सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१)

विकिस्रोतः तः
सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१)
भट्टोजीदीक्षितः
१९११

THE

SIDDHÂNTA KAUMUDÎ

OF

SRI BHATTOJI DEEKSHITA


WITH ŤHE COMMENTARY

SRÎ BÂLAMANÔRAMA

OF

SRI VASUDEVA DEEKSHITA.

UTTARÂRDHAM.

EDITED AND PUBLISHED
BY

S. CHANDRASEKHARA SASTRIGAL,
TEPPAKULAM.


Trichinopoly:

PRINTED BY BR. JOSEPH S.J., SUPDT.,
ST. JOSEPH'S lNDUSTRIAL SCHOOL PRESS.


1911.

श्रीरस्तु


॥ सिध्दान्तकौमुदी ॥

श्रीमभ्दट्टोजिदीक्षितविरचिता


॥ उत्तरार्धम् ॥


श्रीमद्वासुदेवदीक्षितप्रणीतया

श्रीबालमनोरमाख्यया

व्याख्यया समुभ्दासिता ।


त्रिशिर:पुरवास्तव्येन

आदनू र् शं. चन्द्रशेखरशास्त्रिणा

संशोध्य प्रकाशिता


१९११.

[एतद्ग्रन्थस्य मुद्रणाधिकारस्सर्वोऽपि प्रकाशकेन स्वायत्तीकृतः । ]

त्रिशिरःपुरविराजमाने

सैण्ट् जोसप्स् इण्डस्ट्रियल् स्कूल् मुद्रालये मुद्रिता सती

विजयतेतमाम् ।

श्रीरस्तु


॥ उपोघ्दातः ॥

इह खलु निखिलकुवलयवलमानविद्वज्जनप्रथमपरिशीलतानां भाषावधूभावजिघ्राणां वाचां व्याकृतिमन्तरा तनुभृतामसुप्रतरविवरतया प्रथममस्याः परिशीलनमिति सर्वजनीनम् । तत्र च गताः काशिकावृत्तिप्रासादप्रक्रियाकौमुद्यादयो विरलविरलदृष्टाः । अत इदं त्रिमुनितन्त्रमध्यवसातुमध्वानमधिजिगमिषूणामयनमन्तरा सिध्दान्तकौमुद्या न किमपि । तञ्च प्रौढमनोरमाशब्दरत्नशेखरकौस्तुभादिबहुविधकृतिकर्मपरिकर्मितमपि सौलभ्येन तदधिगमनमुपलिप्सूनामनतिप्रौढमनसामतिसुकुमारधियाञ्च अनायासमवबोधयितुमनलम् ॥

अलम्भविष्णू स्त इदानीं सरलतरे तत्वबोधिनीबालमनोरमे एव । ययोः किल प्राचीकटन् प्रथमां प्रवचनलिखितपठितप्रचारितकादिभिः प्रथम एव नः प्रायोगिकाः प्राक्रियिकाः प्रवक्तारश्च । हन्त ! बहुचिराध्युषिततया वृध्दपरिपाटीमाटीकमानामपि तामनन्यामिवानुलालयन्त एव तत्तोऽपि अतिसरलपदन्यासामभिव्यक्तमधुरवागाकूताम् अतिरुचिरवर्णाम् आहितसुविशदप्रक्रियाम् अधिकौमुदि अखिलसहृदयाह्लादिनीमिमां बालमनोरमाम् उत्स्वप्रायितवर्त्मनापि नाधिगमयाञ्चकिरे शिव शिव ! नश्शाब्दिकाः केऽपि । अहह ! कालोऽयमगीर्वाणवाणीविलासीयः, अवसरोऽयमनतिकठिनग्रन्थनिर्मन्थनीयः, आस्थेदानीमधिजिगमिषूणामप्यनायासमापाततः प्रतीतिसाधनीयैवेति । अस्मिन्महत्यवर्णनीये अनिर्वर्णनीये अनाकर्णनीये च दुरवधिनि दुःखतौर्यत्रिके देववाग्देवदारिकायाः प्रक्रियाः क्व, प्रक्रुतयः क्व,धातवः क्व, भावाः क्व, पदव्यवस्थाः क्वेति सर्वतश्शिथिलशिथिलेष्वितिवृत्तेषु, पठितृषु पाठयितृषु

उपोध्दातः ।

परीक्षकेषु प्रतिभूषु च प्रथितमहागिरिगुरुबुध्दिषु प्रायशो महाशयेषु व्याख्योडुपं विना वाचमुत्तरीतुमनलम्भूष्णुषु, वर्णश। पदशो वाक्यशश्र्च व्याख्यानान्यवश्यङ्करणीयानीति भवितव्यतायां च भुवनमनु भावितायां जगदुपकर्तुमना मनोरमेयं बालानामिति स्वनिगदव्याख्यातस्वविभवां बालमनोरमां वासुदेवाध्वरी व्यररचत् । तदियं न केवलमारुरुक्षतामध्वानमाक्षरसमाम्नायिकमाम्रायभाषापदप्रक्रियाणामुपकारिका परमभ्यम्तभाष्यप्रदीपोद्द्योतविवरणमञ्जूपाभूषणसारवाक्यपदीयानामपि परमोपकारिणीति निश्र्चप्रचम ॥

एष च वासुदेवाध्वरी तञ्जौरनगरमहाराष्ट्रमहीपतिमालभारिश्रीशाहजीप्रभृतिपञ्चपुरुषीपोप्यप्रवृत्तिरासीदधिश्रीवशवटारण्यगोविन्दपुराद्याधिकरणमधिनवतिपञ्चवत्सर इति कर्णाकर्णिकया तत्प्रवन्धपरिसमाप्तिपर्याप्तपरिलिप्ततज्ज्ञप्ति साधकतद्विरुदापदानवैखरीमौखरीतश्र्च सुविशदमधिगम्यते । सर्वथाप्येप दक्षिणा हि चिदम्बरादुत्तरा च तञ्जौरादास्त कश्र्चिद्दक्षिणतमो वाग्मी वल्लभश्र्च पदप्रमाणतन्त्रयोः कैस्तहायनीयाष्टादशशतकचरमपादकालिक इति चतुरश्रम । अम्य च ग्रन्थस्य प्रचिचारयिषा परं प्रथितयशसां प्रभूणां प्रौढवचसां प्रकटनपरायणानां पण्डितानाञ्च तत इतश्च मुहुर्मुहुरुदयमस्तमयञ्च लभमाना क्वचिच्छिरोमात्रम् , क्वचिदुरोवधि, क्वचिदुदरान्तं च प्रदर्श्य प्रदर्श्य प्रणाशं प्रणाशं "प्रकटिता बालमनोरमा प्रकटिता बालमनोरमा" इति प्रघोषघण्टमात्रा प्रत्यक्षमध्यैक्ष्यत । तदियङ्कथञ्चिदखिलभुवनालोकनाय ममग्रमधिसन्निधि सन्निधापयितव्येति श्रध्दाय परमहमसमृध्दोपकरणोऽपि बध्दादरमध्दात्र प्रावृनम् । अहो ! बत ! बहोः कालादुपक्रान्तापि सेयं बालमनोरमा पिपीलिकाप्रौढशिखराधिरोहन्यायेन मन्दंमन्दमवसानवचनरचनावसम्पर्चनामधिगेहन्ती सन्तन्तनीति सन्तोषिणम्मामधुनैव संपरिणतफलं सस्यमिव संव्यवसायिनम् । अत्र चेत्थमनुमोमुदति मुदितमनसः मानितपदनयप्रबन्धप्रकटनप्रकियाः मान्यमानाद्यष्टादशाधिकशतप्रबन्धकृतोऽभिनवदवनपुरकुंभघोणाभिजनाः भट्टश्रीबालसरस्वतीनारायणशास्त्रिमहाशयाः ॥ ‌----तद्यथा

न हि शब्दरत्नकौस्तुभशेखरसुभगीकृतापि सा प्रौढा ।
कुरुते कौमुद्यामिह कुतुकं बाला मनोरमैकैव ॥

उपोध्दातः ।

अत्र च एतत्प्रकटनसाह्यकर्तॄणाम् अन्तरान्तरा मातृकाप्रदानलेखावधानप्रकटनाप्रख्यापनादिद्वारा भृशमुपकारिणाम् अनसूयूनाम् अनहंयूनाम् अनशुभंयूनाम् अवदातधियाम् अनुवारम् अनुसन्ध्यम् अयुतशः प्रणामाः प्रतायन्ते प्रह्वशिरोवाङ्भनसेन मया ॥

अत्र च सर्वथा प्राधान्यं वहन्ति त्रिशिरःपुरस्थसैण्ट्जोसफाख्याङ्गलकलामहापाठालये गैर्वाण्यध्यापकपदमधितिष्ठन्तः सारस्वतसारज्ञाः श्रीमन्तः तट्टै वाधूलश्रीनिवाससूरयो महाभागाः । येषां च साहाय्येन मदीयमिदं बालमनोरमामुद्रणं प्रचलति स्मेति सतोषमभिधीयते । महेन्द्रमङ्गलम् आर्यब्रह्मश्रीमत्कृष्णशास्त्रिणां परिशोधनकर्मसहभावमतीव स्मरामि । परमत्र प्रख्यापनपथे सर्वथा समग्रसुव्यक्तलिपिसक्तमनोरमबालमनोरमामातृकाप्रेषकः परमरमणीयगुणाभोगराजमानः प्रसिध्दतञ्जौरनगरनिवासी आर्यश्रीत्यागराजस्वामी सर्वथा न विस्मरणीय इति तन्नाम नस्सौप्रभातिकमिति समञ्जसम् । अंशांशशश्च मातृका असमग्रा व्यक्ताव्यक्ताः खिलाखिला अपि साप्तपदीनेन सह्रुदयह्रुदयसाधारणेन संप्रेष्य यथाशक्ति साह्यं क्रुतवतां कार्यसंसिध्दिञ्च प्रतीक्षितवताम् अनृशंसमनसाम् आत्मवदग्रगण्यानाम् , श्रीचिदम्बरम् आर्यब्रह्मश्रीमद्दण्डपाणिस्वामिदीक्षित , चिदम्बरम् आर्यब्रह्मश्रीमध्दरिहरशास्त्रि , तिरुच्चेन्दुरै आर्यब्रह्मश्रीमदखिलाण्डनारायणदीक्षित, तेरळन्दूर् आर्यब्रह्मश्रीमद्वेदसुब्रह्मण्यशास्त्रि , श्रीनिवासनल्लूर् आर्यब्रह्मश्रीमत्सुन्दरशास्त्रि , नल्लूर् आर्यब्रह्मश्रीमत्कल्याणसुन्दरशास्त्रि , नाञ्जूर् आर्यब्रह्मश्रीमत्कुप्पुस्वामिशास्त्रि , कुम्भघोणं आर्यब्रह्मश्रीमत्सुन्दरशास्त्रिप्रभृतीनाम् अत्यन्तं अध्यन्तरङ्गं अनवरतं अस्मि स्मरन्नधिकमुपकारम् । इमं दुष्करमेतादृशमहाकार्यनिर्वाहं प्रतिज्ञाय यथाप्रतिज्ञातमतीव स्नेहेन अनुरोधेन च निर्वर्तितवतः सैण्ट् जोसफ्स् इण्डस्ट्रियल् स्कूल् मुद्राशालाध्यक्षस्य महानुपकारः स्मरणीयः ॥

अन्ते च पञ्चनदस्थराजकीयसंस्कृतमहाकलाशालाप्रथमपण्डितानामभिनवभट्टबाणशब्दतर्कालङ्कारविद्याभूषणबिरुदभाजां वात्स्यचक्रवर्तिनां श्रीकृष्णमाचार्याणामपि कृदन्तप्रकरणादारभ्य परिशोधनोपकारं नाहं विस्मर्तुं प्रभवामि ॥

उपोध्दातः ।

अयि विद्वन्मणयः अतिविस्तृतैतद्ग्र्न्थमुद्रणस्य प्रथमप्रव्रुत्ततया दाक्षिणात्यानेकमहनीयकोशस्थपाठैः विद्वन्मणिसाहाय्येन यथामति सुरचितेऽपि परिशोधने मानुषमात्नसुलभात् दृष्टिदोषात् प्रमादात् बुध्दिभ्रमाद्वा समुपजातानां स्खलितानां प्रबोधनेनानुगृह्णन्तु सहृदयाः माम् । येनाहं यतिष्ये द्वितीयमुद्रणे तद्विशुध्दये इति सशिरःप्रणाममभ्यर्थये इति सर्वतः शिवम् ॥


त्रिञ्चिनाप्पल्लि,
तेप्पक्कुलम्,
७-८-१९११.,

शं. चन्द्रशेखरशास्त्री,
एडिटर्.

॥ कौमुद्युत्तरार्घगतविषयानुक्रमणिका ।।
प्रकरणम्
पार्श्रम्
 
१. तिडन्तभ्वादिप्रकरणम्
 
२. तिडन्तादादिप्रकरणम्
१८०
 
३. तिडन्तजुहोत्यादिप्रकरणम्
२२०
 
४. तिडन्तदिवादिप्रकरणम्
२३२
 
५. तिडन्तस्वादिप्रकरणम्
२४९
 
६. तिडन्ततुदादिप्रकरणम्
२५५
 
७. तिडन्तरुधादिप्रकरणम्
२६७
 
८. तिडन्ततनादिप्रकरणम्
२७२
 
९. तिडन्तकयादिप्रकरणम्
२७७
 
१०. तिडन्तचुरादिप्रकरणम्
२८४
 
११. तिडन्तणिच्प्रकरणम्
३११
 
१२. तिडन्तसन्प्रकरणम्
३२६
 
१३. तिडन्तयड्प्रकरणम्
३४१
 
१४. तिडन्तयड्लुक्प्रकरणम्
३४९
 
१५. तिडन्तनामधातुप्रकरणम्
३६८
 
१६. तिडन्तकण्ड्वादिप्रकरणम्
३९३
 
१७. तिडन्तप्रत्ययमालाप्रकरणम्
३९५
 
१८. तिडन्तात्मनेपदप्रकरणम्
३९७
 
१९. तिडन्तपरस्मैपदप्रकरणम्
४२४
 
२०. भावकर्मतिड्प्रकरणम्
४२९
 
२१. कर्मकर्तृतिड्प्रकरणम्
४४३
 
२२. लकारार्थप्रकरणम्
४५४
 
२३. कृदन्तकृत्यप्रकरणम्
४७५
 
२४. पूर्वकृदन्तप्रकरणम्
४९५
 

एतत्प्रकरणात्पूर्वमेव लकारार्थप्रक्रियायां ४६३ इत्येतदारभ्य ५८० इत्येतत्पर्यन्तसङ्खयाः

४६३---४८० इति मन्तव्याः ।
१०
कौमुद्युत्तरार्धगतविषयानुक्रमणिका ।
प्रकरणम्
पार्श्वम्
 


२५. उणादयः
५७४
 
२६. उत्तरकृदन्तप्रकरणम्
६६३
 
२७. वैदिकप्रकरणम्
७२१
 
२८. स्वरप्रकरणम्
७३९
 
२९. फिट्सूत्राणि
७४३
 
३०. लिङ्गानुशासनप्रकरणम्
७६७
 
सूचिकाः
 
१. पाणिनीयसूत्रसूचिकाः
७७५
 
२. वार्तिकसूचिकाः
८०२
 
३. परिभाषासूचिकाः
८०७
 
४. उणादिसूत्रसूचिकाः
८०९
 
५. फिट्सूत्रसूचिक्काः
८२०
 
६. धातुसूचिकाः
८२२
 
७. सौत्रधातुसूचिकाः
८५३
 

॥ श्रीगुरुचरणारविन्दाभ्यां नमः ॥

सिध्दान्तकौमुदीसहिता

॥ बालमनोरमा ॥

येनाक्षरसमाम्नायमधिगम्य महेश्र्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ १ ॥
येन धौता गिरः पुंसां विमलैश्शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ २ ॥
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ ३ ॥
श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् ।
तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ ४ ॥

अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये ।
किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये ॥ १ ॥
व्याख्याता बहुभिः प्रौढैरेषा सिध्दान्तकौमुदी ।
वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् ॥ २ ॥

मड्गळादीनि मड्गळमध्दयानि मड्गळान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्द्येतारश्र्च मड्गळयुक्तास्स्युरिति भाष्यप्रमाणक ग्रन्थमध्दये विघ्नविघातादिप्रयोजनाय कृतं मड्गळं शिष्यशिक्षायै ग्रन्थतो निबघ्नाति । श्रौत्रेति ॥ वेदाध्दयेता श्रोत्रियः श्रोत्रियञ्छन्दोऽधीत इति वेदपर्यायात् छन्दश्शब्दात् द्वितीयान्तादधीत इत्यर्थे घन्प्रत्यय. प्रकृतेः श्रोत्रादेशश्र्च निपातितः श्रोत्रियस्य भावः श्रौत्रम् श्रोत्रियस्य यलोपश्चेत्यणि इकारादुत्तरस्य

सिध्दान्तकौमुदीसहिता

पूर्वार्धे कथितास्तुर्यपञ्चमाद्ध्यायवर्तिनः ।
प्रत्यया अथ कथ्यन्ते तृतीयाद्ध्यायगोचराः ॥ ५ ॥

यकाराकारसघातस्य लोपे इकारस्य यस्येतिचेति लोप. । अर्हति आर्यै. प्रशम्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन् । अर्हः प्रशंसायामिति शतृप्रत्ययः । अर्हतो भावः आर्हन्ती अर्हतो नुम् चेति ष्यञि आदिवृध्दौ प्रकृतेर्नुमागमे पिन्वान्डापि हलस्तध्दितस्येति यकारलोपे यस्येतिचेत्यकारलोपः । स्त्रीत्व लोकात् । श्रौतञ्च आर्हन्ती च श्रौत्रार्हन्त्यौ । ताभ्या वित्ताः श्रौत्रार्हन्तीचणाः । तैरिति विप्रहः । तेन वित्तश्चुञ्चुपचणपाविति चणप। वेदाध्द्येतृत्वेन वेदविहितकर्मयोग्यतया च प्रसिध्दैरिति यावत । गुण्यैरिति ॥ नित्यानित्यवस्तुविवेकः, इहामुत्नार्थफलभोगविराग, शमदमादिसम्पत्तिः, मुमुक्षुत्व, इत्यादिप्रशस्तगुणगम्पन्नैरित्यर्थः । रूपादाहतप्रशसयोरिति सूत्रे अन्येभ्योऽपि दृश्यत इति वातिकेन यप प्रत्यय: । तभ्दाष्ये गुण्या ब्राह्मणा इत्युदाहरणात् । महर्षिभिरिति ॥ महान्तश्च तं ॠपयश्चेति कर्मधारयः । आन्महत इत्यात्वम् । अतितपस्विभिरित्यर्थ । अहर्दिवमिति ॥ अहश्च दिवाचेति वीप्सायां अचतुरेत्यादिना द्वन्द्वो निपातित. । अहन्यहनीत्यर्थः । तोष्ट्टय्यमानोऽपीति ॥ ष्टुञ् स्तुतौ, सकर्मक:, गुणवत्त्वेनाभिधान स्तुतिः । अगिवानक्रियानिरूपित कर्मत्वमादाय देवान् स्तौतात्यादौ द्वितीया । न तु गुणाभिधानमेव स्तुति । तथा सति गुणस्य धात्वर्थोपसगृहीतत्वेनाकर्मकत्वापत्ते । धात्वादेष्षस्सX इति षकारम्यX सकारे षत्वनिवृत्तौ धातोरेकाच इति भृशार्थे यडि अकृत्सार्वधातुकयोरिति दीर्घे सन्यटोरिति द्वित्वे शर्पूर्वा. खय इति सकारस्याभ्यासगतस्य लोपे गुणो यङ्लुकोरित्यभ्यासोकारस्य गुणेततः परस्य सस्य आदेशप्रत्यययोरिति पत्वे ष्टुत्वेन तकारस्य टकारे तोष्टृयोनि यडन्तात सनाद्यन्ता इति धातुसज्ञकात् कर्मणि लटश्शानचि आनेमुगिति मुगागमे सार्वधातुके यगिति यकि यडोऽकारस्य अतो लोप इति लोपे तोष्टूय्यमान इति रूपम् । मृशं स्तूयमानोऽपीन्यर्थः । अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृश सङ्कीर्त्यमानोऽपीति यावत् । अगुण इति ॥ निर्गुण इत्यर्थ । साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतेरिति भावः । निर्गुणस्य गुणवत्वेन कथनात्मिका स्तुतिर्विरुध्देत्यापातप्रतिपन्न विरोधमपिशब्दो द्योतयति । गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम् । विभुरिति ॥ सर्वव्यापकः परमेश्र्वर इत्यर्थः । विजयतेतरामिति ॥ जिजये अकर्मकः । उत्कर्पेण वर्तनं जयः । विपराभ्याञ्जेरित्यात्मनेपदम् । तिङश्चेत्यतिशायने तरप् । किमेत्तिङव्ययेति तरबन्तात् स्वार्थे आम्प्रत्ययः । 'तध्दितश्चासर्वविभक्ति' रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम । सर्वोत्कर्षेण वर्तत इत्यर्थः । न च विजयत इति समुदायस्यातिडन्तत्वात् कथन्ततस्तरबिति वाच्यम् । वि इति हि भिन्नं पदम् । तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् । ततश्च जयत इत्यस्मादेव तरप् । न च जयत इत्यस्य विपराभ्याञ्जेरिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्य शङ्क्यम् । वीत्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षत्वाभाबात् तिङन्तस्य प्रधानतया तस्य विशब्दापेक्षत्वेऽपि बाधकाभावाच्चेत्यलम् ॥

वृत्तकथनपूर्वक वर्तिष्यमाणनिरूपण प्रतिजानीते । पूर्वार्ध इति ॥ तुर्यश्चतुर्थः । चतुर-

बालमनोरमा
॥ अथ तिङन्तभ्वादिप्रकरणम् ।

तत्रादौ दश लकाराः प्रदर्श्यन्ते । लट् । लिट् । लुट् । ॡट् ।
लेट् । लोट् । लङ् । लिङ् । लुङ् । ऌङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ।
'

२१५१ । वर्तमाने लट् । (३-२-१२३)

वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ।

२१५२ । लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६९)

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ।

श्छयतावाद्यक्षरलोपश्चेति चतुरशब्दद्यत्प्रत्यय । प्रकृतेश्र्चकाराकारसघातलोपश्च । पूर्वार्धे चतुर्थ पञ्चमाद्ध्यायवर्तिन प्रत्यया कथिता इत्यन्वय । स्पृशोऽनुदके क्विन्नित्यादितार्तीयीककतिपयप्रत्ययोपन्यासस्तु प्रासङ्गिक इति भाव । अथेति ॥ चतुर्थपञ्चमाद्ध्यायवर्तिप्रत्ययनिरूपणानन्तर तृतीयाद्ध्यायगोचरा प्रत्ययाः कथ्यन्त इत्यन्वय । तृनीयाद्ध्यायस्य गोचराः प्रतिपाद्यतया विषयाः तृतीयाद्ध्यायविहिता इति यावत् । कृत्सु णच स्त्रियामञित्यादितद्धितव्युत्पादनन्तु प्रासङ्गिकमिति भावः ॥२॥

तत्रेति ॥ निधीरनसप्तम्यन्तान्त्रल। तेषु तृतीयाद्ध्यायवर्तिप्रत्ययेष्वित्यर्थः । दशेति ॥ अनुबन्धभेदाल्ल्लकारभेद इति भाव । पञ्चम इति ॥ लेडित्यर्थः । छन्दोमात्रेति ॥ लिडर्थे लेडित्यत्र छन्दसि लुङ्लङ्लिट् ; इति पूर्वसूत्रात् छन्दसीत्यनुवृत्तेरिति भावः । एतेन लेड्रूपाणि इह कुतो न प्रदर्श्यन्त इति शङ्का निरस्ता । वर्तमान इति ॥ धातोरिति सूत्रमातृतीयाध्द्यायसमाप्तेरधिकृतम् । वर्तमान इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाध्दातोः लडिति लभ्यते । फलितमाह । वर्तमानक्रियावृत्तेरिति ॥ धात्वर्थक्रियाया वर्तमानत्वन्तु अतीतानागतभिन्नकालवृत्तित्वम् । कालस्य तु वर्तमानत्व अतीतानागतभिन्नकालत्वम् । भूतभविष्यतोः प्रतिद्वन्द्वो वर्तमानः काल इति भाष्यम् । वर्तमानत्वञ्च न प्रत्ययार्थभूतकतर्त्रादिविशेषणम् । अतीतपाकादिक्रिये कर्तरि पचति इत्याद्यापत्तेः । किन्तु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट् तु तस्य द्योतक एव । अटाविताविति ॥ न च अकार उच्चारणार्थ एवास्त्विति वाच्यम् । लिडादिवैलक्षण्याय तस्यावश्यकत्वात् । तथाच तस्य इत्सज्ञा विना निवृत्युपायाभावात् इत्सज्ञैवादर्तव्येति भावः । लः कर्मणीति ॥ वाक्यद्वयमिदसूत्रम् । लः कर्मणि चेति प्रथमं वाक्यम् । ल इति प्रथमाबहुवचनान्त । चकारेण कर्तरि कृदित्यतः कर्तरीत्यनुकृष्यते ।धातोरित्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोस्स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम् । अकर्मकेषु कर्मणीत्यस्य बाधि-

[भ्वादि
सिध्दान्तकौमुदीसहिता
२१५३ । लस्य । (३-४-७७)

अधिकारोऽयम् ।

२१५४ । तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । (३-४-७८)
 

एतेऽष्टदश लादेशाः स्युः ।

२१५५ । लः परस्मैपदम् । (१-४-९९)

लादेशाः परस्मैपदसंज्ञाः स्युः ।

२१५६ । तङानावात्मनेपदम् । (१-४-१००)

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ।

तत्वात् । तदाह । लकारास्सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युरिति ॥ एवञ्च सकर्मकेभ्यो भावे लकारा न भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तु देवदत्तेन घट क्रियत इत्यादो भावलकारेण कर्मणोऽनभिहितत्वात् द्वितीया स्यादिति भावः । भावे चाकर्मकेभ्य इति द्वितीयं वाक्यम् । अत्रापि चकारेण कर्तैवानुकृष्यते । न तु कर्म । असम्भवात् । तदाह । अकर्मकेभ्यो भावे कर्तरिचेति ॥ अत्राकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन देवदत्तेन भुज्यत इत्यत्र सतोऽप्योदनरूपकर्मणः अविवक्षाया भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः । लस्येति ॥ धातोरित्यधिकृतम् । अकारो न विवक्षितः । तेन लिङादानामपि सग्रहः । चूडाल इत्यादौ च नातिप्रसङ्गः । तिप्तसिति ॥ तिप्, तम्, झि, सिप्, थम्, थ, मिप, वस, मस्, त, आताम्, झ, थास, आथाम्, ध्वम्, इट, वहि, महिङ् । एषां समाहारद्वन्द्वात् प्रथमैकवचनम् । लस्येति स्थानषष्ठ्यन्तमधिकृतम् । तेन आदेश इति लभ्यते । फलितमाह । एत इति ॥ तसादौ रुत्वाभाव आर्षः । तिबादौ पकारानुबन्धप्रयोजनन्तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति डित्वनिवृत्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति । ल इति ॥ ल इति स्थानषष्ठी । आदेश इत्यद्ध्याहार्यम् । तदाह । लादेशा इति । तङिति ॥ तङ्च आनश्चेति द्वन्द्वः । प्रत्याहार इति ॥ त आतामिति तशब्दमारभ्य महिडिति डकारेणेति शेषः । तदाह । तादिनवकमिति ॥ इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनप्रहणेन शानच् कानचावेव गृह्येते । न तु ताच्छील्यवयोवचनशक्तिषु चानशिति बिहितश्चानशपि । तस्य लादेशत्वाभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्द्यति । निघ्नाना इत्यादौ । तदाह । शानच् कानचौ चेति । एतत्संशा इति ॥ आत्मनेपदसज्ञाका

इत्यर्थहः । पूर्वसंज्ञेति ॥ परस्मैपदसज्ञापवाद इत्यर्थः । एवञ्च तिबादिनवके परस्मैपदसज्ञा
प्रकरणम्]
बालमनोरमा
२१५७ । अनुदात्तङित आत्मनेपदम् । (१-३-१२)

अनुदात्तेत उपदेशे योङित्तदन्ताच्च धातोर्लस्य स्थान आत्मनेपदं स्यात् ।

२१५८ । स्वरितञितः कर्त्रभिप्राये क्रियाफले । (१-३-७८)

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ।

२१५९ । शेषात्कर्तरि परस्मैपदम् । (१-३-७९)

आत्मनेपदनिमित्तहीनाध्दातोः कर्तरि परस्मैपदं स्यात् ।

पर्यवस्यति । अथ कस्माध्दातो. परस्मैपदम् कस्मादात्मनेपदमित्याकाक्षायामाह । अनुदात्तेति ॥ अनुदात्तश्च ड्च अनुदात्तडौ । तावितौ यस्य सः अनुदात्तडित् । तस्मात् अनुदात्तडितः । द्वन्द्वान्ते श्रूयमाण इच्छब्द प्रत्येक सम्बद्ध्यते । अनुदात्तेत: डितश्चेति लभ्यते । उपदेशेऽजनुनासिक इदित्यस्मात् मण्डूकालुत्या उपदेश इत्यनुवृत्तम् डित इत्यनेन सम्बध्यते । नत्वनुदात्त इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्सज्ञाया अप्रसक्तत्वेनाव्यभिचारात् । भूवादयो धातव इत्यस्मान्मण्डूकप्लुत्या धातव इत्यनुवृत्तम् पञ्चम्या विपरिणतम् अनुदात्तेता डिता च विशेष्यते । तत्रानुदात्तेदशे तदन्तविधेः प्रयोजनाभावात् डिदशे तदन्तविधि. । तदाह । अनुदात्तेत इत्यादिना । लस्यस्थान इति ॥ आत्मनेपदग्रहणलभ्यमिदम् । तिडां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र गाङ्कुटादिभ्य इति सन आतिदेशिकमेव डित्वम् । नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्र णिश्रीति चडन्तान्नात्मनेपदम् । डिदशे तदन्तविद्ध्यभावे तु बोभूयत इत्यादौ सनाद्यन्ता इति धातुसज्ञकात् यडन्तादात्मनेपदं न स्यात् । डित इत्येवोक्तौ तु यडो डित्वेऽपि तदन्तस्य धातोर्डित्वाभावादात्मनेपद न स्यात् । स्वरितञित इति ॥ स्वरितश्च ञ् च स्वरितञौ तौ इतौ यस्य तस्मादिति बहुव्रीहि । इच्छब्द. प्रत्येक सम्बध्यते । तदाह । स्वरितेतो ञितश्र्चेति ॥ धातोरित्यनन्तर लस्य स्थान इति शेषः । कर्तारमभिप्रौति गच्छ्तीति कर्त्रभिप्रायम् । कर्मण्यण् । तदाह । कर्तृगामिनीति ॥ एवञ्च होता याज्यया यजतीत्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाभावात् नात्मनेपदम् । तथा वेतनेन यज्ञदत्तभृतोदेवदत्तः पचतीत्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् । लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिः तस्यैवात्र कियाफलशब्देन विवक्षितत्वात् । कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थ । आत्मनेपदन्तु धात्वर्थफलस्य कर्तृगामित्व द्योतयतीत्यलम् । शेषात्कर्तरीति ॥ अनुदात्तडित इति स्वरितञित इति चोक्तात् आत्मनेपद विषयादन्यश्शेषः । तदाह । आत्मनेपदनिमित्तहीनादिति ॥ अनेन भूधातोः कर्तरि लस्य परस्मैपद सिध्दम् । तत्र तिबादिनवके युगपत् पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्ते

युष्मद्युपपदे समानाधिकरणे स्थनिन्यपि मद्ध्यमः । अस्मद्युत्तमः । शेषे प्रथमः । इति व्यवस्थां
६]
[भ्वादि
सिद्धान्तकौमुदीसहिता
२१६० । तिङस्त्रीणि प्रथममद्ध्यXमोत्तमाः । (१-४-१०१)

तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ।

२१६१ । तान्येकवचनद्विवचनबहुवचनान्यकेशः । (१-४-१०२)

लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ।

२१६२ । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मह्यमः । (१-४-१०५)

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्द्यमः स्यात् ।

२१६३ । प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । (१-४-१०६)

वक्ष्यन् प्रथमादिसज्ञा तावदाह । तिङस्त्रीणीति ॥ तिड पट बिका. मज्ञास्तु तिस्त्र इति यथासख्यासम्भवादेकैकस्य त्रिकस्य तिसृघु सज्ञासु प्राप्तस्वाह । तिङ उभयोः पदयोरिति ॥ ल परस्मैपदमित्यतः परस्मैपदमिति तडानावात्मनेपदमित्यत आत्मनेपदमिति चानुवृत्तम पष्ट्यन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येक वयस्त्रिकास्मन्तीनि यथासख्यम्प्रथमादिसज्ञाः प्रवर्तन्त इति भाव । प्रथमादिषु पुरुषसज्ञा तु प्राचीनाचार्यशास्त्रसिध्देति वोद्ध्यम् । अथ प्रथमादिपुरुषेषु एकैकस्मिन् पुरुषे प्रत्ययत्रिकात्मके युगपत् पर्यायेण वा एकैकप्रत्यये प्राप्ते ह्येकयोर्द्विवचनैकवचने । बहुषु बहुवचनमिति व्यवम्थार्थमेकवचनादिसंज्ञामाह । तानीति ॥ तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममद्ध्यमोत्तमाख्याXनि तिङस्त्रीणि त्रीणि पगमृश्यन्ते । तदाह । लब्धप्रथमादिसंज्ञानीति ॥ एकश इत्यस्य विवरण प्रत्येकमिति । सग्व्यैXकवचनाज्ञ वीप्सायामिति शसिति भाव. । युष्मदीति ॥ उपोञ्चारितम्पदमुपपदम् । युष्मदि रामापोच्चाXरिते सताभूतलकारेण विवक्षितम् । लः परस्मैपदमित्यतस्तदनुवृत्तेः । तथा च फलितमाह । तिङXवाच्यकारकवाचिनि युष्मदीति ॥ स्थान प्रसङ्गः अस्यास्तीति स्यानी तस्मिन् प्रसक्ते सतीत्यर्थः । प्रसङ्गश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव पर्यवस्यति । तथा च स्थानिनीत्यनेन उपपदभXते युष्मादि प्रयोग विना स्वार्थम्बोधयति सतीत्यर्थः पर्यवस्यति । तदाह । अप्रयुज्यमान इति ॥ स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मद्ध्यमस्स्यात् । ततश्च राम पाहीत्यादौ अव्याप्तिस्स्यात्। अपिना लब्धमाह । प्रयुज्यमानेऽपीति ॥ युष्मद्युपपदे स्थानिनीत्येवोक्तौ रामत्व पाहीत्यादौ युष्मत्प्रयोगे मद्ध्यमो न स्यात् । अतोऽपिग्रहणमिति भावः । अत्वं त्व सम्पद्यत इत्यत्र तु न मध्द्यमपुरुष. । तत्र युष्मच्छब्दस्य गौणत्वात् । भवानागच्छतीत्यादौ भवच्छब्दयोगे तु न मध्द्यमपुरुषः । युष्मच्छब्दस्य सम्बोद्ध्यैकविषयत्वात् । भवच्छब्दस्य तु स्वभावेन सम्बोद्ध्यासम्बोद्ध्यसाधारणत्वादित्यलम् । प्रहास इति ॥ वाक्यद्वयमिदं सूत्रम् । प्रहासे च मन्योपपदे इति प्रथमं वाक्यम् ।

मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरणः उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलात्
प्रकरणम्]
बालमनोरमा ।

मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मद्धयमः स्यात्परिहासे गम्यमाने । मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ।

२१६४ । अस्मद्युत्तमः । (१-४-१०७)

तथाभूतऽस्मद्युत्तमः स्यात् ।

२१६५ । शेषे प्रथमः । (१-४-१०८)

मद्ध्यमोत्तमयोरविषये प्रथमः स्यात् । * भू १ सत्तायाम्' । कर्तृविवक्षायां भू ति इति स्थिते ।

२१६६ । तिङ्शित्सार्वधातुकम् । (३-४-११३)

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ।

२१६७ । कर्तरि शप् । (३-१-६८)

कत्रैर्थे सार्वधातुके परे धातोः शप्स्यात् । शपावितौ ।


धाताविति विशेष्य लभ्यते । तदाह । मन्यधातुरित्यादिना । तस्मिन् प्रकृतिभूते सतीति ॥ तस्माद्धातोर्लस्य स्थाने इत्यर्थ.। मद्ध्यमस्स्यादिति ॥ अस्मद्युपपद इति शेषः । अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः। एवञ्च उत्तमपुरुषापवादोऽयमद्धयमविधि. । मन्यतेरुत्तम एकवच्चेति द्वितीयं वाक्यम्। तद्याXचष्टे । मन्यतेस्तूत्तमस्स्यादिति ॥ युष्मद्युपपद इति शेष । पूर्वसूत्रात्तदनुवृत्ते. । सचेति ॥ सः मन्यतेरुत्तमपुरुष. द्वित्वबहुत्वयोरपि एकवचन लभत इत्यर्थः । मद्ध्यमोत्तमयोर्व्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति । अस्मद्युत्तम इति । तथाभूत इति॥ तिड्वाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमानेचेत्यर्थ.। शेष इति॥ उक्तान्मद्ध्यमोत्तमविषयादन्यश्शेषः । तदाह। मद्ध्यमोत्तमयोराविषय इति । त्वम् अहश्च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव । न तु मद्ध्यम. । देवदत्तस्त्वञ्च पचथ इत्यत्रापि न प्रथमपुरुषः । युष्मदस्सत्वेन शेषत्वाभावादित्यलम् । भूसत्तायामिति ॥ वर्तत इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्र भू इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः न क्रिया । तथापि आत्मधारण सत्तेत्युच्यते । खरूपेणावस्थानमिति यावत् । कर्तृविवक्षायामिति ॥ वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति भूति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः । तत्र सार्वधातुककार्ये वक्ष्यन् सार्वधातुकसज्ञामाह्। तिङ्शिदिति॥ धातोरित्यधिकृतम् । तदाह। धात्वधिकारोक्ता इति॥ तेन हरीनित्यत्र शसस्सार्वधातुकत्व न । अन्यथा तिङ्शित्सार्वधातुकमिति शसस्सार्वधातुकत्वात् सार्वधातुकमपिदिति ङित्वे घेर्डितीति गुणः स्यात् । कर्तरीति॥ सार्वधातुके यागित्यस्मात् सार्वधा-

[भ्वादि
बालमनोरमा

२१६८ । सार्वधातुकार्धधातुकयोः । (७-३-८४)

अनयोः परयोरिहाङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ।

२१६९ । झोऽन्तः । (७-१-३)

प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । ‘ अतो गुणे’ (१९१) । भवन्ति । भवसि । भवथः भवथ ।

२१७० । अतो दीर्घो यञि। (७-३-१०१)

अतोऽङ्गस्य दीर्घः स्याद्यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ।

तुक इत्यनुवर्तते । धातोरेकाचो हलादेरित्यस्माद्धातोरिति । तदाह । कर्त्रर्थ इत्यादिना॥ तिडि परे धातोर्विहिताना प्रत्ययाना शबादीनां विकरणसज्ञा प्राचीनाचार्यसिद्धा। शापाविताविति॥ शकारपकारौ लशक्वतद्धित इति हलन्त्यमिति चेत्सज्ञकावित्यर्थः । ततश्च शपि शकारपकारये: लोपे अकारमात्र शिष्यत इत्यर्थः। भू अ ति इति स्थिते । सार्वधातुक इति ॥ इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितेन अङ्गस्येत्यधिकृत विशेष्यते । तदन्तविधिः । मिदेर्गुण इन्यस्मात् गुण इत्यनुवर्तते तदाह । अनयोरित्यादिना ॥ तथा च ऊकारस्य गुणः ओाकारः । अवादेश इति ॥ ओाकारम्येति शेषः । तथा च परिनिष्ठित रूपमाह । भवतीति । भवत इति ॥ कर्तृद्वित्वविवक्षायां भू धातोर्लटः तसादेशे शपि गुणे अवादेशे सकारस्य रुत्वविसर्गाविति भावः । कर्तृबहुत्वविवक्षायां भूधातोर्लटः झि इत्यादेशे शपि गुणे अवादेशे च कृते । झोन्त इति ॥ झः अन्तः इति छेदः । झ इति षष्ट्यन्तम् । आदेशे तकारात् अकार उच्चारणार्थः । आयनेयी इति सूत्रात् प्रत्ययग्रहणमनुवर्तते । नन्वादिग्रहणमपि । अस्वरितत्वात् । अनुवृत्त च प्रत्ययग्रहणमवयवषष्ठयन्तमाश्रियते । तदाह । प्रत्ययावगवस्येति । झस्य झकारस्येत्यर्थः। अन्तादेशः स्यादिति ॥ अन्त इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुगृत्तौ तु शयान्तै इति न सिद्धयति । अन्तादेशान्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटिकृते झकारस्य प्रत्ययादित्वाभावात् इति भाष्ये स्पष्टम् । एवञ्च भव झि इत्यत्र झकारस्य अन्त इत्यादेशे भव अन्ति इति स्थिते अतो गुण इति द्वयोरकारयोस्सवर्णदीर्घापवादे पररूपे कृते भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाकारोच्चारणन्तु लुग्विकरणे द्विषन्तीत्यादौ अकारश्रवणार्थंम् । भवसीति ॥ मद्ध्यमपुरुषैकवचने सिपि शपि गुणे अवादेशे रूपम् । भवथ इति ॥ मध्यमपुरुषद्विवचने थसि शपि गुणे अवादेशे रुत्वविसर्गयोश्च रूपम् । न विभक्तौ तु स्मा इति सस्य नेत्वम् | भवथेति ॥ मद्ध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम्। उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भवामि इति स्थिते। अतो दीर्घ इति ॥ अङ्गस्येत्यधिकृतम् अता विशेष्यते । तदन्तविधिः। तुरुस्तुशम्यम इत्यतस्सार्वधातुक इत्यनुवृत्तम् यञाविशेष्यते । तदादि विधिः । तदाह । अदन्तस्येत्यादिना ।

प्रकरणम्]
बालमनोरमा


अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्य ओदनं भोक्ष्यस इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे। भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे। भोक्ष्यामहे। मन्यसे। मन्येथे। मन्यध्वे । इत्यादिरर्थः। ‘युष्मद्युपपदे’ (२१६२) इत्याद्यनुवर्तते तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्य इति । भुक्तः सोऽतिथिभिः । ‘प्रहासे’ किम्। यथार्थकथने मा भूत्। एहि मन्यस ओदनं भोक्ष्य इति भुक्तः सोऽतिथिभिरित्यादि ।

२१७१ । परोक्षे लिट् । (३-२-११५)

भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ।

२१७२ । लिट् च । (३-४-११५)


भवामीति ॥ न च भूधातोर्विहितलादेश प्रति भूधातुरेवाङ्गम् । न तु भवेति विकरणान्तमिति वाच्यम्। यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गमित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावो, भवाम इति ॥ लस्य वसि मसि च शपि गुणे अवादेशे अतो दीर्घे रुत्वे विसर्गे च रूपे । न विभक्ताविति सस्य नेत्वम्। अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्ता स्मारयितुमाह। स भवतीत्यादि ॥ अथ प्रहासे चेति सूत्रस्योदाहरति । एहीति ॥ सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातर प्रति परिहासाय प्रवृत्तमिद वाक्यम् । भो जामात , एहि आगच्छ, ओदन, भोक्ष्य, इति त्वम्मन्यसे, नैतद्युक्तमित्यर्थः । कुत इत्यत आह । भुक्तस्सोऽतिथिभिरिति ॥ स ओदनः अतिथिभिर्भक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मद्ध्यमः पुरुषः । मन्यतेस्तु मद्ध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । एतं, एतवेति ॥ हे जामातरौ आगच्छतम्। ओदन भोक्ष्यावह इति मन्येथे इत्यर्थः । भो जामातरः ओदनं भोक्ष्यामह इति मन्यध्वे इति चोभयत्रापि भुजेरुत्तमे प्राप्ते मद्ध्यमः । मन्यतेस्तु मद्ध्यमे प्राप्ते उत्तमः । द्वित्वबहुत्वयोरेकवचनञ्च । इत्यादीति ॥ एहि एत एतवा मन्ये जल पास्यावः पास्याम इत्यादि सग्रहः । मन्ये इत्युत्तमपुरुषैकवचनान्तम् व्याचष्टे मन्यस इत्यादिना । अनुवर्तत इति ॥ प्रहासेचेति सूत्र इति शेषः । एतु भवानिति ॥ युष्मद्भवतोः पर्यायत्वाभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ॥ परोक्षे लिडिति । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । भूते इत्यधिकृतम् । परोक्षत्व धात्वर्थविशेषणम् । तदाह । भूतानद्यतनेत्यादिना ॥ अतीतरात्रेरन्त्यामेन आगामिरात्रेराद्ययामेन सहितो दिवसः अद्यतन इति लुड्सूत्रभाष्ये कैय्यटे च स्थितम् । परोक्षत्वन्तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । Xड्यहवृत्तत्वं त्रयहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वामितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वमित्येव सर्वसम्मतमित्यलम्॥ लस्य तिबादय इंति ॥ तिबादिनवकमित्यर्थः। लिट्चेति॥ लिडिति लुप्त-

१०
[भ्वादि
सिध्दान्तकौमुदीसहिता


लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ।

२१७३ । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । (३-४-८२)

लिटस्तिबादीनां नवानां णलादयो नव स्युः । ‘भू’ ‘अ’ इति स्थिते ।

२१७४ । भुवो वुग्लुङ्लिटोः । (६-४-८८)

भुवो वुगागमः स्यान् । लुङ्लिटोरचि। नित्यत्वाद् वुग्गुणवृद्धी बाधते ।

२१७५ । एकाचो द्वे प्रथमस्य । (६-१-१)

२१७६ । अजादेर्द्धितीयस्य । (६-१-२)

इत्याधिकृत्य

स्थानषष्ट्यन्तम् । निडशित्सार्वधातुकमित्यस्मात् तिडित्यनुवर्तते । आर्धधानुक शेष इत्यस्मादार्धधातुकमिति । तदाह । लडादेशस्तिङिति ॥ एकसज्ञाधिकारवहिर्भूतत्वात सार्वधातुकसज्ञाया अपि समावेशे प्राप्त आह । आर्धधातुकसंज्ञ एवेति ॥ लडश्शाकटायनस्यैवेति सूत्रादेवकारानुवृत्तेरिति भाव: । तेनेति ॥ सार्वधानुकन्वाभावेन तन्निमित्ता शपश्यनादयेा न भवन्तीत्यर्थः । परस्मैपदानामिति ॥ लिटस्तअयोरित्यस्मात् लिट इत्यनुवृत्तिमभिप्रेत्याह । लिटस्तिबादीनामिति ॥ णलादय इति ॥ णल, अतुम , उस , थल , अथुस् , अ, णल, व, म, इत्येत नव यथासग्व्य स्युरित्यर्थः । तत्र तिपो णल सर्वादेशः । न च णकारलकाम्योश्चुट् इति हलन्त्यमिति च इन्सज्ञकत्वाल्लोपे कथमनेकाल्त्वमिति वान्यम् । सर्वदेशत्वात्प्राकणलः प्रत्ययत्वाभावेन चुट इत्यस्याप्रवृत्तेः । णिन्वन्तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्व तु लित्स्वरार्थम् । ननु मद्ध्यमपुरुषबहुवचनथस्य विधीयमानः अकार: अलोन्त्यस्येत्यन्त्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासख्यापादनार्थ इति चेत् । सत्यम् । द्वयोरकारयो पररूपेण अ इति सूत्रनिर्देशादनेकाल्त्वात् सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात् पूर्वं विभक्तित्वाभावेन न विभक्ताविति निषेधाभावात् सकारस्येत्वन्दुर्वारमिति वाच्यम् । सकारादुपरि सकारान्तरस्य सयोगान्तलोपेन लुप्ततया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाभावादित्यलम् । भुवोवुगिति । अचीति ॥ आचिश्नुधान्वित्यतंस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वान् बुकं बाधित्वा अचोञ्णितीति वृद्धिस्स्यात् । बभूविथेत्यत्र तु सार्वधातुकार्धधातुकयोरिति गुणस्स्यादित्यत आह । नित्यत्वादिति ॥ कृतयोरपि गुणवृध्योरेकदेशविकृतन्यायान् बुक प्रवर्तते । अकृतयोरपि प्रवर्तते । ततश्च कृताकृतप्रसङ्गी यो विधिस्सनित्य इति न्यायेन बुक गुणवृद्धी बाधत इत्यर्थः । बुकि ककार इत् उकार उच्चारणार्थः । कित्वादन्तावयवः। भूव् अ इति स्थिते । एकाच इति। अजादेरिति। इत्यधिकृत्येति ॥ षष्ठाद्ध्यायारम्भे द्वे इमे सूत्रे । ते च न विधायके । अतिप्रसङ्गात् । किन्तु

प्रकरणम्]
११
बालमनोरमा ।


२१७७ । लिटेि धातोरनभ्यासस्य । (६-१-८)

लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । ‘भूव्’ ‘भूव्’ ‘अ’ इति स्थिते।

२१७८ । पूर्वोऽभ्यासः । (६-१-४)


ष्यडस्सम्प्रसारणामित्यतः प्राक् अनुवर्त्येते एवेति भाव । लिटि धातोरिति ॥ एकाचो द्वे प्रथमस्येत्यधिकृतम्। धातोरित्यवयवषष्ठी। तदाह । धात्ववयवस्यति ॥ एकाच इति प्रथमस्येति च धात्ववयवस्य विशेषणम् । एक अच् यस्येति तद्गुणसविज्ञानो बहुव्रीहिः । तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थ । एकाच इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् । अजादेर्द्वितीयस्येत्यायधिकृतम् । तत्राच्चासावादिश्च अजादि तस्मादिति कर्मधारयात् पञ्चमी । तदाह । आदिभूतादच परस्य तु द्वितीयस्येति । एकाच इति शेप । अजादिधात्ववयवस्य एकाचश्चेत् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् । न तु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाच प्रथमस्येति कृद्योगलक्षणषष्ठीश्चाश्रित्य द्विः प्रयोग एवात्र विधीयते । न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् । आदेशप्रत्ययोरिति सूत्रभाष्येऽपि द्वि प्रयोगपक्ष एवोक्त । तादिह विस्तरभयान्नलिखितम् । प्रपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्व द्वितीयत्वञ्च व्यपदेशिवत्वेन वोद्ध्यम् । अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति तमिच्छति इन्दिन्द्रीयिषतीत्यादौ नन्द्रास्सयेोगादय इति दकारस्य द्वित्वानिषेधश्च स्यात् । तत्राजादेरियनुवृत्ते । धातोरिति किम् । तदभावे हि लिटि परे यः प्रथमः एकाच तस्य द्वे इत्यर्थ स्यात् । एव सति पपाचेत्यादावेव स्यात् | न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौ लिटि धातोरिति द्वित्वे कृते लक्ष्ये लक्षणस्येति न्यायेन पुनर्द्वित्वस्याप्रसक्तेरनभ्यासग्रहण व्यर्थमिति वाच्यम् । यडन्तात् सन्यडोरिति यड्निमित्तकद्वित्वविशिष्टात् सनि सन्निभित्तकद्वित्वनिवृत्तये सन्नन्तात् सन्यडोरिति कृतद्वित्वाण्णिचि लुडेि चडि कृते चडीति द्वित्वनिवृत्तये चानभ्यासग्रहणस्यावश्यकत्वात् । भाष्ये तु कृष्णो नोनाव वृषभो यदीदमित्यादौ नुधातोयैडन्तात् सन्यडोरिति कृतद्वित्वात् नोनूय इत्यस्मात् लिटि कास्प्रत्ययादाममन्त्रे लिटीति मन्त्रपर्युदासादामभावे यस्य हल इति यकारलोपे अतो लोपे तिपो णलि वृद्धावावादेशे नोनावेत्यत्र लिटि धातोरिति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्या अनभ्यासग्रहणमनर्थकम् । छन्दसि वा वचनादित्युक्तम् । यडन्तात् सनि सन्नन्ताणिचि चड् लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् । प्रकृते च भूव् अ इत्यत्र चत्वार एकाच । तत्र भू इति प्रथमः । ऊव्इ इति द्वितीय । ऊ इति व्यपदेशिवद्भावेन तृतीयैकाच् । भूव् इति समुदायस्तु चतुर्थः । तत्र समुदाये द्विरुच्यमाने सर्वे अवयवाः द्विरुच्यन्त इति भूव् इति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टम् । तदाह । भूव् भूञ्X अ इति स्थित इति ॥ अत्र भूव् इत्यस्य एकाचः धात्ववयवत्वं प्रथमत्वञ्च व्यपदेशिवत्वाद्वोष्यम् । पूर्व इति ॥ अत्रेति ॥ एकाचो द्वे प्रथमस्येति

१२
[भ्वादि
सिध्दान्तकौमुदीसहिता


अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ।

२१७९ । हलादिः शेषः । (७-४-६०)

अभ्यासस्यादिर्हल्शिप्यतेऽन्ये हलो लुप्यन्ते । इति वलोपः ।

२१८० । ह्रस्वः । (७-४-५९)

अभ्यासस्याचो ह्रस्वः स्यात् ।

२१८१ । भवतेरः । (७-४-७३)

भवतरभ्यासोवकारस्य ‘अ:’ स्याल्लिटि ।

२१८२ । अभ्यासे चर्च । (८-४-५४)

अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः, । खयां चरः । तत्रापि प्रकृतेिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेकः । आन्तरतम्यान् ।


षाष्ठद्वित्वप्रकरण इत्यर्थः । तेन सर्वस्य द्वे इत्यादिविहितस्य द्वित्वस्य न सग्रहX । कस्य पूर्व इत्याकांक्षायां द्वे इत्यनुवृत्त षष्ठ्या विपरिणत सम्बद्ध्यते । तदाह । ये द्वे विहिते तयोरिति । हलादिरिति ॥ अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः कर्मणि घञ् | शिषधातुरितरनिवृत्तिपूर्वकावस्थितौ |तदाह । अभ्यासस्येत्यादिना। इति वलोप इति ॥ भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः । भू भूव अ इति स्थिते । ह्रस्व इति ॥ अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् । तदाह । अभ्यासस्याच इति ॥ भू भूव अ इति स्थितम् । यद्यपि भवतेर इति वक्ष्यमाणाकारविधिनैव सिद्धमिदम् । तथापि लुलावेत्याद्यर्थमावश्यकमिदम् अत्रैव न्याय्यत्वादुपन्यस्तम्। भवतेतर इति ॥ भवतेः अ इति छेदः भवतेरिति श्निपा निर्देशः । भूधातोरित्यर्थः। इक्श्तिपौX धातुनिर्देशे इत्युक्तेः । अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते । व्यथो लिटि दीर्घ इत्यस्मात् लिटीति भूधातोरभ्यासस्य भवन्नकार: अलोन्त्यस्येत्यन्त्यस्योकारस्य भवति । तदाह । अभ्यासोकारस्येति ॥ नानर्थकेऽलोन्यविधिरिति तु नेह प्रवर्तते । अनभ्यासविकार इत्युक्तेः । भ भू व् अ इति स्थिते । अभ्यासे इति ॥ झलाञ्जश्झशीत्यस्मात् झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह । अभ्यामे झलामित्यादिना ॥ झलश्चतुर्विंशतिः । तत्र शापसाः शरः । तेषामभ्यागे लोपो वक्ष्यते । शर्पूर्वाः खय इति हकारस्य त्वभ्यासे कुहोश्चुरिति श्चुत्व वक्ष्यते । एवञ्च झलषु अयो विशतिरिहाभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मद्ध्ये कस्य चरः कस्य जशः इत्याकांक्षायामाहX । झशां जश इति ॥ वर्गाणान्तृतीयचतुर्थी झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनः तत्तद्वर्ग्या आदेशा इत्यपि बोद्ध्यम् । खयाञ्चर इति ॥ वर्गाणां प्रथमद्वितीयाः

प्रकरणम्]
१३
बालमनोरमा

२१८३ । असिद्धवदत्राभात् । (६-४-२२)

इत ऊर्ध्वमापादपारिसमाप्तेराभीयम् समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ।

खयः तेषां चर चटतकपा इत्यर्थः । अत्रापि यद्यद्वर्ग्या स्थानिन तत्तद्वर्ग्या आदेशा इत्यपि बोद्ध्यम् । तत्रापीति ॥ तेष्वपि वर्ग्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एव सन्तस्तत्तद्वर्ग्या आदेशास्स्यु । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वर्ग्या आदेशास्स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इय व्यवस्थेत्यत आह । आन्तरतम्यादिति ॥ झशां जशाञ्च घोषसवारनादप्रयत्नसाम्यम् । खया चराश्च श्वासाघोषाविवारप्रयत्नसाम्यम् । तत्तद्वर्ग्याणां तत्तद्वर्ग्या आदेशा इत्यत्र तु स्थानसाम्यन्नियामक बोद्ध्यम् । तथा च प्रकृते अभ्यासभकारस्य बकारे सति बभूव् अ इति स्थिते अचिश्नुधात्वित्युवडादेशमाशङ्कितुमाह । असिद्धवदिति ॥ षष्ठस्य चतुर्थपादे इदं सूत्रम्। श्नान्नलोप इति सूत्रात् पूर्व पठितम्। आभादित्यभिविधावाड् भस्येत्याधिकारमभिव्यायेत्यर्थ । भाधिकारश्च आपादपरिसमाप्तेरिति सिद्धान्तः । तथा च आपादपरिसमाप्तेरिति लभ्यते । विहित कार्यमिति शेष । किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादेवसूत्रादूर्द्ध्वमिति लभ्यते । ततश्च श्नान्नलोप इत्यारभ्यापादसमाप्ते विहित यदाभीय कार्य तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्त भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र श्नान्नलोप इत्यादै प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते । एवञ्च श्नान्नलोप इत्यादिनXत्तदाभीय कार्यं श्रान्नलोप इत्याद्याभीये कार्ये कर्तव्ये असिद्धवादित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेनत्वसिद्धीभवत कार्यस्य यन्निमित्त तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्ये कर्तव्ये सतीति लभ्यते । एतत्सर्व भाष्ये स्थितम् । तदाह ।इत ऊर्द्ध्वमित्यादिना । तस्मिन्निति ॥ आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहारणम् । अत्र ध्वसोरेद्धावभ्यासलोपश्चेत्यस्तेरेत्वस्य शाहाविति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वात् हुझल्भ्योहेर्धिरिति हेर्धित्वमाभीय प्रवर्तते । तथा जघहीत्याद्यायुदाहरणम् । हनधातोर्यड्लुगन्तात् लोण्मध्यमपुरुषैकवचने सिपो हिभावे अनुदात्तोपदेशेति नलोपस्याभीयस्यासिद्धत्वादतोहेरित्याभीयो लुड्न भवति । समानाश्रय इति किम्। पपुष इत्यत्र पाधातोर्लिटः क्वसौ लिटिधातेरिति द्वित्वे अभ्यासह्रस्वे क्वस्वन्तात् द्वितीयाबहुवचने शसि वसोस्सम्प्रसारणमाभीयमातोलोप इटि चेत्याल्लोपे आभीये कर्तव्ये असिद्धन्न भवति । आल्लोपः क्वसौ, सम्प्रसारणन्तु शसीति भिन्नाश्रयत्वात् । आभीये कर्तव्ये इति किम् । अभाजि राग इत्यत्र भञ्जेश्चिाणि रञ्जेर्घञि च कृते । रजेश्च, घञि च भावकरणयोरिति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायान्नासिद्धत्वम्। आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्र बहोर्लोपो भूच बहोरिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये आसिद्धत्वन्न स्यात् । भस्येति सूत्रादूर्ध्वभावित्वादित्यलम् । इति वुकोऽसिद्धत्वादिति ॥ वुक आभीयस्य अचि श्नुधात्वि

१४
[भ्वादि
सिध्दान्तकौमुदीसहिता

वुग्युटावुवड्यणोः सिद्धौ वक्तव्यौ । बभूव । बभूवतुः।बभूवुः।

२१८४ । आर्धधातुकस्येड्वलादेः । (७-२-३५)

वलादेरार्धधातुकस्येडागमः स्यान् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ।

२१८ ५ । अनद्यतने लुट् । (३-३-१५)

भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ।

२१८६ । स्यतासी लृलुटोः । (३-१-३३)

‘लृ’ इति लङ्लटोर्ग्रहणम् । धातोः स्यतासी एतौ प्रत्ययौ स्तो लृल्लुटो: परतः । शबाद्यपदवादः ।


त्युवडि आभीये कर्तव्ये असिद्धतया ऊकारस्योवडि लघूपधगुणे बभोवेतिX प्राप्ते सतात्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भाव । वुग्युटावुवङ्यणोगिति ॥ यथासXव्यमन्वयः । अतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति ॥ झेरुसादेशे वुगादि पूर्ववत् । सिपस्थलि बभू थ इति स्थिते । आर्धधातुकस्येति ॥ नेड्वशिकृतीत्यस्मादनुबृत्यैव सिद्धेरिहेइग्रहणन्नकार्यमिति नेड्वशाति सूत्रभाष्ये प्रत्याग्व्यातम् । आर्धधातुकस्येति किम् । जुगुग्सति । अत्र गुप्तिज किद्भयः इति सनो धातोरित्यधिकृत्य विहतत्वाभावान्नार्धधातुकत्व । बभूविथेति ॥ सिपस्थलि तस्य इडागमे बुगादि पूर्ववत् । बभूवथुरिति । थसः अथुसाXदेशे वुगादि पूर्ववत् । सकारस्य रुत्वाविसर्गौ । बभूवेति ॥ मद्ध्यमपुरुषबहुवचनस्य अकारस्सर्वादेश इति परस्मैपदानां णलतुसित्यत्रोक्तम्। वुगादि पूर्ववत् । बभूवेति ॥ मिपो णलि वुगादि पूर्ववत् । बभूविवेति ॥वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्र श्र्युकः कितीतीडागमनिषेधश्शङ्क्यः । कृसृभृवृस्तुद्रुस्रुश्रुवो लिटाति क्र्यादिनियमादिटसिद्धेः । बभूविमेति ॥ मसो मादेशे इडागमे बुगादि पूर्ववत् ॥ इनि लिट्प्रक्रिया ॥ अनद्यतन इति ॥ धातोरित्याधिकृतम् । भविष्यति गम्यादयः इत्यतः भविष्यतांXत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति । तदाह । भविष्यत्यनद्यतन इति ॥ अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्यारव्यातः । उटावितौ । लुटस्तिबादयः । भू ति इति स्थिते कर्तरि शबिति शपि प्राप्ते । स्यतासी इति॥ स्यश्च तासिश्चेति द्वन्द्वान् प्रथमाद्विवचनम्। तासेरिकार उच्चारणार्थः । लृ लुट् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । ग्रहणमिति ॥ लृस्वरूपस्योभयत्राविशि-

प्रकरणम्]
१५
बालमनोरमा ।


२१८७ । आर्धधातुकं शेषः । (३-४-११४)

तिङशिद्भ्योऽन्यो धात्वधिकारोक्तः प्रत्यय एतत्संज्ञः स्यात् । इट् ।

२१८८ । लुटः प्रथमस्य डारौरसः । ( २-४-८५

‘डा’ ‘रौ’ ‘रस्’ एते क्रमात्स्युः । [डित्वसामर्त्यादभस्यापि टेर्लोपः ।

२१८९ । पुगान्तलघूपधस्य च । (७-३-८६)

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि । वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । ‘भवित्’ ‘आ’ अत्रेको गुणे प्राप्ते ।


ष्टत्वादिति भावः। धातोरित्यधिकृत तदाह। धातोरेिति ॥ भू तास् ति इति स्थिते। आर्धधातुकमिति ॥ तिङ्शित्सार्वधातुकामति पूर्वसूत्रोपात्ततिड्शिदन्यश्शेषः तदाह । तिङ्शिद्भ्योऽन्य इति । विहित इति ॥ धातोरित्यधिकृतम् विहितविशेषणमाश्रीयत इति भावः । एवञ्च जुगुग्सतीत्यादौ गुप्तिज् किद्भ्य इत्यादि विहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आर्धधातुकत्वाभावादिडागमो न भवति । एतत्संज्ञस्यादिति ॥ आर्धधातुकसज्ञक इत्यर्थः । इडिति ॥ ताम् प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादेरितीडागम इत्यर्थः । भू इ तास् ति इति स्थिते । ऊकारस्य गुणे अवादेशे च भविता स् इति स्थिते । लुटः प्रथमस्येति ॥ डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम्। लुट इति स्थानषष्ठी। लुडादेशस्य प्रथमपुरुषस्यत्यर्थः। क्रमादिति ॥ यथासख्यलभ्यम्। ननु परस्मैपदस्य त्रयः प्रथमाः आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट् आदेशास्तु त्रय इति कथं यथासख्यमिति चेन्न । डाच रौच रस् चेति कृतद्वन्द्वाना डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन चुटू इत्यस्याप्रवृत्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वाच्चुटू इति टकारस्येत्सज्ञेति भाष्ये स्पष्टम् । एवच भू ता स आ इति स्थिते प्रक्रिया दर्शयति । डित्वसामर्थ्यादिति ॥ डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तभूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः । तथाच भवित् आ इति स्थिते । पुगन्तेति ॥ मिदेर्गुण इत्यतः गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतमवयवषष्ठ्यन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तम् । लघ्वी उपधा यस्य तल्लघूपधम् । पुगन्तञ्च लघूपधश्चेति समाहारद्वन्द्वात् षष्ठी । इको गुणवृद्धी इति परिभाषया इक इत्युपस्थित स्थानषष्ठ्यन्तमाश्रीयते । तदाह । पुगन्तस्येत्यादिना । अंगस्येक इति ॥ अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टा इत्याद्युदाहरणम् । नन्वत्राङ्गावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण

१६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२१९० । दीधीवेवीटाम् । (१-१-६)

दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ।

२१९१ । तासस्त्योर्लोपः । (७-४-५०)

तासेरस्तश्च लोपः स्यात्सादैौ प्रत्यये परे ।

२१९२ । रि च । (७-४-५१)

रादौ प्रत्यये प्राग्वत् । भवितारौ । भावितारः । भवितासि । भवितास्थः । भवि


इत्यत आह । येन नेति ॥ येन स्थान्युत्तरवर्णेन परनिमित्तस्य नाव्यवधान व्यवधानं अवर्जनीयामिति यावत् । तेन वर्णेन व्यवहितेऽपि परनिमित्त कार्यं भवतीत्यर्थः । कुत इत्यत आह । वचनप्रामाण्यादिति ॥ तथाविधवर्णव्यवधाने कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्यहीको गुणो विधीयते । उपधात्वञ्चान्त्यादलः पूर्वस्यैव भवति । तनश्चेक उपर्यन्त्यस्य वर्णस्याभावे इक उपधात्वाभावाल्लघूपधस्याङ्गस्य गुणविधान निर्विपयमेव स्यात् । अतस्तह्यXवधान सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्यभ्युपगमे भिनत्तिX न्छिनत्तीत्यादी इकारस्यापि गुणस्यादित्यत आह । तेनेति ॥ अवर्जनीयव्यवधानस्यैवाश्रXयणेनत्यर्थः । उपधात्वस्यैकमेव वर्णमुपारितनमादाय सम्भवादनेकवर्णव्यवधान नादर्नव्यामिति भावः । गुणे प्राप्ते इति ॥ भविन् आ इति स्थिते डाभावसम्पन्नम्याकारस्य स्थानिवत्वेन सार्वधातुकतया तस्मिन् परे भवित् इत्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थ । न च भूधातोर्विहित सार्वधातुक प्रति भूधातुरेवाङ्गत्वात्। न तु भवित्X इति विकरणविशिष्टमिति वाच्यम्। अङ्गसज्ञारम्मे तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । दीधीव इति ॥ दीधीइ दीप्तिदवनयेाः । वेवीड् वेतिना तुल्ये। दीधिश्च वेवीश्च इट्चेति द्वन्द्वात् षष्ठी। इको गृणवृद्धी इत्यतो गृणवृद्धी इति । न धातुलोप इत्यतो नेतेि चानुवर्तते । तदाह । दीधीवेव्योरित्यादिना ॥ अथ प्रथमपुरुषद्विवचने तसि परे शबपवादे तासि इडागमे ऊकारस्य गुणे अवादेशे तसो रौभावे भवितास् रौ इति स्थिते रिचेति सकारस्य लोपं वक्ष्यन् तत्रानुवृत्तिप्रतिपत्तये तत्पूर्वसूत्रमुपन्यस्यति । तासस्त्योरिति ॥ तास्चास्तिश्चेति द्वन्द्वात् षष्ठी । सस्यार्धधातुक इत्यतोऽनुवृत्तेन सीति सप्तम्यन्तेनाधिकृताङ्गाक्षिप्तप्रत्ययस्य विशेषणात् तदादिविधिः । तदाह । तासेरित्यादि ॥ अस्तेरिति श्निपा निर्देशः । अस् धातोरित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य लोपः। भवितासीत्यनुपदमेवोदाहरण वक्ष्यते । रिचेति ॥ तासस्योर्लोप इति सूत्र अस्ति वर्जमनुवर्तते। रीत्यनेनाङ्गाक्षिप्तप्रत्ययस्य विशेषणात्तदादिविधिः । तदाह । रादाविति । प्राग्वदिति ॥ तासेर्लोप इत्यर्थः । अस्तिस्तु नानुवर्तते । ततो रादिप्रत्ययस्यासम्भवात् । आर्धधातुके तस्य भूभावविधानात् । एवञ्च भवितास् रावित्यत्र सलोपे सति रूपमाह । भविताराविति । भवितार इति ॥ झौ तासि इडागमे ऊकारस्य गुणे अवादेशे झेः रस् इत्यादेशे तासस्सकारस्य लोपे रसस्सकारस्य रुत्वविसर्गाविति भावः ।

