिद्धम्' (ग सू २११) । णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु 'पुच्छभाण्ड-' (सू २६७६) इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ।
इति तिङन्तचुरादिप्रकरणम् ।
बहुळग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह । चुरादिभ्य एवेति ॥ वस्तुतस्तु भूवादिसूत्रे पाठेन धातुसज्ञेति भाष्यप्रतीकमुपादाय स पाठो नोपलक्षणार्थः किन्तु इयत्ताप्रतिपादनार्थ इति कैयट आह । एवञ्च ‘बहुळमेतन्निदर्शनम्’ इति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । 'णिङङ्गान्निरसने' इति ॥ गणसूत्रम् । स्पष्टम् । डित्त्वान्नित्यमात्मनेपदम् ।श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ इदमपि गणसूत्रम् | श्वेताश्वादीनामिति ॥ श्वेताश्व अश्वतर गालोडित आह्वरक एणमित्यर्थ | अश्वादय इति ॥ श्वताश्वशब्दे अश्वशब्दः, अश्वतरशब्दे तरशब्द, गालोडितशब्दे इतशब्दः, आह्वरकशब्दे कशब्दश्च लुप्यन्ते इत्यर्थ. । णिङ् चेति ॥ चकारलभ्यमिदम् । धात्वर्थे इति ॥ 'प्रातिपदिकाद्धात्वर्थे' इत्यतस्तदनुवर्तते । निरसने इति निवृत्तमिति भाव.। विमर्श इति ॥ विवेचनमित्यर्थः । केचित्त्विति ॥ श्वेताश्वेत्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिडमित्यर्थ. । णिच्णिडोः फलभेद दर्शयति । तन्मते इति ॥ पुच्छादिषु धात्वर्थे इत्येव सिद्धमिति ॥ धातुपाठ रचयितुर्भीमसेनस्य वाक्यमिदमित्याहु: । 'प्रातिपदिकाद्धात्वर्थे' इति णिचि सिद्धे 'पुच्छभाण्डचीवराण्णिड्' इति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थ 'पुच्छ भाण्ड' इति णिड्विधिरावश्यक इत्यत आह । णिजन्तादेव बहुळवचनादिति ॥ बहुळमेतन्निदर्शनम्' इति बहुळग्रहणादित्यर्थ । ननु पुच्छादिषु धात्वर्थे इत्येव णिजित्येव सिद्धे सिद्धशब्दो व्यर्थ इत्यत आह । सिद्धशब्द इति ॥ धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थ. । पस्पशान्हिकभाष्ये हि सिद्धे शब्दार्थसम्बन्धे इति वार्तिकग्रन्थस्यादिमवार्तिकव्याख्यावसरे सिद्धशब्दोपादान मङ्गळार्थमित्युक्तम् । मङ्गळादीनि मङ्गळमध्द्यानि मङ्गळान्तानि च शास्राणि प्रथन्ते इति भूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गळस्य कर्तव्यतासिद्धिः ॥
इति श्रीवासुदेवदीक्षितविरचितायां बालमनोरमायां ।
चुरादिनिरूपणं समाप्तम्
। श्रीरस्तु ।
॥ अथ तिङन्तणिच्प्रकरणम् ॥
२५७५ । तत्प्रयोजको हेतुश्च । (१-४-५५)
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ।
२५७६ । हेतुमति च । (३-१-२६)
प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्स्यात् । भवन्तं प्रेरयति भावयति । 'णिचश्च' (सू २५६४) इति कर्तृगे फले आत्मनेपदम् । भावयते | भावयाम्बभूवे |
अथ 'हेतुमति च' इति णिज्विाधि वक्ष्यन् हेतुसंज्ञा आह । तत्प्रयोजको हेतुश्च ॥ 'स्वतन्त्रः कर्ता' इति पूर्वसूत्रोपात्त. कर्ता तच्छब्देन परामृश्यते । तस्य कर्तु. प्रयोजक: प्रवर्तयिता तत्प्रयोजकः । तदाह । कर्तुः प्रयोजको हेतुसंज्ञ इति ॥ चकारः पूर्वसूत्रोपात्ता कर्तृसंज्ञा समुच्चिनोति । तदाह । कर्तृसंज्ञश्चेति ॥ देवदत्त. पचति तप्रेरयति यज्ञदत्तः इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपकर्तृत्वसत्त्वात् प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधि । प्रयोजकस्य प्रयोज्यकर्त्रा अन्यथा सिद्धत्वाद्धेतुत्वाप्राप्तौ हेतुसंज्ञाविधिः । हेतुमति च ॥ 'सत्यापपाश' इत्यतो णिजित्यनुवर्तते। हेतुः प्रयोजक आधारतया अस्यास्तीति हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तस्मिन् वाच्ये णिच् स्यादित्यर्थ .। 'धातोरेकाचो हलादेः' इत्यतो धातोरित्यनुवर्तते । तदाह । प्रयोजकव्यापार इति ॥ प्रेषणादावित्यादिशब्देन अध्द्येषणानुमत्युपदेशादीना ग्रहणम् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् । आज्ञेत्यर्थः । समानस्याधिकस्य च सख्याचार्यादेः प्रवर्तना अध्द्येषणा । अनुमतिः राजादेः सम्मतिः । ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना उपदेशः । हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापार . । प्रयोजकनिष्ठप्रवर्तनाया णिजिति फलितम् । एते तु विशेषाः प्रकरणादि न अवगम्यन्ते । कुलालो घटङ्करोतीत्यत्र तु न णिच् । प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेः इत्यन्यत्र विस्तर.। भवन्तमिति ॥ देवदत्तो यज्वा भवति । तम्प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा तस्य यज्वभवने प्रवर्तयिता याजकादि प्रयोजकः तन्निष्ठायां प्रेरणायां भूधातोर्णिच् वृध्द्यावादेशौ। भावीति णिजन्तम् । तस्माद्भवनानुकूलव्यापारार्थकात् लटि भावयतीति रूपम् । भवन्तम्प्रेरयतीति फलितोऽर्थः । भावयाम्बभूवे इति ॥ कर्तृगामिति क्रियाफले णिजन्तस्यात्मनेपदित्वात् अनुप्रयुज्यमाना
२५७७ । ओः पुयण्ज्यपरे । (७-४-८०)
सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्त्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् ।अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ।
२५७८ । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । (७-४-८१)
एषामभ्यासोकारस्य इत्त्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे । असिस्रवत्-असुस्रवत् । 'नाग्लोपि-' (सू २५७२) इति ह्रस्वानिषेध: । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । 'अग्लोपि'
दप्यात्मनेपदमिति भाव । ओः युयण् ॥ उ इत्यस्य ओरिति षष्ठी । पुयण्जि इति छेदः । पुश्च यण् च जि चेति समाहारद्वन्द्वात्सप्तमी | अः परो यस्मादिति बहुव्रीहि: | 'सन्यतः' इत्यस्मात्सनीत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । ‘अत्र लोप.’ इत्यस्मादभ्यासस्येति भृञामिदित्यस्मादिदिति चानुवर्तते । तदाह । सनि परे इत्यादिना । अबीभवदिति ॥ भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृध्द्यावादेशाभ्याम्प्रागेव भू इत्यस्य द्वित्वे उत्तरखण्डस्य वृध्द्यावादेशयोः कृतयोरुपधाह्रस्वे अभ्यासे अकाराभावेन 'सन्यत:' इत्यस्याप्रवृत्त्या सन्वत्त्वादनेन इत्त्वे दीर्घः इति भाव.।अपीपवदिति ॥ पूड्धातोः रूपम् । मूडित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति ॥ युधातोरूपम् । अरीरवदिति ॥ रुधातोः रूपम् । अलीलवदिति ॥ लूञ्धातोः रूपम् । अजीजवदिति ॥ जुस्सौत्रो धातु । जुचङ्कम्येत्यत्र निर्दिष्ट । ननु भू भू इति द्वित्वोत्तर वृध्द्यावादेशयो. कृतयो उपधाह्रस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाभावात् सन्वत्त्वाप्रसक्तया कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न । आरम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तेरित्यलम् । स्रवति शृणोति ॥ अपर इत्यनुवर्तते । न तु पूयण्जि इति । पवर्गजकारयोरसम्भवात् ।स्रवत्यादौ यणस्सत्वेऽप्यव्यभिचारात् । तदाह । अवर्णपरे धात्वक्षरे इति ॥ अक्षरशब्दोऽवर्णपरः । असिस्रवत्-असुस्रवदिति ॥ द्विहल्व्यवधानेन लघुपरकत्वाभावान्न सन्वत्त्वमिति भावः । अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत्। अपुप्रवत् । अपिप्लवत् । अपुप्लवत् । अचिच्यवत्-अचुच्यवत् । अथ शासुधातोरशशासदित्यत्राह । नाग्लोपीति ॥ अडुढौकदिति ॥ ढौकृ गतावित्यस्य ॠदित्वादिति भावः । अचीचकासदिति ॥ चकासृ दीप्तौ । ॠदित्त्वान्नोपधाह्रस्व । चड्परे णौ यदङ्ग तस्य योऽभ्यासो लघुपर इति पक्षे सन्वत्त्व अभ्यासदीर्घश्चेति भाव. । मतान्तरे त्विति ॥ अङ्ग यत्र द्विरुच्यते इति मते चड्परे णौ यल्लघु तत्परो योऽङ्गस्य अभ्यास इति मते चेत्यर्थः । अग्लोपीतीति ॥ अग्लोपिन उपधाह्रस्वनिषेधे मा भवानूनदिति उदाहृतम् । अतितिरायदित्युदाहरणान्तर सुब्धातुनिरूपणे वक्ष्यते इत्यर्थः ।
चइति सुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादस्त्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । 'णौ चङि–' (सू २३१४) इति ह्रस्वः । 'दीर्घो लघोः' (सू २३१८) । न चाग्लोपित्वात् द्वयोरप्यसम्भवः । ण्याकृतिनिर्देशात् । अचूचुरत्
२५७९ । णौ च संश्चङोः । (६-१-३१)
सन्परे चङ्परे च णौ श्वयतेः सम्प्रसारणं वा स्यात् | 'सम्प्रसारणं तदाश्रयञ्च कार्यं बलवत्' (प १२९) इति वचनात्सम्प्रसारणं पूर्वरूपम् अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ।
ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणे चोरि इति रूपम् । तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सति चोरि इत्येव हेतुमण्ण्यन्तम् । तस्माल्लटि तिपि शपि गुणे अयादेशे चोरयतीत्येव रूपमिष्यते । तन्नोपपद्यते । हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धौ आयादेशे चोराय् इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह । ण्यन्ताण्णिजिति ॥ ण्यन्ताण्णिचि वृद्धिम्बाधित्वा णिलोप इत्यन्वयः । कुत इत्यत आह । पूर्वविप्रतिषेधादिति ॥ “ण्यल्लोपावियड्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन” इति वार्तिकेनेति भावः । अपवादत्वाद्वेति ॥ 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । अथ ण्यन्ताण्णौ प्रथमस्य णेर्लोपे चोरि इत्यस्माल्लुडि चडि अचोर् इ अ त् इति स्थिते प्रक्रियान्दर्शयति । णौ चङीति ॥ ह्रस्वः इति ॥ तत हेतुमण्णेर्लोपे चुर् इत्यस्य द्वित्वे सन्वद्भावविषयत्वादाह । दीर्घो लघोरिति ॥ तथाच अचूचुरदिति सिद्धम् । ननु उपधाह्रस्वः अभ्यासदीर्घश्चेति द्वयमपि चड्परे णौ विहितम् । तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न सम्भवति । तस्य द्वितीयणिचा व्यवहितत्वेन चड्परकत्वाभावात् । नापि द्वितीयणिचमादाय तदुभयसम्भवः । द्वितीयणिच्प्रकृतेः प्रथमण्यन्तस्य णिलोपमादाय अग्लोपित्वादित्याशङ्क्य परिहरति । न चेति ॥ अग्लोपित्वात् द्वयोरपि उपधाह्रस्वाभ्यासदीर्घयोरसम्भवो न शङ्क्य इत्यर्थः । कुत इत्यत आह । ण्याकृतिनिर्देशादिति ॥ चड्परे णावित्यत्र णावित्यस्य चड्परकणित्त्वजात्याश्रयैकानेकणिज्व्यक्तिपरकत्व विवक्षितम् | तथाच णिद्वयस्य चड्परकत्वाभावेऽपि णित्त्वस्य चड्परकत्वमस्तीति हूस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिनिर्देशः अयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् । 'टु ओ श्वि गतिवृध्द्योः' । अस्माद्धेतुमण्णौ वृध्द्यायादेशयो श्वायीत्यस्मात् लडादौ श्वाययतीति रूपम् । लुडि चडि आश्वि इ अ त् इति स्थिते विशेषमाह । णौ च संश्चङोः ॥ 'विभाषा श्वेः' इति सूत्रमनुवर्तते । 'ष्यङस्सम्प्रसारणम्' इत्यतस्सम्प्रसारणमिति च । तदाह । सन्पर इत्यादिना ॥ नन्वन्तरङ्गत्वात् सम्प्रसारणात्पूर्व वृद्ध्यायादेशयोः कृतयोः पश्चात् सम्प्रसारणे पूवरूपे अशुश्वयदिति स्यात्, अशूशवदिति न स्यात्, इत्यत आह । सम्प्रसारणन्तदाश्रयञ्च कार्यं बलवदिति ॥ इदं वचनं 'लिट्यभ्यासस्य' इति सूत्रभाष्ये स्थितम् ।
40
२५८० । स्तम्भुसिवुसहां चङि । (८-३-११६)
उपसर्गनिमित्तः एषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् ।बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात्प्रागेव । ओणेर्ॠदित्करणाल्लिङ्गात् । मा भवानिदिधत् । एजादावेधतौ विधानान्न वृद्धिः । मा भवान्प्रेदिधत् । 'नन्द्राः–' (सू २४४६) इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत्। आर्चिचत् । 'उब्ज आर्जवे'।उपदेशे दकारोपधोऽयम् ।
एवञ्च अश्वि इ अत् इत्यत्र वृद्ध्यायादेशाभ्या प्रागेव वकारस्य सम्प्रसारणमुकार इति फलितम् । पूर्वरूपमिति ॥ ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृध्द्यावादेशयोरुपधाह्रस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह । अशूशवदिति ॥ सम्प्रसारणाभावपक्षे अशिश्वयदित्यत्र अभ्यासदीर्घमाशङ्क्य आह । अलघुत्वादिति ॥ सयोगपरकत्वादिति भाव । अवपूर्वात्स्तम्भेर्ण्यन्तादवष्टम्भयतीत्यादि । 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् । चडि अवातस्तम्भदित्यत्र षत्वे प्राप्ते । स्तम्भुसिवु ॥ 'उपसर्गनिमित्तस्य प्रतिषेधः' इति वार्तिकम् । नरपरसृपीत्यतो नेत्यनुवर्तते । ‘सहेस्साडस्स:’ इत्यतो स इति षष्ठ्यन्तमनुवर्तते । मूर्धन्यः इत्यधिकृतम् । तदाह । उपसर्गनिमित्त इत्यादि ॥ स्तम्भुस्सौत्रो धातु. । 'षिवु तन्तुसन्ताने' 'षह मर्षणे' पर्यसीषिवत्, न्यसीषहत्, इति । 'परिनिविभ्यस्सेव' इत्युपसर्गनिमित्त षत्वन्न। अभ्यासनिमित्तन्तु षत्वं भवत्येव । आटिटत् । आशिशत् इति । आट् इ अ त् आश् इ अ त् इति स्थिते ‘णौ चडि’ इत्युपधाह्रस्वात् प्रागन्तरङ्गत्वात् ‘चडि’ इति द्वित्वमाशङ्क्य आह । बहिरङ्गोऽपीति ॥ उपधाह्रस्वः चड्परण्यपेक्षत्वात् बहिरङ्गः । द्वित्वन्तु चड्मात्रापेक्षत्वादन्तरङ्गम् । अथापि द्वित्वात् प्रागेव उपधाह्रस्व इत्यर्थः । कुत इत्यत आह । ओणेरिति ॥ 'ओणृ अपनयने' इति धातो ॠदित्करण औणिणदित्यत्र ‘नाग्लोपि’ इति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाह्रस्वात्प्रागेव अन्तरङ्गत्वात् द्वित्व स्यात् तदा ओण् इ अ त् इत्यत्र ‘अजादेर्द्वितीयस्य’ इति णि इत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चड्परे णौ उपधात्वाभावादेव ह्रस्वस्याप्रसक्तत्वात् ॠदित्करण व्यर्थ स्यात् । द्वित्वात्प्रागेव उपधाह्रस्व इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायाम्प्राप्तस्य निषेधार्थमृदित्करणमर्थवत् । अतः बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवेति विज्ञायते इत्यर्थः । ननु आटिटत् आशिशत् इत्यत्र द्वित्वप्रवृत्त्यनन्तरमुपधाह्रस्वस्याभावेऽपि 'आटश्च' इति वृद्धौ आटिटत् आशिशत् इति सिध्द्यत्येवेति किमनेन ज्ञापनेनेत्यत आह । मा भवानिदिधदिति ॥ एध् इ अ त् इति स्थिते पूर्व द्वित्वप्रवृत्तौ धि इत्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात् । द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अ त् इति स्थिते धि इत्यस्य द्वित्वे माड्योगादाडभावे इदिधदिति इष्ट सिध्द्यतीत्यर्थः । ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठ्सु' इति वृद्धिः स्यादित्यत आह । एजादावेधताविति ॥ अवर्णादेजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भाव | 'औन्दिददिति ॥ उन्द् इ अ त् इति स्थिते दि
'भुजन्युब्जौ पाण्युपतापयोः' (२८७७) इति सूत्रे निपातनाद्दस्य बः । स चान्तरङ्गोऽपि द्वित्वविषये 'नन्द्राः –' (सू २४४६) इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते । न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रयत् ।
२५८१ । रभेरशब्लिटोः । (७-१-६३)
रभेर्नुम्स्यादचि न तु शब्लिटो: ।
२५८२ । लभेश्च । (७-१-६४)
अररम्भत् । अललम्भत् । 'हेरचङि' (सू २५३१) इति सूत्रे 'अच ङि' इत्युक्तेः कुत्वं न । अजीहयत् । 'अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्' (सू २५६६) । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ।
इत्यस्य द्वित्वमिति भावः । आड्डिडदिति ॥ अड्डधातुर्दोपध. । ष्टुत्वसम्पन्नो डकारः । अड्डि इ अ त् इति स्थिते श्चुत्वस्यासिद्धत्वेन दकारात्परस्य डि इत्यस्य द्वित्वमिति भावः । आर्चिचदिति ॥ अर्च् इ अ त् इति स्थिते रेफात् परस्य चि इत्यस्य द्वित्वमिति भावः । उब्ज आर्जवे इति ॥ ननु चडि ब्जि इत्यस्य द्वित्वे हलादिशेषे औबिब्जदिति रूप स्यात् । औब्जिजदित्येव तु इष्यते । तत्राह । उपदेशे दकारोपधोऽयमिति ॥ ततश्च 'नन्द्राः' इति दकारस्य द्वित्वनिषेधात् जि इत्यस्यैव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रूयते इत्यत आह । भुजन्युब्जाविति ॥ ननु द्वित्वात् प्रागन्तरङ्गत्वात् दकारस्य बकारादेशे सति 'नन्द्रा.' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह । स चेति ॥ ननु द्रु गतौ द्रावयति | चडि द्रु इत्यस्य द्वित्वे उत्तरखण्डस्य वृध्द्यावादेशयो. उपधाह्रस्वे 'स्रवति-शृणोति' इत्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते । तन्नोपपद्यते । 'नन्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह । अजादेरित्येवेति ॥ ‘नन्द्रा.’ इत्यत्र अजादेरित्यनुवर्त्तत एवेत्यर्थ.। आदिभूतादच इति व्याख्यात प्राक् । ततश्च आदिभूतादच पराः नदराः द्विर्न भवन्तीति फलितम् । नेहेति ॥ प्रकृते आदिभूतादचः परत्वाभावान्न दकारद्वित्वनिषेध इत्यर्थः । अदिद्रपदिति पाठे द्राधातेर्णिचि पुकि द्रापि इत्यस्माद्रूपम् । ननु लावस्थायामडिति पक्षे अचः परत्वमस्येवेति चेन्न । ‘नन्द्राः’ इत्यत्र 'लिटि धातोः' इत्यतो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदराः द्विर्नेति व्याख्यानादित्याहुः । रभेरशब्लिटोः ॥ 'इदितो नुम्धातोः' इत्यतो नुमिति 'रधिजभोरचि' इत्यत अचीति चानुवर्त्तते । तदाह । रभेर्नुमित्यादि । लभेश्च ॥ लभेरपि नुम् स्यात् अचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्ति. । अररम्भदिति ॥ नुमि कृते सयोगपरत्वे अकारस्य लघुत्वाभावान्नसन्वत्त्वमिति भावः । 'हि गतौ वृद्धौ च' इत्यस्माच्चडि अजीहयदित्यत्र ‘हेरचडि’ इति हकारस्य कुत्वन्नेत्याह । हेरचङीति ॥ ‘अत् स्मृदॄत्वर’ इति सूत्र चुरादौ 'प्रथ प्रख्याने' इति धातौ व्याख्यातम् । असस्मरदिति ॥ अत्र 'सन्यतः'
२५८३ विभाषा वेष्टिचेष्ट्योः । (७-४-९६)
अभ्यासस्यात्त्वं वा स्याच्चङ्परे णौ । अववेष्टत्-अविवेष्टत् । अचचेष्टत् अचिचेष्टत् । 'भ्राजभास--' (२५६५) इत्यादिना वोपधाह्नस्वः । अबिभ्रजत्-अबभ्राजत् । 'काण्यादीनां वेति वक्तव्यम्’ (वा ४६१३) । ण्यन्ताः कणरणभणश्रणलुपहेठः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिकाः न्यासे । 'चाणिलोटी' इत्यप्यन्यत्र । इत्थं द्वादश ।अचीकणत्-अचकाणत् ।
२५८४ । स्वापेश्चाङि । (६-१-१८)
ण्यन्तस्य स्वपेश्चङि सम्प्रसारणं स्यात् । असूषुपत् ।
इतीत्त्वे प्राप्ते अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्त प्राक् । सयोगपरत्वेन लघुत्वाभावान्नाभ्यासदीर्घः । अददरदिति ॥ दॄ विदारणे इत्यस्य रूपम् । अत्रापि ‘सन्यतः’ इत्यस्यापवाद अत्त्वम्। 'दीर्घो लघोः' इति दीर्घमाशङ्क्य आह । तपरत्वसामर्थ्यादिति ॥ अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् । विभाषा वेष्टिचेष्ट्योः ॥ 'अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तत । 'अत् स्मृदॄत्वर' इत्यत. अदिति 'सन्वल्लघुनि' इत्यतः चड्परे इति । चड् परो यस्मादिति बहुव्रीहिः णावित्यार्थिकम् । तदाह । अभ्यासस्यात्त्वमिति ॥ अबिभ्रजदिति ॥ उपधाह्रस्वपक्षे लघुपरत्वात् सन्वत्त्वादभ्यासस्य इत्त्वम् । 'दीर्घो लघो.' इति तु न । सयोगपरत्वादलघुत्वात् । काण्यादीनां वेति ॥ ‘णौ चड्युपधायाः’ इति ह्रस्व इति शेष । ण्यन्ताः कणरणेति ॥ 'कण निमीलने, रण शब्दे, भण शब्दे, श्रण दाने, लुप छेदने, हेठ विबाधायाम्' इति षट्धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः । ह्वायीति ॥ 'ह्वेञ् स्पर्धाया शब्दे च' आत्त्वे पुकि च निर्देशः । 'वण शब्दे' दन्त्योष्ठ्यादि ‘लुठ प्रतीघाते’ टवर्गद्वितीयोपध. । 'लप व्यक्ताया वाचि' इति चत्वारो ण्यन्ताः भाष्योक्त्तेभ्योऽधिकाः न्यासग्रन्थे पठिता इत्यर्थे । चाणि लोटी इति ॥ 'चण दाने' तालव्यादिः । 'लुट स्तेये' टवर्गप्रथमान्तः भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचित् ग्रन्थे पठितौ इत्यर्थः । इत्थं द्वादशेति ॥ अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकणदिति ॥ उपधाह्रस्वपक्षे लघुपरत्वात् सन्वत्त्वदीर्घौ च । अचकाणदिति ॥ उपधाह्रस्वाभावपक्षे रूपम् । अरीरणत्-अरराणत् । अबीभणत्-अबभाणत् । अशिश्रणत्-अशश्राणत् । अलूलुपत्-अलुलोपत् । अजीहिठत्-अजिहेठत् । अजिह्वपत्-अजह्वापत् । अवीवणत्-अववाणत् । अलूलुठत्-अलुलोठत् । अलूलुपत्-अलुलोपत् । अचीचणत्-अचचाणत् । अलूलुटत्-अलुलोटत् । स्वापेश्चङि । सम्प्रसारणमिति ॥ ष्यडस्सम्प्रसारणमित्यतस्तदनुवृत्तेरिति भावः । असूषुपदिति ॥ 'सम्प्रसारणन्तदाश्रयञ्च कार्यं बलवत्'
२५८५ । शाच्छासाह्वाव्यावेपां युक् । (७-३-३७)
णौ । पुकोऽपवादः । शाययति । छाययति । साययति । ह्वाययति । व्याययति |
२५८६ । ह्वः सम्प्रसारणम् । (६-१-३२)
सन्परे चङ्परे च णौ ह्वः सम्प्रसारणं स्यात् । अजूहवत्-अजुहावत् |
२५८७ । लोपः पिबतेरीच्चाभ्यासस्य । (७-४-४)
पिबतेरुपधायाः लोपः स्यात् अभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । 'अर्तिह्री-' (सू २५७०) इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ।
इति वचनात्कृते सम्प्रसारणे द्वित्व पूर्वरूप सन्वत्त्वदीर्घौ षत्वमिति भावः । शाच्छासा ॥ 'शो तनूकरणे, छो छेदने, पो अन्तकर्मणि, ह्वेञ् स्पर्धाया शब्दे च, व्येञ् सवरणे' एषाङ्कृतात्वनिर्देश. 'वेञ् तन्तुसन्ताने' 'पा पाने' भ्वादि.।एषान्द्वन्द्वात् षष्ठीबहुवचनम् । णौ परे इति शेषपूरणम् । आदन्तलक्षणयुकोऽपवाद । युकि ककार इत् उकार उच्चारणार्थ कित्त्वादन्तागमः । अत्र 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्' इति वचनात् 'पा रक्षणे' इति न गृह्यते । तस्य तु पालयतीति रूपमनुपदमेव वक्ष्यति । शाययतीति ॥ लुडि अशीशयत् । छाययतीति ॥ अचिच्छयत् । साययतीति ॥ असीषयत् । ह्वाययतीति ॥ लुडि तु विशेषो वक्ष्यते । व्याययतीति ॥ अविव्ययत् । वाययति । अवीवयत् । पाययति । लुडि तु विशेषो वक्ष्यते । ह्वः सम्प्रसारणम् ॥ ह्वेञ कृतात्त्वस्य ह्व इति षष्ठी । 'णौ च सश्चडो.' इत्यनुवृत्तिमभिप्रेत्य आह । सन्पर इत्यादि । अजूहवदिति ॥ ह्व इ अ त् इति स्थिते “सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्” इति वचनात् कृते सम्प्रसारणे पूर्वरूपे च हु इत्यस्य द्वित्वे उत्तरखण्डस्य वृध्द्यावादेशयो. कृतयोरुपधाह्रस्वे सन्वत्त्वदीर्घाविति भावः । अत्र कृते सम्प्रसारणे पूर्वरूपे च ह्वारूपाभावान्न युक् । पाधातोर्णौ युगागमे पायि इत्यस्माल्लुडि चडि द्वित्वादौ अपीपय् अ त् इति स्थिते । लोपः पिबतेः । चङ्परे णाविति ॥ 'णौ चड्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति ॥ “नानर्थकेऽलोऽन्त्यविधिः” इत्यस्य अनभ्यासविकार इति निषेधादभ्यासान्त्यस्य ईत्त्वम् । इह उपधालोपे कृते अग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधि । अर्तिह्री इति । पुगिति ॥ क्रमेणोदाह्रियत इति शेष । अर्पयतीति ॥ ॠधातोरुदाहरणम् । वृद्धि बाधित्वा नित्यत्वात् पुक् गुण । ह्रेपयतीति ॥ 'ह्री लज्जायाम्' इत्यस्य रूपम् । व्लेपयतीति ॥ व्ली विशरणे इत्यस्य रूपम् । रेपयतीति ॥ री क्षये इत्यस्योदाहरणम् । 'क्नूयी शब्दे' इत्यस्य क्नोपयतीत्युदाहरिष्यन्नाह । यलोपः इति ॥ क्नूयीधातोर्णौ पुकि 'लोपो व्योः' इति यलोप इत्यर्थः । तत. क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुण । क्ष्मापयतीति ॥ 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः । आदन्तस्योदाहरति । स्थाप
२५८८ । तिष्ठतेरित् । (७-४-५)
उपधायाः इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ।
२५८९ । जिघ्रतेर्वा । (७-४-६)
अजिघ्रिपत्-अजिघ्रपत् । 'उर्ॠत्' (सू २५६७) । अचीकृतत्-अचिकीर्तत् । अवीवृतत्-अववर्तत् । अमीमृजत्-अममार्जत् । 'पातेर्णौ लुग्वक्तव्यः' (वा ४५२०) । पुकोऽपवादः । पालयति ।
२५९० । वो विधूनने जुक् । (७-३-३८)
वातेर्जुक्स्याण्णौ कम्पेऽर्थे | वाजयति | 'कम्पे' किम् । केशान्वापयति । 'विभाषा लीयते:' (सू २५०९) ।
यतीति ॥ लुडि चडि अतिष्ठप् अ त् इति स्थिते । तिष्ठतेरित् ॥ 'णौ चड्युपधायाः' इत्यनुवर्तते। तदाह । उपधायाः इति । जिघ्रतेर्वा ॥ घ्राधातोरुपधाया इद्वा स्याच्चड्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया इत्त्वविकल्पः । उर् ऋदिति ॥ धातोरुपधायाः ॠकारस्य ॠद्वा चड्परे णाविति व्याख्यातञ्चुरादौ । अचीकृतदिति ॥ कॄत् इ अ त् इति स्थिते ॠत्त्वपक्षे कॄत् इत्यस्य द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वात् इत्त्वे तस्य दीर्घे रूपम् । अचिकीर्तदिति ॥ कॄत् इ अ त् इति स्थिते ‘उर् ॠत्’ इत्युपधा ॠत्त्वाभावपक्षे उपधायाश्चेति इत्त्वे रपरत्वे किर्त् इत्यस्य द्वित्वे उत्तरखण्डे उपधायाञ्चेति दीर्घे रूपम् । अवीवृतदिति ॥ 'वृतु बर्तने' । णिचि लघूपधगुण बाधित्वा उर् ॠत् । चडि कृत् इत्यस्य द्वित्वे उरदत्त्वे सन्वत्त्वात् इत्त्व दीर्घश्चेति भाव.। अववर्तदिति ॥ ॠत्त्वाभावपक्षे वृत् इत्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाभावान्न सन्वत्त्वदीर्घौ । अमीमृजदिति ॥ उपधाया ॠत्त्वपक्षे रूपम् । अममार्जदिति ॥ उपधाया ॠत्त्वाभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डे 'मृजेर्वृद्धिः' इति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाभावान्न सन्वत्त्वम् । 'पातेर्णौ लुक्' इति लुगागम इत्यर्थः । पुकोऽपवादः इति ॥ आदन्तलक्षणपुकोऽपवाद इत्यर्थः । यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धम्, तथापि पुको निवृत्तिः फलम् । वो विधूनने ॥ 'ओ वै शोषणे' इति धातो कृतात्त्वस्य वः इति षष्ठ्यन्तम् 'अर्तिह्री' इत्यत णावित्यनुवर्तते । तदाह ।वातेरित्यादि ॥ पुकोऽपवादो जुक् । केशान्वापयतीति ॥ सुगन्धीकरोतीत्यर्थः । अत्र वैधातो पुगेव ।वाधातोस्त्विह न ग्रहणम् । लुग्विकरणत्वात् । केचित्तु वातेरेवात्र ग्रहणम्, नतु वेञ. । नापि वै इत्यस्य लाक्षणिकत्वात् सानुबन्धकत्वाच्चेत्याहुः । आत्त्वविधायकसूत्र स्मारयति । विभाषा लीयतेरिति ॥ लीलीडोरात्त्वं वा स्यादेज्विषये लुडि च इति व्याख्यात प्राक् श्यन्विकरणे । तत्र लीयतेः इति यका निर्देश, नतु श्यना । तेन 'ली श्लेषणे' इति श्नाविकरणस्य 'लीङ् श्लेषणे'
२५९१ । लीलोर्नुग्लुकावन्यतरस्यां स्नेहनिपातने। (७-३-३९ )
लीयतेर्लातेश्च क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे । विलीनयति-विलाययति । विलालयति-विलापयति वा घृतम् । 'ली ' 'ई' इति ईकारप्रश्लेषादात्त्वपक्षे नुग्न । 'स्नेहद्रवे' किम् । लोहं विलापयति । 'प्रलम्भनाभिभवपूजासु लियो नित्यमात्त्वमशिति वाच्यम् ’ (वा ३४८३) ।
२५९२ । लियः सम्माननशालिनीकरणयोश्च । (१-३-७०)
लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते वञ्चयतीत्यर्थः ।
२५९३ । बिभेतेर्हेतुभये । (६-१-५६)
बिभेतेरेच आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत् ।
२५९४ । भीस्म्योर्हेतुभये । (१-६-३८)
इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्त न विस्मर्तव्यम् । लीलोः ॥ ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति ॥ 'अर्तिह्री' इत्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य तैलस्य निपातनं द्रावणं स्नेहनिपातनम् । तदाह । स्नेहद्रवे इति ॥ आत्त्वाभावपक्षे आह । विलीनयतीति ॥ लीलीडोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीडोरात्त्वनुगभावपक्षे आह । विलाययतीति ॥ लाधातोर्लुगागमे आह । विलालयतीति ॥ अत्र लातेरादादिकस्य कृतात्त्वलीयतेश्च ग्रहणम् । व्याख्यानात् । विलापयतीति ॥ लुगागमाभावे रूपम् । ननु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक् स्यादित्यत आह । ली ई इति । लोहं विलापयतीति ॥ नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्त्वाभावे तु वृध्द्यायादेशाविति भावः । प्रलम्भनाभिभवेति ॥ प्रलम्भन वञ्चना ।अभिभव तिरस्कार । पूजा प्रसिद्धा । एष्वर्थेषु लीलीडोः एज्विषये नित्यमात्त्व वक्तव्यमित्यर्थः । लियः सम्मानन ॥ लियः इति लीलीडोर्ग्रहणम् । ‘अनुदात्तडित.’ इत्यतः आत्मनेपदमिति 'णेरणौ' इत्यतो णेरिति चानुवर्तते । 'णिचश्च' इति सिद्धे अकर्त्रभिप्रायार्थमिदम् । सम्माननम्पूजालाभः । शालिनीकरणम् अभिभव । चकारात् 'गृधिवञ्च्यो.' इति पूर्वसूत्रात्प्रलम्भनग्रहण समुच्चीयते । तदाह । लीङ्लियोरित्यादिना । बिभेतेर्हेतुभये ॥ 'आदेच उपदेशे' इत्यत एच इति आदिति चानुवर्तते । ‘विभाषा लीयते:’ इत्यतो विभाषेति, 'चिस्फुरोः' इत्यतो णाविति च । हेतुभयम्प्रयोजकाद्भयम् । तदाह । बिभेतेरेच इत्यादिना । भीस्म्योर्हेतुभये ॥ 'अनुदात्तडितः' ।
आभ्यां ण्यन्ताभ्यामात्मनेपदं स्याद्धेतोश्चद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ।
२५९५ । भियो हेतुभये षुक् । (७-३-४०)
'भी' 'ई' इति ईकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक्स्याण्णौ । हेतुभये । भीषयते ।
२५९६ । नित्यं स्मयतेः । (६-१-५७)
स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्त्तेर्नेह । कुञ्चिकयैनं भापयति । विस्माययति । कथं तर्हि 'विस्मापयन्विस्मितमात्मवृत्तौ' इति । 'मनुष्यवाचा' इति करणादेव हि तत्र
इत्यतः आत्मनेपदमिति 'णेरणौ' इत्यतो णेरिति चानुवर्तते । हेतुः प्रयोजकः । तदाह । आभ्यां ण्यन्ताभ्यामित्यादि ॥ अकर्त्रभिप्रायार्थमिदम् । ननु हेतोश्चेत् भयस्मयावित्यनुपपन्नम् । सूत्रे स्मयग्रहणाभावादित्यत आह । सूत्रे भयेति ॥ सूत्रे भयग्रहण स्मिड्धात्वर्थस्य स्मयस्याप्युपलक्षणमित्यर्थः । मुण्डो भापयते इति ॥ अत्र आत्त्वं पुक् आत्मनेपदञ्च । भिय आत्त्वाभावपक्षे विशेषमाह । भियो हेतुभये षुक् ॥ भी ई इति द्वयोस्सवर्णदीर्घे भीशब्दात् षष्ठीति भाव. । इदञ्च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकारप्रश्लेषलब्धमाह । ईवकारान्तस्येति ॥ तेन आत्त्वपक्षे न षुगिति फलितम् । णाविति ॥ 'अर्तिह्री' इत्यतस्तदनुवृत्तेरिति भाव . । नित्यं स्मयतेः ॥ 'आदेच उपदेशे' इत्यत एच इति, आदिति, चानुवर्तते । 'चिस्फुरोः' इत्यतो णाविति 'बिभेतेर्हेतुभये' इत्यतः हेतुभये इति च । तत्र भयग्रहण स्मयस्याप्युपलक्षणम् । अत्र तु स्मय एव विवक्षित । स्मयतेर्भीत्यर्थकत्वासम्भवात् । तदाह । स्मयतेरेच इत्यादि ॥ 'विभाषा लीयतेः' इत्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'बिभेतेर्हेतुभये' इति 'नित्यं स्मयते.' इति च आत्त्वविधौ 'भीस्म्योर्हेतुभये' इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह । हेतोश्चेत् भयस्मयावित्युक्तेर्नेहेति ।कुञ्चिकयैनमिति ॥ केशबन्धविशेषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाभावात् आत्त्व षुक् च नेति भावः ।
आक्षिपति कथमिति । रघुवंशकाव्ये “तमार्यगृह्यं निगृहीतधेनुः मनुष्यवाचा मनुवशकेतुम् । विस्मापयन्विस्मितमात्मवृत्तौ सिंहोरुसत्वन्निजगाद सिंहः ॥” इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भयाभावेन आत्त्वपुगनुपपत्तेरिति भाव. । ननु मनुष्यवागेव तत्र प्रयोजिकेत्यत आह । मनुष्येति ॥ मनुष्यवाचेति तृतीयान्तगम्यकरणात् मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूतापि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह । अन्यथेति ॥ मनुष्यवाच. स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव । किन्त्वात्त्वपुगाक्षेपो न
स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । 'विस्माययन्' इत्येव पाठ इति साम्प्रदायिकाः । यद्वा मनुष्यवाक्प्रयोज्यकर्त्री विस्मापयते । तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ 'शता' इति व्याख्येयम् |
२५९७ । स्फायो वः । (७-३-४१)
णौ । स्फावयति |
२५९८ । शदेरगतौ तः । (७-३-४२)
शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु गा: शादयति गोविन्दः । गमयतीत्यर्थः ।
२५९९ । रुहः पोऽन्यतरस्याम् । (७-३-४३)
णौ । रोपयति-रोहयति ।
२६०० । क्रीङ्जीनां णौ । (६-१-४८)
एषामेच आत्त्वं स्याण्णौ । क्रापयति । जापयति । अद्ध्यापयति ।
युज्यते इत्यर्धाङ्गीकारेण परिहरति । सत्यमिति ॥ विस्माययन्नित्येवेति ॥ णौ आयादेशे स्मायि इत्यस्माल्लटश्शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव काळिदासो महाकविः प्रायुङ्क्त । विस्मापयन्निति पकारपाठस्तु लेखकप्रमादकृत इति भावः । यद्वेति ॥ राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति । विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककर्त्री । राजा तु प्रयोज्यकर्तेति स्थिति. । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूxकत्वादात्त्वे पुक् । मूले प्रयोज्यकर्त्रीत्येव पाठ । प्रयोजककर्त्रीत्यर्थ । प्रयोज्यः कर्ता यस्याः सा प्रयोज्यकर्त्री इति बहुव्रीह्याश्रयणात् । प्रयोजककर्त्रीत्येव पाठः सुगमः । ता विस्मापयन्ती प्रयोजककर्त्री मनुष्यवाच प्रयोजयति सिंहः विस्मापयन् । स्मापि इति ण्यन्तात् णौ प्रथमणेर्लोपे स्मापि इत्यस्मात् शतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यभिप्रेत्य आह । तया सिंहः इति ॥ प्रयोजककर्तरि तृतीया । आत्मनेपद भीस्मीप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः । स्फायो वः ॥ णाविति शेषपूरणम् । 'अर्तिह्री' इत्यतस्तदनुवृत्तेरिति भाव.। शादेरगतौ तः ॥ 'अर्तिह्री' इत्यतो णावित्यनुवृत्ति मत्वा आह । शदेर्णाविति । तोऽन्तादेशः इति ॥ तकार इत्यर्थः । अकार उच्चारणार्थः । रुहः पो ॥ णाविति शेषपूरणम् । क्रीङ्जानां णौ ॥ 'डु क्रीञ् द्रव्यविनिमये, इड् अध्द्ययने, जि जये' एषान्द्वन्द्वः । एच आत्त्वमिति ॥ 'आदेच उपदेशे' इत्यतस्तदनुवृत्तेरिति भाव. । क्रापयति । जापयतीति ॥ आत्त्वे पुक् । लुडि अचिक्रपत् । अजीजपत् । अद्ध्यापयतीति ॥ इड आत्त्वे पुकि रूपम् । अधि इ इ अ त् इति स्थिते
41
२६०१ । णौ च संश्चङोः । (२-४-५१)
सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अद्ध्यजीगपत् । अद्ध्यापिपत् ।
२६०२ । सिध्द्यतेरपारलौकिके । (६-१-४९ )
ऐहलौकिकेऽर्थे विद्यमानस्य सिद्ध्यतेरेच आत्त्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । 'अपारलौकिके' किम् । तापसः सिद्ध्यति । तत्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ।
२६०३ । प्रजने वीयतेः । (६-१-५५)
अस्यैच आत्त्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति-वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । 'ऊदुपधाया गोहः' (सू २३६४) । गूहयति ।
णौ च संश्रङोः ॥ विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते । 'इडश्च' इत्यतः इड इति 'गाड् लिटि' इत्यतो गाडिति 'विभाषा लुड्लृडो' इत्यतो विभाषेति चानुवर्तते । तदाह । सन्परे चड्परे चेत्यादि ॥ सन्परे चड्परे च णौ विवक्षिते इत्यर्थः । वेत्यादि । अध्द्यजीगपदिति ॥ णौ इडो गाडादेशे पुकि उपधाह्रस्वे अधि गप् इ अ त् इति स्थिते गाप इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । न च द्वित्वे कार्ये 'णावजादेशो न' इति द्वित्वात् प्राक् गाडादेशनिषेधः शङ्क्य: । अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाडादेशस्य निषेधे सति गाडः पूर्व 'अजादेर्द्वितीयस्य' इति णिच एव द्वित्वे सति प्रक्रियाया परिनिष्ठिते वा धातोरुत्तरखण्डे अवर्णाभावादिति भावः । गाडभावे 'क्रीड्जीना णौ' इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थिते पि इत्यस्य द्वित्वे रूपमिति भावः । सिध्द्यतेरपारलौकिके ॥ 'आदेच उपदेशे' इत्यस्मादादेच इति 'क्रीड्जीनाम्' इत्यस्माण्णाविति चानुवर्तते । तदाह । ऐहलौकिके इत्यादि ॥ अन्नमिति ॥ तन्निष्पादन तृप्त्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति ॥ आत्मस्वरूपमित्यर्थः । सेधयति तापसं तपः इति ॥ तत्त्वन्निश्चाययतीत्यर्थः ।आत्मतत्त्वनिश्चयः आमुष्मिकफलक इति भावः । प्रजने वीयते. ॥ 'आदेच उपदेशे' इत्यस्मादादेच इति 'चिस्फुरो.' इत्यतो णाविति 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह । अस्यैच इत्यादि ॥ वीयतेरिति न श्यना निर्देश. 'वी गतिप्रजनस्थानार्जनोपार्जनेषु' इत्यस्य लुग्विकरणस्थत्वात् । किन्तु यका निर्देशोऽयम् । तेन व्येञोऽपि
ग्रहणम् । तस्यापि सम्प्रसारणे वीधातुना तुल्यत्वादिति केचित् । वतुतस्तु व्येञो न ग्रहणम् । तस्य प्रयोजनार्थकत्वाभावात् । तस्य णौ ‘शाच्छासा’ इति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भङ्ग्राहयतीति ॥ पुरोवातकाले गावो गर्भङ्गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू सवरणे' इत्यस्य गुणनिमित्ते अजादौ प्रत्यये परे उपधाया ऊत्त्वविधि स्मारयति । ऊदुपधाया गोहः इति । गूहयतीति ॥ लघूपधगुणापवादः
२६०४ । दोषो णौ । (६-४-९०)
'दुषः' इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ।
२६०५ । वा चित्तविरागे । (६-४-९१)
विरागोऽप्रीतता । चित्तं दूषयति-दोषयति वा कामः । 'मितां ह्रस्वः' (सू २५६८) । भ्वादौ चुरादौ च मित उक्ताः ।घटयति । 'जनीजॄष्---' । जनयति-जरयति । जृणातेस्तु । जारयति 'रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः' (वा ४०६७) । मृगरमणमाखेटकम् । रञ्जयति मृगान् । 'मृग--' इति किम् । रजयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगान्तृणदानेन । चुरादिषु ज्ञपादिश्चिञ् । 'चिस्फुरोर्णौ' (२५६९) । चपयति-चययतीत्युक्तम् । चिनोतेस्तु । चापयति-चाययति । स्फारयति-स्फोरयति । अपुस्फरत्-अपुस्फुरत् ।
ऊत्त्वमिति भावः । दोषो णौ ॥ उपधाया इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः तस्य कृतलघूपधगुणस्य निर्देश । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ॥ णाविति शेष । दूषयतीति ॥ लघूपधगुणापवाद ऊत् । दुषो णावित्येव सुवचम् । वा चित्तविरागे ॥ ऊदुपधाया इति, दोषो णाविति, चानुवर्तते । चित्रविरागे दुष उपधाया ऊद्वास्यात् णाविति फलितम् । विरागपदस्य विवरण अप्रीततेति । इच्छाविरह इत्यर्थः । चित्तमिति ॥ चित्त दुष्यति स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्त भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्वः इति ॥ णौ मितामुपधाया ह्रस्वः इति प्राग्व्याख्यातमपि स्मारयति । जनी जॄषिति ॥ इदमपि व्याख्यात स्मार्यते । जृणातेस्त्विति ॥ श्नाविकरणस्य अषित्त्वान् न मित्त्वमिति भावः । रञ्जेर्णाविति ॥ णे कित्त्वाभावात् अनिदितामित्यप्राप्तौ वचनम् । मृगरमणपदस्य विवरण आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति ॥ 'रञ्ज रागे' शब्विकरण । 'रञ्जेश्च' इति शपि नलोपः । रजन्ति मृगाः ग्राह्या भवन्ति । तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थ । अत्र नकारलोपः । रञ्जयति पक्षिणः इति ॥ पक्षिणो रजन्ति ग्राह्या भवन्ति । तान् तादृग्व्यापाराविषयान् करोतीत्यर्थ । पक्षिग्रहणमिद न मृगयेति मन्यते । रञ्जयति मृगान् तृणदानेनेति ॥ धावतो मृगान्
रक्षणाय तृणसमर्पणेन बन्धनस्थानकान् करोतीत्यर्थः । चुरादिष्विति ॥ चुरादिषु ज्ञपादिपञ्चकान्तर्गताश्चिञ्धातुरस्ति तस्मात् स्वार्थणिचि कृते 'चिस्फुरो' इति आत्त्वपक्षे पुकि मित्त्वादुपधाह्रस्वे चपयतीति रूपम् । आत्त्वाभावे तु वृद्धौ आयादेशे मित्त्वाध्द्रस्वे चययतीति रूपमुक्तञ्चुरादावित्यर्थः । चिनोतेस्त्विति ॥ श्नुविकरणस्य तु चिञ्धातोर्हेतुमण्णो 'चिस्फुरोः' इति आत्त्वे पुकि मित्त्वाभावाध्द्रस्वाभावे चापयतीति रूपम् । आत्त्वाभावे वृद्धौ आयादेशे मित्त्वाभावाध्द्रस्वाभावे चाययतीति रूपमित्यर्थ । स्फारयति-स्फोरयतीति ॥ 'चिस्फुरोः' इत्यात्त्वविकल्पः । अपुस्फरत्-अपुस्फुरदिति ॥ स्फुर् इ अ त् इति स्थिते द्वित्वे कर्तव्ये णावच
२६०६ । उभौ साभ्यासस्य । (८-४-२१)
साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ।
२६०७ । णौ गमिरबोधने । (२-४-४६)
इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति । 'इण्वदिक' (वा १५७७) । अधिगमयति । 'हनस्तोऽचिण्णलोः' (सू २५७४) । 'हो हन्तेः' इति कुत्वम् । घातयति । 'ईर्ष्यतेस्तृतीयस्येति वक्तव्यम्' (वा ६४०६) तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आद्ये षकारस्य द्वित्वम् वारयितुमिदम् । द्वितीये तु 'अजादेर्द्वितीयस्य' (सू २१७६) इत्यस्यापवादतया सन्नन्ते
आदेशस्य निषिद्धतया स्फुरित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णाविति उत्तरखण्डे आत्त्वविकल्पः । आत्त्वपक्षे उपधाह्रस्व इति भावः । उभौ साभ्यासस्य ॥ अनितेरित्यनुवर्तते । 'अन प्राणने' इतिधातेरित्यर्थ. । 'रषाभ्यान्नो ण.' इत्यधिकृतम् । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादित्यनुवर्तते । तदाह । साभ्यासस्येत्यादिना ॥ निमित्ते सतीति ॥ उपसर्गस्थे रेफे सतीत्यर्थः । प्राणिणदिति ॥ अन् इ अ त् इति स्थिते 'अनितेः' इति णत्वस्यासिद्धत्वात् नि इत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवधानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः । नच 'पूर्वत्रासिद्धीयमद्विर्वचने' इति निषेधात् द्वित्वे कर्तव्ये णत्वस्यासिद्धत्वविरहेण परत्वात् कृते णत्वे ततः पश्चात् द्वित्वे प्राणिणदिति सिद्धमिति वाच्यम् ।