प्रकरणम्]
१७
बालमनोरमा ।

तास्थ । भवितास्मि । भवितास्व: । भवितास्मः ।

२१९३ । लृट् शेषे च । (३-३-१३)

भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्य इद । भविष्यति । भविष्यत: । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ।

२१९४ । लोट् च । (३-३-१६२)

विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ।

२१९५ । आशिषि लिङ्लोटौ । (३-३-१७३)

२१९६ । एरुः । (३-४-८६)


भवितासिति ॥ सिपि तासि इडागमे ऊकारस्य गुणे अवादेशे तासस्त्योरिति सकारस्य लोप इति भावः । भावितास्थ इति ॥ थसि तासि इडागमे गुणे अवादेशे थसः सस्य रुत्वविसर्गविति भावः । भवितास्थेति । बहुवचने थे तासि इटेि गुणावादेशौ । भवितास्मीति ॥ मिपि तामि इटेि गुणावादेशौ । भवितास्व इति ॥ वसि तासि इटि गुणे अवादेशे रुत्वविमर्गौ । एव मसि भवितास्म इति रूपम् । इति लुट्प्रक्रिया॥ लृडिति ॥ धातोरित्यधिकृतम् । भविष्यति गम्यादयः इत्यतो भविष्यतीत्यनुवृत्तम् धात्वर्थेऽन्वेति । तदाह । भविष्यदर्थाद्धातोः लृट् स्यादिति ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति पूर्वसूत्रे क्रियार्थायां क्रियायामित्यर्थनिर्देशः स्थितः ततोऽन्यश्शेषः क्रियार्थायां क्रियाया असत्यामिति लभ्यते । चकारात् क्रियार्थाया क्रियाया सत्यामित्यपि लभ्यते । तदाह । क्रियार्थयां क्रियायां असल्यां सत्याञ्चेति ॥ ननु लृट् इत्येव सूत्रमस्तु । शेषे चेति मास्तु । भविष्यदर्थाद्धातोः लट् इत्येतावतैव क्रियार्थायां क्रियायां असल्या सत्याञ्च लृटो लाभ इति चेत् मैवम् । ‘शयिष्यत इति स्थीयत’ इत्यादौ भावकर्त्रौ: तुमुन् ण्वुल्भ्यां लृटो बाधाभावार्थत्वात् । न च वासरूपविधिना तत्सिद्धिश्शङ्क्या । क्तल्ल्युट् तुमुन् खलर्थेषु वा सरूपविधिर्नास्तीति तन्निषेधादित्यास्तां तावत् । स्य इडिति ॥ लृटस्तिपि स्यतासी लृलुटोरिति स्यप्रत्ययः । तस्य वलाद्यार्धधातुकत्वात् इडागम इत्यर्थः । भविष्यतीति स्य प्रत्ययस्य इटेि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वात् सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादै भविष्यत इत्याद्यप्येव योज्यम्। भविष्यामीत्यादौ अतो दीर्घो यञीति दीर्घः ॥ इति लृट् प्रक्रिया ॥ लोट्चेति ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु इत्यनुवर्तते । तदाह । विध्यादिष्विति ॥ विथ्यादिशब्दा अनुपदमेव लिड्विधौ व्याख्यास्यन्ते । आशिषीति ॥ आशिष्यपीत्यर्थः । आशासनमाशीः इष्टप्राप्तीच्छा । लोटस्तिपि विशेषमाह । एरुरिति॥X

१८
[भ्वादि
सिध्दान्तकौमुदीसहिता

लोट इकारस्य उः स्यात् । भवतु ।

२१९७ । तुह्योस्तातङ्ङाशिष्यन्यतरम्याम्। (७-१-३५)

आशिषि तुह्योस्तातङ्वा स्यात् । अनेनकाल्त्वात्सर्वादेशः । यद्यपि ‘ङिच्च (४३) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्विप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समवलत्वान । भवतान् ।


उ: इति च्छेदः । एरिति षष्ठ्यन्तम् । इवर्णस्येति लभ्यते । लोटे लङ्वदित्यतोX लोट् इल्यनुवर्तते । तदाह । लोट इति । भवात्विनि ॥ निपि शपि गुणे अवादेशे निप इकारX उकार । अथाशिपि लोटो विशेषXमाह । तुह्योरिति ॥ तुश्च टिXश्र तुहीX तयोरिति विग्रहः । नानाडिX डकार इतX । अकार उच्चारणार्थः । नादित्यादेशश्शिष्यते । ननु किमस्य अनेकालत्वात्सर्वा देशता उत डित्वादन्तादेशतेत्यत आह । अनेकाल्त्वात् सर्वादेश इति ॥ ननु डिच्चेत्यस्यX सर्वदिशापवादतया अनडादेरिव तातडोऽग्यन्त्यादेशत्वमेवोचितभित्याशङ्कते । यद्यपि ङिच्चेत्ययमपवाद इति ॥ परिहरति । तथापीति ॥ परेण वाच्यतेX इत्यन्वयः । तातटादेशे मुत्तरोत्तर वलीय इति पारापेक्षया अपवादस्य प्रबलत्वात् डिच्चेत्यन्तादेशत्वमेव तातटि युक्तमित्यत आह । तातङि मन्थरं प्रवृत्त इति ॥ डिच्चेति विधिरिति शेषः । तातद्द्विXषये डिच्चेति विधिर्मन्थरम्प्रवृत्त इति हेतो परेण सर्वादेशाविाधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वभित्यत आह । अनन्यार्थेत्यादिना ॥ अन्तादेशत्वादन्योऽर्थो यस्य ङित्वस्य न विद्यतेतदनन्यार्थम् । तथाविध डित्वं येषोन्तेषु अनडादिषु डिच्चेति विधिः चरितार्थः । लब्ध्रप्रयोजनक इति कृत्वा मन्दम्प्रवृत्त इत्यर्थः । तातडो डित्वन्तु अन्तादेशत्वापेक्षया अनन्यार्थे नेत्याह |सम्भवत्प्रयोजनङकारे इति ॥ सम्भवन्ति प्रयोजनानि अन्यानि यस्य सः सम्भवत्प्रयोजनः । तथाविधः डकारः यस्य तथाविधे तातडीत्यर्थः । कथ सम्भवत्प्रयोजनकत्वमित्यत्र आह । गुणवृद्धिप्रतिपेधसम्प्रसारणाद्यर्थतयेति ॥ द्विष्टादित्यादौ लघूपधादिगुणनिषेधः । स्तुतात् युतादित्यादावुतोवृद्धिर्लृकि हलीति विहिताया वृध्देर्निषेधः । वशकान्तौ उष्ट्रादित्यत्र ग्रहिज्यावयीति सम्प्रसारणम् । आदिना ब्रूतादित्यत्र ब्रुव ईडितीटोऽभावस्य संग्रहः । ननु तातङXविषये डिच्चेति विधिर्मन्दम्प्रवर्तताम् । अथापि परनित्यान्तरङ्गाXपवादानामुत्तगेत्तर बलीय इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन डिच्चेत्यनेन बाध एवोचित इत्यत आह । इहेति ॥ इह तातड्विषये अनेकालशित्सर्वस्येति सामान्यशास्त्रस्य डिच्चेति विशेषशास्त्रस्य च समबलत्वात् । सामान्यशास्त्र विशेषशास्त्रेण न बाध्यतX इत्यर्थः । अय भावः । अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च डिच्चेतिX विधिः अनङादिङित्वमन्तादेशत्वैकप्रयोजनकम् । प्रयोजनान्तरविरहेण निरवकाशत्वात् । अटिति परिगृहणन् कृतार्थतामनुभवन् तातङो ङित्वम् प्रयोजनान्तरसत्वेन सावकाशत्वादुपेक्षन इति ।

प्रकरणम्]
१९
बालमनोरमा ।


२१९८ । लोटो लङ्वत । (३-४-८५)

लोटो लङ इव कार्ये स्यात् । तेन तामादयः सलोपश्च । तथा हि ।

२१९९ । तस्थस्थमिपां तांतंतामः । (३-४-१० १)

ङिन्तश्चतुर्णामेपां तामादयः क्रमात्स्युः ।

२२०० । नित्यं ङितः । (३-४-९९ )

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् । । ‘अलोऽन्त्यस्य’ (४२) इति सस्य लोपः । भवताम् । भवन्तु ।

२२०११ । सेर्ह्यपिच्च । (३-४-८७)


तदुक्त भाष्ये । डित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातड् सर्वादेश इत्यभिधाय विस्तरभिया विरम्यते । भवतादिति ॥ आशिषि लोटस्तिपि शपि गुणे अवादेशे उकार तोस्तातड् सर्वादेश । डकारइत् । द्वितीयतकारादकारउच्चारणार्थ । लोटो लङ्वदिति ॥ लड इव लङ्वत् । तत्र तस्येवेति षष्ठ्यन्ताद्वति । तदाह । लोटो लङ इवेति ॥ ननु तर्हि लुड लड् लृड्क्ष्वडुदात्त इत्यडागमोऽपि स्यादित्यत आह । तेनेति ॥ लड इति स्थानषष्ठ्यन्तात् वतिप्रत्ययाश्रयणेनेत्यर्थ । अडागमस्तु न लडो विधीयते । किन्तु लडि अङ्गस्येति भावः । केन तामादयः । केन वा सलोप इत्यत आह । तथाहीति ॥ तामादयस्सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः । तस्थ इति ॥ तस् थस् थ मिप् , एषा द्वन्द्वात् षष्ठीबहुवचनम् । ताम् तम् त अम्, एषा द्वन्द्वात् प्रथमाबहुवचनम् । नित्य डित इत्यस्मात् डित इत्यनुवर्तते । तदाह । ङिन्तश्चतुर्णामिति ॥ डितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति ॥ यथासख्यसूत्रलभ्यमिदम् । नित्यड्ङित इति ॥ उत्तमपुरुषएवास्य सूत्रस्य प्रयोजन । प्रसङ्गादिहोपन्यस्तम् । स उत्तमस्येति सूत्रमनुवर्तते । तत्र स इति षष्ठ्यन्तम् । तेन उत्तमो विशेष्यते । तदन्तविधिः । इतश्च लोप इत्यतो लोप इत्यनुवर्तते । तदाह । सकारान्तस्य ङिदुत्तमस्येति ॥ डितो लकारस्य य आदेशः उत्तमपुरुषः तस्येत्यर्थः । वैतोन्यत्रेत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । अलोऽन्त्यस्येत्यन्त्यलोपः। भवतामिति ॥ लोटस्तस् । तस्य तामादेशः । शप् गुणावादेशौ। न च तामादेशस्य सर्वादेशत्वात् प्राक् विभक्तित्वाभावान्न विभक्तौ तु स्मा इति निषेधाभावात् मकारस्येत्संज्ञा शंक्या । सयोगान्तलोपेन मकारान्तरप्रश्लेषेण उपदेशेऽन्त्यत्वाभावात् । भवन्त्विति ॥ लोटो झेः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयो पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणावादेशयोः भव सि इति स्थिते । सेर्ह्यीति ॥ हि इति लुप्तप्रथमाकम् । लोटो लड्वदित्यतो लोट इत्यनुवर्तते । तदाह ।

२०
[भ्वादि
सिध्दान्तकौमुदीसहिता

लोट: सेर्हिः स्यात्सोऽपिञ्च ।

१२०२ । अतो हेः । (६-४-१०५)

अतः परस्य हेर्लुक्स्यात् । भव-भवतात् । भवतम् । भवत ।

२२०३ । मेर्निः । (३-४-८९)

२२०४ । आडुत्तमस्य पिच्च । (३-४-९२)

लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ।

२२०५ । अनद्यतने लङ् । (३-२-१११)

लोटस्सेरिति । स्तुहीत्यादौ सिप् स्थानिकस्य हेः पित्वात् सार्वधातुकमपिदिति डिद्वत्वाभावात् । गुणे प्राप्ते अपिद्वचनम् एवञ्च डिद्वत्वान् क्डितिचेति गुणो न । सेर्हि ङिञ्चेत्येन तु न सूत्रितम् । पिनस्सिप अनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि इति स्थिते । अतो हेरिति ॥ अत इनि पञ्चमी । हेरिति षष्ठी । चिणो लुगित्यतो लुगित्यनुवर्तते । तदाह । अतः परस्येति । भवेति ॥ हिविधानन्तु स्तुहीत्याद्यर्थामिति भावः । भवतादिति ॥ आशिषि लोट: सिपि तस्य सेर्ह्यपिच्चेति हिभावे शपि गुणावादेशयोः अतो हेरिति लुकम्परन्वात् बाधित्वा तुह्योरिति पक्षे तातडिति भावः । भवतमिति ॥ थसि शपि गुणे अवादेशे च भव थस इति स्थिते लोटो लड्वदिति लङ्वत्वात्तस्थस्थमिपामिति थसः तमादेशे रूपम् । एव । भवतेति ॥ थस्य तादेश इति विशेषः । लोटो मिपि शपि गुणे अवादेशे मिपः तस्थस्थमिपामित्यसादेशे प्रामे। मेर्निरिति ॥ लोटो लड्वदित्यतः लोट इत्यनुवर्तते । तदाह । लोटो मेरिति ॥ भव नि इति स्थिते। आडुत्तमस्येति ॥ लोटो लड्वदित्यतः लोट इत्यनुवर्तते। तदाह। लोडुत्तमस्येति ॥ स्तवानि स्तवावेत्यादौ सार्वधातुकमपिादति डित्वनिवृत्यर्थम् पिद्ववचनं । यद्यपि मिप्स्थानिकस्य नेः पित्वात्तदागमस्यापि सिद्धं पित्व तथापि वसमसोराडागमस्याडित्वार्थम् पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र एरुरित्युत्वं कुतो न स्यादित्यत आह । हिन्योरुत्वन्नेतेि ।सामर्थ्यादिति ॥ अन्यथा हुनु इत्येव विदद्ध्यादिति भावः । भवानीति ॥ आडागमे सवर्णदीर्घः नचात्र लड्वद्भावादितश्चेति लोपश्शङ्क्यः । इकारोच्चारणसामर्थ्यात् । अन्यथा मोन इन्येव विदध्यात् । एवं हेरपि बोध्यं । यद्यपि भवानीत्यादावतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमाविधिः व्यर्थः । तथाऽपि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् । भवावेति ॥ लोटो वसु गुणावादेशौ आडागमः सवर्णदीर्घः । लड्वद्भावात् नित्यं ङित इति सकारलोपः । एवं ममिX भवामेति रूप । इति लोट प्रक्रिया ॥ अनद्यतन इति ॥ धातोरिति भूत

प्रकरणम्]
२१
बालमनोरमा ।

अनद्यतनभूतर्थवृत्तेर्धातोर्लङ्स्यात् ।

२२०६ । लुङ्लङ्लृङ्क्ष्वडुदात्तः (६-४-७१)

एषु परेष्वङ्गस्याडागमः स्यात् सचोदात्तः |

२२०७ । इतश्च (३-४-१००)

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्यलोपः स्यात्। अभवत् । अभवताम् । अभवन् । अभवः । अभवतम्। अभवत । अभवम्। अभवाव । अभवाम ।

२२०८ । विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् । (३-३-१६१)

एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणम्, भृत्यादेर्निकृष्टस्य इति चाधिकृतम् । भूत इति धात्वर्थे अन्वेति । तदाह अनद्यतनभतार्थवृत्तेरिति ॥ लुङ्लाङिति ॥ अङ्गस्येल्यधिकृतम् । तदाह । एषु परेषु अंगास्येति ॥ अन्तरङ्गत्वात् नित्यत्वात्परत्वाच्च यथायथ तिपि शपि विकरणे गुणे अवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः । लावस्थायामेवाडागम इति तु पक्षान्तर भाष्ये स्थितम् । इतश्चेति ॥ लस्येत्याधिकृतम् । इतश्च लोप परस्मैपदेष्वित्यस्मात् लोप इति परस्मैपदेष्विति चानुवर्तते । परस्मैपदेष्वित्येतत् षष्ठ्या विपरिणम्यते । तदाह । डितो लस्येत्यादिना ॥ अलोऽन्त्यस्येत्यन्यस्य लोपः । तदाह । अभवदिति । अभवतामिति ॥ लङ्स्तसः तामादेशः शप् गुणावादेशौ अट् । अभवन्निति ॥ झेरन्तादेशः । शप गुणावादेशौ। अट् इतश्चेति इकारलोपः । तकारस्य सयोगान्तलोपः । अभव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ । अभवतमिति ॥ थसस्तमादेशः । शप गुणावादेशै अट् । अभवतेति ॥ थस्य तादेशे शपि गुणे अवादेशे अटि । अभवमिति ॥ मिप अमादेशे शपि गुणे अवादेशे पूर्वरूपम् । अभवावेति ॥ वसि शपि गुणावादेशौ। अट् अतो दीर्घो यञीति दीर्घः । नित्यड्डित इति सकारलोपः । एव मसि अभवामेति रूपम् । इति लड् प्रक्रिया ॥ विधिनिमन्त्रणेति ॥ ननु विध्यादयो हि न लिडो वाच्याः । लः कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच लः कर्मणि चेति शास्र लिड्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यम् । तथा सति यजेतेत्यादौ कर्तृवाचकत्वाभावेन शबाद्यनापत्तेरित्यत आह । द्योत्येष्विति ॥ ल. कर्मणि चेति सूत्रं सामान्याविषयश्चेदपि विधिनिमन्त्रणेति विशेषशात्रेण न बाध्यते । अविरोधात् । तथाच विध्यादिविशिष्टकर्त्रादिषु लिडिति फलतीति मत्वाह । वाच्येषु वेति ॥ पक्षद्वयमपीद भाष्ये स्थितम् । विधिः प्रेरणमिति भाष्यम्। अर्थतस्सगृह्णाति । विधिः प्रेरणमिति ॥

ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनरुक्तयमित्यतो व्याचष्टे । भृत्यादेर्निकृष्टस्य प्रवर्तनामिति । तद्यथा भृत्य खाXमी वदति । भवान् वस्त्र क्षाळयेदिति । आमन्त्रणात् भेद दर्शयितु
२२
[भ्वादि
सिध्दान्तकौमुदीसहिता


प्रवर्तनम् । निमन्त्रणं नियोगाकरणम् । आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वकोव्यापारः । ‘प्रवःर्तनायां लिङ् ’ इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ।

२२०९ । यासुट् परस्मैपदेपूदात्तां ङिच्च । ( ३-४-१०३)

लिङः परस्मैपदानां यासुडागमस्म्यात्स चोदात्तो ड़िञ्च । ङित्वोक्तेज्ञायतेX क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेधः’ इनि । श्रादेशस्य शानचाश्शिात्वमपीह लिङ्गम् ।

निमन्त्रणशब्द व्याचष्टे । निमन्त्रणं नियोगकरणमिति॥ नियोगशब्दस्य प्रेरणषब्दःX पर्यायत्वभ्रम वारयति । आवश्यके श्रद्धादौ दौहित्रादेः प्रवर्तनमिति ॥ त्रीणि श्राद्धे पावित्राणि दौहित्र कुतपस्तिलः, इत्यादि वचनादिति भावः । तद्यथा दौहित्रादीन्X प्रति इह श्राद्धे भवान् भुञ्जीतेति। आमन्त्रणं कामचागनुझेति ॥ यथेच्छ कियतामित्यभ्यनुज्ञानमित्यर्थः । अधीष्टः सत्कारपूर्वको व्यापार इति ॥ भाष्यवाक्याXभद्रम । सत्कृत्यX प्रवर्तनमित्यर्थः । अधिपूर्वकस्येषधातोर्भावेX क्तान्तस्योपसर्गवशादस्मिन्नX वृत्ति भाष्यप्रयोगादधीष्टशब्दस्य पुस्त्वम् । अधीष्टमित्येव क्वचित्पाठ: । माणवक भवानध्यापयेदित्युदाहरणम् । इद कार्य नवेति विचार्य निर्धारणम् सम्प्रश्नः । यथा । किम्भोः व्याकरण भवानधीयीतेति । प्रार्थनं याच्ञा । यथा । भवानन्न मे दद्यादिनि । सुवचमिनि ॥ प्रवनXनात्वस्य विध्यादिचतुर्षु अनुस्यूतन्वादिति भावः । प्रवृत्यनुकूलव्यापारः प्रवर्तना । तत्र प्रवृत्तिः शिप्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मXजषायां द्रष्टव्यः । चतुर्णामिति ॥ विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः । अथ लिडस्तिपि इतश्चेतीकारलोपे शपि गुणे अवादेशे भव त् इति स्थिते । यासुडिति ॥ लिड सायुडित्यतः लिड इत्यनुवर्तते । षष्ठ्यथे सप्तमी । तदाह । लिडः परस्मैपदानामिति ॥ सीयुटोऽपवादः । यासुटि टकार इत् । उकार Xउकारणार्थः । टित्वात् तिबादीनामाद्यवयवः । अवयवे डित्वञ्च आनर्थक्यात्तदन्यायेन समुदाये आगमविशिष्ठतिबादौ विश्राम्यति । आगमा अनुदात्ता इति यासुट: अनुदात्तत्वे प्राप्ते उदात्तवचन । इदमेव वचनमागमा अनुदात्ता इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थ यासुटो डित्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः । ततश्च स्थानिवत्वेनैव ङित्त्वसिद्धेः यामुटो डित्वाविधिर्व्यर्थः । न च स्थानिभूतलिडो डकारस्याल इत्वेन गुणनिषेधविधावाश्रयणादनत्विधाविति निषेधश्शङ्क्यः । घुमास्थागापाजहातिसां हलीति क्ङिति विहितस्य ईत्वस्य नल्यपीति निषेधेन लिङ्गेनानुबन्धकाये अनाल्विधाविति निषेधाभावज्ञापनादित्यत आह । ङित्वोक्तेरिति । क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधभावज्ञापनादित्यत इति । यासुटो डित्वेन ज्ञायत इत्यम्वयःX । तथा च एतदज्ञापनार्थ-

प्रकरणम्]
२३
बालमनोरमा ।


२२१० । सुट् तिथोः । (३-४-१०७

लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ।

२२११ । लिङः सलोपोऽनन्त्यस्य । (७-२-७९)

सार्वधातुकलिङोऽनन्त्यम्य सस्य लोपः स्यात्। इति सकारद्वयस्यापि निवृत्तिः । सुट: श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्रात्मनेपदे ।


मेव यासुटो डित्वमिति भाव । ज्ञापनफलन्तु वृक्ष्यमाणेत्यत्र डीबभाव । अन्यथा लृडादेशस्य शानच स्थानिवत्वेन टित्वान डीप् स्यात् । ननु क्वचिदनुबन्धकार्येऽयनल्विधाविति निषेध इत्यत्र यासुटो डित्ववचन न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधभावे सत्यपि यासृटो डित्वस्य तिपसिपमिबागमयासृटो डित्वार्थमावश्यकत्वात् । नहि लिडादेशत्वेऽपि तिप् सिप् भिपां डित्व स्थानिवत्वलभ्यम्। हलश्श्नाश्शानज्झाविति सूत्रभाष्ये डिच्च पिन्न पिच्च डिन्नेति प्रपञ्चितत्वादित्यस्वरसादाह । श्नश्शानचः शित्वमपीह लिंगमिति ॥ इह अनुबन्धकार्येऽपि क्वचिदनाल्विधाविति निषेधेऽस्तीत्यास्मिन्नर्थे श्न श्राप्रत्ययस्य यः शानजादेशः हल: श्नश्शानज्झाविति विहितः तस्य शित्वमपि लिङ्गम् । ज्ञापकमित्यर्थ । अन्यथा स्थानिवत्वेनैव तस्य शित्वसिद्धेस्तद्वचन व्यर्थ स्यादिति भाव । अत्र च यद्वक्तव्यन्तन् स्त्रीप्रत्ययनिरूपणे वक्ष्यमाणेत्यत्र प्रपाञ्चितम् । तथा च प्रकृते भव यास् त् इति स्थिते । सुडिति ॥ लिडस्सीयुडित्यत लिड इत्यनुवर्तते । तेिश्च थश्चेति द्वन्द्वात् षष्ठीद्विवचनम् । इकार उच्चारणार्थः । तदाह । र्लिङस्तकारेति ॥ मुटेि टकार इत् उकार उच्चारणार्थः । भव यास स त् इति स्थितम् । नान्विह परेण सुटा यासुटः कथन्न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेः चरितार्थत्वादित्याशङ्क्य निराकरोति । सुटा यासुट न बाध्यत इति ॥ तत् कुत इत्यत आह । लिङो यासुट इति । लिङस्सीयुट यासुडागमश्च । लिडादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्यासम्भवात् विप्रतिषेधाभावान्न परेणापि सुटा यासुटो बाध इति भाव । लिङ इति ॥ सेति लुप्तषष्ठीक पदम् । रुदादिभ्यस्सार्वधातुक इत्यतस्सार्वधातुक इत्यनुवृत्तम् षष्ठ्या विपरिणम्यते । तदाह । सार्वधातुकालिङ इति । सकारद्वयस्यापीति ॥ अविशेषात् सकारद्वयस्यापि युगपल्लोप प्रवर्तते । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिद्धयति । तथापि भवेयुरित्याद्यर्थ सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह । सुटः श्रवणान्त्वाशीर्लिङीति ॥ भूयास्तामित्यादौ लिंडाशिषात्यार्धधातुकत्वेन तत्र सकारलोपस्याप्रसक्तेरिति भाव । व्यञ्जनपरस्यैकस्यानेकस्य वोच्चारणे विशेषाभाव इति भाष्यादाह। स्फुटतरान्त्विति ॥ तत्रापि आशिषि लिड्यपि एधिषीष्टेत्यादावात्मने पदे स्फुटतरं सकारद्वयस्य

श्रवणमित्यर्थः । तत्र यामुटः अभावेन सलोपाभावेन च सुट एव सकारस्य पृथक् स्पष्ट श्रवण
२४
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२१२ । अतो येयः । (७-२-८०)

अतः परस्य सार्वधातुकावयवस्य ‘या’ इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । ‘सार्वधातुक-’ इति किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ।



सम्भवादिति भावः । तथाच भव यात् इति स्थिते । अत इति ॥ या इति लुप्तषष्ठीक पदम् । अत इति पञ्चमी। परस्येत्यध्याहार्यम्। इय इत्यत्राकार उच्चारणार्थः । रुदादिभ्य इत्यस्मात् सार्वधातुक इत्यनुवृत्तम् अवयवषष्ठ्या विपरिणम्यते । तदाह। अतः परस्येत्यादिना ॥ भव इय न इनि स्थितम् । गुण इति ॥ आद्गुण इत्यनेनेति शेषः। भवेथ त्X इति स्थितम् । यलोप इतेि ॥ लोपो व्योरित्यनेनेति शेषः । भवेदिति ॥ यलेापात् प्राक् हलडयादिलोपस्सयोगान्तलोपश्च न शङ्क्यः । अन्तरङ्गत्वेन यलोपस्य पूर्वम्प्रवृतेः संयोगान्तलोपस्य त्रैपादिकत्वेनामिद्धत्वाच्चेति भावः । सार्वधातुके किमिति ॥ रुदादिभ्य इत्यतस्सार्वधातुक इत्यनुवृत्तिलभ्य सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिडि आर्धधातुके अतः परत्वाभावादेव इयादेशाभावमिद्धेः सार्वधातुकग्रहणानुवृत्तिर्व्यर्थेत्याशयः । चिकीर्ष्यादिति ॥ कृXधातोस्मन्नन्तान आशीर्लिडि तिबादौ विकीर्ष यादिति स्थिते अतो लोप इत्यकारलोपे च्चिकीर्ष्यादिति रूपम् । तत्र अतो येय इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्षयादिति स्थिते अतो येय इति इयादेशे आद्गुणे यलोपे चिकीर्ष्येदिति स्यात् । सार्वधातुकग्रहणानुवृत्तौ तु न दोषः । आशीर्लिडादशस्य निडः लिडाशिषीत्यार्धधातुकतायाः वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिडि चिकीर्षयादिति स्थिते नित्यत्वात् अतो लोप इति अकारलोपे सति अतः परत्वाभावादेव अतो येय इत्यस्याप्रवृत्तेः तत्र सार्वधातुकग्रहणानुवृत्तिर्व्यर्थैवेत्यत आह । मध्येऽपवादन्यायेन ह्यतो लोप एव बाध्येतेति ॥ षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रम् । सप्तमस्य द्वितीयपादे अतो येयेति सूत्रम । सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिडि आर्धधातुके चिकीर्षयादित्यत्राल्लोपप्राप्त्या विधिलिडि तु भवयादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति मद्ध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नोत्तरानिति न्यायेनातो लोप एव बाधमर्हति । न तु अतो दीर्घ इत्यर्थः । एवञ्चार्धधातुके चिकीर्षयादिति स्थिते अतः परत्वादियादेशः प्रसज्येतेत्यतिव्याप्तिस्यादिति स्थितम् । एवञ्चाव्याप्तिरपीत्याह । भवेदित्यादाविति ॥ अतः परस्य इयादेशविधौ सार्वधातुकग्रहणाननुवृत्तौ विधिलिडस्तिपि सार्वधातुके भव यादिति स्थिते इयादेशम्परत्वात् बाधित्वा अतो दीर्घो यञीति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घस्स्यात् । ततश्च अतः परत्वाभावादियादेशो न स्यादित्यव्याप्तिस्यादित्यर्थः । नच इयादेशस्य निरवकाशत्वात् दीर्घबाधकत्वं शङ्क्यम् । चिकीर्ष्यादित्यार्धधातुके दीर्घप्राप्त्ययोग्ये इयादेशस्य सावकाशत्वादिति भावः ।

भवेतामिति ॥ तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या
प्रकरणम्]
२५
बालमनोरमा

२२१३ । झेर्जुस् । (३-४-१०८)

लिडे झेर्जुस् स्यात् । ज इत् ।

२२१ ४ । उस्यपदान्तात् । (६-१-९६)

अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्च ‘अतो येय:’ (२२१२) इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं । तथाति ‘यास्' इत्येतस्य ‘इय्’ इति व्याख्येयम् । एवं च सलोपस्यापवाद


इत्यस्य इयादेशे आहुणे यलोपः । अथ लिडो झेर्झोन्त इति प्राप्ते । झेर्जुसिति । लिडस्सीयुडिल्यतो लिड इत्यनुवर्तते । तदाह । लिङो झेरिति ॥ अनेकाल्त्वात्सर्वादेशः । ज इदिति ॥ जुसः स्थानिवत्वेन प्रत्ययत्वात् चुट् इति जकार इत्संज्ञक इत्यर्थः । उसि शपि गुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेश बाधित्वा पररूप प्रवृत्तिं शङ्कितुमाह । उसीति ॥ एकः पूर्वपरयोरित्यधिकृतम् । आद्रण इत्यस्मादादित्यनुवर्तते । एडि पररूपमित्यस्मात्पररूपमिति । तदाह । अवर्णादुसीति ॥ उसि यः अच् उकारः तस्मिन् परत इत्यर्थ । इको यणचीत्यतः अचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याकारस्य च उसित्येकादेशेऽपि रूपन्तुल्यम् । तथापि अकस्सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमवाग्यनुवर्तत इति बोद्ध्यम् । भिन्द्युरित्याद्युदाहरणम् । इति प्राप्त इति ॥ भव या उसित्यत्राकारस्योकारस्यचाद्गुणम्बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे पा इत्यस्याभावात् इय् न स्यादिति मन्यते । परत्वादिति ॥ पररूपापेक्षया इयादेशः परः नित्यश्च । अकृते कृते च पररूपे प्रवृत्तेः । कृते पररूपे य इत्यस्यैकदेशविकृतन्यायेन एकादेशस्य पूर्वान्तवत्वेन वा इयादेशस्य निर्वाधत्वात् । ततश्च पररूपम्बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीनाः

मन्यन्त इत्यर्थः । ननु पररूपमङ्गाधिकारस्थत्वाभावात् अङ्गानपेक्षत्वात् अन्तरङ्गं । इयादेशस्तु आङ्गत्वात् प्रकृतिप्रत्ययोभयसापेक्षत्वात् बहिरङ्गम् । ततश्च परान्नित्यादपीयादेशात् पररूपस्यान्तरङ्गतया बलवत्वात् पररूपमेव इह स्यादिति शङ्कते। यद्यपीति ॥ परिहरति । तथापीति ॥ अत:यास् इयः इति पदच्छेदः । यासिति लुप्तषष्टीकं पदम् । ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननु लिडस्सलोपोऽनन्त्यस्येति सकारस्य लोपः इयादेशम्बाधित्वा नित्यत्वात् प्राप्रोतीति ततश्च यास् इत्यस्य इय् इति कथमित्यत आह । एवञ्चेति ॥ यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोप बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायां अवर्णात्परत्वाभावेन पररूपस्याप्रवृत्तिरिति भावः । ननु यदि या स् इयः इति च्छेदः, तदा सकारस्य रुत्वे,भोभगो इति यत्वे, लोपश्शाकल्यस्येति तस्य लोपे, अतो या इयः इति स्यात् । आद्गुणे कर्तव्ये यलोपस्यासिद्धत्वादित्यत आह ।
२३
[भ्वादि
सिध्दान्तकौमुदीसहिता

इय् । ‘अतो येयः’ (२२१२) इत्यत्र तु सन्धिरार्षः । भवेयुः । भवेः। भवेतम् । भवेत । भवेयम् । भवेव। भवेम ।

२२१५ । लिङाशिषि । (३-४-११६)

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ।

२२१६ । किदाशिषि । (३-४-१०४)

आशिषि लिङो यासुट् कित्स्यात् । ‘स्कोः-’ (३८०) इति सलोपः ।

२२१७ । क्ङिXति च । (१-१-५)


सन्धिरार्ष इति । आनेमुगिति सूत्रे भाष्ये तु अनेा या इय इत्येव सूत्रपाठो लक्ष्यते । भवेरिति ॥ सिपि, शपि, गुणः । अवादेश । इतश्चेति इकारलोपः । यासूटागमः । सकारद्वयस्य लोपः। इयादेशः । आद्गुणः। यलोपः। रुत्वविसर्गौ । एव थसः तमादेशे थस्य तादेशे च, भवतम् ।

भवेतेति च रूपम्। भवेयमिति ॥ मिपि अमादेश: । शप । गुण । अवादेश । यासुट। सलोपः । इयादेशः । आद्गुणः । भवेवेति ॥ वस शप् गुणावादेशौ । नित्यड्डित इति सकारलोपः ।

यासुट् । सलोपः । इयादेशः । आद्गुणः यलोप । एव मसि भवेमेति रूपम् । इति विधिलिङ्X प्रक्रिया ॥ अथाशीर्लिङि विशेषमाह । लिङाशिाषीति ॥ लिडिति लुप्तषष्ठीक पदम तिड्शिXत्सार्वधातुकमित्यतस्तिडित्यनुवर्तते । तदाह । आशिषिलिङस्तिङिति । सार्वधातुकसंज्ञापवादोऽयम् । ततश्च सार्वधातुकसज्ञाकार्यं शबादि न भवति । किदाशिाषीति ॥ लिडस्सीयुडित्यत लिड इत्यनुवर्तते । यासुट परस्मैपदेष्वित्यन यासुडिति च । तदाह । आशिषि लिङ इति ॥ यासुट् परस्मैपदेष्विति डित्वस्यापवादः । यद्यपि डित्वेनैव गुणनिषेधस्सिध्यति । तथापि इज्यादित्यादौ वाचिस्वपियजादीनां कितीति सम्प्रमाग्णाद्यर्थे कित्वमावश्यकम् इह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिडस्तिपि आर्धधातुकत्वात् शबभावे इतश्चेतीकारलोपे यासुडागमे अतः परत्वाभावात् सार्वधातुकत्वाभावायX इयादेशाभावेसुटि भूयास् स् त् इति स्थिते प्रक्रियामाह । स्कोरिति । सलोप इति ॥ लिइस्सलोप इत्यस्य सार्वधातुकविषयत्वात् स्कोरिति सुटः पदान्तसयेगादित्वात् लोपः । ततः यामुटस्सस्यापि पदान्तसंयोगादित्वादेव लोपः । न तु झल्परसंयोगादित्वेन यासुटस्सस्य लोपे सुट: सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तम् । तथासति झल्परसंयोगादिलोपस्यासिद्धत्वेन

सयोगान्तलोपापत्तेः । भ्रष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति शब्दरत्ने विस्तरः । एव च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्र सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते । क्डिति चेति ॥ गुक्ङ् एषां समाहारद्वन्द्वः कात्पूर्वं गकारस्य चत्वेXन निर्देशात् गकङ च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकमन्वेति । तथा च गिनि किनिX
प्रकरणम्]
२७
बालमनोरमा ।

गित्किङिन्निमित्त इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ।

२२१८ । लुङ् । (३-२-११०)

भूतार्थवृत्तेर्धातोर्लुङ् स्यात् ।


२२१९ । माङि लुङ् । (३-३-१७५)

सर्वलकारापवादः ।


डिति चेति लभ्यते । निमित्तसप्तम्येषा । इको गुणवृद्धी इत्यनुवर्तते । चकार इत्यर्थे । इक इत्युच्चार्य विहिते इति लभ्यते । न धातुलोप आर्धधातुक इत्यतः नेत्यनुवर्तते । तदाह । गित्किन्ङिन्निमित्ते इत्यादिना ॥ गितीत्यनुक्तौ तु ग्लाजिस्थश्च ग्स्नुरिति ग्स्नुप्रत्यये जिष्णुरित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यम् । तथा सति घुमास्थेति किति विहितस्य ईत्वस्य प्रसङ्गात् । यादितु गिति किति डिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघूपधगुणनिषेधो न स्यात् । स्थानिभूतस्येक हला व्यवधानात् । नच येननाव्यवधानन्यायश्शङ्क्य । चितस्तुतभित्यादावव्यवहिते चरितार्थत्वात् । यदि च इको न गुणवृद्धी इत्येव व्याग्व्यायेत न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायन , नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वात् निषेधस्स्यादित्यलम् । भूयादिति॥ इहार्धधातुकत्वाल्लिडस्सलोप इत्यस्याप्रवृत्तेः स्कोरिति सलोप इत्युक्तम् न विस्मर्तव्यम् । न चैवमपि सयोगादिलोपस्यासिद्धत्वाद्धल्ड्यादिलोपः स्यादिति वाच्यम् । सुटि यासुटि च सति ताभ्या विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावादित्यलम् । भूयास्तामिति ॥ आशिषि लिडस्तसस्तामादेशे आर्धधातुकत्वात् शबभावे यासुडागमे अतः परत्वाभावादियादेशाभावे सुटि झल्परसयोगादित्वेन यासुटस्सकारस्य लोपः गुणनिषेधश्च । भूयासुरिति ॥ झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति ॥ आशीर्लिडस्सिपि इतश्रेतीकारलोपः यासुट: स्कोरिति सलोपः, गुणनिषेधः, रुत्वविसगौं। भूयास्तमिति ॥ थसस्तमादेशे यासुटि गुणनिषेधः। एव थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति ॥ मिपः अमादेशे यासुटि गुणनिषेधः । भूयास्वेति ॥ लिडो वस् नित्यं डित इति सकारलोपः । यासुट्। गुणनिषेधः । एव मसि भूयास्मेति रूपम् । इत्याशीर्लिड्प्रक्रिया। लुङिति ॥ धातोरिति भूत इति चाधिकृतम्। तदाह । भूतार्थवृत्तेरिति । माङि लुङिति॥ माङि प्रयुज्यमाने धातोर्लड् स्यादित्यर्थः । ननु लुड् इत्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह । सर्वलकारापवाद इति ॥ मास्त्वित्यादौ तु मा इत्यव्ययान्तर प्रतिषेधार्थकमित्याहुः । आड् माडोश्चेति सूत्रभाष्ये तु डितो माशब्दस्य निर्देशात्

प्रमाच्छन्द इत्यत्र न भवतीत्युक्तम् । माशब्दस्याव्ययान्तरस्य सत्त्वे तु तदवोदाह्रियेत। मस्त्वित्यत्र
२८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२२० । स्मोत्तरे लङ् च । (३-३-१७६)

स्मोत्तरे माङि लङ् स्याल्लुङ् च

२२२१ । च्लि लुङि (३-१-४३)

शबाद्यपवादः ।

२२२२ । च्लेः सिच् । (३-१-४४)

इचावितौ।

२२२२ । गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । (२-४-७७)

एभ्यः सिचो लुक्स्यात् । गापाविहेणादेशपिबती गृह्येते ।

२२२४ । भूसुवोस्तिङि । (७-३-८८)

‘भू’ ‘सू’ एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ।

२२२५ । अस्तिसिचोऽपृक्ते । (७-३-९६)



तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये । स्मोत्तर इति ॥ चकारात् माडि लुद्दित्यनुकृष्यते । स्म इत्यव्ययं उत्तर यस्मादिति विग्रहः। तदाह । स्मोत्तरे माङीति ॥ अयमपि सर्वलकारापवादः। च्लिलुङीति॥ च्लि इति लुप्तप्रथमाकलुडि परे धातोः चिलप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति ॥ आदिना श्यनादिविकरणसग्रहः। च्लेस्सिजिति । इताविति ॥ चिन स्वरश्चित्त्वस्य प्रयोजन । इदित्वस्य तु अमस्तेत्यत्र अनिदिता हल उपधाया इत्युपधालोपस्याप्रवृत्तिः प्रयोजनम् । गातिस्थेति ॥ गाति स्था घु पा भू एषा द्वन्द्वात् पञ्चमीबहुवचनम् । परस्येति शेषः । सिंच इति षष्ठी । गातीति श्तिपा निर्देशात् गाधातोर्ग्रहणम् । घु इत्यनेन दाधाध्वदाबिति घुसंज्ञकयोः दाधातोर्धाधातोश्च ग्रहणम्। ण्यक्षत्रियार्षत्रितो यूनिलुगणिञोरित्यस्माद्वयवहितादपि लुगिल्यनुवर्तते । जुहोत्यादिभ्यः श्लुरित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते । व्याख्यानात् । तदाह । एभ्यास्सिच इत्यादिना । गापाविहेति ॥ इह गातिस्थेति सूत्रे गातीत्यनेन पाग्रहणेन च इणो गालुडीति लुग्विकरणस्येणो गादेशः शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्यते इत्यर्थः । गापोर्ग्रहणे इण्पिबत्योर्ग्रहणमिति भाष्यादिति भावः । तथाच लुङस्तिबादेशे इनश्चेति इकारलोपे शबपवादे च्लिप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभूत इति स्थिते पित्वात् ङित्वाभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते । भूसुवोरिति ॥ मिदेर्गुण इत्यतो गुण इति, नाभ्यस्तस्याचि पितीत्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह । एतयोरिति ॥ भू सू इत्यनयोरित्यर्थः । इह षूङ् प्राणिगर्भविमोचन इति लुग्विकरणस्थस्यैव ग्रहणम् । न तु सुबति सूयत्योश्शविकरणश्यन्विकरणयोरपि । तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत्

इत्यत्र तकारस्येडागममाशङ्कितुमाह । अस्ति सिच इति ॥ अस्तिश्च सिच्चेति समाहारद्व
प्रकरणम्]
२९
बालमनोरमा ।


सिच् च ‘अस्’ चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सैौत्नोX लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तहल ईडागमः स्यात् । इति ईंअट् न। इह सिचो लुप्तत्वात् । अभूत् । ‘हलः’ किम् ऐXधिषि । ‘अपृक्तस्य’ इति किम् । ऐधिष्ट । अभूताम् ।

२२२६ । सिजभ्यस्तविदिभ्यश्च । (३-४-१०९)

सिचोऽभ्यस्ताद्विदेश्च परस्य डित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ।

२२२७ । आतः । (३-४-११०)


न्द्वात् पञ्चमी । ब्रुव ईडित्यत ईडित्यनुवर्तते । तस्मादित्युत्तरस्येति परिभाषया पञ्चमी । अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेस्सिचश्च परस्यापृक्तस्य ईडागमस्स्यादिति प्राचीना व्याचक्षते । तथा सति लुडिX अस्तेर्भूभावे अभूदिति न स्यात् । भूभावस्य स्थानिवत्वेन अस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपि गातिस्थेति सिचो लुक्यपि स्थानिवत्वेन सिचः परत्वादीडागमस्स्यात् । अतः प्रकारान्तरेण व्याचष्ठे । सिञ्च अस् चेत्यादिना ॥ ननु सिचस् शब्दे सिचशब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्त्वप्रसङ्ग इत्यत आह । सिच्शब्दस्य सौत्रं भत्त्वमिति ॥ तथा च भत्त्वेन पदत्वस्य बाधान्नकुत्वामिति भाव । ननु सिचस्शब्दे अस् इत्यनेनैवास्तेलीभात् अस्तिग्रहण किमर्थमित्यत आह । अस्तीत्यव्ययेन कर्मधारय इति ॥ अस्तीति विभक्तिप्रतिरूपकमव्यय । लुप्तसुविभक्तिक विद्यमानार्थक । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थःX । तथा च अस्तिासिचस् इत्येक पदमिति स्थित । ततः पञ्चम्यास्सौत्रो लुगिति ॥ सुपा सुलुगित्यनेनेति शेषः । तथा च अस्ति सिच इति पदात् लब्धार्थमाह । विद्यमानात्सिचोऽस्तेश्च परस्येति । हल इति ॥ उतो वृद्धिर्लकि हलीत्यतोऽनुवृत्तस्य हृलीत्यस्य षष्ठ्या विपरिणाम इति भावः । इतीट् नेहेति ॥ अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह । सिचो लुका लुप्तत्वादिति ॥ विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्य नेति भावः । एवञ्च । अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुडि कृतभूभावात्परस्य च नेत्युक्तप्रायम्। ऐधिषीति ॥ एधधातोर्लुडि उत्तमपुरुषैकवचन । इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्त्वाभावात् ईडागमोनेति भावः । ऐधिष्टेति ॥ एधधातोर्लुडि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाभावेनापृक्तत्वाभावात् ईडागमो नेति भावः । अभूतामिति॥

लुडस्तसि तस्य तामादेश । च्ले.सिच् । अट्। गुणनिषेधः । सिजभ्यस्तेति ॥ झेर्जुसिति सूत्रमनुवर्तते । नित्यड्डित इत्यतः डित इति च । तदाह। सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ॥ लिडो झेर्जुसिति शेषः । आत इति ॥ झेर्जुसिति सूत्रमनुवर्तते । आतस्सिज्लुगन्तादिति वक्तव्यमिति वार्तिक भाष्ये पठितम् । ततश्च सिज्लुकि यदाकारान्त तस्मात्परस्य झेर्जुसिति
३०
[भ्वादि
सिध्दान्तकौमुदीसहिता

सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम्। अभूत । अभूवम् । अभूव । अभूम ।

२२२८ । न माङ्योगे । (६-४-७४)

अडाटौ न स्तः । मा भवान् भूत् । मास्म भवत् भृद्वा ।

२२२९ ॥ लिङ्निमित्ते लङ् क्रियातिपत्तौ । (३-३-१३९)

हेतुहेतुमद्भावादिलिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात्क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ।



लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह । सिज्लुक्यादन्तादेवेति । अभूवन्निति ॥ झि च्लिX सिच् लुक अट झोन्त इतश्चेति इकारलोपः । तकारस्य सयोगान्तलोप । भुवो बुग्लुड्लिटोरिति बुक । सिज्लुकि आन परम्यैवेति नियमात् सिजभ्यस्तेति न जुसिति भावः । अभृरिति ॥ सिप न्लिःX सिच् लुक अट रुत्ववेिसर्गौ । अभूतमिति ॥ थमस्तम् । च्लेस्सिजादेशः । सिज्लुक । अट । गुणनिषेधः ।एव थस्य तादेशे अभूतेति रूपम् । अभूवमिति ॥ मिप अम् च्लिः सिच लुक् अट बुक । अभूवेति ॥ वस च्लिः सिच् लुक अट नित्यड्डित इति गकारलोपः गुणनिषेधः । एव मसि अभूमेति रूपम् । अथ माडि लुडि विशषमाह । न माङ्योग इति ॥ शेषपुरणेनX सूत्र व्याचष्टे । अडाटौ न स्त इति ॥ लुड् लइ लृडक्ष्वडुदात्त इत्यतः आइजादीनामल्यतश्च, तदनुवृत्तरिति भावः । मा भवान् भूदिति ॥ मार्भाटल्यत्र अडागमे सति असति च विशेषाभावात् भवत्पदस्य मध्ये प्रयोगः । अथ स्मोत्तरे लइचेत्यस्य उदाहरति । मास्मभवद्भूद्वेति ॥ एव बहुवचने मास्म भवन् मास्म भूवन्निति चोदाहरणम् बोद्भयम् । इति लुड्प्रक्रिया ॥ लिड्निमित्त इति । हेतुहेतुमद्भावादीति ॥ हेतुहेतुमनोर्लिड । इच्छार्धेषु लिड्लोटावित्यादिलिड्निमित्त लकारार्थप्रक्रियायां स्पष्टीभाविाष्यति । भविष्यदर्थ इति ॥ भविष्यति मर्यादावचन इत्यतः तदनुवृत्तेरिति भावः । क्रियातिपत्तिपद व्याचष्टे । क्रियाया अनिष्पत्ताविति ॥ सुवृष्टिश्चेदभविष्यत तदा सुभिक्षमभविष्यत् । इत्युदाहरणम् बोध्यम् । अभविष्यदिति ॥ लृड् तिप इतश्चेतीकारलोपः । स्यतासी ललृटोरिति शबपवादः स्यप्रत्ययः । वलादिलक्षणः इद् । गुणावादेशौ । षत्वम्। अभविष्यतामिति ॥ तमस्तामादेशः । स्यः अट् इट् गुणावादेशौ षत्वम् । अभविष्यान्निति ॥ झिः स्यः अट इट गुणावादेशौ । झोऽन्तः इति झेरन्तादेशः इतश्चेतीकारलोपः । तकारस्य संयोगान्तलोपः । षत्वम् । अभाविष्य इति ॥ सिप् स्यः अट् इट गुणः अवादेशः इतश्चेतीकाग्लोपः षत्वम् । रुत्वविसर्गौ । अभविष्यतमिति ॥ थसस्तमादेशः स्यः अट् इट् गुणावौ षत्वम् । एव थस्य

तादेशादि पूर्ववत् । अभविष्यमिति ॥ मिप अम् स्य. अट् इट् गुणादौ इतश्चेतीकारलोपः ।
प्रकरणम्]
३१
बालमनोरमा ।

२२३० । ते प्राग्धातोः । (१-४-८०)

ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः ।

२२३१ । आनि लोट् । (८-४-१६)

उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः । दुःस्थितिः । दुर्भवानि । अन्तः शब्दस्यांकिविधिणत्वेषूपसर्गत्वप्रतिषेधो वाच्यम् । अन्तर्धा । अन्तर्धिः । अन्तर्भवाणि ।

२२३२ । शेषे विभाषाऽकखादावषान्त उपदेशे । (८-४-१८)

उपदेशे कादिखादिपान्तवर्जे गदनदादेरन्यस्मिन्धातौ पर उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति-प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् -


षत्वम् । अभविष्यावेति ॥ वस स्य अट् इट् नित्य डित इति सकारलोपः । अतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लङ्प्रक्रिया ॥ अथ प्रसङ्गादाह । ते प्रागिति ॥ ते इत्यस्य विवरणम् । गत्युपसर्गसंज्ञा इति ॥ उपसर्गाः क्रियायोगे गतिश्चेति प्रकृतत्वादिति भाव । प्रागेवेति॥ न परतः नापि व्यवहिता इत्यर्थः । इह धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गास्स्युरिति सज्ञानियमपक्षोऽपि भाष्ये स्थितः । आनि लोडिति ॥ लोडिति आनीति च लुप्तषष्ठीकम् पदम् । रषाभ्यां णोन इत्यनुवर्तते । उपसर्गदसमासेपीत्यतः उपसर्गादिति च । तदाह । उपसर्गस्थान्निमित्तादिति ॥ रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः । अट्कुप्वाड्नुम्व्यवायेपीति सूत्र णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्ययोः दुर उपसर्गत्वप्रतिषेध इत्यर्थ । दुःस्थितिरिति । अत्रोपसर्गात् सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्रानि लोटि णत्वन्न भवति । अन्तश्शब्दस्येति ॥ अड्विधौ किविधौ णत्वे च कर्तव्ये अन्तर् इत्यस्य उपसर्गत्वमित्यर्थः । प्रादित्वाभावादप्राप्ते वचनम् । अन्तर्धेति ॥ स्त्रियामित्यधिकारे धाधातोः आतश्चोपसर्गे इत्यड् । टाप् । अन्तर्धिरिति ॥ उपसर्गे घोः किः ।अन्तर्भवाणीति ॥ आनि

लोडिति णत्वम् । शेषे विभाषेति ॥ अकखादाविति च्छेदः । नेर्गदनदेति पूर्वसूत्रोक्तधातुभ्योऽन्यश्शेषः । तदाह । गदनदादेरन्यस्मिन्निति ॥ ननु णत्वप्रकरण सहिताधिकारस्थ ततश्चाविवक्षितायां सहितायां उपसर्गात्परत्वाभावात् णत्वाभावः । विवाक्षितायान्तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह । इहोपसर्गाणामिति। उक्तमिति ॥
३२
[भ्वादि
सिध्दान्तकौमुदीसहिता

संहितैकपदे नित्या नित्या धातूपसर्गयोः ।

नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥

इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात्। उपसर्गास्त्वर्थविशेपस्य द्योतकाः । प्रभवति । पराभवति । सम्भवति । अनुभवति। अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च-

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।

प्रहाराहारसंहारविहारपरिहारवत् ॥ इति ।

। एध २ वृद्धौ' । कत्थन्ताः पट्त्रिशदनुदात्तेतः ।

२२३३ । टित आत्मनेपदानां टेरे । (३.४-७९

टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ।




हरिणोति शेषः । अत्र एकपद इन्यनेन अखण्ड पद विवक्षित्तम् । नित्यासमास इति लिङ्गात् । अखण्डत्वञ्च पदभिन्नोत्तरखण्डत्वम् । तथा राजीयतीत्यादौ अतो गुण इति शपा पररूप एका देशः पक्षे न स्यात् । अर्थनिर्देशश्चेति ॥ धातुपाठे भू सत्तायामित्याद्यर्थनिर्देश इन्यर्थः । उपलक्षणमिति ॥ प्रदर्शनमात्रमित्यर्थः । नन्वर्थान्तरपरिसङ्ख्या कुतो न स्यादित्यत आह । यागादिति ॥ ननु यागात् स्वर्गो भवतीत्यादौ उत्पत्यादौ लक्षणा कुतो न स्यादिति वाच्यम् । प्रयोगप्राचुर्यसत्वात् । पाणिनिर्हि धातुपाठे धातून् कांश्चिदर्थसहितान् कांश्चिदर्थरहितान् पठतीति चुटू इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गश्शङ्क्यः । अनेकार्था अपि धानवो भवन्तीति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवञ्च सेधतेतर्गताविति सूत्रे गतावित्युपादानात् षिधगत्यामित्यर्थनिर्देश: अपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्याद्यर्थकत्वे उद्भवतीत्यादौ उपसर्गा व्यर्था इत्यत आह । उपसर्गास्त्विति ॥ उपसर्ग विनाऽपि भूधातोरुत्पत्याद्यर्थप्रतीतेः उद्भवतीत्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव न तु वाचका इति भावः । द्योतकत्व वा तेषां किमर्थें स्वीकार्यमित्यत आह । प्रभवतीत्यादि ॥ प्रभवः प्रकाशः उत्पत्तिः शक्तिर्वा । सम्भवः सम्भावना । पराभवः पराजयः । अनुभवः उपभोगः । अभिभवः हिंसा । उद्रवः उत्पात्तिः । परिभवः तिरस्कारः । उक्तञ्चेति ॥ हरिणेति शेषः । प्रहारः कशाद्याघातः । आहारो भक्षणम् । सहारः वधः । विहारः क्रीडा । परिहारः परित्यागः । इति भूधातुप्रक्रिया ॥ एधवृद्धाविति ॥ जायते, आस्ति, विपरिणमते, वर्धते; अपक्षीयते, विनश्यतीति षट् भावविकाराः । तत्र चतुर्थावस्था वृद्धिः उपचयः । कत्थन्ता इति ॥ कन्थ श्लाघायामित्यन्ता इत्यर्थः । अनुदात्तेत इति ॥ ततश्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते । टित

इति ॥ टे: एरिति च्छेदः लस्येत्यधिकृतम् । तदाह । टेितो लस्येति ॥ आदेशानामिति
प्रकरणम्]
३३
बालमनोरमा

२२३४ । सार्वधातुकमपित् । (१-२-४)

अपित्सार्वधातुकं ङिद्वत्स्यात्

२२३५। आतो ङितः । (७-२-८१)

अतः परस्य डितामाकारस्य इय् स्यात् । एधेते । एधन्ते ।

२२३६ । थासः से । (३-४-८०

टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । ‘ अतो गुणे ’ (१९१) एधे । एधावहे । एधामहे ।

२२३७ । इजादेश्च गुरुमतोऽनृच्छः । (३-१-३६)

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम्स्याल्लिटि । ‘आमो मकारस्य नेत्वम्’ । आस्कासोराम्विधानाज्ज्ञापकात् ।




शेषः । अत्रात्मनेपदशब्देन तदेव गृह्यते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्व नेति भाष्ये स्पष्टम् । एधत इति ॥ अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्वादे त्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशे टित आत्मनेपदानामिति आम एत्वे शपि एध आते इति स्थिते डित्कार्य वक्ष्यन् डित्वमाह । सार्वधातुकमपिदिति ॥ गाङ्कुटा दिभ्य इत्यतो डिदित्यनुवर्तते । अडितो डित्व वास्तव न सम्भवतीति डिद्वदिति लभ्यते । तदाह । ङिद्वदिति । आतो ङित इति ॥ डित इत्यवयवषष्ठी । अतो येय इत्यस्मात् अत इति पञ्चम्यन्त, इय इति प्रथमान्त चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह । अतः परस्येति ॥ डितामित्यनन्तर अवयवस्येति शेष । एधेते इति ॥ एध आते इति स्थिते, आकारस्य इय्, आद्गुण , लोपो व्योर्वलीति यकारलोपइति भावः । एधन्त इति ॥ लट. प्रथमपुरुषX बहुवचने झादेशे परे शपि झकारस्य अन्तादेशे पररूपे टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेशे कृते टित आत्मनेपदानामित्येत्वे प्राप्ते । थासस्स इति ॥ से इति लुप्तप्रथमाकम् । एधस इति ॥ थासि शपि थासः सेभावः । एधेथ इति ॥ लटो मध्यमपुरुषद्विवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोपे इति भावः । एधध्व इति ॥ लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति । अतो गुणे इति ॥ अतो गुण इति पररूपे वृध्यपवादे कृते सति एधे इति रूपमित्यर्थः । एधावह इति ॥ लट उत्तमपुरुषद्विवचने वहि

इत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधामह इति ॥ लट उत्तमपुरुषबहुवचने महि इत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिडिति डकारस्तङ्प्रत्याहारार्थः । इति लटप्रक्रिया ॥ इजादेरिति ॥ नञः ऋच्छ इत्यनेन समासे अनृच्छ इत्यस्मात् पञ्चमी । धातोरेकाच इत्यतो धातोरित्यनुवर्तते । कास्प्रत्ययादित्यतः आमिति लिटीति चानुवर्तते । तदाह। इजादि
३४
[भ्वादि
सिध्दान्तकौमुदीसहिता


२२३८ । आमः । (२-४-८१)

आमः परस्य लेर्लुक्स्यात् ।

२२३९ ।। कृञ्चानुप्रयुज्यते लिटेि । (३-१-४०)

आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । ‘आम्प्रत्ययवत्कृव्योऽनुप्रयोगस्य’ (२२४०) इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन ‘कृभ्वस्तियोगे-’ (२११७) इत्यतः ‘ कृञो द्वितीय–’ (२१२९) इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचत्वादाम्प्रकृतीनां



रित्यादिना । आस्कासोरिति ॥ कास् प्रत्ययादाममन्त्रे लिटीति, दयायासश्रेति च, कास धातोः, आस्धातोश्च, लिटि आम् विहितः । तत्र मकारस्य इत्सज्ञकत्वे मिदचोऽन्त्यात् पर इति आकारादाकारान्तर स्यात् । ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवन्तीति आ विधिरनर्थकस्यात् । अत आमो मकारस्य नेत्सज्ञेति विज्ञायते इत्यर्थः । तथाच एधX आम् ल इति स्थिते । आम इति ॥ मन्त्रे घसहरेत्यतः लेरिति, ण्यक्षत्रियार्षXत्रिन इत्यतः लुगिति चानुवर्तते । तदाह । आमः परस्य लेरिति ॥ अत्रेदमवधेयम् । कृन्मेजन्त इत्यत्र कृद्यो मान्तस्तदन्तमव्ययमिति व्याख्याने एधामित्यादि नाऽव्यय, लिट एव कृत्वात् तस्य च मान्तत्वाभावात् । तथाच प्रत्ययलक्षणेन कृदन्तत्वात् प्रातिपदिकत्वे स्वाद्युत्पत्तौ आम इति लुक् । लेरिति तु नानुवर्तते । मान्त कृदन्तमव्ययामिनि व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वात् एधामिति मान्तमव्ययम् । तनस्सुबुत्पत्तौ अव्ययादाXप इति लुक् । आम इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरिति नानुवर्तनीयम् । आमX परस्य लेरिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवञ्च एधामित्यव्यय नवेति पक्षद्वयं । उभयथाऽपि सुबन्तं पदमिति भाष्ये स्पष्टम् । कृञ्चेति ॥ कास्प्रत्ययादामित्यत: आमित्यनुवृत्त पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । लिटि परे यः कृञ् स अनुप्रयुज्यत इत्यन्वयः । फलितमाह। आमन्ताल्लिट्परा इति ॥ लिट्शिरस्का इत्यर्थः । कृभ्वस्तय इति ॥ कृञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः । अनुप्रयुज्यन्त इति ॥ प्रशब्दादनु शब्दाच्चाऽव्यवहिताः पश्चात्प्रयुज्यन्त इत्यर्थः । विपर्यासनिवृत्यर्थ व्यवहितनिवृत्यर्थे चेति वार्तिकात् भाष्याच्च । एवञ्च तं पातयाम्प्रथममास पपात पश्चात् । प्रभ्रशयां यो नहुषं चकारेत्यादि प्रयोगाः प्रामादिका एव । धातोराम् स्यात् । कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः । ननुकृञ एवानुप्रयोगश्रवणात् कथं भवस्त्योरप्यनुप्रयोग इत्यत आह । आम्प्रत्ययवदित्यादिना ॥ कृञ्चानुप्रयुज्यत इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सति आम्प्रत्ययवदिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थे स्यात् । धात्वन्तरस्यानुप्रयोगाप्रसक्तेः । ततश्च कृञ इति विशेषणादन्यस्यापि अनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृञोऽन्यस्याप्यनुप्रयोगो विज्ञायताम्।

भ्वस्त्योरपीत्येव कुत आयातमित्यत आह । तेनेति ॥ कृञ्ग्रहणेनेत्यर्थः । प्रत्याहाराश्र
प्रकरणम्]
३५
बालमनोरमा

विशेषवाचित्वात्तदर्थयोरभेदान्वयः । सम्पदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ।

२२४० । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य । (१-३-६३)

आाम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् । इह ‘पूर्ववत्’ इत्यनुवर्त्य वाक्यभेदेन सम्ब


यणादिति ॥ एतच्च भाष्ये स्पष्टम्। नन्वनुप्रयुज्यमानानां कृभ्वस्तीना आम्प्रकृतिभूताना कथमन्वय इत्यत आह । तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन ॥ सामान्यविशेषयोरभेदान्वयस्य न्याय्यत्वादिति भाव । कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात् । धातूनामनेकार्थत्वात् ज्ञेयम् । ननु कृभ्वस्तियोग इत्यस्य कृञो द्वितीयेत्यस्य च सूत्रस्य मध्ये ‘अभिविधौ सम्पदा च’ इति पठितम् । एवच्च कृञ्प्रत्याहारे सम्पदोऽपि कुतो न ग्रहणमित्यत आह। सम्पदिस्त्विति । अनन्वितार्थत्वादिति ॥ सिद्धस्य वस्तुनो रूपान्तरापतिस्सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृध्यादिरर्थः । तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाभावेन अभेदान्वयासम्भवादित्यर्थः । अत एव कृभ्वस्तीनां ग्रहणमिति भाष्य सङ्गगच्छत इति भावः । ननु आम्प्रत्ययवदिति कृञ्ज आत्मनेपदविधायकसूत्र वक्ष्यमाण व्यर्थम् । खरितञित इत्येव तत्सिद्धेरित्याशङ्क्याह । कृभ्वस्तीति । आम्प्रत्ययवदिति ॥ अनुदात्तडित इत्यत आत्मनेपदमित्यनुवर्तते । तत्राम्प्रत्ययस्यात्मनेपदाभावादाह । आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिरिति॥ तस्य अन्यपदार्थस्य गुणा विशेषणानि वर्तिपदार्थरूपाणि तेषां सविज्ञान क्रियान्वयितया ज्ञान न विद्यते यस्य बहुव्रीहेः सः अतद्गुणसविज्ञानः । यथा चित्रगुमानयेति । अत्र हि पुरुषस्यैवान्यपदार्थस्य क्रियान्वय । न तु चित्राणा गवामपि। तथा च प्रकृते आम् प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूतः एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः । आाम्प्रत्ययवदिति ॥ तृतीयान्ताद्वतिः । अनुप्रयुज्यत इत्यनुप्रयोग । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी । तदाह । आाम् प्रकृत्येत्यादिना ॥ आम्प्रकृतेर्भुवितु योग्य यदात्मनेपद तत् अनुप्रयुज्यमानात् कृञोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम्। अनुप्रयोगस्येत्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहणमिति भाष्यम्। परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दाञ्चकारेत्यादौ तु परगामिनि क्रियाफलेनानेनात्मनेपदम् । आम्प्रकृतेः ‘इदि परमैश्वर्य’ इति धातोरात्मनेपदाभावात् तस्य परस्मैपदित्वात् एतदर्थमेव आम्प्रत्ययवदित्युपात्तम्। नन्विन्दाञ्चकारेत्यादौ मास्त्वनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले स्वरितञित इत्यात्मनेपदं दुर्वारम् । अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले स्वरिताञित इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याभावादित्यत आह । इहेति ॥

इह आम्प्रत्ययवत् कृञोऽनुप्रयोगस्येति सूत्रे ‘पूर्ववत् सनः’ इति पूर्वसूत्रात् पूर्ववदित्यनुवर्त्य
३६
[भ्वादि
सिध्दान्तकौमुदीसहिता

द्ध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ।

२२४१ । लिटस्तझयोरेशिरेच् । (३-४-८१)

लिडादेशयोस्तझयोः ‘एश्’ ‘इरेच्’ एतौ स्तः । एकारोच्चारणं ज्ञापकं ‘तङादेशानां टेरेत्वं न’ इति । तेन डारौरसां न । ‘कृ’ ‘ए’ इति स्थिते ।

२२४२ । असंयोगालिट्कित् । (१-२-५)

असंयोगात्परोऽपिल्लिट्कित्स्यात्।‘क्डिति च' (२२१७) इति निषेधात् ‘सार्वधातुकार्धधातुकयोः’ (२१६८) इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ।

२२४३ । द्विर्वचनेऽचि । (१-१-५९)