अत एव 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यत्वविज्ञानात् । तेन ऊर्णुनावेत्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृते अभ्यासोत्तरखण्डे णत्वाभावसिद्धिरित्यन्यत्र विस्तरः । णौ गमिरबोधने ॥ 'इणो गा लुडि' इत्यतः इण इत्यनुवर्तते । तदाह । इणो गमिरिति ॥ मकारादिकार उच्चारणार्थ. । गमयतीति ॥ प्रापयतीत्यर्थ. । प्रत्याययतीति ॥ बोधयतीत्यर्थ.। लुडि प्रत्याययत् । इणो णिचि 'इणो यण्' इति यणम्बाधित्वा परत्वात् वृद्धौ आयादेशे आय् इ अ त् इति स्थिते यि इत्यस्य द्वित्वम् । नच द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृध्देर्निषेध. शङ्क्य. । 'अजादेर्द्वितीयस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाभावात् 'इक् स्मरणे' इत्यस्य इण्वत्त्वमुक्त स्मारयति । इण्वदिकः इति । अधिगमयतीति ॥ स्मारयतीत्यर्थ । हन्तेर्ञिति णिति च तकारादेशमुक्त णौ स्मारयति । हनस्तोऽचिण्णलोरिति । कुत्वमिति ॥ हस्येति शेषः । उपधावृद्धि मत्वा आह । घातयतीति ॥ लुडि अजीघतत् । ईर्ष्यतेर्णौ रूपम् । वक्तव्यमिति ॥ द्वित्वमिति शेषः । इति वार्थः इति ॥ 'न न्द्राः' इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ॥ तृतीयस्य व्यञ्जनस्येति पक्षे इत्यर्थः । षकारस्येति ॥ अन्यथा ईर्ष्य् इ अ त् इति स्थिते 'नन्द्राः' इति रेफ वर्जयित्वा षकारसहितस्य ष्यि इत्यस्य द्वित्व स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्ट न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवञ्च यकारमात्रस्य द्वित्वे णिलोपे सयुक्तद्वियकारमिष्ट सिध्द्यतीत्यर्थः । द्वितीये इति ॥ तृती
प्रवर्तते । ऐर्ष्य्यत्-ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चिङि षकार एवाभ्यासे श्रूयते । हलादिशेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्त्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन 'प्रार्थयन्ति शयनोत्थितं प्रियाः' इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ।
इति तिङन्तणिच्प्रकरणम् ।
यैकाच इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ॥ उक्तवार्तिकमिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईष्य् इति प्रथमैकाच् ष्यिस् इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचस्सम्भवात्तस्य द्वित्वविधि.। अन्यथा 'अजादेर्द्वितीयस्य' इति स्यादिति भाव. । ऐर्ष्य्यदिति ॥ यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकार रूपम् । अथ द्वितीयव्याख्यायां रूपमाह । ऐर्षिष्यदिति ॥ तदुपपादयति । द्वितीयव्याख्यायामिति ॥ ण्यन्ताच्चडि ईर्ष्य् इ अ त् इति स्थिते 'नन्द्राः' इति निषेधाद्रेफ वर्जयित्वा 'अजादेर्द्वितीयस्य' इति ष्यि इत्यस्य द्वित्व, नतु यकारमात्रस्य प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र ष्यि इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकार एव हल् इकारशिरस्कः श्रूयते, नतु यकारोऽपीत्यर्थः । कुत इत्यत आह । हलादिशेषादिति ॥ ननु तृतीयस्यैकाच इति द्वितीयव्याख्यायां इह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह । द्वित्वं तु द्वितीयस्यैवेति ॥ एकाच इति शेषः । कुत इत्यत आह । तृतीयाभावेनेति ॥ ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, नतु चडि परे तृतीयैकाजस्ति । अतोऽत्र तृतीयैकाच इति वार्तिकन्न प्रवर्तते । तस्मात् द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवञ्च तृतीयस्यैकाच इति वार्तिक सन्नन्त एव प्रवर्तते । ईर्ष्यतेरामः सत्त्वेन ततः परस्य लिटोऽभावादिति बोध्द्यम् । ननु 'प्रार्थयन्ति श्यनोत्थित प्रियाः' इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिक णिजन्तम् । तस्यागर्वीयतया आत्मनेपदप्रसङ्गात् । नापि हेतुमण्यन्तम् । स्वाभीष्ट याचते इत्यर्थे तदसम्भवात् । नहि प्रयोजकव्यापाराभावे तत्प्रवृत्तिरस्तीत्यत आह । निवृत्तेति ॥ निवृत्त प्रेषण यस्मात् सः निवृत्तप्रेषणः सम्प्रति अविवक्षितप्रेषणादित्यर्थ । तस्माद्धातोः भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्त । 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति । इदञ्च 'णेरणौ' इति सूत्रे भाष्ये स्पष्टम् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां हेतुमण्णिचो निरूपणं समाप्तम् ।
श्रीरस्तु
॥ अथ तिङन्तसन्प्रकरणम् ॥
२६०८ । धातोः कर्मणः समानकर्तृकादिच्छायां वा । (३-१-७)
इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । 'सन्यत:' (सू २३१७) । पठितुमिच्छति पिपठिषति । 'कर्मण:' किम् । गमनेनेच्छतीति करणान्माभूत् । 'समानकर्तृकात्' किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । 'लुङ्सनोर्घस्लृ' (सू २४२७) । 'एकाच उपदेशे–' (सू २२४६) इति नेट् । सस्य तत्वम् । अत्तुमिच्छति ।
अथ सन्प्रक्रियाः निरूप्यन्ते । धातोः कर्मणः ॥ 'गुप्तिज्किद्भयः' इत्यतस्सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्ताम्प्रत्येव कर्मत्व विवक्षितम् । तथा कर्मणस्समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सामानाधिकरण्येनान्वेति । एवञ्च इच्छासमानकतृकत्वे सति इच्छाकर्मीभूतो यो व्यापार. तद्वाचकाद्धातोरिच्छाया सन् वा स्यादिति फलति । तदाह । इषिकर्मणः इत्यादि ॥ इषिरिच्छा । इषिणा एककर्तृकत्वात् इषिकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम् । धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह । धातोरिति ॥ धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्व, नतु धातो. परस्य । अन्यथा जुगुप्सते इत्यत्र धातोरित्यविहितस्यापि 'गुप्तिज्किद्भ्यः' इति सन आर्धधातुकत्वापत्तौ लघूपधगुणापत्तेरिति भावः । अस्य सन आर्धधातुकत्वे फलमाह । इडिति ॥ द्वित्वमिति ॥ 'सन्यडोः' इत्यनेनेति भाव. । अभ्यासस्य इत्त्वविधि स्मारयति । सन्यतः इति ॥ पठितुमिच्छतीति ॥ भावस्तुमुनर्थः । 'अव्ययकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथाच पठितुमित्यस्य पठनक्रियैवार्थः । तस्मिन् पठने इच्छाकर्मत्व इच्छासमानकर्तृकत्वञ्च सना गम्यते । तथाच स्वकर्तृक पठनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तते इत्युक्त भवति । अथ 'अद भक्षणे' इति धातो. सनि घस्लृभाव स्मारयति । लुङ्सनोर्घस्लृ इति ॥ घस् स इति स्थिते इदमाशङ्क्य आह । एकाचः इति ॥ नेडिति ॥ घस् स इति स्थिते आह । सस्य तत्वमिति ॥ 'सस्स्यार्धधातुके' इत्यनेनेति भावः । जिघत्सतीति ॥ द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः ।
जिघत्सति । 'ईर्ष्यतेस्तृतीयस्य (वा ३४०३) इति यिसनोर्द्वित्वम् । ईर्ष्य्यिषति-ईर्ष्यिषिषति ।
२६०९ । रुदविदमुषग्रहिस्वपिप्रच्छः संश्च । (१-२-८)
एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ।
२६१० । सनि ग्रहगुहोश्च । (७-२-१२)
ग्रहेर्गुहेरुगन्ताच्च सन इण्ण स्यात् । 'ग्रहिज्या–' (सू २४१२) इति सम्प्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः ।जिघृक्षति । सुषुप्सति ।
२६११ । किरश्च पञ्चभ्यः । (७-२-७५)
यिसनोर्द्वित्वमिति ॥ तृतीयस्य व्यञ्जनस्येति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे सन्नष्षत्वे सयुक्तद्वियकार रूपमिति भावः । तदाह । ईर्ष्य्यिषतीति ॥ तथाच सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः । तृतीयस्यैकाच इति पक्षे ईर्ष्य् इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्त्वे सकारद्वयस्यापि षत्वे रूप मत्वा आह । ईर्ष्यिषिषतीति ॥ अत्र तु सन्नन्ते इकाररेफषकारयकारेकारषकारेकारषकाराकारा । रुदविद ॥ इका निर्देशात् सम्प्रसारणे गृहीति निर्देशः । स्वपीति इकारस्तु उच्चारणार्थ., न त्विका निर्देशः । सुपीति सम्प्रसारणप्रसङ्गात् । चकारात् 'मृडमृदगुध' इति पूर्वसूत्रस्थ क्त्वेति समुच्चीयते । तदाह । सन् क्त्वा चेति ॥ किताविति ॥ 'असयोगाल्लिट्' इत्यतस्तदनुवृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये । 'हलन्ताच्च' इति सिद्धे रुदविदमुषाङ्ग्रहण 'रलो व्युपधात्' इति विकल्पबाधनार्थम् । ग्रहेस्तु क्त्वायां 'न क्त्वा सेट्' इति निषेधबाधनार्थम् । स्वपिप्रच्छयोस्तु क्त्वाया कित्त्वेऽपि सनः अप्राप्तकित्त्वविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्त्वाल्लघूपधगुणाभाव. । सनि ग्रहगुहोश्च ॥ चकारात् 'श्र्युकः किति' इत्यतः उक इत्यनुकृष्यते, न तु श्रयतिः । तस्य 'सनीवन्तर्ध' इति विकल्पस्य वक्ष्यमाणत्वात् । ‘नेड्वशिकृति’ इत्यतः नेडिति चानुवर्तते । तदाह । ग्रहेरित्यादि ॥ ग्रहधातोर्नित्यमिटि प्राप्ते गुहेः ऊदित्त्वाद्विकल्पे प्राप्ते वचनम् । ग्रहिज्येति ॥ ग्रह् स इति स्थिते सन कित्त्वात् ‘ग्रहिज्या’ इति रेफस्य सम्प्रसारणम् ॠकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात् कत्वे सस्य षत्वे च कृते झषन्तत्वाभावे कथ भष्भाव इत्यत आह । सनः षत्वस्येति ॥ कत्वस्यासिद्धत्वादित्येव सुवचम् । जिघृक्षतीति ॥ गृह् स इति स्थिते हकारादिणः परस्य सस्य षत्व परत्वात् प्राप्त तस्यासिद्धत्वात् हस्य ढत्वे भष्भावः ततः कत्वे कात्परस्य षत्वमिति क्रम इति भावः । गुहे: जुघुक्षतीत्युदाहार्यम् । उगन्तात् बुभूषति । यद्यपि 'श्र्युकः किति' इत्येव उगन्तात् सिद्धम् । तथाप्यत्र चकाराभावे सनि ग्रहगुहोरेव इट् इति नियमः स्यात् । तन्निवृत्त्यर्थश्चकार इत्याहुः । सुषुप्सतीति ॥ सन कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणं लघूपधगुणाभावश्च । किरश्च पञ्चभ्यः ॥ किर इति पञ्चमी । किरादिभ्य इति विवक्षितम् । तुदादौ 'कॄ
'कृ' 'गॄ' 'दृङ्' 'धृङ्' 'प्रच्छ्' एभ्य: सन इट् स्यात् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अत्रेटो दीर्घो नेष्टः । दिदरिषते। दिधरिषते । कथम् 'उद्दिधीर्षुः' इति । भौवादिकयोर्धृङ्धृञोरिति गृहाण ।
२३१२ । इको झल् । (१-२-९)
इगन्ताज्झलादिः सन्कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् 'मीनातिमिनोति-' (सू २५०८) इत्यात्त्वं न । अत एव 'सनि मीमा–' (सू २६२३) इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ।
२६१३ । हलन्ताच्च । (१-२-१०)
इक्समीपाद्धलः परो झलादिः सन्कित्स्यात् । गुहू । जुघुक्षति ।
विक्षेपे, गॄ निगरणे, दृड् आदरणे, धृड् अवस्थाने, प्रच्छ ज्ञीप्सायाम्' इति स्थिताः । तदाह । कॄगॄ इत्यादिना ॥ सन इडिति ॥ 'स्मिपूड्रञ्ज्वशा सनि' इत्यतः 'इडत्त्यर्ति' इत्यतश्च तदनुवृत्तेरिति भावः । एषामनिट्त्वाद्वचनम् । पिपृच्छिषतीति ॥ सन. कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणम् । चिकरिषतीति ॥ कॄधातो सनि इटि रूपम् । जिगरिषतीति ॥ 'गॄ निगरणे' इत्यस्मात्सनि इटि रूपम् । जिगलिषतीति ॥ 'अचि विभाषा' इति लत्वविकल्प इति भावः । इट् सनि वेत्यस्यायमपवाद । चिकरिषति, जिगलिषति इत्यत्र वॄतो वा' इति दीर्घमाशङ्क्य आह । अत्रेटो दीर्घो नेष्टः इति ॥ वार्तिकमिदं वृत्तौ स्थितम् । भाष्ये तु न दृश्यते । दिदरिषते । दिधरिषते इति ॥ दृडो धृडश्च सनि इटि रूपम् । 'पूर्ववत्सनः' इत्यात्मनेपदम् । कथमिति ॥ उद्दिधीर्षुरिति कथमित्यन्वय. । किरादित्वेन इट्प्रसङ्गादिति भावः । भौवादिकयोरिति ॥ 'धृड् अवस्थाने, धृञ् धारणे' इत्यनयोर्भौवादिकयोस्सनि किरादित्वाभावादिडभावे ‘अज्झनगमां सनि’ इति दीर्घे 'ॠत इद्धातो.' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घे षत्वे उद्दिधीर्ष इत्यस्मात् 'सनाशसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण जानीहीति शङ्ककम्प्रति उत्तरम् । इको झल् । इगन्तादिति ॥ सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ॥ 'रुदविदमुषग्रहि' इत्यतः 'असयोगाल्लिट् कित्' इत्यतश्च तदनुवृत्तेरिति भावः । बुभूषतीति ॥ कित्वान्न गुणः । उकः परत्वान्नेट् । दिदीषते इति ॥ सन कित्त्वान्न गुण । दीडो डित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एज्विषयत्वाभावादिति ॥ कित्त्वे गुणनिषेधादिति भावः । अत एवेति ॥ यद्येज्विषयादन्यत्राप्यात्व स्यात् तदा मीमेति पृथक् ग्रहणमनर्थक स्यात् । “गामादाग्रहणेष्वविशेषः” इत्युक्तेरिति भावः । हलन्ताच्च ॥ 'इको झल्' इति पूर्वसूत्रमनुवर्तते । 'रुदविदमुष' इत्यतस्सनिति 'असयोगाल्लिट्' इत्यतः किदिति च । हलति लुप्तपञ्चमीक पदम् । अन्तशब्दः समीपवाची । तदाह । इक्समीपादित्यादि ॥ जुघुक्षतीति ॥ सनः कित्त्वान्न गुणः । 'सनि ग्रहगुहोश्च'
बिभित्सति । 'इकः' किम् । यियक्षते । 'झल्' किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृंहू तितृक्षति-तितृंहिषति ।
२६१४ । अज्झनगमां सनि । (६-४-१६)
अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । 'सन्लिटोर्जे:' (सू २३३१) । जिगीषति । 'विभाषा चे:' ( सू २५२५) । चिकीषति--चिचीषति । जिघांसति ।
२६१५ । सनि च । (२-४-४७)
इणो गमिः स्यात्सनि न तु बोधने । जिगमिषति । बोधने प्रतीषिषति ।
इत्यूदित्त्वेऽपि नित्यन्नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति ॥ भिदेस्सन. कित्त्वान्न गुण. । यियक्षते इति ॥ अत्र हल: इक्समीपत्वाभावान्न कित्त्वम् । सति तु कित्त्वे यजेस्सम्प्रसारण स्यादिति भावः । विवर्धिषते इति ॥ वृधेस्सनि रूपम् । अत्र सन इटि झलादित्वन्नेति भाव । ननु ‘तृहू हिंसायाम्’ तुदादि नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्सन . 'अनिदिताम्' इति नलोपार्थङ्कित्त्वमिष्यते । तन्नोपपद्यते । न ह्यत्र इत्समीपादनुस्वारात् सन् परो भवति । हकारेण व्यवधानात् । हकारात्तु परः सन् इक्समीपाद्धल परो न भवति । अनुस्वारेण व्यवधानादित्यत आह । हल्ग्रहणं जातिपरमिति ॥ हल्त्वजात्याक्रान्तैकानेकव्यक्तिपरमित्यर्थ. । तृंह्विति ॥ तृहूधातोः प्रदर्शनमिदम् । तितृक्षतीति ॥ ऊदित्त्वादिडभावे पक्षे रूपम् । सनः कित्त्वान्नलोपः । लघूपधगुणाभावश्च । ढत्वकत्वषत्वानि । इट्पक्षे आह । तितृंहिषतीति ॥ झलादित्वाभावेन कित्त्वाभावान्नलोपो नेति भावः । अज्झनगमां सनि ॥ अच् हन् गम् एषान्द्वन्द्वः । 'नोपधाया.' इत्यतः उपधायाः इत्यनुवृत्त हनगमोरन्वेति नत्वजन्ते । असम्भवात् । अङ्गस्येत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः । गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् । 'ढ्रलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । अजन्तानामित्यादिना ॥ झलादौ सनीति ॥ 'च्छ्वो शूठ्' इति सूत्रभाष्ये 'अज्झनगमाम्' इत्यत्र सन झला विशेषयिष्याम इत्युक्तेरिति भाव. । अथ जिधातोरभ्यासात् परस्य कुत्वविधि स्मारयति । सन्लिटोर्जेरिति ॥ जिगीषतीति ॥ जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति । विभाषा चेरिति ॥ चिकीषति--चिचीषतीति ॥ अजन्तत्वाद्दीर्घः । जिघांसतीति ॥ हनेः सनि 'अज्झन' इत्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य । दीर्घश्रुत्या अच इत्युपस्थिते । द्वित्वं 'अभ्यासाच्च' इति कुत्वम् । 'नश्च' इत्यनुस्वारः । सनि च ॥ 'इणो गा लुडि ' इत्यत. इण इति 'णौ गमिरबोधने' इत्यतः गमिरबोधने इति चानुवर्तते । तदाह । इणो गमिरित्यादि ॥ जिगमिषतीति ॥ गमेरिति इट् । अत्र 'अज्झनगमाम्' इति दीर्घो न । झलादौ सनीत्युक्तेः । प्रतीषिषतीति ॥
42
'इण्वदिक:' (वा १५७७) । अधिजिगमिषति । कर्मणि तङ् । 'परस्मैपदेषु' इत्युक्तेर्नेट् । 'झलादौ सनि' इति दीर्घः । जिगांस्यते अधिजिगांस्यते । अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । सञ्जिगंसते ।
२६१६ । इङश्च । (२-४-४८)
इङो गमिः स्यात्सनि । अधिजिगांसते ।
२६१७ । रलो व्युपधाद्धलादेः संश्च । (१-२-२६)
उश्च इश्च वी । ते उपधे यस्य तस्माद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । 'द्युतिस्वाप्योः सम्प्रसारणम्' (२३४४) । दिद्युतिषते--दिद्योतिषते । रुरुचिषते-रुरोचिषते । लिलिखिषति-लिलेखिषति । 'रलः' किम् । दिदेविषति । ‘व्युपधात्’ किम् । विवर्तिषते । 'हलादेः' किम् । एषिषिषति ।
बोधयितुमिच्छतीत्यर्थः । अत्र बोधनार्थत्वादिणो न गमिः । इ स इति स्थिते 'अजादेर्द्वितीयस्य' इति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः । 'इक् स्मरणे' इत्यस्याह । इण्वदिकः इति ॥ वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थ । ततश्च 'सनि च' इति गमिरादेश इति भाव. । कर्मणि तङिति ॥ इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तडित्यर्थः । 'भावकर्मणोः' इत्यनेनेति भावः । परस्मैपदेष्विति ॥ 'गमेरिट् परस्मैपदेषु' इत्युक्तेस्तडि नेडित्यर्थः । झलादाविति ॥ 'अज्झन' इति झलादौ सनि विहितो दीर्घ इत्यर्थः । जिगांस्यते इति ॥ गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति ॥ स्मर्तुमिष्यते इत्यर्थः । इको रूपम् । जिगंस्यते इति ॥ गम्लृधातो सन्नन्तात्कर्मणि तडि रूपम् । गमेरजादेशत्वाभावान्न दीर्घः । इङश्च ॥ गमिः स्यात् सनीति ॥ 'णौ गमिः' इत्यतः 'सनि च' इत्यतश्च तदनुवृत्तेरिति भावः । इडो डित्त्वात् 'पूर्ववत्सनः' इति तड् ।परस्मैपदेष्वित्युक्तेर्नेट् । 'अज्झन' इति दीर्घ इति भावः । रलो ॥ क्त्वासनाविति ॥ चकारेण 'पूडः क्त्वा च' इत्यतः क्त्वायाः अनुकर्षादिति भावः । सेटाविति ॥ 'न क्त्वा सेट्' इत्यतस्तदनुवृत्तेरिति भाव । वा किताविति ॥ 'नोपधात्थफान्ताद्वा' इत्यतः 'असंयोगाल्लिट् कित्' इत्यतश्च तदनुवृत्तेरिति भावः । दिद्युतिषते इति ॥ 'द्युत दीप्तौ' अनुदात्तेत् । सनि द्वित्वे कित्त्वात् 'द्युतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणे पूर्वरूपे सनः कित्वान्न लघूपधगुण इति भावः । सनः कित्त्वाभावे आह । दिद्योतिषते इति ॥ 'पूर्ववत्सनः' इत्यात्मनेपदम् । एषिषिषतीति ॥ इष्धातोस्सन् इट् हलादित्वाभावेन कित्त्वाभावाद्गुणे एष् इस ति इति स्थिते 'अजादेर्द्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात् परमपि गुणम्बाधित्वा षिस् इत्यस्य द्वित्वे
इह नित्यमपि द्वित्वं गुणेन बाध्यते । 'उपधाकार्यं हि द्वित्वात्प्रबलम्' ओणेरॄदित्करणस्य सामान्यापेक्षज्ञापकत्वात् ।
२६१८ । सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।
(७-२-४९)
इवन्तेभ्यः ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे 'हलन्ताच्च' (सू २६१३) इति कित्त्वं । 'च्छ्वोः -' (सू २५६१) हति वस्य ऊठ् । यण् । द्वित्वम् दुद्यूषति-दिदेविषति । 'स्तौतिण्योरेव–' (सू २६२७) इति वक्ष्यमाणनियमान्न षः । सुस्यूषति-सिसेविषति ।
धात्ववयवस्य इकारस्य उपधात्वाभावादेव गुणाप्रसत्तेर्हलादेरिति व्यर्थमित्यत आह । इह नित्यमपि द्वित्वं गुणेन बाध्यते इति ॥ कुत इत्यत आह । उपधाकार्यं हि द्वित्वात्प्रबलमिति ॥ तच्च कुत इत्यत आह । ओणेरिति ॥ ओणे. ॠदित्करणस्य ज्ञापकत्वादित्यन्वय. । तथाहि । ओणृधातोः ण्यन्ताल्लुडि चडि 'णौ चड्युपधायाः' इति ह्रस्वस्य 'नाग्लोपिशास्वृदिताम्' इति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाह्रस्वनिषेधार्थमोणेः ॠदित्करणम् । उपधाह्रस्वे कृते तु उण् इ अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणदिति स्यात् । ओकारो न श्रूयेत इति स्थितिः । यदि तु नित्यत्वात् उपधाह्रस्वात् प्रागेव ओण् इ अ त् इत्यस्यां दशाया द्वित्वं स्यात् । तदा ओकारस्य उपधात्वाभावादेव ह्रस्वाप्रसक्तेस्तन्निषेधार्थमृदित्करणमनर्थक स्यात् । तस्मादुपधाह्रस्वात्मक उपधाकार्य द्वित्वात् प्रबलमिति विज्ञायते इत्यर्थ. । ननु भवतु उपधाह्रस्वो द्वित्वात् प्रबलः । प्रकृते तु उपधागुणः कथ द्वित्वात् प्रबलः स्यादित्यत आह । सामान्यापेक्षेति ॥ उपधाह्रस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात् प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु 'णौ चड्युपधाया.' इति सूत्रे यदयमोणिमृदितङ्करोति तत् ज्ञापयति द्विर्वचनाध्द्रस्वत्व बलीय इति भाष्ये विशिष्य उपधाह्रस्वग्रहणात् सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । सनीवन्तर्ध ॥ सनि इवन्तेति च्छेद । इवन्त ॠध भ्रस्ज दन् भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सन् एषान्द्वन्द्वः । इव् अन्ते येषान्ते इवन्ताः 'स्वरति' इत्यतः वेति 'इण्निष्ठायाम्' इत्यतः इडिति चानुवर्तते । तदाह । इवन्तेभ्यः इत्यादि॥ इवन्तस्य दिव्धातोरुदाहरिष्यन्नाह । इडभावे इति । वस्येति ॥ वकारस्येत्यर्थः । यणिति ॥ दकारादिकारस्य इति शेषः । द्वित्वमिति ॥ द्यु इत्यस्येति शेषः । दुद्यूषतीति ॥ 'अज्झन' इति दीर्घः । इट्पक्षे आह । दिदेविषतीति ॥ अझलादत्वान्न सनः कित्व अतो नोठ् किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तर सिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्क्य आह । स्तौतिण्योरिति । सुस्यूषतीति ॥ सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम् । इट्पक्षे आह । सिसेविषतीति ॥ ॠध्धातोः सनि ईर्त्सतीति रूप वक्ष्य
२६१९ । आप्ज्ञप्यृधामीत् । (७-४-५५)
एषामच ईत्स्यात्सादौ सनि ।
२६२० । अत्र लोपोऽभ्यासस्य । (७-४-५८)
'सनि मीमा-' (सू २६२३) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति रपरत्वम् चर्त्वम् । ईर्त्सति-अर्दिधिषति । बिभ्राज्जिषति—बिभर्जिषति-बिभ्रक्षति-विभर्क्षति ।
२६२१ । दम्भ इच्च । (७-४-५६)
दम्भेरच इत्स्यादीच्च सादौ सनि, अभ्यासलोपः । 'हलन्ताच्च' (सू
न्नाह । आप्ज्ञप्यृधामीत् ॥ सादौ सनीति ॥ 'सनि मीमाघुरभ' इत्यतः सनीति अच इति चानुवर्तते । 'स स्यार्धधातुके' इत्यत. सीत्यनुवृत्तं सनो विशेषणम् । तदादिविधिरिति भावः । अत्र लोपोऽभ्यासस्य ॥ 'सनि मीमा' इति 'आज्ञप्यृधामीत्' इति ‘दम्भ इच्च' इति 'मुचोऽकर्मकस्य गुणो वा' इति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते । तदाह । सनि मीमेत्यारभ्येति ॥ सूत्रचतुष्टयकार्ये कृते सतीत्यर्थः । ईप्सतीति ॥ आप्धातोस्सनि आकारस्य ईत्त्वे 'अजादेर्द्वितीयस्य' इति प्स इत्यस्य द्वित्वे अभ्यासलोप इति भावः । रपरत्वमिति ॥ ॠधे. सनि इडभावे ॠकारस्य ईत्त्वे रपरत्वमित्यर्थः । चर्त्वमिति ॥ ईर्ध् स इति स्थिते धस्य चर्त्वे 'न न्द्राः' इति रेफं वर्जयित्वा 'अजादेर्द्वितीयस्य' इति त्स इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः । “पूर्वत्रासिद्धीयमद्वित्वे” इति वचनात् चर्त्वे कृते द्वित्वमिति बोध्द्यम् । इट्पक्षे आह । आर्दिधिषतीति ॥ सनः सादित्वाभावादित्त्वाभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भाव । भ्रस्ज्धातोः सनः इटि 'भ्रस्जो रोपधयोः' इति रमागमाभावे आह । बिभ्रज्जिषतीति ॥ सस्य श्चुत्वेन शः शस्य जश्त्वेन ज: डिदभावात् 'ग्रहिज्या' इति सम्प्रसारणन्न । बिभर्जिषतीति ॥ इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि सकारात्प्राक् रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति ॥ इडभावे रमागमाभावे च रूपम् । जस्य कुत्व सस्य षः । बिभर्क्षतीति ॥ इडभावे रमागमे च रूपम् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे । दम्भ इच्च ॥ 'सनि मीमा' इत्यतः सनीति अच इति चानुवर्तते । चकारात् 'आप्ज्ञप्यृधाम्' इति सूत्रादीदिति समुच्चीयते । ‘स सि’ इत्यतस्सीत्यनुवृत्त सनो विशेषण तदादिविधिः । तदाह । दम्भेरच इत्यादि ॥ अभ्यासलोपः इति ॥ 'अत्र लोप' इत्यनेनेति शेष . । दम्भ् स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति । हलन्ताच्चेत्यत्रेति ॥ हल्ग्रहण हल्त्वजात्याक्रान्तैकानेकव्यक्तिपरमिति प्रागुक्तमित्यर्थः । ततः किमित्यत आह ।
२६१३) इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति-धीप्सति-दिदम्भिषति । शिश्रीषति-शिश्रयिषति । 'उदोष्ठ्यपूर्वस्य' (सू २४९४) । सुस्वूर्षति-सिस्वरिपति । युयूषति-यियविषति । ऊर्णुनूषति ऊर्णुनुविषति-ऊर्णुनविषति । नच परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । 'द्विर्वचनेऽचि' (सू २२४३) इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा । नच सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् । “कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते, न
तेनेति । धिप्सतीति ॥ 'सनीवन्त' इति इडभावे इत्त्वे रूपम् । धीप्सतीति ॥ इडभावे ईत्त्वे च रूपम् । दिदम्भिषतीति ॥ इट्पक्षे सनो झलादित्वाभावादकित्त्वान्नलोपो नेति भाव. । शिश्रीषतीति ॥ 'सनीवन्त' इति इडभावे अज्झनेति दीर्घः । सन कित्त्वान्न गुणः । इट्पक्षे आह । शिश्रयिषतीति ॥ अझलादित्वान्न कित्त्व नाप्यज्झनेति दीर्घः । स्वृधातोः सनि ॠकारस्य उत्त्वविधि स्मारयति । उदोष्ठ्येति । सुस्वूर्षतीति ॥ सनीवन्तेति इडभावे ॠकारस्य 'अज्झन' इति दीर्घे कृते उत्त्वे रपरत्वे 'उपधायाञ्च' इति दीर्घ इति भावः । सिस्वरिषतीति ॥ स्वृ इत्यस्य द्वित्वे उरदत्वे इत्वमिति भावः । युयूषतीति ॥ 'सनीवन्त' इति इडभावे 'अज्झन' इति दीर्घः । यियविषतीति ॥ इट्पक्षे 'द्विर्वचनेऽचि' इति गुणनिषेधात् यु इत्यस्य द्वित्वे 'ओः पुयण्जि' इतीत्त्वमिति भावः । ऊर्णुनूषतीति ॥ 'सनीवन्त' इति इडभावपक्षे 'न न्द्रा' इति रेफ वर्जयित्वा नुस् इत्यस्य द्वित्वे अज्झनेति दीर्घः । 'इको झल्' इति सन कित्त्वान्न गुणः । इट्पक्षे तु 'विभाषोर्णोः' इति सनः कित्त्वविकल्पं मत्वा आह । ऊर्णुनुविषति-ऊर्णुनविषतीति ॥ क्डित्त्वपक्षे गुणाभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवड् । डित्वाभावपक्षे नु इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः । उभयत्राप्यभ्यासे उवर्णः श्रूयते । ननु किं डित्त्वाभावपक्षे ऊर्णु इस इति स्थिते द्वित्वात् प्रागेव परत्वात् गुणे अवादेशे च कृते नव्शब्दस्य अभ्यासस्यात इत्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्क्य निराकरोति । द्विर्वचनेऽचीति ॥ अस्मिन् सूत्रे स्थानिवदित्यनुवर्त्य रूपातिदेश चाश्रित्य द्वित्वनिमित्ते अचि परे यः अजादेशः सः द्वित्वे कर्तव्ये स्थानिरूपम्प्रतिपद्यते इत्येकोऽर्थः । 'न पदान्त' इत्यतो नेत्यनुवर्त्य द्वित्वनिमित्ते अचि यो अजादेशः स न स्यात् द्वित्वे कर्तव्ये इत्यन्योऽर्थः । तत्र प्रथमव्याख्याने तु तस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या नु इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते । द्वितीयव्याख्यानेऽपि द्वित्वात् प्राक् गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः । ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूपकार्यभाक्त्वेन तदन्तर्गतस्य इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम् । नहि कार्यी निमित्ततया आश्रीयते इत्युक्तेः । तथाच द्वित्वे कर्तव्ये द्वित्वनिमित्ताच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशङ्क्य निराकरोति । न च सन्नन्तस्येति ॥ कार्यमनुभवन्निति ॥ अत्र व्याख्यानमेव शरणम् ।
त्वननुभवन्नपि' (प ११) । न चेह सन् द्वित्वमनुभवति । बुभूर्षति- बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञः पकारान्तश्चौरादिकश्च इडभावे 'इको झल्' (सू २६१२) इति कित्त्वान्न गुणः । 'अज्झन–' (सू २६१४) इति दीर्घः ।परत्वाण्णिलोपेन बाध्यते । 'आप्ज्ञप्--' (सू २६१९) इति ईत् । ज्ञीप्सति--जिज्ञपयिपति । अमितस्तु जिज्ञापयिषति । 'जनसन--' (सू २५०४) इत्यात्त्वम् । सिषासति-सिसनिषति । १तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः' (वा ५०५९) ।
२६२२ । तनोतेर्विभाषा । (६-४-१७)
अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति-तितंसति-तित-
न चेह सन्निति ॥ किन्तु नुशब्द इत्यर्थ । बुभूर्षतीति ॥ सनीवन्तेति इडभावपक्षे भृ स इति स्थिते 'अज्झन' इति दीर्घे 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे उत्तरखण्डस्य 'हलि च' इति दीर्घः । सन. कित्त्वान्न गुण इति भाव. । इट्पक्षे आह । बिभरिषतीति ॥ भृ इस इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः । ज्ञपिः पुगन्तो मित्सज्ञक इति 'सनीवन्त' इति सूत्रे गृह्यत इति शेषः । 'मारणतोषणनिशामनेषु ज्ञा' इति घटादौ ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वात् उपधाह्रस्वे ज्ञपीति ण्यन्तो गृह्यत इत्यर्थः । पकारान्तश्चौरादिकश्चेति ॥ 'ज्ञपमिच्च' इति यः स्वतः पकारान्तः पठित चुरादौ न तु पुगन्तः सोऽपि 'सनीवन्त' इति सूत्रे गृह्यते इत्यर्थः । इडभावे इति ॥ उभयविधादपि ण्यन्तात् ज्ञपि इत्यस्मात् सनि इडभावपक्षे णे परस्य सनः 'इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थ । परत्वादिति ॥ णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः । तथाच ज्ञीप् इत्यस्य द्वित्वे हलादिशेषे 'अत्र लोपः' इत्यभ्यासलोपे परिनिष्ठितमाह । ज्ञीप्सतीति ॥ इट्पक्षे आह । जिज्ञपयिषतीति ॥ अमितस्त्विति ॥ मारणादिव्यतिरिक्तार्थकस्य घाटादिकस्य हेतुमण्ण्यन्तस्य 'ज्ञा नियोगे' इति चौरादिकण्यन्तस्य च मित्त्वाभावेन उपधाह्रस्वाभावात् 'सनीवन्त' इत्यत्र ज्ञपिग्रहणेनाग्रहणान्नित्यमेव इडिति भावः । तदाह । जिज्ञापयिषतीति ॥ सनधातोस्सनि आह । जनसनेत्यात्त्वमिति ॥ नकारस्येति शेषः । सिषासतीति ॥ आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्रस्वे अत इत्त्वे षत्वे रूपम् । नच 'स्तौतिण्योः' एवेति नियमान्न ष इति शङ्क्यम् । सनः षत्वे सत्येव तत्प्रवृत्ते । इडभावे त्वाह । सिसनिषतीति ॥ अत्र 'जनसन' इत्यात्त्वन्तु न । सनो झलादित्वाभावात् स्तौतिण्योः' एवेति नियमान्न ष इति भाव. । तनिपतीति ॥ प्राप्तविभाषेयम् । तनोर्तेर्विभाषा ॥ उपधाया दीर्घः इति ॥ 'नोपधायाः' इत्यत 'ढ्रलोपे' इत्यतश्च तदनुवर्तते इति भाव: । झलादौ सनीति ॥ 'अज्झन' इत्यतस्तदनुवर्तते । तत्र झलादाविति भाष्ये
१ इद च 'सनीवन्त-' (सू २६१८) इति सूत्रे एव 'भरज्ञपिसनितनिपतिदरिद्राणाम् इति केचित्पठन्तीति सूत्रशेषभूतमिति काशिका । अपर वार्तिकमेवेति कैयटाशयः ।
निषति। 'आशङ्कायां सन्वक्तव्यः' (वा १७०७) श्वा मुमूर्षति । कूलं पिपतिषति ।
२६२३ । सनि मीमाघुरभलभशकपतपदामच इस् । (७-४-५४)
एषामच इस्स्यात्सादौ सनि । अभ्यासलोपः । 'स्कोः--' (सू ३८०) इति सलोपः । पित्सति । दिदरिद्रिषति-दिदरिद्रासति 'डु मिञ्' 'मीञ्' आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपाविशेषादिस् । 'स:सि-' (सू २३४२) इति तः । मि़त्सति । मित्सते । 'मा' माने । मित्सति । माङ्मेङोः । मित्सते । 'दोदाणोः' । दित्सति । 'देङ्' । दित्सते । 'दाञ्' । दित्सति । दित्सते । 'धेट्' । धित्सति । 'धाञ्' धित्सति-धित्सते । रिप्सते । लिप्सते । 'शक्ल्' । शिक्षति । 'शक मर्षणे' इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सति । 'राधो हिंसायां सनीस् वाच्यः' (वा ४६३५) ।रित्सति । 'हिंसायाम्' किम् । आरिरात्सति ।
स्थितमिति भाव । आशङ्कायामिति ॥ शङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः । श्वा मुमूर्षतीति ॥ शङ्कितमरणो भवतीत्यर्थ । कूलं पिपतिषतीति ॥ शङ्कितपतनम्भवतीत्यर्थः । 'तनिपति' इति इट्पक्षे रूपम् । पतेस्सनि इडभावपक्षे त्वाह । सनि मीमा ॥ सादौ सनीति ॥ 'स. सि' इत्यत. सीत्यनुवृत्तेरिति भावः । अभ्यासलोपः इति ॥ 'अत्र लोपः' इत्यनेनेति भावः । पिस्त् इस ति इति स्थिते आह । स्कोरिति ॥ दरिद्रातेस्सनि 'तनिपति' इति इड्विकल्पमुदाहरति । दिदरिद्रिषति-दिदरिद्रासतीति । डु मिञिति ॥ 'डु मिञ् प्रक्षेपणे' स्वादिः 'मीञ् हिसायाम्' क्र्यादिः आभ्यां सन्नित्यर्थ । 'सनि मीमा' इत्यत्र मीग्रहणेन एतयोरुभयोर्ग्रहणमिति भाव । ननु मी इति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथङ्ग्रहणमित्यत आह । कृतदीर्घस्येति ॥ डु मिञ्धातोस्सनि 'अज्झन' इति कृतदीर्घस्य तथा 'मीञ् हिसायाम्' इति स्वतःसिद्धदीर्घस्य च मीरूपाविशेषादुभयोरपि ग्रहणामित्यर्थ । सः सीति ॥ उभयोरपि धात्वोः मी स इति स्थिते 'सनि मीमा' इति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपे 'स:सि' इति सस्य तकार इत्यर्थ । मित्सति । मित्सते इति ॥ प्रकृते ञित्त्वात् 'पूर्ववत्सनः' इति उभयपदित्त्वम्। माङ्मेङोरिति ॥ मेङः सनि 'आदेचः' इत्यात्त्वे कृते मारूपत्वाविशेषात् 'सनि मीमा' इत्यत्र उभयोरपि ग्रहणमिति भावः । दोदाणोरिति ॥ 'दो अवखण्डने' इति धातोस्सनि आत्त्वे कृते दारूपाविशेषात् घुत्वादुभयोर्ग्रहणमिति भाव । दित्सतीति ॥ 'हलन्ताच्च' इति कित्त्वान्नोपधागुणः । देङिति ॥ तस्यापि कृतात्त्वस्य दारूपत्वेन घुत्वादिति भावः । दाञिति ॥ 'डु दाञ् दाने' इति धातुरपि घुत्वात् गृह्यते इति भाव । देङिति ॥ अस्यापि कृतात्त्वस्य घुत्वात् 'सनि मीमा' इत्यत्र ग्रहणमिति भाव । रिप्सते इति ॥ रभधातोः रूपम् । लिप्सते इति ॥ लभधातोः रूपम् । पित्सतीति ॥ पत्लृधातोः रूपम् । पदधातोः पित्सते, इति रूपम् । सनि इस् वाच्यः इति ॥ आकारस्येति शेषः ।
२६२४ । मुचोऽकर्मकस्य गुणो वा । (७-४-५७)
सादौ सनि । अभ्यासलोपः । मोक्षते-मुमुक्षते वा वत्सः स्वयमेव । 'अकर्मकस्य' किम् । मुमुक्षति वत्सं कृष्णः । 'न वृद्भ्यश्चतुर्भ्यः' (सू २३४८) । विवृत्सति । तङि तु विवर्तिषते । 'सेऽसिचि-' (सू २५०६) इति वेट् । निनर्तिषति-निनृत्सति ।
२६२५ । इट् सनि वा । (७-२-४१)
वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति-तितरीषति-तितीर्षति । विवरिषति-विवरीषति -वुवूर्षति । 'वृङ्' । वुवूर्षते-विवरिषते । दुध्वूर्षति ।
२६२६ । स्मिपूङ्रञ्ज्वशां सनि । (७-२-७४)
'स्मिङ्' 'पूङ्' 'ॠ' 'अञ्जू' 'अश्' एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह 'रिस्' शब्दस्य द्वित्वम् ।
रित्सतीति ॥ सनि इसादेशः । 'अत्र लोप' इत्यभ्यासलोप. । मुचोऽकर्मकस्य ॥ सादौ सनीति ॥ शेषपूरणम् । 'सः सि' इत्यतस्सीति 'सनि मीमा' इत्यतस्सनीति चानुवृत्तेरिति भावः । 'हलन्ताच्च' इति कित्त्वाद्गुणनिषेधे प्राप्ते वचनम् । अभ्यासलोपः इति ॥ 'अत्र लोपः' इत्यनेनेति शेषः । मोक्षते इति ॥ 'अत्र लोपः' इत्यभ्यासलोपः । ताङि त्विति ॥ 'न वृभ्द्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तात्वादिति भावः । निनृत्सतीति ॥ इडभावपक्षे 'हलन्ताच्च' इति कित्त्वान्न गुणः । इट् सनि वा ॥ 'वॄतो वा' इत्यतो वॄत इत्यनुवर्तते इति मत्वा आह । वृङ्वृञ्भ्यामित्यादि ॥ 'सनि ग्रहगुहोश्च' इत्यस्यापवाद । चिकीर्षतीत्यादौ 'अज्झन ' इति दीर्घे कृते सनि नेद प्रवर्तते । 'एकाच उपदेशे' इत्यतः उपदेशे इत्यनुवर्त्त्य उपदेशे ॠकारान्तादिति व्याख्यानात् । तितरेिषति-तितरीषतीति ॥ तॄधातोस्सनि लटि 'वॄतो वा' इति दीर्घ. । इडभावे त्वाह । तितीर्षतीति ॥ 'इको झल्' इति कित्त्वाद्गुणाभावे तॄ इत्यस्य ॠकारस्य इत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः । विवरिषतीति ॥ वृञ्धातोः सनि इटि 'वॄतो वा' इति दीर्घविकल्पः । इडभावे त्वाह । वुवृर्षतीति ॥ 'उदोष्ठ्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । 'वुवूर्षते इति ॥ डित्त्वादात्मनेपदम् । दुध्वूर्षतीति ॥ 'ध्वृ कौटिल्ये' 'अज्झन' इति दीर्घः । 'उदोष्ठ्य' इत्युत्त्व 'हलि च' इति दीर्घ इति भावः । स्मिपूङ् ॥ स्मि पूङ् ॠ अञ्जू अश् एषां द्वन्द्वः । ॠकारस्य यणि रेफे रञ्ज्विति निर्देशः । इट् स्यादिति ॥ 'इडत्त्यर्ति' इत्यतस्तदनुवृत्तेरिति भावः । पूञस्तु पुपूषतीत्येव । 'सनि ग्रह' इति इण्णिषेधात् । सिस्मयिषते इति ॥ स्तौतिण्योः' एवेति नियमान्न षः। पिपविषते इति ॥ पूङ्धातो पू इत्यस्य द्वित्वे 'ओः पुयण्जि'
'इस्' इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् । 'द्विर्वचनेऽचि' (सू २२४३) इति न प्रवर्तते ।अञ्जिजिषति । अशिशिषते । 'उभौ साभ्यासस्य' (२६०६) । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । 'पूर्वत्रासिद्धीयमद्वित्वे' इति चछाभ्यां सहितस्येटो द्वित्वम् । 'हलादिः शेषः' (सू २१७९) उचिच्छिषति । निमित्तापाये नैमित्तिकापायः इतित्वनित्यम् । 'च्छ्वोः' (सू २५६१) इति सतुक्कग्रहणाज्ज्ञापकात् । 'प्रकृतिप्रत्यापत्तिवचनाद्वा--' ।
इति इत्त्वम् । अरिरिषतीति ॥ ॠधातोस्सनि इटि रूपम् । रिस्शब्दस्येति ॥ गुणे रपरत्वे 'अजादेर्द्वितीयस्य' इति रिस्इत्यस्य द्वित्वमित्यर्थ । 'ननु द्विर्वचनेऽचि' इति निषेधाद्गुणासम्भवात् रिस् इत्यस्य कथ द्वित्वमित्यत आह । द्विर्वचनेऽचि इति न प्रवर्तते इति ॥ कुत इत्यत आह । कार्यिणो निमित्तत्वायोगादिति ॥ 'नहि कार्यी निमित्ततया आश्रीयते' इति निषेधादिडादेः सनो द्वित्वरूपकार्यिणो न द्वित्वनिमित्तत्वमिति भाव । ननु इडागमः सन्भक्त' । ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाभावात् द्वित्वनिमित्तत्वमित्यत आह । इस् इतीति ॥ इस् इति सनोऽवयवो द्वित्वभागिति कृत्वा अवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भाव । आञ्जिजिषतीति ॥ अञ्जेस्सनि इटि 'न न्द्राः' इति नकारस्य निषेधात् जिस् इत्यस्य द्वित्वम् । ऊदित्त्वादिड्विकल्पे प्राप्ते नित्यमिट् । आशिशिषते इति ॥ 'अशू व्याप्तौ' ऊदित्त्वादिड्विकल्पे प्राप्ते नित्यमिट् । अश भोजने इति क्र्यादिस्तु नित्य सेडेव । उच्छेरिति ॥ 'उच्छी विवासे' । अत्र 'छे च' इति तुगित्यर्थ । श्चुत्वमिति ॥ तुक इति शेषः ।ननु उच्छ् इस इति स्थिते श्चुत्वस्यासिद्धत्वात्तकारसहितस्य द्वित्वे अभ्यासे तकार. श्रूयेत इत्यत आह । पूर्वत्रेत्यादि ॥हलादिः शेषः इति ॥ च्छिस् इत्यस्य द्वित्वे हलादिशेषादभ्यासे छकारसकारयोनिवृत्तौ तुकश्चकारः इकारश्च शिष्यते इत्यर्थः । तदाह । उचिच्छिषतीति ॥ उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः । ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोर्निवृत्तौ 'निमित्तापाये नैमित्तिकस्याप्यपाय' इति न्यायेन तुकोऽपि निवृत्तेस्तदादेशचकारस्य कथमभ्यासे श्रवणमित्यत आह । निमित्तापाये इति ॥ कथमनित्यत्वमित्यत आह । च्छ्वोरिति ॥ पृष्टः, पृष्टवानित्यादौ प्रच्छेः चकारस्य 'च्छ्वोः' इति शकारे व्रश्चादिना शस्य षत्वे तुक्चकारस्य श्रवणप्राप्तौ तन्निवृत्त्यर्थं सतुक्कग्रहणम् । तत्र चकारस्य शकारे सति निमित्ताभावादेव तुकोऽपि निवृत्तिसिद्धेस्सतुक्कग्रहण व्यर्थमापद्यमान 'निमित्तापाये' इत्यस्यानित्यतां ज्ञापयतीत्यर्थः । प्रकृतिप्रत्यापत्तिवचनाद्वेति ॥ 'हनश्च वधः' इति हनधातोरप्प्रत्यये प्रकृतेर्वधादेशे वधशब्दः । कंसवधमाचष्टे कंसङ्घातयतीत्यादौ 'आख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्ति.' इति अप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहिता । तत्र कृतो लुकि निमित्तापायादेव वधाद्यादेशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमान 'निमित्तापाये' इत्यस्य अनित्यतां ज्ञापयतीत्यर्थः । यद्यप्यत्र वधशब्दे अप्प्रत्ययः वधादेशश्च युगपद्विहितः, नतु प्रत्यये परे ।
43
'णौ च संश्चङोः' (सू २५७९) (सू २६०१) इति सूत्राभ्यामिङो गाङ्, श्वयतेः सम्प्रसारणं च वा । अधिजिगापयिषति-अध्यापिपयिषति । शिश्वाययिषति-शुशावयिषति । 'ह्वः सम्प्रसारणम्' (सू २५८६) । जुहावयिषति । 'णौ द्वित्वात्प्रागच आदेशो न' इत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षावयिषति । 'ओः पुयण्ज्यपरे' (२५७७) । पिपावयिषति । यियावयिषति । बिभावयिषति । रिरावयिषति । लिलावयिषति । जिजावयिषति । 'पुयण्जि'
तथापि सन्नियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्व पर्यवसानगत्येति बोध्द्यम् । वस्तुतस्तु पुष्ययोग जानाति पुष्येण योजयतीत्येतत्साधके पुष्ययोगेति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका । तत्र हि 'चजोः' इति घिति परत. कुत्वम् । अन्यथा कृल्लुकि निमित्तापायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शब्देन्दुशेखरे विस्तरः । अथ 'इड् अध्द्ययने' 'टु ओ श्वि गतिवृध्द्यो' इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह । णौ चेति ॥ 'णौ च संश्चडोः' इति सूत्र द्वितीयस्य चतुर्थे पादे षष्ठस्य प्रथमे पादे च स्थितम् । सन्परे चड्परे च णौ इडो गाड्वेति प्रथमस्यार्थः। सन्परे चड्परे च णौ श्वयतेः सम्प्रसारण वेति द्वितीयस्यार्थः। प्रथमसूत्रेण इडो गाड, द्वितीयसूत्रेण श्वयतेस्सम्प्रसारणमित्युभयमपि पाक्षिकं भवतीत्यर्थ । अधिजिगापयिषतीति ॥ इडो णौ विवक्षिते गाडि पुकि गापि इत्यस्मात्सनि रूपम् । 'णौ च संश्चडोः' इति गाड्विधौ विषयसप्तमीति प्रागेवोक्तम् । गाडभावे आह । अध्यापिपयिषतीति ॥ 'क्रीड्जीनां णौ' इत्यात्त्वे पुक् । शिश्वाययिषतीति ॥ श्विधातोर्णौ वृद्धावायादेशे श्वायि इत्यस्मात्सनि सम्प्रसारणाभावे रूपम् । सम्प्रसारणपक्षे आह । शुशावयिषतीति ॥ ण्यन्तात्सनि इटि श्वि इ इस इति स्थिते 'सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्' इति वचनात्प्रथम सम्प्रसारण पूर्वरूपम् । शु इत्यस्य द्वित्वे उत्तरखण्डे उकारस्य वृद्धावावादेशे णिचो गुणायादेशाविति भावः । ह्वः सम्प्रसारणमिति ॥ हेतुमण्ण्यन्तप्रक्रियाया व्याख्यातम् । जुहावयिषतीति ॥ ह्वेञो ण्यन्तात्सनि इटि प्रथम सम्प्रसारण पूर्वरूपम् । हु इत्यस्य द्वित्वम् । उकारस्य वृध्द्यावादेशौ णिचो गुणायादेशाविति भावः । ननु परत्वात् द्वित्वात् प्रागेव उकारस्य वृध्द्यावादेशयोः कृतयोः हाव् इत्यस्य द्वित्वे अभ्यासस्यात इत्त्वे इकार एव श्रूयेतेत्यत आह । णौ द्वित्वादिति ॥ पुस्फारयिषतीति ॥ स्फुरते. ण्यन्तात्सनि इटि 'चिस्फुरोर्णौ' इत्यस्मात् प्रागेव स्फुर् इत्यस्य द्वित्वम् । द्वित्वे कार्ये णावच आदेशस्य निषेधात् । 'ओः पुयण्जि' इति इत्त्वन्तु न । फकारस्य सकारेण व्यवहिततया पवर्गपरत्वाभावात् ।चुक्षावयिषतीति ॥ क्षुधातोः ण्यन्तात् सनि इटि क्षु इत्यस्य द्वित्वम् । परिनिष्ठिते रूपे अवर्णपरत्वेन णावच आदेशस्य
निषेधादिति भाव . । ओः पुयणिति ॥ हेतुमण्णिच्प्रक्रियायामिदं व्याख्यातमपि स्मार्यते । पिपावयिषतीत्यादि ॥ पू भू यु रु लू जु एभ्यो ण्यन्तेभ्य सनि इटि द्वित्वे कार्ये णावच आदेशनिषेधात् उवर्णान्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भाव । जुः सौत्रो धातुः । 'जुचङ्क्रम्य' इत्यत्रोक्तः । अथ 'स्रवतिशृणोति' इति सूत्र हेतुमुण्णिच्प्रक्रियायां व्याख्यात