आम्प्रत्ययवत् कृञोऽनुप्रयोगस्येत्येक वाक्य, पूर्ववत् कृञोऽनुप्रयोगस्येति अन्यद्वाक्यमिति, वाक्यद्वयं सम्पाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण पूर्वप्रयुक्तेन एधादिधातुना तुल्यमिल्यर्थः । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयर्थ्यात् द्वितीयं वाक्य नियमार्थ सम्पद्यते । पर्ववदेव आत्मनेपद न तु तद्विपरीतमिति । एवञ्च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृन्नः परगामिन्यपि क्रियाफले आत्मनेपदविधिः । द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले स्वरितञित इत्यात्मनेपदस्य निवृत्तिः फलति । तदाह । तेनेति ॥ द्वितीयवाक्येनेत्यर्थः । नतङिति ॥ न आत्मनेपदमित्यर्थः । एवञ्चानुप्रयुज्यमानात्कृञः लिटस्तडि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते । लिटस्नझयोरिति ॥ ननु लिटस्तझयोरिशिरिजिन्येवास्तु । आदेशयोरेकारोच्चारण व्यर्थम् । टित आत्मनेपदानामिन्येत्वेनैव सिद्धेरित्यत आह । एकारोञ्चारणमिति ॥ ज्ञापनस्य फलमाह । तेन डारौरसान्नेति ॥ डा रौ रम्X एषां लृडादेशभूतात्मनेपदादेशानां टेरेत्वन्नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रमङ्गविज्ञानेन Xद्रादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायात् । एत्वं नेति ॥ लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् । कृ ए इति स्थित इति॥ तकाराकारसंघातस्य एकारश्शित्वात् सर्वादेश इति भावः । असंयोगादिति । अपिदिति॥ सार्वधातुकमपिदित्यतस्तदनुवृत्तेरिति भावः । सार्वधातुकमपिदिति ॥ डित्वन्तु नात्र प्रवर्तते । लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्वस्य फलमाह । क्डिति चेति । द्वित्वादिति ॥ कृ ए इति स्थिते । लिटि धातोरिति द्वित्वात परत्वात् इको यणचीति ऋकारस्य यणादेशे रेफे प्राप्ते सतीत्यर्थः । कृते तु यणि एकाXन्त्वाभावात्, लिटि धातोरिति

द्वित्वम् न स्यादिति भावः। द्विर्वचन इति ॥ द्विरुच्यते येन परनिमित्तेन तत् द्विर्वचनं द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशेषणमिदम् । अचः परस्मिन्नित्यतः अच इनि स्थानिवदादेश इत्यतः आदेश इति न पदान्तेत्यतः नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवञ्च द्वित्वे
प्रकरणम्]
३७
बालमनोरमा ।

द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ।

२२४४ । उरत् । (७-४-६६ )

अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे । रपरत्वम् । ‘हलादिः शेषः’ (२१७९) । ‘प्रत्यये’ किम् । वव्रश्च ।

२२४५ । कुहोश्चुः । (७-४-६२)

अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधाञ्चक्रे। एधञ्चक्राते। एधाञ्चक्रिरे


कर्तव्ये सतीत्यपि लभ्यते । तदाह । द्वित्वनिमित्ते अचीत्यादिना ॥ द्वित्वे कर्तव्ये सतीत्युत्तेः कृते द्वित्वे चक्रे इत्यादौ यणादयो भवन्ति । अन्यथा तु न स्युः । द्वित्वनिमित्तस्य अचस्सत्वात् । द्वित्वनिमित्त इति किम् । दुद्यूषति । दिव् धातोः सनि द्वित्वात्परत्वात् ऊठि कृते द्वित्वात्प्राग्यण् भवत्येव । तथा द्यु इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत । नतूकार । द्वित्वनिमित्त इत्युक्तौ तु ऊठि परे द्वित्वात् प्राक् यणो न निषेध । ऊठो द्वित्वनिमित्तत्वाभावात् । अचीति किम् । जेघ्रीयते । अत्र घ्राधातोर्यडि द्वित्वात् प्राक् ‘ई घ्राध्मोः’ इति ईकारादेशो न निषिध्यते । ईत्वस्य द्वित्वनिमित्तयड्निमित्तकत्वेऽपि द्वित्वनिमित्ताज्निमित्तकत्वाभावात् । अचः किम् । असूषुपत् । इह स्वापेश्वडि द्वित्वात् प्राक् स्वापेश्चडीति वकारस्य सम्प्रसारण न निषिश्यते । तस्याजादेशत्वाभावात् । ततश्च कृते सम्प्रसारणे सुप् इत्यस्य द्वित्वे अभ्यासे उकारस्य श्रवण सम्भवति । सम्प्रसारणे निषिद्धे तु स्वप् इत्यस्य द्वित्वे अभ्यासे उकारो न श्रूयेत । एवञ्च प्रकृते यणादेशात् प्राक् लिटिधातोरिति द्वित्वे कृ कृ ए इति स्थिते । उरदिति ॥ उ: अत् इति च्छेदः । ऋ इत्यस्य उरिति षष्ठ्येकवचनम्। अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । तद्वशात् प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसज्ञाविधानात् । तदाह । अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति ॥ अभ्यासॠवर्णादेशस्याकारस्योरणूपर इति रपरत्वमित्यर्थः । तथाच कर् कृ ए इति स्थिते, हलादिश्शेष इति रेफस्य निवृत्तिरिति भाव । प्रत्यये किमिति॥ अङ्गेनैव प्रत्ययस्याक्षि प्तत्वात् प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति ॥ ओ व्रश्चू च्छेदने, लिटि णल् द्वित्व लिट्यभ्यासस्येति अभ्यासरेफस्य सम्प्रसारणम् । ॠकार । उरत् । रपरत्वम् । हलादिश्शेष । वव्रश्चेति रूपम् । अत्र अभ्यासॠवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नः अकारः तस्य अच:परस्मिन्निति स्थानिवत्वेन सम्प्रसारणतया तस्मिन् परे वकारस्य न सम्प्रसारणे सम्प्रसारणमिति निषेधान्न सम्प्रसारणमिति स्थितिः । उरदित्यत्र प्रत्यये परत इत्यनुक्तौ तु सम्प्रसारणभूतॠकारस्थानिकस्य अकारस्य परनिमित्तकत्वाभावेन स्थानिवत्वाप्रसक्तेः सम्प्रसारणत्वाभावात्तस्मिन् परतो न सम्प्रसारणे सम्प्रसारणामिति निषेधो न स्यादिति भाव । एवञ्च क कृ ए इति स्थिते । कुहोश्चुरिति ॥ कु हु इत्यनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । अत्र

लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । अभ्यासेति ॥ यद्यपि स्थानिनां कव
३८
[भ्वादि
सिध्दान्तकौमुदीसहिता


२२४६ । एकाच उपदेशेऽनुदात्तात् । (७-२-१०)

उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येड् न स्यात् ।



र्गीयाणा हकारस्य च षट्त्वात् चवर्गीयाणा पञ्चत्वान्न यथासख्यम्, नापि स्थानत् आन्तर्यम्, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्य तु कवर्गचवर्गयोगविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तन् । अतो बाह्यप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवगायस्य प्रथम एव चवर्गीयो भवति । अघोषश्वासविवारात्पप्राणप्रयत्नसाम्यात्। नतु द्वितीय:। महाप्राणत्वात्। नापि तृतीयपञ्चमौ । घोषसवारनादप्रयत्नत्वात् । नापि चतुर्थः । घोषमवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति । अघोषश्वासविवारमहाप्राणप्रयत्नत्वात् । नतु प्रथमः । अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थः । अघोषमंवारनादप्रयत्नत्वाटत् । तथा तृतीयस्य कवर्गस्य तृतीय एव चवर्गीयो भवति । घोषसवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः । अघोषश्वासविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि । महाप्राणप्रयत्नत्वाच्चX । नापि चतुर्थः । महाप्राणत्वात् । नापि पञ्चमः । घोषसवारनादाल्पप्राणसास्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति । घोषसवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः । अघोषश्वासविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः । अघोषविवारश्वासXप्रयत्नत्वात् । नापि तृतीयपञ्चमौ । अल्पप्राणन्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वात् ञकार एव । हकारस्य तु घोषसवारनादमहाप्राणवतः तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ॠकारस्य यणि रेफः । तदाह । एधाञ्चक्र इति ॥ एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थः । एधाञ्चक्रात इति ॥ कृञो लिट आतामि टेरेत्वम् । द्विर्वचनेऽचीति याणि निषिद्धे कृ इत्यस्य द्वित्वे उरदत्वम् । हलादिश्शेषः । चर्त्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकार स्याचो द्वित्वनिमित्तत्वाभावात् कथमिह द्विर्वचनेऽचीति यण् निषेध इति वाच्यम् । साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधाञ्चक्रिर इति ॥ झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् । अथ लिटि थासस्सेभावे कृ इत्यस्य द्वित्वादै एधाञ्चकृ से इति स्थिते आर्धधातुकस्येड्वलादेरिति इडागमे प्राप्ते । एकाच उपदेश इति ॥ ॠत इद्धातोरित्यतः धातोरित्यनुवर्तते । नेड्वशिकृतीत्यतः नेति च । तदाह । उपदेशे यो धातुरेकाजिति ॥ एकः अच् यस्येति बहुव्रीहिः । आर्धधातुकस्येति ॥ यद्यपदि न श्रुतम् । नाप्यनुवृत्तिलभ्यम् । तथाप्यार्थिकमिदम् । आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् । नत्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेश इत्येतदेकाच इत्यत्रान्वेति तदा

कर्तुमित्यत्र इण्णीषेधो न स्यात् । कृञ्धातोरूद्दुXदन्तैरित्यादिना अनुदात्तत्वस्य वक्ष्यमाणत्वेऽपि तुमुन्प्रत्यये कृते ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वात् । यदि तु उपदेश इत्येतत्, अनु
प्रकरणम्]
३९
बालमनोरमा ।

‘उपदेशे’ इत्युभयान्वयि । ‘एकाचः’ इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि।

श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।

यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ।। इति ।

एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । ‘अचः’ इत्येवैकत्वविवक्षया तद्वतो ग्रहणे सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्कत्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ।



दात्तादित्यनेनान्वेति । तदा यद्यपि नाय दोषः । कृते तुमुन्प्रत्यये उदात्तत्वेऽपि धातूपदेशकाले अनुदात्तत्वेन तत्र इण्णिषेधस्य निर्बाधत्वात् । तथाच एधाञ्चकृषे इत्यादौ इणिषेधो न स्यात् । द्वित्वे कृते अनकाच्त्वादित्यत आह । उपदेश इत्युभयान्वयीति ॥ उपदेश इत्येतत् एकाजित्यत्रानुदात्तादित्यत्र चान्वेति । मध्यमणिन्यायादिति भावः । ननु ऊXदन्तैरित्यादिना परिगणितानामनुदात्तेपेदशधातूनामेकाच्त्वाव्यभिचारादेकाज्ग्रहण मास्तु । उपदेशेऽनुदात्तादित्येवास्तु । एतावतैव कर्तु चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति । एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति ॥ यड्लुकि चर्करितेत्यादौ इण्णिषेणषेधव्यावृत्तये एकाज्ग्रहणमित्यर्थः । ननु कृतेप्येकाज्ग्रहणे कथ यड्लुग्व्यावृतिः । कृते द्वित्वे अनेनकाच्त्वेपि धातूपदेशे एकाच्त्वादित्यत आह । स्मरन्ति हीति ॥ प्राचीनाचार्या निबध्नन्तीत्यर्थः । श्तिपा शपेल्यादेरुदाहरणानि यड्लुड्निरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाज्ग्रहणाद्यङ्लुकि इण्णिषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यड्लुग्व्यावृतिः प्राचीनाचार्यसम्मताऽपि पाणिनेरसम्मतैवेत्यत आह । एतच्चेति ॥ एतत् श्तिपा शपेति श्लोकसिद्धं सर्वमपि, इह सूत्रे एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु हनोवधलुडीति हनधातोर्वधादेशे कृते अवधीदित्यत्र इडागमो न स्यात् । वधादेशे कृते अनेकाचत्वेऽपि धातूपदेशे हन्तेरेकाच्त्वादित्यत आह । अच इत्येकत्वेत्यादि व्यावर्त्यत इत्यन्तम् ॥ एकाच उपदेशेऽनुदात्तादित्यत्र हि एकग्रहणमपनीयाचइत्युक्तेऽपि एकाच्कादिति लभ्यते । एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाभावात् । न चैव सति एकत्वविशिष्टादवः परस्येत्येव लभ्येत । नत्वेकाच्कादिति बहुव्रीह्यर्थ इति वाच्यम्। अनुदात्तोपदेशपरिगणने शक्लृ पाचि मुच्यादीनां परिगणनसामर्थ्येन अच इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसभवात् । तदेवमच इत्यनेनैव एकाचकादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कास्मिंश्चिदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुर्व्यावर्तत इत्यर्थः । तेनेति ॥ उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन हन्युपदेशे हानित्यनुदात्तोपदेशे एकाचोऽपि

सतो हनिति धातोरादेशस्य वधेः परस्य इण् निषेधो नेत्यर्थः । कुत इत्यत आह । आदे
४०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२४७ । इणः षीध्वंलुङ्लिटां धोऽङ्गात् । (८-३-७८)

इण्णन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्यः स्यात् । एधाञ्चकृढ्वेX । एधांचक्रे । एधाञ्चकृवहे । एधाञ्चकृमहे । एधाम्बभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि ‘ क्रस्चानुप्रयुज्यते’ इति ‘कृभु-’ इति वा ब्रXयात् ।

२२४८ । अत आदेः । ( ७-४-७०

अभ्यासस्यादेXरतो दीर्घः स्यात् । पररूपापवादः। एधामास । एधामासतुरित्यादि । एधिता । एधितारौ । एधितारः । एधितासे। एधितासाथे ।



शोपदेश इति ॥ अवधीदित्यत्रातोहलादेर्लघोरिति वृद्धिनिवृत्तये ह्वXनो वधादेशस्य अदन्ततया भाष्ये उक्तत्वादिति भावः । ननु के ते अनुदात्ता धातव इत्यत आह । अनुदात्तास्त्वनुपदमेवेति ॥ पदस्य पश्चादनुपदम् पदमात्रे अतीते सतीत्यर्थः । अनन्तरमेवेति यावत्। एधाञ्चकृषे इति ॥ इडभावे प्रत्ययावयवत्वान् पत्वम् । एधाञ्चक्राथ इति ॥ लिटः आथामादेशः । टेरेत्वम् । द्वित्वादि पूर्ववत् । लिटो ध्वमष्टरेत्वे द्वित्वादौ एधाञ्चकृध्वे इति स्थिते । इणः षीध्वमिति ॥ षीध्व लुड् लिट एषा द्वन्द्व ध इति षष्ट्येकवचनम् । इण इत्यङ्गविशेषणम् । तदन्तविधिः । अपदान्तस्य मूर्धन्य इत्याधिकृतम् । तदाह । इण्णन्तादित्यादिना ॥ धकारस्य ढकारो मूर्धन्यः । घोषसवारनादमहाप्राणप्रयत्नसाम्यात् । तदाह । एधाञ्चकृढ्व इति ॥ उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह । एधाञ्चक्र इति । एधाञ्चकृवह इति ॥ लिटो वहिभावे एत्वे द्विन्वादि पूर्ववत् । एवं लिटो महिभावे द्वित्वादि पूर्ववत् । सर्वत्रासयोगाल्लिटकिदिति कित्वाद्गुणाभावः। अथ भूधातोः लिडन्तस्यानुप्रयोगे उदाहरति । एधाम्बभूवेति ॥ एधाञ्चक्र इत्यनेन समानार्थकम्। अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वात् अस्तेर्भूरित्यार्धधातुके विहितो भूभावः कुतो न स्यादित्यत आह । अनुप्रयोगेति ॥ कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादसधातोर्भूभावो नेत्यर्थः । तदेवोपपादयति । अन्यथेति ॥ अनुप्रयुज्यमानस्यास्तेर्भूभावाभ्युपगमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविधौ क्रसूचानुप्रयुज्यत इति वा कृभुचानुप्रयुज्यत इतिवा ब्रूयात् । तावता एधाम्बभूवेति सिद्धेरित्यर्थः । यद्यपि कृञ्जित्युक्तौ लाघवमस्ति । तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भावः । अत एवात उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्य सङ्गच्छते ।

ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधा अम् अ इति स्थिते द्वित्वे हलादिशेषे अ अस् इति स्थिते सवर्णदीर्घम्बाधित्वा अतो गुण इति पररूपे प्राप्ते । अत आदेरिति ॥ अत्रलोप इत्यस्मादभ्यासस्येत्यनुवर्तते । व्यथो लिटल्यतो दीर्घ इति । तदाह । अभ्यासस्येति ॥ अत्र यद्वक्तव्यन्तन्नामधातुप्रक्रियायां अ इवाचरति अतीत्यादि ग्रन्थस्य व्याख्या
प्रकरणम्]
४१
बालमनोरमा ।

२२४९ ! धि च । (८-२-२५)

धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ।

२२५० । ह एति । (७-४-५२)

तासस्योः सस्य हः स्यादेति परे । एधिताहे। एधितास्वहे। एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ।



नावसरे वक्ष्यते । एधामासेति ॥ नचात्रानुप्रयुज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपद शङ्क्यम् । तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति ॥ एधामासुः । एधामासिथ । एधामासथु । एधामास । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया ॥ एधितेति ॥ लुटस्तादेशे एध् त इति स्थिते शबपवादस्तास् इट् लुट प्रथमस्येति डा टिलोपः एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति ॥ लुट आताम् तास् इट् आतामित्यस्य रौभाव । रिचेति सलोपः । एधितार इति ॥ झस्य रस् तास् इट् रिचेति सलोपः रुत्वाविसर्गौ । एधितास इति ॥ थासस्से तास् इट् तासस्त्योरिति सलोप । एधितासाथ इति ॥ आथाम् टेरेत्व तास् इट् । अथ ध्वमि टेरेत्वे तासि इटि एधितास् ध्वे इति स्थिते । धिचेति ॥ सस्यार्धधातुक इत्यतस्सस्येत्यनुवर्तते । तासस्योरित्यतो लोप इति । अङ्गाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते । तदादिविधिः । तदाह । धादाविति ॥ तासस्सलोपे एधिताध्वे इति रूपम् । अथ लुटः इडादेशे एत्वे तासि इटि एधितास् ए इति स्थिते । हएतीति ॥ ह इति प्रथमान्तम् । अकार उच्चारणार्थ । सस्यार्धधातुक इत्यत सस्येति तासस्त्योर्लोप इत्यतः तासस्त्योरिति चानुवर्तते । तदाह । तासस्त्योरिति ॥ तासस्सस्य हकारे एधिताहे इति रूपम् । एधितास्वहे इति ॥ लुटो वहिभावः टेरेत्वम् तास् इट्। एव एधितास्महे इति । तत्र महिभावो विशेषः ॥ इति लुटप्रक्रिया ॥ एधिष्यत इति ॥ लूटस्तादेशे टेरेत्वम् । स्यतासी इति शबपवादः स्य इट् प्रत्ययावयवत्वात् षत्वम् । एधिष्येते इति ॥ आताम् टेरेत्वम् स्यः इट् आतो डित इत्याकारस्य इय् । लोपो व्योरिति यलोपः आद्गुणः षत्वम् । एधिष्यन्त इति ॥ झस्य टेरेत्वं झकारस्य अन्तादेशः स्यः इट् पररूप

षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासस्से स्यः इट् षत्वम् एधिष्यस इति रूपम् एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे स्यः इट् षत्वम् एधिष्यध्वे इति रूपम् । इट एत्वे स्यः इडागमः षत्वम् अतो गुण इति पररूपम् । एधिष्ये इति रूपम् । वहिमह्योष्टेरेत्वम् स्यः इट् अतो
४२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२५१ । आमेतः । (३-४-९०)

लोट एकारस्याम्स्यात् । एधताम् । एधेताम् । एधन्ताम् ।

२२५२ । सवाभ्यां वामौ । (३-४-९१

सवाभ्यां परस्य लोडेतः क्रमात् : ‘व’ ‘अम’ एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ।

२२५३ । एत ऐ । (३-४-९३)

लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधैः । एधावहै । एधामहै ।

२२५४ । आडजादीनाम् । (६-४-७२)

अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । ‘आटश्च’ (२६९) । ऐधत ।



दीर्घः एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया ॥ आमेत इति ॥ आम् एतः इति च्छेदः । लोटो लड्वदित्यतो लोट इत्यनुवर्तते । तदाह । लोट एकागस्येति ॥ लोडादेशावयवस्य एकारस्येत्यर्थ । एधतामिति ॥ लोटस्तादेशे टेः एत्वे आमादेशे शपि रूपम् । एधतामिति ॥ आताम् टेरेत्व शप् सार्वधातुकमपिदिति डित्वादातोडित इत्याकारस्य इय गुणः यकारलोपः आमेत इत्येकारस्य आम् । एघन्तामिति ॥ झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम्। अथ लोटस्थासस्मेभावे शपि एधसे इति स्थिते । सवाभ्यामिति ॥ सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अमच वामौ लोटो लड्वदित्यस्मात् लोट इति आमेत इत्यस्मादेत इति चानुवर्तते । तदाह । सकारेति ॥ आमेत इत्यस्यापवादः । एधस्वति ॥ एधसे इत्यत्र एकारस्य व इति वक्राराकारसXघात आदेशः । एधेथामिति ॥ आथाम् टेरेत्व शप् आतो डित इत्याकारस्य इय् गुणः यलोपः आमेत इत्याम् । एधध्वमिति ॥ ध्वमि शप् टेरेत्वे कृते सवाभ्यामिति वकारात् परत्वादेकारस्य अम् । उत्तमपुरुषैकवचने इटि टेरेत्वे शपि आमेत इत्येकारस्य आमि प्राप्ते । एत ऐ इति ॥ ऐ इति लुप्तप्रथमाकम् । लोटो लड्वदित्यस्माल्लोट इति आहुत्तमस्य पिबेत्यस्मादुत्तमस्येति आमेत इत्यस्मादेत इति चानुवर्तते । तदाह । लोडुत्तमस्येति । एधै इति ॥ एध ए इति स्थिते एकारस्य ऐत्वे आडुत्तमस्येत्याडागमे आटश्चेति वृद्धौ वृद्धिरेचीति वृद्धिः । एधावहै । एधामहै इति ॥ वहिमह्योष्टेरेत्वे शपि एकारस्य ऐत्वे आटि सवर्णदीर्घः ॥ इति लोटप्रक्रिया ॥ अथ एधधातोर्लडि लुङ्लङ्लृङ्क्षडुदान इत्यदागमे

वृद्धिम्बाधित्वा परत्वादतोगुण इति पररूपे प्राप्ते । आडजादीनामिति । लुङादिष्विति ॥ लुङ्लङ्लूङ्क्ष्वित्यनुवृत्तेरिति भावः । अटोऽपवाद इति ॥ अटि सति
प्रकरणम्]
४३
बालमनोरमा ।

ऐधेताम् । ऐधन्त । ऐधथा: । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ।

२२५५ । लिङः सीयुट् । (३-४-१०२)

लिङात्मनेपदस्य सीयुडागमः स्यात् । सलोपः एधेत । एधेयाताम्

२२५६ । झस्य रन् । (३-४-१०५)

लिडो झस्य रन्स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ।

२२५७ । इटोऽत् । (३-४-१०६)

लिङादेशस्येटोऽत्स्यात् एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्ध



पररूप स्यादिति भाव । आटश्चेत्यनन्तर वृद्धिरिति शेषः । यद्यपि वृद्धिरेचीति एत्येधतीति वा वृद्धौ इद सिध्यति । तथापि ऐक्षतेल्याद्यर्थम् सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति ॥ लडस्तादेशे शपि आडागमे आटश्रेति वृद्धिः । लडादेशाना टिदादेशत्वाभावात् एत्वम् न भवति । आडजादीनामिति सूत्र भाष्ये प्रत्याख्यातम् । ऐधेतामिति ॥ आतामि शपि आटि वृद्धिः । आतोडित इत्याकारस्य इय् । आद्गुणः यलोपः । ऐधन्तेति ॥ झेरन्तादेशः शप् आट् वृद्धिः । ऐधथा इति ॥ थास् शप् आट् वृद्धिः । ऐधेथामिति ॥ आथाम् शप् आट् वृद्धिः इय् आद्गुणः यलोपः । ऐधध्वमिति ॥ ध्वम् शप् आट् वृद्धिः । ऐधे इति ॥ इट् शप् आद्गुणः आटो वृद्धिः । ऐधावहि । ऐधामहि इति ॥ वहिमह्योश्शप् आट् वृद्धिः अतो दीर्घ ॥ इति लङ्प्रक्रिया ॥ लिङस्सीयुडिति ॥ स्पष्टम् । परस्मैपदानां लिडादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ॥ लिडस्सलोप इत्यनेनेति शेष । एधेतेति ॥ लिडस्तादेशः सीयुट् शप् सलोप आद्गुणः यलोपः । एधेयातामिति ॥ आतामि सीयुट् शप् सलोपः आद्गुण । झस्य रान्निति ॥ लिडस्सीयुडित्यतो लिड इत्यनुवर्तते । तदाह । लिङो झस्येति ॥ लिडादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति ॥ झस्य रन् शप् सीयुट् सलोपः आद्गुणः यलोपः । एधेथा इति ॥ थास् सीयुट् शप् सीयुटस्सस्य लोप आद्गुणः यलोपःथासस्सस्यरुत्वविसर्गौ। एधेयाथामिति ॥ आथाम् सीयुट् सलोपः शप् आद्गुण: । एधेध्वमिति ॥ ध्व सीयुट् शप् सलोपः आद्गुणः यलोपः । इटोऽदिति ॥ इट: अत् इति च्छेदः। लिडस्सीयुडिल्यतो लिड इत्यनुवर्तते । तदाह। लिङादेशस्येति ॥ अच्च घेरित्यत्रेव आदेशे तकार उच्चारणार्थ एव नत्वित्सज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपश्चितम् । इत्सज्ञक एवेत्यन्ये । न विभक्ताविति निषेधस्तु न । अदेषत्वात् प्राक् विभक्तित्वाभावात् । झस्य रात्रित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारान्तरप्रश्लेषादुपदेशे अन्त्यत्वाभावान्नकारस्य नेत्सज्ञेल्यलम् । एधेयेति ॥ इट् तस्य अकारादेशः ।

सीयुट् शप् सलोपः आद्रणः । एधेवहि। एधेमहीति ॥ वहिमह्योस्सीयुट् सलोपः शप
४४
[भ्वादि
सिध्दान्तकौमुदीसहिता


धातुकत्वाल्लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्पत्वम् । एधिषीष्ट । एधिपीयास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि। ऐधिष्ट । ऐधिषाताम् ।

२२५८ । आत्मनेपदेष्वनतः । (७-१-५)

अनकारात्परस्यात्मनेपदेषु झस्य ‘अन्’ इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठा: । ऐधिषाथाम् । ‘इण:षीध्वं लुङ्लिटां धोऽङ्गात्’ (२२४७) ।



आद्रुणः यलोपः। इति विधिलिङ्प्रक्रिया ॥ आर्धधातुकत्वादिति ॥ लिडाशिषीत्यनेनेति भावः । सलोपो नेति ॥ सार्वधातुकग्रहणस्य लिडस्मलोपः इत्यत्रानुत्तेरिति भावः । सीयुट् सुटेरिति ॥ लक्ष्यभेदान्पुनःप्रवृत्तिरिति भावः । युगपदेवोभयोः पन्वमित्यन्ये । एधिषीष्टेति ॥ आशिषि लिडः तादेशः । आर्धधाधुकत्वात् न शप् सीयुट् तकारस्य सुट् सीयुटस्सकारात् प्रागिडागमः यलोपः सीयुटस्सुटश्च सकारस्य षत्व तकारस्य ष्टुत्वेन टकारः । एधिषीयास्तामिति ॥ आताम् सीयुट् आकारादुपरि तकारात्प्राक सुट् । सीयुट् प्रागिट । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरन्निति ॥ झस्य रन । सीयुट् इडागमः यकारलोपः षत्वम् । एधिषीष्टा इतेि ॥ थास् सीयुट् थकारस्य सुट् सीयुट् प्रागिट सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । एधिषीयास्थामिति ॥ आथाम् सीयुट् । आकारादुपरि थकारात् प्राक् सुट् सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । 'एधिषीध्वमिति ॥ ध्वम् सीयुट् यलोपः सीयुटः प्रागिट् षत्वम्। इणः परत्वेऽपि इण्णन्तादन्नात्परत्वन्नास्ति । इटः प्रत्ययभक्तत्वात् । ततश्च इणः षीध्वमिति ढत्व न भवति । एधिषीयेति ॥ इटः अत् सीयुट् इट् षत्वम् । एधिषीवहि । एधिषीयीमहीति ॥ वहिमह्योस्सीयुट इटX षत्वम् । इत्याशीर्लिङ्प्रक्रिया ॥ ऐधिष्टेति ॥ लुङस्तादेशः ग्लिः सिच् इद धातोराट् वृद्धिः षत्वम् ष्टुत्वम् । ऐधिषातामिति ॥ आताम् च्लिः सिच इट् आट् वृद्धिः षत्वम्। अथ झस्य आदेर्झकारस्य झोन्त इत्यन्नादेशे प्राप्ते । आत्मने पद इति ॥ झोऽन्त इत्यतः झ इति षष्ठ्यन्तमनुवर्तते । आत्मनेपदेष्विति षष्ठ्यर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । अदभ्यस्तादित्यतः आदित्यनुवर्तते । न अत् अनत् । तस्मादिति विग्रहः । तदाह । अनकारादित्यादिना । ऐधिषतेति ॥ झावयवझकारस्य अत् इत्यादेशः च्लिः सिच इट आट् वृद्धिः षत्वम् । ऐधिष्ठा इति ॥

थास् च्लिः सिच् इट् आट् वृद्धिः षत्वं थकारस्य ष्टुत्वेन ठकारः रुत्वविसर्गौ । ऐधिषाथामिति ॥ आथाम् च्लिः सिच् इट् आट् वृद्धिः षत्वम् । अथ ध्वमो धस्य ढत्वम् स्मारयति । इणःषीध्वमिति । ऐधिढ्वमिति ॥ ध्वम् च्लिः सिच् इट्, आट् वृद्धिः धिचेति सस्य लोपः । इणःषीध्वमिति धकारस्य ढत्वम् । इटः लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताङ्गत्वादिति भावः । इडाभिन्न एवेति ॥ उत्तरसूत्रे विभाषेट इत्यत्र
प्रकरणम्]
४५
बालमनोरमा ।


ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यत इति मते तु ऐधिध्वम् ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत। ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथा: । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् । प्रसङ्गादनुदात्ताः संगृह्यन्ते ।

ऊद्दृदन्तैर्यौतिरुक्ष्णुशीस्नुनुक्षुश्विडीङ्श्रिभिः । वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ।।



इङ्ग्रहणात् पूर्वसूत्रे इणःषीघ्वमित्यत्र इड्भिन्न एव इण् गृह्यत इति केचिदाहुः । तन्मतेतु प्रकृते इटः परत्वातू धकारस्य ढत्वाभावे ऐधिध्वमित्येव रूपामिलयर्थः । इदन्तु मतान्तर भाष्यानारूढमिति सूचयितु तुशब्दः । ढधयोरिति ॥ मतभेदमाश्रित्येद । तत्र ढत्वाभावपक्षे धकारस्य अनचिचेति द्वित्वविकल्पात् द्विधमेकधमिति रूपद्वयम् । एव ढत्वे द्विढ एकढ इति रूपद्वयम् । रूपचतुष्टयेऽपि यणो मयो द्वे वाच्ये इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथाच अष्टौ रूपाणि सम्पन्नानि । मकारस्य द्वित्वविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश रूपाणि सम्पन्नानीत्यर्थः । ऐधिषीति ॥ लुड: इडादेशः च्लिः सिच् इडागमः आट् वृद्धि । वहिमह्योस्तु च्लेस्सिचि इडागमे आटि वृद्धौ ऐधिष्वहि ऐधिष्महीति रूपे । इति लुड्प्रक्रिया ॥ ऐधिष्यतेति ॥ लृडः तादेशः स्य इट् आट् वृद्धि षत्वम् । ऐधिष्येतामिति ॥ आता स्यः इट् आकारस्य इय् आद्गुणः यलोपः आट् वृद्धिः षत्वम् । ऐधिष्यन्तेति ॥ झावयवझकारस्यान्तादेशः स्य इट् आट् वृद्धिः षत्वम् । ऐधिष्यथा इति ॥ थास् स्यः इट् आट् वृद्धिः रुत्वविसर्गौ । ऐधिष्येथामिति ॥ आथाम् स्यः इट् आकारस्य इय् आद्रुणः यलोपः आट् वृद्धिः षत्वम् । ऐधिष्यध्वमिति ॥ ध्वम् स्यः इट् आट् वृद्धिः षत्वम् ।

ऐधिष्य इति ॥ इडादेशः स्य इडागमः षत्वम् आद्गुणः वहिमह्योस्तु स्यः इट् अतो दीर्घः आट् वृद्धिः षत्वम् ऐधिष्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तेत्कत्वात् एकाच उपदेशेऽनुदात्तादितीण्णिषेधः कुतो न स्यादित्यत आह । उदात्तत्वादिति ॥ एधधातुर्यद्यपि अनुदात्तेत् । तथापि अनुदात्तस्येतः लोपे सति परिशिष्टो धातुर्नानुदात्त इति भाव । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह । प्रसंगादिति ॥ स्मृतस्योपेक्षानर्हत्वम्प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनान्तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानी ज्ञान सम्भवतीति भावः । ऊदृXदन्तैरिति ॥ अजन्तेषु धातुषु ऊदन्तैः ऋदन्तैश्च धातुभि विना यु रु क्षणु शीङ् स्नु नु क्षु श्वि डीड् श्रि
४६
[भ्वादि
सिध्दान्तकौमुदीसहिता