इति किम् । नुनावयिषति । 'अपरे' किम् । बुभूषति । 'स्रवति-' (२५७८) इतीत्त्वं वा । सिस्रावयिषति । सुस्रावयिषतीत्यादि । 'अपरे' इत्येव । शुश्रूषते ।
२६२७ । स्तौतिण्योरेव षण्यभ्यासात् । (८-३-६१ )
अभ्यासेण: परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभते सनि नान्यत्र । तुष्टूषति । 'द्युतिस्वाप्योः-' (सू २३४४) इत्युत्त्वम् । सुष्वापयिषति । सिषाधयिषति । 'स्तौतिण्योः' किम् । सिसिक्षति । उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू २२७७) इति षत्वम् । परिषिषिक्षति । 'षणि' किम् ।
स्मारयति । स्रवतीतीत्त्वं वेति ॥ शुश्रूषते इति ॥ 'ज्ञाश्रुस्मृदृशा सन' इत्यात्मनेपदम् । स्तौतिण्योरेव ॥ षणीति कृतषत्वस्य सनो ग्रहणम् । 'अपदान्तस्य मूर्धन्य' इत्यधिकृतम् 'इण्कोः' इति च । तत्र कुग्रहणन्निवर्तते असम्भवात् । णिग्रहणेन तदन्तग्रहणम् । 'सहे साढः स' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । तदाह । अभ्यासेणः इत्यादि । षभूते इति ॥ षकार प्राप्ते सनीत्यर्थः । नान्यत्रेति ॥ अभ्यासेण परस्य चेत्सस्य षत्व तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः । नच 'आदेशप्रत्यययो.' इत्येव सिद्धे आरम्भसामर्थ्यादेव नियमलाभात् एवकारो व्यर्थ इति शङ्क्यम् । षण्येवेति नियमनिरसनार्थत्वात् । षण्येवेति नियमे सति तुष्टावेत्यत्र षत्वानापत्ते.। स्तौतेरुदाहरति । तुष्टूषतीति ॥ 'अज्झन' इति दीर्घः । ण्यन्तस्योदाहरिष्यन्नाह । द्युतीति ॥ उत्वमिति ॥ वकारस्य सम्प्रसारणमुकार इत्यर्थः । सुष्वापयिषतीति ॥ स्वपेर्णौ उपधावृद्धौ स्वापि इत्यस्मात् सनि इटि वकारस्य सम्प्रसारणे पूर्वरूपे सुप् इत्यस्य द्वित्वे णेर्गुणे अयादेशे सनः षत्वे अभ्यासेण परस्य षत्वमिति भावः । सिषाधयिषतीति ॥ अत्रापि ण्यन्तत्वादभ्यासेणः परस्य सस्य षत्वमिति भावः । सिसिक्षतीति ॥ सेक्तुमिच्छतीत्यर्थ । सिच्धातोः सन् 'हलन्ताच्च' इति कित्वान्न लघूपधगुणः । अभ्यासेणः परस्य सस्य चेत् षत्व तर्हि 'स्तौतिण्योः' एवेति नियमान्न ष इति भावः । ननु परिषिषिक्षतीत्यत्र अभ्यासेण. परस्य सस्य कथं षत्व 'स्तौतिण्योः' एवेति नियमात् 'स्थादिष्वभ्यासेन च' इति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह । उपसर्गत्त्विति ॥ 'स्तौतिण्योरेव' इति नियमेन मद्ध्येऽपवादन्यायबलात् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्द्यत इति भावः । षणि किमिति ॥ कृतषत्वनिर्देशः किमर्थ इति प्रश्नः । तिष्ठासतीति ॥ 'धात्वादे.' इति षस्य सत्त्वे स्था इत्यस्य द्वित्वे अभ्यासह्रस्वे इत्त्वे 'आदेशप्रत्यययोः' इति षत्वम् । कृतषत्वे सन्येवाय नियमः । अत्र तु सनः षत्वाभावेन नियमाप्रवृत्तेः षत्व निर्बाधमिति भावः । सुषुप्सतीति ॥ स्वप्धातोः सनि 'रुदविदमुषग्रहिस्वपि' इति कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् । कित्त्वान्न लघूपधगुणः । इहापि 'स्तौतिण्योः' एवेति नियमो न भवति । सनष्षत्वाभावादिति भावः । ननु षणि इणः परस्य सस्य चेत् षत्व तर्हि 'स्तौतिण्योः' एवेत्येतावदेवास्तु । अभ्यासादिति किमर्थमित्यत आह ।
तिष्ठासति । सुषुप्सति । अभ्यासादित्युत्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ।
२६२८ । सः स्विदिस्वद्विसहीनां च । (८-३-६२)
अभ्यासेण: परस्य ण्यन्तानामेषां सस्य स एव न ष: षणि परे । सिस्वेदयिषति—सिस्वादयिषति । सिसाहयिषति । 'स्थादिष्वेवाभ्यासस्य' इति नियमान्नेह । अभिसुसूषति ।
'शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः
सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ।।' (भाष्यम्)
शैषिकाच्छैषिकः सरूपो न । तेन शालीये भव इति वाक्यमेव, न तु छान्ताच्छः । 'सरूपः' किम् । अहिच्छत्त्रे भव आहिच्छत्रः । आहिच्छत्त्रे भव आहिच्छत्त्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सरूप: स न । धनवानस्यास्ति । इह मतुबन्तान्मतुब्न । विरूपस्तु स्यादेव । दण्डिमती शाला । 'सरूपः'
अभ्यासादित्युक्तेर्नेहेति ॥ प्रतीषिषतीति ॥ इण्धातोस्सनि 'अजादेर्द्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् । इह षभूते सनि 'इण् गतौ' इति धातो. परस्य सस्य षत्व भवत्येव । अभ्यासेण परत्वे सत्येव नियमप्रवृत्तेरिति भाव. ।अधीषिषतीत्यप्येवम् । सः स्विदि ॥ सः स्विदीति छेद । 'स्तौतिण्योरेव षण्यभ्यासात्' इति सूत्र स्तौतिवर्जमनुवर्तते । 'सहेः साढ. सः' इत्यतस्स इति षष्ठ्यन्तञ्च । तदाह । अभ्यासेणः इति ॥ सकारविधिर्नियमार्थः इत्याह । सस्य स एवेति ॥ सुनोतेस्सनि 'स्तौतिण्योः' एवेति नियमादुत्तरखण्डस्य षत्वाभावे अभिसुसूषतीत्यत्र 'उपसर्गात्सुनोति' इत्यभ्यासस्य षत्वमाशङ्क्य आह । स्थादिष्वेवेति ॥ शैषिकादिति ॥ सन्विधायकसूत्रस्थमिदं वार्तिकम् । शैषिकात्सरूपः शैषिकः
प्रत्ययो न । मतुबर्थीयात् सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः । शेषाधिकारे विहितः शैषिक. । भवार्थे अध्यात्मादित्वाट्ठञ् । मतुबर्थे भवो मतुबर्थीयः गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः । 'अत इनिठनौ' इति ठन् । शालीये इति ॥ शालायां भवः शालीयः । 'वृद्धाच्छः' शालीये भव इत्यर्थे शालीयशब्दात् पुनः छो नेत्यर्थः । आहिच्छत्त्रे भवः इति ॥ आहिच्छत्त्रशब्दो भवार्थे अणन्तः । ततो भवार्थे 'वृद्धाच्छ.' इति छ एव भवति । नतु पुनरणिति भावः । ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह । सरूपः इत्यनुषज्यते इति ॥ सन्नन्तान्न सनिष्यते इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः । नन्वेव
इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तात्सन्न । स्वार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ।
इति तिङन्तसन्प्रकरणम् ।
। श्रीरस्तु ।
॥ अथ तिङन्तयङ्प्रकरणम् ॥
२६२९ । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । (३-१-२२)
पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः तस्मिन्द्योत्ये यङ् स्यात् ।
२६३० । गुणो यङ्लुकोः । (७-४-८२)
अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । 'सनाद्यन्ताः--' (सू २६०४) इति धातुत्वाल्लडादयः । ङिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । 'धातोः' किम् ।
मपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह । अर्थद्वारेति ॥ शब्दस्वरूपतो वैरूप्यस्य सम्भवादर्थद्वारकमेव सारूप्य विवक्षितमिति भाव । तेनेति ॥ इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थ । स्वार्थेति ॥ स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया
बालमनोरमायां सन्नन्तनिरूपण समाप्तम् ।
अथ यङ्प्रक्रियाः निरूप्यन्ते । धातोरेकाचो ॥ तस्मिन्द्योत्ये इति ॥ वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छाया इव तस्य विशेष्यत्वं स्यादिति भावः । गुणो यङ्लुकोः ॥ यङ् च लुक्च इति द्वन्द्वात् सप्तमी । लुगिह यङ एव विवक्षितः उपस्थितत्वात् । 'अत्र लोप.' इत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । अभ्यासस्येति ॥ इक्परिभाषया इगन्तस्येति लभ्यते । बोभूयते इति ॥ 'सन्यङोः' इति द्वित्वम् । यङो द्वित्वादूकारस्य न गुणः । बोभूय इत्यस्माल्लटि तिपि शपि पररूपम् । 'क्रियासमभिहारे द्वे वाच्ये' इति पुनर्द्वित्वन्तु न । तस्य 'क्रियासमभि
आर्धधातुकत्वं यथा स्यात् । तेन 'बुवो वचिः' (सू २४५३) इत्यादि । 'एकाचः' किम् । पुनःपुनर्जागर्ति । 'हलादेः' किम् । भृशमीक्षते । भृशं शोभते रोचते इत्यत्र यङ् नेति भाष्यम् । पौनःपुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते । 'सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' (वा १७५१) । आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकाच्कत्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ।
२६३१ । यस्य हलः । (६-४-४९)
'यस्य' इति सङ्घातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादा-
हारे' इति विहितलोडन्तमात्रविषयत्वात् । अत एव 'क्रियासमभिहारे लोट्' इति सूत्रभाष्ये 'क्रियासमभिहारे लोण्मध्द्यमपुरुषैकवचनस्य द्वे वाच्ये' इत्येव पठितम् । पौनःपुन्ये यडि तु 'नित्यवीप्सयोः' इति न द्वित्वम् । 'क्रियासमभिहारे द्वे' इत्यनेन पौनःपुन्येऽपि लोडन्तद्वित्वविधानेन पौनःपुन्यस्य अन्यतो लाभे सौत्रद्वित्वाप्रवृत्तेर्ज्ञापनादित्यलम् । धातोः किमिति ॥ 'क्रियासमभिहारे' इत्यनेनैव धातोर्लाभात्किमर्थ धातुग्रहणमिति प्रश्न । आर्धधातुकत्वमिति ॥ धातोरित्यभावे आर्धधातुकत्वन्न स्यात् । धातोरिति विहितप्रत्ययस्यैव आर्धधातुकत्वादिति भाव: । ब्रुवः इति ॥ यड: आर्धधातुकत्वे सत्येव तस्मिन् परे 'ब्रुवो वचिः' 'वेञो वयिः' इत्यादि कार्य सिध्द्यति । अन्यथा 'आर्धधातुके' इत्यधिकृत्य तद्विधानान्न स्यादिति भाव. । भृशमीक्षते इति ॥ नच भृशशब्देनैवात्र भृशार्थभानात् यड् न भविष्यतीति वाच्यम् । भृशत्व हि यड्द्योत्यम्, नतु वाच्यम् । द्योतनञ्च उक्तस्यापि सम्भवतीति भावः । यङ् नेति ॥ अनभिधानादिति भाष्ये स्पष्टम् । पौनःपुन्ये त्विति ॥ पुनःपुनश्शब्दसमभिहारेऽपि यडस्त्येव । भृशार्थ एवानभिधानोक्तेरिति भावः । सूचिसूत्रीति ॥ सूचि सूत्रि मूत्रि अटि अर्ति अशू ऊर्णोति एषान्द्वन्द्वः ! 'सूच पैशुन्ये, सूत्र वेष्टने, मूत्र प्रस्रवणे' एते त्रयश्चुराद्यन्तर्गणे कथादावदन्ता. । तेषामनेकाच्त्वादप्राप्तौ यड्वचनमित्याह । आद्यास्त्रयः इति ॥ 'अट गतौ, ॠ गतौ, अश भोजने, अशू व्याप्तौ' एषा हलादित्वाभावाद्वचनम् । ऊर्णञस्तु हलादित्वाभावादेकाच्त्वाभावाच्च वचनम् । सोसूच्यते इति ॥ ण्यन्ताद्यडि णिलोपे द्वित्वे 'गुणो यडलुको' इति अभ्यासगुणः । सूचे षोपदेशत्वभ्रम वारयति । अनेकाच्कत्वेनेति ॥ षोपदेशत्वे तु 'धात्वादेः' इति षस्य सत्वे कृते आदेशसकारत्वादुत्तरखण्डस्य षत्वं स्यादिति भावः । लिटि सोसूचि आमिति स्थिते । यस्य हलः ॥ यकारादकारस्य उच्चारणार्थत्वभ्रम वारयति । सङ्घातग्रहणमिति ॥ यकाराकारसमुदायस्येत्यर्थ । हलः इति पञ्चमी । 'आर्धधातुके' इत्यधिकृतम् । 'अतो लोपः' इत्यस्मात् लोप इत्यनुवर्तते । तदाह । हलः परस्येत्यादिना ॥ ननु 'अलोऽन्त्यस्य' इति यकारादकारस्य लोपः स्यादित्यत आह ।
र्धधातुके । 'आदेः परस्य' (सू ४४) । 'अतो लोपः' (सू २६०८) । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ।
२६३२ । दीर्घोऽकितः । (७-४-८३)
अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ।
२६३३ । यङि च । (७-४-३०)
अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि यङ्लुकि च । यकारपररेफस्य न द्वित्वनिषेधः । 'अरार्यते' इति भाष्योदाहणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः । बेभिदिता ।
२६३४ । नित्यं कौटिल्ये गतौ । (३-१-२३)
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ।
आदेः परस्येति ॥ 'अलोऽन्त्यस्य' इत्यस्यायमपवाद इति भावः । अतो लोपः इति ॥ यकाराकारसङ्घाते यकारस्य लोपे सति परिशिष्टस्याकारस्य ‘अतो लोपः’ इत्यर्थः । ननु मास्तु सङ्घातग्रहणम् । यकारस्यैवात्र लोपो विधीयताम् । अतो लोपे सति इष्टसिद्धिरिति चेन्न । ईर्ष्य्धातोस्तृचि इटि ईर्ष्यितेत्यत्र यकारलोपनिवृत्त्यर्थत्वादित्यलम् । अटधातोः यडि 'अजादेर्द्वितीयस्य' इति ट्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ अटट्यते इति स्थिते । दीर्घोऽकितः ॥अभ्यासस्येति ॥ 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः । यङि यङ्लुकि चेति ॥ 'गुणो यङ्लुको' इत्यतस्तदनुवृत्तेरिति भावः । अकित इत्यस्य तु ययम्यते इत्यादौ प्रयोजन वक्ष्यते । ॠधातोर्यडि कृते डित्त्वाद्गुणनिषेधे प्राप्ते । यङि च ॥ 'गुणोऽर्तिसयोगाद्योः' इति सूत्रमनुवर्तते । 'रीङ् ॠतः' इत्यस्मात् ॠत इति च । तदाह । अर्तेरित्यादि ॥ तथाच ॠ य इति स्थिते ॠकारस्य गुणे अकारे रपरत्वे अर् य इति स्थिते 'न न्द्राः' इति रेफस्य द्वित्वनिषेधे य इत्यस्य द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घे अर्यायते इति प्राप्ते आह । यकारपररेफस्येति ॥भाष्योदाहरणादिति ॥ 'धातोरेकाच' इति सूत्रे इति शेषः । अरारितेति ॥ 'यस्य हलः' इति यकारलोपः । अशाशितेति ॥ अशधातोर्यडि श्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ 'दीर्घोऽकितः' इति दीर्घे 'यस्य हलः' इति यकारलोपः । ऊर्णोनूयते इति ॥ ऊर्णु य इति स्थिते ‘न न्द्रा.’ इति नु इत्यस्य द्वित्वे हलादिशेषे अभ्यासदीर्घः । बेभिद्यते इति ॥ भिद् य इति स्थिते भिद् इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणः । ननु बेभिद्य इति यङन्ताल्लुटि तासि इटि यलोपे अतो लोपे बेभिदितेत्यत्र तासि परे लघूपधगुणः स्यादित्यत आह । अल्लोपस्य स्थानिवत्त्वादिति ॥ नित्यं कौटिल्ये गतौ ॥ नित्यशब्दः एवार्थे । कौटिल्ये इत्यस्योपरि द्रष्टव्य. । 'धातोरेकाचः' इत्यतो यङित्यनुवर्तते । तदाह । गत्यर्थात्कौटिल्य एवेति ॥ गत्यर्थवृत्तेर्धातोः
२६३५ । लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् । (३-१-२४)
एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ।
२६३६ । चरफलोश्च । (७-४-८७)
अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । 'नुक्' इत्यनेनानुस्वारो लक्ष्यते । 'स च पदान्तवद्वाच्यः' (वा ४६६१) 'वा पदान्तस्य' (सू १२५) इति यथा स्यात् ।
२६३७ । उत्परस्यातः । (७-४-८८)
चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । 'हलि च' (सू ६५४) इति दीर्घः । चञ्चूर्यते—चंचूर्यते । पम्फुल्यते-पंफुल्यते ।
२६३८ । जपजभदहदशभञ्जपशां च । (७-४-८६)
कौटिल्ये द्योत्य एव यडित्यर्थः । एवशब्दस्य व्यवच्छेद्यमाह । न तु क्रियासमभिहारे इति ॥ शब्देन्दुशेखरे तु गत्यर्थेभ्यः क्रियासमभिहारे यडस्त्येवेति प्रपञ्चितम् । लुपसद ॥ लुप सद चर जप जभ दह दश गॄ एषान्द्वन्द्वः । यडित्यनुवर्तते । भाव धात्वर्थ. । तद्गता गर्हा भावगर्हा । नित्यमित्यनुवृत्तम् एवकारार्थकम् । तदाह । एभ्यः इत्यादि ॥चरफलोश्च ॥ 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'नुगतोऽनुनासिकान्तस्य' इत्यस्मात् अतो नुगिति । 'गुणो यड्लुकोः' इत्यस्मात् यड्लुकोरिति च तदाह । अनयोरित्यादि ॥ नुकि ककार इत् उकार उच्चारणार्थः । लक्ष्यते इति ॥ 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रे ययम्यते, ररम्यते, इत्यादौ अनुस्वारश्रवणार्थ नुगित्यनुस्वारोपलक्षणमाश्रयणीयम् । अन्यथा झल्परत्वाभावात् 'नश्च' इत्यनुस्वारासम्भवान्नकार एव श्रूयेतेत्युक्त भाष्ये । तस्यैवेहानुवृत्तेरनुस्वारोपलक्षणार्थत्वमिति भावः । पदान्तवदिति ॥ 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रस्थमिदं वार्तिकमत्राप्यनुवर्तते इति भाव । उत्परस्यातः ॥ 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवृत्त परशब्दयोगात् पञ्चम्या विपरिणम्यते । 'गुणो यङ्लुकोः' इत्यत यड्लुकोरिति 'चरफलोः' इति चानुवर्तते । तदाह । चरफलोरित्यादि । दीर्घः इति ॥ उकारस्येति शेषः । चञ्चूर्यते इति ॥ गर्हितञ्चरतीत्यर्थः । यडि द्वित्वे हलादिशेषे अभ्यासाकारादुपरि अनुस्वारागमे 'वा पदान्तस्य' इति तस्य परसवर्णे ञकारे उत्तरखण्डे अकारस्य उत्त्वे तस्य दीर्घः । परसवर्णाभावपक्षे त्वाह । चंचूर्यते इति ॥ पम्फुल्यते इति ॥ अत्र अनुस्वारस्य मकारः परसवर्ण. । जपजभ ॥ 'चरफलोश्च' इत्यत्र यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तदाह ।
एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति जञ्जप्यते इत्यादि ।
२६३९ । ग्रो यङि । (८-२-२०)
गिरते: रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति जेगिल्यते । 'घुमास्था —' (सू २४६२) । इतीत्त्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । 'विभाषा श्वेः' (सू २४२०) । शोशूयते । शेश्वीयते । 'यङि च' (सू २६३३) । सास्मर्यते । 'रीङृतः' (सू १२३४) । चेक्रीयते । सुट् । सञ्चेस्क्रीयते ।
२६४० । सिचो यङि । (८-३-११२)
सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ।
२६४१ । न कवतेर्यङि । (७-४-६३)
कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ।
एषामिति ॥ इत्यादीति ॥ जञ्जभ्यते । दन्दह्यते । दन्दश्यते । बम्भज्यते । पसधातुर्दन्त्यान्त सौत्रो गत्यर्थ इति माधव । तालव्यान्त इति काशिका । ग्रो यङि ॥ गृ इत्यस्य ग्रः इति षष्ठ्येकवचनम् । 'कृपो रो ल.' इत्यत. रो ल: इत्यनुवर्तते । तदाह । गिरतेरित्यादि ॥ दा पा स्था एभ्यो यडि विशेषमाह । घुमास्थेत्यादि ॥ शोशूयते इति ॥ श्विधातोर्यडि 'सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्' इति वचनात् सम्प्रसारणे पूर्वरूपे शु इत्यस्य द्वित्वम् 'अकृत्सार्वधातुकयोः' इति दीर्घ । सास्मर्यते इति ॥ स्मृ य इति स्थिते सयोगादित्वात् 'यडि च' इति परत्वाद्गुणे रपरत्वे द्वित्वे 'दीर्घोऽकित.' इत्यभ्यासदीर्घः । चेक्रीयते इति ॥ कृ य इति स्थिते परत्वात् ॠकारस्य रीडादेशे क्री इत्यस्य द्वित्वे अभ्यासगुणः । सुडिति ॥ 'सपरिभ्या करोतौ भूषणे' 'समवाये च' इत्यनेनेति शेषः । सिचो यङि ॥ 'सहेः साडः सः' इत्यतस्स इति षष्ठ्यन्तमनुवर्तते । 'मूर्धन्यः' इत्यधिकृत 'न रपरसृपि' इत्यतः नेत्यनुवर्तते । तदाह । सिचः इति । निसेसिच्यते इति ॥ 'उपसर्गात्सुनोति' इति 'स्थादिष्वभ्यासेन' इति च षत्वमनेन निषिध्द्यते । न कवतेर्यङि ॥ 'अत्र लोपः' इत्यत अभ्यासस्येति 'कुहोश्चुः' इत्यत. चुरिति चानुवर्तते इति मत्वा आह । कवतेरभ्यासस्येति ॥ ननु कोर्यडि इत्येव सिद्धे श्तिपा निर्देशो व्यर्थ इत्यत आह । कौतिकुवत्योस्त्विति ॥ शपा निर्देशार्थ कवतिग्रहणम् । तेन 'कु शब्दे' इति लुग्विकरणस्य 'कुड् शब्दे' इति शविकरणस्य च ग्रहणन्न लभ्यते इति भावः । नच कोरित्युक्तेऽपि दीर्घान्तस्य शविकरणस्य न ग्रहणप्रसक्तिरिति शङ्क्यम् । तुदादौ 'कुड् शब्दे' इति ह्रस्वान्तपाठस्य न्यास
२६४२ । नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । (७-४-८४)
एषामभ्यासस्य नीगागमः स्याद्यड्यङ्लुको: । 'अकितः' इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ।
२६४६ । नुगतोऽनुनासिकान्तस्य । (७-४-८५)
अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुका अनुस्वारो लक्ष्यते इत्युक्तम् । यय्यम्यते-यंयम्यते ।तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । 'भाम' क्रोधे । बाभाम्यते । 'ये विभाषा' (२३१९) । जाजायते-जञ्जन्यते । 'हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः' (वा ४६२१) । जेघ्नीयते । 'हिंसायां' किम् । जङ्घन्यते ।
२६४४ । रीगृदुपधस्य च । (७-४-९०)
ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते ।
सम्मतत्वात् । वस्तुतस्तु न्याससम्मते तौतादिकस्याप्रवृत्तिरेव फलम् । 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' इति लुग्विकरणस्य ग्रहणनिवृत्तिरिति बोध्द्यम् । नीग्वञ्चु ॥ अभ्यासस्येति ॥ 'अत्र लोपः' इत्यतस्तदनुवृत्तेरिति भाव.। यङ्लुकोरिति ॥ यङि यङ्लुकि चेत्यर्थः । न दीर्घः इति ॥ रीगागमात्प्राक् प्राप्तोऽभ्यासदीर्घो नेत्यर्थः ।भविष्यदपि कित्त्वन्दीर्घप्रतिबन्धकामिति भाव । नलोपः इति ॥ 'अनिदिताम्' इत्यनेन नकारस्य लोप इत्यर्थः । इत्यादीति ॥ सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कन्द्यते । नुगतोऽनु ॥ अङ्गस्येत्यधिकृतम् । 'अत्र लोप' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुकोः' इत्यत यङ्लुकोरिति च । तदाह । अनुनासिकान्तस्येत्यादि ॥ ननु ययम्यते इत्यत्र नुको नकारस्य अपदान्तत्वादझल्परकत्वाच्च कथं 'नश्च' इत्यनुस्वार इत्यत आह । नुकेति ॥ नन्वभ्यासे ह्रस्वविधानाद्दीर्घस्याभावात् नुग्विधावत इति तपरकरण व्यर्थमित्यत आह । तपरत्वसामर्थ्यादिति ॥ स्वाभाविक एव यो ह्रस्व. अकारः तस्यैव ग्रहणम्, नतु दीर्घदेशभूतस्य ह्रस्वाकारस्येत्येतदर्थ तपरकरणमिति भावः । बाभाम्यते इति ॥ अत्र आकारस्थानिकस्य ह्रस्वविधिसम्पन्नस्य अकारस्य न नुगिति भावः । जनधातोर्यडि नकारस्य आत्त्वविकल्प स्मारयति । ये विभाषेति ॥ घ्नीभावः इति ॥ यद्यपीह ह्रीभावविधावपि 'अभ्यासाच्च' इति कुत्वे हकारस्य घकारः सिध्द्यति । तथापि प्रयत्नलाघवाभावात् प्रक्रियालाघवाच्च घ्नीति घकारोच्चारणमिति भावः । जेघ्नीयते इति ॥ पुन पुनरतिशयेन वा हिनस्तीत्यर्थः । अत्र यङीति विषयसप्तमी । यङि विवक्षिते सतीति लभ्यते । तेन द्वित्वस्य परत्वेऽपि प्रागेव घ्नीभाव इति बोध्द्यम् । जङ्घन्यते इति ॥ गर्हितं गच्छतीत्यर्थः । रीगृदुपधस्य च ॥ अभ्यासस्येति ॥ 'अत्र लोपः' इत्यतः
क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीक्लृप्यते । 'रीगृत्वत इति वक्तव्यम्' (वा ४६६२) । परीपृच्छ्यते । वरीवृश्च्यते ।
२६४५ । स्वपिस्यमिव्येञां यङि । (६-१-१९)
सम्प्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ।
२६४६ । न वशः । (६-१-२०)
वावश्यते ।
२६४७ । चायः की । (६-१-२१)
चेकीयते ।
तदनुवृत्तेरिति भावः । यङ्लुकोरिति ॥ 'गुणो यङ्लुकोः' इत्यतस्तदनुवृत्तेरिति भावः । वरीवृत्यते इति ॥ 'वृतु वर्तने' अस्माद्यडि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् । नृतेर्यङि नरीनृत्यते इत्यत्र णत्वमाशङ्क्य आह । क्षुभ्नादित्वान्न णः इति ॥ जरीगृह्यते इति ॥ 'ग्रह उपादाने' अस्माद्यडि 'ग्रहिज्या' इति सम्प्रसारणे द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् । उभयत्रेति ॥ कृपधातो. यङि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रीक् । चलीक्लृप्यते इत्यत्र 'कृपो रो लः' इत्यभ्यासे रेफस्य लकार । उत्तरखण्डे ॠकारस्यावयवो रेफः तस्य लकारसदृश इत्यर्थः । ननु व्रश्च्धातोर्यङि वरीवृश्च्यते इत्यत्र कथमभ्यासस्य रीक् । धातो शकारोपधत्वेन ॠदुपधत्वाभावादित्यत आह । रीगृत्वतः इति ॥ 'रीगृदुपधस्य' इत्यत्र ॠदुपधस्येत्यपनीय ॠत्वत इति वक्तव्यमित्यर्थ. । ॠत् अस्यास्तीति ॠत्वत् । 'तसौ
मत्वर्थे' इति भत्वात् पदत्वाभावान्न जश्त्वम् । परीपृच्छ्यते इति ॥ प्रच्छधातोर्यङि 'ग्रहिज्या' इति रेफस्य सम्प्रसारणमृकार । पूर्वरूप द्वित्व रपरत्वं हलादिशेषः रीक् । वरीवृश्च्यते इति ॥ व्रश्चधातोर्यङि सम्प्रसारणे द्वित्वादि पूर्ववत् । स्वपिस्यमि ॥ सम्प्रसारण स्यादिति शेषपूरणम् । 'ष्यङ सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भाव । सोषुप्यते इति ॥ स्वप्धातोर्यङि वकारस्य सम्प्रसारणे उकारे पूर्वरूपे द्वित्वे अभ्यासगुणः । उत्तररवण्डे सस्य षत्वम् । सेसिम्यते इति ॥ स्यमुधातोर्यङि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि । अषोपदेशत्वान्न षः । वेवीयते इति ॥ व्येञो यङि यकारस्य सम्प्रसारणे पूर्वरूपे द्वित्वादि । 'हल' इति वा 'अकृत्सार्वधातुकयोः' इति वा दीर्घः । अथ वशधातोर्यङि वावश्यते इत्यत्र 'ग्राहिज्या ' इति सम्प्रसारणे प्राप्ते तन्निषेध स्मारयति । न वशः ॥ वशधातोः छान्दसत्वम्प्रायिकमिति प्रागेवोक्तम् । चायः की ॥ यङीति शेष । 'स्वपिस्यमिव्येञां यङि' इत्यतस्तदनुवृत्तेरिति भावः । चेकीयते इति ॥ 'चायृ पूजानिशाम
२६४८ । ई घ्राध्मोः । (७-४-३१)
जेघ्नीयते । देध्मीयते ।
२६४९ । अयङ् यि क्ङिति । (७-४-२२)
शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ।
इति तिङन्तयङ्प्रकरणम् ।
नयोः' अस्माद्यङि प्रकृतेः कीभावे द्वित्वादि । ई घ्राध्मोः ॥ घ्रा ध्मा अनयोः द्वन्द्वात् पष्ठीद्विवचनम् । यङीति शेषः । 'यङि च' इत्यतस्तदनुवृत्ते.। जेघ्रीयते । देध्मीयते इति ॥ ईत्त्वे कृते द्वित्वादि । ह्रस्वस्य इकारस्य विधावपि 'अकृत्सार्वधातुकयोः' इति दीर्घसिद्धे दीर्घोच्चारणम् 'अस्य च्वौ' इत्युत्तरार्थम् । अयङ् यि क्ङिति ॥ यि इति सप्तमी । क् ड् एतौ इतौ यस्येति विग्रहः । शीङ इति ॥ 'शीङः सार्वधातुके गुणः' इत्यतस्तदनुवृत्तेरिति भावः । अयडि डकार इत् यकारादकार उच्चारणार्थः । डित्त्वादन्तादेशः । शाशय्यते इति ॥ शी य इति स्थिते ईकारस्य अय् ततो द्वित्वे अभ्यासदीर्घः । ढौकृधातोर्यडि विशेषमाह । अभ्यासस्य ह्रस्वः इति ॥ द्वित्वे अभ्यासह्रस्वे उकारे तस्य 'गुणो यङ्लुकोः' इति गुण इत्यर्थः । तोत्रौक्यते इति ॥ त्रौके. रूपम् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां यङन्तनिरूपणं समाप्तम्
श्रीरस्तु ।
॥ अथ तिङन्तयङ्लुक्प्रकरणम् ॥
२६५० । यङोऽचि च । (२-४-७४)
यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक्स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । 'शेषात्कर्तरि–' (सू २१५९) इति
अथ यङ्लुक्प्रक्रिया निरूप्यन्ते । यङोऽचि च ॥ अचि इति प्रत्ययग्रहणम् । नतु प्रत्याहारः । यडा साहचर्यात् । 'ण्यक्षत्रियार्ष' इत्यत लुगित्यनुवर्तते । तदाह । यङोऽच् प्रत्यये लुगिति । चकारात्तं विनापीति ॥ अच्प्रत्ययाभावेऽपीत्यर्थ । बहुळमिति ॥ चकारात् 'बहुळञ्छन्दसि' इति पूर्वसूत्राद्बहुळग्रहणमप्यनुकृष्यते इति भाव । एवञ्च अच्प्रत्यये तदभावेऽपि यङो बहुळ लुगिति फलितम् । तेन लूजो यङन्तादचि यङो लुगभावपक्षे अतो लोपे लोलूय इति रूपम् । लुकि तु लोलुव इति रूप सिध्द्यति । तथा अच्प्रत्ययाभावेऽपि बोभूयते, बोभवीति, इत्यादौ यडो लुग्विकल्प. सिध्द्यतीति बोध्द्यम् । अनैमित्तिकोऽयमिति ॥ अच्प्रत्ययादन्यत्र बोभवीतीत्यादौ यङ्लुक् अनैमित्तिक । ततश्च परस्मादपि द्वित्वादिकार्यात्प्रागेव अन्तरङ्गत्वाद्यडो लुक् भवति ततो द्वित्वादीति वस्तुतः स्थितिकथनमिदम् । अच्प्रत्यये विधीयमानस्तु यङ्लुक् नैमिकत्वाद्बहिरङ्ग एव । ततश्च परत्वान्नित्यत्वाच्च आदौ द्वित्वे कृते यडो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणः 'न धातुलोप आर्धधातुके' इति निषेधान्न भवति । अच्प्रत्ययस्य यड्लोपनिमित्तत्वादिति बोध्द्यम् । नन्वेव सति यड्लुकि 'सन्यडोः' इति द्वित्व न स्यात् । यडो लुका लुप्तत्वेन प्रत्ययलक्षणाभावादित्यत आह । ततः इति ॥ यडो लुगनन्तरमित्यर्थः । 'न लुमता' इत्यनेन हि लुमताशब्देन लुप्ते तन्निमित्तमङ्गकार्यन्निषिध्द्यते । द्वित्वादिकन्तु यडन्तस्य कार्यम् , नतु यड्निमित्तकम् । यडि परतस्तद्विध्द्यभावादिति भावः । द्वित्वमिति ॥ नच 'एकाचः' इति विधीयमान द्वित्वङ्कथमिह यङ्लुकि स्यात् । 'श्तिपा शपा' इति निषेधादिति वाच्यम् । 'गुणो यड्लुकोः' इत्याद्यभ्यासकार्यविधिबलेन द्वित्वनिषेधाभावज्ञापनादिति भावः । अभ्यासकार्यमिति ॥ गुणादीति भाव. । धातुत्वादिति ॥ यडो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यडन्तत्वात् 'सनाद्यन्ताः' इति धातुत्वम् । नच 'न लुमता' इति निषेधः शङ्क्यः । धातुसज्ञायाः यडन्तधर्मत्वेन यडि परतोऽङ्गकार्यत्वाभावादिति भावः। यडो डित्त्वात्तदन्तादात्मनेपदमाशङ्क्य आह । शेषादिति ॥ ननु 'शेषात्कर्तरि' इत्यत्र आत्मनेपदनिमित्तहीनो धातुश्शेषः ।
परस्मैपदम् । 'अनुदात्तङितः-' (सू २१५७) इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्' । अत एव सुदृषत्प्रासाद इत्यत्र 'अत्वसन्तस्य–' (सू ४२५) इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न । अनुदात्ताङितः–' (सू २१५७) इत्यनुबन्धनिर्देशात् । तत्र च 'श्तिपा शपा--' (प १३२) इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किं तु शबेव । 'चर्करीतं च' इत्यदादौ पाठाच्छपो लुक् ।
यडन्तधातुस्तु न तथा आत्मनेपदनिमित्तः । डकारानुबन्धसत्वादित्यत आह । अनुदात्ताङित इति तु नेति ॥ कुत इत्यत आह । ङित्त्वस्येति ॥ तदेवोपपादयति । यत्र हीति ॥ यत्र प्रत्यये लुप्तेऽपि प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण तमाश्रित्य कार्यप्रवृत्तिरिष्यते तत्रैव प्रत्ययलक्षणम् । यथा राजेत्यत्र । तत्र हि लुप्त सुप्प्रत्यय सुबात्मकप्रत्ययमात्रवृत्तिधर्मपुरस्कारेणाश्रित्य सुबन्ततया पदत्वात् 'नलोपः' इति नकारलोपप्रवृति. । डित्त्वन्तु न प्रत्ययमात्रधर्म । 'ॠतेरीयड' इत्यादिप्रत्ययेष्वप्रत्ययेष्वपि चित्रडादिषु सत्वात् । ततश्च यडि लुप्ते सति प्रत्ययलक्षणेन तमाश्रित्य तद्वृत्तिडित्त्वप्रयुक्तङ्कार्यमात्मनेपदन्न शङ्कितु शक्यमिति भाव . । ननु यत्किञ्चिद्धर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणङ्कुतो नेत्यत आह । अत एवेति ॥ प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणाश्रयणादेवेत्यर्थः । दीर्घो नेति ॥ सु शोभना दृषदः यस्य सः सुदृषत्प्रासाद इत्यत्र समासावयवत्वाल्लुप्त जस प्रत्ययलक्षणेनाश्रित्य प्राप्तः असन्तत्वलक्षणो दीर्घो न भवति । उणादीनामव्युत्पत्तिपक्षे व्युत्पत्तिपक्षे च अस्त्वस्य वेधा इत्यादावप्रत्यये प्रत्यये च सत्त्वेन प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणासम्भवादिति भावः । एतत्सर्व प्रत्ययलक्षणसूत्रभाष्यकैयटादिषु स्पष्टम् । नच सुदृषत्प्रासाद इत्यत्र जसो लुका लुप्तत्वात् 'न लुमता' इति निषेधादेव दीर्घो न भविष्यतीति वाच्यम् । दीर्घस्यासन्तकार्यत्वेन जसि परे अङ्गकार्यत्वाभावादित्यलम् । ननु उक्तरीत्या प्रत्ययलक्षणाभावात् लुप्तयडन्तात् डित्त्वप्रयुक्तमात्मनेपद मास्तु । ये तावत् स्पर्धादयः अनुदात्तेत: ये च शीडादयो डित. पठिताः तेभ्यः आत्मनेपद दुर्वारमित्यत आह । येऽपीति ॥ तेभ्योऽपि नेति ॥ तेभ्यो यड्लुकि नात्मनेपदमित्यर्थ. । कुत इत्यत आह । अनुदात्तङित इत्यनुबन्धनिर्देशादिति ॥ नन्वनुबन्धनिर्देशेऽपि यड्लुकि आत्मनेपद कुतो न स्यादित्यत आह । तत्र च श्तिपेति ॥ न चानुबन्धनिर्देशादेव डित्त्वप्रयुक्तमपि कार्यमात्मनेपद यड्लुकि न भविष्यति । अतः प्रत्ययासाधारणधर्माश्रयत्वे सत्येव प्रत्ययलक्षणमिति क्लेशानुभवो वृधेति वाच्यम् । यडो डकारस्य प्रत्ययानुबन्धत्वेन यडन्तस्य धातोरनुबन्धेनानिर्देशादित्यलम् । अत एवेति ॥ 'श्तिपा शपा' इति निषेधादेव यडलुकि श्यन्नादयो विकरणा नेत्यर्थः । 'श्तिपा शपा' इति निषेधमुपपादयति । गणेन निर्देशादिति ॥ 'दिवादिभ्यः श्यन्' 'रुधादिभ्यः श्नम्' इत्यादिगणनिर्देशादित्यर्थ । किंतु शबेवेति ॥ 'कर्तरि शप्' इत्यत्र 'श्तिपा शपा' इति निषेधाविषयत्वादिति भावः । चर्करीतमिति ॥
२६५१ । यङो वा ।(७-३-९४)
यङन्तात्परस्य हलादेः पितः सार्वधातुकस्येड्वा स्यात् । 'भूसुवो:--' (सू २२२४) इति गुणनिषेधो यङ्लुकि भाषायां न । '—बोभूतु तेतिक्ते' (सू ३५९६) इति छन्दसि निपातनात् । अतएव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुक्यप्राप्त एव गुणभावो निपात्यतामिति वाच्यम् । 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प १०१) । 'द्विः प्रयोगो द्विर्वचनं षाष्ठम्' इति
यङ्लुगन्तमदादौ बोध्द्यमिति व्याख्यात प्राक् । अतो यङ्लुगन्ताच्छपो लुगित्यर्थ. । एवञ्च भूधातोर्यडो लुकि द्वित्वादौ बोभू इत्यस्माल्लटि तिपि शपो लुकि बोभू ति इति स्थिते । यङो वा ॥ 'उतो वृद्धिः' इत्यतो हलीति 'नाभ्यस्तस्याचि' इत्यत. पिति सार्वधातुके इति 'ब्रुव ईट्’ इत्यतः ईडिति चानुवर्तते । तदाह । यङन्तादित्यादिना ॥ टित्त्वात्तिप आद्यवयव ईट् । तथाच बोभू ई ति इति स्थिते ऊकारस्य गुणे अवादेशे बोभवीतीति रूप वक्ष्यति । 'भूसुवोस्तिडि' इति गुणनिषेधमाशङ्क्य आह । भूसुवोरिति ॥ निपातनादिति ॥ 'कृषेः छन्दसि' इत्यतः छन्दसीत्यनुवृत्तौ 'दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतेक्ते' इत्यादि सूत्रे भूधातोर्यङ्लुगन्तस्य गुणाभावो निपात्यते । 'भूसुवोः' इत्येव तत्र गुणनिषेधे सिद्धे गुणाभावनिपातनन्नियमार्थम् । यङ्लुकि छन्दस्येवायम् 'भूसुवोः' इति गुणनिषेधो नान्यत्र इत्यतो लोकेऽपि यङ्लुगस्तीति विज्ञायते । एतेन 'यङोऽचि च' इति यङ्लुग्विधौ 'बहुळ छन्दसि' इति पूर्वसूत्राच्छन्दसीत्यनुवर्तयन्त पारस्ता । तदाह । अतएव यङ्लुक् भाषायामपि सिद्धः इति ॥ 'भूसुवोस्तिडि' इति सूत्रभाष्ये तु बोभूत्वित्येतन्नियमार्थम् । अत्रैव यङ्लुगन्तस्य गुणो न भवति, नान्यत्र । क्व मा भूत् बोभवीतीत्युक्तम् । अत्रैवेत्यस्य बोभूत्विति लोट्येवेत्यर्थः । यङ्लुगन्तस्येत्यस्य भूधातेरिति शेष. । बोभवीतीत्येवोदाहृतत्वादिति शब्देन्दुशेखरे प्रपञ्चितम् । वस्तुतस्तु भाष्ये यङ्लुडन्तस्येति सामान्याभिप्रायमेव । भूधातुमात्रसङ्कोचे मानाभावात् । बोभवीति इत्युदाहरणन्तु धात्वन्तराणामपि प्रदर्शनपरमिति मूलकृदाशय. । ननु भूधातोर्यड्लुकि बोभू इत्यस्य 'भूसुवोस्तिडि' इति गुणनिषेधप्रसक्तिर्नास्ति । द्वित्वे सति यड्लुगन्तस्य प्रकृत्यन्तरत्वेन भूरूपत्वाभावात् । ततश्च यङ्लुगन्तस्याप्राप्ते गुणाभावे तत्प्राप्त्यर्थमेव बोभूत्विति निपातनमिति युक्तम् । तथा च छन्दस्येव यङ्लुगन्तस्य गुणनिषेधः, न तु भाषायामिति नियमः कथं सिध्द्येदित्याशङ्क्य निराकरोति । नच यङ्लुकीति ॥ प्रकृतीति ॥ 'प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणम्' इति परिभाषया 'भूसुवो.' इत्यत्र भूग्रहणेन बोभू इति यङ्लुगन्तस्यापि ग्रहणादित्यर्थ । ननु 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इत्यत्र कि प्रमाणमित्याशङ्क्य न्यायसिद्धमिदमित्याह । द्विः प्रयोगः इति ॥ षष्ठाध्यायादौ 'एकाचो द्वे प्रथमस्य' इत्यत्र किमिद द्विर्वचन एकाचः प्रथमस्य एकस्य स्थाने द्वितयात्मक आदेशः स्थान्यपेक्षया अन्यो विधीयते, उत स्थानिन एकस्य सतः द्विरुच्चारण विधीयते, नतु तत्स्थानिनः अतिरिच्यते, इति संशय्य 'द्विः प्रयोगो
सिद्धान्तात् । बोभवीति-बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत्-अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । 'गातिस्था—' (सू २२२३) इति सिचो लुक् । 'यङो वा' (सू २६५१) इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभूत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्वुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति-पास्पर्द्धि । पास्पर्द्धः । पास्पर्धति ।
द्विर्वचनम्’ इति सिद्धान्तितम् । तदधिकारस्थत्वात् 'सन्यडो.' इति द्विर्वचनमपि तथाविधमेव ततश्च भू इत्यस्यैव बोभू इति द्विः प्रयुज्यमानतया 'भूसुवो' इति भूग्रहणेन ग्रहणाद्यड्लुक्यपि निषेधसिद्धे. बोभूत्विति निपातन छन्दस्येव यड्लुकिगुणनिषेधो, नतु भाषायामिति नियमलाभाल्लोकेऽपि यड्लुक् सिद्ध इति भावः । बोभूतः इति ॥ अपित्त्वादीण्न । डित्त्वाच्च न गुण । बोभुवतीति ॥ 'अदभ्यस्तात्' इत्यत् । डित्त्वात् गुणाभावे उवडिति भावः । बोभवीषि-बोभोषि । बोभूथः । बोभूथ । बोभवीमि-बोभोमि । बोभूव । बोभूमः । बोभवाञ्चकारेति ॥ 'कास्यनेकाच्' इत्याम् । बोभविता । बोभविष्यति । बोभवीतु-बोभोतु-बोभूतात् । बोभूताम् । बोभुवतु । हेरपित्त्वादीण्न डित्त्वान्न गुण.। बोभूहि-बोभूतात् । बोभूतम् । बोभूत । आटः पित्त्वेन अडित्त्वात् गुण । बोभवानि । बोभवावः । बोभवामः । लड्याह । अबोभवीदित्यादि । अबोभवुरिति ॥ 'सिजभ्यस्त' इति जुसि गुणे अवादेशः । अबोभवीः-अबोभोः । अबोभूतम् । अबोभूत । अबोभवम् । अबोभूव । अबोभूम । बोभूयादिति ॥ विधिलिडि आशीर्लिङि च रूपम् । बोभूयातामिति विधिलिङस्तामि रूपम् । बोभूयुः । बोभूयाः । बोभूयातम् । बोभूयात । बोभूयाम् । बोभूयाव । बोभूयाम । बोभूयास्तामिति ॥ आशीर्लिङि तामि रूपम् । बोभूयास्त । बोभूयासम् । बोभूयास्व । बोभूयास्म । लुडस्तिपि सिचि कृते आह । गातिस्थेति ॥ ईट्पक्षे इति ॥ 'इतश्च' इति इकारलोपे कृते ईडागमे 'सार्वधातुकार्धधातुकयोः' इति गुण परमपि बाधित्वा नित्यत्वात् 'भुवो वुग्लुङ्लिटोः' इति वुगित्यर्थः । गुणे कृते अकृते च प्राप्तेः वुको नित्यत्व बोध्द्यम् । अबोभूवीदिति ॥ वुकि कृते सति तेन व्यवधानादूकरस्य न गुणः । ननु लुडो झेर्जुसि वुकि अबोभूवुरिति रूप वक्ष्यति । तदयुक्तम् । 'आत:' इति सूत्रे सिज्लुकि आदन्तादेव झेर्जुसिति नियमनादित्यत आह । अभ्यस्ताश्रयो जुसिति ॥ 'सिजभ्यस्त' इत्यनेन अभ्यस्तात्परत्वात् जुसित्यर्थः । 'सिजभ्यस्त' इति सूत्रे सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायन्नियमः, न त्वभ्यस्ताश्रयजुस इति भावः । अबोभू उस् इति स्थिते 'जुसि च' इति गुणमाशङ्क्य आह । नित्यत्वाद्वुगिति ॥ 'जुसि च' इति गुणापेक्षयेत्यर्थः । अबोभूवुरिति ॥ न चात्राभ्यस्ताश्रयजुस बाधित्वा परत्वात् 'अदभ्यस्तात्' इत्यदादेशः स्यादिति शङ्क्यम्। अभ्यस्ताश्रयजुस. अदादेशापवादत्वादिति भावः । अबोभूवीः-अबोभोः । अबोभूतम् । अबोभूवम् । अबोभूव । अबोभूम । इत्यादीति ॥ अबोभविष्यताम्, अबोभविष्यन्, इत्यादि व्यक्तम् । पास्पर्धीतीति ॥ स्पर्धधातो यङ्लुकि
पास्पर्त्सि । 'हुझल्भ्यो हेर्धिः' (सू २४२५) । पास्पर्धि । लङ् । अपास्पर्त्-अपास्पर्द् । सिपि 'दश्च' (सू २४६८) इति रुत्वपक्षे 'रो रि' (सू २७३) अपास्पाः । जागाद्धि । जाघात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघा: । 'नाथृ' । नानात्ति । नानात्तः । 'दध' । दादद्धि । दादद्धः । दाधत्सि ।
द्वित्वे 'शर्पूर्वा खय.' इति पकारशेषे 'दीर्घोऽकितः' इति दीर्घे पास्पर्ध् इत्यस्माल्लटस्तिपि शपि शपो लुकि 'यडो वा' इति ईडागमे रूपम् । ईडभावे त्वाह । पास्पर्द्धीति ॥ पास्पर्ध् ति इति स्थिते 'झषस्तथोर्धोऽध ' इति तकारस्य धकारः । 'झलाञ्जश् झशि' इति पूर्वधकारस्य द इति भावः । मिब्वस्मस्सु पास्पर्धीमि-पास्पर्ध्मि । पास्पर्ध्वः । पास्पर्ध्मः । पास्पर्धाञ्चकार । पास्पर्धिता । पास्पर्धिष्यति । पास्पर्धीतु-पास्पर्ध्दु-पास्पर्धात् । पास्पर्धतु । हेरपित्त्वादीडभाव सिद्धवत्कृत्य आह । हुझल्भ्यः इति ॥ पास्पर्धीति ॥ हेर्धिभावे 'झरो झरि' इति वा धलोपः । पास्पर्धात् । पास्पर्धम् । पास्पर्धानि । पास्पर्धाव । पास्पर्धाम । लडि तिपि उदाहरणसूचनम् । ईटि अपास्पर्धीत् इति सिद्धवत्कृत्य ईडभावे आह । अपास्पर्त् इति ॥ अपास्पर्ध् त् इति स्थिते हल्ड्यादिना तकारलोपे 'वाऽवसाने' इति चर्त्वविकल्प इति भाव.। अपास्पर्धाम् । अपास्पर्धुः । सिपि तु अपास्पर्ध् स् इति स्थिते जश्त्वे 'दश्च' इति दकारस्य रुत्वपक्षे अपास्पर् र् स् इति स्थिते हल्ड्यादिना सकारलोपे 'रो रि' इति रेफलोपे 'ढ्रलोपे' इति दीर्घे विसर्गे अपास्पाः इति रूपम् । 'सिपि च' इति धस्य दत्वपक्षे तु अपास्पर्त् इति रूपमित्यर्थः । नच दीर्घे सिपि 'दश्च' इति रुत्वमसिद्धमिति शङ्क्यम् । 'ढ्रलोपे' इति सूत्रे ढग्रहणेन लण्सूत्रे जर्गृधेः अजर्घाः इति भाष्यप्रयोगेण च पूर्वत्रासिद्धमित्यस्याप्रवृत्तिबोधनात् । अपास्पर्धम् । अपास्पर्ध्व । अपास्पर्ध्म । लिडि पास्पर्ध्यात् । पास्पर्ध्याताम् । पास्पर्ध्यास्ताम् इत्यादि । लुडि अपास्पर्ध् स् इति स्थिते 'अस्तिसिच' इति नित्यमीट् । 'इट ईटि' इति सलोप. । अपास्पर्धीत् । अपास्पर्धिष्टाम् । अपास्पर्धिषुः । अपास्पर्धिष्यत् । गाधृधातोर्यड्लुगन्तात् लटस्तिपि ईट्पक्षे जागाधीति सिद्धवत्कृत्य ईडभावे आह । जागाद्धीति ॥ जागाध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य ध: । जागाद्धः । जागाधति । सिपि ईट्पक्षे जागाधीषीति सिद्धवत्कृत्य ईडभावपक्षे आह । जाघात्सीति ॥ जागाध् सि इति स्थिते 'एकाचो बशः' इति गस्य भष् धस्य चर्त्वमिति भावः । जागाद्धः । जागाद्ध । जागाध्मि । जागाध्वः । जागाध्मः । जागाधाञ्चकार । जागाधिता । जागाधिष्यति । जागाधीतु-जागाध्दु-जागाद्धात् । जागाद्धाम् । जागाधतु । जागाद्धि-जागाद्धात् । जागाद्धम् । जागाद्ध । जागाधानि । जागाधाव । जागाधाम । लडि अजागाधीत्-अजाघात् । अजागाद्धाम् । अजागाधुः । सिपि ईट्पक्षे अजागाधीरिति सिद्धवत्कृत्य ईडभावपक्षे आह । सिपीति ॥ अजागाध् स् इति स्थिते भष्भावे 'सिपि धातोरुर्वा' 'दश्च' इति दस्य रुत्वपक्षे हल्ड्यादिलोपे रेफस्य विसर्गे अजाघाः इति रूपमित्यर्थः । दत्वपक्षे तु अजाघाद् इति बोध्द्यम् । अजागाद्धाम्, इत्यादि । जागाध्यात् । लुडि 'अस्तिसिचः' इति नित्यमीट् । अजागाधीत् । अजागाधिष्टाम्, इत्यादि । नाथृ इति ॥ उदाहरणसूचनम् । वर्गद्वितीयान्तोऽयं धातुः न झषन्तः । तस्य ईट्पक्षे नानाथीति इति सिद्धवत्कृत्य ईडभावपक्षे आह । नाना-
अदाधत् । अदादधुः । अदाधः-अदाधत् । लुङि । अदादाधीत्-अदादधीत् । चोस्कुन्दीति-चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति-मोमोत्ति । मोमोदाञ्चकार । मोमोदिता । अमोमुदीत्-अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदी:-अमोमो:-अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति-चोकूर्दीति । लङ् । तिप् । अचोकूर्त्-अचोकूर्दीत् ।