शक्लृपच्मुचिरिच्वच्विच्सिच्प्रच्छित्यज्निजिर्भजः ।

भञ्ज्भुज्भ्रस्ज्मस्जियज्युज्रुज्रञ्ज्विजिर्स्वञ्जिसञ्ज्सृजः ॥

अद्क्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ।

शद्सदी स्विद्यति स्कन्दिहदी क्रुध् क्षुधिबुध्यती ॥

बन्धिर्युधिरुधी राधिव्यध्शुधः साधिसिध्यती ।

मन्यहन्नाप्क्षिप् छुपितप्तिपस्तृप्यतिदृप्यती ॥

लिप्लुप्वप्शप्स्वप्सृपियभ्रभ्लभ्गम्नम्यमो रमिः ।



एतैश्च धातुभिर्विना बृङ् बृञ् आभ्याञ्च विना अन्य एकाच - अजन्तधातव निहताः अनुदात्ता स्मृता: । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थ । अथ हलन्तेषु अनुदात्तात् धातून् परिगणयति । शक्लृ पच् मुचीति ॥ शक्लृ पच् मुच् रिच् वच् विच् सिच् प्रच्छ् त्यज् निजिर् भज् एषां द्वन्द्वः । तत्र कान्तेषु शक्लृ इत्येकः । लृकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच् वच् विच् सिच् इति पट । अत्र उपचप् इत्यस्यैव ग्रहण प्रसिद्धत्वात् । न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः । मुचल मोक्षणे इत्यस्यैव ग्रहण न तु मुचि कल्कन इति भौवादिकस्य । अविशेषात्सर्वस्येत्यन्ये । छान्तेषु प्रच्छ एक: । प्रच्छेत्यकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भञ्ज भुजित्यादि सृज इत्यन्तमेकपदम् । जान्तेषु त्यज् निज् भज् भञ्ज् भुज् भ्रस्ज् मस्ज् यज् युज् रुज् रञ्ज् विज् स्वञ्ज् सञ्ज् सृज् इति पञ्चदश । अद क्षुदित्यादि नुद इत्यन्तमेकम्पदम् । तत्र तुदेरिकार उच्चारणार्थः । पद्यभिदित्येकम्पदम् । समाहारद्वन्द्वः । पद्येति श्यनानिर्देशः । विद्यतिरिति श्यनानिर्देशः । विनदिनि श्नमानिर्देशः । शदसदीत्यादि बुध्यतीत्यन्तमेकम्पद । समाहारद्वन्द्वः । सदिस्कन्दिहदिक्षुधि इति इका निर्देशः । स्विद्यति बुध्यतीति श्तिपा श्यन्विकरणयोर्निर्देशः । ततश्च दान्तेषु अद् क्षुद् खिद् छिद् तुद् नुद् (पद् श्यन्विकरण:) (विद् श्यन्विकरण:) (विनद् श्यन्विकरण) शद् सद् (स्विद् श्यन्विकरणः) स्कन्द् हद् इति पञ्चदश । बन्धिरिति इका निर्देश. । युधिरुधी इत्येकम्पदम्, इका निर्देशः । राधि व्यध् शुध् इत्येक पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधीति इका निर्देशः । ततश्च धान्तेषु क्रुध् क्षुध् बुध् श्यन्विकरणः बन्ध् युध् रुध् राध् व्यध् शुध् साध् सिध् श्यन्विकरणः इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकम्पदम् । मन्येति श्यना निर्देशः । छपीति इका निर्देशः । तृप्यतिदृप्यती इति द्वन्द्वः श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकम्पदम् । सृपीति इका निदेशः । रमिरिति भिन्नम्पदम् । इका निर्देशः । तथा च नान्तेषु मन् हन्निति द्वौ । मनिः श्यन्विकरण । पान्तेषु आप् क्षिप् छुप् तप् तिप् तृप् दृप् लिप् लुप् वप् शप् स्वप् सृप् इति त्रयोदश । भान्तेषु यभ् रभ् लभ् इति त्रयः । मान्तेषु गम् नम् यम् रम् इति चत्वारः ।
प्रकरणम्]
४७
बालमनोरमा ।

क्रुशिर्दंशिदिशी दृश्मृश्रिश्रुश्लिश्विश्स्पृशः कृषिः ॥

त्विष् तुष् द्विष् दुष् पुष्य पिष् विष् शिष् शुष् श्लिष्यतयो घसिः ।

वसतिर्दह्दिहिदुहो नह्मिह्रुह्लिह्वहिस्तथा ॥

अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् ।

तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥

तृप्दृपी तौ वारयितुं श्यना निर्देश आदृतः ।

किं च ।

स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्यश्लिषः श्यना ॥

वसि: शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ।

निजिर्विाजिर्शक्लृ इति सानुबन्धा अमी तथा ॥

विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ।

व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥


क्रुशिरित्यादि स्पृश इत्यन्तमेकम्पदम् । क्रुशिरिति दृशिरिति च इरितौ । दशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दश् दिश् दृश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश । कृषिरिति पृथक्पदम् । इका निर्देशः । त्विषीत्यादि श्लिष्यतयइत्यन्तमेकम्पदम् । पुष्येति श्यना निर्देशः । शिष्यतीति श्यन्विकरणस्य श्तिपा निर्देश । तथाच षान्तेषु कृष् त्विष् तुष् द्विष् दुष् (पुष् श्यन्विकरण) पिष् विष् शिष् शुष् (श्लिष् श्यन्विकरणः) इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देश । वसतिरिति पृथक्पद श्तिपा निर्देश. । सान्तेषु घस् वस् इति द्वौ । दह् दिह् दुह् इति द्वन्द्व. । दिहीति इका निर्देशः । नह् मिह् रुह् लिह् इति समाहारद्वन्द्वः । वहि इति पृथक्पद इका निर्देश । तथेति चकारपर्यायः । हान्तेषु दह् दिह् दुह् नह् मिह् रुह् लिह् वह् इत्यष्टौ । ह्व्यधिकं शतमिति ॥ भाष्ये मृषेष्षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ षान्तेषु द्वयोः श्यना निर्देशस्य फलमाह । तुदादाविति ॥ यौ तृप्दृपी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ तौ अनुदात्तभ्यो वारयितु श्यना निर्देशः अभ्युपगत इत्यर्थः । अत एव शेमुचादीनामिति सूत्रभाष्ये तृपितो दृपित इत्युदाहृत सङ्गच्छत इति भावः । किञ्चेति ॥ अन्यदपि वक्ष्यत इत्यर्थः । अन्यनिवृत्तय इति ॥ विकरणान्तरनिवृत्तय इत्यर्थ । तच्चाग्रे तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति ॥ उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थ । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दतिरिति ॥ विद्लृ लाभे इति तौदादिकः । चान्द्रदौर्गादिव्याकरणसम्मत । भाष्येऽपि दृश्यते इति ॥ विन्दिविद्यतीति तत्र पाठादिति भावः । एनमिति ॥ विन्दतिमित्यर्थः । नेह पेठुरिति ॥ तथापि भाष्यप्रामाण्यादस्यानि
४८
[भ्वादि
सिध्दान्तकौमुदीसहिता

रञ्जिमस्जी अदिपदी तुद् क्षुध् शुषिपुषी शिषिः ।

भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसम्मतेः ॥

'स्पर्ध ३ संघर्षे' । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ।

२२५९ । शर्पूर्वाः खयः । (७-४-६१)

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । 'हलादिः शेषः' (२१७९) इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पधिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत ।


ट्कत्वमिति भावः । रञ्जिमस्जी इत्येकम्पदम् । तुद्क्षुदिति पृथक्कृते पदे । शुषिपुषी इत्येकम्पदम् । शिषिरित्यनन्तर इत्येते इति शेषः । नवेहेति ॥ नव धातव भाष्यानुक्ता अपि इद्दानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत आह । व्याघ्रभूत्यादिसम्मतेरिति ॥ भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणन तु नवानामप्येषामुपलक्षणमिति भावः । तेन रक्त रागात् तदस्मिन्नन्नं प्रायेण, क्तोकृतमितप्रतिपन्ना , शुष्कधृष्टौ , क्तेननञ्विशिष्टेनेत्यादिसौत्रप्रयोगा., नुत्तमग्रः पुष्टः मड्क्ता मड्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । इत्यनिटकारिकाः ॥ स्पर्धसंघर्षे इति ॥ वर्तते इति शेष । पराभिभवेति ॥ परस्याभिभवः पराजयः । तद्विषयके च्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोस्सकर्मकन्वात् देवदत्तः यज्ञदत्त स्पर्धयतीत्यादौ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामित्यकर्मककार्यं कथमित्यत आह । धात्वर्थेनोपसंग्रहादर्कमक इति ॥ धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्वमिति सुप आत्मनः क्यजिति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैव सति पदव्यवस्थायां स्पर्धायामाङ् इत्यत्र कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थ इति मूलग्रन्थविरोध इति वाच्यम् । तत्र स्पर्धेरभिभवपूर्वकाह्वाने वृत्तिरित्यलम् । स्पर्धत इति ॥ कथ्यन्ता षट्त्रिशदनुदात्तेत इन्युक्तेरात्मनेपदम । एधधातुवत् लटि धातुरूपाणीति भावः । धातोरिजादित्वाभावादिजादेश्चेति लिट्याम् न । अत एव नानुप्रयोगोऽपि । किन्तु लिटस्तादेशे लिटस्तझयोरिति तस्यैशि लिटि धातोरितिद्वित्वे हलादिश्शेष इत्यभ्यासेप्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते । शर्पूर्वा इति । अभ्यासस्येति ॥ अत्रलोपोऽभ्यासस्येत्यतस्तदनुवृत्तेरिति भावः । शर्पूर्वाः खय इत्यत्र शर् पूर्व: येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर् न शिष्यते । शिष्यन्त इति ॥ हलादिश्शेष इत्यतश्शेष इत्यनुवृत्त कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः । तथाच प्रकृते अभ्यासे हल् पकारश्शिष्यते । नन्द्रास्संयोगादय इति रेफस्य द्वित्वनिषेधो न शक्यः । द्वितीयैकाजवयवस्यैव तन्निषेधात् । तदाह । पस्पर्ध इति ॥ नच वव्रश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यम् । हलादिश्शेष इत्यतोहि आदिरित्यप्यनुवर्तते । शर्व्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते पस्पर्धिरे पस्पर्धिषे पस्पर्धाथे पस्पर्धिध्वे पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि । स्पर्धितेति ॥ लुटि एधधातुवत् रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति ॥ लृटि एधधातुवद्रूपाणीति भावः । स्पर्धतामिति ॥
प्रकरणम्]
४९
बालमनोरमा ।

स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत । 'गाधृ ४ प्रतिष्ठालिप्सयोर्ग्रन्थे च' । गाधते । जगाधे । 'बाधृ ५ लोडने' । लोडनं प्रतिघातः । बाधते । 'नाथृ ६ नाधृ ७ याच्ञोपतापैश्वर्याशीःषु' ।

आशिषि नाथ इति वाच्यम् ।

अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते | 'दध ८ धारणे' । दधते ।

२२६० । अत एकहल्मध्येऽनादेशादेर्लिटि । (६-४-१२०)

लिण्णिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि ।


लोटि एधिवद्रूपाणीति भावः । अस्पर्धतेति ॥ लडि एधिवद्रूपाणीति भाव. । हलादित्वादडेव । नत्वाडिति विशेष. । स्पर्धतेति ॥ विधिलिङि एधिवद्रूपाणि । स्पर्धिषीष्टेति ॥ आशिषि लिङि एधिवद्रूपाणि । अस्पर्धिष्टेति ॥ लुडि एधिवद्रूपाणि । अडागम इति विशेष. । नत्वाट् । अस्पर्धिष्यतेति ॥ लृडि एधिवद्रूपाणि । अडागमो विशेष । नत्वाट् । गाधृप्रतिष्ठेति ॥ चतुर्थान्तो धातुः । ॠकारो नाग्लोपिशास्वृदितामिति निषेधार्थ. । अजगाधत् । प्रतिष्ठा आधारे स्थिति । ग्रन्थ ग्रथनं रचनम् । जगाध इति ॥ लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः चुत्व जश्त्वम् । बाधृ इति ॥ प्रतिघात पीडनम् । नाथृ, नाधृ इति ॥ द्वितीयचतुर्थान्तौ धातू । उपताप ज्वरप्रयुक्ता पीडा । आशीः आशासनम् । द्वितीयान्तस्य नाथृधातोर्विशेषमाह । आशिषि नाथ इति ॥ अत्र नाथ इति षष्ठी । अनुदात्तडित इत्यतः आत्मनेपदमित्यनुवर्तते । अनुदात्तेत्त्वादेव सिद्धे नियमार्थमिदं वार्तिकम् । तदाह । अस्या शिष्येवेति ॥ आशासनार्थवृत्तेरेवनाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेस्तु शेषात् कर्तरीति परस्मैपदमेवेत्यर्थः । नाथत इति ॥ आशास्ते इत्यर्थ । अन्यत्रेति ॥ याच्ञाद्यर्थे विद्यमानस्येत्यर्थ । अथ चतुर्थान्तस्य नाधधातोरुदाहरति । नाधत इति । दधेति ॥ चतुर्थान्तोऽयम् । तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते ।

अत एकहल्मध्य इति ॥ आदेश. आदिर्यस्येति बहुव्रीहि. । अङ्गस्येत्यधिकृतम् अन्यपदार्थः । लिटीति परनिमित्तकसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेश. स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी । तथाच तथाविधाङ्गावयवस्यात इति लभ्यते । एकशब्दः असहायवाची । एके मुख्यान्यकेवला इत्यमरः । एकौ असयुक्तौ हलौ एकहलौ तयोर्मध्य एकहल्मध्य तत्र तिष्ठतीत्येकहल्मध्यस्थः । तस्येति विग्रहः । अत इत्यस्यैव विशेषणमिदम् । घ्वसोरेद्धावित्यत एदिति अभ्यासलोप इति चानुवर्तते । गमहनेत्यतः कितीत्यनुवर्तते नतु डितीति । लिडादेशाना डित्त्वासम्भवात् । लिटीत्येत्वविधौ परनिमित्तञ्च । आवृत्या उभयार्थलाभः । तदाह । लिण्णिमित्तेत्यादिना ॥
५०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२६१ । थलि च सेटि । (६-४-१२१)

प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते । शासिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । 'अत:' किम् । दिदिवतुः । 'तपरः' किम् । ररासे । 'एक-' इत्यादि किम् । तत्सरतुः । 'अनादेशादेः' किम् । चकणतुः । लिट आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे । 'स्कुदि ९ आप्रवणे' । आप्रवणमुत्प्लवनमुद्धरणं च ।


थलिचेति । प्रागुक्तमिति ॥ अत एकहल्मध्य इति यत् प्रागुक्त एत्वादि तत् सेटि थलि च स्यादित्यर्थः । थल. कित्वाभावात् पूर्वसूत्रेणाप्राप्तौ वचनम् । ननु देधे पेततुरोत्यादौ अभ्यासे चर्चेति जशा चराञ्च जाशि चरिच लिण्णिभित्तादेशादित्वात् कथमेत्वाभ्यासलोपावित्यत आह । आदेशश्चेति ॥ इह अतएकहल्मध्य इति सूत्रे । आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथाच तथाविधादेशादेरेव एत्वाभ्यासलोपौ न भवतः । स्थानिसरूपादशादस्तु न पर्युदास इत्यर्थ. । शसिदद्योरिति ॥ नशसददवादिगुणानामिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदिह यथाकथञ्चिदादेशादे. पर्युदासस्स्यात् तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयो: अभावसिद्धौ न शसददवेति तत्प्रतिषेधोऽनर्थकस्स्यात् । अतः वैरूप्यसम्पादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः । तेनेति ॥ स्थानिसरूपादेशादेः पर्युदासाभावादित्यनेनेत्यर्थः । सत्स्वपीति ॥ देधे पेततुः इत्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देधे इति ॥ दध दध ए इति स्थिते दकारादकारस्य एत्वेऽभ्यासलोपे च रूपम् । असयोगाल्लिट् किदिति कित्वमिह बोध्यम् । देधिर इति ॥ देधिषे देधाथे देधिध्वे देधे देधिवहे देधिमहे इति रूपाणि सम्भवन्तीति भावः । दिदिवतुरिति ॥ दिव्धातोरतुसि द्वित्वे हलोर्मध्ये अतोऽभावादेत्वाभ्यासलोपौ नेति भावः । तपरः किमिति ॥ अत इति तपरकरण किमर्थमित्यर्थ. । ररासे इति ॥ रासृ शब्दे भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थावर्णस्य ह्रस्वत्वाभावादेत्वाभ्यासलोपौ नेति भावः । एकेत्यादि किमिति ॥ एकहल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति ॥ त्सरच्छद्मगतौ । लिटोऽतुसि द्वित्वे अभ्यासाकारस्य नासंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति ॥ कण शब्दे । लिटोऽतुसि द्वित्वे अभ्यासेचर्चेति ककारस्य चुत्वेन चकारः । तथाच वैरूप्यसम्पादकादेशादित्वादेत्वाभ्यासलोपौ नेति भावः । अथ लिण्णिमित्तादेशादिकमित्यत्र लिण्णिमित्तेत्यस्य प्रयोजनमाह । लिट इति । नेमिथेति ॥ णमु प्रह्वत्वे शब्दे च । णोन इति नत्वं । थलि इटि द्वित्वे नत्वसम्पन्ननकारादेशादित्वेपि नत्वस्य लिण्णिमित्तकत्वाभावाल्लिण्णिमित्तकादेशादित्वाभावादेत्वाभ्यासलोपौ निर्बाधाविति भावः । सेहे इति ॥ षह मर्षणे । धात्वादेः षस्स इति षत्वे थलि इटि द्वित्वे सत्वसम्पन्नसकारादेशादित्वेऽपि मत्वस्य
प्रकरणम्]
५१
बालमनोरमा ।

२२६२ । इदितो नुम्धातोः । (७-१-५८)

स्कुन्दते । चुस्कुन्दे । 'श्विदि १० श्वैत्ये' । अकर्मकः । श्विन्दते । शिश्विन्दे । 'वदि ११ अभिवादनस्तुत्योः' । वन्दते । ववन्दे । 'भदि १२ कल्याणे सुखे च' । भन्दते । बभन्दे । 'मदि १३ स्तुतिमोदमदस्वप्नकान्तिगतिषु' । मन्दते । ममन्दे । 'स्पदि १४ किञ्चिच्चलने' । स्पन्दते । पस्पन्दे । 'क्लिदि १५ परिदेवने' । शोक इत्यर्थः । सकर्मकः । क्लिन्दते चैत्रम् । चिक्लिन्दे । 'मुद १६ हर्षे' । मोदते । 'दद १७ दाने' । ददते ।



लिण्णिमित्तकत्वाभावात् लिण्णिमित्तकादेशादित्वविरहादेत्वाभ्यासलोपौ निर्बाधाविति भाव । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कुदीति ॥ उत्प्लवनमुत्प्लुत्य गमनम् । इदित इति ॥ इत् ह्रस्व इकार. इत् इत्संज्ञक यस्य सः इदित्, तस्येति विग्रहः । इत्संज्ञकेदन्तधातोरित्यर्थः । तेन चक्षिडादौ न दोष । नुमि मकार इत् । उकार उच्चारणार्थ. । मित्वादन्त्यादचः परः । स्कुन्दत इति ॥ नश्चापदान्तस्येत्यनुस्वारः परसवर्ण । चुस्कुन्द इति ॥ लिटि द्वित्वे शर्पूर्वा. खय इत्यभ्यासे ककारश्शिष्यते । कुहोश्चुरिति तस्य कुत्वेन चकार. । श्विदीति ॥ श्वैत्यम् श्वैत्यकरणम् । अकर्मक इति ॥ श्वैत्यस्य धात्वर्थोपसङ्ग्रहादिति भाव. । ततश्च श्विन्दयति देवदत्त यज्ञदत्त इत्यादौ गतिबुद्धिप्रत्यवसानेत्यादिना अकर्मककार्य द्वितीया भवति । श्वेतीभवन वा श्वैत्यम् । श्विन्दत इति ॥ श्वेतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । नुमिकृते गुरुमत्वेपि इजादित्वाभावादाम् नेति भाव. । वदीति ॥ अभिवादन आशीर्वाद , तत्कारणभूतो व्यापार प्रणामादिरभिवादनम् । वन्दत इति ॥ इदित्वान्नुम् । ववन्द इति ॥ नुमि कृते अकारस्य सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भाव । भदीति ॥ कल्याण शुभक्रिया, सुख सुखीभाव. । भन्दत इति ॥ इदित्वान्नुम् । बभन्द इति ॥ अभ्यासे भकारस्य जश्भावेन बकार । नुमि अकारस्य सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । मदीति ॥ मोद. सन्तोषः । मदः गर्वः । मन्दत इति ॥ इदित्वान्नुम् । ममन्द इति ॥ नुमि सति सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । स्पदीति ॥ अकर्मक. । स्यन्दत इति ॥ इदित्वान्नुम् । पस्पन्द इति ॥ शर्पूर्वा खय इत्यभ्यासे पकारः शिष्यते । क्लिदीति ॥ परिवेदनशब्द व्याचष्टे । शोक इति ॥ स्मृत्वा क्लेशः शोकः । तदाह । सकर्मक इति । क्लिन्दते चैत्रमिति ॥ अतीतञ्चैत्रं स्मृत्वा क्लिश्नातीत्यर्थ.। इदित्वान्नुम् । चिक्लिन्द इति ॥ अभ्यासे ककारस्य चुत्वेन च इति भावः । मुदेति ॥ हर्षः तुष्टि । मोदत इति ॥ शपि लघूपधगुणः । मुमुद इति ॥ असयोगाल्लिट्किदिति कित्वान्न गुणः । ददेति ॥ न ममेति त्यागो दानं । न तु द्रव्यत्यागः । तथा सति धात्वर्थोपसङ्ग्रहादकर्मकत्वापत्ते ।
५२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२६३ । न शसददवादिगुणानाम् । (६-४-१२६ )

शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । 'ष्वद १८ स्वर्द १९ आस्वादने' । अयमनुभवे सकर्मकः । रुचावकर्मकः ।

२२६४ । धात्वादेः षः सः । (६-१-६४)

धातोरादेः षस्य सः स्यात् । 'सात्पदाद्योः' (२१२३) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । 'उर्द २८ माने क्रीडायां च' ।

२२६५ । उपधायां च । (८-२-७८)

धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते ।


न शासददेति ॥ शस दद वादिगुण एषान्द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विद्दित एव गुणशब्देन विवक्षित । अन्यथा शसिददिग्रहणवैयर्थ्यात् । अत एकहल्मध्य इत्यस्मात् अत इति, घ्वसोरेद्धावित्यत एदिति, अभ्यासलोप इति, चानुवर्तते । तदाह । शसेरित्यादिना ॥ गुणशब्देनेति किम् । पेचे, अत्र पचेरकारस्य गुणत्वेपि गुणशब्देन विद्दितत्वाभावान्नायन्निषेध.। पॄधातोः पपरतुरिति तु गुणस्योदाहरणम् । गुणशब्देन विहित यः अर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति ॥ ददेर्लिटस्तादेशस्य एशि द्वित्वे अत एकहल्मध्य इति प्राप्तावेत्वाभ्यासलोपौ न भवतः । ष्वद स्वर्देति ॥ आस्वादनं अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा । तदाह । अयमिति ॥ प्रत्येकाभिप्रायमेकवचनम् । धात्वादेरिति ॥ ष इति षष्ठ्यन्तम् । तदाह । धातोरादेः षस्य सस्स्यादिति ॥ षकारस्य सः स्यादित्यर्थः । धातुग्रहणङ्कि । षट् । अत्र धात्वादित्वाभावान्न सकारः । आदिग्रहण किम् । लषति ॥

न चैवमपि षकारीयतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम् । आदेच उपदेशेऽशितीत्यत उपदेश इत्यनुवृत्ते । एवञ्च षडित्यादावपि उपदेशग्रहणानुवृत्यैव व्यावृत्तिसिद्धेर्द्धातुग्रहण भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वदस्वर्देत्येव सकार एव उपदिश्यताम् । एवञ्च धात्वादेष्षस्स इत्यपि मास्तु इति चेन्मैवम् । ण्यन्तात् लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाभावेन षत्वासम्भवात् । नन्वेव सति अनुस्वदत इत्यत्रादेशसकारत्वात् षत्वापत्तिरित्यत आह । सात्पदाद्योरिति । सस्वद इति ॥ लिटि द्वित्वे सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति ॥ चकारादास्वादनेपीति केचित् । उपधायाञ्चेति ॥ सिपि धातोरित्यतः धातोरिति । र्वोरुपधाया इत्यतः र्वोरिक इति, हलिचेत्यतः हलीति, चानुवर्तते । उपधयोरित्यर्थे उपधायामित्यार्षम् । तदाह । धातोरित्यादि । ऊर्दत इति ॥ अत्र धातोः रेफवान्तत्वाभावात् र्वोरुपधाया इत्यस्य हलिचेत्यस्य चाप्राप्तौ उपधायाञ्चेत्यारम्भः । धातोरित्यभावे पदाधिकारस्थन्वात्
प्रकरणम्]
५३
बालमनोरमा ।

ऊर्दांचक्रे । 'कुर्द २१ खुर्द २२ गुर्द २३ गुद २४ क्रीडायामेव' । कूर्दते । चुकूर्दे । खूर्दते । गूर्दते । गोदते । जुगुदे । 'पूद २५ क्षरणे' । सूदते । सुषूदे ।

सेक्सृप्सृस्तृसृजस्तॄस्त्यान्ये दन्त्याजन्तसादयः ।

एकाचः षोपदेशाः ष्वक्स्विद्स्वद्स्वञ्जिस्वपस्मिङः ॥


पदस्य उपधाभूतयोरित्यर्थ. स्यात् । ततश्च क्विबन्ते ऊर्द् इत्यत्रैव स्यात् । ऊर्दत इत्यादौ न स्यात् । रेफवकारयो. किम् । पुष्यति । हल्परयो किम् । चिरिणोति । इक कि । नर्दति । ऊर्दाञ्चक्र इति ॥ इजादित्वादाम् । कृञ्चानुप्रयुज्यत इत्यनुप्रयोगः । कुर्देति ॥ गुदेत्यपि पृथग्धातु. । क्रीडायामेवेत्यर्थनिर्देश । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्व ज्ञापयति । कूर्दत इति ॥ उपधायाञ्चेति दीर्घः । चुकूर्द इति ॥ कुहोश्चुरिति चुत्वम् । खूर्दत इति ॥ उपधायाञ्चेति दीर्घ । एव गूर्दत इति । गोदत इति । शपि लघूपधगुण । जुगुद इति ॥ असयोगादिति कित्वान्नगुण. । षूदेति ॥ क्षरणं प्रस्रवणम् । सूदत इति ॥ प्रस्रवतीत्यर्थः । धात्वादेरिति षस्य सः । अलघूपधत्वान्न गुणः । सुषूद इति ॥ धात्वादेरिति षस्य सत्वे लिटि द्वित्वादौ इण परस्यादेशसकारत्वात् षत्वम् । यदि धातुपाठे सकारस्यैव पाठ तर्हि इहादेशसकारत्वाभावात् षत्व न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात् षत्व सूपपादमिति भावः । ननु धातुपाठे के धातवष्षादयः पठिता, के वा सादय । पाणिनिकृतषोपदेशपाठस्य इदानीम्परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपदेशान् पठति । सेगिति श्लोकेन । दत्याजन्तसादय एकाच. षोपदेशास्स्युरित्यन्वयः । दत्यश्च अच्च दत्याचौ तौ अन्तौ अव्यवहितपरौ यस्य स. दत्याजन्तः तथाविधः षः षकार. आदिर्येषान्ते दत्याजन्तषादय । दत्यपरक. अच्परकश्च यः षकारः तदादय एकाचो धातवः इदानीं कृतसत्वास्सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिना उपदिष्टा प्रत्येतव्या इत्यर्थः । सादय इति पाठेप्येवमेव व्याख्येयम् । अज्दत्यपराः षादयष्षोपदेशा इति भाष्यम् । षूद क्षरणे इत्यादय अच्परकषोपदेशा. । ष्ठा गतिनिवृत्तावित्यादयस्तु दत्यपरकषोपदेशा. । दत्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दत्यपरक नाप्यच्परकः । एकाच. किम् । सोसूत्र्यते । सूत्र वेष्टने, चुरादिरजन्त अनेकाच् । यद्यप्येकाच इति भाष्ये न दृश्यते । तथापि यड्विधौ सोसूच्यत इति भाष्यन्तत्र मानामिति भाव । एवञ्च साध संसिद्धौ, इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननु सेकृ गतौ, सृप्लृ गतौ, सृ गतौ, सृज विसर्गे, एते चत्वार अच्परकसादय, स्तृञ् आछादने, ॠदन्तः श्नुविकरणः । स्तॄञ् आछादने ॠदन्त. श्नाविकरणः, स्त्यै शब्दसङ्घातयोः, एते त्रय. दत्यपरकसादयः । एतेषां सप्तानामपि षोपदेशत्व स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्व विशेषणमाह । सेक् सृप् सृ स्तृ सृज स्तॄ स्त्या न्ये इति ॥ स्त्यै धातोः कृतात्वस्य निर्देश. श्लोके समावेशार्थः । स्त्यै इत्यैकारान्तस्य निर्देशे स्त्यायन्य इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वक्क गतौ, ञिष्विदा

गात्रप्रस्रवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिड् ईषद्धसने, इत्येतेषु सकारस्य दत्यपरकत्वाभावात् अच्परकत्वाभावाच्च षोपदेशेष्वसङ्ग्रहः स्यादित्यव्याप्तिमाशङ्क्य तानपि सगृण्हाति । ष्वक्क् स्विद् स्वद् स्वाञ्जि स्वपि
५४
[भ्वादि
सिध्दान्तकौमुदीसहिता

दन्त्यः केवलदन्त्योः न तु दन्तोष्ठजोऽपि । ष्वक्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । 'ह्राद २६ अव्यक्ते शब्दे' । ह्रादते । जह्रादे । 'ह्रादी २७ सुरेव च' । चादव्यक्ते शब्दे । ह्रादते । 'स्वाद २८ आस्वादने' । 'पर्द २९ कुत्सिते शब्दे' । गुदरव इत्यर्थः । पर्दते । । 'यती ३० प्रयत्ने' । यतते । येते । 'युतृ ३१ जुतृ ३२ भासने' । योतते । युयुते । जोतते । जुजुते 'विथृ ३३ वेथृ ३४ याचने' । विविथे । विवेथे । 'श्रथि ३५ शैथिल्ये' । श्रन्थते । ग्रथि ३६ कौटिल्ये' । ग्रन्थते । 'कत्थ ३७ श्लाघायाम्' । कत्थते । एधादयोऽनुदात्तेतो गताः ।

अथाष्टात्रिंशत्तवर्गीयान्ताः परस्मैपदिनः । 'अत ३८ सातत्यगमने । अतति । 'अत आदेः' (२२४८) । आत । आततुः । आतुः । लुङि 'आतिस् 'ई' इति स्थिते ।



स्मिङ इति ॥ अपीति शेषः । ननु स्वृ शब्दोपतापयोरित्यादीनामपि दन्त्यवकारपरकत्वात् षोपदेशत्वं स्यादित्यत आह । दन्त्यः केवलदन्त्य इति ॥ कुत इत्यत आह । ष्वक्कादीनामिति ॥ अन्यथा दत्यपरकत्वादेव सिद्धे ष्वक्कादिग्रहण व्यर्थ स्यादिति भावः । यद्यपि ष्वक्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिवुष्वक्कतीनां षत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भाव. । ह्रादेति ॥ रेफवानयम् । अव्यक्तशब्दः अमनुष्यवाक् । जह्राद इति ॥ अभ्यासस्य ह्रस्वः चुत्वम् । ह्रादीति ॥ लकारवानयम् । श्वीदितोनिष्ठायामति इण्णिषेधार्थमीत्वम् । स्वादेति ॥ केवलदत्यपरकत्वाभावान्नायं षोपदेशः असिस्वदत् । पर्देति ॥ गुदरव इत्यर्थः । यतीति ॥ ईदित्वमिण्णिषेधार्थम् । येते इति ॥ अतएकहल्मध्य इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति ॠदित्वम् नाग्लोपिशास्वृदितामित्याद्यर्थम् । योतत इति ॥ शपि लघूपधगुणः । युयुत इति ॥ असयोगादिति किन्वान्न गुणः । विथृवेथृ इति ॥ द्वितीयान्ताविमौ । ननु विथृ इत्येवास्तु । लघूपधगुणे सति वेथत इत्यस्याविशिष्टत्वादत्यत आह । विविथे, विवेथ इति ॥ वेथृधातोर्विवेथ इति रूपम् । विथृधातोस्तु असयोगादिति कित्वात् गुणाभावे विविथ इति रूपमिति भावः । श्रथीति ॥ द्वितीयान्तः शैथिल्यम् स्रसनम् । श्रन्थत इति इदित्वान्नुम् । ग्रथीति ॥ द्वितीयान्तः । कौटिल्यम् वक्रीभवनम् । ग्रन्थत इति ॥ इदित्वान्नुम् । कत्थेति ॥ अविद्यमानगुणज्ञापन श्लाघा । अथाष्टात्रिंशदिति ॥ अष्टौ च त्रिंशदिति द्वन्द्रः अष्टाधिकात्रिंशदिति वा । ह्व्यष्टनस्सङ्ख्यायामित्यात्वम् अष्टात्रंशदिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति ॥ अनुदात्तस्वरितञित्वाभावात्छेषात् कर्तरीति परस्मैपदिन एवेति भावः । अतेति ॥ सातत्यगमन सन्ततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह । अत आदेरिति ॥ इति दीर्घ इति शेषः । तथा च अभ्यासाकारस्य दीर्घे सति सवर्णदीर्घः । तदाह । आतेति ॥ अकारस्य हल्मध्यस्थत्वाभावादेत्वाभ्यासलोपौ न । लुङीति ॥ अतधातोर्लुडस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे
प्रकरणम्]
५५
बालमनोरमा ।

२२६६ । इट ईटि । (८-२-२८)

इटः परस्य सस्य लोपः स्यादीटि परे ।

सिज्लोप एकादेशे सिद्धो वाच्यः ।

आतीत् । आतिष्टाम् । आतिषुः ।

२२३७ । वदव्रजहलन्तस्याचः । (७-२-३)

वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ।

२२६८ । नेटि । (७-२-४)

इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः । 'चिती ३९ संज्ञाने' । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । 'च्युतिर् ४० आसेचने' । आसेचनमार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ।


अस्ति सिचोऽपृक्त इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः । इटईटीति ॥ इट इति पञ्चमी रात्सस्येत्यतः सस्येति सयोगान्तस्येत्यतो लोप इति चानुवर्तते तदाह । इटः परस्येति ॥ एवञ्च आति स् ई त् इति स्थिते सकारस्य लोपे आति ई त् इति स्थिते सवर्णदीर्घे आतीदिति रूपम् वक्ष्यति । तत्र सलोपस्यासिद्धत्वात् कथं सवर्णदीर्घ इत्यत आह । सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति ॥ लुडस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि आटि वृद्धौ षत्वम् । अपृक्तत्वाभावेन ईडभावात् सलोपो न । आतिषुरिति ॥ लुडो झिः । च्ले. सिच् । जुस् इट् आट् वृद्धिः षत्व रुत्वविसर्गौ । आतीः । आतिष्टम् । आतिष्ट । आतिषम् । आतिष्व । आतिष्म । अत्र वृद्धिमाशङ्कितुमाह । वदव्रजेति ॥ वद व्रज हलन्त. एषां समाहारद्वन्द्वात् षष्ठ्येकवचनम् । अङ्गस्येत्यधिकृतम् । सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्त्तते । तदाह । वदेत्यादिना ॥ हलन्तत्वादेव सिद्धे वदव्रजग्रहणन्तु अवादीदव्राजीदित्यत्र अतोहलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम् । नेटीति । प्रागुक्तन्नेति ॥ वदव्रजहलन्तस्याच इत्युक्तं नेत्यर्थः । तत्र वदव्रजयोर्विशिष्य विधानात् हलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम् । हलन्तलक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था । नन्वातीदित्यादौ अकारस्य वृद्धौ सत्यामसत्याञ्च आटा एकादेशे सति रूपे विशेषाभावात् किन्तन्निषेधेनेत्याशङ्क्येत्याह । माभवानतीदिति ॥ माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भावः । चितीति ॥ ईदित्व श्वीदितो निष्ठाया इति इण्णिषेधार्थम् । चेततीति ॥ शपि लघूपधगुणः । चिचेतेति ॥ तिबादेशणल पित्वेन असयोगादिति कित्वस्याप्रवृत्तेः न गुणनिषेध चिचिततुरित्यादौ तु कित्वान्न गुणः । अचेतीदिति ॥ इट ईटीति सलोप । अचेतिष्टामिति ॥ अपृक्तत्वाभावादीडभावान्नसिज्लोप. । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । च्युतिरिति ॥ अत्र इकारस्य रेफस्य
५६
[भ्वादि
सिध्दान्तकौमुदीसहिता

इर इत्संज्ञा वाच्या ।

च्योतति । चुच्योत ।

२२६९ । इरितो वा । (३-१-५७)

इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत्-अच्योतीत् । 'श्च्युतिर् ४१ क्षरणे' । श्च्योतति । चुश्च्योत । अश्च्युतत्-अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति । 'मन्थ ४२ विलोडने' । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः 'किदाशिषि (२२१६) इति कित्त्वात् 'अनिदिताम्--' (४१५) इति नलोपः । मथ्यात् । 'कुथि ४३ पुथि ४४ लुथि ४५ मथि ४६ हिंसासंक्लेशनयोः' । इदित्त्वान्नलोपो न । कुन्थ्यात् । पुन्थ्यात्, लुन्थ्यात्, मन्थ्यात् 'पिधु ४७ गल्याम्' सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः' (५१२३) इति षत्वनिषेधे प्राप्ते ।


च प्रत्येकमित्संज्ञायामिदित्वान्नुमि प्राप्ते आह । इर इत्संज्ञेति ॥ तथाच इर इति समुदायस्य इत्संज्ञकत्वादिदित्वाभावान्ननुमिति भावः । च्योततीति ॥ लघूपधगुणः । चुच्योतेति ॥ णलः पित्वेन कित्वाभावान्न गुणनिषेध इति भावः । चुच्युततुरित्यादौ तु कित्वान्न गुणः । लुडि च्ले: सिचि प्राप्ते । इरितो वेति ॥ धातोरेकाच इत्यतो धातोरिति च्लेः सिजित्यतः च्लेरिति अस्यति वक्तिरव्यातिभ्य इत्यत. अडिति पुषादिद्युतादित्यतः परस्मैपदेष्विति चानुवर्तते । तदाह । इरितो धातोरित्यादिना । अच्युतदिति ॥ अडि सति डित्वान्नगुणः । अच्युतताम् अच्युतन् अच्युतः अच्युततम् अच्युतत अच्युतम् अच्युताव अच्युताम । अडभावे त्वाह । अच्योतीदिति ॥ इट ईटीति सिज्लोपः। अच्योतिष्टामित्यादि । श्च्युतिरिति ॥ च्युतिवद्रूपाणि । चुच्योतेति ॥ शर्पूर्वा इति चकारः शिष्यते । यकाररहितोपीति ॥ मधुश्चुतेघृतमिव सुपूतमित्यादौ दर्शनादिति भावः । मन्थेति ॥ विलोडनमास्फालनम् ।

मन्थतीत्यादि ॥ सुगमम् । आशीर्लिङि विशेषमाह । यासुट इति । कुथीति ॥ चत्वारोऽपि द्वितीयान्ता. । इदित्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्वेऽपि इदित्वेन अनिदितामिति पर्युदासात् नलोपो नेत्याह । इदित्वादिति । कुन्थ्यादिति ॥ पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थधातोः पृथक् मथीति निर्देशः । षिधगत्यामिति ॥ अचपरकषकारादित्वात् षोपदेशोऽयम् । ततश्च धात्वादेरिति स. । तदाह । सेधतीति । सिषेधेति ॥ आदेशसकारत्वात् षत्वम् । अनिट्सु श्यन्विकरणस्यैव सिधेर्ग्रहणात् सेटकोऽयम् । असेधीदिति ॥ इट ईटीति सिज्लोपः । नेटीति निषेधात् न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि ॥ अथ निषेधतीत्यादौ उपसर्गात्सुनोतीति षत्वं वक्ष्यति । तत्किमर्थं आदेशप्रत्यययोरित्येव सिद्धेरित्या
प्रकरणम्]
५७
बालमनोरमा ।


२२७० । उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । (८-३-६५)

उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ।

२२७१ । सदिरप्रतेः । (८-३-६६)

प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ।

२२७२ । स्तन्भेः । (८-३-६७)

सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच 'अप्रतेः' इति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति ।

२२७३ । अवाच्चालम्बनाविदूर्ययोः । (८-३-६८)

अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ।


शङ्क्याह । सात्पदाद्योरिति ॥ उपसर्गात्सुनोतीति । उपसर्गस्थादिति ॥ उपसर्गशब्द उपसर्गस्थे लाक्षणिक इति भाव. । निमित्तादिति ॥ इण्रूपादित्यर्थः । इण्कोरित्यधिकारेऽपि कोरिति नात्र सम्बध्यते । असम्भवात् । सस्येति ॥ सहे. साढ. स इत्यत. स इति षष्ठ्यन्तमनुवर्तत इति भाव । षः स्यादिति ॥ अपदान्तस्य मूर्धन्य इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिश्तिपानिर्देशो यड्लुङ्निवृत्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् ।

सेनयेति णिजन्तो नामधातु । सेधतीति शपानिर्देशात् सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरण । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यासः । प्रसङ्गादाह । सदिरप्रतेरिति ॥ उपसर्गादिति । उपसर्गस्थादिणः परस्येत्यर्थ । सदिरिति ॥ षष्ठ्यर्थे प्रथमेत्यभिप्रेत्याह । सदेस्सस्येति ॥ निषीदतीत्युदाहरणम् । स्तन्भेरिति ॥ नकारोपधनिर्देशस्य प्रयोजनमाह । सौत्रस्येति ॥ स्तन्भु स्तुन्भु इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । सहि प्रतिपदोक्तः । ष्टभि प्रतिबन्ध इत्यस्य तु धातोरिदित्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् । उदस्थास्तम्भ्वोरिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणम् । मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननु सदिस्तन्भ्योरप्रतेरित्येकमेव सूत्र कुतो न कृतमित्यत आह । योगविभाग उत्तरार्थ इति ॥ अवाच्चालम्बनाविदूर्ययोरित्युत्तरसूत्रे सदेरननुवृत्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्यभावादेवच अनुवृत्यभावः सिद्ध इत्यस्वारस्यादाह । किञ्चेति । नानुवर्तत इति ॥ स्तन्भेरित्यत्र अप्रतेरित्यस्य अनुवृत्तिर्नेष्टा । एकसूत्रत्वे तु अप्रतेरित्यस्य स्तन्भिनाऽपि सम्बन्धः स्यादिति भावः । अप्रतेरित्यस्य स्तन्भावनन्वयो वृद्धप्रयोगानुगत इत्याह । बाहुप्रतिष्टम्भेति । अवाच्चेति ॥ आलम्बनञ्च आविदूर्यञ्चेति
५८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२७४ । वेश्च स्वनो भोजने । (८-३-६९)

व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ।

२२७५ । परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । (८-३-७०)

परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ।

२२७६ । प्राक्सितादड्व्यवायेऽपि । ( ८-३-६३)

'—सेवसित--' (२२७५) इत्यत्र सितशब्दात्प्राक् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् न्यषेधीत् । न्यषेधिष्यत् ।

२२७७ । स्थादिष्वभ्यासेन चाभ्यासस्य । ( ८-३-६४)

प्राक्सितात्स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेवचाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ।


द्वन्द्वात्सप्तमीद्विवचनम् । एतयोरिति ॥ आलम्बनाविदूर्ययेारर्थयोर्विद्यमानस्य अवात्परस्य स्तन्भेरित्यन्वयः । अपूर्वविधिरयम् । इण: परत्वाभावादप्राप्ते । आलम्बने यथा । यष्टिमवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविदूर्यं सामीप्यम् । अवष्टब्धा गौः । निरुद्धा सती समीपे आस्त इत्यर्थः । वेश्चेति ॥ अवादित्यनुकर्षणार्थश्चकारः । तदाह । व्यवाभ्यामिति ॥ विष्वणति । अवष्वणति । सशब्दम्भुङ्क्ते इत्यर्थः । अट्कुप्वाङिति णत्वम् । परिनिविभ्य इति ॥ सेवेत्यकार उच्चारणार्थः । षेवृ सेवायामितिधातोर्ग्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोः एरजन्तो वा पचाद्यजन्तो वा सय शब्दः । विषितः विषयः । षिवु तन्तुसन्ताने परिषीव्यति । षह मर्षणे परिषहते । सुडागमः । परिष्करोति । स्तुस्वञ्जोरुपसर्गात् सुनोतीत्येव सिद्धे सिवादिना वेति विकल्पार्थम्पुनर्वचनम् । प्राक्सितादिति ॥ सुनोत्यादय इति ॥ उपसर्गात्सुनोतीत्यादिसूत्रेापात्ता इति शेषः । तेषामिति ॥ पञ्चदशानामित्यर्थः । न्यषेधदिति ॥ अकारेण व्यवहितत्वादिण: परत्वाभावादप्राप्तौ वचनम् । अभ्यषुणोदित्यप्युदाहार्यम् । स्थादिष्विति ॥ अभ्यासेनेति तृतीयान्तम् प्राक्सितादित्यनुवर्तते । तदाह । प्राक्सितादिति ॥ उपसर्गात्सुनोतीति सूत्रे स्थाधातुमारभ्य परिनिविभ्यःसेवसितेत्यत्र सितशब्दात्प्राक् ये धातव उपात्ताः तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहितत्वेन उपसर्गात्परत्वाभावादप्राप्तौ वचनम् । ननु निषिषेधत्यादौ अभ्यासस्थसकारस्य उपसर्गत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह । एषामेवेति ॥ यद्यभ्यासस्थसकारस्य चेत् षत्व तर्हि स्थादिदशानामेवेत्यर्थः । एवञ्च षू प्रेरणे अभिसुसूषति । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य
प्रकरणम्]
५९
बालमनोरमा ।

२२७८ । सेधतेर्गतौ । (८-३-११३)

गत्यर्थस्य सेधतेः न षत्वं स्यात् । गङ्गां विसेधति । 'षिधू ४८ शास्त्रे माङ्गल्ये च' । शास्त्रं शासनम् ।

२२७९ । स्वरतिसूतिसूयतिधूञूदितो वा । (७-२-४४)

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ।

२२८० । झषस्तथोर्धोऽधः । (८-२-४०)

झषः परयोस्तथोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध-सिषेधिथ । सेद्धा-सेधिता । सेत्स्यति-सेधिष्यति । असैत्सीत् ।


स्तौतिण्योरेवेति नियमान्नषत्वम् । सेधतेरिति । नषत्वमिति ॥ नरपरेत्यतो नेत्यनुवृत्तेरिति भावः । गङ्गा विसेधतीति । गच्छतीत्यर्थ । इह उपसर्गात्सुनोतीति षत्वन्न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायन्निषेधः । नत्वादेशप्रत्यययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्यययोरिति षत्वम्भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य

शास्त्रस्य अक्रियारूपत्वात्कथं धात्वर्थत्वमित्यत आह । शास्त्रं शासनमिति ॥ माङ्गल्यन्तु शुभकर्म । षिधगत्यामितिवदस्यापि रूपाणि । तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते । स्वरतीति ॥ आर्धधातुकस्येड्वलादेरित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् एषा समाहारद्वन्द्वात्पञ्चम्येकवचनम् । फलितमाह । स्वरत्यादेरिति ॥ स्वरतीति स्वृधातो. शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्यच सूधातोर्निर्देशः । एवञ्च षू प्रेरण इति तौदादिकस्य न ग्रहणम् । धूञ् कम्पने । स्वादि क्र्यादिश्च । ञकारानुबन्धनिर्देशात् । धू विधूनन इत्यस्य न ग्रहणम् । इट्सनिवेत्यतो वेत्यनुवर्तमाने वा ग्रहण लिड्सिचोरात्मनेपदेष्विति विकल्पनिवृत्यर्थमिति भाष्यम् । एवञ्च थलि इडभावपक्षे द्वित्वादौ सिसेध् थ इति स्थिते । झषस्तथोरिति ॥ झष इति पञ्चमी । तश्च थ्चेति द्वन्द्व । तकारादकार उच्चारणार्थ । तकारथकारयोरिति लभ्यते । ध इति प्रथमैकवचनम् । अकार उच्चारणार्थ । धकार इति लभ्यते । अध इति षष्ठ्यन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह । झषः परयोरिति । जश्त्वमिति ॥ सिसेध् ध इति स्थिते झलाञ्जश् झशीति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिधिव सिषिध्व सिषिधिम सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमान्नञ्प्रापितस्यैवाभावस्य निवर्तक. । नतु विभाषादिप्रापितस्यापि । अनन्तरस्येति न्यायात् । इट्पक्षे आह । सिषेधिथेति । सेद्धेति ॥ लुट् तास् इडभाव. डा टिलोपः गुण. धत्व । सद्धारौ सेद्धार इत्यादि । सेधितेति ॥ इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्य. इड्विकिल्पः । असौत्सीदिति ॥ लुडस्तिप् इकारलोप. च्लिः सिच् इडभावः अस्तिसिच इति ईट् वदव्रजेति वृद्धि धकारस्य चर्त्वम् । असैध् स् तामिति स्थिते । अपृक्त
६०
[भ्वादि
सिध्दान्तकौमुदीसहिता


२२८१ । झलो झलि । (८-२-२६)

झलः परस्य सस्य लोपः स्याज्झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टामित्यादि । 'खादृ ४९ भक्षणे' । ॠकार इत् । खादति । चखाद । । 'खद ५० स्थैर्ये हिंसायां च' । चाद्भक्षणे । स्थैर्येऽकर्मकः । खदति ।

२२८२ । अत उपधायाः । (७-२-११६)

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।

२२८३ । णलुत्तमो वा । (७-१-९१)

उत्तमो णल्वा णित्स्यात् । चखाद-चखद ।

२२८४ । अतो हलादेर्लघोः । (७-२-७)

हलादेर्लघोरकारस्येडादौ परम्मैपदे परे सिचि वृद्धिर्वा स्यात् । अखादीत्-अखदीत् । 'बद ५१ स्थैर्ये' । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ ।


त्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपे अप्राप्ते । झलोझलीति ॥ झल इति पञ्चमी । सयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येतिचानुवर्तते । तदाह । झलः परस्य सस्य लोपः स्यादिति । असैद्धामिति ॥ असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति ॥ इट्पक्षे इत्यर्थ । असेधीदिति ॥ इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति ॥ अत्र ॠदित्वन्नाग्लोपीत्याद्यर्थमित्यभिप्रेत्याह । ॠक्रार इदिति ॥ खदेति ॥ स्थैर्यम् स्थिरीभवनम् । णलि अजन्तत्वाभावादचोघणितीति वृद्धेरप्राप्तौ । अत उपधायाः इति । वृद्धिः स्यादिति ॥ मृजेर्वृद्धिरित्यतः तदनुवृत्तेरिति भावः । ञिति णिति चेति ॥ अचेञणितीत्यत. तदनुवृत्तेरिति भावः । चखादेति ॥ एत्वाभ्यासलोपौ तु नात्र भवत. । पित्वे अकित्त्वात् आदेशादित्वात् तदपेक्षया वृद्धेः परत्वान्न । णलुत्तम इति । णित् स्यादिति ॥ गोतोणिदित्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति ॥ णित्त्वे उपधावृद्धिः । तदभावे न । अतो हलादेरिति ॥ सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते । नेटीत्यस्मादिटीति ऊर्णेतिर्विभाषेत्यतो विभाषेति च । तदाह । हलादेरिति ॥ हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहण स्पष्टार्थम् । हलः परस्येत्येव सिद्धेः । अखादीदखदीत् इति ॥ वृद्धौ तदभावे च इटईटीति सिज्लोपः । अखादिष्टामखदिष्टमित्यादि । बदेति ॥ स्थैर्यम् स्थिरीभवनम् । पवर्गीयादिरिति ॥ पवर्गतृतीयादिरित्यर्थः । नतु दंत्योष्ठ्यादिरिति भावः । बबादेति ॥ अत उपाधाया इति वृद्धिः । बेदतुरिति ॥ अभ्यासजशत्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाभावादेत्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु
प्रकरणम्]
६१
बालमनोरमा ।

बबाद-बबद । अबादीत्-अबदीत् । 'गद ५२ व्यक्तायां वाचि' । गदति ।

२२८५ । नेर्गदनपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । (८-४-१७)

उपसर्गस्थान्निमित्तात्परस्य नेर्णः स्याद्गदादिषु । प्रणिगदति । जगाद । 'रद ५३ विलेखने' । विलेखनं भेदनम् । रराद । रेदतुः। 'णद ५४ अव्यक्ते शब्दे ।

२२८६ । णो नः । (६-१.६५)

धातोरादेर्णस्य नः स्यात् । नदति ।

णोपदेशास्त्वनर्द्गाटिनाथ्नाध्नन्द्नक्कनॄनृतः ।

नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनन्द्योश्च केचिण्णोपदेशतामाहुः ।


पित्वेन कित्वाभावादेत्वाभ्यासलोपौ न । बेदिथेति ॥ अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ । बेदथुः । बेद । अथ उत्तमपुरुषणलि णलुत्तमोवेति णित्वविकल्पादुपधावृद्धिविकल्प इत्याह । बबाद बबदेति ॥ बेदिव बेदिम । अबादीत् अबदीत् इति ॥ अतो हलादेरिति वृद्धिविकल्प. । गदेति ॥ व्यक्तवाक् मनुष्यकृतशब्दप्रयोग । जगादेति ॥ चुत्वजश्त्वे । उपधावृद्धिः । वैरूरप्यापादकादेशादित्वादेत्वाभ्यासलोपौ न । जगदतु जगदुरित्यादि । नेर्गदेति ॥ रषाभ्यां नोण इत्यनुवर्तते । उपसर्गादसमासेऽपीत्यत उपसर्गादिति च । तच्च उपसर्गस्थे लाक्षणिकम् । तदाह । उपसर्गस्थादिति ॥ श्तिपा शपाच निर्देशाः यङ् लुग्निवृत्यर्थाः । प्रणिगदतीति ॥ भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति ॥ णलि उपधावृद्धिमभिप्रेत्याह । ररादेति ॥ रेदतुरित्यादि । अरादीत् । अरदीत् । णदेति ॥ अव्यक्तशब्दः अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः । णोन इति ॥ णइति षष्ठ्यन्तम् । धात्वादेः षस्स इत्यतोऽनुवर्तनादाह । धातोरादेरिति ॥ तेन अणतीत्यादौ ननत्वम् । नस्स्यादिति ॥ नकार. स्यादित्यर्थः । नदतीति ॥ मेघादिरिति शेषः । णोन इति नत्वस्यानैमित्तकतया लिण्णिमित्तादेशादित्वाभावादेत्वाभ्यासलोपौ स्तएव । ननाद नेदतुरित्यादि । अथ नृत्नर्द्नन्द्नक्क्नाट्नाथृनाधृनृवर्जम् णोपदेशा इति भाष्य श्लोकार्धेन सङ्गृण्हाति । णोपदेशास्त्विति ॥ नर्दशब्दे । नट अवस्पन्दने चुरादि. । नाथृ नाधृ याच्ञादौ । द्वितीयचतुर्थान्तौ । टुनदि समृद्धौ । नक्क नाशने नृ नये । नृती गात्रविक्षेपे । एभ्योऽष्टभ्योऽन्ये णकारादिधातवः इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसम्पन्ननकारादितया णोपदेशाः प्रत्येतव्या इत्यर्थः । नाटीतिण्यन्तस्य प्रयोजनमाह । नाटेरिति ॥ घटादिरिति ॥ नट नृत्ताविति घटादिपठित इत्यर्थः । तत्फल घटादौ वक्ष्यते । मतान्तरमाह । तवर्गेति ॥ तवर्गचतुर्थान्तनाधधातोः नॄनन्द्योश्च णोपदेशेषु पर्युदासाभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् । ननु
६२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२८७ । उपसर्गादसमासेऽपि णोपदेशस्य । (८-४-१४)

उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति । 'अर्द ५५ गतौ याचने च' अत आदेः' २२४८ ।

२२८८ । तस्मान्नुड्द्विहलः । (७-४-७१)

द्विहलो धातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् । 'नर्द ५६ गर्द ५७ शब्दे' । णोपदेशत्वाभावान्न णः । प्रनर्दति । गर्दति । जगर्द । 'तर्द ५८ हिंसायाम्' । तर्दति । । 'कर्द ५९ कुत्सिते शब्दे' । कुत्सिते कौक्षे कर्दति । 'खर्द ६० दन्दशूके' । दंशनहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द । 'अति ६१ अदि ६२ बन्धने' । अन्तति । आनन्त । अन्दति । आनन्द । 'इदि ६३ परमैश्वर्ये' । इन्दति । इन्दाञ्चकार । 'बिदि ६४ अवयवे' । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । 'भिदि' इति


णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते । नकारएवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह । उपसर्गादिति ॥ रषाभ्यां नोण इत्यधिकृतम् । तदाह । उपसर्गस्थादिति ॥ समासेऽङ्गुलेः सङ्ग इत्यतः समास इत्यनुवृत्तेरसमासे नस्यादित्यसमासग्रहणम् । तथा सति प्रणाम इत्यादौ समासे नस्यादित्यपिग्रहणम् । तदाह । समासे असमासेऽपीति ॥ णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति ॥ भिन्नपदत्वादप्राप्ति । प्रणिनदतीति ॥ नेर्गदेति णत्वम् । नचात्र उपसर्गादसमास इति धातुनकारस्य णत्व शङ्क्यम् । अट्कुप्वाङभिन्नेन व्यवधानात् । अर्देति ॥ उपधायाञ्चेत्यत्र इक इत्युपस्थानात् अर्दतीत्यादौ न दीर्घः । लिटि णलि द्वित्वे हलादि शेषे अतआदेरित्यभ्यासाकारस्य दीर्घे आ अर्देतिस्थिते । तस्मान्नुडिति ॥ द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देन अत आदेरिति कृतदीर्घः परामृश्यते । तदाह । दीर्घीभूतादिति ॥ टकार इत् । उकार उच्चारणार्थ. । टित्वादाद्यवयवः । तदाह । आनर्देति ॥ आर्दीदिति ॥ इटईटि इति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति ॥ । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह । कुत्सिते कौक्ष इति ॥ कुक्षिभवे इत्यर्थः । खर्देति ॥ दन्दशूकः दंशनस्वभावस्सर्पः । दन्दशूको बिलेशय इत्यमरः । ननु सर्पस्य क्रियात्वाभावात् कथन्धात्वर्थत्वमित्यत आह । दंशनेति । अतिअदीति ॥ इदित्वान्नुम् । तदाह । अन्ततीति । आनन्तेति ॥ अत आदेरिति दीर्घः । तस्मान्नुड्द्विहल इति नुट् । एवमन्दति । आनन्देति ॥ आन्दीत् । इदीति ॥ परमैश्वर्यम् परमेश्वरीभवनम् । इन्दतीति ॥ इदित्वान्नुम् । इन्दांचकारेति ॥ इजादेश्चेत्याम् । बिदीति ॥ इदित्वान्नुमित्याह । बिन्दतीति ॥ नन्ववयवस्य अक्रियारूपत्वात् कथन्धात्वर्थत्वमित्यत आह । अवयवंकरोतीत्यर्थ इति ॥ अबिन्दीत् अबिन्दिष्टामित्यादि ।
प्रकरणम्]
६३
बालमनोरमा ।

पाठान्तरम् । 'गडि ६५ वदनैकदेशे' गण्डति | 'अन्तत्यादयः पञ्चैते न तिङ्विषया' इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । 'णिदि ६६ कुत्सायाम्' । निन्दति । प्रणिन्दति । 'टुनदि ६७ समृद्धौ' ।

२२८९ । आदिर्ञिटुडवः । (१-३-५)

उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्त्वान्नलोपो न । नन्द्यात् । 'चदि ६८ आह्लादे' चन्दति । चचन्द । 'त्रदि ६९ चेष्टायाम्' त्रन्दति । तत्रन्द । 'कदि ७० क्रदि ७१ क्लदि ७२ आह्वाने रोदने च' । चकन्द । चक्रन्द । चक्लन्द । 'क्लिदि ७३ परिदेवने' । चिक्लिन्द । 'शुन्ध ७४ शुद्धौ' शुन्धति । शुशुन्ध । नलोपः । शुध्यात् ।

अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् । 'शीकृ ७५ सेचने' । तालव्यादिः । 'दन्त्यादिः' इत्येके । शीकते । शिशीके । 'लोकृ ७६ दर्शने' । लोकते । लुलोके । 'श्लोकृ ७७ संघाते' । संघातो ग्रन्थः । स चेह ग्रथ्यमा-


पाठान्तरमिति ॥ पवर्गीयचतुर्थादिरित्यर्थ । गडीति । वदनैकदेश इति ॥ तत्क्रियायामित्यर्थ । गण्डति अगण्डीत् । अन्तत्यादय इति ॥ अति अदि बन्धने । इदि परमैश्वर्ये । बिदि अवयवे । गडि वदनैकदेशे । इति पञ्च धातवः तिङ्प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति ॥ काश्यपादन्ये मुनय तिङमपि एभ्य इच्छन्तीत्यर्थ. । णिदीति ॥ इदित्वान्नुम् । णोपदेशत्वात् णस्य नत्वम् । तदाह । निन्दतीति । प्रणिन्दतीति ॥ उपसर्गादसमासेऽपीति णत्वम् । टुनदीति ॥ समृद्धि प्रजापश्वादिसम्पत्ति । आदिरिति ॥ भूवादयो धातव इत्यस्मात् धातव इत्यनुवृत्त षष्ठ्या विपरिणम्यते । उपदेशेऽजनुनासिक इत्यस्मात् उपदेश इति इदिति चानुवर्तते । आदिरिति इदिति च बहुत्वे एकवचनम् । तदाह । उपदेश इति ॥ ट्वित्करण ट्वितोऽथुजित्येतदर्थम् । नन्दतीति ॥ इदित्वान्नुम् । इदित्वादिति ॥ आशीर्लिङि यासुट कित्वेऽपि इदित्वात् अनिदितामिति नलोपो नेत्यर्थः । नन्द्यादिति ॥ अन्त्यादन्द्यादित्यस्याप्युपलक्षणम् । चदीति ॥ इदित्वान्नुमित्याह । चन्दतीति । त्रदीति ॥ अदुपधोऽयम् । इदित्वान्नुमित्याह । त्रन्दतीति ॥ क्रदिक्लदीति ॥ अदुपधौ । क्लिदिपरिदेवन इति ॥ अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । शुन्धशुद्धाविति ॥ अकर्मकोऽयम् । शुन्धतीति ॥ शुचिर्भवतीत्यर्थः । ननु शुधीत्येवमिदिदेवाय कुतो न पठित इत्याह । नलोप इति ॥ आशीर्लिङि अनिदितामिति नलोपे शुध्द्यादिति रूपमिष्टम् । इदित्वेतु नलोपो न स्यादिति भाव । अथ कवर्गीयान्ता इत्यादि लोकृ इत्यन्त स्पष्टम् । श्लोकृ इति ॥ सङ्घातशब्द व्याचष्टे । ग्रन्थ इति ॥ ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथन्धात्वर्थत्वमित्याशङ्क्याह । स चेहेति । ग्रन्थनङ्ग्रन्थः सङ्घीभावः सङ्घीकरणं वा । तत्र सङ्घीभवन सङ्घनिष्ठम् । सङ्घीकरणन्तु सङ्घीकर्तृनिष्ठम् । तत्र सङ्घीभवनार्थकत्वे
६४
[भ्वादि
सिध्दान्तकौमुदीसहिता


नस्य व्यापारो ग्रन्थितुर्वा । आद्येऽकर्मको द्वितीये सकर्मकः । श्लोकते । 'द्रेकृ ७८ ध्रेकृ ७९ शब्दनोत्साहयोः' । उत्साहो वृद्धिरौद्धत्यं च । एचइग्घ्रस्वादेशे इति ह्रस्वः । दिद्रेके । दिध्रेके । 'रेकृ ८० शङ्कायाम्' । रेकते । 'सेकृ ८१ स्रेकृ ८२ स्रकि ८३ श्रकि ८४ श्लकि ८५ गतौ' । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अपोपदेशत्वान्न षः । सिसेके । 'शकि ८६ शङ्कायाम्' । शङ्कते । शशङ्के । 'अकि ८७ लक्षणे' । अङ्कते । आनङ्के । 'वकि ८८ कौटिल्ये' । वङ्कते 'मकि ८९ मण्डने' । मङ्कते । 'कक ९० लौल्ये' लौल्यं गर्वश्चापल्यं च । ककते । चकके । 'कुक ९१ वृक ९२ आदाने' कोकते । चुकुके । वर्कते । ववृके ।

ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन ।

'चक ९३ तृप्तौ प्रतिघाते च' । चकते । चेके । 'ककि ९४ वकि ९५ श्वकि ९६ त्रकि ९७ ढौकृ ९८ त्रौकृ ९९ ष्वक्क १०० वस्क १०१ मस्क



अकर्मकः । सङ्घीकरणार्थत्वे सकर्मक इत्यर्थः । श्लोकत इति ॥ सङ्घीभवतीत्यर्थः । सङ्घीकरोतीति वा । द्रेकृ धेकृ इति ॥ शब्दनम् शब्दः । एच इति ॥ लिट एशि च द्वित्वे हलादिशेषे देद्रेक् ए इति स्थिते अभ्यासे एकारस्य द्दध्रस्वो भवत् एच इग्घ्रस्वादेश इति इकारो भवतीत्यर्थः । दिध्रेके इति ॥ अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु ह्रस्य इकारः । रेकृ इति ॥ शङ्का संशयः आक्षेपोवा । शीकृ सेचन इत्यारभ्य एतत्पर्यन्ता ॠदितः । सेकृ इति ॥ आद्यौ एकारमध्यौ ॠदितौ । इतरे त्रयः अदुपधाः इदितः । त्रय इति ॥ पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति ॥ सेकृधातोः पर्युदासान्नषोपदेशत्वम् । द्वितीयतृतीययोस्तु दत्याच्परकसादित्वाभावान्न षोपदेशत्वम् । ततश्च सकारस्यादेशसकारत्वाभावान्न षत्वमिति भावः । एच इग्घ्रस्वादेश इत्यभिप्रेत्याह । सिसेक इत्यादि ॥ सिस्रके इत्यादाविदित्वान्नुम् । शकीति ॥ इदित्वान्नुमित्याह । शंकत इति । शशंक इति । अकीति ॥ लक्षणञ्चिद्द्नीकरणम् । अंकत इति ॥ इदित्वान्नुम् । आनंक इति ॥ तस्मान्नुड्द्विहल इति नुट् । वकि कौटिल्ये इत्यादि स्पष्टम् । कुकवृकेति ॥ द्वितीयः ॠदुपधः । शपि लघूपधगुण मत्वा आह । कोकत इति । चुकुक इति ॥ असंयोगादिति कित्वात् न लघूपधगुणः । अभ्यासे चुत्वम् । लघूपधगुणेरपरत्वं मत्वाऽऽह । वर्कत इति ॥ लिटि असंयोगादिति कित्वान्न गुण इति मत्वाऽऽह । ववृके इति ॥ उरदत्वं हलादिश्शेषः । ननु कित्वात् परत्वात् गुणः स्यात् । कृते गुणे रपरत्वे संयोगात्परत्वेन कित्वस्याप्रवृत्या अनित्यत्वादित्यत आह । ऋदुपधेभ्यो लिटः किन्वं गुणात् पूर्वविप्रतिषेधेनेति । चकेति ॥ तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाऽऽह । चेक इति । ककीति ॥ एते पञ्चदश धातवः । आद्याश्चत्वार इदितः । द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्ठौ, दशमाद्याश्चत्वारश्च, ॠदितः । दशमद्वादशौ इदुपधौ । रघिंलघी
प्रकरणम्]
६५
बालमनोरमा ।


९०२ टिकृ १०३ टीकृ १०४ तिकृ १०५ तीकृ १०६ रघि १०७ लघि १०८ गत्यर्थाः' । कङ्कते । डुढौके । तुत्रौके ।

सुब्धातुष्ठिवुष्वक्कतीनां सत्वप्रतिषेधो वक्तव्यः

ष्वक्कते । षष्वक्के । 'अत्र तृतीयो दन्त्यादिः' इत्येके । टेकते । टीकते । एवं, तेकते । तीकते । लघिर्भोजननिवृत्तावपि । 'अघि १०९ वघि ११० मघि १११ गत्याक्षेपे' । आक्षेपो निन्दा । 'गतौ गत्यारम्भे च' इत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । 'मघि' कैतवे च । 'राघृ ११२ लाघृ ११३ द्राघृ ११४ सामर्थ्ये' । राघते । लाघते । 'ध्राघृ' इत्यपि केचित् । 'द्राघृ' आयामे च । आयामो दैर्घ्यम् । द्राघते । 'श्लाघृ ११५ कत्थने' । श्लाघते ।

अथ परस्मैपदिनः पञ्चाशत् । 'फक्क ११६ नीचैर्गतौ' नीचैर्गतिर्मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क । 'तक ११७ हसने' । तकति । 'तकि ११८ कृच्छ्रजीवने'। तङ्कति । 'बुक्क ११९ भषणे' । भषणं श्वरवः । बुक्कति । कख १२० हसने' । प्रनिकखति । 'ओखृ १२१ राखृ १२२ लाखृ १२३ द्राखृ १२४ ध्राखृ १२५ शोषणालमर्थयोः' । ओखति । ओखांचकार । 'शाखृ १२६ श्लाखृ १२७ व्याप्तौ' । शाखति । 'उख १२८ उखि १२९ वख