त्तीति ॥ नानाथ् ति इति स्थिते 'खरि च' इति थस्य चर्त्वम् । 'झषस्तथोः' इति 'एकाचो बशो भष्' इति च न । अझषन्तत्वात् । नानात्तः । नानाथति । नानाथीषि-नानात्सि । नानात्थः । नानात्थ । नानाथीमि-नानाथ्मि । नानाथ्वः । नानाथ्मः । लोटि नानाथीतु-नानात्तु । हेर्धि । थस्य जश्त्वेन दः । नानाद्धि । नानाथानि । नानाथाव । नानाथाम । लडि अनानाथीत्-अनानात् । अनानात्ताम् । अनानाथुः, इत्यादि । लुडि 'अस्तिसिच' इति नित्यमीट् । अनानाथीत् । अनानाथिष्टाम्, इत्यादि । दधेति ॥ उदाहरणसूचनमिदम् । दधधातोर्लटस्तिपि ईट्पक्षे दादधीतीति सिद्धवत्कृत्य ईडभावपक्षे आह । दादद्धीति ॥ दादध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः । दादधीषीति सिद्धवत्कृत्य आह । दाधत्सीति ॥ 'एकाचो बशः' इति दस्य भष् । धस्य 'खरि च' इति चर्त्वमिति भावः । दादत्थः । दादत्थ । दादध्मि, इत्यादि । लोटि दादधीतु-दादध्दु । दादाद्धि । दादधानि । लडस्तिपि ईटि अदादधीत् इति सिद्धवत्कृत्य ईडभावे आह । अदाधत् इति ॥ अदादध् त् इति स्थिते हल्ड्यादिलोपे भष्भावे धस्य 'वावसाने' इति चर्त्वविकल्प इति भावः । सिपि ईटि अदादधीरिति सिद्धवत्कृत्य ईडभावे आह । अदाधः इति ॥ अदादध् स् इति स्थिते जश्त्वे 'दश्च' इति दस्य रुत्वे हल्ड्यादिना सलोपे रुत्वजश्त्वयोरसिद्धत्वेन झषन्तत्वात् दस्य भषिति भावः । अदाधदिति दत्वपक्षे रूपम् । 'अस्तिसिचः' इति नित्यमीडिति मत्वा आह । अदादधीदिति ॥ 'अतो हलादेः' इति वृद्धिविकल्पः । अदादधिष्टाम्, इत्यादि 'स्कुदि आप्रवणे' इदित्त्वान्नुम् । अस्माद्यड्लुकि उदाहरति । चोस्कुन्दीतीति ॥ ईटि रूपम् । तदभावे त्वाह । चोस्कुन्तीति ॥ 'झरो झरि सवर्णे' इति तकारस्य लोपविकल्पः । इह यडो लुप्तत्वादिदित्वाच्च यडन्तिडञ्चाश्रित्य नलोपो न । लडि ईट्पक्षे अचोस्कुन्दीदिति सिद्धवत्कृत्य ईडभावे आह । अचोस्कुन्निति ॥ अचोस्कुन् द् त् इति स्थिते हल्ड्यादिना तकारलोपे दकारस्य सयोगान्तलोपः । लुडि तु 'अस्तिसिच' इति नित्यमीट् । अचोस्कुन्दीत् । अचोस्कुन्दिष्टाम्, इत्यादि । मोमुदीतीति ॥ 'मुद हर्षे' ईटि 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणो न । मोमोत्तीति ॥ ईडभावे अच्परकत्वाभावात् 'नाभ्यस्तस्याचि' इति लघूपधगुणनिषेधो न । मोमोदितेति ॥ 'न धातुलोप आर्धधातुके' इति गुणनिषेधस्तु न । धात्वशलोपनिमित्ते आर्धधातुके परे एव तन्निषेधस्य प्रवृत्तेः । इह च यड्लुकः अनैमित्तिकस्य उक्तत्वात् । लुङि गुणः इति ॥ सिज्निमित्तक इति शेषः । अतो 'नाभ्यस्तस्य' इति गुणनिषेधो न शङ्क्यः । चोकूर्तीति ॥ 'कुर्द क्रीडायाम्' यड्लुक्
सिप्पक्षे । अचोकूः । अचोखूः । अजोगू: । वनीवञ्चीति-वनीवङ्क्ति । वनीवक्त:। वनीवचति । अवनीवञ्चीत्-अवनीवन् । जङ्गमीति-जङ्गन्ति । 'अनुदात्तोपदेश--' (सू २४२८) । इत्यनुनासिकलोपः । जङ्गतः । जङ्ग्मति । 'म्वोश्च' (सू २६०९) । जङ्गन्मि । जङ्गन्व: । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लक् । जङ्गहि । 'मो नो धातोः' (सू ३४१) । अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । 'ह्म्यन्त--'
द्वित्वादि । ईडभावे 'उपधायाञ्च' इति दीर्घः । अचोकूर्त् इति ॥ लडस्तिपि अचोकूर्द् त् इति स्थिते हल्ड्यादिलोपे 'रात्सस्य' इति नियमान्न सयोगान्तलोप इति भावः । सिप्पक्षे इति ॥ लडस्सिपि ईडभावे अचोकूर्द् स् इति स्थिते 'दश्च' इति रुत्वपक्षे हल्ड्यादिना सलोपे 'रो रि' इति प्रथमरेफलोपे दीर्घे दकारस्थानिकरेफस्य विसर्गे अचोकूरिति रूपमित्यर्थः । अचोखूरिति ॥ खुर्दधातोर्यङ्लुगन्तात् लडस्सिपि कुर्दवद्रूपम् । अजोगूरिति ॥ गुर्दधातोर्यड्लुगन्तात् सिपि रूपम् । वनीवञ्चीतीति ॥ 'वञ्चु गतौ' अस्मात् 'नित्य कौटिल्ये गतौ' इति यडन्तस्य लुक् । द्वित्वादि । 'नीग्वञ्चु' इत्यादिना अभ्यासस्य नीगागमः । यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः । तिपः पित्त्वेन अडित्त्वान्न तदाश्रितोऽपि नलोप . । ईकारोच्चारणसामर्थ्यान्नीको न गुण .। अन्यथा निकमेव विदध्यात् । नच 'नीग्वञ्चु' इत्यनुबन्धनिर्देशाद्यड्लुकि नीक् दुर्लभ इति शङ्क्यम् । तत्र यड्लुको इत्यनुवृत्तिसामर्थ्येन अदोषादिति भाव.। वनीवङ्क्तीति ॥ ईडभावे चस्य कुत्वेन कः । नकारस्थानिकानुस्वारस्य परसवर्णो ङकार इति भाव. । वनीवक्तः इति ॥ तसो डित्त्वादिह स्यादेव 'अनिदिताम्' इति नलोपः । लोटि वनीवञ्चीतु-वनीवङ्क्तु-वनीवक्तात् । वनीवक्ताम् । वनीवचतु । हेर्धिः । अपित्त्वेन डित्त्वान्नलोप. । अत एव ईडपि न । वनीवग्धि । वनीवञ्चानि । आटः पित्त्वादडित्वान्नलोपो न । लडि तिपि ईट्पक्षे आह । अवनीवञ्चीदिति ॥ ईडभावे त्वाह । अवनीवन् इति ॥ हल्ड्यादिना तलोपे चकारस्य सयोगान्तलोप. । जङ्गमीतीति ॥ गमेर्यड्लुगन्ताल्लटस्तिपि ईट् । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । 'नश्च' इत्यनुस्वारः परसवर्णश्चेति भावः । तसि आह । अनुदात्तेति ॥ जङ्ग्मतीति ॥ 'गमहन' इत्युपधालोप इति भाव । ननु गमेरनिट्त्वात् प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणाज्जङ्गमितेत्यत्र कथमिडित्यत आह । एकाज्ग्रहणेनेति ॥ ननु जङ्गहीत्यत्र अनुनासिकलोपे कृते 'अतो हेः' इति लुक् स्यादित्यत आह । अनुनासिकलोपस्येति ॥ लडस्तिपि अजङ्गमीदिति सिद्धवत्कृत्य ईडभावे आह । मो नः इति ॥ अजङ्गम् त् इति स्थिते हल्ड्यादिना तलोपे 'मो नो धातो' इति मस्य न इत्यर्थः । तदाह । अजङ्गन्निति ॥ अजङ्गताम् । अजड्ग्मुः । अजङ्गन् । अजङ्गतम् । अजङ्गत । अजङ्गमम् । अजङ्गन्व । अजङ्गन्म । लुङि अजङ्गमीदित्यत्र 'पुषादिद्युतादिलृदित' इत्यडमाशङ्क्य आह । अनुबन्धेति ॥ हन्तेर्यड्लुक् हिसार्थे क्रियासमभिहारे । गत्यर्थत्वे तु कौटिल्ये यडिति बोध्द्यम् । हन्तेरित्यनुवर्त्येति ॥ तथाच
(सू २२९९) इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्यङ्लुक् । 'अभ्यासाच्च' (सू २४३०) इति कुत्वम् । यद्यपि 'हो हन्तेः--' (सू ३५८) इत्यतो 'हन्तेः' इत्यनुवर्त्य विहितम्। तथापि यङ्लुकि भवत्येवेति न्यासकारः । 'श्तिपा शपा' (प १३२) इति निषेधस्त्वनित्यः । 'गुणो यङ्लुकोः' (सू २६३०) इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत्--अजङ्घन् । जङ्घन्यात् । आशिषि तु वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वन्तु न भवति । स्थानिवत्त्वेन 'अनभ्यासस्य' इति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु 'आङो
'श्तिपा शपा' इति निषेधात्कथमिह 'हो हन्ते.' इति कुत्वमित्याक्षेप. । गुणः इति ॥ 'गुणो यङ्लुकोः' इति ज्ञापकादित्यन्वय. । 'एकाचो द्वे प्रथमस्य' इत्यत्र एकग्रहणाद्यङ्लुकि द्विर्वचनस्याभावादभ्यासाभावात् 'गुणो यङ्लुको' इत्यभ्यासस्य गुणविधान 'श्तिपा शपा' इत्यादि निषेधस्य क्वचिद्यङ्लुकि अप्रवृत्ति ज्ञापयतीत्यर्थ । नन्वेकाज्ग्रहणविधेरेव यङ्लुकि क्वचिदप्रवृत्तिज्ञापनलाभेऽपि 'हो हन्तेः' इति श्तिपा निर्देशनिमित्तकनिषेधस्य कथं यङ्लुकि अप्रवृत्ति स्यादित्यत आह । सामान्यापेक्षेति ॥ 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानमेकाज्ग्रहणस्यानित्यत्व ज्ञापयत् तद्वचनोपात्तत्वसामान्यात् 'श्तिपा शपा' इत्यादिसर्वनिषधाना यङ्लुकि क्वचिदप्रवृत्ति ज्ञापयतीत्यर्थः । इति भावः इति ॥ न्यासकृत इति शेषः । जङ्घनीतीति ॥ 'नुगतः' इति नुक् । जङ्घतः इति ॥ 'अनुदात्तोपदेश' इत्यनुनासिकलोपः । जङ्घ्नतीति ॥ 'गमहन' इत्युपधालोपः । जङ्घनितेति ॥ एकाज्ग्रहणादिण्निषेधो न ।जङ्घहीत्यत्र 'हन्तेर्जः' इत्याशङ्क्य आह । शितपेति ॥ अजङ्घन्निति ॥ लडस्तिपि ईडभावे अजङ्घन् त् इति स्थिते हल्ड्यादिलोप इति भावः । आशिषि तु वध्यादिति ॥ अयं भावः । जङ्घन् इत्यस्मादाशीर्लिङि 'हनो वध लिङि' इति वधादेशः । प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणादिति भावः । अवधीदिति ॥ जङ्घन् इत्यस्माल्लुडस्तिपि 'लुडि च' इति वधादेशे 'अस्तिसिचः' इति नित्यमीडिति भाव । ननु हनो यङ्लुगन्तात् आशीर्लिङो लुङश्च तिपि द्वित्वात्प्रागेव वधादेशे कृते तस्य द्वित्व कुतो न स्यादित्यत आह । वधादेशस्य द्वित्वन्तु न भवतीति ॥ कुत इत्यत आह । स्थानिवत्त्वेनेति ॥ वधादेशात्परत्वादादौ द्वित्वे कृते सति कृतद्विर्वचनस्य स्थाने वधादेश. । तस्य च स्थानिवत्त्वेन साभ्यासतया अनभ्यासस्येति निषेधान्न द्वित्वमित्यर्थः । ननु साभ्यासस्य स्थाने भवन् वधादेशः स्थानिवत्त्वेन साभ्यासोऽस्तु । द्वित्वन्दुर्वारम् । साभ्यासत्वेऽप्यभ्यासानात्मकत्वात् अनभ्यासस्येत्यनेन धातोरवयवस्याभ्यासद्वित्वनिषेधादित्यत आह । तद्धीति ॥ धात्ववयवस्य अभ्यासस्येति नार्थः । किन्तु अनभ्यासो यो धातुः तदवयवस्यैकाच इत्येव । अनभ्यासग्रहणं सामानाधिकरण्येन धातोर्विशेषण
'यमहनः' (सू २६९५) इत्यात्मनेपदम् । आजङ्घते इत्यादि । 'उत्परस्य--' (सू २६३७) इति तपरत्वान्न गुणः । 'हलि च' (सू ३५४) इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति-चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चुरीत्-अचञ्चूः । चङ्खनीति-चङ्खन्ति । 'जनसन--' (सू २५०४) इत्यात्त्वम् । चङ्खातः । 'गमहन--' (सू २६६३) इत्युपधालोपः | चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत्-अचङ्खन् । अचङ्ख्नुः । 'ये विभाषा' (सू १३१९) । चङ्खायात्-चङ्खन्यात् । अचङ्खनीत्-अचङ्खानीत् । 'उतो वृद्धिः--' (सू २४४३) इत्यत्र 'नाभ्यस्तस्य' इत्यनुवृत्तेरुतो वृद्धिर्न । योयोति-योयवीति । अयोयवीत्--
मित्यर्थः । नन्वेवमपि न अभ्यास अनभ्यास. इति विग्रहे द्वित्वन्दुर्निवारमेव । वधादेशस्य स्थानिवत्त्वेन धातो साभ्यासत्वेऽप्यभ्यासानात्मकत्वादित्यत आह । बहुव्रीहिबलादिति ॥ न विद्यते अभ्यासो यस्य धातोरिति बहुव्रीहिमाश्रित्य अनभ्यासस्येत्येतद्धातोः सामानाधिकरण्येन विशेषणमित्यर्थ । प्रकृते च वधादेशस्य धातो. स्थानिवत्त्वेन साभ्यासत्वादभ्यासहीनत्वाभावान्न द्वित्वमिति भाव । आङ्पूर्वात्त्विति ॥ यङ्लुगन्ताद्धनधातोरिति शेषः । 'आङो यमहनः' इत्यत्र हन्ग्रहणेन यङ्लुगन्तस्यापि ग्रहणम् । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः । उत्परस्येति ॥ 'चर गतौ भक्षणे च' अस्माद्यङ्लुकि लटस्तिपि ईडभावे द्वित्वे 'चरफलोश्च' इत्यभ्यासस्य नुक् । 'उत्परस्यातः' इत्युत्तरखण्डे अकारस्य उत्त्व 'हलि च' इति दीर्घ । चञ्चूर्तीति रूपम् । तिपमाश्रित्य उकारस्य लघूपधगुणस्तु न । उदिति तपरकरणसामर्थ्यात् । अन्यथा उरित्युक्तेऽपि 'भाव्यमानोऽण् सवर्णान् न गृह्णाति' इत्येव दीर्घादिव्यावृत्तेरित्यर्थ. । ननु उदिति तपरकरणाद्यथा गुणो निवर्तते तथा 'हलि च' इति दीर्घोऽपि निवर्तेत इत्यत आह । हलि चेति दीर्घस्तु स्यादेवेति ॥ कुत इत्यत आह । तस्येति ॥ 'हलि च' इति दीर्घशास्त्रस्य त्रैपादिकत्वेन 'उत्परस्यात.' इति शास्त्रम्प्रत्यसिद्धतया तपरकरणेन तन्निवृत्तेरसम्भवादित्यर्थ । वस्तुतस्तु गुणस्यापि बहिरङ्गतया असिद्धत्वात्तपरत्वनिवर्त्यत्वन्न भवति । अतएव विप्रतिषेधसूत्रे भाष्ये 'उदोष्ठ्य' इत्युत्त्वे पोपूर्यते इत्यत्राभ्यासगुणो दृश्यमान. उपपद्यते इति शब्देन्दुशेखरे प्रपञ्चितम् । अचञ्चूरिति ॥ लडस्तिपि ईडभावे हल्ड्यादिना तलोपे प्रत्ययलक्षणेन 'हलि च' इति वा पदान्तत्वात् 'र्वोरुपधाया' इति वा दीर्घः । 'खनु अवदारणे' अस्माद्यङ्लुकि उदाहरति । चङ्खनीतीति ॥ चङ्खाहीति ॥ हेरपित्त्वेन डित्त्वात् 'जनसन' इत्यात्त्वम् । अचङ्खनीदिति ॥ 'अस्तिसिच.' इति नित्यमीट् । 'अतो हलादेः' इति वृद्धिविकल्प .। युधातोः योयोतीत्यत्र 'उतो वृद्धि.' इति वृद्धिमाशङ्क्य आह । उतो वृद्धिरित्यत्रेति ॥ आशिषि दीर्घः इति ॥ 'अकृत्सार्वधातुकयोः' इत्यनेनेति भावः । अयोयावीदिति ॥ ईटि सिचि वृद्धिः । नुधातोरपि युधातुवद्रूपाणीति मत्वा आह ।
अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति-नोनोति । जाहेति-जाहाति । 'ई हल्यघो:' (सू २४९७) । जाहीतः । इह 'जहातेश्च' (सू २४९८) 'आ च हौ' (सू २४९९) 'लोपो यि' (सू २५००) 'घुमास्था' (सू २४६२) 'एर्लिङि' (सू २३७४) इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि-जाहेषि । जाहीथः । जाहीथ । जाहीहि । अजाहेत्-अजाहात् । अजाहीताम् । अजाहुः । जाहीयात् । आशिषि जाहायात् । अजाहासीत् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् 'स्वपिस्यमि--' (सू २६४५) इत्युत्त्वं न । 'रुदादिभ्यः–-' (सू २४७४) इति गणनिर्दिष्टत्वादीण्न । सास्व-
नोनवीतीति ॥ हाड्हाकोर्यङ्लुकि तुल्यानि रूपाणि । डित्त्वप्रयुक्तात्मनेपदस्य यङ्लुकि अप्रवृत्तेरुक्तत्वादिति मत्वा आह । जाहेतीति ॥ हाड्हाकोर्यङ्लुगन्ताल्लटस्तिपि ईटि आद्गुणे रूपम् । नच हाडोऽभ्यासस्य 'भृञामित्' इति इत्त्वम्। हाकस्तु तन्नास्ति । भृञ् माड् ओहाड् एषान्त्रयाणामेव तत्र ग्रहणात् कथं हाड्हाकोस्तुल्यत्वमिति शङ्क्यम् । 'भृञामित्' इत्यस्य श्लावेव प्रवृत्तेः । न चाकित इति निषेधात् हाकोऽभ्यासस्य दीर्घाभावात् कथमुभयोस्तुल्यरूपत्वमिति वाच्यम् । क् इत् यस्य सः कित् न विद्यते कित् यस्य सः अकित् तस्य अकित इति बहुव्रीहिगर्भबहुव्रीह्याश्रयणात् । इह च हाको धातो कित्त्वेऽपि न किद्वत्त्वम् । तदभ्यासस्य तु दूरेतरान्न किद्वत्त्वम् । 'द्विः प्रयोगो द्विर्वचन षाष्ठम्' इति सिद्धान्तात् । बहुव्रीह्याश्रयणसामर्थ्यादेव व्यपदेशिवत्त्वेन हाको न कित्त्वम् । अतो हाकोऽप्यभ्यासदीर्घो निर्बाध इति भावः । जाहीतः इति ॥ हाड्हाकोस्तसि ईत्वमेव । ननु हाको 'जहातेश्च' इति इत्त्वविकल्प कुतो नेत्यत आह । इहेति ॥ हलादौ क्डिति सार्वधातुके 'जहातेश्च' इति इत्त्वविकल्प । तथा 'आ च हौ' इति जहातेर्हौ परे आत्वमीत्वञ्च, तथा 'लोपो यि' इति यादौ सार्वधातुके जहातेरल्लोपश्च, तथा 'घुमास्था' इत जहातेर्हलादौ क्डित्यार्धधातुके ईत्वञ्च, तथा 'एर्लिडि' इति जहातेरार्धधातुके परे क्डित्येत्वञ्च, इत्येते पञ्चापि विधयो यङ्लुकि न भवन्तीत्यर्थ । कुत इत्यत आह । श्तिपेति ॥ एवञ्च जाहीत इत्यत्र 'ई हल्यघोः' इति ईत्वमेव । नत्वित्त्वविकल्प इति स्थितम् । जाहतीति ॥ 'अदभ्यस्तात्' इत्यदादेशः 'श्नाभ्यस्तयोः' इत्याल्लोपः । जाहाञ्चकार । जाहिता । जाहिष्यति । जाहेतु-जाहातु—जाहीतात् । जाहीताम् ।जाहतु । जाहीहीति ॥ हेरपित्त्वेन डित्त्वादीत्वम् । इह 'आ च हौ' इति न । विधिलिङ्याह । जाहीयादिति ॥ 'ई हल्यघोः' इति ईत्वमेव । 'लोपो यि' इत्याल्लोपस्तु न । आशिषि । जाहायादिति ॥ इह 'घुमास्था' इति ईत्वन्न । 'एर्लिङि' इत्यपि न । अजाहासीदिति ॥ 'यमरम' इति सगिटौ । 'ञि ष्वप् शये' अस्य यङ्लुकि 'स्वपिस्यमिव्यङा यडि' इति सम्प्रसारणमाशङ्क्य आह । लुका लुते इति ॥ उत्त्वन्नेति ॥ वस्य सम्प्रसारणन्नेत्यर्थः । ईडभावपक्षे 'रुदादिभ्यः'
पीति-सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत्-असास्वप् । सास्वप्यात् । आशिषि तु 'वचिस्वपि—' (सू २४०९) इत्युत्त्वम् । सासुप्यात् । असास्वापीत्-असास्वपीत् ।
२६५२ । रुग्रिकौ च लुकि । (७-४-९१)
ऋदुपधस्य धातोरभ्यासस्य 'रुक्' 'रिक्' रीक्' एते आगमाः स्युर्यङ्लुकि ।
२६५३ । ॠतश्च । (७-४-९२)
ऋदन्तधातोरपि तथा । वर्वृतीति-वरिवृतीति-वरीवृतीति । वर्वर्ति-वरिवर्ति-वरीवर्ति। वर्वृत:-वरिवृत:-वरीवृतः । वर्वृतति-वरिवृतति-वरीवृतति । वर्वर्तामास-वरिवर्तामास-वरीवर्तामास । वर्वर्तिता-वरिवर्तिता-वरीवर्तिता । गणनिर्दिष्टत्वात् 'न वृद्भ्यश्चतुर्भ्यः' (सू २६४८) इति न । वर्वर्तिष्यति--वरिवर्तिष्यति-वरीवर्तिष्यति । अवर्वृतीत्-अवरिवृतीत्-अवरीवृतीत् । अवर्वर्त्-अवरिवर्त्-अवरीवर्त् । सिपि 'दश्च' (सू २४६८) इति रुत्वपक्षे 'रो रि' (१७३) अवर्वाः-अवरिवाः-अवरीवाः । गणनिर्दिष्टत्वादङ् न । अवर्वतीत्-अवरिवर्तीत् ।
इटमाशङ्क्य आह । रुदादिभ्यः इति ॥ असास्वप् इति ॥ लडस्तिपि ईडभावे हल्ड्यादिलोपः । असास्वापीत् इति ॥ 'अतो हलादेः' इति वृद्धिविकल्पः । 'अस्तिसिच' इति नित्यमीट् । रुग्रिकौ च लुकि ॥ 'ॠदुपधस्य च' इत्यतः ॠदुपधस्येत्यनुवर्तते । रिगपि इह चकारात् समुच्चीयते । 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुकोः' इत्यतः यङ्लुक्ग्रहणञ्च । तदाह । ऋदुपधस्येत्यादिना ॥ रुकि उकार उच्चारणार्थः । रिकि तु इकारः श्रूयत एव । एवं रीकि ईकारश्च । व्याख्यानात् । ऋतश्च ॥ तथेति ॥ अभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युः यङ्लुकीत्यर्थः । 'वृतु वर्तने' अस्माद्यङ्लुगन्तात् ववृत् इत्यस्माल्लटस्तिपि ईट्पक्षे अभ्यासस्य क्रमेण रुक रिक रीकञ्चोदाहरति । वर्वृतीति-वरिवृतीति-वरीवृतीति इति ॥ ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति निषेधान्न लघूपधगुण. । ईडभावेऽपि रुगाद्यागमत्रयमुदाहरति । वर्वर्तीत्यादि ॥ इति नेति ॥ इण्निषेधो नेत्यर्थः । लोटि वर्वृतीतु-वर्वर्त्तु-वर्वृत्तात् । वर्वृत्ताम् । वर्वृततु । वृर्वृद्धि । वर्वर्तानि । लडस्तिपि ईटि आह । अवर्वृतीदिति ॥ ईडभावे त्वाह । अवर्वर्त् इति ॥ हल्ड्यादिना तिपो लोपः । 'रात्सस्य' इति नियमान्न संयोगान्तलोपः । अवर्वाः इति ॥ लडस्तिपि अवर्वर्त् सि इति स्थिते 'दश्च' इति दकारस्य रुत्वे 'रो रि' इति पूर्वरेफस्य लोपे ढ्रलोपे इति दीर्घे हल्ड्यादिना सिपो लोपे रेफस्य विसर्ग इति भावः । अङ् नेति ॥ 'पुषादिद्युतादि' इत्यनेनेति शेषः । 'अस्तिसिचः' इति नित्यमीट् । अथ 'डु कृञ् करणे' इति धातोरुदाहरति ।
अवरीवर्तीत् । चर्करीति-चर्कर्ति-चरिकर्ति-चरीकर्ति । चर्कृतः । चर्क्रति । चर्कराञ्चकार । चर्करिता । अचर्करीत्-अचर्कः । चर्कृयात् । आशिषि रिङ् । चर्क्रियात् । अचर्कारीत् । 'ऋतश्च' (सू २६५३) इति तपरत्वान्नेह । 'कॄ विक्षेपे' । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत्--अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्त्वं रपरत्वम् । 'हलादिः शेषः' (सू २१७९) रुक् । रिग्रीकोस्तु 'अभ्यासस्यासवर्णे' (सू २२९०) इति इयङ् । अरर्ति-अरियर्ति। अररीति-अरियरीति । अर्ऋतः-अरियृतः । झि अत् । यण् । रुको 'रो रि' (सू १७३) इति लोपः । न च तस्मिन्कर्तव्ये यणः स्थानिवत्त्वम् ।
चर्करीतीत्यादि ॥ चर्कृयादिति ॥ विधिलिङस्तिडस्सार्वधातुकत्वात् 'अकृत्सार्वधातुकयोः' इति दीर्घो न । आशिषीति ॥ आशीर्लिड आर्धधातुकत्वात् 'रिड् शयग्लिडक्षु' इति रिडिति भावः । लुकि अचर्कारीदिति ॥ सिचि वृद्धिः । ऋतश्च इति तपरत्वान्नेहेति ॥ रुग्रिग्रीक इति शेषः । चाकर्तीति ॥ ईडभावे रूपम् । नचाभ्यासह्रस्वत्वे 'रीगृत्वतः' इति रीक् शङ्क्यः । नित्यत्वादुरदत्त्वस्य प्राप्ते. । चाकीर्त । चाकिरति । इत्यादि । डित्त्वाद्गुणाभावे ॠत इत्त्वं रपरत्वम् । चाकरीति । चाकीर्तः । चाकिरति । चाकराञ्चकार । चाकरिता । चाकर्तु-चाकीर्तात् । चाकिरतु । चाकीर्हि । चाकराणि । लडि अचाकरीत्-अचाकः । अचाकीर्ताम् । अचाकरुः। विधावाशिषि च चाकीर्यात् । यासुटो डित्त्वान्न गुणः । इत्त्व 'हलि च' इति दीर्घ .। चाकीर्याताम्, चाकीर्यास्ताम्, इत्यादि । लुडि अचाकरीत्, अचाकरिष्टाम्, इत्यादि । एव 'तॄ प्लवनतरणयोः' इत्यस्यापि रूपाणि । अद्वैतदीपिकाया तु चोद्य नावतरीतर्तीति लेखकप्रमादः । चोद्यन्तु नावतातर्तीति पाठः प्रामाणिकः । अर्तेरिति ॥ 'सूचिसूत्रि' इत्यादना ॠधातोर्यड् । तस्य लुक् । व्यपदेशिवत्त्वेन ॠ इत्यस्य आदिभूतादच. परत्वात् द्वितीयैकाच्त्वाच्च द्वित्वम् । अभ्यासॠवर्णस्य अत्त्वे रपरत्वे अर् ॠ इति स्थिते हलादिशेषेण रेफस्य निवृत्तिः । अ ॠ इति स्थिते अभ्यासस्य रुक् । लटस्तिपि
ईडभावे अर् ॠ ति इति स्थिते तिपि ॠकारस्य गुणे अकारे रपरे सति अरर्तीति रूपमित्यर्थ. । रिग्रीवकोस्त्विति ॥ यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अ ॠ इति स्थिते रिकि रीकि च कृते तिपि उत्तरखण्डस्य ॠकारस्य गुणे अकारे रपरे कृते अरि अर्तीति स्थिते अभ्यासे रेफादिवर्णस्य यणम्बाधित्वा 'अभ्यासस्यासवर्णे' इति इयडि अरियर्तीति रिग्रीकोस्तुल्य रूपमित्यर्थः । अथ लटस्तिपि ईट्पक्षे आह । अररीति-अरियरीतीति ॥ अर्ऋतः इति ॥ रुकि तसि रूपम् । डित्त्वान्न गुण. । अरियृतः इति ॥ द्वित्वे उरदत्त्वे हलादिशेषे अ ॠ तस् इति स्थिते रिकि रीकि च कृते इयडादेशे रूपम् । झि अदिति ॥ झि इत्यविभक्तिकनिर्देशः उदाहरणसूचनार्थः । 'अदभ्यस्तात्' इति झेः अदादेश इति यावत् । यणिति ॥ रुकि कृते अर् ॠ अति इति स्थिते ॠकारस्य यण् रेफ इत्यर्थः । तथाच अर् र् अतीति स्थिते आह । रुको रो रीति लोपः इति ॥ ननु
पूर्वत्रासिद्धे तन्निषेधात् । आरति-अरिय्रति । लिङि श्तिपा निर्देशात् 'गुणोऽर्ति-' (सू २३८०) इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात्--अरिय्रियात् । 'गृहू ग्रहणे' जर्गृहीति—जर्गर्ढि । जर्गृढः । जर्गृहति ।
रेफलोपे कर्तव्ये यणादेशसम्पन्नस्य रेफस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् ॠकारपरकत्वाद्रेफपरकत्वाभावात् कथं पूर्वरेफस्य लोप इत्यत आह । पूर्वत्रासिद्धे तन्निषेधादिति ॥ पूर्वत्रासिद्धीयकार्ये कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः । आरतीति ॥ अर् र् अति इति स्थिते पूर्वरेफस्य लोपे सति 'ढ्रलोपे' इति दीर्घ । नच यणः स्थानिवत्त्वं शङ्क्यम् । दीर्घविधौ तन्निषेधादिति भावः । अरिय्रतीति ॥ द्वित्वे उरदत्त्वे हलादिशेषे रिकि रीकि च कृते परत्वादभ्यासस्य इयडि ततो यणि रिग्रीकोस्तुल्यमेव रूपमित्यर्थः । अरर्षि-अरियर्षि-अररीषि-अरियरीषि । अर्ॠथः-अरियृथ । अरर्मि-अरियर्मि-अररीमि-अरियरीमि । अर्ॠवः-अरियूव. । अरराञ्चकार-अरियराञ्चकार । अररिता-अरियरिता । अररिष्यति-आरियरिष्यति ।
अरर्तु-अरियर्तु-अररीतु—अरियरीतु—अर्ॠतात्-अरियृतात् । अर्ॠताम्—अरियृताम् । आरतु-अरिय्रतु । अर्ॠहि-अरियृहि । अरराणि-अरियराणि । अरराव-अरियराव । लडि आरः–आरियः–आररीत्–आरियरीत् । आर्ॠताम् – आरियृताम् । आररुः-आरियरुः । आर–आरिय.–आररीः–आरियरीः । आर्ॠतम्-आरियृतम् । आर्ॠत-आरियृत । आररम्-आरियरम् । आर्ॠव-आरियृव । विधिलिङि अर्ॠयात्-अरियृयात् । अर्ॠयाताम्-अरियृयाताम् । अर्ॠयुः-अरियृयुः । इत्यादि । आशीर्लिङि विशेषमाह। लिङि श्तिपेति ॥ रुकि अर् ॠ यात् इति स्थिते 'अर्ति' इति श्तिपा निर्देशात् 'गुणोऽर्ति' इति गुणो नेत्यर्थः । रिङिति ॥ ॠकारस्येति शेष. । तथाच अर् रि यात् इति स्थिते आह । दीर्घः इति ॥ 'रो रि' इति लोपे 'ढ्रलोपे' इति दीर्घ इत्यर्थः । तथाच परिनिष्ठितमाह । आरियादिति ॥ रिग्रीकोस्त्वाह । अरिय्रियादिति ॥ अरि ॠयात् अरी ॠ यात् इति स्थिते इवर्णस्य इयड् ॠकारस्य रिड् । 'लोपो व्योः' इति यलोपस्तु न । बहिरङ्गत्वेन रिडोऽसिद्धत्वात् । 'अच. परस्मिन्' इति स्थानिवत्त्वाच्च । 'न पदान्त' इति निषेधस्तु न शङ्क्यः । 'स्वरदीर्घयलोपेषु लोपरूपाजादेश एव न स्थानिवत्' इत्युक्तेरित्यलम् । लुडि आरारीत्-आरियारीत् । लृडि आररिष्यत्-आरियरिष्यत् । गृहू ग्रहणे इति ॥ ॠदुपधोऽयम् । यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रुग्रिग्रीक । तदाह । जर्गृहीतीत्यादि ॥ ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणनिषेध । ईडभावे त्वाह । जर्गर्ढि इत्यादि ॥ जर्गृह् ति इति स्थितेलघूपधगुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः । 'यणो मय.' इति शिष्टस्य ढस्य द्वित्वविकल्पः । एव जरिगर्ढि-जरीगर्ढि । जर्गृढः इति ॥ रुक् ढत्वधत्वष्टुत्वढलोपा. । डित्त्वान्न गुण. । एव जरिगृढ.-जरीगृढः । जर्गृहतीति ॥ ३ । 'अदभ्यस्तात्' इत्यत् । जर्गृहीषि-जरिगृहीषि-जरीगृहीषि । 'नाभ्यस्तस्याचि पिति' इति न लघूपधगुणः । जर्घर्क्षि-जरिघर्क्षि-जरीघर्क्षि । जर्गृढः-जरिगृढः-जरीगृढः । जर्गृढ-जरिगृढ-जरीगृढ । जर्गृहीमि-जरिगृहीमि-जरीगृहीमि । जर्गर्ह्मि-जरिगर्ह्मि-जरीगर्ह्मि । जर्गृह्वः-
अजर्घर्ट् । गृह्णातेस्तु जाग्रहीति-जाग्राढि । तसादौ ङिन्निमित्तं सम्प्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्न रुगादयः । जागृढः । जागृहति । जार्ग्रहीषि-जाघ्रक्षि । लुटि । जाग्रहिता । 'ग्रहोऽलिटि'-(सू २५६२) इति दीर्घस्तु न । तत्र 'एकाचः' इत्यनुवृत्तेः । माधवस्तु दीर्घमाह । तद्भाष्यविरुद्धम् । जर्गृधीति--
जरिगृह्व-जरीगृह्वः । जर्गृह्म-जरिगृह्म.-जरीगृह्मः । जर्गर्हाञ्चकार-जरिगर्हाञ्चकार-जरीगर्हाञ्चकार । जर्गर्हिता-जरिगर्हिता-जरीगर्हिता । जर्गर्हिष्यति-जरिगर्हिष्यति-जरीगर्हिष्यति । जर्गृहीतु-जरिगृहीतु-जरीगृहीतु-जर्गर्ढु-जरिगर्ढु-जरीगर्ढु-जर्गृढात्-जरिगृढात्–जरीगृढात् । जर्गृढाम्-जरिगृढाम्-जरीगृढाम् । जर्गृहतु-जरिगृहतु-जरीगृहतु । जर्गृढि-जरिगृढि-जरीगृढि । जर्गृहाणि-जरिगृहाणि-जरीगृहाणि । लडि अजर्गृहीत्-अजरिगृहीत्-अजरीगृहीत् । ईडभावे तु अजर्गर्ह् त् इति स्थिते हल्ड्यादिना तलोपे हस्य ढत्वे गस्य भष् घकार । अजर्घर्ट्-अजरिघर्ट्-अजरीघर्ट् । एकाज्ग्रहणे सत्यपीह यङ्लुकि भष् । 'गुणो यङ्लुको' इत्यनेन 'श्तिपा शपा' इति निषेधस्यानित्यत्वज्ञापनादित्याहुः । अजर्गृढाम् ३ । अजर्गृहुः ३ । अजर्गृही ३ -अजर्घर्ट् ३ । अजर्गृढम् ३ । अजर्गृढ ३ । अजर्गृहम् ३ । अजर्गृह्व ३ । अजर्गृह्म ३ । जर्गृह्यात् ३ । लुडि 'अस्तिसिचः' इति नित्यमीट् । अजर्गहीत् ३ । अजर्गर्हिष्यत् ३ । गृह्णातेस्त्विति ॥ 'ग्रह उपादाने' इत्यस्मादित्यर्थः । अदुपधोऽयम् । ईटि आह । जाग्रहीतीति ॥ यङो लुका लुप्तत्वात् तिपः पित्वाच्च 'ग्रहिज्या' इति सम्प्रसारणन्नेति भावः । ईडभावे त्वाह । जाग्राढीति ॥ जाग्रह् ति इति स्थिते ढत्वधत्वष्टुत्वढलोपदीर्घा । जाग्रह् तस् इति स्थिते आह । तसादाविति ॥ ननु कृते सम्प्रसारणे ॠदुपधत्वात् रुगादीनाशङ्क्य आह । तस्येति ॥ सम्प्रसारणस्येत्यर्थः । जागृढः इति ॥ ढत्वधत्वष्टुत्वढलोपाः । 'ढ्रलोपे' इति दीर्घस्तु न । ॠकारस्यानण्त्वात् । जागृहति । सिपः पित्त्वान्न सम्प्रसारणमिति मत्वा आह । जाग्रहीषि-जाघ्रक्षीति ॥ ईडभावे हस्य ढः तस्य कः सस्य षः । जागृढः । जागृढ । जाग्रहीमि-जाग्रह्मि । जागृह्वः । जागृह्मः । इत्यनुवृत्तेरिति ॥ 'एकाचो द्वे' इति सूत्रे हरदत्तेन तथोक्तत्वादिति भावः । माधवस्त्विति ॥ एकाज्ग्रहणन्नानुवर्तत इति तदाशयः । भाष्यविरुद्धमिति ॥ 'एकाचो द्वे प्रथमस्य' इति सूत्रभाष्ये 'ग्रह उपादाने' इत्यस्माद्यडि सम्प्रसारणे अभ्यासस्य रीकि यङन्तात् जरीगृहिता । जरीगृहितम् । जरीगृहितव्यमित्यत्र इटो दीर्घाभाव सिद्धवत्कृत्य तत्र दीर्घमाशङ्क्य ग्रहोऽङ्गात्परस्य इटो दीर्घो विधीयते । जरीगृह् इत्यङ्ग तच्च न ग्रहधातुरिति निरूप्याङ्गविशेषणसामर्थ्यादेव 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इति नात्र प्रवर्तत इति समाहितम् । यङन्ते उक्तो न्यायो यङ्लुगन्तेऽपि जाग्रहितेत्यादौ समानः इत्यादि प्रौढमनोरमाया ज्ञेयम् । नच हरदत्तमते एकाज्ग्रहणानुवृत्त्यैवात्र दीर्घनिवारणे सति भाष्योक्तमिदं समाधानन्नादरणीयमिति वाच्यम् । उपायस्य उपायान्तरादूषकत्वादिति अलम् । जाग्रहिष्यति । जाग्रहीतु-जाग्राढु-जाग्राढात् । जागृढाम् । जागृहतु । हौ जागृढि । जाग्रहाणि । लडि अजाग्रहीत्-अजाघ्राट् । अजगृढाम् । अजागृढम् । अजागृढ । अजाग्रहम् । अजागृह्व । अजागृह्म । जागृह्यात् । लुडि अजाग्रहीत् 'ह्म्यन्त' इति न
जर्गर्द्धि । जर्गृद्धः । जर्गृधति । जर्गृधीषि-जर्घर्त्सि । अजर्गृधीत् । ईडभावे गुणः । हलङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घर्त् । अजर्गृद्धाम् । सिपि 'दश्च' (सू २४६८) इति पक्षे रुत्वम् । अजर्घाः । अजर्गर्धीत् । अजर्गर्धिष्टाम् । पाप्रच्छीति । पाप्रष्टि । तसादौ 'ग्रहिज्या-' (सू २४१२) इति सम्प्रसारणं न भवति । श्तिपा निर्देशात् । 'च्छ्वोः शूठ्–' (सू २५६१) इति शः । 'व्रश्च--' (सू २९४) इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः ।
वृद्धि. । 'अस्तिसिच.' इति नित्यमीट् । अजाग्रहिष्यत् । 'गृधु अभिकांक्षायाम्' । अस्माद्य ड्लुगन्ताल्लटस्तिपि ईटि आह । जर्गृधीतीति ॥ 'नाभ्यस्तस्य' इति न लघूपधगुणः । ईडभावे आह । जर्गर्द्धीति ॥ जर्गृध् ति इति स्थिते 'झषस्तथो' इति तकारस्य धः । लघूपधगुणः रपरत्वम् । जर्गृद्धः इति ॥ तसादो डित्त्वान्न गुण । 'झषस्तथोः' इति तस्य ध । जर्घर्त्सीति ॥ जर्गृध् सि इति स्थिते गस्य भष् घ.गुण रपरत्व धस्य चर्त्वम् । जर्गर्ध्मि ३-जर्गृधीमि ३ । जर्गृध्व ३ । जर्गर्धाञ्चकार ३ । जर्गर्धिता ३ । जर्गर्धिष्यति ३ । जगृधीतु ३ - जर्गर्ध्दु ३ - जर्गृध्दात् ३ । हौ जर्गृद्धि ३ । जर्गृधानि ३। लडि तिपि ईट् अजर्गृधीत् ३ । ईडभावे इति ॥ अजर्गृध् त् इति स्थिते पित्त्वादडित्त्वात् गुणे रपरत्वे हल्ड्यादिना तकारलोपे पदान्तत्वात् गस्य भष् घकारः । धस्य जश्त्वेन दकारे तस्य 'वावसाने' इति चर्त्वविकल्प इत्यर्थ । अजर्घर्त् इति ॥ 'रात्सस्य' इति नियमान्न सयोगान्तलोप । अजर्गृद्धाम् । अजर्गृधु । सिपि ईडभावपक्षे अजर्गृध् स् इति स्थिते गुणे रपरत्वे हल्ड्यादिलोपे भष्भावे धस्य जश्त्वे तस्य चर्त्वविकल्पे पूर्ववदेव रूप सिद्धवत्कृत्य आह । सिपि दश्चेति पक्षे रुत्वमिति ॥ तथाच अजर्घर् र् इति स्थिते 'रो रि' इति लोपे 'ढ्रलोपे' इति दीर्घे शिष्टरेफस्य विसर्गे अजर्घा: इति रूपमित्यर्थः । अजर्गृद्धम् । अजर्गृद्ध । अजर्गृधम् । अजर्गृध्व । लुडि आह । अजर्गर्धीदिति ॥ 'अस्तिसिचः' इति नित्यमीट् । पाप्रच्छीतीति ॥ 'प्रच्छ ज्ञीप्सायाम्' अस्माद्यङ्लुगन्ताल्लटस्तिपि ईटि रूपम् । ईडभावे आह । पाप्रष्टीति ॥ व्रश्चेति छस्य ष. । तकारस्य ष्टुत्वेन ट । 'च्छ्वाः' इति छस्य शकारस्तु नात्र भवति । तस्य अनुनासिकादौ प्रत्यये क्वौ झलादौ किति डिति च विहितत्वात् । ननु तिपः पित्त्वेन डित्त्वाभावात् 'ग्रहिज्या' इति सम्प्रसारणाभावेऽपि तसो डित्त्वात् सम्प्रसारण दुर्वारमित्यत आह । तसादाविति । श्तिपेति ॥ 'ग्राहिज्या' इति सूत्रे प्रच्छतीति श्तिपा निर्देशादित्यर्थः । पाप्रच्छतीति ॥ 'अदभ्यस्तात्' इत्यत् । पाप्रच्छीषि । सिपि ईडभावे तु 'च्छ्वोः' इति छस्य न शः । सिपो झलादित्वेऽपि डित्त्वाभावात् । किन्तु 'व्रश्च' इति ष एव 'षढोः' इति षस्य कः सस्य षत्वम् । पाप्रक्षि । पाप्रष्ठ । पाप्रष्ठ । पाप्रश्मीति ॥ अनुनासिकप्रत्ययपरकत्वात् छस्य 'च्छ्वोः' इति श इति भावः । पाप्रच्छ्वः इति ॥ अत्र 'च्छ्वोः' इति न श. । वसो झलादित्वाभावात् । पाप्रश्मः इति ॥ अनुनासिकादिप्रत्ययपरकत्वात् छस्य श: । पाप्रच्छाञ्चकार । पाप्रच्छिता । पाप्रच्छिष्यति । पाप्रच्छीतु-पाप्रष्ट-पाप्रष्टात् । पाप्रष्टाम् । पाप्रच्छतु । हेर्द्धि. । अपित्त्वेन डित्त्वात् झलादित्वाच्च छस्य श । तस्य 'व्रश्च' इति ष. । ष्टुत्वेन धस्य ढः । षस्य जश्त्वेन ड. । पाप्रढ्डि । पाप्रच्छानि ।
'यकारवकारान्तानां तु ऊठ्भाविनां यङ्लुङ् नास्ति' इति 'च्छ्वोः-' (सू २५६१) इति सूत्रे भाष्ये ध्वनितं कैयटेन स्पष्टीकृतम् । इदं च 'च्छ्वोः--' (सू २५६१) इति यत्रोठ् तद्विषयकम् । 'ज्वरत्वर--' (सू २५६४) इत्यूठ्भाविनोः स्त्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । माधवादिसम्मतं च । 'मव्य बन्धने' अयं यान्त ऊठ्भावी 'तेवृ देवृ देवने' इत्यादयो वान्ता: । 'हय गतौ' जाहयीति-जाहति । जाहतः । जाहयति । जाहयीषि-जाहसि ।
लडि तिपि ईटि अपाप्रच्छीत् । ईडभावेतु अपाप्रच्छ् त् इति स्थिते हल्ड्यादिना तलोपे छस्य षः तस्य जश्त्वचर्त्वे । अपाप्रट् । अपाप्रष्टाम् । अपाप्रच्छु . । अपाप्रच्छीः-अपाप्रट् । अपाप्रष्टम् । अपाप्रष्ट । अपाप्रच्छम् । अपाप्रच्छ्व । अपाप्रश्म । लिडि पाप्रच्छ्यात । लुडि अपाप्रच्छीत् । 'अस्तिसिच' इति नित्यमीट् । अपाप्राच्छिष्यत् । ऊठ्भाविनामिति ॥ 'भू प्राप्तौ' चुरादिराधृषीय । तस्मात् 'आवश्यकाधमर्ण्ययोर्णिनि.' इति भविष्यदर्थे णिनिः । ऊठ प्राप्स्यतामित्यर्थः । ऊठ्विषयाणामिति यावत् । ध्वनितमिति ॥ सूचितमित्यर्थ । स्पष्टीकृतमिति ॥ तथाहि 'च्छ्वोः' इति सूत्रे डिग्रहणानुवृत्तौ काश्चित् दोषानुद्भाव्य परिहृत्य क्डिद्ग्रहणानुवृित्ति स्वीकृत्योक्त भाष्ये । एतावानेव विशेष । अनुवर्तमाने क्डिद्ग्रहणे छष्षत्व वक्तव्यमिति । अत्र कैयटः । प्रष्टा, पृष्टमित्यादौ 'च्छ्वो' इति छस्य शत्वे कृते तस्य 'व्रश्च' इति षत्वे ष्टुत्वमिति स्थितिः । तत्र क्डितीत्यनुवृत्तौ छस्य शत्वन्न स्यात् । अतः छस्य षत्व वक्तव्यमित्यर्थः । नच क्ङिद्ग्रहणानुवृत्तावत्र शत्वाभावेऽपि न दोषः । व्रश्चादिना छस्य षत्वे इष्टसिद्धेरिति वाच्यम् । 'च्छ्वो' इत्यत्र 'छस्य षत्व वक्तव्यम्' इत्यनेनैव प्रष्टेत्यादिसिद्धे व्रश्चादिसूत्रे छग्रहणन्न कर्तव्यमित्याशयात् । नच प्रडिति क्विबन्तात् सोर्लोपे षत्वार्थ व्रश्चादिसूत्रे छग्रहणमिति वाच्यम् । तत्रापि क्विब्निमित्तशादेशस्य दुर्निवारत्वात् । विचि तु प्रच्छधातोरनभिधानान्नास्ति । एवञ्चात्र भाष्ये 'ऊठ्भाविभ्यो यङ्लुङ्नास्ति' इत्युक्तप्रायम् । अन्यथा 'च्छ्वोः' इत्यत्र क्डिद्ग्रहणानुवृत्तौ दिवेर्यङ्लुकि तिबादौ ईडभावे लघूपधगुणे 'लोपो
व्योः' इति वलोपे देदेति देदेषीत्याद्यूठः अभावे रूपम् । तदनुवृत्तौ तु वस्य ऊठि देद्योति देद्योषि, इत्यादि रूपमिति विशेषस्य सत्त्वादेतावानेवेत्येवकारो विरुध्येत । अतः ऊठ्भाविना यकारवकारान्तानां यङ्लुङ्नास्तीति विज्ञायते इत्यलम् । इदञ्चेति ॥ 'च्छ्वो.' इति सूत्रेण यत्र ऊठ् प्रवर्तते तद्विषयकमेव इदम् उक्त ज्ञापनमित्यर्थः । स्त्रिविमव्योस्त्विति ॥ 'स्त्रिवु गतिशोषणयोः, मव्य बन्धने' इत्यनयो. इत्यर्थः । न्याय्यमिति ॥ उक्तज्ञापनस्य 'च्छ्वोः' इति सूत्रस्थभाष्यमूलकत्वादिति भावः । ननु ज्ञापनस्य सामान्यापेक्षत्वङ्कुतो नाश्रीयते इत्यत आह । माधवादिसम्मतञ्चेति ॥ उक्तविशेषवत्त्वमिति शेष । ऊठ्भावीति ॥ अतो नास्य यङ्लुगिति भावः । वान्ताः इति ॥ ऊठ्भाविन इति शेषः । नैतेषामपि यङ्लुगिति भावः । ऊठ्भाविनामिति विशेषणस्य व्यावर्त्यमाह । हय गताविति ॥ अस्य यान्तत्वेऽपि ऊठ्विषयत्वाभावादस्त्येव यङ्लुगिति भावः । जाहतीति ॥ तिप ईडभावे 'लोपो व्योः'
बलि लोपे यञादौ दीर्घः । जाहामि । जाहाव:। जाहामः । 'हर्य गतिकान्त्योः' । जाहर्यीति-जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । 'मव बन्धने' ।
२६५४ । ज्वरत्वरस्रिव्यविमवामुपधायाश्च । (६-४-२०)
ज्वरादीनामुपधावकारयोरूठ् स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङिति इति नानुवर्तते । अवतेस्तुनि 'ओतुः' इति दर्शनात् । अनुनासिकग्रहणं चानुवर्तते । अवतेर्मानन्प्रत्यये तस्य टिलोपे 'ओम्' इति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति-मामवीति । मामूत. । मामवति । मामोषि ।
इति यलोपः । मिपि ईडभावे जाहय् मि इति स्थिते आह । वलि लोपे इति ॥ ईटि जाहयीमि । जाहयाञ्चकार । जाहयिता । जाहयिष्यति । लोटि जाहयीतु-जाहतु-जाहतात् । जाहताम् । जाहयतु । जाहहि । जाहयानि । जाहयाव । लडि अजाहयीत्-अजाहत् । अजाहताम् । अजाहयु । अजाहयी-अजाह । अजाहतम् । अजाहत । अजाहयम् । अजाहाव । अजाहाम । जाहय्यात् । लुडि 'ह्म्यन्त' इति न वृद्धिः । 'अस्तिसिच.' इति नित्यमीट् । अजाहयीत् । अजाहयिष्टाम् । अजाहयिष्यत् । जाहर्तीति ॥ तिपि जाहर्य् ति इति स्थिते ईडभावे यलोप । जाहर्हीति ॥ हौ यलोप । लडस्तिपि अजाहर्य् त् इति स्थिते यलोप । हल्ड्यादिना तकारलोपः । रेफस्य विसर्गः इति मत्वा आह । अजाहः इति ॥ सिप्यप्येव रूपम् । ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ ज्वर त्वर स्त्रिवि अवि मव् एषान्द्वन्द्वः । 'चच्छ्वो शूठ्' इत्यतः वकारग्रहणम् ऊठ्ग्रहणम् अनुनासिके इति चानुवर्तते । छस्य श इति नानुवर्तते । ज्वरादिषु छस्य अभावेन असम्भवात् । 'अनुनासिकस्य क्विझलोः क्डिति' इत्यत. क्विझलोरिति चानुवर्तते । चकारो वकारसमुच्चयार्थः । तदाह । ज्वरादीनामिति । अवतेस्तुनीति ॥ अवधातोरौणादिके तुन्प्रत्यये कृते अकारवकारयोरूठि तस्य गुणे ओतुरिति दृश्यते । क्डितीत्यनुवृत्तौ तु तन्न स्यादिति भाव.। ओमिति ॥ 'अवतेष्टिलोपश्च' इत्यौणादिकसूत्रम् । 'अव रक्षणे' इति धातोर्मन्प्रत्यय. स्यात् । प्रत्ययस्य टेर्लोपश्चेति तदर्थः । तथाच अव् म् इति स्थिते उपधाभूतस्य अकारस्य वकारस्य च ऊठि
तस्य गुणे ओमिति दृश्यते । 'ज्वरत्वर' इत्यत्र अनुनासिकग्रहणाननुवृत्तौ तु मनिनि परे अवतेरूठ् न स्यात् । क्विझलोरेव तद्विधिलाभादिति भावः । ऊठि पितीति ॥ मवधातोर्यडलुक् । मामव् ति इति स्थिते ईडभावपक्षे अकारवकारयोरेकस्मिन् ऊठि तिप पित्त्वेन डित्त्वाभावादूकारस्य गुणे मामोतीति रूपमित्यर्थः । उपधायाः वकारस्य च प्रत्येकमूठ् इति पक्षे सवर्णदीर्घः । पक्षद्वयमपि 'एक पूर्वपरयोः' इत्यत्र भाष्ये स्पष्टम् । ईट्पक्षे आह । मामवीतीति ॥ अत्र ऊठ् न । क्वौ झलादौ अनुनासिकादौ च परे तद्विधानात् । मामूतः इति ॥ अकारवकारयोरूठि तसो डित्त्वान्न गुण इति भाव । मामवतीति ॥ 'अदभ्यस्तात्' इत्यत् । मामवीषीति सिद्धवत्कृत्य आह । मामोषीति ॥ झल्परकत्वादूठ् । मामूथः । मामूथ ।
मामोमि । मामावः । मामूमः । मामोतु-मामूतात् । मामूहि । मामवानि । अमामोत् -अमामोः । अमामवम्। अमामाव । अमामूम । 'तुर्वी हिंसायाम्' । तोतूर्वीति ।
२६५५ । राल्लोपः । (६-४-२१)
रेफात्परयोश्छ्वोर्लोपः स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ।
२६५६ । न धातुलोप आर्धधातुके । (१-१-४)
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । इति नेह
मामवीमि इति सिद्धवत्कृत्य आह । मामोमीति ॥ अनुनासिकपरकत्वादूठ् । गुण । मामावः इति ॥ मामव् वस् इति स्थिते परनिमित्ताभावादूठ् न । 'लोपो व्यो' इति वलोपे 'अतो दीर्घो यञि' इति दीर्घ । मामूमः इति ॥ मामव् मस् इति स्थिते अनुनासिकपरकत्वादूठ् । डित्त्वान्न गुण । मामवाञ्चकार । मामविता । मामविष्यति । लोटि आह । मामोत्विति । मामूतादिति ॥ डित्त्वान्न गुण । मामूताम् । मामवतु । मामूहीति ॥ ऊठि हेरपित्त्वेन डित्त्वान्न गुण. । मामूतात् । मामूतम् । मामूत । मामवानीति ॥ आट. पित्त्वादडित्त्वाद्गुणः । मामवाव । मामवाम । लडस्तिप्याह । अमामोदिति ॥ अमामूताम् । अमामवु । सिप्याह । अमामोरिति ॥ अमामूतम् । अमामूत । लिडि मामव्यात् । लुडि 'आस्तिसिचः' इति नित्यमीट् । अमामवीत्-अमामावीत् । अमामविष्यत् । ज्वरतेस्तु जाज्वरीति-जाज्वर्ति इत्यादि । त्वरतेस्तु तात्वरीति-तातूर्ति इत्यादि । स्त्रिवेस्तु सेस्रवीति । ईडभावे तु ऊठि सेस्रोति, इत्यादि । अवतेस्तु यडभावात् क्विप्युदाहरणम् । ऊ । उवौ । उवः । इत्याद्यूह्यम् । तोतूर्वीतीति ॥ 'उपधायाञ्च' इति दीर्घः । ईडभावे तोतुर्व् ति इति स्थिते 'च्छ्वोः शूठ्' इत्यूठि प्राप्ते । राल्लोपः ॥ 'चच्छ्वोः शूडनुनासिके च' इति सूत्रमूठ्वर्जमनुवर्तते । 'अनुनासिकस्य क्विझलो' इत्यतः क्विझलोरिति च । तदाह । रेफात्परयोरित्यादि ॥ अत्रापि क्डितीति नानुवर्तते । पूर्वसूत्रे तदननुवृत्तेः । वलोपः इति ॥ तथाच तोतुर् ति इति स्थिते उकारस्य लघूपधगुणः । तिपः पित्त्वेन अडित्त्वादित्यर्थः । न धातुलोपे ॥ 'इको गुणवृद्धी' इत्यनुवर्तते । तत्र धातुलोपे सति इको गुणवृद्धी न स्तः आर्धधातुके परत इत्यर्थे लूधातो यङन्तात् पचाद्यचि यङो लुकि लोलुव इत्यत्र गुणनिषेधाभावप्रसङ्गात् । अत्र धात्ववयवस्य यङो लोपेऽपि धातोर्लोपाभावात् । धात्ववयवलोपे सतीत्यर्थे तु शीड्धातोस्तृचि शयिता, इत्यत्र गुणो न स्यात् । तत्र धात्ववयवडकारलोपसत्त्वात् । आर्धधातुके परे यो धात्ववयवलोपः तस्मिन् सतीत्यर्थे शेते इत्यत्रापि गुणनिषेधः स्यात् । तत्र डकारलोपस्य आर्धधातुकपरकत्वसत्त्वादित्यतो व्याचष्टे । धात्वंशलोपनिमित्ते इति ॥ धातु लोपयतीति धातुलोपः कर्मण्यण् । धातुलोपनिमित्ते आर्धधातुके परे इति यावत् । लोलुव इत्याद्युदाहरणम् । लूञ्धातोर्यङन्तात् पचाद्यचि 'यङोऽचि च' इत्यच्प्रत्ययमाश्रित्य
निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । 'हलि च' (सू ३५४) इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । 'मुर्च्छा' । मोमोर्ति । मोमूर्तः । मोमूर्च्छतीत्यादि । 'आर्धधातुके' इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुग्नास्ति । लुकापहारे विषयत्वासम्भवेन वीभावस्याप्रवृत्तेः ।
इति तिङन्तयङ्लुक्प्रकरणम् ।
यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्द्यते । मर्मृजीतीति तु वृद्धिनिषेधोदाहरणम् । धात्विति किम् । शीङ् शेता । इह उत्सृष्टानुबन्धस्य धातुत्व, नतु सानुबन्धस्येति । कैयटादिमते तु धातुग्रहण स्पष्टार्थम् । इदं सूत्रं भाष्ये प्रत्याख्यातम् । हरदत्तेन पुनरुध्दृतम् । कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव । इति नेहेति ॥ तोतुरतीत्यत्र अयं गुणनिषेधो नेत्यर्थ । हलि चेति ॥ तोतुर्व् तस् इति स्थिते 'लोपो व्योः' इति वकारस्य लोप बाधित्वा 'च्छ्वोः शूठ्' इत्यूठि प्राप्ते वकारस्यानेन लोपे 'हलि च' इति दीर्घ इत्यर्थः । यद्यपि तोतोर्तीत्यत्र 'च्छ्वोः' इत्यूठः अप्रवृत्तेर्वकारस्य 'लोपो व्योः' इति लोपः सिध्द्यति । तथापि तोतूर्त. इत्यादौ ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोर्तीत्यत्रोपन्यस्त इति बोध्यम् । तोतूर्वतीति ॥ 'अदभ्यस्तात्' इत्यत् । 'उपधायाञ्च' इति दीर्घः । तोतोर्वींषि-तोतोर्षि । तोतूर्थः । तोतूर्थ । तोतूर्वीमि-तोतोर्मि । तातूर्वः । तोतूर्मः । तोतूर्वाञ्चकार । तोतूर्विता । तोतूर्विष्यति । तोतूर्वीतु-तोतोर्तु-तोतूर्तात् । तोतूर्ताम् तोतूर्वतु । तोतूर्हि । तोतूर्वाणि । लङि अतोतूर्वीत्-अतोतोः । अतोतूर्ताम् । अतोतूवुः । अतोतूर्वीः-अतोतो । अतोतूर्तम् । अतोतूर्त । अतोतूर्वम् । अतोतूर्व । अतोतूर्म । तोतूर्व्यात् । लुङि 'अस्तिसिच' इति नित्यमीट् । अतोतूर्वीत् । अतोतूर्विष्यत् । थुर्वीधातोरुदाहरति । तोथोर्तीति ॥ तुर्वीवद्रूपाणि । दोदोर्तीति ॥ दुर्वीधातोः रूपम् । दोधोर्तीति ॥ धुर्वीधातोः रूपम् । मुर्च्छाधातोः मोमूर्छीतीति सिद्धवत्कृत्य ईडभावे आह । मोमोर्तीति ॥ 'राल्लापे.' इति छस्य लोप. । इत्यादीति ॥ मोमूर्च्छीषि-मोमोर्षि । मोमूर्च्छीमि-मोमोर्मि । मोमूर्च्छ्व । मोमूर्हि । अमोमूर्छीत्-अमोमू । सिप्यप्येवम् । लुङि 'अस्तिसिचः' इति नित्यमीट् । अमोमूर्छीत् । अमोमूर्च्छिष्यत् । विषयसप्तमीति ॥ 'अजेर्व्यघञपोः' इति वीभावविधौ आर्धधातुके इत्यनुवृत्त विषयसप्तम्यन्तमाश्रीयते । नतु परसप्तम्यन्तमित्यर्थः । ततः किमित्यत आह । तेनेति ॥ विषयसप्तम्याश्रयणेनेत्यर्थः । विवक्षिते इति ॥ यङि विवक्षिते ततः प्रागेव अजेर्वीभाव इत्यर्थः । एवञ्च कृते वीभावे हलादित्वाद्यङ् लभ्यते इति मत्वा आह । वेवीयते इति ॥ ननु अजेर्वीभावानन्तरं यङि सति तस्य 'यङोऽचि च' इति पाक्षिको लुक् कुतो नोदाह्रियते इत्यत आह । अस्य यङ्लुङ्नास्तीति ॥ विषयत्वेति ॥ लुका लुप्तयङः भाविज्ञानविषयत्वाभावेनेत्यर्थः ।
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां यङ्लुगन्तप्रक्रिया समाप्ता
श्रीरस्तु ।
॥ अथ तिङन्तनामधातुप्रकरणम् ॥
२६५७ । सुप आत्मनः क्यच् । (३-१-८)
इषिकर्मणः एषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ।
२६५८ । क्यचि च । (७-४-३३)
अस्य ईत् स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । 'वान्तो यि प्रत्यये' (सू ६३) गव्यति । नाव्यति । 'लोपः शाकल्यस्य' (सू ६७) इति तु न । अपदान्तत्वात् । तथा हि ।
अथ नामधातुप्रक्रियाः निरूप्यन्ते । सुप आत्मनः क्यच् ॥ प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । 'धातोः कर्मणः' इति सूत्रात्कर्मणः इच्छाया वेत्यनुवर्तते । कर्मण इति पञ्चमी । कर्मकारकादिति लभ्यते । सन्निधानादिच्छाम्प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादर्थ्यस्य शेषत्वविवक्षायां षष्ठी । स्वार्थात्कर्मण इति लभ्यते । स्वश्च इच्छाया सन्निधापितत्वादेषितैव विवक्षितः । तथाच स्वस्मै यदिष्यते कर्मकारक तद्वृत्तेस्सुबन्तादिच्छाया क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह । इषिकर्मणः एषितृसम्बन्धिनः इत्यादिना ॥ एषित्रर्थादिषिकर्मण इत्यर्थः । एषित्रा स्वार्थ यदिष्यते कर्मकारक तद्वाचकात्सुबन्तादिति यावत् । धात्ववयवत्वादिति ॥ सुबन्तात् क्यचि कृते तदन्तस्य सनाद्यन्ताः इति धातुत्वादिति भावः । क्यचि च ॥ 'अस्य च्वौ' इत्यनुवर्तते । 'ई घ्राध्मोः' इत्यत ईग्रहणञ्चेति मत्वा शेषम्पूरयति । अस्येति ॥ अकारस्येत्यर्थः । पुत्रीयतीति ॥ क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीय इति धातोर्लडादिरित्यर्थः । आत्मनः किम् । राज्ञः पुत्रमिच्छति । पदविधित्वेन समर्थपरिभाषायाः प्रवृत्तेर्महान्त पुत्रमिच्छतीत्यत्र पुत्रशब्दान्नक्यच् । गव्यतीति ॥ गामात्मन इच्छतीत्यर्थः । नाव्यतीति ॥ नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ॥ 'लोपः शाकल्यस्य' इत्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्तया पदत्वमस्येवेत्यत आह । तथा हीति ॥ यथा पदत्वन्न भवति तथोच्यते इत्यर्थः ।
२६५९ । नः क्ये । (१-४-१५)
क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्याञ्चकार । गव्यिता । नाव्याञ्चकार । नाव्यिता । नलोपः । राजीयति । 'प्रत्ययोत्तरपदयोश्च' (सू १३७३) । त्वद्यति । मद्यति । 'एकार्थयोः' इत्येव । युष्मद्यति । अस्मद्यति 'हलि च' (सू ३५४) । गीर्यति । पूर्यति । 'धातोः' इत्येव । नेह । दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवोक्तं प्रत्युदाहरणं चिन्त्यम् । पुर्गिरोः साम्यात् ।
नः क्ये । नकारादकार उच्चारणार्थ । 'सुप्तिङन्तम्' इत्यतस्सुबन्त पदमित्यनुवर्तते । सुबन्त नकारेण विशेष्यते । तदन्तविधि । नकारान्त सुबन्त पदसज्ञ स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोर्ग्रहणम् । लोहितादिडाज्भ्य. क्यप् वचनम्' इति वक्ष्यमाणतया हलन्तात् क्यषोऽभावात् । तदाह । क्यचि क्यङि चेत्यादिना ॥ ननु गव्याञ्चकारेत्यत्र आम आर्धधातुकत्वात्तस्मिन् परे वकाराद्धल उत्तरस्य यकारस्य 'यस्य हल.' इति लोपः स्यादित्यत आह । सन्निपातेति ॥ यकारनिमित्तकावादेशसम्पन्नवकारस्य यकारलोप प्रति निमित्तत्वासम्भवादिति भाव. । गव्यितेति ॥ इटि अतो लोपः । राजीयतीत्यत्र आह । नलोपः इति ॥ राजानमिच्छतीत्यर्थे क्यचि राजन् य ति इति स्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थ. । कृते नलोपे 'क्यचि च' इत्यकारस्य ईत्त्वमिति मत्वा आह । राजीयतीति ॥ नच ईत्त्वे कर्तव्ये नलोपस्यासिद्धत्व शङ्क्यम् । 'नलोपस्सुप्स्वर' इति नियमादित्यलम् । ननु त्वामात्मन. इच्छति मामात्मन. इच्छतीत्यत्र युष्मदस्मद्भ्याङ्क्यचि धात्ववयवत्वात् सुपो लुकि प्रत्ययलक्षणाभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्याताम् । विभक्तौ परत एव तद्विधानादित्यत आह । प्रत्ययोत्तरपदयोश्चेति ॥ सुपो लुका लुप्तत्वेऽपि क्यचवमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मनः इच्छति, अस्मानात्मनः इच्छति, युष्मद्यति, अस्मद्यति, इत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह । एकार्थयोरित्येवेति ॥ 'प्रत्ययोत्तरपदयोश्च' इत्यत्र ‘त्वमावेकवचने' इति सूत्रमनुवृत्तम् । एकवचनशब्दश्च न रूढ. किन्तु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियाया प्रपञ्चित प्राक् । तथाच युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाभावान्न त्वमाविति भावः । गिरमात्मनः इच्छति पुरमात्मनः इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह । हलि चेति ॥ उपधादीर्घ इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापि 'हलि च' इति दीर्घः स्यादित्यत आह । धातोरित्येवेति ॥ 'हलि च' इति सूत्रे 'सिपि धातोः' इत्यतस्तदनुवृत्तेरिति भावः । दिव्यतीति ॥ दिव्शब्द अव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति ॥ 'हलि च' इति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः । कुत इत्यत आह । पुर्गिरोः साम्यादिति ॥ 'गॄ शब्दे, पॄ पालनपूरणयोः' इत्याभ्याङ्क्विपि 'ॠत इद्धातोः' इति 'उदोष्ठ्यपूर्वस्य' इति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य पुर्शब्दस्य च निष्पत्तेरिति भावः ।
दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । 'रीङृतः' (सू १२३४) । कर्त्रीयति । 'क्यच्व्योश्च' (सू २११९) । गार्गीयति । वात्सीयति ।' अकृत्सार्व—' (सू २२९८) इति दीर्घः । कवीयति । वाच्यति । समिध्यति ।
२६६० । क्यस्य विभाषा । (६-४-५०)
हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । 'आदेः परस्य' (सू ४४) । 'अतो लोपः' (सू २३०८) । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता-समिध्यिता । 'मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न' (वा १७१४) । किमिच्छति । इदमिच्छति । स्वरिच्छति ।
२६६१ । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४)
प्रामादिक एवेति ॥ दीर्घशब्दस्य अव्युत्पन्नप्रादिपदिकत्वान्न धातुत्वम् । दिव्धातो क्विबन्तात् क्यचि ऊठि द्युशब्दाच्च क्यचि द्यृयतीत्येव उचितम् । विचि तु लघूपधगुणे 'लोपो व्यो' इति लापे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदरयतीति ॥ अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात् क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाभावान्न त्यदाद्यत्वम् । सान्तत्वान्नोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाभावान्न सस्य रुत्वमिति भाव । कर्तृशब्दात् क्यचि विशेषमाह । रीङृतः इति ॥ गार्ग्यशब्दात् क्यचि विशेषमाह । क्यच्व्योश्चेति ॥ आपत्यस्य यञो यकारस्य लोप इति भाव । कृते यलोपे 'क्यचि च' इत्यकारस्य ईत्त्वं मत्वा आह । गार्गीयतीति ॥ वात्सीयतीति ॥ वात्स्यशब्दात् क्यचि पूर्ववत् । कविशब्दात् क्यचि विशेषमाह । अकृत्सार्वेति ॥ वाच्यतीति ॥ वाच्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान्न कुत्वम् । 'वचिस्वपि' इति सम्प्रसारणन्तु न । धातो कार्यमुच्यमान धातुविहितप्रत्यये एवेति नियमात् । समिध्यतीति ॥ समिध्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान्न जश्त्वम् । 'लुटस्तासि' इटि समिध्य इता इति स्थिते 'यस्य हल-' इति नित्ये यलोपे प्राप्ते । क्यस्य विभाषा ॥ 'यस्य हलः' इत्यतः हल इति पञ्चम्यन्तमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम् । तदाह । हलः परयोः क्यच्क्यङोरिति ॥ क्यष्तु नात्र गृह्यते । 'लोहितडाज्भ्य. क्यष्वचनम्' इति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्य आह । आदेः परस्येति ॥ तथाच समिध् अ इता इति स्थिते आह । अतो लोपः इति ॥ तथाच समिध् इता इति स्थिते लघूपधगुणमाशङ्क्य आह । तस्य स्थानिवत्त्वादिति ॥ क्यच्सूत्रे 'मान्ताव्ययेभ्य. प्रतिषेधः' इति वार्तिकम् । मान्तेभ्य: अव्ययेभ्यश्च क्यचः प्रतिषेध इत्यर्थे पुत्रमात्मनः इच्छति पुत्रीयतीत्यत्र न स्यात् । पुत्राविच्छतीत्यादावेव स्यात् । मान्तानि मान्ताव्ययानि तेभ्यः इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिक विवृण्वन्नाह । मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् नेति ॥अशनायोदन्य ॥ अशनाय उदन्य धनाय इत्येषान्द्वन्द्वः । क्यजन्ताः इति ॥ एते
क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । 'बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ।
२६६२ । अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । (७-१-५१)
एषां क्यचि असुगागमः स्यात् । 'अश्ववृषयोर्मैथुनेच्छायाम्' (वा ४३०९) । अश्वस्यति बडबा । वृषस्यति गौ: । 'क्षीरलवणयोर्लालसायाम्' (वा ४३१५) । क्षीरस्यति बालः । लवणस्यत्युष्ट्र्ः । 'सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' (वा ४६१६-१७) दधिस्यति-दध्यस्यति । मधुस्यति-मध्वस्यति ।
२६६३ । काम्यच्च । (३-२-४)
उक्तविषये काम्यच् स्यात् । पुत्रमात्मनः इच्छति पुत्रकाम्यति । इह 'यस्य हल:' (सू २६३१) इति लोपो न । अनर्थकत्वात् । यस्य इति सङ्घात-
त्रय शब्दा क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थ । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा । गर्द्धः अभिकाक्षा । अशनायतीति ॥ अश्यते यत् तदशनम् अन्नं, तद्भोक्तुमिच्छतीत्यर्थः । 'क्यचि च' इति ईत्त्वाभावो निपात्यते । 'अकृत्सार्व' इति दीर्घः । उदन्यतीति ॥ उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते नलोपाभावश्च । धनायतीति ॥ जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः । ईत्वाभावो निपात्यते । अशनीयतीति ॥ अशनम् अन्नं तत्सङ्ग्रहीतुमिच्छति । वैश्वदेवाद्यर्थमित्यर्थ । उदकीयतीति ॥ सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति ॥ दरिद्रस्सन् जीवनाय धनमिच्छतीत्यर्थः । अश्वक्षीर ॥ क्यचि परेऽसुगिति शेपपूरणम् । 'आज्जसेरसुक्' इत्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत् उकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । 'अश्ववृषयो' इति वार्तिकम् । अश्वस्यति बडबेति ॥ मैथुनार्थमश्वमिच्छतीत्यर्थः । वृषस्यति गौरिति ॥ मैथुनार्थं वृषमिच्छतीत्यर्थः । 'वृषस्यन्ती तु कामुकी' इति कोशस्तु अश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छामात्रे लाक्षणिक । 'क्षीरलवणयोः' इति वार्तिकम् । असुगिति शेष. । लालसा उत्कटेच्छा । सर्वप्रातिपदिकानामिति ॥ इदमपि वार्तिकम् । लालसाया सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । न चानेनैव वार्तिकेन सिद्धे 'क्षीरलवणयोर्लालसायाम्' इति वार्तिक व्यर्थमिति शङ्क्यम् । 'क्षीरलवणयोः' इति वार्तिक कात्यायनीयम् । 'सर्वप्रातिपदिकानाम्' इति तु मतान्तरमित्यदोषात्। एतच्च भाष्ये अपर आहेत्यनेन ध्वनितम् । काम्यच्च ॥ 'सुप आत्मनः क्यच्' इत्युत्तरमिदं सूत्रम् । तदाह । उक्तविषये इति ॥ पुत्रकाम्यतीति ॥ कस्येत्सज्ञा तु न, फलाभावात् । अनर्थकत्वादिति ॥ काम्यच. एकदेशस्य यकारस्य अर्थाभावादित्यर्थ । ननु बेभिदिता इत्यत्रापि
ग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किङ्काम्यति । स्वःकाम्यति ।
२६६४ । उपमानादाचारे । (३-१-१० )
उपमानात्कर्मणः सुबन्तादाचारार्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । 'अधिकरणाच्चेति वक्तव्यम्' (वा १७१७) । प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रासादे ।
२६६५ । कर्तुः क्यङ् सलोपश्च । (३-१-११)
उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः । 'ओजसोऽप्सरसो नित्यमितरेषां
यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह । यस्य इतीति ॥ 'यस्य हल:' इत्यत्र यस्येत्यनेन यकाराकारसङ्घातग्रहणमित्यनुपदमेवोक्तमित्यर्थः । तथाच बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्यार्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्यानर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति ॥ 'सोऽपदादौ' इति सत्वम्। ननु किमात्मनः इच्छति किङ्काम्यति स्व.काम्यतीति कथम् । मान्ताव्ययानां नेत्यनुवृत्तेरित्यत आह । मान्ताव्ययेभ्योऽप्ययमिति ॥ उपमानादाचारे ॥ 'सुप आत्मनः क्यच्' इत्यनुवर्तते । 'धातोः कर्मणस्समानकर्तृकात्' इत्यतो धातोरिति । तदाह । उपमानात्कर्मणः इत्यादिना ॥ उपमान यत्कर्मकारक तद्वृत्तेस्सुबन्तादित्यर्थः । पुत्रमिवेति ॥ 'धातो. कर्मण.' इत्यतः वेत्यनुवृत्तिरनेन सूचिता । छात्र पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति ॥ द्विज विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति ॥ उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थ. । प्रासादीयति कुट्यामिति ॥ प्रासाद इव कुट्यां हृष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति ॥ कुट्यामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः । कर्तुः क्यङ् सलोपश्च ॥ कर्तुरित्यावर्तते । कर्तुः क्यङित्येक वाक्यम् । अत्र कर्तुरिति पञ्चम्यन्तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मण.' इत्यतः वेति च । तदाह । उपमानादिति ॥ उपमानं यत्कर्तृकारक तद्वृत्ते सुबन्तादित्यर्थः । कर्तु सलोपश्चेति द्वितीय वाक्यम् । चकारः तुपर्यायः भिन्नक्रमः । स इति लुप्तषष्ठीक पृथक्पदम् । कर्तुरिति षष्ठ्यन्तस्य विशेषणम् । तदन्तविधिः । तदाह । सान्तस्य त्विति ॥ पक्षे इति ॥ क्यङभावपक्षे इत्यर्थः । क्यङभावपक्षे सकारलोप इति भ्रम वारयति । सान्तस्य लोपस्त्विति ॥ एतच्च महाभाष्ये स्पष्टम् । क्यङि सलोपविकल्पः स्यादित्यत आह । स च व्यवस्थितः इति ॥ सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति । ओजसोऽप्सरसः इति ॥ इदं वर्तिकम् । ओज
विभाषया' (वा १७१९-२०) । कृष्ण इवाचरति कृष्णायते । ओजश्शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते-यशस्यते । विद्वायते-विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । 'क्यङ्-मानिनोश्च' (सू ८३७) कुमारीवाचरति कुमारायते । हरिणीवाचरति हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्व्याविव पट्वीमृदूयते । 'न कोपधायाः' (सू ८३८) । पाचिकायते । 'आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा' (वा १७२१) ।
श्शब्दः इति ॥ क्यङन्तोऽयम् । सनाद्यन्ता इति धातुत्वाद्वृत्ति. । तत्र ओजश्शब्दः ओजस्विनि वर्तत इत्यर्थ । ओजायते इति ॥ ओजस्वीवाचरतीत्यर्थः । ओजश्शब्दात् क्यङि सलोपे 'अकृत्सार्व' इति दीर्घ इति भावः । अप्सरायते इति ॥ अप्सरशब्दात् क्यङि सलोपदीर्घौ । क्यङो डित्त्वादात्मनेपदम् । इतरेषा विभाषयेत्यस्योदाहरति । यशायते-यशस्यते इति ॥ यशस्वीवाचरतीत्यर्थ. । विद्वायते-विद्वस्यते इति ॥ विद्वानिवाचरतीत्यर्थ । विद्वच्छब्दात् क्यङि सलोपविकल्पः । त्वद्यते । मद्यते इति ॥ त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात् क्यङि 'प्रत्ययोत्तरपरयोश्च' इति मपर्यन्तस्य त्वमौ । युष्मद्यते । अस्मद्यते इति ॥ यूयमिव वयमिव आचरतीत्यर्थः । 'त्वमावेकवचने' इत्यस्मात् 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे एकवचने इत्यनुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मदोस्त्वमाविति भावः । कुमार्यादिशब्दात् क्यङि पुवत्त्व स्मारयति । क्यङ् मानिनोश्चेति । कुमारायते इति ॥ पुवत्त्वेन ङीषो निवृत्तौ दीर्घ. । हरितायते इति ॥ हरिणीशब्दात् क्यङि पुवत्त्वेन 'वर्णादनुदात्तात्' इति नत्वस्य ङीषश्च निवृत्तौ दीर्घ । गुरूयते इति ॥ गुर्वीशब्दात् क्यङि ङीषो निवृत्तौ दीर्घ. । सपत्नायते इति ॥ शत्रुपर्यायात् सपत्नशब्दात् शार्ङ्गरवादित्वेन ङीनन्तात् पुवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भाव । सपतीयते इति ॥ समानः पति स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च सपत्नीशब्दात् क्यङि पुवत्त्वेन ङीत्वनत्वयोर्निवृत्तौ दीर्घ इति भाव. । सपत्नीयते इति ॥ विवाहनिबन्धन पतिशब्दमाश्रित्य समान. पति: यस्या इति बहुव्रीहौ सपत्नीशब्दस्य नित्यस्त्रीलिङ्गत्वान्न पुवत्त्वमिति भावः । युवायते इति ॥ युवतिशब्दात् क्यङि पुवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भाव . । वयोवाचिनाञ्जातिकार्य वैकल्पिकमिति 'जातेरस्त्रीविषयात्' इत्यत्र भाष्ये स्पष्टम् । एतेन 'जातेश्च इति निषेधादिह पुवत्त्व दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पट्वीमृदूयते इति ॥ इह पूर्वपदस्य क्यङ्परकत्वाभावान्न पुवत्त्वम् । ननु पाचिकेवाचरति पाचिकायते इत्यत्रापि 'क्यङ्मानिनोश्च' इति पुवत्त्वेन टाप 'प्रत्ययस्थात्' इति इत्त्वस्य च निवृत्तौ पाचकायते इति स्यादित्यत आह । न कोपधायाः इति ॥ 'आचारेऽवगल्भक्लीबहोडेभ्य. किब्वा' इति वार्तिकम् । उपमानादित्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वाग्रहणस्यास्मिन्प्रकरणे अनुवृत्त्यैव सिद्धे वाग्रहण व्यर्थमित्यत आह । वा
वाग्रहणात् क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अवगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अवगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसम्भवात् । धातूनामनेकार्थत्वात् । अवगल्भाञ्चक्रे । क्लीबाञ्चक्रे । होडाञ्चक्रे । वार्तिकेऽवेत्युपसर्गाविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः ।
ग्रहणात् क्यङपीति ॥ अन्यथा विशेषविहितत्वात् क्विपा क्यङो वाध स्यादिति भाव । तथाचात्र वाशब्दो विकल्पार्थक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात् समुच्चीयते इति केचित् । अवगल्भादयः इति ॥ 'गल्भ धाष्टर्ये' (अवपूर्व.) 'क्लीब अधाष्टर्ये' 'होडृ अनादरे' एभ्य पचाद्यचि अवगल्भादिशब्दास्त्रयो निष्पन्ना इत्यर्थ । तथाच अवगल्भ इवाचरति क्लीब इवाचरति होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्य क्विप्वयडाविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह । क्विप्सन्नियोगेनेति ॥ अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वञ्चात्र प्रतिज्ञायते । ततश्च तस्य इत्सज्ञाया लोपे अनुदात्तेत्वादात्मनेपद लभ्यते । तदाह । तेन तङिति ॥ अवगल्भते इति ॥ क्विपि भकारादकारस्य लोपे हलन्ताल्लडादो तडि शविति भाव । ननु अवगल्भाञ्चक्रे, क्लीबाञ्चक्रे, होडाञ्चक्रे, इत्यत्र कथमाम् । अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेन 'कास्यनेकाच्' इत्यस्याप्रवृत्ते । नच अवगल्भ इत्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम् । 'उपसर्गसमानाकार पूर्वपद धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते 'इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह । भूतपूर्वादपीति ॥ क्विबुत्पत्ते प्राक्तनमनेकाच्त्व भृत पूर्वगत्या आश्रित्येत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह । एतद्वार्तिकेनेति ॥ 'सर्वप्रातिपदिकेभ्य. क्लिब्वा' ति वक्ष्यमाणवार्तिकादेव अवगल्भते अवजगल्भे इत्यादि सिद्धौ पुनरेभ्य क्विब्विधान तत्सन्नियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थ सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयण ज्ञापयतीत्यर्थ । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनेपदसिद्धावुपक्षीणत्वात् कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति । न चावगल्भते इत्यादिसिद्धिस्तत्फलमिति ॥ कुत इत्यत आह । केवलानामिति ॥ अच्प्रत्ययविहितानान्धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधा तूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसम्भवात् । तच्च कुत इत्यत आह । धातूनामनेकार्थत्वादिति ॥ एवञ्च 'आचारेऽवगल्भ' इति क्विब्विधानमनुबन्धसम्भवार्थ सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयण ज्ञापयतीति सिद्धम् । नच 'सर्वप्रातिपदिकेभ्य' इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथन्तस्य उक्तज्ञापकतेति वाच्यम् । 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्ते । भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन 'सर्वप्रातिपदिकेभ्य.' इति वार्तिकस्य अवगल्भादिभ्य अप्रवृत्तिविज्ञानाद्वेत्यास्तान्तावत् । 'आचारेऽवगल्भ' इत्यत्र अवेत्यस्य प्रयोजनमाह । अवेत्युपसर्गेति ॥ केवलादिति ॥ उपसर्गविहीनादवगल्भशब्दादित्यर्थः ।
त ङ् नेति तूचितम् । । 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' (वा १७२२) । पूर्ववार्तिकं तु अनुबन्धासङ्गार्थं तत्र क्विबनूद्यते । प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । 'अतो गुणे' (सू १९१) इति शपा सह पररूपम् । अ इवाचरति अति । अतः । अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम्१ । औ । अतुः । उः । द्वित्वम् । 'अतो गुणे' (सू १९१) 'अत आदेः' (सू २२४८) इति दीर्घः णल ।
उपसर्गान्तरेति ॥ प्रगल्भानुगल्भादिशब्दादित्यर्थ । क्यङेवेति ॥ न तु क्विबित्यर्थ । माधवादय. इत्यस्वरसोद्भावनम् । तद्बीजमाह । तङ् नेति तूचितमिति ॥ केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात् अनेन क्विबभावेऽपि 'सर्वप्रातिपदिकेभ्य' इति वार्तिकेन क्विप् निर्वाधः । परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थ. । सर्वप्रातिपदिकेभ्य: इति ॥ आचारे इति शेषः । नन्वनेनैव वार्तिकेन सिद्धे 'आचारेऽवगल्भ' इति वार्तिक व्यर्थमित्यत आह । पूर्ववार्तिकान्त्विति ॥ अन्त्यवर्णस्य इत्संज्ञासिध्द्यर्थमित्यर्थ.। तर्हि तत्र क्विब्ग्रहण व्यर्थमित्यत आह । तत्र क्विबनूद्यते इति ॥ तत्सन्नियोगेनानुबन्धासङ्गार्थमित्यर्थ । पदकार्यं नेति ॥ राजानतीत्यादौ नलोपादिकन्नेत्यर्थः । अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिक स्यादिति भाव । पररूपमिति ॥ कृष्णशब्दात् क्विबन्ताल्लडादौ शपि 'अतो गुणे' इति पररूपमित्यर्थः । कृष्णाञ्चकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्णायात् । अतो लोपात्परत्वात् 'अकृत्सार्व' इति दीर्घः । विशेषविहितत्वादतो लोप इत्यन्ये । अ इवेति ॥ अ विष्णु । स इवेत्यर्थ. । अतीति ॥ शपा पररूपम् । असि । अथ । अथ । आमि । आव । आम. । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्क्य आह । प्रत्ययग्रहणमपनीयेति ॥ औ । अतु । उ । इति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियान्दर्शयति । द्वित्वमिति ॥ णलि 'द्विर्वचनेऽचि' इति लोपस्य निषेध इति भाव । अतो गुणे इति ॥ द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोप बाधित्वा पररूपमिति भाव । अत आदेरिति ॥ नच परत्वान्नित्यत्वादपवादत्वाच्च 'अतो गुणे' इत्यस्मात्प्राक् 'अत आदेः' इत्यस्य प्रवृत्तिरिति वाच्यम् । तस्य बहिरङ्गत्वात् । 'अत आदेः' इत्यस्यापवादत्वेऽपि आनर्देत्यत्र हलादिशषात्प्रागेव परत्वात् 'अत आदेः' इत्यस्य चरितार्थत्वेन बाधकत्वासम्भवात् । 'अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते' इत्युक्ते इत्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्ति । तथापि न्याय्यत्वादेवमुक्तम् । णल औ इति ॥ पररूपे
१ “ अनेकाज्ग्रहण चुलुम्पाद्यर्थम् ’ इतिवत् एकाज्व्यावृत्त्यर्थम् इत्यनुक्त्या प्रत्ययान्तैकाज्भ्योऽप्याम् भवत्येव-इति नागेशसिद्धान्तः । औ । वृद्धि:। अतुसादिषु तु 'आतो लोप इटि च' (सू २३७२) इत्याल्लोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषयैकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालाञ्चकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीप्साहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि । कवीयात् । 'सिचि वृद्धिः-–' (सू २२९७) इत्यत्र 'धातोः' इत्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । माधवस्तु नामधातोरपि वृद्धिमिच्छति । अकवायीत् । विरिव
दीर्घे च आ अ इति स्थिते 'आत औ णल.' इत्यौत्वमिति भावः । वृद्धिरिति ॥ आ औ इति स्थिते 'वृद्धिरेचि' इति वृद्धिरित्यर्थः । तथा च औ इति रूप परिनिष्ठितम् । अतुसादिष्विति ॥ अ अतुस् , अ उस्, इति स्थिते द्वित्वे पररूपे 'अत आदे.' इति दीर्घे आतो लोप इत्यर्थ । अतु । उ. । इति प्रत्ययमात्र शिष्यते । थलि इटि द्वित्वे दीर्घे आल्लोपे, इथ । अथु । अ । औ । इव । इम । वस्तुतस्तु 'कास्यनेकाज्ग्रहणम्' इति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च प्रत्ययान्ताच्च आमिति लभ्यते । अत एव 'आचारेऽवगल्भक्लीबहोडेभ्य.' इति वार्तिके अवगल्भाञ्चक्रे इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपि 'कास्प्रत्ययात्' इत्यामित्युक्त भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् । इता । इष्यति । अतु-अतात् । अताम् । अन्तु । अ-अतात् । अतम् । अत । आनि । आव । आम । आत् । आताम् । आन् । आ. । आतम् । आत । आम् । आव । आम । विधिलिङि एत् । एताम् । एयु. । ए. । एतम् । एत । एयम् । एव । एम । आयात् । आयास्ताम् । आयासु. । लुङि 'इट ईटि' इति सिज्लोपे 'आटश्च' इति वृद्धिं बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत्, ऐष्टाम्, ऐषु, इत्यादीति केचित् । आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याभावादाट् नेत्यन्ये । ईत् । ईस्ताम् । इत्यादि । ऐष्यत् । वस्तुतस्तु आकारान्तेभ्य आचारे क्विप् नास्त्येवेति विश्वपाशब्दनिरूपणे प्रपञ्चितम् । ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावात्ततः कथं क्विबित्यत आह । लिङ्गविशिष्टेति ॥ ङीप्साहचर्यादिति ॥ ङ्यन्तादाचारक्विबन्तात् गौरीशब्दात् लुङि अगौरयीत् इत्यादौ तिस्योर्ङ्यन्तात्परत्वासम्भवात् तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति ॥ शपि गुणायादेशौ । कवीयादिति ॥ 'अकृत्सार्व' इति दीर्घ. । लुङि अकवि ईत् इति स्थिते सिचि वृद्धिमाशङ्क्य आह । सिचि वृद्धिरित्यत्रेति ॥ सिचा धातोराक्षेपतो लाभेऽपि 'ॠत इद्धातोः' इत्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भाव. । कैयटादयः इति ॥ 'इको गुणवृद्धी' इति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भाव । माधवस्त्विति ॥ 'सिचि वृद्धिः' इत्यत्र 'ॠत इद्धातोः' इत्यतो धातुग्रहणानुवृत्तौ मानाभावेन धातुरेव यो धातुरित्युक्तार्थालाभादिति तदाशयः । वस्तुतस्तु 'इको गुणवृद्धी' 'वदव्रजहलन्तस्याच' इत्यादिसूत्रस्थभाष्ये सिचि परतः एजन्त नास्तीत्युक्तत्वादेजन्तेभ्यः आचारक्विप् नास्त्येवेति
वयति । विवाय । विव्यतुः । अवयीत्-अवायीत् । श्रीरिव श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र 'गातिस्था–' (सू २२२३) इति 'भुवो वुक्--' (सू २१७४) इति 'भवतेः-' (सू २१८१) इति च न भवति । अभिव्यत्क्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । अभावीत् । बुभाव । दुरिव द्रवति । 'णिश्रि--' (सू २३१२) इति चङ् न । अद्रावीत् ।
२६६६ । अनुनासिकस्य क्विझलोः क्ङिति । (६-४-१५)
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिव देवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । 'चकौ' इति हरदत्तः । माधवस्तु 'ण्यल्लोपौ' इति वचनाण्णलि
शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति ॥ वि पक्षी स इवेत्यर्थः । अभिव्यक्तत्वेनेति ॥ अभावीदिति ॥ इह 'गातिस्था' इति सिचो न लुक् । बुभावेति ॥ इह न बुक् । अभ्यासस्य अत्त्वञ्च न । चङ् नेति ॥ 'णिश्रि' इति सूत्रे द्रुग्रहणेन धातुपाठस्थस्यैव ग्रहणादिति भावः । अनुनासिकस्य ॥ अङ्गस्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः । 'नोपधायाः' इत्यत उपधाया इति 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह । अनुनासिकान्तस्येत्यादिना ॥ इदामतीति ॥ 'हलन्तेभ्यः आचारक्विप् नास्ति' इति 'ह्रस्वनद्याप' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति ॥ पथिन्शब्दात् क्विपि अनुनासिकस्येति इकारस्य दीर्घः । इदन्तु माधवानुरोधेन । क्विबभ्युपगमे तिपि पथेनतीत्येव युक्तम् । 'इन्हन्' इति नियमेन दीर्घप्राप्तेः । नच नियमस्य सजातीयापेक्षत्वात् सुबानन्तर्ये एवायन्नियमो नान्यत्रेति वाच्यम् । तथा सति वृत्रघ्नः स्त्री वृत्रघ्नीत्यत्रापि अल्लोप बाधित्वा अन्तरङ्गत्वात् 'अनुनासिकस्य' इत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति ॥ दिव्शब्दादाचारक्विबन्तात् शपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात् 'दिव उत्' इत्युत्त्वन्नेति भावः । अत्र ऊठीति ॥ दिव्शब्दात् क्विपि 'च्छ्वो' इति वकारस्य ऊठि कृते लघूपधगुण बाधित्वा परत्वादिकारस्य यणि द्यूशब्दात् शपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति ॥ कशब्दात् क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति ॥ चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृद्धि बाधित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक इति रूपमित्यर्थः । नचैव सति अ इवाचरति अति । औ । अतु इत्यत्रापि लिटि 'अत आदेः' इति दीर्घ बाधित्वा अतो लोपः स्यादिति वाच्यम् । ण्यल्लोपाविति पूर्वविप्रतिषेधलभ्यः 'अतो लोप.' सन्निहितमेव 'अकृत्सार्व' इति दीर्घ बाधते । 'नतु
वृद्धिं बाधित्वा अतो लोपात् चक इति रूपमाह । स्व इव सस्वौ । सस्व । यत्तु स्वामास । स्वाञ्चकार इति । तदनाकरमेव ।
२६६७ । भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । (६-१-१२)
अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । 'अच्वेः' इति पर्युदासबलात् 'अभूततद्भावे' इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । 'सुमनस्' अस्य सलापः । सुमनायते । चुरादौ 'संग्राम युद्धे' इति पठ्यते । तत्र 'संग्राम' इति प्रातिपदिकम् । तस्मात् 'तत्करोति--' इति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते ।
'अत आदेः' इति दीर्घमपि । 'अनन्तरस्य' इति न्यायादिति माधवाशय इत्याहः । तदनाकरमेवेति ॥ अनेकाच्त्वाभावादिति भावः । वस्तुतस्तु प्रत्ययग्रहणमपनीयेत्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् । भृशादिभ्यो ॥ भवनं भू भावे क्विप् । तदाह । भवत्यर्थे इति ॥ भवने इत्यर्थः । क्यङ् स्यादिति ॥ 'कर्तु क्यङ् सलोपश्च' इत्यतस्तदनुवृत्तेरिति भाव. । हलन्तानामेषामिति ॥ भृशादिषु ये हलन्ताः तेषां सलोपः क्यङ् चेत्यर्थः । 'ननु अभूततद्भावे' इति कुतो लब्धमित्यत आह । अच्व्येरिति पर्युदासबलादिति ॥ अभूततद्भावग्रहणमिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशाः इति ॥ प्रकाशातिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति । सुमनस् इति ॥ सुमनायते इति ॥ असुमनाः सुमनाः भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारे 'अप्सुमनस्समासिकतावर्षाणाम्बहुत्वञ्च' इति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचन विहितम् । तथापि तद्देवादिपर्यायरूढविषयम् । सु शोभन मनो यस्येति सुमनाः इति बहुव्रीहियौगिक इति भावः । सुमनायत इति क्यङि सलोपे 'अकृत्सार्व' इति दीर्घः । ननु लङि मनश्शब्दात्प्रागटि 'स्वमनायत' इति वक्ष्यमाणमनुपपन्नम् । अङ्गस्य अड्विधानात् सुमनश्शब्दस्य समस्तस्यैव लड प्रत्यङ्गत्वात् । 'प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इत्याशङ्क्य आह । चुरादौ संग्राम युद्धे इति पठ्यते इति ॥ ततश्च क्वचित् सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादौ सङ्ग्रामेति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः । एवञ्चास्य प्रातिपदिकत्वाभावात् सोपसर्गात् क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदङ्गमकमित्यत आह । तत्र संग्राम इति प्रातिपदिकमिति ॥ 'ग्रसेराच' इत्यौणादिके मन्प्रत्यये निष्पन्नस्य ग्रामशब्दस्य 'कृत्तद्धित' इति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षे 'अर्थवदधातुः' इति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादिकणिजर्थः । एवञ्च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह । तस्मादिति ॥ तस्मात् सङ्ग्राम इति
युद्धे योऽयं ग्रामशब्दः इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति । तेन मनःशब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं च अवागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गस्वरूपं सकलं श्रूयते न
प्रातिपदिकात् चौरादिकणिजसम्भवेऽपि 'तत्करोति' इत्यर्थे णिच् सिद्ध इत्यर्थ. । ननु 'तत्करोति' इत्यनेनैव सङ्ग्रामशब्दात् प्रातिपदिकाण्णिच्सिद्धेः किमर्थमिह चुरादौ तस्य पाठ इत्यत आह । तत्सन्नियोगेनेति ॥ णिच्सन्नियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसंज्ञनार्थ इत्यर्थः । नच मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाभावादसङ्ग्रामत इत्यत्र 'णौ चड्युपधाया' इत्युपधाह्रस्व. स्यादिति वाच्यम् । सङ्ग्रामेत्ययं हि कथादित्वाददन्तः । तस्मादकारः अनुबन्धत्वेनासज्यते इत्यर्थः । एवञ्च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्रस्वः । कथादित्वलक्षणादन्तत्वालाभायैवास्य चुरादौ पाठ इति भावः । ननु चुरादौ सङ्ग्रामशब्दस्य 'तत्करोति' इति णिचि परे अस्त्वनुबन्धासङ्ग । तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमस्य ज्ञापकतेत्यत आह । युद्धे इति ॥ सामर्थ्यादिति ॥ ग्राम युद्धे इत्येतावतैव सङ्ग्रामशब्दो लभ्यते । केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाभावादित्यर्थः । विशिष्टपाठः इति ॥ सङ्ग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह । समानाकारमिति ॥ सङ्ग्रामशब्दे युद्धवाचिनि समित्यस्य क्रियायोगाभावात् समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति ॥ क्विबादाविति शेष. । पृथक् क्रियते इति ॥ तथाच न तस्य धातुसंज्ञाप्रवेश इत्यर्थ । तत किमित्यत आह । तेनेति ॥ सम् इत्यस्य धातुसंज्ञाप्रवेशाभावेनेत्यर्थ. । तथाच सुमनश्शब्दात् आचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्ततः प्रागेव अट् । न तु सुमनस् इति समुदायात्प्रगित्यर्थ । एतेन सङ्ग्रामयतेरेव सोपसर्गत् नान्यस्मादित्यादि भाष्य 'भृशादिभ्यः' इति सूत्रस्थ व्याख्यातमिति बोध्यम् । उन्मनायते इति ॥ भृशादित्वात् क्यङि सलोपः । एवञ्चेति ॥ एवमुक्तरीत्या 'आचारेऽवगल्भ' इति क्विब्विधावपि अवेत्यस्य पृथक्करणात् गल्भशब्दात्प्रागेव अट् इत्यर्थः । ननु आ ऊढ. ओढ 'कुगति' इति समासः । अस्माद्भृशादित्वात् क्यङि ओढायते इत्यादि रूपम् । अत्रापि आडो धातुसंज्ञाप्रवेशो न स्यात् । तत्र यद्यपि लङि ऊढशब्दाद्वा आडो वा प्राक् आटि न रूपे विशेषः । उभयथापि औढायतेत्येव रूप सिद्धमेव । तथापि ओढायेति क्यङन्तात् क्त्वाप्रत्यये अतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वाप्रत्ययान्तेन समासे सति 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' इति ल्यप् स्यादित्यत आह । ज्ञापकञ्च सजातीयविषयमिति ॥ तदेवोपपादयति । तेनेति ॥ चुरादौ 'सङ्ग्राम युद्धे' इति सम्ग्रहणस्य उक्तार्थे पृथक्करणे ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपं अविकृत श्रूयते नत्वेकादेशेनापहृत तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः । सङ्गामे सम्ग्रह
इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति । तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति-लोहिनीयते ।
२६७० । कष्टाय क्रमणे । (३-१-१४)
चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहते इत्यर्थः । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' (१७६१) । कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चीकिर्षतीत्यस्वपदविग्रहः सत्रायते । कक्षायते इत्यादि ।
२६७१ । कर्मणो रोमन्थतपोभ्यां वर्तिचरोः । (३-१-१५)
इत्यत आह । डाजन्तादिति ॥ तद्भाष्येति ॥ 'भृशादिष्वितराणि' इत्युक्तवार्तिक तद्भाष्यविरुद्धमित्यर्थः । तस्मादिति ॥ उक्तवार्तिकभाष्यविरोधात् तेभ्यः श्यामादिभ्यः भृशादित्वलक्षणः क्यडेव नतु क्यषित्यर्थः । ततश्च 'वा क्यषः' इत्यस्याप्रवृत्तेः डित्त्वादात्मनेपदमेवेति मत्वा आह । श्यामायते इति ॥ श्यामो भवतीत्यर्थ.। ननु देवदत्तस्सुखायते इति कथ । देवदत्तस्य सुखत्वाभावादित्यत आह । सुखादयः इति ॥ श्यामादिषु ये सुखदुःखादिशब्दा गुणवचना ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवञ्च सुखायते इत्यत्र सुखवान् भवतीत्यर्थः । एव दुःखायते इत्यादावपि । ननु लोहितशब्दाद्विहित क्यष् कथं लोहिनीशब्दात् स्यादित्यत आह । लिङ्गविशिष्टेति ॥ कष्टाय क्रमणे ॥ क्रमणशब्द विवृणोति । उत्साहे इति ॥ अस्वरितत्वात् क्यषिति नानुवर्तते इति भाव. । क्रियार्थोपपदस्येति चतुर्थीति मत्वा आह । पापङ्कर्तुमिति ॥ क्रमते इत्यत्र 'वृतिसर्गतायनेषु क्रमः' इति तड् । 'कण्वचिकीर्षायाम्' इत्यत्र कण्वपद व्याचष्टे । कण्वं पापमिति ॥ सत्रादिशब्दान् विवृणोति । सत्रादयः इति ॥ द्वितीयान्तेभ्यः इति ॥ चिकीर्षाया द्वितीयान्तस्यैवान्वययोग्यत्वादिति भाव । कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः । केचित्तु कण्वेत्यविभक्तिकम् । कण्ववर्तिभ्यः इति व्याचक्षते । अस्वपदविग्रहः इति ॥ वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कण्वशब्दादन्यत्रैव । कष्टाय क्रमते इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एव विग्रह प्रदर्श्य सत्रादिषु विग्रहाप्रदर्शनादित्याहुः । कर्मणो रोमन्थ ॥ वृतुधातोर्ण्यन्तात् 'धात्वर्थनिर्देशे इग्वक्तव्यः' इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेस्सम्पदादित्वाद्भावे क्विप् । वर्ति चर अनयोर्द्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । द्वित्वे एकवचनम् । तथाच कर्मकारकवृत्तिभ्यां रोमन्थतपश्शब्दाभ्यामिति लभ्यते । यथा
रोमन्थतपोभ्यां कर्मभ्या क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते । 'हनुचलने इति वक्तव्यम्' (वा १७६२) । चर्वितस्याकृष्य पुनश्चर्वणमित्यर्थः । नेह । कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निस्सृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थ इति कैयटः । वर्तुळं करोतीत्यर्थ इति न्यासकारहरदत्तौ । 'तपसः परस्मैपदं च' (वा १७६६) । तपश्चरति तपस्यति ।
२६७२ । बाष्पोष्मभ्यामुद्वमने । (३-१-१६)
आभ्यां कर्मभ्यां क्यङ् स्यात् । बास्पमुद्वमति बाष्पायते । ऊष्मायते । 'फेनाच्चेति वाच्यम्' (वा १७६४) । फेनायते ।
२६७३ । शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । ३-१-१७)
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे 'तत्करोति-' इति णिजपीष्यत इति न्यासः । शब्दयति । 'सुदिनदुर्दिननीहारेभ्यश्च' (वा १७३६-३७) । सुदिनायते ।
सङ्ख्यमन्वय. । तदाह । रोमन्थतपोभ्यामिति ॥ रोमन्थमिति ॥ उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् । उद्गीर्णस्य उदरादुपरि कण्ठद्वारा निर्गतस्य निगीर्णस्य अपानद्वारा निर्गतस्य च मन्थः चर्वण रोमन्थ इत्यर्थः । वर्तयतीति ॥ आवर्तयतीत्यर्थः । हनुचलने इति ॥ हनु तालु तच्चलने सत्येव अयं विधिरित्यर्थः । तथाच उदरगतभक्षित द्रव्यन्तृणादिक पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात् क्यङिति फलितम् । तदाह । चर्वितस्येति ॥ हनुचलनेन भक्षितस्य उदर प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीटः इति ॥ इह हनुचलनाभावान्न क्यङिति भावः । तदेवोपपादयति । अपानेति ॥ 'तपसः परस्मैपदञ्च' इति वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः । पूर्वसूत्राच्चरणे क्यङं लभते । डित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव लभते इत्यर्थः । तपस्यतीति ॥ प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्तर्वर्तिविभक्त्यभावात् 'नः क्ये' इति नियमाच्च पदत्वाभावान्न रुत्वमिति भावः । बाष्पोष्मभ्यामुद्वमने ॥ आभ्याङ्कर्मभ्यामिति ॥ 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणमनुवर्तते इति भाव । कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति ॥ फेनमुद्वमतीत्यर्थः । शब्दवैर ॥ करण क्रिया । तदाह । करोत्यर्थे इति ॥ तत् करोतीति णिचोऽपवादः । पक्षे इति ॥ कदाचिदित्यर्थः । न्यासः इति ॥ भाष्यानारूढत्वमत्र अरुचिबीजम् । 'सुदिन
२६७४ । सुखादिभ्यः कर्तृवेदनायाम् । (३-१-१८)
एभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः । सुखं वेदयते सुखायते । 'कर्तृग्रहणम्' किम् । परस्य सुखं वेदयते ।
२६७५ । नमोवरिवश्चित्रङः क्यच् । (३-१-१९)
'करणे इत्यनुवृत्तेः' क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषते इत्यर्थः । चित्रीयते । विस्मयते इत्यर्थः । विस्मापयते इत्यन्ये ।
२६७६ । पुच्छभाण्डचीवराण्णिङ् । (३-१-२०)
'पुच्छादुदसने व्यसने पर्यसने च' । (वा १७४६) । विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते ।परिपुच्छयते । 'भाण्डात्समाचयने' (वा १७४४) । संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थ । समबभाण्डत । 'चीवरादार्जने परिधाने च' (वा १७४५) । सञ्चीवरयते भिक्षुः । चीवराण्यर्जयति, परिधत्ते वेत्यर्थः ।
दुर्दिन' इति वार्तिकम् । करोत्यर्थे क्यङिति शेषः । सुखादिभ्यः ॥ कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् । 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणानुवृत्ति मत्वा आह । एभ्यः कर्मभ्यः इति ॥ वेदनायामिति ॥ ज्ञाने इत्यर्थ । कर्तृत्व च वेदना प्रत्येव विवक्षितम् | उपस्थितत्वात् प्रतिपदोक्ता षष्ठी । वेदनाकर्तृवृत्तिभ्यस्सुखादिशब्देभ्य इति लभ्यते । फलितमाह । वेदनाकर्तुरेव चेदिति ॥ सुखं वेदयते इति ॥ जानातीत्यर्थः । 'विद चेतनायाम्' इति चुरादौ । नमो वरिवस् ॥ नमस् वरिवस् चित्रड् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थञ्चित्रशब्दो डिन्निर्दिष्टः । 'शब्दवैर' इत्यतः करणे इत्यनुवर्तते । करण क्रिया । सा च पूजापरिचर्याश्चर्यात्मिका विवक्षिता । मनसः पूजायाम् । वरिवसः परिचर्यायाम् । चित्रड: आश्चर्ये । इति वार्तिकै । तदाह । करणे इत्यनुवृत्तेरित्यादिना ॥ नमस्यति देवानिति ॥ कारकविभक्तेर्बलीयस्त्वात् द्वितीया । परिचर्या शुश्रूषेति मत्वा आह । शुश्रूषते इत्यर्थः इति ॥ आश्चर्यशब्दो विस्मयवाचीति मत्वा आह । विस्मयते इत्यर्थः इति । विस्मापयते इत्यन्ये इति ॥ आश्चर्यशब्दो विस्मापनपर इति भावः । ततश्चित्रीयमाणोऽसाविति भट्टिxx । असौ मायामृगः विस्मयमुत्पादयन्नित्यर्थ । पुच्छभाण्ड ॥ 'पुच्छादुदसने' इति वार्तिक । उत्पुच्छयते इति ॥ विविध विरुद्ध वा पुच्छमुत्क्षिपतीत्यर्थ . । 'भाण्डात् समाचयने' इत्यपि वार्तिकम् । समबभाण्डतेति ॥ उपसर्गसमानाकार पूर्वपद धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात् सभाण्डशब्दात् क्यङपि । भाण्डशब्दात् प्रागेवाडिति भाव ।
२६७७ । मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो
णिच् । (३-१-२१)
कृञर्थे । मुण्डं करोति मुण्डयति । 'व्रताद्भोजनतन्निवृत्त्योः' (वा ५०६०) । पयः शूद्रान्नं वा व्रतयति । 'वस्त्रात्समाच्छादने' (वा ५०६१) । संवस्त्रयति । 'हल्यादिभ्यो ग्रहणे' (वा ५०६२) । 'हलिकल्योरदन्तत्वं च निपात्यते' (वा १७४७) । हलिं कलिं वा गृह्णाति हलयति कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेऽगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृण्हाति कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः 'सत्यापपाश--'(सू २५६३) इत्यत्रैव पठितुं युक्ताः । 'प्रातिपदिकाद्धात्वर्थे--' इत्येव सिद्धे केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिज-
एवमुत्पुच्छयते इत्यादावपि । 'चीवरादार्जने' इत्यपि वार्तिकम् । मुण्डमिश्र ॥ कृञर्थे इति शेषपूरणम् । 'शब्दवैर' इत्यतः करणे इत्यनुवृत्तेरिति भावः । 'व्रताद्भोजने' इति वार्तिकम् । पयः शूद्रान्नं वा व्रतयतीति ॥ पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः । 'वस्त्रात्समाच्छादने' इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवस्त्रयतीति ॥ वस्त्रेण सम्यगाच्छादयतीत्यर्थः । वस्त्रम्परिधत्ते इति वा । 'हल्यादिभ्यो ग्रहणे' इति वार्तिकम् । भाष्ये तु न दृश्यते । हलिकल्योरिति ॥ हलिकली इदन्तौ । हलकलशब्दावदन्तौ इदन्तौ च । याविदन्तौ तयोरत्त्वन्निपात्यते इति भाष्ये स्पष्टम् । हलयति कलयतीति ॥ हलिकलिभ्यां णौ इकारस्य अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताभ्यां लडादीति भावः । महद्धलं हलिरिति ॥ अत्र वृद्धप्रयोगः अन्वेषणीय. । नन्वनयोरिकारान्तयोरदन्तत्वनिपातन व्यर्थम् । इकारस्य णाविष्ठवत्त्वाल्लोपे हलयति कलयतीति सिद्धे: । न च अजहलत् अचकलत् इत्यत्र सन्वत्त्वाप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम् । इकारलोपेऽप्यग्लोपित्वसिद्धेः इत्यत आह । परत्वादिति ॥ इकारस्य णौ इष्ठवत्त्वे टिलोपात् प्रागेव परत्वात् 'अचो ञ्णिति' इति वृद्धौ कृतायां ऐकारस्य इष्ठवत्त्वात् टिलोपे अग्लोपित्व न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः । अतः इति ॥ अग्लोपित्वात् सन्वत्त्वं 'दीर्घो लघोः' इति दीर्घश्च नेत्यर्थः । कृतं गृण्हातीति ॥ उपकारं स्वीकरोतीत्यर्थः । पठितुं युक्ताः इति ॥ लाघवादेकसूत्रत्व युक्तमित्यर्थः । केषांञ्चिदिति ॥ मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽपीति ॥ अन्यथा णिजन्तस्यास्य सनान्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज् भवेत् । सविशेषणानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनर्ग्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्द्यतीत्यर्थः । स्पष्टञ्चेद 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति ॥ अत्र माणवक
49
र्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् ।सत्यस्यापुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति । 'अर्थवेदयोरप्यापुग्वक्तव्यः' (वा १७५८) ।अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियाति अभिषेणयति । 'उपसर्गात्सुनोति--' (सू २२७०) इति षः । अभ्यषेणयत् । 'प्राक्सितात्--' (सू २२७६) इति षः । अभिषिषेणयिषति । 'स्थादिष्वभ्यासेन च--' (२२७७) इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । 'त्वच संवरणे' घः । त्वचं गृह्णाति त्वचयति । चर्मणा संनह्यति सञ्चर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति ।
मुण्डङ्करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिजिति भाव । यदा तु प्रकरणादिना माणवकत्वादिविशेषण ज्ञाप्यते तदैव मुण्डयतीति णिजिति भावः । 'सुप आत्मनः' इति सूत्रभाष्ये तु मुण्डय माणवकमित्यत्र गमकत्वाण्णिच् । महान्त पुत्रमिच्छतीत्यादौ तु अगमकत्वात् न क्यजित्युक्तम् । तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वस्त्रमिति ॥ निर्मलं करोतीत्यर्थः । लवणयति व्यञ्जनमिति ॥ लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति ॥ एवञ्च ताभ्यां सापेक्षाभ्यां न णिच् । तद्ग्रहणस्य अदन्तत्वनिपातने चरितार्थत्वादिति भावः । ननु सत्यशब्दात् तत्करोति इत्यादिनैव णिच्सिद्धे. 'सत्याप' इति सूत्रे सत्यग्रहण व्यर्थमित्यत आह । सत्यस्यापुगर्थमिति । केषाञ्चिदिति ॥ पाशादीनामित्यर्थः । सत्यापयतीति ॥ आपुग्विधिसामर्थ्यान्न टिलोपः । पाश विमुञ्चतीत्यादौ 'प्रातिपदिकाद्धात्वर्थे' इति णिच् । अभिषिषेणयिषतीति ॥ आभिषेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचङ्गृण्हाति त्वचयतीति कथम् । त्वच्छब्दाच्चकारान्ताण्णिचि टिलोपे त्वचयतीत्यापत्तेरित्यत आह । त्वचेति ॥ 'त्वच सवरणे' इत्यस्मात् 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः । पुंवद्भावादयः इति ॥ आदिना रभावटिलोपादिग्रहणम् । एतयतीति ॥ 'भस्याढे' इति पुवत्वस्य इष्ठनि प्रवृत्तेः णावपि तस्यातिदेशात् 'वर्णादनुदात्तात्' इति स्त्रीप्रत्ययस्य तत्सन्नियोगशिष्टनत्वस्य च निवृत्तौ एतशब्द तकारादकारस्य टिलोप इति भावः । नन्वेनीशब्दाण्णौ टिलोपेन स्त्रीप्रत्ययनिवृत्तौ
तत्सन्नियोगशिष्टनत्वस्यापि निवृत्तौ एतयतीति सिध्द्यतीत्यस्वरसत्वात् पुंवद्भावे उदाहरणान्तरमाह । दरदमिति ॥ दरदिति कश्चिद्राजा, तस्यापत्य दारदः 'ह्यञ्मगध' इत्यण् । स्त्र्यपत्ये तु दरदोऽपत्य स्त्री दरत् 'अतश्च' इत्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्ठव
पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोप: । अपिप्रथत्-अपप्रथत् । मृदुं म्रदयति । अमम्रदत् । भृशं कृशं दृढं भ्रशयति क्रशयति द्रढयति । अबभ्रशत् अचक्रशत् अदद्रढत् । परिब्रढयति । पर्यबब्रढत् । ऊढिमाख्यत् । औजिढत् ।ढत्वादीनामसिद्धत्वात् हतिशब्दस्य द्वित्वम् । 'पूर्वत्रासिद्धीयमद्वित्वे' इति त्वनित्यमित्युक्तम् । 'ढिशब्दस्य' द्वित्वमित्यन्ये ।औजिढत्-औडिढत् । ऊढमाख्यत् । औजढत्-औडढत् । 'ओः पुयण्--' (सू २५७७ ) इति वर्गप्रत्याहारजग्रहो लिङ्गं 'द्वित्वे कार्ये णावच आदेशो न' इति ऊनयता-
त्त्वात् पुवत्त्वेन स्त्रियामित्यनुवृत्तौ 'अतश्च' इति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दारदयतीति रूप सिध्द्यति । पुवद्भावे तु दरद्शब्दस्य टिलोपे सति दरयतीति स्यादिति भाव । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि । 'पृथु मृदु भृशञ्चैव कृशञ्च दृढमेव च । परिपूर्व बृढञ्चैव षडेतात्रविधो स्मरेत् ॥' इति क्रमेणोदाहरति । पृथुमिति ॥
आचष्टे इति शेष. । प्रथयति । तत्र प्रक्रियां दर्शयति । वृद्धौ सत्यामिति ॥ पृथु इ इति स्थिते परत्वाद्वृद्धौ कृताया टिलोप । अथवा कृतायामकृतायाञ्च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक् टिलोपः । उभयधापि 'र ॠत' इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्तु अकृताया वृद्धौ उकारस्य लोप.। कृतायान्तु औकारस्य लोप. । तथा च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्य.' इति टिलोप. अनित्य । ततश्च परत्वात् टिलोपात् प्राग्वृद्धिरेवेति 'मुण्डमिश्र' इति सूत्रे भाष्ये स्थितम् । वृद्धौ सत्यां पूर्व वा टिलोप इति मूलन्तु कृताकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्द्यम् । अपिप्रथदिति ॥ वृद्धौ सत्या टिलोपे अग्लोपित्वाभावात् सन्वत्त्वे 'सन्यत' इति इत्त्वे 'दीर्घो लघो.' इति दीर्घ इति भावः । अपप्रथदिति ॥ वृद्धेः पूर्व टिलोपेन उकारस्य निवृत्तावग्लोपित्वात् सन्वत्त्वाभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्व टिलोपे अग्लापत्वान्न सन्वत्त्वमिति भाव: । वृद्धौ सत्यां टिलोपे तु अबिभ्रशदित्याद्यूह्यम् । औजिढदिति ॥ ऊहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढि तस्मात् णौ टिलोपे ऊढि इति ण्यन्ताल्लुडि चडि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति । ढत्वादीनामिति ॥ ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् 'अजादेर्द्वितीयस्य' इति ह्ति शब्दस्य द्वित्वमित्यर्थ । इत्युक्तमिति ॥ लुग्विकरणप्रक्रियायां ऊर्णुञ्धाताविति शेषः । एवञ्च ह्तिशब्दस्य द्वित्वे हलादिशेषे 'कुहोश्चुः' इति हस्य चुत्वमिति भाव. । ढिशब्दस्येति ॥ 'पूर्वत्रासिद्धीयमद्वित्वे' इत्यस्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाभावादिति भावः । ऊढमाख्यदिति ॥ ऊहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दात् ण्यन्ताल्लुडि चडि ढत्वादीनामसिद्धत्वात् ह्तेत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् । औडढदिति ॥ 'पूर्वत्रासिद्धीयमद्वित्वे' इति ढत्वादीनामसिद्धत्वाभावपक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वात् टिलोपे सति णिच्सहितस्य ह्तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह । ओः पुयणित्यादि ॥ खशब्दाण्णिचि टिलोपमाशङ्कय आह ।
वुक्तम् । 'प्रकृत्यैकाच्’ (सू २०१०) । वृद्धिपुकौ । स्वापयति । त्वां मां वा आचष्टे त्वापयति मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिल्लोपः वृद्धिपुकौ । त्वादयति मादयति इति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे 'प्रकृत्यैकाच्' (सू २०१०) इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रेष्ठाद्युदाहरणविशेषेऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति अस्मयति । श्वानमाचष्टे शावयति ।
प्रकृत्यैकाजिति ॥ प्रकृतिभावाट्टिलोपाभावे अकारस्य वृद्धौ आकारे पुगागमः । तदाह । वृद्धिपुकाविति ॥ त्वापयति मापयति इत्यत्र प्रक्रिया दर्शयति । मपर्यन्तस्येति ॥ युष्मदस्मभ्द्या णौ 'प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वमौ । त्व अद् इ, म अद् इ इति स्थिते आह । पररूपादिति ॥ कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वम्बोध्द्यम् । त्व इ म इ इति स्थिते आह । वृद्धिरिति ॥ अकारस्य आकार । टिलोपस्य स्थानिवत्त्वन्तु न
शङ्क्यम् । अजादेशत्वाभावात् । पुगिति ॥ 'अर्ति' इत्यनेनेति भावः । तदेवम्प्राचीनमतमुपन्यस्य स्वमतमाह । त्वादयतीत्यादिना ॥ तदेवोपपादयति । अन्तरङ्गत्वादिति ॥ त्व अद् इ, म अद् इ इति स्थिते नित्यमपि टिलोपम्बाधित्वा अन्तरङ्गत्वात्पररूपे कृते 'प्रकृत्यैकाच्' इति प्रकृतिभावे टिलोपस्याप्रवृत्तौ उपधावृद्धिरिति भाव । ननु 'इष्ठेमेयस्सु' किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ठः इत्युदाहरणानि प्रदर्श्य नैतदस्ति प्रयोजन 'प्रस्थस्फ' इति विहितप्रादीनामाभीयत्वेनासिद्धतया तस्य टिलोपाप्रसक्तेरित्युक्त्वा श्रेयान् श्रेष्ठः इत्यत्र 'प्रशख्यस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनासिद्धत्वाभावात् टिलोपे अप्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तर प्रदर्श्य श्रादेशे अकारोच्चारणसामर्थ्याट्टिलोपो न भविष्यतीत्युक्त्वा स्रग्वितमः स्रजिष्ठः इत्यत्र 'विन्मतोर्लुक्' इति लुड्निवृत्त्यर्थ प्रकृतिभावविधानमित्युक्त्वा प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यतीति 'प्रकृत्यैकाच्' इत्यस्य भाष्ये प्रत्याख्यातत्वात् 'त्वादयति, मादयति' इत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यमिति ॥ कुत इत्यत आह । भाष्यस्येति ॥ उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीना प्रकृतिभाव विनाऽपि साधने तात्पर्य, न तु प्रकृतिभावप्रत्याख्यानमभिमतम् । स्वमाचष्टे स्वापयतीत्यादौ तदावश्यकत्वात् । अत एव 'प्रकृत्यैकाच्' 'इष्ठेमेयस्सु' चेन्नैकाच उच्चारणसामर्थ्यादवचनात् प्रकृतिभाव इति वार्तिकव्याख्यावसरे 'अन्तरेणापि वचन प्रकृतिभावो भविष्यति' इति भाष्ये उक्तम् । अन्यथा अन्तरेणैव वचनामित्युच्येत इत्यास्तान्तावत् । 'प्रत्ययोत्तरपदयोश्च' इत्यत्र एकवचने इत्यनुवृत्तम् । तच्च यौगिकमाश्रीयते । एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वा आह । युवामावां वेति ॥ न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ विभक्तेर्लुका लुप्तत्वात् । न च लुकः प्रागेव युवावौ किन्न स्यातामिति वाच्यम् । 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इत्युक्तेरिति भावः । 'शावयतीति ॥ श्वानमाचष्टे इत्यर्थः । श्वन्शब्दाण्णौ
'नस्तद्धिते' (सू ६७९) इति टिलोपः । प्रकृतिभावस्तु न, येन नाप्राप्तिन्यायेन 'टेः' (सू १७८६) इत्यस्यैव बाधको हि सः । भत्वात्सम्प्रसारणम् । अन्ये तु 'नस्तद्धिते' (सू ६७९) इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् 'टे:' (सू १७८६) इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे विद्वयति । अङ्गवृत्तपरिभाषया सम्प्रसारणं नेत्येके । सम्प्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्सम्प्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपं टिलोपः । विदयतीत्यपरे ।
श्वन् इ इति स्थिते आह । नस्तद्धिते इति ॥ 'प्रकृत्यैकाच्' इति प्रकृतिभावमाशङ्क्य आह । प्रकृतिभावस्तु नेति ॥ कुत इत्यत आह । येनेति ॥ 'टेः' इति टिलोपे प्राप्ते सत्येव प्रकृत्यैकाजित्यारभ्यते । 'नस्तद्धिते' इत्यस्य स्रजिष्ठः इत्यादौ अप्राप्तोऽपि प्रकृतिभाव. आरभ्यते इति भावः । भत्वादिति ॥ इष्ठवत्वेन भत्वात् 'श्वयुव' इति सम्प्रसारणमित्यर्थ । तथा च श्वन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनासिद्धत्वादन्नन्तत्वात् वस्य सम्प्रसारणे पूर्वरूपे
उकारस्य वृद्धौ आवादेशः । अन्ये त्विति ॥ इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेश । टेरित्येव टिलोप इष्ठनि दृष्ट, न तु 'नस्तद्धिते' इति अतो नास्यातिदेश इत्यर्थः । नन्वतिशयेन ब्रह्मा ब्रह्मिष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह । ब्रह्मिष्ठ इत्यादाविति ॥ तेनेति ॥ 'नस्तद्धिते' इत्यस्याप्रवर्तनेनेत्यर्थ । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याभावे सम्प्रसारणे शुनयतीति रूपमित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्वीजन्तु ब्रह्मवच्छब्दादिष्ठनि टेरिति टिलोपापवादे 'विन्मतोर्लुक्’ इति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्च इष्ठनि तस्यादृष्टत्वादित्ययुक्तम् । किञ्च ब्रह्मिष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्तिरित्ययुक्तम् । केवलस्य ब्रह्मन्शब्दस्य वेदादिवचनस्य गुणवचनत्वाभावेन इष्ठनो दुर्लभत्वात् 'अजादेर्गुणवचनादेव' इत्युक्ते । मत्वन्तादिष्ठनि तु मतोर्लुकि तेन 'टेः' इत्यस्य प्रवृत्तिबाधेन लुगुत्तरन्तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् । विद्वयतीति ॥ विद्वस्शब्दाण्णौ टिलोप. । ननु इष्ठवत्वात् भत्वे वसोस्सम्प्रसारणमित्याशङ्क्य आह । अङ्गवृत्तेति ॥ 'अङ्गवृत्ते पुनर्वृत्तावविधि' इति पारिभाषयेत्यर्थः । 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्र 'टेः' इत्यसोलोपे वस्वन्तत्वाभावात् सम्प्रसारणाप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरस सूचयति । इत्येके इति । सम्प्रसारणे इति ॥ विद्वस्शब्दाण्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्यन्ते इत्यर्थः । अत्रापि पूर्ववदेवास्वरसः टिलोपे सति वस्वन्तत्वाभावात् । नित्यत्वादिति ॥ टिलोपे कृते अकृते च प्रवृत्तेः सम्प्रसारण नित्यम् । टिलोपस्तु कृते सम्प्रसारणे पूर्वरूपे च कृते उसो भवति । अकृते तु अस् इत्यनित्यः । 'शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः' इति न्यायादिति भावः । ननु कृतेऽपि सम्प्रसारणे पररूपात्प्राक् अस एव टिलोप इति तस्य नित्यत्वमित्यत आह । अन्तरङ्गत्वात्पूर्वरूपं टिलोपः इति ॥ सम्प्रसारणे पूर्वरूपे कृते
उदञ्चमाचष्टे उदीचयति । उदैचिचत् । प्रत्यञ्चं प्रतीचयति । प्रत्यचिचत् । 'इकोऽसवर्णे-' (सू ९१) इति प्रकृतिभावपक्षे, प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति | सम्यचिचत्-समिअचिचत् । तिर्यञ्चमाचष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरि: । 'असिद्धवदत्र---' (सू २१८३) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अत: पुनष्टिलोपो
उसो लोपेऽपि वस्वन्तत्वस्य विनक्ष्यत्वान्न सम्प्रसारणमित्यस्वरस सूचयति । इत्यपरे इति ॥ एवञ्च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्तपरिभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति ॥ उत्पूर्वकादृत्विगित्यादिना क्विनि 'अनिदिताम्' इति नलोपे उदचशब्द. । तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोप बाधित्वा 'उद ईत्' इति ईत्त्वे उदीचि इति ण्यन्ताल्लडादय इति भावः । उदैचिचदिति ॥ लुडि 'द्विर्वचनेऽचि' इति णिलोपनिषेधात् चिशब्दस्य द्वित्वम् 'उपसर्गसमानाकारम्पूर्वपद धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते 'इत्युक्तेरुदः उपर्याडिति भाव. । एवञ्च उद. पृथक्करणेन 'प्रकृत्यैकाच्' इति प्रकृतिभावान्न टिलाप । प्रतीचयतीति ॥ अच इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः । इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् । अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नासिद्धत्वम् । लोपस्य णिनिमित्तत्वात् । आटस्तु लुड्निमित्तत्वात् । इकोऽसवर्णे इतीति ॥ 'न समासे' इति तु न । पृथक्करणेन समासनिवृत्तेः । समीचयतीति ॥ 'समस्समिः' इति सम्यादेशः । अच इति लोपे चाविति दीर्घ. । सम्यचिचदिति ॥ सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम् । पृथक्करणेन उत्तरपदपरत्वाभावेऽप्यन्तरङ्गत्वाज्जातस्सम्यादेशो न निवर्तते । तिराययतीति ॥ तिरस् इत्यव्ययम् । तत्पूर्वात् अञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ तिरसस्तिर्यलोपे इति तिरिभावे इकारस्य वृद्धावायादेशे तिरायि इत्यस्मात् ण्यन्ताल्लडादीति भावः । न च तिरसः पृथक्करणे सति धातोः 'प्रकृयैकाच्' इति प्रकृतिभावात् कथं टिलोप इति वाच्यम् । तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाभावेन पृथक्करणाभावात् । नन्वेव सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह । अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति ॥ बहिर्भूतणिनिमित्तकत्वादिति भावः । नन्वस्तु तिरसस्तिरिः । तत्र रेफादिकारस्य टेरिति लोपः स्यादित्यत आह । असिद्धवदत्रेति ॥ प्रथमटिलापोऽसिद्ध इत्यन्वय । तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवरूपटेर्लोप. तिरेष्टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथन्तिरेष्टिलोपे कर्तव्ये असिद्धत्वम् । टिलोपशास्त्रस्य एकत्वादित्यत आह । चिणो लुङ्न्यायेनेति ॥ पचधातोर्भावकर्मणोर्लुडस्तडि प्रथमपुरुषैकवचने तशब्दे परे 'चिण् भावकर्मणो' इति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात् 'तिडश्च' इति तरपि तदन्तात् 'किमेत्तिडव्ययघादाम्' इत्याम्प्रत्यये अपाचिततरामिति स्थिते 'चिणो लुक्' इति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति । स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकः असिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । अतः इति ॥ प्रथमटिलोपस्यासिद्ध
न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे सध्राययति । अससध्रायत् । विष्वद्य्रञ्चम् अविविष्वद्रायत् । देवद्य्रञ्चम् अदिदेवद्रायत् । अदद्य्रञ्चम् आददद्रायत् । अदमुयञ्चम् अदमुआययति । आददमुआयत् । अमुमुयञ्चम् अमुमुआययति । चङ् । अमुमुआयत् । भुवं भावयति । अबीभवत् । भ्रुवम् । अबुभ्रवत् । श्रियम् अशिश्रयत् । गाम् अजूगवत् । रायम् अरीरयत् । नावम् अनूनवत् । स्वश्वं स्वाशश्वत् । स्वः । अव्ययानां भमात्रे टिलोपः । स्वयति । असस्वत्-
त्वादित्यर्थः । अङ्गवृत्तपरिभाषया वेति ॥ पुनष्टिलोपो नेत्यनुषज्यते । न च तिरेरिकारस्याङ्गवृत्तपरिभाषया टेरिति लोपाभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम् । अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्ते. । अग्लोपित्वादिति ॥ तिरस् अच् इ इति स्थिते 'टे' इत्यतो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम् अचो धातोर्लोपे अकारस्यापि लोपसत्वादित्यभिमानः । सद्ध्राययतीति ॥ सहस्य सध्रि । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाभावान्न पृथक्करणम् । तदाह । अससध्रायदिति ॥ विष्वद्य्रञ्चमिति ॥ विष्वक् अच् इ इति स्थिते 'विष्वग्देवयोश्च' इति विष्वक्शब्दटेरद्य्रादेशे टेरित्यचोधातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवद्य्रञ्चमिति ॥ देवशब्दस्य टेरद्य्रादेशे देवद्राययतीति सिद्धवत्कृत्य लुड्याह । अदिदेवद्रायदिति ॥ अतितिरायदितिवद्रूपम् । आददद्रायदिति ॥ सर्वनामस्थानत्वाददस्शब्दस्य टेरद्य्रादेशः । त्यदाद्यत्वे सत्येव उत्त्वमत्त्वे इति पक्षे इदम् । अदस्शब्दाद्विभक्ते लुका लुप्तत्वेन विभक्तिपरकत्वाभावेन त्यदाद्यत्वाप्रवृत्तेः । त्यदाद्यत्वाविषयत्वेऽपि उत्त्वमत्त्वे स्त इति मतमाश्रित्य आह । अमुमुयंचमिति ॥ अदस् अच् इ इति स्थिते टेरद्य्रादेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थिते 'अदसोऽद्रेः पृथङ्मुत्वम्' इति मते दकाराकारयोर्दकाररेफयोश्च मत्वोत्त्वयोः कृतयो: अमुमु इ इति स्थिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयि इति ण्यन्ताल्लडादीति भाव । मुत्वस्यासिद्धत्वान्न यण् । अदमुआयतीति ॥ 'केचिदन्त्यसदेशस्य' इति मते इदम् । भुवमिति ॥ भुवमाचष्टे इत्यर्थे भूशब्दात् णिच् वृध्द्यावादेशौ भावि इत्यस्माल्लडादीति भावः । अबीभवदिति ॥ 'ओः पुयण्जि' इति
इत्त्वम्। अबुभ्रवदिति ॥ 'अचिश्नुधातु' इति उवड् । अवर्णपरत्वाभावात् 'ओः पुयण्जि' इति न । स्वश्वमिति ॥ सु शोभनः अश्वः इति विग्रहः । स्वाशश्वदिति ॥ उपसर्गसमानाकारस्य पृथक्करणादश्वशब्दस्य 'अजादेर्द्वितीयस्य' इति द्वित्वमाडागमश्च । स्वरिति ॥ स्वर् इत्यस्माण्णिचि 'अव्ययानाम्भमात्रे' इति टिलोपः । इष्ठवत्त्वेन भत्वात् 'प्रकृत्यैकाच्' इति प्रकृतिभावस्तु येननाप्राप्तिन्यायेन टेरित्यस्यैव बाधकः । असस्वदिति ॥ द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपम्बाधित्वा स्वर्शब्दस्य द्वित्वम् । अरित्यस्य लोपे अकारस्यापि लोपसत्त्वेन
असिस्वत् । बहून्भावयति । बहयतीत्यन्ये । स्रग्विणं स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीं पयसयति । इह टिलोपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि 'दूरयत्यवनते विवस्वति' इति । दूरमतति अयते वा दूरात् , दूरातं कुर्वतीत्यर्थः । युवानं यवयति-कनयति । 'युवाल्पयोः-' (सू २०१९) इति वा कन् । अन्तिकं नेदयति । बाढं
अजादेशत्वादिति भावः । असिस्वदिति ॥ अर्लोपस्य अजादेशत्वन्नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाभावात् टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भाव । बहूनिति ॥ बहुशब्दाण्णिचि णाविष्ठवदित्यतिदेशात् 'बहोर्लोपो भूच बहो' इति बहोर्भूभावः । इष्ठस्य यिट्चेति यिडागमस्तु न । णाविष्ठवदिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति ॥ यिडभावे तत्सन्नियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । सृजयतीति ॥ इष्ठवत्त्वात् 'विन्मतो.' इति लुक् । नचाजादी गुणवचनादेवेति इष्ठन्प्रत्ययः स्रग्विन्शब्दात् दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यम् । 'विन्मतो.' इति लुग्विधानेन स्रग्विन्शब्दादिष्ठवत्त्वसिद्धेरिति भावः । उपधावृद्धिमाशङ्क्य आह । संज्ञापूर्वेकत्वान्न वृद्धिरिति ॥ णाविष्ठवदित्यनेनातिदेशेन विनो लुकस्सत्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति ॥ श्रीमतीशब्दाण्णिचि णाविष्ठवदित्यतिदेशेन 'भस्याढे' इति पुवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृध्द्यायादेशयो श्रायि इत्यस्मात् लडादीति भावः । आशिश्रयदिति ॥ णावच आदेशो नेति वृध्द्यायादेशयो प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृध्द्यायादेशयोः कृतयोरुपधाह्रस्व इति माधवः । मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्वः इत्यन्ये । पयस्विनीमिति ॥ णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयसयतीत्यत्र इष्ठवत्त्वात् टिलोपमाशङ्क्य आह । इह टिलोपो नेति ॥ कुत इत्यत आह । तदपवादस्येति ॥ न च टिलोपम्बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोपः कुतो न स्यादिति वाच्यम् । सत्यपि सम्भवे बाधनमिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति ॥ स्थूलशब्दात् णिचि इष्ठवत्त्वात् स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्याचो ञिणितीति वृद्धिस्तु न शङ्क्यम् । अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । दवयतीति ॥ पूर्ववद्यणादिलोपो गुणश्च । कथन्तर्हीति ॥ स्थूलदूरेति यणादिलोपस्य टिलोपापवादत्वादिति भाव. । दूरमततीति ॥ 'अत सातत्यगमने' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति क्विपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपि 'लोपो व्योः' इति यलोपे 'ह्रस्वस्य पिति' इति तुकि दूरादित्येव रूपम् । तस्माण्णौ टिलोपे दूरि इति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः । तदाह । दूरातं कुर्वतीत्यर्थः इति ॥ कुर्वतीति सप्तम्यन्तम् । यवयतीति ॥ युवन्शब्दात् णौ स्थूलदूरेति वनो यणादेर्लोप. । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्माल्लडादि । कनयतीति ॥ युवन्शब्दस्य कनादेशपक्षे रूपम् । तदाह । युवाल्पयोरिति ॥ नेदयतीति ॥
साधयति । प्रशस्यं प्रशस्यति । इह श्रज्यौ न, उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । प्रियं प्रापयति। स्थिरं स्थापयति । स्फिरं स्फापयति । उरुं वरयति--वारयति । बहुलं बंहयति । गुरुं गरयति । वृद्धं वर्षयति । तृप्रं त्रपयति । दीर्घं द्राघयति । बृन्दारकं बृन्दयति ।
इति तिङन्तनामधातुप्रकरणम् ।
॥ अथ तिङन्तकण्ड्वादिप्रकरणम् ॥
२६७८ ॥ कण्ड्वादिभ्यो थक् । (३-१-२७)
एभ्यो धातुभ्यो नित्यं यक्स्यात्स्वार्थे । 'धातुभ्यः' किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः ,धातवः प्रातिपदिकानि च ।
अन्तिकशब्दस्य णौ नेदादेशः । अन्तिकबाढयोर्नेदसाधावित्युक्त्तेः । साधयतीति ॥ बाढशब्दस्य णौ साधादेशः । इहेति ॥ प्रशस्ययतत्यित्र 'प्रशस्यस्य श्र.' 'ज्यच' इति श्रज्यौ नेत्यर्थः । कुत इत्यत आह । उपसर्गस्येति ॥ तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं ज्यापयतीति ॥ वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भाव. । 'प्रियस्थिर' इति सूत्रक्रमेणोदाहरति । प्रियम्प्रापयतीति ॥ प्रियशब्दस्य प्रादेशे वृद्धि पुक् । स्थापयतीति ॥ स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ । वरयति-वारयतीति ॥ उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधव । बंहयतीति ॥ बहुलस्य बहादेश. । गरयतीति ॥ गुरोः गर् । वृद्धं वर्षयतीति ॥ वृद्धस्य वर्षादेशः । वृद्धस्य चेति ज्यादेशेन विकल्प्यते । त्रपयतीति ॥ तृप्रस्य त्रप् आदेशः । अदुपधः । संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् । त्रापयतीति क्वचित्पाठ. । द्राघयतीति ॥ दीर्घस्य द्राघादेशः । बृन्दयतीति ॥ बृन्दारकस्य बृन्दादेशः ॥
इति श्रीसिद्धान्तकौमुदीव्याख्यायाम्बालमनोरमायां
नामधातुप्रक्रिया समाप्ता ।
अथ कण्ड्वादिप्रक्रिया निरूप्यन्ते ॥ कण्ड्वादिभ्यो यक् । धातुभ्यः इति ॥ 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । नित्यमिति ॥ आधृषाद्वेति वाग्रहणन्तु निवृत्तमिति भावः । अन्यथा कण्ड्वतीत्याद्यपि स्यादिति भावः । द्विधा हीति ॥ एतच्च भाष्ये स्पष्टम् । तेन
'कण्डूञ् गात्रविघर्षणे' । कण्डूयति-कण्डूयते । 'मन्तु अपराधे' । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते । 'वल्गु पूजामाधुर्ययोः' वल्गूयति । 'असु उपतापे' 'असु, असूञ्' इत्येके । अस्यति । असूयति-असूयते । 'लेट् लोट् धौर्त्ये, पूर्वभावे, स्वप्ने च' दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता । 'लेला दीप्तौ' । 'इरस्, इरज्, इरञ्, ईर्ष्यायाम्' इरस्यति । इरज्यति । 'हलि च' (सू ३५४) इति दीर्घः । ईर्यति-ईर्यते । 'उषस् प्रभातीभावे' 'वेदे, धौर्त्ये, स्वप्ने च' 'मेधा आशुग्रहणे' । मेधायति । 'कुषुभ क्षेपे । कुषुभ्यति । 'मगध परिवेष्टने' । 'नीच दास्ये' इत्यन्ये । 'तन्तस् पम्पस् दुःखे' । 'सुख दुःख तत्क्रियायाम्' सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । 'सपर पूजायाम्' । 'अरर आराकर्मणि' । 'भिषज् चिकित्सायाम्' । 'भिष्णज् उपसेवायाम्' । 'इषुध शरधारणे' । 'चरण वरण गतौ' । 'चुरण चौर्ये' । 'तुरण त्वरायाम्' । 'भुरण धारणपोषणयोः' । 'गद्नद वाक्स्खलने' । 'एला केला खेला विलासे' । 'इल इत्यन्ये' । 'लेखा स्खलने च' । अदन्तोऽयमित्यन्ये । लेख्यति | 'लिट अल्पकुत्सनयोः' । लिट्यति । 'लाट जीवने' । 'हृणीङ् रोषणे लज्जायां च' । 'महीङ् पूजायाम्' । महीयते । पूजां लभते इत्यर्थः । 'रेखा श्लाघासादनयो:' । 'द्रवस् परितापपरिचरणयोः । 'तिरस् अन्तर्धौ' । 'अगद नीरोगत्वे' । 'उरस् बलार्थः' । उरस्यति । बलवान्भवतीत्यर्थः । 'तरण गतौ' । 'पयस् प्रसृतौ' । 'सम्भूयस् प्रभूतभावे' । 'अम्बर संवर संभरणे' । आकृतिगणोऽयम् ।
इति तिङन्तकण्ड्वादिप्रकरणम्
कण्डूरित्यादिरपि गृहीतरूपसिद्धिः । लेटितेति ॥ 'यस्य हलः' इति यलोपः । मेधा आशुग्रहणे इति ॥ आशुग्रहणन्त्वरया बोधः । सुग्रहणे इति पाठान्तरम् । सुख्यतीति ॥ यकि अतो लोपः । प्रातिपदिकेभ्यो यकि तु आर्द्धधातुकत्वाभावादल्लोपो न स्यादिति बोध्द्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । अरर आराकर्मणीति ॥ आरा प्रतोदः तत्करणकं कर्म आराकर्म । भिषज् चिकित्सायाम् ॥ जान्तोऽयम् । भिषज्यति । लेखा स्खलने चेति ॥ लेखायति । लेख्यतीति ॥ अदन्ताद्यकि अतो लोपः । आकृतिगणोऽयमिति ॥ कण्ड्वादय इत्यर्थः । तेन दुवस् सन्दीपने इत्यादिसङ्ग्रहः । 'समिधा अग्नि दुवस्यते' ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां कण्ड्वादयः समाप्ताः ॥
॥ अथ तिङन्तप्रत्ययमालाप्रकरणम् ॥
कण्डूयतेः सन् । 'सन्यङोः' (सू २३९५) इति प्रथमस्यैकाचो द्वित्वे प्राप्ते 'कण्ड्वादेस्तृतीयस्येति वाच्यम्' (वा ३४०४) । कण्डूयियिषति । क्यजन्तात्सन् । 'यथेष्टं नामधातुषु' (वा ३४०६) । आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । अजादेस्त्वाद्येतरस्य । पुपुत्रीयिषति-पुतित्रीयिषति-पुत्रीयियिषति । अशिश्वीयिषति-अश्वीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः । इन्द्रीयतेः सन् । द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति-इन्द्रीयियिषति । चिचन्द्रीयिषति-चन्दिद्रीयिषति-चन्द्रीयियिषति-प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति । पिप्रापयिषति-प्रापिपयिषति
अथ प्रत्ययमाला वक्ष्यन्नाह । कण्डूयतेस्सन्निति ॥ 'धातोः कर्मणः' इत्यनेनेति भाव.। प्रथमस्यैकाचः इति ॥ 'अजादेर्द्वितीयस्य' इति द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । कण्ड्वादेस्तृतीयस्येति ॥ एकाचो द्वित्वमिति शेष । कण्ड्वादेरित्यनन्तर यगन्तस्येति शेष । केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् । कण्डूयियिषतीति ॥ कण्डूयेति यगन्तात् सनि इटि अतो लोप.। क्यजन्तात्सन्निति ॥ उदाह्रियते इति शेषः । यिस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । यथेष्टन्नामधातुष्वित्यपि वार्तिकम् । नाम प्रातिपदिक तद्धटितधातुष्वित्यर्थः । आद्यानां त्रयाणामिति ॥ अजादेस्त्वाद्येतरस्येति ॥ अजादेरित्यनुवृत्त्या आदिभूतादच परेषामेकाचां यथेष्टमिति लाभादितिभावः । नदराणाणामिति ॥ तेषां मध्ये आदिभूतादच.परस्यैवेत्यर्थ. । इन्द्रीयतेस्सन्निति ॥ इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः । द्रीशब्दयिशब्दयोरिति ॥ नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु आदिभूतादच. परत्वाभावान्न द्वित्वनिषेध इति भावः । चिचन्द्रीयियिषतीति ॥ चन्द्रीयतेस्सनि प्रथमस्यैकाचो द्वित्वम् । चन्दिद्रीयिषतीति ॥ द्वितीयस्यैकाचो द्वित्व दकारस्य । 'नन्द्राः' इति नकारस्य न द्वित्वमिति माधवः । आदिभूतादचः परेषान्नदराणां न द्वित्वमित्येव भाष्यसम्मतम् । अत्र नकारस्यापि न द्वित्वमित्येव युक्तम् । चन्द्रीयियिषतीति ॥ तृतीयस्यैकाचो द्वित्वम् । प्रियमिति ॥ प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्य 'प्रियस्थिर' इति प्रादेशे वृद्धौपुकि णिचो गुणायादेशयोष्षत्वे प्रापयिषेत्येव सन्नन्तम् । प्रियमाचक्षाण प्रेरयितुमिच्छतीत्यर्थे तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौ तदन्तात् सनि इटि द्वितीय णिचमाश्रित्य प्रथमणिचो लोपे द्वितीयणिचो गुणायादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टन्नामधातुष्वित्याद्यानान्त्रयाणामेकाचामेकैकस्य द्वित्वेऽपि
--प्रापयियिषति । उरुं विवारयिषति-वारिरयिषति-वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम् । षत्वं तु नास्ति । 'यङ्सन्ण्यन्तात्सन्' । बोभूयिषयिषति । यङ्णिच्सन्नन्ताण्णिच् । बोभूययिषतीत्यादि ।
इति तिङन्तप्रत्ययमालाप्रकरणम्
प्रापयिषतीत्यादि रूपत्रयमित्यर्थ. । उरुमिति ॥ उरुमाख्यातुमाचक्षाणम्प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दादाचष्टे इत्यर्थे णिचि 'प्रियस्थिर' इति वरादेशे उपधावृद्धौ वारि इति ण्यन्तान्सनि इटि णिचो गुणायादेशयोष्षत्वे वारयिषेति सन्नन्तम् । माधवमते वृध्द्यङ्गीकारात् वारि इत्यस्मात् हेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टन्नामधातुष्वित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादि रूपत्रयमित्यर्थ । बाढं सिसाधयिषतीति ॥ बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् । अन्तिकबाढयोरिति साधादेशः । तत्र सकारस्यादेशत्वाभावान्न षत्वम् । तदाह । षत्वन्तु नास्तीति ॥ बोभूयिषयिषतीत्यत्र प्रक्रिया दर्शयति । यङिति ॥ भूधातोरिति शेष । द्वित्वे बोभूयेति स्थितम् । सन्निति ॥ इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् । ण्यन्तात् सन्निति ॥ बोभूयिषेत्यस्मात् हेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणायादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् । अनभ्यासस्येत्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषतीत्यत्र प्रक्रियान्दर्शयति । यङिति ॥ भूधातोरिति शेषः । द्वित्वे बोभूयेति स्थितम् । णिजिति ॥ बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् । सन्नन्ताण्णिजिति ॥ बोभूयि इत्यस्मात्सनि इटि णिचो गुणायादेशयोः षत्वे बोभूययिषेति स्थितम् । तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि पररूपे बोभूययिषयतीति रूपं सिद्धम् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया
बालमनोरमायाम्प्रत्ययमाला समाप्ता
॥ अथ तिङन्तात्मनेपदप्रकरणम् ।।
'अनुदात्तङित आत्मनेपदम्' (सू २१५७) । आस्ते । शेते ।
२६७९ । भावकर्मणोः । (१-३-१३)
बभूवे । अनुबभूवे ।
२६८० । कर्तरि कर्मव्यतिहारे । (१-३-१४)
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः । 'श्नसोरल्लोपः' (सू २४६९) । व्यतिस्ते । व्यतिषाते । व्यतिषते । 'तासस्त्योः--' (सू २१९१) इति सलोपः । व्यतिसे । 'धि च' (सू २२४९) । व्यतिध्वे । 'ह एति' (सू २२५०) । व्यतिहे । व्यत्यसै ।
अथ आत्मनेपदप्रक्रिया निरूप्यन्ते ॥ आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्र पुनः स्मारयति । अनुदात्तङितः इति ॥ आत्मनेपदमित्येतत् 'शेषात्कर्तरि परस्मैपदम्' इत्यतः प्रागनुवर्तते । भावकर्मणोः ॥ भावः भावना क्रियेति पर्याया.। कर्मशब्द कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति । बभूवे इति ॥ वृत्ता भवनक्रियेत्यर्थः । कर्मण्युदाहरति । अनुबभूवे इति ॥ आनन्द इति शेषः । आनन्दकर्मिका वृत्ता अनुभोगक्रियेत्यर्थः । कर्तरि कर्म ॥ कर्मव्यतिहारशब्द विवृण्वन्नाह । क्रियाविनिमये द्योत्ये इति ॥ एवञ्च कर्मशब्दः क्रियापरः । व्यतिहारशब्दो विनिमयपर इत्युक्त भवति । अन्यस्येति ॥ शूद्रादियोग्य सस्यादिलवन ब्राह्मण करोतीत्यर्थ । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । सम्प्रहरन्ते राजानः । कर्तृग्रहणम्भावकर्मणोरित्यस्यानुवृत्तिनिवृत्त्यर्थम् । अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह ।श्नसोरिति ॥ व्यतिस्ते इति ॥ तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थ । इह 'उपसर्गप्रादुर्भ्याम्' इति न षः । यचपरकत्वाभावादिति भावः । व्यतिषाते इति ॥ इह अच्परकत्वादुपसर्गप्रादुर्भ्यामिति षः । व्यति स से इति स्थिते आह । तासस्त्योरिति ॥ 'उपसर्गप्रादुर्भ्याम्' इति नेह षत्वम् । अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यतिषाथे । व्यति स् ध्वे इति स्थिते आह । धि चेति ॥ सलोप इति शेषः । व्यतिस् ए इति स्थिते आह । ह एतीति ॥ सकारस्य हकार इति भावः । व्य
व्यत्यास्त । व्यतिषीत । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ।
२६८१ । न गतिहिंसार्थेभ्यः । (१-३-१५)
व्यतिगच्छन्ति । व्यतिघ्नन्ति । 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा ८९८) हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति । 'हरतेरप्रतिषेधः' (वा ८९९) । संप्रहरन्ते राजानः ।
२६८२ । इतरेतरान्योऽन्योपपदाच्च । (१-३-१६)
'परस्परोपपदाच्चेति वक्तव्यम्' (वा ९००) । इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति ।
२६८३ । नेर्विशः । (१-३-१७)
निविशते ।
२६८४ । परिव्यवेभ्यः क्रियः । (१-३-१८)
अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते ।
२६८५ । विपराभ्यां जेः । (१-३-१९)
विजयते । पराजयते ।
त्यसै इति ॥ लोडुत्तमपुरुषैकवचनम् । व्यत्यास्तेति ॥ लडि रूपम् । व्यतिषीतेति ॥ लिडि रूपम् । व्यतिराते इति ॥ लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव रूपम् । व्यतिभाते इति ॥ भाधातो रूपम् । व्यतिबभे इति ॥ लिटि रूपम् । न गतिहिंसार्थेभ्यः॥ कर्मव्यतिहारे आत्मनेपदन्नेत्यर्थः । हसादिगणस्य अदर्शनादाह । हसप्रकाराः इति ॥ उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् । हृञ्धातुस्तु उपसर्गबलाद्धिंसायां वर्तते इति न तस्य प्रतिषेध इत्याह । हरतेरप्रतिषेधः इति ॥ अर्थग्रहणलभ्यमिदं वार्तिकम् । इतरेतर ॥ नात्मनेपदमिति शेषः । नेर्विशः ॥ निपूर्वाद्विशः आत्मनेपद स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः । अटा व्यवधानात् । अटो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वाभावात् । तथापि 'अड्व्यवाये उपसङ्ख्यानम्' इति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् । परिव्यवेभ्यः ॥ परि वि अव एम्यः परस्मात् क्रीञ्धातोरात्मनेपदामित्यर्थः । ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह । अकर्त्रभिप्रायार्थमिति ॥ विपराभ्याञ्जेः ॥ वि परा आभ्याम्परस्मात् जिधातोरात्मनेपदमित्यर्थः । विजयते इति ॥ उत्कृष्टो भवतीत्यर्थः । पराजयते इति ॥ निकृष्टो भवतीत्यर्थः ।
२६८६ । आङो दोऽनास्यविहरणे । (१-३-२०)
आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् । विद्यामादत्ते | 'अनास्य-' इति किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति । 'पराङ्गकर्मकान्न निषेधः' (वा ९०३) । व्याददते पिपीलिकाः पतङ्गस्य मुखम् ।
२६८७ । क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१)
चादाङः । अनुक्रीडते । संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेण समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । 'तृतीयार्थे' (सू ५४९) इत्यनोः कर्मप्रवचनीयत्वम् । 'समोऽकूजने' (वा ९०४) । संक्रीडते । कूजने तु संक्रीडति चक्रम् । 'आगमेः क्षमायाम्' (वा ९०५) । ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः । 'शिक्षेर्जिज्ञासायाम्' (वा ९०६) । धनुषि शिक्षते । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः । 'आशिषि नाथः (वा ९१०)
आङो दो ॥ आस्यविहरण मुखविकसनम् । दा इत्यस्य दः इति पञ्चमी । तदाह । ददातेर्मुखविकसनादन्यत्रेति ॥ विद्यामादत्ते इति ॥ गृह्णातीत्यर्थः । दाञो ञित्त्वेऽप्यकर्त्रभिप्रायार्थमिदम् । अविवक्षितमिति ॥ अविहरणे इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति ॥ क्षारौषधादिना विदारयतीत्यर्थः । अत्र आस्यविहरणाभावेऽपि विकसनसत्वान्नात्मनेपदमिति भावः । नदी कूलं व्याददातीति ॥ भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वादास्यविहरणाभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेधः इति ॥ वार्तिकम् । पतङ्गस्येति ॥ पक्षिणो मुखम्भक्षणाय विकासयन्तीत्यर्थः । क्रीडोऽनु ॥ चादाङः इति ॥ तथाच अनु सम् परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः । 'अनोऽकर्मप्रवचनीयान्न' इति वार्तिकम् । तदिदं न्यायसिद्धमित्याह । उपसर्गेण समेति ॥ 'समोऽकूजने' इति वार्तिकम् । समः परस्मात् अकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति ॥ कूजतीत्यर्थः । आगमेः क्षमायामिति ॥ आत्मनेपदमिति शेषः । वार्तिकमिदम् । ण्यन्तस्येदं ग्रहणमिति ॥ भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः । आगमयस्व तावदिति ॥ किञ्चित्काल सहस्वेत्यर्थः । आडुपसर्गवशात् गमधातुः क्षमायां वर्तते । 'हन्त्यर्थाश्च' इति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठाः इति ॥ फलितार्थकथनम् । 'शिक्षेर्जिज्ञासायाम्' इत्यपि वार्तिकम् । धनुषि शिक्षते इति ॥ वैषयिके आधारे सप्तमी । शकिस्सन्नन्तः । 'सनि मीमा' इति इस् । अभ्यासलोपश्च । तदाह । धनुर्विषये इत्यादि ॥ 'शिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम् । अनुदात्तेत्त्वादेव सिद्धेरिति भावः ।
आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं 'नाथसे किमु पतिं न भूभृताम्' इति । 'नाधसे' इति पाठ्यम् । हरतेर्गतताच्छील्ये' (वा ९०८) । गतं प्रकारः । पैतृकमश्वाः अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । 'ताच्छील्ये' किम् । मातुरनुहरति । 'किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम्' (९०७) । हर्षादयो विषयाः । तत्र हर्षो वक्षेपस्य कारणम् । इतरे फले ।
२६८८ । अपाच्चतुष्पाच्छकुनिष्वालेखने । (६-१-४२)
अपात्किरतेः सुट् स्यात् । 'सुडपि हर्षादिष्वेव वक्तव्यः’ (वा ३७०६) । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । 'हर्षादिषु' इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां
कथमिति ॥ भूभृता पति किमु न नाथसे । न याचसे इत्यर्थ । आशिपः अप्रतीतेः कथमात्मनेपदमित्यर्थ । नाधसे इति पाठ्यमिति ॥ तवर्गचतुर्थान्तोऽयम् । 'आशिपि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भाव । 'हरतेर्गतताच्छील्ये' इति वार्तिकम् । आत्मनेपदमिति शेप । गतं प्रकारः इति ॥ वृत्तमित्यर्थ. । ताच्छील्य स्वभावानुसरणम् । गति ताच्छील्यमिति यावत् । गतेति पाठे भावे क्त | पैतृकमश्वाः इति ॥ पैतृक वृत्त अश्वाः स्वभावादनुसरन्तीत्यर्थः । मातृकं गावः इति ॥ अनुहरन्ते इत्यनुषज्यते । मातुरनुहरतीति ॥ अनुकरोतीत्यर्थः । अत्र सादृश्यमात्र विवक्षित, न तु गतिताच्छील्यमिति भावः । किरतेरिति वार्तिकम् । हर्षः प्रमोद. । जीविका जीवनोपायभक्षणम् । कुलायकरण आश्रयसम्पत्ति. एषु कॄधातोरात्मनेपदमित्यर्थः । ननु कॄधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह । हर्षादयो विषयाः इति ॥ धात्वर्थत्वाभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थ । तत्रेति ॥ तेषु हर्षादिष्वित्यर्थ. । कारणमिति ॥ तथाच हर्षमूलकत्व विक्षेपस्य लभ्यते इति भावः । इतरे इति ॥ जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्येते । हर्षादीनामेवंविधविषयत्वे सत्येवात्मनेपदमिति फलितम् । भाष्ये तथैवोदाहृतत्वादिति भावः । अपाच्चतुष्पात् ॥ 'सुट्कात्पूर्वः' इत्यधिकृतम् । 'किरतौ लवने' इत्यतः किरतावित्यनुवर्तते । तदाह । अपात् किरतेस्सुट् स्यादिति ॥ चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनङ्खननम् । सुडपि हर्षादिष्वेवेति वार्तिकम् । अपस्किरते वृषो हृष्टः इति ॥ हर्षाद्भूमि लिखन् धूल्यादि विक्षिपतीत्यर्थः । कुक्कुटो भक्षार्थीति ॥ अपस्किरते इत्यनुषज्यते । श्वा आश्रयार्थीति ॥ अपस्किरते इत्यनुषज्यते । अपकिरति कुसुममिति ॥ वृषादिरिति शेषः । ह्रियमाणो वृषादिः पादै. कुसुममवकिरतीत्यर्थः । अत्र हर्षाद्यभावान्नात्मनेपदम् । नापि सुट् । तदाह । इह तङ्सुटौ नेति ॥ ननु अपस्किरते वृषो हृष्ट इत्याद्युदाहरणत्रये यदि
यद्यपि तङ् प्राप्तस्तथापि 'सुडभावे नेष्यते' इत्याहुः । गजोऽपकिरति । 'आङि नुप्रच्छ्योः' (वा ९०९) । आनुते । आपृच्छते । 'शप उपालम्भे' (वा ९११) । आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ।
२६८९ । समवप्रविभ्यः स्थः । (१-३-२२)
संतिष्ठते । 'स्थाघ्वोरिच्च' (सू २३८९) । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । 'आङः प्रतिज्ञायामुपसंख्यानम्' (वा ९१२) । शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीते इत्यर्थः ।
२६९० । प्रकाशनस्थेयाख्ययोश्च । (१-३-२३)
गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । 'संशय्य कर्णादिषु तिष्ठते यः' । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ।
२६९१ । उदोऽनूर्ध्वकर्मणि । (१-३-२४)
हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वालेखनमपि तदा तडेव स्यान्न तु सुट् इत्यत आह । हर्षादिमात्रेत्यादि ॥ तथापीति ॥ आलेखनाभावेऽपीत्यर्थः । नेष्यते इति ॥ किरतेर्हर्षजीविकेत्यात्मनेपदविधौ ससुट्कानामेव भाष्ये उदाहरणादिति भाव । भाष्यस्थान्युदाहरणान्यालेखनविषयान्येव भविष्यन्तीत्यस्वरस सूचयति । आहुरिति ॥ गजोऽपकिरतीति ॥ स्वभावाख्यानमत्रेति भावः । 'आडि नुप्रच्छ्यो' इति वार्तिकम् । आनुते इति ॥ सृगाल इति भाष्यम् । सृगाल: उत्कण्ठापूर्वक शब्दङ्करोतीत्यर्थ इति कैयटः । ननु 'शप आक्रोशे' इत्यस्य स्वरितेत्त्वादेव सिद्धे 'शप उपालम्भने' इत्यात्मनेपदविधिर्व्यर्थ इत्यत आह । आक्रोशार्थादिति ॥ 'शप आक्रोशे' इति स्वरितेत. कर्तृगामिन्येव फले आत्मनेपद प्राप्तम् । अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात् तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति ॥ 'श्लाघह्नुड्स्थाशपाम्' इति सम्प्रदानत्वाच्चतुर्थी । समवप्रविभ्यः स्थः ॥ स्थ इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाधातोरात्मनेपदमित्यर्थः । सन्तिष्ठते इति ॥ समाप्तम्भवतीत्यर्थे । प्रकाशन ॥ प्रकाशन स्वाभिप्रायाविष्करणम् । स्थेयः विवादपदनिर्णेता । तिष्ठति विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे 'अचोयत्' इति यत् इति व्युत्पत्तेः । 'स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी । इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षित । आख्या अभिधानम् । प्रकाशनाख्याया स्थेयाख्यायाञ्च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थ । प्रकाशने उदाहरति । गोपी कृष्णाय तिष्ठते इति ॥ 'श्लाघह्नुड्स्थाशपाम्' इति सम्प्रदानत्वाच्चतुर्थी । स्थेये उदाहरति । संशय्येति ॥ कर्णादिष्विति विषयसप्तमी । फलितमाह । कर्णादीनिति ॥ उदोऽनूर्ध्वकर्मणि ॥ ऊर्ध्व
मुक्तावुत्तिष्ठते । 'अनूर्ध्व–' इति किम् । पीठादुत्तिष्ठति । 'ईहायामेव' (वा ९१३) । नेह । ग्रामाच्छतमुत्तिष्ठति ।
२६९२ । उपान्मन्त्रकरणे । (१-३-२५)
आग्नेय्या आग्नीद्ध्रमुपतिष्ठते । 'मन्त्रकरणे किम्' । 'भर्तारमुपतिष्ठति यौवनेन' । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम् (वा ९१४) । आदित्यमुपतिष्ठते । कथं तर्हि 'स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती' इति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः । 'वा लिप्सायामिति वक्तव्यम्' (वा ९१९) । भिक्षुकः प्रभुमुपतिष्ठते—उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ।
२६९३ । अकर्मकाच्च । (१-३-२६)
उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाल उपतिष्ठते । संनिहितो भवतीत्यर्थः ।
२६९४ । उद्विभ्यां तपः । (१-३-२७)
देशसंयोगानुकूला क्रिया ऊर्ध्वकर्म । तद्भिन्नमनूर्ध्वकर्म । तद्वृत्ते स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थ. । मुक्तावुत्तिष्ठते इति ॥ गुरूपगमनादिना यतते इत्यर्थ । पीठादुत्तिष्ठतीति ॥ उत्पततीत्यर्थः । 'उद ईहायामेव' इति वार्तिकम् । ईहा कायपरिस्पन्द । ग्रामाच्छतमुत्तिष्ठतीति ॥ लभ्यते इत्यर्थ । उपान्मन्त्रकरणे ॥ मन्त्रकरणकेऽर्थे विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थ । आग्नेय्या आग्नीद्ध्रमुपतिष्ठते इति ॥ आग्नय्या ॠचा आग्नीद्ध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थ । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात् स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवः गुणवत्त्वेन सङ्कीर्तनमिति स्तुतशस्त्राधिकरणे प्रपञ्चितमस्माभि. । श्लोकैः राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदन्न । मन्त्रकरणकत्वाभावात् । उपाद्देवपूजा इति वार्तिकम् अमन्त्रकरणकत्वार्थम् । आदित्यमुपतिष्ठते इति ॥ अभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थ.। कथन्तर्हीति ॥ रघोर्देवतात्वाभावादिति भाव. । समाधत्ते । देवतात्वारोपादिति ॥ नृपस्येति ॥ 'नाविष्णुः पृथिवीपतिः' इत्यादिस्मरणादिति भाव. । वा लिप्सायामिति ॥ लिप्साहेतुकार्थवृत्ते स्थाधातोरात्मनेपद वेत्यर्थ । अकर्मकाच्च ॥ उपात्तिष्ठतेरिति ॥ 'उपान्मन्त्रकरणे' इत्यत 'समवप्रविभ्य स्थ.' इत्यतश्च तदनुवृत्तेरिति भावः । उद्विभ्यान्तपः ॥ अकर्मकादित्येवेति भाष्यम् । दीप्यते इति ॥ दीप्तिमान् भवतीत्यर्थः ।
'अकर्मकात्' इत्येव । उत्तपते । वितपते । दीप्यते इत्यर्थः । 'स्वाङ्गकर्मकाच्चेति वक्तव्यम्’ (वा ९१६) । स्वमङ्गं स्वाङ्गं न तु 'अद्रवत्--' इति परिभाषितम् । उत्तपते वितपते पाणिम् । नेह । सुवर्णमुत्तपति सन्तापयति-विलापयति वेत्यर्थः । चैत्रो मैत्रस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः ।
२६९५ । आङो यमहनः । (१-३-२८)
आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह । परस्य शिर आहन्ति । कथं तर्हि 'आजघ्ने विषमविलोचनस्य वक्षः' इति भारवि. । 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादितुमुन्नन्ताध्याहारो वास्तु । समीपमेत्येति वा ।
२६९६ । आत्मनेपदेष्वन्यतरस्याम् । (२-४-४४)
हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । आवधिष्ट । आवधिषाताम् ।
स्वाङ्गकर्मकाच्चेति ॥ उद्विभ्यान्तप इत्यनुवर्तते । चकारादकर्मकसमुच्चय । स्वाङ्गशब्दोऽत्र यौगिक इत्याह । स्वमङ्गमिति ॥ सुवर्णमुत्तपतीति ॥ अस्वाङ्गकर्मकत्वादकर्मकत्वाभावाच्च नात्मनेपदमिति भाव । स्वाङ्गशब्दोऽत्र न पारिभाषिक. । किन्तु यौगिक इत्यस्य प्रयोजनमाह । चैत्रो मैत्रस्य पाणिमुत्तपतीति ॥ अत्र अद्रवन्मूर्तिमदित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाभावान्नात्मनेपदमिति भाव । आङो यमहनः ॥ आङ परस्मात् यमो हनश्चात्मनेपदमित्यर्थः । आयच्छते इति ॥ रज्जुदीर्घीभवतीत्यर्थः । दीर्घीकरोति पादमिति वा । आहते इति ॥ सोदरमिति शेष. । परस्य शिर आहन्तीति ॥ स्वीयाङ्गकर्मकत्वाभावादकर्मकत्वाभावाच्च नात्मनेपदम् । कथन्तर्हीति ॥ स्वीयाङ्गकत्वाभावादकर्मकत्वाभावाच्चात्मनेपदासम्भवादिति भाव । प्राप्येति ॥ विषमविलोचनस्य वक्ष. प्राप्य आजघ्ने इति रघूत्तमम्प्राप्य माहध्वमिति च प्राप्तिक्रियाम्प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदन्निर्बाधमिति भाव । यद्यपि हननक्रियाम्प्रत्यपि तयोरेव वस्तुतः कर्मत्व तथापि तस्याविवक्षितत्वादकर्मकत्वमेव । 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिध्देरविवक्षात कर्मणोऽकर्मिका क्रिया' इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्द्यम् । ननु प्राप्येत्यध्द्याहारे प्रासादात्प्रेक्षते इत्यादिवत्पञ्चमी स्यादित्यत आह । ल्यब्लोपे इति ॥ ल्यब्लोपे पञ्चमीत्येतत्तु यत्रार्थाध्द्याहारमाश्रित्य ल्यबन्तार्थावगतिः तद्विषयकम् । अत्र तु ल्यबन्तशब्दाध्द्याहारान्नात्र पञ्चमीत्यर्थः । भेत्तुमित्यादीति ॥ एवञ्च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव । 'आजघ्ने विषम' इत्यत्र परिहारान्तरमाह । समीपमेत्येति वेति ॥ अध्द्याहार इति शेषः ।
२६९७ । हनः सिच् । (१-२-१४)
कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ।
२६९८ । यमो गन्धने । (१-२-१५)
सिच्कित्स्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । 'गन्धने' किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः ।
२६९९ । समो गम्यृच्छिभ्याम् । (१-३-२९)
'अकर्मकाभ्याम्' इत्येव सङ्गच्छते ।
२७०० । वा गमः । (१-२-१३)
गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । सङ्गसीष्ट-सङ्गंसीष्ट । समगत-समगंस्त । समृच्छते । समृच्छिष्यते । 'अकर्मकाभ्याम्' किम् । ग्रामं सङ्गच्छति 'विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा ९१८) । वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ।
२७०१ । वेत्तेर्विभाषा । (७-१-७)
विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षः मल्ल इव वीरावेशादास्फालयाञ्चक्रे इत्यर्थः । तथाच स्वाङ्गकर्मकत्वादात्मनेपद निर्बाधमिति भावः । लुडि आहन् स् त इति स्थिते । हनः सिच् ॥ कित्स्यादिति शेषपूरणम् । 'असयोगाल्लिट्कित्' इत्यत तदनुवृत्तेरिति भावः । हनधातोः परस्सिच कित्स्यादिति फलितम् । अनुनासिकलोपः इति ॥ 'अनुदात्तोपदेश' इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते । यमो गन्धने ॥ सिच्कित्स्यादिति शेषपूरणम् । सिच कित्त्वे मकारस्य अनुदात्तोपदेश इति लोपः । समो गम्यृच्छिभ्याम् ॥ आत्मनेपदमिति शेषः । अकर्मकाभ्यामित्येवेति ॥ स्वाङ्गकर्मकाच्चेति तु निवृत्तमिति भावः । सङ्गच्छते इति ॥ सङ्गतम्भवतीत्यर्थः । वा गमः ॥ 'इको झल्' इत्यतो झलिति 'लिड्सिचावात्मनेपदेषु' इत्यतो लिड्सिचाविति 'असयोगाल्लिट्' इत्यत किदिति चानुवर्तते । तदाह । गमः परावित्यादि ॥ समगतेति ॥ लुडि रूपम् । सिच कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलोपे 'ह्रस्वादङ्गात्' इति सिचो लुक् । समृच्छते इति ॥ 'ॠच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ॠच्छतेरेव ग्रहण, नतु ॠच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति । समृच्छिष्यते इति ॥ विदिप्रच्छिस्वरतीनामिति ॥ सम इत्यनुवर्तते । सम्पूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थ । वेत्तेरिति ॥ लुग्विकरणस्यैव विदेर्ग्रहणमित्यर्थः । व्याख्यानादिति भावः । वेत्तेर्विभाषा ॥ 'झोऽन्तः' इत्यत. झ इत्यनुवर्तते ॥ 'अद
वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । सम्पृच्छते । संस्वरते । 'अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्' (वा ९२६) । अर्तीति द्वयोर्ग्रहणम् । अङ्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत; मा समृषाताम्, मा समृषत इति, समार्त, समार्षताम्, समार्षत इति च भ्वादेः । इयर्तेस्तु मा समरत, मा समरेताम्, मा समरन्त इति, समारत, समारेताम्, समारन्त इति च । संशृणुते । सम्पश्यते । अकर्मकादित्येव । अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा 'इति कथयद्भयः' इति । अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ।
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षात: कर्मणोऽकर्मिका क्रिया ।
भ्यस्तात्' इत्यतः आदित्यनुवृत्त षष्ठ्या विपरिणम्यते । शीडो रुडित्यतो रुडिति च । तदाह । वेत्तेः परस्येत्यादिना ॥ अर्तिश्रुदृशिभ्यः इति ॥ सम्पूर्वेभ्यस्तडिति शेष । द्वयोरिति ॥ भौवादिकस्य इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ॥ 'सर्त्तिशास्त्यर्त्तिभ्यश्च' इत्यत्रेत्यर्थ. । मा समृतेति ॥ 'उश्च' इति सिच कित्त्वान्न गुण. । 'ह्रस्वादङ्गात्' इति सिचो लोप । माड्योगे मासमृतेत्यादि । माड्योगाभावे तु समार्तेत्यादि । इत्येवम्भौवादिकस्य ॠधातो. रूपमित्यर्थः । माड्योगादाडभाव. । अथ माड्योगाभावे आडागमे उदाहरति । समार्तेति ॥ सम् आ ॠ स् त इति स्थिते 'उश्च' इति कित्त्वाद्गुणनिषेधे 'आटश्च' इति वृद्धिम्बाधित्वा परत्वात् ह्रस्वादङ्गादिति सिचो लोपे 'आटश्च' इति ॠकारस्य वृद्धौ रपरत्वे रूपम् । नच सिज्लोपस्यासिद्धत्वादाटश्चेति वृद्धौ कृताया ह्रस्वादङ्गादिति सिज्लोपस्याप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम् । 'सिज्लोप एकादेशे सिद्धो वाच्य.' इति वचनेन पूर्व सिज्लोपे पश्चादाटश्चेति वृद्धे. प्रवृत्तिसम्भवादित्यलम् । इयर्तेस्त्विति ॥ श्लुविकरण ॠधातोरित्यर्थः । मा समरतेति ॥ 'सर्तिशास्त्यर्ति' इत्यड् । तत्र इयर्तेर्ग्रहणादिति भाव । 'ॠदृशोऽडि' इति गुणः । समारतेति ॥ 'आटश्च' इति वृद्धिः । इति चेति ॥ इयर्ते: रूपमित्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्नुधातोरुदाहरति । संशृणुते इति ॥ दृशेरुदाहरति । सम्पश्यते इति ॥ अकर्मकादित्येवेति ॥ 'समो गम्यृच्छिभ्याम्' इत्यत्र अकर्मकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसङ्ख्यातवार्तिकेऽस्मिन् तदनुवृत्तेर्युक्तत्वादिति भाव । अत एवेति ॥ प्रामादिक इत्याहुरित्यन्वय. । सकर्मकत्वेनात्मनेपदासम्भवादिति भाव । अध्द्याहारो वेति ॥ इति कथयभ्द्य इत्यध्द्याहारो वेत्यन्वय । तथाच रक्षासीति कथयभ्द्य: पुरा सशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवः अकर्मकत्वादात्मनेपदन्निर्बाधमिति भाव. । धातोरिति ॥ धातोरर्थान्तरे वृत्तेरिति धात्वर्थेनोपसङ्ग्रहादिति प्रसिद्धेरिति अविवक्षात' इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । कर्मण इति तु द्वितीयादिषु वाक्येष्व
वहति भारम् । नदी वहति । स्यन्दते इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । 'हितान्न यः संशृणुते स किंप्रभुः' । 'उपसर्गादस्यत्यूह्योर्वेति वाच्यत्' (वा ९२०) । 'अकर्मकात्' इति निवृत्तम् । बन्धं निरस्यति-निरस्यते । समूहति-समूहते ।
२७०२ । उपसर्गाध्द्रस्व ऊहतेः । (७-४-२३)
यादौ क्ङिति । ब्रह्म समुह्यात् । अग्निं समुह्य ।
२७०३ । निसमुपविभ्यो ह्वः । (१-३-३०)
निह्वयते ।
२७०४ । स्पर्धायामाङः । (१-३-३१)
कृष्णश्चाणूरमाह्वयते । 'स्पर्धायाम्' किम् । पुत्रमाह्वयति ।
२७०५ । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । (१-३-३२)
न्वेति । वहति भारमिति ॥ प्रापयतीत्यर्थ । अत्र सकर्मकत्वमिति भाव . । अस्यार्थान्तरे क्वचिदकर्मकत्वमुदाहरति । नदी वहतीति ॥ स्यन्दते इति ॥ प्रस्रवतीत्यर्थ । धात्वर्थोपसङ्ग्रहे उदाहरति । जीवतीति ॥ नृत्यतीति ॥ जीवे प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेप । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप आत्मन.' इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति ॥ वर्षणकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न यः इति ॥ हितात्पुरुषात् य. न सशृणुते स्वहितन्न मन्यते । सः किम्प्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुत. कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवाञ्चास्मिन्नकर्मकाधिकारे हनि गम्यादीना सतोऽपि कर्मणः अविवक्षया अकर्मकत्व सिद्धमिति बोध्द्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्योर्वेति ॥ आत्मनेपदमिति शेष । निवृत्तमिति ॥' सोपसर्गयोरस्यत्यूह्योस्सकर्मकत्वनियमादिति भावः । उपसर्गाध्द्रस्व ऊहतेः ॥ यादौ क्डिति इति शेषपूरणम् । 'अयड् यि क्डिति' इत्यत तदनुवृत्तेरिति भाव. । ब्रह्म समुह्यादिति ॥ ऊह वितर्के, सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिडि यासुट. कित्त्वेन ऊकारस्य ह्रस्व । अग्निं समुह्येति ॥ परितस्सम्मृज्येत्यर्थ । क्त्वादेशस्य ल्यप कित्त्वमिति भावः । निसमुपवि ॥ ह्वेञ कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति ॥ सह्वयते । उपह्वयते । विह्वयते । अकर्त्रभिप्रायार्थमिदम् । स्पर्द्धायामाङः ॥ आङ्पूर्वकात् स्पर्धाविषयकात् 'ह्वेञ' आत्मनेपदमित्यर्थ. । कृष्णश्चाणूरमाह्वयते इति ॥ स्पर्द्धार्थमाकारयतीत्यर्थः । गन्धनावक्षेपण ॥ आत्मनेपदम् अकर्त्रभिप्रायेऽपीति शेषः । गन्धनं हिं-
गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुने । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । 'एषु' किम् । कटं करोति ।
२७०६ । अधेः प्रसहने । (१-३-३३)
प्रसहनं क्षमाभिभवश्च । 'षह मर्षणेऽभिभवे च' इति पाठात् । शत्रुमधिकुरुते । क्षमते इत्यर्थः । अभिभवतीति वा ।
२७०७ । वेः शब्दकर्मणः । (१-३-३४)
स्वरान्विकुरुते । उच्चारयतीत्यर्थः । 'शब्दकर्मणः' किम् । चित्तं विकरोति कामः ।
२७०८ । अकर्मकाच्च । (१-३-३५)
वेः कृञः' इत्येव । छात्राः विकुर्वते | विकारं लभन्ते ।
सेति ॥ गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भाव. । सूचयतीति ॥ परदोषमाविष्करोतीत्यर्थः । नन्वेव सति कथमस्य गन्धने वृत्ति । हिंसायाः असत्त्वादित्यत आह । सूचनं हीति ॥ श्येनो वर्तिकामिति ॥ वर्तिका शकुनिविशेष । साहसिक्ये उदाहरति । परदारान् प्रकुरुते इति ॥ साहसप्रवृत्तिविषयीकरोतीत्यर्थ । सहसा वर्तते साहसिक । 'ओजस्सहोऽम्भसा वर्तते' इति ठक् । तस्य कर्म असमीक्ष्यकरण साहासिक्यम् । तदाह । तेषु सहसा प्रवर्तते इति ॥ फलितार्थकथनमिदम् । साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्द्यम् । प्रतियत्ने उदाहरति । एधोदकस्योपस्कुरुते इति ॥ एधशब्द. अदन्तः 'अवोदैधौद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः । एधश्च उदकञ्चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दस्सकारान्तो नपुंसकलिङ्गः । एधश्च दकञ्चेति विग्रहः दकशब्दः उदकवाची प्रोक्तः प्राज्ञैः । 'जीवनममृतञ्जीवनीय दकञ्च' इति हलायुधः । 'काष्ठन्दर्विन्धनन्त्वेध इध्ममेधस्समित् स्त्रियाम्' इत्यमर. । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह । गुणमाधत्ते इति ॥ काष्ठस्य शेषणादिगुणाधानं । दकस्य तु गन्धद्रव्यसम्पर्कजनितगन्धाधानम् । अधेः प्रसहने ॥ अधे परस्मात् कृञ प्रसहनवृत्तेरात्मनेपदमित्यर्थ । वेः शब्दकर्मणः ॥ शब्द. कर्मकारक यस्य तस्मात् कृञो विपूर्वादात्मनेपदमित्यर्थः । अकर्मकाच्च ॥ वेः कृञ इत्येवेति ॥ तथाच अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः । विकुर्वते इत्येतद्व्याचष्टे । विकारं लभन्ते इति ॥ लाभे विकारस्य कर्मत्वेऽपि धात्वर्थोपसङ्ग्र
२७०९ । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः । (१-३-३६)
अत्रोत्सञ्जनज्ञानविगणनव्ययाः नयतेर्वाच्या: । इतरे प्रयोगोपाधयः । तथा हि शास्त्रे नयते । शास्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसम्माननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकरानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्ते इत्यर्थः ।
हादकर्मकत्वम् । सम्माननोत्सञ्जन ॥ एषु गम्येषु णीञ्धातोरात्मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति ॥ सम्माननाचार्यकरणभृतयः इत्यर्थः । प्रयोगोपाधयः इति ॥ वाच्यत्वाभावेऽपि आर्थिका सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थ. । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते । तथाहीति ॥ सम्मानने उदाहरति । शास्त्रे नयते इति ॥ अत्र णीञ् प्रापणार्थक । सिद्धान्तमित्यध्याहार्यम् । सिद्धान्तम्प्रत्याधिकरणत्वात् शास्त्रे इति सप्तमी । तदाह । शास्त्रस्थमिति ॥ तेनेति ॥ सिध्दान्तप्रापणेनेत्यर्थः । फलितमिति ॥ अर्थादिति भाव । उत्सञ्जने इति ॥ उदाह्रियते इति शेषः । उत्सञ्जनमुत्क्षेप । उत्क्षिपतीत्यर्थः इति ॥ धातूनामनेकार्थत्वादिति भावः । आचार्यकरणे उदाहरति । माणवकमुपनयते इति ॥ उपपूर्वो णीञ् समीपप्रापणार्थकः । सामीप्यञ्च प्रत्यासत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापण वैधमेव विवक्षितम् । पूर्वोत्तराङ्गकलापाम्नानसामर्थ्यात् । तदाह । विधिना आत्मसमीपं प्रापयतीति ॥ तत्राचार्यकरणस्यार्थिकत्वमुपपादयति । उपनयनपूर्वकेणेति ॥ माणवकमुपनयीत तमध्द्यापयीतेतत्यध्द्यापनार्थत्वमुपनयनस्यावगतम् । अध्द्यापनादाचार्यत्वं सम्पद्यते । 'उपनीय तु यश्शिष्य वेदमध्यापयेत्तु यः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते' । इपि स्मरणात् । तथा च आचार्यकरणमुपनयसाध्यत्वादार्थिकमिति भावः । ज्ञाने इति ॥ उदाह्रियते इति शेषः । निश्चिनोतीत्यर्थः इति ॥ नयतिर्निश्चयार्थक इति भाव. । भृतौ उदाहरति । कर्मकरानुपनयते इति ॥ भृतिः वेतन तदर्थङ्कर्म करोतीति कर्मकर. । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृञः टः स्यात्कर्तरीति तदर्थ । उपपूर्वको णीञ् समीपप्रापणार्थकः । समीपप्रापणञ्च भृत्यर्थमिति कर्मकरशब्दसमभिव्याहाराद्गम्यते । फलितमाह । भृतिदानेनेति ॥ ऋणादेरिति ॥ आदिना करादिसङ्ग्रह. । निर्यातन प्रत्यर्पणादि । करं विनयते इति ॥ राज्ञो देयो भागः करः । विपूर्वो णीञ् परिशोधनार्थक. । तदाह । राज्ञे देयं भागं परिशोधयतीति ॥ परिगणयति
२७१० । कर्तृस्थे चाशरीरे कर्मणि । (१-३-३७)
नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्न एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात् 'स्वरितञितः -' (सू २१५८) इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि 'विगणय्य नयन्ति पौरुषम्' इति । कर्तृगामित्वाविवक्षायां भविष्यति ।
२७११ । वृत्तिसर्गतायनेषु क्रमः । (१-३-३८)
वृत्तिरप्रतिबन्धः । ॠचि क्रमते बुद्धिः । न प्रतिहन्यते इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ।
२७१२ । उपपराभ्याम् । (१-३-३९)
वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह संक्रामति ।
दातुमित्यर्थः । व्यये उदाहरति । शतं विनयते धर्मार्थमिति ॥ अत्र विपूर्वो णीञ् व्ययार्थकः । तदाह । विनियुङ्क्ते इत्यर्थः इति ॥ कर्तृस्थे ॥ नियः इति ॥ कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदङ्कर्तृगेऽपि फले जित्त्वात् प्राप्तं तत् शरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात् कथं शरीरावयवेत्युक्तमित्यत आह । सूत्रे इति ॥ शरीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थत्वन्न सम्भवति । शरीरावयवानान्तु समवायेन आधारतया तत्सम्भवतीति भावः । ननु क्रोधापगमस्य क्रोधविषयशत्रुगतानिष्टपरिहारफलकत्वात् ञित्त्वेऽप्यात्मनेपदाप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह । तत्फलस्येत्यादि । गडुं विनयतीति ॥ कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थ. । कथं तर्हीति ॥ पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति ॥ कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीररावयवभिन्न एवेति नियम्यते, नतु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम् अतो नात्मनेपदमिति भावः । वृत्तिसर्ग ॥ आत्मनेपदमिति शेषः । तायने उदाहरति । क्रमन्तेऽस्मिन्निति ॥ तायन वृद्धिः । तदाह । स्फीतानीति ॥ उपपराभ्यास ॥ 'वृत्तिसर्गतायनेषु क्रमः' इत्यनुवर्तते । तेनैव सिद्धे नियमार्थमिदम् । तदाह । आभ्यामेव क्रमेरिति ॥ आत्मनेपदमिति शेषः ।
२७१३ । आङ उद्गमने । (१-३-४०)
आक्रमते सूर्यः । उदयते इत्यर्थः । 'ज्योतिरुद्गमने इति वाच्यम्' (वा ९२१) । नेह । आक्रामति धूमो हर्म्यतलात् ।
२७१४ । वेः पादविहरणे । (१-३-४१)
साधु विक्रमते वाजी । 'पादविहरणे' किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ।
२७१५ । प्रोपाभ्यां समर्थाभ्याम् । (१-३-४२)
समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । 'समर्थाभ्याम्' किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ।
२७१६ । अनुपसर्गाद्वा । (१-३-४३)
क्रामति-क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ।
२७१७ । अपह्नवे ज्ञः । (१-३-४४)
शतमपजानीते । अपलपतीत्यर्थः ।
२७१८ । अकर्मकाच्च । (१-३-४५)
आङ उद्गमने ॥ आङ परस्मादुद्गमनवृत्तेः क्रमः आत्मनेपदमित्यर्थ । आक्रमते सूर्यः इति ॥ आङ्पूर्व. क्रमिरुद्गमनार्थक.। तदाह । उदयते इत्यर्थः इति ॥ उपसर्गवशादिति भावः । वेः पादविहरणे ॥ पादविहरण पादविक्षेपः । तद्वृत्तेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थ । साधु विक्रमते वाजीति ॥ सम्यक्पदानि विक्षिपतीत्यर्थः । प्रोपाभ्यां ॥ क्रम आत्मनेपदमिति शेषः । समौ अर्थौ ययोरिति विग्रह इत्याह । समर्थौ तुल्यार्थाविति ॥ सवर्णदीर्घमाशङ्क्य आह । शकन्ध्वादित्वादिति ॥ ननु प्रक्रमते इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीते कथमनयोस्तुल्यार्थकत्वमित्यत आह । प्रारम्भेऽनयोस्तुल्यार्थतेति ॥ तथाच आरम्भार्थकाभ्यामिति फलितमिति भावः । अनुपसर्गाद्वा ॥ क्रम आत्मनेपदमिति शेष । अप्राप्तविभाषेयमिति ॥ अनुपसर्गात् क्रमे आत्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति ॥ वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः । अपह्नवे ज्ञः ॥ अपह्नवः अपलाप. । तद्वृत्तेर्ज्ञाधातोरात्मनेपदमित्यर्थः । अकर्मकाच्च ॥ ज्ञः आत्मनेपदमिति शेषः । सर्पिषो जानीते इति ॥ अत्र ज्ञा
सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तते इत्यर्थः ।
२७१९ । संप्रतिभ्यामनाध्द्याने । (१-३-४६)
शतं सञ्जानीते । अवेक्षते इत्यर्थः । शतं प्रतिजानीते । 'अङ्गीकरोतीत्यर्थः' । 'अनाध्याने' इति योगो विभज्यते । 'तत्सामर्थ्यात् अकर्मकाच्च' (सू २७१८) इति प्राप्तिरपि बाद्ध्यते । मातरं मातुर्वा सञ्जानाति । कर्मणः शेषत्वविवक्षाया षष्ठी ।
२७२० । भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । (१-३-४७)
उपसम्भाषोपमन्त्रणे धातोर्वाच्ये, इतरे प्रयोगोपाधयः । शास्त्रे वदते ।
धातु प्रवृत्तौ वर्तते । 'ज्ञोऽविदर्थस्य करणे' इति तृतीयार्थे षष्ठी । तदाह । सर्पिषोपायेन प्रवर्तते इति ॥ 'अनुपसर्गात् ज्ञ' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते । सम्प्रतिभ्यामनाध्याने ॥ ज्ञः आत्मनेपदमिति शेष । अवेक्षते इत्यर्थः इति ॥ अकर्मकत्वाभावात् पूर्वेणाप्राप्तिरिति भावः । अनाध्द्याने किम् । मातर सञ्जानाति । आध्यायतीत्यर्थ । उत्कण्ठापूर्वक स्मरणमाध्द्यानम् । ननु यदा आध्द्याने कर्मणश्शेषत्वविवक्षया षष्ठीमाश्रित्य मातुस्सञ्जानाति इति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थिति । 'सम्प्रतिभ्यामनाध्द्याने' इत्यात्मनेपदस्याप्रवृत्तावपि 'अकर्मकाच्च' इति सूत्रेणात्मनेपद दुर्वारम् । तत्र अनाध्द्याने इत्यभावात् सम्प्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मातर सञ्जानातीति सकर्मके चरितार्थत्वादित्यत आह । अनाध्द्याने इति योगो विभज्यते इति ॥ ततश्च 'सम्प्रतिभ्याम्' इत्येको योगः । सम्प्रतिपूर्वात् ज्ञ. आत्मनपदमित्यर्थ. । 'अनाध्द्याने' इति योगान्तरम् । अनाध्द्याने सम्प्रतिभ्यामात्मनेपदमित्यर्थः । ततः किमित्यत आह । अकर्मकाच्चेति प्राप्तिरपि बाध्द्यते इति ॥ ननु अनन्तरस्येऽति न्यायेन सम्प्रतिभ्यामित्यस्यैव बाधो युक्त इत्यत आह । तत्सामर्थ्यादिति ॥ एकसूत्रत्वेनैव सिद्धे अनाध्द्याने इति योगविभागाह्व्यवहितस्यापि बाध इत्यर्थ . । ननु मातर मातुर्वा सञ्जानाति इत्यत्र मातुः कर्मत्वात् द्वितीयैव युक्तेत्यत आह । कर्मणः शेषत्वविवक्षायां षष्ठीति ॥ नचैवमपि 'अधीगर्थदयेशा कर्मणि' इति षष्ठ्येव स्यान्नतु द्वितीयेति वाच्यम् । तत्र शेष इत्यनुवर्त्य कर्मण. शेषत्वविवक्षाया षष्ठी, कर्मत्वविवक्षायान्तु द्वितीयेत्यभ्युपगमात् । नचैव सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वात् 'अधीगर्थ' इति व्यर्थमिति वाच्यम् । मातु स्मरणमित्यादौ शेषषष्ठ्यास्समासाभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् । भासनोपसम्भाषा ॥ आत्मनेपदमिति शेषः । इतरे इति ॥ भासनज्ञानादय इत्यर्थः । प्रयोगोपाधयः इति ॥ 'सम्माननोत्सञ्जन' इत्यत्र व्याख्यातं प्राक् । भासनन्तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेख । शास्त्रे वदते
भासमानो ब्रवीतीत्यर्थः । उपसम्भाषा उपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने शास्त्रे वदते । यत्ने क्षेत्रे वदते । विमतौ क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयते इत्यर्थः ।
२७२१ । व्यक्तवाचां समुच्चारणे । (१-३-४८)
मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनपदं स्यात् । सम्प्रवदन्ते ब्राह्मणाः । नेह सम्प्रवदन्ति खगाः ।
२७२२ । अनोरकर्मकात् । (१-३-४९)
व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । 'अकर्मकात्' किम् । उक्तमनुवदति । 'व्यक्तवाचाम्' किम् । अनुवदति वीणा ।
२७२३ । विभाषा विप्रलापे । (१-३-५०)
विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते--विप्रवदन्ति वा वैद्याः ।
२७२४ । अवाद्ग्रः । (१-३-५१)
इति ॥ विषयसप्तम्येषा । भासमानः इति ॥ नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति विषयसप्तमी । व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न सम्भवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्ते इति ॥ विरुद्ध व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी । उपवदते इति ॥ उपपूर्वस्य वदे प्रार्थनमर्थ । तदाह । प्रार्थयते इत्यर्थः इति ॥ व्यक्तवाचाम् ॥ व्यक्ता अज्झल्भेदेन स्पष्टोच्चारिताः वाचः शब्दाः येषामिति विग्रहः । समित्येकीभावे । तदाह । मनुष्यादीनामिति ॥ सम्प्रवदन्ते ब्राह्मणाः इति ॥ सम्भूयोच्चारयन्तीत्यर्थ । अनोरकर्मकात् ॥ व्यक्तवाचामित्यनुवृत्त विषयषष्ठ्यन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह । व्यक्तवाग्विषयादिति ॥ मनुष्यकर्तृकादित्यर्थ. । अनुवदते इति ॥ अनु. सादृश्ये । 'तुल्यार्थैरतुलोपमाभ्याम्' इति षष्ठी । कठ. कलापेन तुल्य वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् । 'तुल्यार्थैः' इत्यत्र अतुलोपमाभ्यामिति पर्युदासेन अनव्ययानामेव तुल्यार्थानाङ्ग्रहणात् । अन्यथा चन्द्र इव मुखमित्यादावपि तृतीयाषष्ठ्येारापत्तेरित्यलम् । विभाषा विप्रलापे ॥ 'व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते । विरुद्धोक्तिर्विप्रलापः । तदाह । विरुद्धोक्तिरूपे इति ॥ अवाद्ग्रः ॥ आत्मनेपदमिति शेष । गॄ इत्यस्य ग्र इति पञ्चमी । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् 'ॠत इद्धातो.' इति न भवति ।
अवगिरते । 'गृणातिस्त्ववपूर्वो न प्रयुज्यत एव' इति भाष्यम् ।
२७२५ । समः प्रतिज्ञाने । (१-३-५२)
शब्दं नित्यं सङ्गिरते । प्रतिजानीते इत्यर्थः । 'प्रतिज्ञाने' किम् । सङ्गिरति ग्रासम् ।
२७२६ । उदश्चरः सकर्मकात् । (१-३-५३)
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः 'सकर्मकात्' किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।
२७२७ । समस्तृतीयायुक्तात् । (१-३-५४)
रथेन सञ्चरते ।
२७२८ । दाणश्च सा चेच्चतुर्थ्यर्थे । (१-३-५५)
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुत्तं स्यात् सा च तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे 'समः' इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ।
तदनित्यत्वे इदमेव मानम् । अवगिरते इति ॥ शविकरणोऽयम् । अवगृणातीत्यत्राप्यात्मनेपदमाशङ्क्य आह । गृणातिस्त्विति ॥ एवञ्च तुदादेरेव ग्रहणमिति भावः । समः प्रतिज्ञाने ॥ गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् अभ्युपगमः । सङ्गिरति ग्रासमिति ॥ भक्षयतीत्यर्थः ॥ उदश्चरः ॥ उत्पूर्वाच्चरधातोस्सकर्मकादात्मनेपदमित्यर्थः । समस्तृतीया ॥ सकर्मकादिति निवृत्तम् । सम्पूर्वात् तृतीयान्तसमभिव्याहृताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः सञ्चरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते । तथापि तृतीयान्तश्रवणाभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथा तृतीययेत्यवक्ष्यत् । सकर्मकादप्येतदात्मनेपदम्भवति । अविशेषात् । अत एव तृतीयायुक्तादिति किम् । 'उभौ लोकौ सञ्चरसीमञ्चामुञ्च लोकम्' इति भाष्य सङ्गच्छते । दाणश्च सा ॥ 'समस्तृतीयायुक्तात्' इत्यनुवर्तते । तदाह । सम्पूर्वादिति ॥ उक्तं स्यादिति ॥ आत्मनेपदमित्यर्थ.। सा चेदिति ॥ तच्छब्देन तृतीया परामृश्यते । तदाह । तृतीया चेदिति ॥ दास्या संयच्छते इति ॥ आशिष्टव्यवहारे दाण. प्रयोगे चतुर्थ्यर्थे तृतीया वाच्येति तृतीया । ननु रथेन समुदाचरते इत्यत्र 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्य न प्रवृत्तिः । आडा व्यवहितत्वेन सम्पूर्व कत्वाभावात् 'तस्मादित्युत्तरस्य' इति परिभाषया सम इति पञ्चम्या. चरे. अव्यवहितपरत्वलाभात् । तथा दास्यां सम्प्रयच्छते इत्यत्रापि 'दाणश्च सा चेत्' इति कथम्प्रवर्तते । प्रशब्देन व्यवधानादित्यत आह । पूर्वसूत्रे समः इति षष्ठीति ॥ तथाच षष्ठ्या पौर्वापर्यमेव गम्यते ।
२७२९ । उपाद्यमः स्वकरणे । (१-३-५६)
स्वकरणं स्वीकारः । भार्यामुपयच्छते ।
२७३० । विभाषोपयमने । (१-२-१६)
यमः सिच्किद्वा स्याद्ववाहे । रामः सातामुपायत-उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ।
२७३१ । ज्ञाश्रुस्मृदृशां सनः । (१-३-५७)
सन्नन्तानामेषां प्राग्वत्। धर्म जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ।
२७३२ । नानोर्ज्ञः । (१-३-५८)
न त्वव्यवहितत्वमिति भाव । तेनेति ॥ षष्ठ्याश्रयणेनेत्यर्थ । सूत्रद्वयमिति ॥ 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्थस्य षष्ठ्यन्तस्यैव 'दाणश्च' इति सूत्रेऽप्यनुवृत्तेरिति भाव । उपाद्यमः ॥ आत्मनेपदमिति शेषः । ननु स्व वस्त्रमुत्पादयतीत्यर्थे वस्त्रमुपयच्छतीत्यत्राप्यात्मनेपद स्यादित्यत आह । स्वकरणं स्वीकारः इति ॥ अस्वस्य सत स्वत्वेन परिग्रह स्वकरणशब्देन विवक्षित इत्यर्थ । च्विप्रत्ययस्तु वैकल्पिक । 'समर्थाना प्रथमाद्वा' इत्युक्तेरिति भाष्ये स्पष्टम् । भार्यामुपयच्छते इति ॥ अन्यदीयाङ्कन्याम्भार्यात्वेन परिगृह्णातीत्यर्थः । विभाषोपयमने ॥ 'यमो गन्धने' इत्यतो यम इति 'हनस्सिच्' इत्यतस्सिजिति 'असयोगात्' इत्यत किदिति चानुवर्तते । तदाह । यमः सिच्किद्वा स्याद्विवाहे इति ॥ उपयमशब्दो विवाहे वर्तते इति भाव । रामः सीतामुपायतेति ॥ भार्यात्वेन स्वीकृतवानित्यर्थः । सिचः कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलोपे 'ह्रस्वादङ्गात्' इति सिचो लोपः । उदवोढेति ॥ भार्यात्वेन परिग्रहः उद्वाहः । गन्धनाङ्गे उपयमे त्विति ॥ हिसापूर्वके विवाहे त्वित्यर्थः । राक्षसविवाहे त्विति यावत् । 'हत्वा भित्वा च शीर्षाणि रुदती रुदतो हरेत् । स राक्षसो विवाहः' इति स्मृते. । नित्यङ्कित्त्वमिति ॥ 'यमोऽगन्धने' इति पूर्वसूत्रेणेति शेष । यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात् तर्हि एषा प्राप्तविभाषा स्यात् । ततश्च 'नवेति विभाषा' इत्यत्र भाष्ये अप्राप्तविभाषासु अस्या परिगणन विरुध्द्येत । अत पूर्वविप्रतिषेध आश्रयणीय इति भाव । ज्ञाश्रु ॥ प्राग्वदिति ॥ आत्मनेपदमित्यर्थः । यद्यपि 'अपह्नवे ज्ञः अकर्मकाच्च, सम्प्रतिभ्यामनाध्द्याने' इति सूत्रे 'अर्तिश्रुदृशिभ्यश्च' इति वार्तिकेन च ज्ञादिभ्यः आत्मनेपदे कृते 'पूर्ववत्सन' इत्यात्मनेपद सिद्धम् । तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थ ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति । धर्मं जिज्ञासते इति ॥ ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ॥ 'अज्झनगमां सनि' इति दीर्घ . । 'इको झल्' इति सनकित्वम् । 'श्र्युकः किति' इति इण्णिषेध । सुस्मूर्षते इति ॥ स्मृधातोस्सनि 'अज्झन' इति दीर्घे 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । नानोर्ज्ञः ॥ अनुपू
पुत्त्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । 'अनन्तरस्य-' (प ६२) इति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । 'पूर्ववत्सनः' (सू २७३४) इति तङ् । 'अकर्मकाच्च' (सू २७१८) इति केवलाद्विधानात् ।
२७३३ । प्रत्याङ्भ्यां श्रुवः । (१-३-५९)
आभ्यां सन्नन्ताच्छ्रुव उक्तं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रवचनीयात्स्यादेव । देवदत्तं प्रति शुश्रूषते । 'शदेः शितः' (सू २३६२) 'म्रियतेर्लुङ्लिङोश्च' (सू २५३८) व्याख्यातम् ।
२७३४ । पूर्ववत्सनः । (१-३-६२)
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते शिशयिषते । निविविक्षते । 'पूर्ववत्' किम् । बुभूषति । 'शदे:--' (सू २३६२) (सू २५३८) इत्यादिसूत्रद्वये 'सनो न' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (सू २२४०) एधांचक्रे ।
र्वात् ज्ञाधातोस्सन्नन्तात् नात्मनेपदमित्यर्थः । पुत्त्रमनुजिज्ञासतीति ॥ अनुज्ञातुमिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे सर्पिषोऽनुजिज्ञासते इत्यत्रापि 'अपह्नवेज्ञ, अकर्मकाच्च' इत्यात्मनेपदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह । पूर्वसूत्रस्यैवेति ॥ एवञ्च सर्पिषोऽनुजिज्ञासते इत्यत्र 'अकर्मकाच्च' इत्यात्मनेपदन्निर्बाधमिति भाव. । ननु 'अकर्मकाच्च' इति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथमात्मनेपदलाभ इत्यत आह । पूर्ववदिति ॥ केवलात् सन्विहीनात् ज्ञाधातोरात्मनेपदविधानात् सन्नन्तादपि तस्मात् 'पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थ । प्रत्याङ्भ्यां श्रुवः ॥ उत्तं नेति ॥ आत्मनेपदन्नेत्यर्थ. । प्रत्याडाविहोपसर्गावेव गृह्येते । व्याख्यानात् । तदाह । कर्मप्रवचनीयात्स्यादेवेति ॥ आत्मनेपदमिति शेषः । देवदत्तं प्रतीति ॥ 'लक्षणेत्थम्भूत' इति प्रतिः कर्मप्रवचनीयः । पूर्ववत्सनः ॥ पूर्वेणेव पूर्ववत् । तेन तुल्यमिति तृतीयान्ताद्वतिः । पूर्वशब्देन सन्प्रकृतिर्विवक्षिता । तदाह । सनः पूर्वः इत्यादि ॥ एदिधिषते इति ॥ सन्प्रकृतेरेव धातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतिकसन्नन्तादपि आत्मनेपदम् । ननु 'शदेः शित' 'म्रियतेर्लुङ्लिङोश्च' इत्यात्मनेपदविधानात् शिशत्सति मुमूर्षति इत्यत्रापि सन्नन्तादात्मनेपदं स्यादित्यत आह । शदेरित्यादीति ॥ आदिना म्रियतेः 'लुङ्लिङोश्च' इत्यस्य ग्रहणम् । शदेरित्यादिसूत्रद्वये 'पूर्ववत्सन' इति 'नानोर्ज्ञ.' इत्यतो नेति चानुवर्त्य शदेर्म्रियतेश्च सन्नन्तान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेव सति शीयते
२७३५ । प्रोपाभ्यां युजेरयज्ञपात्रेषु । (१-३-६४)
प्रयुङ्क्ते । उपयुङ्क्ते । 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा ९३९) । उद्युङ्क्ते । नियुङ्क्ते । 'अयज्ञपात्रेषु' किम् । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति ।
२७३६ । समः क्ष्णुवः । (१-३-६५)
संक्ष्णुते शस्त्रम् ।
२७३७ । भुजोऽनवने । (१-३-६६)
ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्' । 'वृद्धो जनो दुःखशतानि भुङ्क्ते' । इह उपभोगो भुजेरर्थः । 'अनवने' किम् । महीं भुनक्ति ।
२७३८ । णेरणौ यत्कर्म णौ चेत्सकर्ताऽनाध्याने । (१-३-६७)
ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेण्ण्यन्तेनोच्यते । अणौ
म्रियते इत्यादावात्मनेपदन्न लभ्येतेत्यत आह । वाक्यभेदेनेति ॥ 'शदेः शित.' 'म्रियतेर्लुङ्लिङोश्च' इति एक वाक्यम् । शिद्भाविनः शदेरात्मनेपद स्यात् मृडो लुड्प्रकृतिभूतात् शित्प्रकृतिभूताच्चात्मनेपद स्यात् नान्यत्रेत्यर्थ. । तेन शीयते म्रियते ममारेत्यादि सिध्द्यति । सनो नेत्यपरं वाक्यम् । म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम् । तेन शिशत्सति, मुमूर्षति, इत्यादौ नात्मनेपदमित्यर्थ. । प्रोपाभ्यां ॥ आत्मनेपदमिति शेषः । स्वरेति ॥ स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः । तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति ॥ द्वन्द्व द्विश न्यञ्चि अधोबिलानीत्यर्थः । समः क्ष्णुवः ॥ आत्मनेपदम् इति शेषः । 'समो गम्यृच्छिभ्याम्' इत्यत्रैव समो गम्यृच्छिक्ष्णुवः इति न सूत्रितम् । तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात् । तत्सूचयन्नुदाहरति । संक्षणुते शस्त्रमिति ॥ तीक्ष्णीकरोतीत्यर्थः । भुजोऽनवने ॥ अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु 'भुज पालनाभ्यवहारयोः' इति धातुपाठे स्थितम् । तत्र बुभुजे पृथिवीपालः पृथिवीमित्यत्र न पालनमर्थ. । तथा सति अनवने इति पर्युदासादात्मनेपदायोगात् । नाप्यभ्यवहरणम् , असम्भवात् । नहि पृथिव्या अभ्यवहरण सम्भवति । तथा 'वृद्धो जनो दुःखशतानि भुङ्क्ते' इत्यपि न युज्यते । दुःखशतानाम्पालनस्य अभ्यवहरणस्य चासम्भवात् । तत्राह । इह उपभोगो भुजेरर्थः इति ॥ धातूनामनेकार्थकत्वादिति भावः । महीं भुनक्तीति ॥ रक्षतीत्यर्थः । अत्र रौधादिकस्यैव 'भुज पालनाभ्यवहारयोः' इत्यस्य ग्रहणम् । नतु 'भुजो कौटिल्ये' इति तौदादिकस्यापीति भाष्यम् । भुजति वासः । कुटिलीभवतीत्यर्थः । णेरणौ । इह चत्वार्यवान्तरवाक्यानि णेरिति प्रथम वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदामित्यधिकृतम् । तदाह । ण्यन्तादात्मनेपदं
यत्कर्मकारकं स चेण्णौ कर्ता स्यान्न त्वाध्याने । 'णिचश्च' (सू २५६४) इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु 'विभाषोपपदेन–' (सू २७४४) इति विकल्पे 'अणावकर्मकात्--' (सू २७५४) इति परस्मैपदे च परत्वात्प्राप्ते 'पूर्वविप्रतिषेधेनेदमेवेष्यते' । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् ।
स्यादिति ॥ अणौ यत् कर्म णौ चेदिति द्वितीय वाक्यम् । 'कर्तरि कर्मव्यतिहारे' इतिवत्कर्मशब्दोऽत्र क्रियापर । यत्तदोर्नित्यसम्बन्धात् तदिति लभ्यते । तथाच अणौ या क्रिया सा ण्यन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वत्र अणौ क्रियायाः ण्यन्ते अवश्यसत्त्वाद्वाक्यमिदमनर्थकम् । तस्मात् अणौ या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह । अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येत इति ॥ स कर्तेति तृतीय वाक्यम् । अत्र अणौ यत् कर्म णौ चेदित्यनुवर्तते । कर्मशब्दोऽत्र कारकविशेषपरः । शब्दाधिकाराश्रयणात् । तदेतदाह । अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति ॥ अत्र तच्छब्दस्य विधेयसमर्पककर्तृशब्दानुसारेण पुल्लिङ्गता ज्ञेया । 'शैत्य हि यत्सा प्रकृतिर्जलस्य' इतिवत् । अथ 'अनाध्याने' इति चतुर्थ वाक्य व्याचष्टे । न त्वाध्द्याने इति ॥ आध्द्यानमुत्कण्ठापूर्वक स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु आध्द्याने आत्मनेपदन्नेत्यर्थाश्रयणे भवतीत्यत्र नञोऽन्वितत्वेन असामर्थ्यादाध्द्यानशब्देन समासासम्भवात् पर्युदास एवायम् । 'न त्वाध्याने' इति मूलन्तु फलितार्थकथनपरमेव । तथाच आध्द्यानभिन्नेऽर्थे विद्यमानात् ण्यन्तादात्मनेपद स्यादित्येव प्रथमवाक्य एव आध्द्याने इत्यस्यान्वयात् त्रीण्येवात्रावान्तरवाक्यानीति युक्तम् । वाक्यत्रयमित्येव च भाष्ये दृश्यते । ननु 'णिचश्च' इति सिद्धे किमर्थमिदं सूत्रमित्यत आह । णिचश्चेतीति ॥ परगामिन्यपि फले आत्मनेपदार्थमित्यर्थ । स्यादेतत् । 'विभाषोपपदेन प्रतीयमाने' इति सूत्र वक्ष्यते । कर्तृगामिनि क्रियाफले यदात्मनेपद विहितं तत् उपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः । स्व यज्ञ यजति यजते वेत्याद्युदाहरणम् । 'णेरणौ' इत्यस्य तु दर्शयते भवः इत्यनुपदमेव उदाहरण वक्ष्यते इति स्थितिः । तत्र दर्शयते भवः स्वयमेवेत्यत्र फलस्य कर्तृगामित्वविवक्षायां णेरणाविति नित्यमात्मनेपदमिष्यते । तत्र परत्वात् 'विभाषोपपदेन' इति विकल्पः स्यात् । 'णेरणौ' इत्यस्य फले आत्मगामित्वगमकोपपदाभावे सावकाशत्वात् । किञ्च 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति वक्ष्यते । अण्यन्ते यो धातुरकर्मक. चित्तवत्कर्तृकश्च तस्मात् ण्यन्तात् परस्मैपद स्यादिति तदर्थ । शेते कृष्णः । त गोपी शाययतीत्युदाहरणम् । णेरणावित्यस्य तु दर्शयते भव इत्युदाहरण विषय इति स्थितिः । तत्र लूधातोः लुनाति केदार देवदत्तः इत्यत्र चित्तवत्कर्तृकत्वात् लूयते केदारः इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच्च लावयते केदार इति ण्यन्तात् 'णेरणौ' इत्यात्मनेपद बाधित्वा परत्वात् 'अणावकर्मकात्' इति परस्मैपदमेव स्यात् । णेरणावित्यस्य दर्शयते भव. इत्यत्र सावकाशत्वादित्यत आह । कर्त्रभिप्राये त्विति ॥ पूर्वविप्रतिषेधेनेति ॥ पूर्वविप्रतिषेधाश्रयणे राजा दर्शयते
तथाहि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति ।
इति भाष्यप्रयोगो मानम् । अन्यथा तत्र 'अणावकर्मकात्' इति परस्मैपदापत्ते. । दर्शनविषयो भवतीत्यर्थे पश्यति भवः इत्यत्र दृशेरणावकर्मकत्वात् चित्तवत्कर्तृकत्वाच्च 'विभाषोपपदेन' इति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तु दर्शयते राजा इति भाष्यप्रयोगः फलस्य परगामित्वाविषयो भविष्यति । एवञ्च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किञ्चिद्बाधकमिति पूर्वविप्रतिषेधाश्रयणञ्चिन्त्यमित्याहुः । तच्चिन्त्यम् । अणावकर्मकादित्यस्य परगामिन्यपि फले परत्वात् प्रवृत्तेर्दुर्वारत्वात् । नह्यणावकर्मकादित्यत्र कर्त्रभिप्राये इत्यस्ति । 'स्वरितञितः कर्त्रभिप्राये' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव. इत्यत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षाया तस्य 'कर्मवत्कर्मणा' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनपदसिद्धेः 'णेरणौ' इति सूत्र व्यर्थमित्यत आह । कर्तृस्थेति ॥ कर्तृस्थ भावो यषां ते कर्तृस्थभावकाः । कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणा' इत्यस्य तु कर्मस्थभावका कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणा' इति सूत्रे च भाष्ये स्पष्टम् । अतो विषयभेदात् 'कर्मवत् कर्मणा' इत्यनेन 'णेरणौ' इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्द्यो धात्वर्थो भावः । यथा दर्शनश्रवणादिः । परिस्पन्दनसाधनसाध्द्यो धात्वर्थः क्रिया । यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूप स्पन्दनमस्ति । तथापि तद्भिन्नहस्तपादादिचेष्टैवात्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति । पश्यन्ति भवं भक्ताः इति ॥ सकर्मकेषु धातुषु फलव्यापारयोर्धातुः । यथा पचेर्विक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादिर्व्यापार । धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादि . । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतङ्कर्म । यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापारार्थकत्वे सकर्मकत्वानुपपत्तिः । फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरणत्वात् । अतो दृशेश्चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः । तत्र ज्ञानविषयत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्यापारो देवदत्तनिष्ठः । एवञ्च प्रयत्नादिव्यापारव्यधिकरणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते । तदेतदाह । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः इति ॥ प्रेरणेति ॥ यथा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरर्थो विवक्षितः । नतु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणाशः । तदा पश्यति भवः इत्यस्य चाक्षुषज्ञानविषयस्सम्पद्यते इत्यर्थ. । सौकर्यातिशयविवक्षया अनुकूलव्यापाराशस्य अविवक्षा बोध्द्या । तथाच चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव । तदाह । विषयो भवतीत्यर्थः इति ॥ लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थ.। नचात्र भवस्य वस्तुतो दर्शनकर्मण. इह कर्तृत्वात् 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्क्यम् । 'कर्मवत्कर्मणा' इत्यस्य कर्मस्थभावकेषु कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शबादिकमेवेति भावः । ततः
भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुर्थ्योश्च तुल्योऽर्थः । तत्र तृतीयकक्ष्यायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तृत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च ।
इति ॥ क्रिया तु गम्य प्रेषणांश विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्दृशेर्हेतुमण्णिजित्यर्थः । दर्शयन्ति भवं भक्ताः इति ॥ चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थः । तदाह । पश्यन्तीत्यर्थः इति ॥ चाक्षुषज्ञानविषयङ्कुर्वन्तीत्यर्थ । पुनरिति ॥ चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके दर्शयन्ति भव भक्ता इत्युक्तोदाहरणे णिजर्थस्य आपादनाशस्य अविवक्षाया प्रकृतसूत्रेणात्मनेपदे सति दर्शयते भव इत्युदाहरणमित्यर्थः । अत्र ण्यन्तस्य प्रेरणारहितेऽर्थे लक्षणा । गङ्गायाङ्घोष इत्यत्र टाप इव णिच. स्थितिः । चुरादेराकृतिगणत्वात् स्वार्थिको णिजित्यन्ये । इहेति ॥ अवस्था पदविशेषात्मकावयवसन्निवेशविशेषः । प्रथमा च द्वितीया च प्रथमद्वितीये । तयोरवस्थयोरिति विग्रह । 'सर्वनाम्नो वृत्तिमात्रे' इति प्रथमाशब्दस्य पुवत्त्वम् । पश्यन्ति भव भक्ता इति प्रथमावस्था । पदविशेषसन्दर्भ इति यावत् । अवस्थैव कक्ष्येति व्यवहरिष्यते मूले । कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा । रामायणे 'आ पञ्चमायाः कक्ष्यायाः नैनङ्कश्चिदवारयत्' इत्यादि । इदञ्च प्रथमवाक्यम् । प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणाशत्यागस्य प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याभावे असम्भवात् । प्रेरणाशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भव भक्ता इति तृतीयवाक्यस्य पश्यन्ति भव भक्ता इति प्रथमवाक्यसमानार्थकस्य उपपादिका । चाक्षुषज्ञानविषयत्वापादनानुकूलव्यापारार्थवृत्तेर्दृशेर्हेतुमण्णिचि चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारान्तरस्यापि प्रवेशापत्तेः । तृतीय वाक्यन्त्विदन्दर्शयन्तीति ण्यर्थस्याविवक्षाया दर्शयते भवः इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्यसमानार्थकस्य ण्यन्तघटितस्योपपादकमिति स्पष्टमेव । तथाच प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भव भक्ताः, दर्शयन्ति भव भक्ताः, इत्यनयो तथा पश्यति भवः, दर्शयते भव., इति द्वितीयचतुर्थ्यो कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थ. । तत्र प्रथमद्वितीययोः कक्ष्ययोः दृशेर्ण्यन्तत्वाभावादेव तडो न प्रसक्तिरिति मत्वा आह । तत्र तृतीयकक्ष्यायान्न तङिति ॥ कुत इत्यत आह । क्रियासाम्येऽपीति ॥ दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायाः, पश्यन्ति भव भक्ताः, इति प्रथमकक्ष्यासमानार्थकतया अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्य सत्त्वेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य दर्शयन्ति भव भक्ता इति तृतीयकक्ष्याया णौ कर्तृत्वाभावादित्यर्थः । एवञ्चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणञ्चेत्युक्ता भवति । अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्य तु अध्द्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायान्न तडिति वक्ष्यते । चतुर्थकक्ष्या तु प्रकृतसूत्रस्योदाहरणमित्याह । चतुर्थ्यान्तु तङिति ॥ 'णेरणौ' इति प्रकृतसूत्रेणेति शेषः । तदेवोपपादयति । द्वितीयामादायेति ॥ पश्यति भव इति द्वितीयकक्ष्या
एवमारोहयते हस्तीत्यप्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् आरोहयन्ति । आरोहन्तीत्यर्थः । तत आरोहयते न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्ष्या प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृति-
या या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव दर्शयते भव इति चतुर्थकक्ष्यायां ण्यन्तदृश्यर्थत्वादित्यर्थः । अनेन अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यश उपपादितः । अथ अणौ यत्कर्मकारक णौ स चेत्कर्ता स्यादित्यशमुपपादयति । प्रथमायामिति ॥ पश्यन्ति भव भक्ता इति प्रथमकक्ष्याया अण्यन्तदृशिकर्मणो भवस्य दर्शयते भव इति चतुर्थकक्ष्याया ण्यन्तदृशिकर्तृत्वाच्चेत्यर्थ. । अथ कर्तृस्थक्रियाधातुमुदाहरति । एवमारोहयते हस्तीत्यप्युदाहरणमिति ॥ तत्र प्रथमकक्ष्यामाह । आरोहन्ति हस्तिनं हस्तिपकाः इति ॥ हस्तिनम्पान्तीति हस्तिपाः । त एव हस्तिपका. । स्वार्थे क । उपरिभागाक्रमणानुकूलव्यापारो रुहेरर्थ । तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारस्सोपानगमनादि । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षित । तच्च नीचीकरणम् । तदाह । न्यग्भावयन्तीति ॥ अत्र उपरिभागाक्रमणानुकूलन्यग्भावनानुकूलोऽङ्कुशपातादि व्यापारः । उपरिभागाक्रमणानुकूलन्यग्भवन फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापाराश्रयत्वाद्धस्तिपकाः कर्तारः । अथ द्वितीयकक्ष्यामाह । ततः इति ॥ प्रेरणाशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति हस्तीति भवतीत्यर्थः । प्रेषणांशपरित्यागे फलितमाह । न्यग्भवतीत्यर्थः इति ॥ अथ तृतीयकक्ष्यामाह । ततो णिजिति ॥ प्रेषणाश परित्यज्य न्यग्भवनार्थकत्वमाश्रितात् धातो प्रेषणविवक्षायां हेतुमण्णिजिति भावः । आरोहयन्तीति ॥ हस्तिन हस्तिपका इति शेषः । प्रेषणाशनिवृत्तौ णिजन्तस्य फलितमर्थमाह । आरोहयन्तीत्यर्थः इति ॥ आक्रमणाय हस्तिन न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह । ततः इति ॥ अविवक्षितप्रेषणात् ण्यन्तात् प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूपमित्यर्थ. । प्रेषणाशत्यागे सति ण्यन्तस्य फलितमर्थमाह । न्यग्भवतीत्यर्थ इति ॥ तदेव निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिजिष्यते, इति पक्षमाश्रित्योदाहृतम् । इदानीमध्द्यारोपितप्रेषणपक्षमाश्रित्य आह । यद्वेति ॥ पश्यन्तीति ॥ पश्यन्ति भव भक्ता इति, आरोहन्ति हस्तिन हस्तिपकाः इति च, प्रथमकक्ष्या पूर्ववद्व्याख्येयेत्यर्थ । द्वितीयकक्ष्यामाह । ततः कर्मणः इति ॥ दृशेः रुहेश्व प्रथमकक्ष्याया कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजककर्तृत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः । दर्शयति भवः इति ॥ भक्तानिति शेष । तदाह । पश्यत आरोहतश्च प्रेरयतीत्यर्थः इति ॥ चाक्षुषज्ञानविषयत्वमापादयतो भक्तान् भव प्रेरयति न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्र हेतुमण्णिच् । तत्र प्रकृतिभ्या दृशिरुहिभ्यामेकैकम्प्रेरणम् । णिचा तु तद्विषयकमेकैकम्प्रेरणान्तरम्प्रतीयते इति स्थितिः । चतुर्थकक्ष्यामाह । ततो
भ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षे द्वितीयकक्ष्यायां न तङ् । समानक्रियात्वाभावाण्णिजर्थस्याधिक्यात् । 'अनाध्याने' किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । 'भीस्म्योर्हेतुभये' (सू २५९४) व्याख्यातम् ।
२७३९ । गृधिवञ्च्योः प्रलम्भने । (१-३-६९)
प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते, वञ्चयते वा । 'प्रलम्भने' किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । 'लियः सम्माननशालिनीकरणयोश्च' (सू २५९२) । व्याख्यातम् ।
णिज्भ्यामिति ॥ हेतुमण्णिज्भ्यां तत्प्रकृतिभूतदृशिरुहिभ्याञ्च उपात्तयो प्रेरणयोस्त्यागे सति चाक्षुषज्ञानविषयो भवति भव इति न्यग्भवति हस्तीति चार्थ. पर्यवस्यति । तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयते भवः आरोहयते हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भव भक्ता इति आरोहन्ति हस्तिन हस्तिपका इति च प्रथमकक्ष्यायाङ्कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायाङ्कर्तृत्वात् प्रथमकक्ष्यायां अणौ या क्रिया तस्या एवात्र तृतीयकक्ष्यायां सत्त्वाच्चेति तृतीयकक्ष्यायामुदाहरणे सूत्रप्रवृत्तिरुपपाद्या । नच प्रथमकक्ष्यायाञ्चाक्षुषज्ञानविषयङ्कुर्वन्तीति न्यग्भावयन्तीति प्रकृत्युपात्तस्य प्रेषणाशस्य तृतीयकक्ष्यायां त्यागादणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्य कथं प्रवृत्तिरिति वाच्यम् । सैव चेण्ण्यन्तेनेत्यत्र आधिक्यमात्र व्यवच्छिद्यते, नतु न्यूनत्वमपि इत्यदोषात् । ननु द्वितीयकक्ष्यायामेव कुतो न तडित्यत आह । अस्मिन्पक्षे द्वितीयेति ॥ कुत इत्यत आह । समानक्रियात्वाभावादिति ॥ द्वितीयकक्ष्याया अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्याभावादिति यावत् । तदेवोपपादयति । णिजर्थस्येति ॥ णेरिति किम् । पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् । स्मरति वनगुल्मङ्कोकिलः इति ॥ स्मृतिविषयत्वमापादयतीत्यर्थ । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितीयतृतीयकक्ष्ययोरप्युपलक्षणम् । तत्र
निवृत्तप्रेषणपक्षे स्मरति वनगुल्म इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः । स्मरति वनगुल्मङ्कोकिल इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । अध्द्यारोपितप्रेषणपक्षे त्वेषा द्वितीयकक्ष्या । स्मरन्तम्प्रेरयतीत्यर्थ । स्मरयति वनगुल्मः इति ॥ प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्द्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्द्यम् । 'स्मृ आध्द्याने' इति घाटादिकत्वेन मित्त्वाध्द्रस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेष्वनुसन्धेय । गृधिवञ्च्योः ॥ प्रलम्भनं प्रतारणमिति मत्वा आह । प्रतारणेऽर्थे इति ॥ प्राग्वदिति ॥ आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः । मिथ्योप-
२७४० । मिथ्योपपदात्कृञोऽभ्यासे । (१-३-७१)
'णेः' इत्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । 'मिथ्योपपदात्' किम् । पदं सुष्ठु कारयति । 'अभ्यासे' किम् । सकृत्पदं मिथ्या कारयति । 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' (सू २१५८) । यजते । सुनुते । 'कर्त्रभिप्राये' किम् । ऋत्विजो यजन्ति । सुन्वन्ति ।
२७४१ । अपाद्वदः । (१-३-७३)
न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । 'णिचश्च' (सू २५६४) । कारयते ।
२७४२ । समुदाङ्भ्यो यमोऽग्रन्थे । (१-३-७५)
'अग्रन्थे' इति च्छेदः । व्रीहीन् संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । 'अग्रन्थे' किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव । व्रीहीन् संयच्छति ।
२७४३ । अनुपसर्गाज्ज्ञः । (१-३-७६)
गां जानीते । 'अनुपसर्गात्' किम् । 'स्वर्गं लोकं न प्रजानाति' । कथं तर्हि भट्टिः – 'इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य' इति । कर्मणि लिट् । नृपेणेति विपरिणामः ।
पदात् ॥ अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात् कृञः आत्मनपदमित्यर्थः । इत ऊर्ध्व णेरिति निवृत्तम् । अपाद्वदः ॥ अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति ॥ वदनेन निरस्यतीत्यर्थः । 'किमिह वचनन्न कुर्यान्नास्ति वचनस्यातिभारः' इति न्यायात् । समुदाङ्भ्यो ॥ सम् उत् आङ् एतत्पूर्वात् अग्रन्थविषयकात् यमेरात्मनेपदमित्यर्थः । व्रीहीन् संयच्छते इति ॥ सङ्गृह्णातीत्यर्थः । भारमुद्यच्छते इति ॥ उद्गृह्णातीत्यर्थः । वस्त्रमायच्छते इति ॥ कट्यादौ निबध्नातीत्यर्थः । कर्त्रभिप्राये इत्येवेति ॥ व्रीहीन् संयच्छतीति ॥ परार्थं सङ्गृह्णातीत्यर्थ. । 'आडो यमहनः' इत्येव सिद्धे आङ्ग्रहण सकर्मकार्थम् । तस्य अकर्मकादेव प्रवृत्तेरिति बोध्द्यम् । अनुपसर्गाज्ज्ञः ॥ अनुपसर्गात् ज्ञाधातोरात्मनेपदमित्यर्थः । 'अकर्मकाच्च' इत्येव सिद्धे सकर्मकार्थमिदम् । तदाह । गाञ्जानीते इति ॥ अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याप्रवृत्तेः सकर्मकतया 'अकर्मकाच्च' इत्यस्याप्यप्रवृत्तेः । अनुजज्ञे इति ॥ कथमात्मनेपदमित्यर्थः । समाधत्ते । कर्मणि लिडिति ॥ तथाच 'भावकर्मणोः' इत्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेव सति नृप इति प्रथमान्तस्य कथमिहान्वय इत्यत आह । नृपेणेति विपरिणामः इति ॥ अवालुलोचे
२७४४ । विभाषोपपदेन प्रतीयमाने । (१-३-७७)
'स्वरितञितः' इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति-यजते वा । स्वं कटं करोति-कुरुते वा । स्वं पुत्रमपवदति-अपवदते वा । स्वं यज्ञं कारयति-कारयते वा । स्वं व्रीहिं संयच्छति-संयच्छते वा । स्वां गां जानाति-जानीते वा ।
इत्यत्रान्वित नृप इति प्रथमान्त तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः । विभाषोपपदेन ॥ स्वरितञित इत्यादीति ॥ 'स्वरितञितः कर्त्रभिप्राये क्रियाफले, अपाद्वद, णिचश्च, समुदाङ्भ्यो यमोऽग्रन्थे, अनुपसर्गाज्ज्ञ' इति पञ्चसूत्रीत्यर्थः । समीपोच्चारितम्पदमुपपदम्, नतु 'तत्रोपपद सप्तमीस्थम्' इति सङ्केतितम् । असम्भवात् । तदाह । समीपोच्चारितेन पदेनेति ॥ फलस्य कर्तृगामित्वे नित्यमात्मनेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमिति 'नवेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् । स्वं यज्ञमिति ॥ स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्यात्मगामित्वावगमात् 'स्वरितञितः' इति नित्यमात्मनेपदस्यानेन विकल्पः । स्व यज्ञ कारयतीत्यत्र 'णिचश्च' इत्यस्यानेन विकल्पः । स्वं व्रीहिमिति ॥ अत्र 'समुदाड्भ्यो यमः' इत्यस्यानेन विकल्पः । स्वां गामिति ॥ अत्र 'अनुपसर्गाज्ज्ञः' इत्यस्यानेन विकल्पः ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया
बालमनोरमायामात्मनेपदव्यवस्था समाप्ता ।
श्रीरस्तु ।
॥ अथ तिङन्तपरस्मैपदप्रकरणम् ॥
'शेषात्कर्तरि परस्मैपदम्' (२१५९) अत्ति ।
२७४५ । अनुपराभ्यां कृञः । (१-३-७९)
कृर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र 'कर्मवत्कर्मणा--' (सू २७६६) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु 'कर्तरि शप्' (सू २१६७) इत्यतः 'शेषात् –' (सू २१५९) इत्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कर्तैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् ।
अथ परस्मैपदव्यवस्थान्निरूपयितुमुपक्रमते ॥ शेषात्कर्तरीति ॥ अनुपराभ्यां कृञः ॥ परस्मैपदमिति शेष. । ननु 'स्वरितञित.' इत्यात्मनेपदस्य कर्तृगामिन्येव फले विधानादकर्तृगामिनि फले 'शेषात्कर्तरि' इति परस्मैपदस्य सिद्धत्वात् किमर्थमिदमित्यत आह । कर्तृगेचेति । गन्धनादाविति ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः ।
'मा भूदिति ॥ भावे कर्मणि लकारस्य कर्तृगे फले परस्मैपदनिवृत्त्यर्थं कर्तरीत्यस्यानुवृत्तिरिति भाव । ननु कर्तरीत्यस्यानुवृत्तावपि अनुक्रियते शब्द स्वयमेवेत्यत्र कर्मकर्तरि परस्मैपदन्दुर्वारमित्याशङ्क्य परिहरति । नचेति ॥ एवमपि कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह । कार्यातिदेशेति ॥ तत्र कर्मकर्तरि 'कर्मवत्कर्मणा तुल्यक्रिय' इत्यात्मनेपदेन परेणास्य परस्मैपदस्य बाधादित्यन्वयः । ननु कर्मणि यच्छास्त्र तत् 'कर्मवत्कर्मणा' इति कर्मकर्तर्यतिदिश्यते । तथा चात्र कर्मकर्तरि 'भावकर्मणो.' इत्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाभावात् 'अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह । कार्यातिदेशपक्षस्य मुख्यतयेति ॥ शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्च कर्मवत् कर्मणेत्यनेन कर्मणि विहितमात्मनेपद कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेन 'अनुपराभ्याम्' इति परस्मैपदङ्कर्मकर्तरि बाधमर्हतीति भावः । 'कर्मवत्कर्मणा' इत्यत्र शास्त्रातिदेशमभ्युपगम्य आह । शास्त्रातिदेशपक्षे त्विति ॥ 'अनुपराभ्यां कृञः' इत्यत्र 'कर्तरि कर्मव्यतिहारे' इत्यस्मादेकङ्कर्तृग्रहणमनुवर्तते । तथा 'शेषात् कर्तरि परस्मैपदम्' इत्यस्मात् द्वितीयं कर्तृग्रहणमनुवर्तते । तथा च स्वभावत एव यः कर्ता, नतु विव
२७४६ । अभिप्रत्यतिभ्यः क्षिपः । (१-३-८०)
'क्षिप प्रेरणे' । स्वरितेत् । अभिक्षिपति ।
२७४७ । प्राद्वहः । (१-३-८१)
प्रवहति ।
२७४८ । परेर्मृषः । (१-३-८२)
परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ।
२७४९ । व्याङ्परिभ्यो रमः । (१-३-८३)
विरमति ।
२७५० । उपाच्च । (१-३-८४)
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ।
क्षाधीनः कर्मकर्ता तथाविधकर्तर्येव 'अनुपराभ्यां कृञः' परस्मैपदमिति लभ्यते । एवञ्च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः । अभिप्रति ॥ परस्मैपदमिति शेषः । स्वरितेदिति ॥ ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभिक्षिपतीति ॥ प्रतिक्षिपति अतिक्षिपति इत्यप्युदाहार्यम् । प्राद्वहः ॥ प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः । वहे स्वरितेत्त्वात् कर्पृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् । परेर्मृषः ॥ परस्मैपदमिति शेषः । 'मृषस्तितिक्षायाम्' इति दैवादिकस्य स्वरितेत्त्वात् पदद्वये प्राप्ते अयं विधिः । तदाह । परिमृष्यतीति ॥ चौरादिकस्यापि 'आधृषाद्वा' इति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव परिमर्षतीति । भौवादिकस्य त्विति ॥ 'मृषु सहने, सेचने च' इति भौवादिकस्य तु परस्मैपदित्वात् परिमर्षतीत्येव रूप सिद्धम् । अतोऽस्मिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति ॥ परेरिति योगो विभज्यते । वह इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । मृष इति योगान्तरम् । तत्र परेः इत्यनुवर्तते परेः मृषः परस्मैपदमित्युक्तोर्थ इति केचिदाहुरित्यर्थ. । भाष्ये त्वय योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ॥ परस्मैपदमिति शेषः । रमेरनुदात्तेत्वाद्विधिरयम् । विरमतीति ॥ आरमति, परिरमति , इत्यप्युदाहार्यम् । उपाच्च ॥ उपपूर्वादपि रमेः परस्मैपदमित्यर्थः । उत्तरसूत्रे उपादित्यस्यैवानुवृत्तये व्याङ्पर्युपेभ्यो रमेरिति नोक्तम् । अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम् । तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात् । अतस्सकर्मकमुदाहरति । यज्ञदत्तमुपरमतीति ॥ ननु विरामार्थकत्वात् कथं सकर्मकतेत्यत आह । उपरमयतीत्यर्थः इति ॥ ननु णिजभावात् कथमयमर्थो लभ्यते इत्यत आह । अन्तर्भावितण्यर्थोऽयमिति ॥ धातूनामनेकार्थत्वादिति भावः ।
२७५१ । विभाषाऽकर्मकात् । (१-३-८५)
उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति-उपरमते वा । निवर्तते इत्यर्थः ।
२७५२ । बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । (१-३-८६)
एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । 'णिचश्च' (सू २५६४) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ।
२७५३ । निगरणचलनार्थेभ्यश्च । (१-३-८७)
विभाषाऽकर्मकात् ॥ उपादिति रम इति परस्मैपदमिति चानुवर्तते । तदाह । उपाद्रमेरिति ॥ बुधयुध ॥ बुध युध नश जन इड् प्रु द्रु स्रु एषान्द्वन्द्व । बोधयति पद्ममिति ॥ सूर्य इति शेष । बुधिर्विकसनार्थक । विकसति पद्मम् । तद्विकासयति सूर्य इत्यर्थः । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदन्तु न सिध्द्यति । अणौ पद्मस्य कर्तृतया चित्तवत्कर्तृकत्वाभावात् । योधयति काष्ठानीति ॥ काष्ठानि युध्द्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अणावचित्तवत्कर्तृकत्वात् 'अणावकर्मकात्' इत्यस्य न प्राप्ति. । अत एव योधयाति देवदत्तमिति नोदाहृतम् । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इत्येव सिद्धे. । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति ॥ दुःख नश्यति । तत् नाशयति हरिरित्यर्थः । जनयति सुखमिति ॥ जायते सुखम् । तत् जनयति हरिरित्यर्थः । अध्द्यापयतीति ॥ अधीते वेद. स्वयमेव । तमध्द्यापयतीत्यर्थः । 'प्रु गतौ' इत्यस्योदाहरति । प्रावयतीति ॥ गत्यर्थकत्व मत्वा आह । प्रापयतीत्यर्थः इति ॥ द्रावयतीति ॥ द्रवत्याज्य तत् द्रावयतीत्यर्थ. । धातोर्द्रवीभावार्थकत्व मत्वा आह । विलापयतीत्यर्थः इति ॥ स्रावयतीति ॥ स्रवति जलम् । तत्स्रावयतीत्यर्थः । धातोः स्यन्दनार्थकत्व मत्वा आह । स्यन्दयतीत्यर्थः इति ॥ 'प्रीति भक्तजनस्य यो जनयते' इत्यात्मनेपदन्तु प्रामादिकमेव । यद्वा भक्तजन. हरौ प्रीति जनयत्यात्मविषये तां हरिः जनयते इति ण्यन्ताण्णौ रूपम् । प्रयोज्यकर्तुः शेषत्वविवक्षया भक्तजनस्येति षष्ठीत्याहुः । निगरण ॥ निगरण भक्षणम् । चलनङ्कम्पनम् । एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे प्रद्रुस्रूणाङ्ग्रहणन्तु अचलनार्थानामेव । अत एव मूले प्रापयतीत्यादि व्याख्यात पानमपि भक्षणमेव 'अपोऽश्नाति' इति श्रुतेः । अतएव 'न पादम्याड्यमाड्यस' इति सूत्रे पाग्रहणमर्थवत् । 'न पीयतान्नाम चकोरजिह्वया कथञ्चिदेतन्मुखचन्द्रचन्द्रिका । इमाङ्किमाचामयसे न चक्षुषा चिरञ्चकोरस्य भवन्मुखस्पृशी ॥' इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः तस्याः स्त्री ई: लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य सम्बोधनम् । 'एढ्रस्वात्' इति सम्बुद्धिलोप
निगारयति । आशयति । भोजयति । चलयति । कम्पयति । 'अदे प्रतिषेधः' (वा ९५९) । आदयते देवदत्तेन । 'गतिबुद्धि-' (सू ५४०) इति कर्मत्वम् 'आदिखाद्योर्न' (वा ११०९) इति प्रतिषिद्धम् । 'निगरणचलन-' (सू २७५३) इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषादित्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं वटुना ।
२७५४ । अणावकर्मकाच्चित्तवत्कर्तृकात् । (१-३-८८)
ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ।
२७५५ । न पादभ्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । (१-३-८९)
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृकाकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते ।
इति व्याख्येयमिति प्रौढमनोरमाया स्थितम् । वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनासम्भवादाचामिरादरे लाक्षणिकः । अतो निगरणार्थकत्वाभावान्न परस्मैपदम् । नचैव सति 'प्रत्यवसानार्थकत्वाभावाच्चक्षुषो' 'गतिबुद्धि' इति कर्मत्वन्न स्यादिति शङ्क्यम् । न ह्याचामिरत्र केवले आदरे वर्तते । किन्तु दर्शनपूर्वकादरे वर्तते । सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुध्द्यर्थकत्वादाचामे. चक्षुषोः कर्मत्वन्निर्बाधमित्यादि शब्देन्दुशेखरे प्रपञ्चितम् । अदेः प्रतिषेधः इति ॥ अदेर्ण्यन्तात् निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः । आदयते दवदत्तेनेत्यत्र अदेः प्रत्यवसानार्थत्वात् प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वमाशङ्क्य आह । गतिबुद्धीति ॥ नन्वादयत्यन्न वटुनेति कथम् । निगरणार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह । निगरणचलनेति सूत्रेण प्राप्तस्यैवायन्निषेधः इति ॥ नतु शेषात्कर्तरि इति प्राप्तस्येत्येवकारार्थ । 'अनन्तरस्य' इति न्यायादिति भावः । अणावकर्मकात् ॥ ण्यन्तादिति शेषपूरणम् । णेरित्यनुवृत्तेरिति भावः । अणौ यो धातुरकर्मकः चित्तवत्कर्तृकश्च तस्मात् ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् । व्रीहय शुष्यन्ति तान् शोषयते । अकर्मकात्किम् । कटङ्करोति । त प्रयुङ्क्ते । कटङ्कारयते । न पादभ्याङ्यम् ॥ पा दमि आङ्यम् आङ्यस परिमुह रुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्द्यत्वात् प्राप्तिमुपपादयति । पिबतिर्निगरणार्थः इति ॥ ततश्च 'निगरणचलनार्थेभ्यः' इति प्राप्तिरिति भावः । इतरे इति ॥ दम्यादयः अणौ चित्तवत्कर्तृका अकर्मकाश्चेत्यर्थ. । ततश्च 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति प्राप्तिरिति भावः । नृतिरिति ॥ नृतिश्चलनार्थक. । अणा चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वयेनेति ॥ 'अणावकर्मकात्' इति 'निगरणचलनार्थेभ्यश्च' इति च सूतद्वयेनेत्यर्थः । पाययते इति ॥ 'शाच्छासाह्वाव्यावेषां युक्' इति पुको
दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । 'धेट उपसङ्ख्यानम्' (वा ९६२) । 'धापयेते शिशुमेकं समीची' । अकर्त्रभिप्राये 'शेषात्–' (सू २१५९) इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । 'दमयन्ती कमनीयतामदम्' । भिक्षां वासयति । 'वा क्यष:' (२६६९) लोहितायति-लोहितायते । 'द्युद्भ्यो लुङि' (सू २३४५) । अद्युतत्-अद्योतिष्ट । 'वृद्भ्यः स्यसनोः' (२३४७) वर्त्स्यति । वर्तिष्यते । विवृत्सति । विवर्तिषते । 'लुटि च क्लृपः' (सू २३५१) । कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्स्यति । कल्पिष्यते-कल्प्स्यते । चिक्लृप्सति-चिकल्पिषते-चिक्लृप्सते ।
इति तिङन्तपरस्मैपदप्रकरणम् ।
ऽपवादे युक् । दमयते इति ॥ 'जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वाध्द्रस्वः । ननु दिवादौ दमिस्सकर्मक इत्युक्तम् । अतःकथमिह 'अणावकर्मकात्' इति प्राप्तिरिति चेत् दमेः परस्मैपदनिषेधादेव दमिरकर्मकोऽपि । अतो दमिस्सकर्मक इत्यस्य न विरोधः । आयामयते इति ॥ 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः। वासयते इति ॥ 'वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम् । नतु 'वस आच्छादने' इत्यादादिकस्यापि । तस्य सकर्मकत्वादेवाप्राप्तेः । लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमित्युक्तेश्च । धेट उपसङ्ख्यानमिति ॥ परस्मैपदनिषेधस्येति शेष. । धापयेते शिशुमिति मन्त्रः । ननु 'वत्सान् पाययति पयः' । 'दमयन्ती कमनीयतामदम्' । भिक्षा वासयतीति च कथम् । 'न पादम्याङ्यस’ इति 'धेट' इति च परस्मैपदस्य निषेधादित्यत आह । अकर्त्रभिप्राये इति ॥ 'अनन्तरस्य' इति न्यायेन 'निगरणचलनार्थेभ्यश्च, अणावकर्मकात्' इति सूत्रद्वयप्राप्तस्यैव 'न पादम्याङयमाङ्यस' इति 'धेट उपसङ्ख्यानम्' इति च निषेध इति भावः । 'वा क्यष' इत्यादि प्राग्व्याख्यातमिति सूत्रक्रमेण पुनरुपात्तम् ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां पदव्यवस्था समाप्ता ।
श्रीरस्तु ।
॥ अथ भावकर्मतिङ्प्रकरणम् ॥
अथ भावकर्मणोर्लडादयः । 'भावकर्मणोः' (सू २६७९) इति तङ्---
२७५६ । सार्वधातुके यक् । (३-१-६१)
धातोर्यक्प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना उत्पादना क्रिया । सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते ।
अथ भावकर्मतिङ्प्रकरण निरूप्यते ॥ 'लः कर्मणि' इत्यत्र सकर्मकेभ्यो धातुभ्य. कर्मणि कर्तरि चव । अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिता' । तेषु कर्तरि लकारा निरूपिताः । अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते । अथ भावकर्मणोर्लडादयः इति ॥ निरूप्यन्ते इति शेषः । तत्र 'शेषात्कर्तरि परस्मैपदम्, अनुपराभ्यां कृञः' इत्यादि परस्मैपदविधिषु प्राप्तेष्वाह । भावकर्मणोरिति । तङिति ॥ सार्वधातुके यक् ॥ धातोरिति ॥ 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति ॥ 'चिण्भावकर्मणो.' इत्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिजन्यबोधे प्रकारो भावः । कवेरय भाव इत्यादौ अभिप्रायः । 'भावः पदार्थसत्तायां क्रियाचष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु' इति नानार्थरत्नमाला । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु' इत्यमरः । इह तु 'लः कर्मणि' इत्यत्र भावशब्दो भावनाया यौगिक इत्याह । भावो भावनेति ॥ 'लः कर्मणि' इत्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह । उत्पादनेति ॥ उत्पत्त्यनुकूलो व्यापार इत्यर्थ. । एवञ्च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृध्द्यावादेशयोः भाविशब्दात् 'एरच' इति भावे अचि णिलोपे भावशब्दः भावयतेरुत्पत्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे 'ण्यासश्रन्थो युच्' इति युचि अनादेशे टापि भावनाशब्द इति बोध्द्यम् । उत्पादनाचेय धात्वर्थन्नातिरिच्यते इति दर्शयितुमाह । क्रियेति ॥ धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथाहि फलव्यापारयोर्द्धातुरिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको विक्लित्त्य नुकूलव्यापारः । तत्र विक्लित्त्यशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता । धातूपात्तव्यापाराश्रय. कर्तेति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लित्तिः फलम् । तदाश्रयत्वादोदन कर्म । व्यापारजन्यफलशालि कर्मेति सिद्धान्तात् । एव सकर्मकेषु सर्वत्र ज्ञेयम् । 'एध वृद्धौ' इत्यस्मिन्नकर्मकेऽपि वृध्द्यनुकूलव्यापारो धात्वर्थः । नचैव सति एधते देवदत्त इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारजन्यवृद्धिरूपफलाश्रयत्वाच्च कर्तृत्व कर्मत्वञ्च स्यादिति वाच्यम् । धातूपात्तव्यापारजन्यतद्व्यापारव्यधिकरणफलाश्रयत्व कर्मत्व