इदितौ चतुर्थान्तौ । कङ्कत इत्यादाविदित्वान्नुम् । डुढौके, तुत्रौक इति ॥ अभ्यासे ढस्य जश्त्वेन डकार । ओकारस्य ह्रस्व उकार. । अथ ष्वक्कधातो. षोपदेशपरिगणनात् धात्वादेरिति सत्वे प्राप्ते आह । सुब्धात्विति । षष्वक्के इति ॥ संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न । सयोगात्परत्वेन लिट कित्वाभावाच्च । तृतीय इति ॥ तथा च स्वक्कत इति रूपम् । केवलदन्त्यपरकसादित्वाभावेन षोपदेशत्वाभाव. । टेकते इति ॥ लघूपधगुण. । टीकत इति ॥ दीर्घोपिधत्वान्न गुण. । एवन्तेकते, तीकत इति ॥ रङ्घते, लङ्घते । इदित्वान्नुम् । लघिर्भोजननिवृत्तावपीति ॥ लङ्घते न भुङ्क्त इत्यर्थ । अघीति ॥ त्रयोऽपि चतुर्थान्ता इदितः । आनंघ इति ॥ तस्मान्नुड्द्विहल इति नुट् । वंघत इति ॥ इदित्वान्नुम् । लिटि तु ववङ्घे इति रूपम् । वादित्वात्सयुक्तहल्मध्यस्थत्वात्सयोगात्परत्वेन लिट. कित्वाभावाच्च एत्वाभ्यासलोपौ न । मघि कैतवेचेति ॥ कतैव वञ्चना । राघृ इति ॥ त्रयोऽपि इदतः । सामर्थ्य कार्यक्षमीभवनम् । ध्राघृ इत्यपीति ॥ चतुर्थादिमपि केचित् पठन्तीत्यर्थ.। द्राघृ इति ॥ निवृत्तिः विमुखीभवनम् । आयामः दीर्घीभवनम् । श्लाघृ कत्थन इति ॥ कत्थन स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । फक्कनीचैरित्यादि स्पष्टम् । प्रनिकखतीति ॥ शेषे विभाषेत्यत्र अकखादाविति पर्युदासान्नेर्णत्व नेति भावः । ओखृ इति ॥ अलमर्थः भूषणक्रिया, पर्याप्ति., वारणं वा । ओखति । ओखाञ्चकार । शाखृश्लाखृ इति ॥ श्लाघृ इति चतुर्थान्त आ
६६
[भ्वादि
सिध्दान्तकौमुदीसहिता

१३० वखि १३१ मख १३२ मखि १३३ णख १३४ णखि १३५ रख १३६ रखि १३७ लख १३८ लखि १३९ इख १४० इखि १४१ ईखि १४२ वल्ग १४३ रगि १४४ लगि १८५ अगि १४६ वगि १४७ मगि १४८ तगि १४९ त्वगि १५० श्रगि १५१ श्लगि १५२ इगि १५३ रिगि १५४ लिगि २५५ गत्यर्थाः' । कवर्गद्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु 'रिख' 'त्रख' 'त्रिखि' 'शिखि' , इत्यपि चतुरः केचित्पठन्ति ओखति ।

२२९० । अभ्यासस्यास्सवर्णे । (६-४-७८)

इवर्णोवर्णान्तस्य अभ्यासस्येयङुवङौ स्तोऽसवर्णेऽचि । उवोख । संनिपातपरिभाषया 'इजादेः-' (२२३७) इत्यान्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाध्द्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वाध्दिपर्जन्यवल्लक्षणप्रवृत्या ह्रस्वे कृते ततो दीर्घः ।


त्मनेपदिषु गत. । उख उखीति । पञ्चदशेति ॥ ईखि इत्यन्ता इति शेषः । त्रयोदशेति ॥ वल्गादय इति शेषः । तत्र इदित्वान्नुम् । आशीर्लिटि नलोपाभावाश्च । पठन्तीति ॥ तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । ओखतीति ॥ शपि लघूपधगुणः । लिटि णलः पित्वेन कित्वाभावात् प्राप्तस्यापि लघूपधगुणस्य द्विर्वचनेऽचीति निषिद्धतया गुरुमत्वाभावादामभावे सति पूर्वन्द्वित्वे कृते हलादि शेषे पश्चात् वार्णादाङ्गम्बलीय इति परिभाषया अन्तरङ्गमपि सवर्णदीर्घम्बाधित्वा लघूपधगुणे कृते उ ओख् अ इति स्थिते, उवर्णम्य यणि प्राप्ते । अभ्यासस्येति ॥ अचि श्नुधात्वित्यतः अचीति, य्वोरियडुवढाविति चानुवर्तते । इश्च उश्च य्वौ तयोरिति विग्रहः । अभ्यासविशेषणमिदं तदन्तविधिः । तदाह । इवर्णोवर्णान्तस्येति ॥ डित्वादन्तादेशौ । उवोखेति ॥ अचिश्नुधात्वित्यस्यतु नात्र प्राप्तिः । अजादौ प्रत्यये परत एव तत्प्रवृत्तेः । अभ्यासस्य अङ्गत्वाभावाच्च । ननु द्वित्वे कृते लघूपधगुणे राति इजादिगुरुमत्त्वादाम् स्यादित्यत आह । सन्निपातेति ॥ णलि परे विहितगुणसम्पन्नमिजादिगुरुमत्वमाश्रित्य प्रवृत्तमामं गुणो न प्रवर्त्तयति । आमि सति धातोर्णल्परकत्व०याघातादिति भावः । ऊखतुरिति ॥ अपित्त्वेन कित्वात् लघूपधगुणाभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्यासस्यासवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः । ननु ऊखतुरित्यत्र ऊकारस्य सवर्णदीर्घसम्पन्नस्य एकादेशतया पूर्वान्तत्वेनाभ्याससम्बन्धित्वात् ह्रस्व इत्यभ्यासस्याचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते । इह सवर्णदीर्घस्य अभ्यासग्रहणेन ग्रहणाध्द्रस्वः प्राप्त इति ॥ अथ परिहरति । न भवतीति ॥ कुत इत्यत आह । सकृत्प्रवृत्तत्वादिति ॥ तदेवोपपादयति । आंगत्वादिति ॥ उ उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्या अभ्यासह्रस्वे सवर्णदीर्घे ऊखतुरिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासह्रस्वो न भवति । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायादित्यर्थः । हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य
प्रकरणम्]
६७
बालमनोरमा ।


'वार्णादाङ्गं बलीयः' इति न्यायात्परत्वाच्च । उङ्खति । ववाख । ववखतुः । वङ्खति । मेखतुः । मङ्खति । ममङ्ख । नखति । नङ्खति । रखति । रेखतुः । रङ्खति । एखति । इङ्खति । ईङ्खति । वल्गति । रङ्गति । लङ्गति । अङ्गति । वङ्गति । मङ्गति । तङ्गति । त्वङ्गति । श्रङ्गति । श्लङ्गति । इङ्गति । रिङ्गति । लिङ्गति । रेखति । त्रखति । त्रिङ्खति । शिङ्खति । 'त्वगि ' कम्पने च । 'युगि १५६ जुगि १५७ बुगि १५८ वर्जने' । युङ्गति । 'घघ १५९ हसने' । घघति । जघाघ । 'मघि १६० मण्डने' । मङ्घति । 'शिघि १६१ आघ्राणे' । शिङ्घति ।

अथ चवर्गीयान्ताः । तत्रानुदात्तेत एकविंशतिः । 'वर्च १६२ दीप्तौ' । वर्चते । 'पच १६३ सेचने, सेवने च' । सचते । सेचे । सचिता । 'लोचृ १६४



सवर्णदीर्घस्य पूर्वम्पूर्वमन्तरङ्गम्परम्पर बहिरङ्गमिति न्यायेन बहिरङ्गत्वादित्यलम् । उंखतीति ॥ इदित्वान्नुम् । ववाखेति ॥ वखधातोर्णलि उपधावृद्धि । ववखतुरिति ॥ वादित्वादेत्वाभ्यासलोपौ न । वंखतीति ॥ वखिधातोरिदित्वान्नुम् । ववङ्ख । मेखतुरिति ॥ एत्वाभ्यासलोपौ । मङ्खतीति ॥ मखिधातोरिदित्वान्नुम् । ममंखेति ॥ सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न । नखति, नंखतीति ॥ णोन इति नत्वम् । रखतीति ॥ णलि तु उपधावृद्धि । रराख अतुसादावेत्वाभ्यासलोपौ । रेखतुरित्यादि । रंखतीति ॥ इदित्वान्नुम् । ररङ्ख । एखतीति ॥ इखधातेाश्शपि लघूपधगुणः । इयेख । ईखतु । इंखतीति ॥ इदित्वान्नुम् । इङ्खाञ्चकार । ईंरवतीति ॥ अलघूपधत्वान्न गुण. । ईखांचकार । वल्गतीति ॥ लिटि ववल्ग ववल्गतुः । रंगति, लंगतीति ॥ ररङ्गतुः । अंगतीति ॥ लिटि आनङ्ग । वंगतीति ॥ लिटि ववङ्ग ववङ्गतुः । मंगतीति ॥ लिटि ममङ्ग ममङ्गतुः । तंगतीति ॥ लिटि, ततङ्ग, ततङ्गतुः । त्वंगतीति ॥ लिटि तत्वङ्ग , तत्वङ्गतुः । श्रंगतीति ॥ लिटि शश्रङ्ग शश्रङ्गतुः । श्लंगतीति ॥ लिटि शश्लङ्ग शश्लङ्गतुः । इंगतीति ॥ लिटि इङ्गाञ्चकार । रिंगतीति ॥ लिटि रिरिङ्ग रिरिङ्गतुः । लिंगतीति ॥ लिटि लिलिङ्ग लिलिङ्गतुः । अथ खान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह । रेखतीति ॥ शपि लघूपधगुण । रिरेख रिरिखतुः । त्रखतीति ॥ लिटि तत्राख तत्रखतुः । त्रिंखतीति ॥ लिटि तित्रिङ्ख तित्रिङ्खतुः । शिंखतीति ॥ लिटि शिशिङ्ख शिशिङ्खतुः । त्वगि कम्पने चेति ॥ चाद्नतौ । त्वङ्गति तत्वङ्ग । युगीति ॥ त्रयोऽपि इदितः । युङ्गति वुङ्गति जुङ्गति । घघ, हसने इति ॥ घघति । णलि उपधावृद्धिः । जघाघ जघघतुः । लिण्णिमित्तादेशादित्वादेत्वाभ्यासलोपौ न । मघिमण्डन इति ॥ इदित्वान्नुमित्याह । मंघतीति ॥ ममङ्घ ममङ्घतुः । शिघि आघ्राण इति ॥ शिङ्घति शिशिङ्घ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति ॥ दीप्ति प्रकाश । षच, सेचन इति ॥ अच्परकसादित्वात् षोपदेशोऽयम् । स्वरितेत्सु षच समवाय इति वक्ष्यते । सेच इति ॥ सत्वस्य लिण्णिमित्तत्वाभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ । दम्भः
६८
[भ्वादि
सिध्दान्तकौमुदीसहिता

दर्शने' । लोचते । लुलोचे । 'शच १६५ व्यक्तायां वाचि' शेचे । 'श्वच १६६ श्वचि १६७ गतौ' । श्वचते । श्वञ्चते । 'कच १६८ बन्धने' । कचते । 'कचि १६९ काचि १७० दीप्तिबन्धनयोः' । चकञ्चे । चकाञ्चे । 'मच १७१ मुचि १७२ कल्कने' कल्कनं दम्भः, शाठ्यं च । 'कथनम्' इत्यन्ये । मेचे । मुमुञ्चे । 'मचि १७३ धारणोच्छायपूजनेषु' । ममञ्चे । 'पचि १७४ व्यक्तीकरणे' । पञ्चते । 'ष्टुच १७५ प्रसादे' । स्तोचते । तुष्टुचे । 'ॠज १७६ गतिस्थानार्जनोपार्जनेषु' । अर्जते । नुड्विधौ ॠकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे । 'ॠजि १७७ भृजी १७८ भर्जने' । ॠञ्जते । 'उपसर्गादृति-' (७४) इति वृद्धिः । प्रार्ञ्जते । ॠञ्जांचक्रे । आर्ञ्जिष्ट । भर्जते । बभृजे । अभर्जिष्ट । 'एजृ १७९ भ्रेजृ १८० भ्राजृ १८१ दीप्तौ' । एजांचक्रे । 'ईज १८२ गतिकुत्सनयोः । ईजांचक्रे ।


शाठ्यंचेति ॥ परविस्रम्भार्थन्धर्माद्याचरणण्ड्म्भः । कापट्यापरपर्याय: । 'कपटोऽस्त्री व्याजदम्भोपधय' इत्यमरः । श ठ्य ङ्कुटिलीभाव । 'निकृतस्त्वनृजु शठ' इत्यमरः । पचि व्यक्तीकरण इति ॥ पचि विस्तार इति चुरादौ वक्ष्यते । ष्टुच प्रसाद इति ॥ ष्ठत्वसम्पन्नः टकार । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति ॥ पख्य सत्वे सति ष्टुत्व निवर्तत इति भावः । तुष्टुचे इति ॥ शर्पूर्वाः स्वस्य इति तकारशेषः । आदेशसकारत्वात् षत्वम् । ऋज गतीति ॥ आर्जनम् सम्पादनम् । उपार्जनम् सेवनम् । अर्जत इति ॥ शपि लघूपधगुणः । रपरत्वम् । नुडविधाविति ॥ वार्तिकमिदम् । आनृज इति ॥ लिटः असयोगादिति कित्वात् गुणाभावे द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अत आदेरिति दीर्घे नुडिति भावः । ऋजिभृजी इति ॥ ॠदुपधौ द्वौ । आद्यः इदित् । द्वितीयस्य ईदित्वात् श्वीदितोनिष्ठायामिति नेट् । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । ऋञ्जाञ्चक्र इति ॥ नुमि सति सयोगे गुर्विति ॠकारस्य गुरुत्वादिजादेश्चेत्याम् । ॠञ्जिता । ॠञ्जिष्यते । ॠञ्जताम् । आर्ञ्जत । ॠञ्जेत । ॠञ्जिषीष्ट । अथ लुङि रूपम् दर्शयति । आर्ञ्जिष्टेति ॥ लुङः तादेशः । च्लि । सिच । इट । लघूपधत्वान्न गुणः । आट । वृद्धिः । षत्वं । ष्टुत्व । लृङि, आर्ञ्जिष्यत । भर्जत इति ॥ शपि लघूपधगुणः । रपरन्वम् बभृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अभर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह । अभर्जिष्टेति ॥ लृङस्तादेशः च्लिः सिच् इट गुणः रपरत्वम् अडागम षत्वं ष्टुत्वं । लृटि अभर्जिष्यत । एजृभ्रेजृभ्राजृ इति ॥ आद्ययो ॠदित्वम् नाग्लोपित्वार्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति । ॠदित्वस्य न किञ्चित्फलमस्ति । न च नाग्लोपीति चड्परे णौ उपधाह्रस्वः फलम्भवितुमर्हति । भ्राजभासेत्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईजगतीति ॥ अलघूपधत्वान्नगुणः । ईजते । ईजाञ्चक्र इति ॥ इजादेश्चेत्याम् ।
प्रकरणम्]
६९
बालमनोरमा ।

अथ द्विसप्ततिर्व्रज्यन्ताः परस्मैपदिनः । 'शुच १८३ शोके' । शोचति । 'कुच १८४ शब्दे तारे' । कोचति । 'कुञ्च १८५ क्रुञ्च १८६ कौटिल्याल्पीभावयोः' । 'अनिदिताम्- '(४१५) इति न लोपः । कुच्यात् । कुञ्च्यात् । 'लुञ्च १८७ अपनयने' । लुच्यात् । 'अञ्चु १८८ गतिपूजनयोः' । अच्यात् । गतौ न लोपः । पूजायां तु अञ्च्यात् । 'वञ्चु १८९ चञ्चु १९० तञ्चु १९१ त्वञ्चु १९२ म्रुञ्चु १९३ म्लुञ्चु १९४ म्रुचु १९५ म्लुचु १९६ गत्यर्थाः' । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ।

२९१ । जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च । (३-१-५८)

एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् - अम्रोचीत् । अम्लुचत् - अम्लोचीत् । 'ग्रुचु १९७ ग्लुचु १९८ कुजु १९९ खुजु २०० स्तेयकरणे' । जुग्रोच । अग्रुचत्-


वर्चादय एकविंशतिः वृत्ताः । द्विसप्ततिरिति ॥ चवर्गीयान्ता इति शेषः । शुच शोक इति ॥ स्मृत्वा क्लेशः शोकः । शोचतीति ॥ वियुक्त पित्रादिक स्मृत्वा क्लिश्नातीत्यर्थ । कुचशब्द इति ॥ शब्दन शब्द । चुकोच । चुकुचतुः । अकोचीत् । कुञ्च, क्रुञ्चेति ॥ उभावपि चवर्गपञ्चमोपधौ । अनुस्वारपरसवर्णसम्पन्नस्य नकारस्थानिकञकारस्य धातुपाठे निर्देश । धातुपाठे नकारजावनुस्वारपञ्चमावित्यभियुक्तवादात् । तदाह । अनिदितामिति ॥ अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्वेन आशीर्लिङि अनिदितामिति लोपे कुच्यादिति रूपमित्यर्थः । लिटि तु, चुक्रुञ्च चुक्रुञ्चतुरित्यादौ पित्वेन सयोगात्परत्वेन च, कित्वाभावान्नलोपो न भवति । क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव । नत्वनुस्वारपरसवर्णसम्पन्नञकारोपध इति परेश्चघाङ्कयोरिति सूत्रे भाष्यकैयटयो. स्थितम् । अतस्तस्याशीर्लिडि अनिदितामिति नलोपस्य न प्रसक्तिरित्यभिप्रेत्योदाहरति । कुञ्च्यादिति ॥ ञकारहितपाठस्तु प्रामादिक इति शब्देन्दुशेखरे स्थितम् । लुञ्चेति ॥ अयमपि नोपधः । अनुस्वारपरसवर्णसम्पन्नस्य ञकारस्य निर्देशः । तथा व आशीर्लिडि अनिदितामिति नलोप. । तदाह । लुच्यादिति ॥ एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायान्त्विति ॥ नाञ्चेः पूजायामिति निषेधादिति भावः । वञ्चुचञ्चुतञ्चु इति ॥ आद्या. षट् नोपधाः । अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः । तथा च तेषामाशीर्लिडि अनिदितामिति नलोपः । तदाह । वच्यादिति ॥ लुडि अम्रुञ्चीदम्लुञ्चीदिति नोपधयो रूपं । सिज्लोपः । जॄस्तंभ्विति ॥ च्ले सिजित्यत. च्लेरिति, अस्यतिवक्तिख्यातिभ्य इत्यतः अडिति, इरितोवेत्यतः वेतिचानुवर्तते । तदाह। एभ्यश्च्लेरड्वेति ॥ जॄष् वयोहानौ । स्तन्भु सौत्रो धातुः । म्रुचुम्लुचुगत्यर्थौ । ग्रुचु ग्लुचु स्तेयकरणे । ग्लुञ्चुगतौ । इत्येभ्य इत्यर्थः । अम्रुचदिति ॥ च्लेरडि सति डित्वान्नलघूपधगुणः । अम्रोचीदिति ॥ अडभावे इटईटि इति सिज्लोपः । ग्रुचुग्लुचु इति ॥ जॄस्तन्भ्विति अड्वेत्याह । अग्रुचदग्रोचीदिति ॥ आद्यस्य रूपे । अथ द्वितीयस्य अड्विकल्पमु
७०
[भ्वादि
सिध्दान्तकौमुदीसहिता

अग्रोचीत् । जुग्लोच । अग्लुचत् - अग्लोचीत् । अकोजीत् । अखोजीत् । ग्लुञ्चु २०१ पस्ज २०२ गतौ' । लुङि अङ्वा । अग्लुचत् - अग्लुञ्चीत् । सस्य श्चुत्वेन शः, तस्य जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते । 'गुजि २०३ अव्यक्ते शब्दे' । गुञ्जति गुञ्ज्यात् । 'अर्च पूजायाम्' । आनर्च । म्लेच्छ २०५ अव्यक्ते शब्दे' । अस्फुटेऽपशब्देचेत्यर्थः । म्लेच्छति । मिम्लेच्छ । 'लछ २०६ लाछि २०७ लक्षणे' । ललच्छ ललाञ्छ । वाछि २०८ इच्छायाम्' । वाञ्छति । आछि २०९ आयामे' आञ्छति । 'अत आदेः' (२२४८) इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थ । तेन दीर्घाभावान्न नुट् । आञ्छ तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ । 'ह्रीच्छ २१० लज्जाया 'जिह्रीच्छ' । 'हुर्च्छा २११ कौटिल्ये' । 'कौटिल्यमपसरणम्' इति मैत्रेयः 'उपधायां च' (२२६५) इति दीर्घः । हूर्च्छति। 'मुर्छा २१२ मोहसमुच्छ्राययोः' । मूर्छति । 'स्फुर्छा २१३ विस्तृतौ' । स्फूर्छति । 'युच्छ २१४ प्रमादे' । युच्छति । 'उछि २१५' उञ्छे' । 'उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्' इति


दाहरति । अग्लुचदग्लोचीदिति ॥ आढि सति डित्वान्नलघूपधगुणः । अडभावे सिज्लोपः । ग्लुञ्चुषस्जेति ॥ आद्यो नोपधः । द्वितीयस्तु षोपदेशः । अच्परकसादित्वात् । तत्र आद्यस्य लुडि विशेषमाह । आड्वेति ॥ जॄस्तनभ्वित्यनेनेति शेषः । ग्लुचुज्लुञ्च्वोः पृथकग्रहणसामर्थ्यात् नलोपो नेति वृत्तिकृत् । सस्येति ॥ धात्वादेः सत्वे ससज इति स्थिते । द्वितीयस्य सकारस्य श्चुत्वेन शकारइत्यर्थ.। तस्येति ॥ शकारस्य झलाञ्जश्झशीति जकार इत्यर्थः । गुजीति ॥ इदित्वादाशीर्लिडि नलोपो नेत्याह । गुञ्ज्यादिति । अर्चेति ॥ लिटि तस्मान्नुडद्विहल इति नुट मत्वाऽऽह । आनर्चेति ॥ म्लेच्छेत्यादि स्पष्टम् । तुकि लच्छतीति रूपम् । ललच्छ ललच्छतुः । आछीति ॥ लिटि णलि द्वित्वे हलादिशेषे अभ्यासह्रस्वे अ आञ्छ् अ इति स्थिते अत आदेरिति दीर्घः । तस्मान्नुडद्विहल इति नुटमाशङ्क्याह । अत आदेरिति ॥ तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाभावादेव ह्रस्वाकारस्य दीर्घ इति सिद्धौ अत इति तपरकरण स्वाभाविकस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः । ततः किमित्यत आह । तेनेति ॥ अत आदेरिति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन अत आदेरिति दीर्घस्याभावान्ननुडित्यर्थः । आञ्छेति ॥ द्वित्वे हलादिशेषे अभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति ॥ तथाच । ह्रस्वस्थानिकदीर्घाकारादपि परस्य नुड् भवत्येवेति भावः । ह्रीच्छलज्जायामित्यादि स्पष्टम् । युच्छप्रमाद इति ॥ यकारादिरुदुपधोऽयम् । युच्छतीति ॥ अन्तरङ्गत्वात् छेचेति तुकि लघूपधत्वाभावात् न गुणः । युयुच्छ । युयुच्छतुः । उछि उञ्छ इति ॥ अयमप्युदुपधः ।
प्रकरणम्]
७१
बालमनोरमा ।

यादवः । उञ्छति । उञ्छांचकार । 'उछी २१६ विवासे' । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति । धृज २१७ धृजि २१८ ध्रज २१९ ध्रजि २२० ध्वज २२१ ध्वजि २२२ गतौ' । धर्जति । धृञ्जति । ध्रजति । ध्रञ्जति । ध्वजति । ध्वञ्जति । 'कूज २२३ अव्यक्ते शब्दे' । चुकूज । 'अर्ज २२४ षर्ज २२५ अर्जने' । अर्जति । आनर्ज । सर्जति । ससर्ज । 'गर्ज २२६ शब्दे' । गर्जति । 'तर्ज २४७ भर्त्सने' । तर्जति । ततर्ज । 'कर्ज २२८ व्यथने' । चकर्ज । 'खर्ज २२९ पूजने च' चखर्ज । 'अज २३० गतिक्षेपणयोः' । अजति ।

२२९२ । अजेर्व्यघञपोः । (२-४-५६)

अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा । 'वलादावार्धधातुके वेष्यते' । विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्प-


उञ्छतीति ॥ इदित्वान्नुमि अलघूपधत्वान्नगुणः । उञ्छाञ्चकारेति ॥ नुमिकृते सयोगे गुर्वित्यकारस्य गुरुत्वादिजादेश्चेत्यामिति भावः । धृजेति ॥ आद्यौ ॠदुपधौ । इतरे चत्वारः अदुपधाः । द्वितीयचतुर्थषष्ठाः इदित । धर्जतीति ॥ शपि लघूपधगुण । रपरत्वम् । दधर्ज । दधृजतुः । धृज्यात् । अधर्जीत् । धृञ्जतीति ॥ इदित्वान्नुम् । दधृञ्ज । इदित्वान्नलोपो न । धृज्यात् । अधृञ्जीत् । ध्रजतीति ॥ णलि दध्राज । दध्रजतु । अध्राजीत् । अध्रजीत् । ध्रञ्जतीति ॥ अदुपधोऽयम् । दध्रञ्ज । इदित्वान्नलोपो न । दध्रञ्जतुः । ध्वजतीति ॥ दध्वाज । ध्वञ्जतीति ॥ दध्वञ्ज । कूज अव्यक्त इति ॥ स्पष्टम् । सर्जतीत्यत्र षोपदेशत्वात् सत्वम् । अजगतीति ॥ लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह । अजेर्व्यघञपोरिति ॥ वी इति दीर्घान्त लुप्तप्रथमाकम् । आर्धधातुक इत्यधिकृतम् । विषयसप्तम्येषा । नतु परसप्तमी । व्याख्यानात् । तदाह । आर्धधातुकविषय इत्यादि ॥ अजेरिति इका निर्देशः । अजधातोरित्यर्थ । आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात् । वीभावात्प्राक् हलादित्वाभावात् यडसम्भवात् । विषयसप्तम्याश्रयणेतु यडि विवक्षिते वीभावे सति हलादित्वाद्यङ्निर्बाध । अघञपोः किम् । घञि समाजः । समुदोरज पशुष्वित्यपि । समज । अत्र अघञपोरिति न वक्तव्यम् । लिटिवेत्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयम् । घञि अपिच न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्रतु आर्धधातुके नित्यमिति भाष्यकैय्यटयो. स्थितम् । तदाह । वलादावार्धधातुके वेष्यत इति ॥ उक्तव्यवस्थितविभाषोपलक्षणमिदम् । विवायेति ॥ लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वे अभ्यासह्रस्वे अचोञिणितीति वृद्धौ आयादेश इति भाव । विव्यतुरिति ॥ वीभावे सति अतुसि द्वित्वे अभ्यासह्रस्वे असयोगादिति कित्वात् गुणाभावे इयडपवादे एरनेकाच इति यणि रूपम् । एव उसि विव्युरिति रूपम् । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वादुपधायाञ्चेति इकारस्य दीर्घः स्यादित्याशङ्क्यम् । ईकार
७२
[भ्वादि
सिध्दान्तकौमुदीसहिता

रत्वात् 'उपधायां च' (२२६५) इति दीर्घे प्राप्ते 'अचः परस्मिन्–(५०) इति स्थानिवद्भावेनाच्परकत्वम् । न च 'न पदान्त–(५१) इति निषेधः । 'स्वर-दीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् । इत्युक्ते. । थलि 'एकाचः-(२२४६) इतीण्णिषेधे प्राप्ते ।

२२९३ । कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । (७-२-१३)

एभ्यो लिट इण्णस्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्णिषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्यचेटो निषेधार्थम् ।



स्थानिकस्य यकारस्य अचः परस्मिन्निति स्थानिवत्त्वेन द्वितीयवकारस्य हलपरकत्वाभावात् तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति । अत्रवकारस्येत्याद्यच्परकत्वमित्यन्तम् ॥ ननु दीर्घविधौ नपदान्तेति निषेधात्कथमिह यकारस्य स्थानिवत्त्वमित्याशङ्क्य निराकरोति । नचनपदान्तेति निषेध इति । शङ्क्य इति शेषः । कुत इत्यत आह । स्वरदीर्घेति । इत्युक्तेरिति ॥ वार्त्तिककृतेति शेषः । थलि एकाच इति ॥ अजधातोरनुदात्तोपदेशानन्तर्भावेऽपि वी इति तदादेशोऽनुदात्तः अजन्तेषु ऊदॄदन्तादिचतुर्दशधातूनामनुदात्तत्वाभ्युपगमादिति भावः । कृसृ इति ॥ कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठ्यर्थे सप्तमी । नेड्वशिकृतीत्यतो नेति इडितिचानुवर्तते । तदाह । एभ्य इति ॥ नन्वेकाच उपदेशेऽनुदात्तादिति श्य्रुकः कितीतिच सिद्धे किमर्थमिदं सूत्रमित्यत आह । क्रादीनामिति ॥ कृ सृ भृ यृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह । प्रकृत्याश्रय इत्यादि ॥ कृसृभृवृ इन्येषां त्रयाणां अनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेध., यश्च वृधातोः श्य्रुक कितीति प्रत्ययाश्रयोनिषेधः' तदुभयमपि यदि लिटि स्यात् तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति । नतु तदन्येभ्यः परस्येत्यर्थ । तेन बिभिदिव बिभिदिमेत्यादौ एकाच उपदेश इति निषेधः । बभूवेत्यादौ श्य्रुकः कितीति निषेधश्च न भवति । अथ स्तुद्रुस्रुश्रुवाङ्ग्रहणस्य प्रयोजनमाह । तत इति ॥ अन्येषामिति शेषः । चतुर्णामिति ॥ ग्रहणमिति शेषः । ततः तेभ्यः कृसृभृवृ इत्येभ्यः अन्येषां स्तुद्रुस्रुश्रुवाङ्ग्रहणं । थलि तुष्टोथ दुद्रोथ सुस्रोथ शुश्रोथ इत्यत्र ॠतो भारद्वाजस्येति वक्ष्यमाणेन ॠदन्तस्यैव थलि नेट् । अन्यस्य तु स्यादेवेति नियमेन प्राप्तस्य इण्णिषेधार्थम् । तथा तुष्टुव तु ष्टुमेत्यादौ कृसृभृवृ इत्युक्तेन क्रादिभ्य एव परस्य लिट इण्णिषेधः । अन्येभ्यस्तु परस्य इट् स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थञ्चेत्यर्थ. । तदेवमजेस्थलि वीभावे एकाच इति निषेधाभावादिडागमो निर्बाध इति स्थितम् । अथ तस्य थलि इडागमस्य भारद्वाजनियमाद्विकल्पं
प्रकरणम्]
७३
बालमनोरमा ।

२२९४ । अचस्तास्वत्थल्यनिटो नित्यम् । (७-२-६१)

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्णस्यात् ।

२२९५ । उपदेशेऽत्वतः । (७-२-६२)

उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण्णस्यात् ।

२२९६ । ॠतो भारद्वाजस्य । (७-२-६३)

तासौ नित्यानिट ॠदन्तस्यैव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः--



वक्ष्यन् तदुपयोगित्वेन सूत्रद्वयमुपन्यस्यति । अचस्तास्वदिति ॥ अधातोस्थलभावाद्धातोरिति लभ्यते । अच इति तद्विशेषणम् । तदन्तविधिः । उपदेशेऽत्वत इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति ॠतोभारद्वाजस्येति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । अनिट इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । तासि च क्लृप इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट् इत्यन्वयः । थलीति षष्ठ्यर्थे सप्तमी । गमेरिट् परस्मैपदेष्वित्यत इडिति, नवृभ्द्यश्चतुर्भ्य इत्यतो नेति चानुवर्तते । उपदेशे योऽजन्त इत्यादि । इण्णस्यादिति ॥ तास्वदिति शेषः । सप्तम्यन्ताद्वति । यथा तासि नेट् तथा थल्यपि नेट् इत्यर्थ । चिचेथ, जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्णभवति । अजन्तात्किम् । बिभदिथ । उपदेश इति किम् । हृञ् जहर्थ । इह गुणे रपरत्वे अजन्तत्वाभावादिण्णिषेधो नस्यादित्युपदेशग्रहणम् । नित्यग्रहणङ्किम् । स्वृ गतौ, सस्वरिथ । स्वरतिसूतीति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लुलुविथ । थलः किम् । पपिव । पपिम । इह तासीत्यनुवृत्यैव सिद्धेस्तास्वदिति नातीवोपयुज्यते इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्णिषेधार्थन्तास्वदित्यावश्यकम् । तेन लिट्यन्यतरस्यामित्यतो घस्लृभावे जघसिथेत्यत्र न निषेधः । घसस्तासावभावादिति अद भक्षण इति धातौ मूल एव वक्ष्यते । यस्तासावस्ति अनिट्चेति भाष्यम् । उपदेशेऽत्वतः इति ॥ अत्बत इति छेदः । अत् ह्रस्वाकारः सः अस्य अस्तीति अत्वात् । तसौ मत्वर्थ इति भत्त्वान्न जश्त्वम् । अच इति वर्जम् पूर्वसूत्र, तत्र यदनुवृत्तन्तदप्यनुवर्तते । तदाह । उपदेशे अकारवत इति ॥ शक्लृ शशक्थ । पच् पपक्थेत्युदाहरणम् । अथ क्रादिनियमप्राप्त इण्णभवति । उपदेशे किम् । कृष विलेखने । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपर किम् । रराधिथ । तासौ किम् । जगर्हिथ । जिघृक्षतीत्यादौ सनिग्रहगुहोश्चेति सनि नित्यमनिट् । नतु तासौ । नित्येति किम् । अञ्ज आनञ्जिथ । ऊदित्वात्तासौ वेडिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम् । स्नुक्रमोरिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् । ऋतो भारद्वाजस्येति ॥ तासौ नित्यमनिट् इति थलीति नेति इडिति चानुवर्तते । भारद्वाजस्य मते ॠदन्ताद्धातो परस्य थलो नेडिति फलितम् । हृञ् धृञादौ अचस्तास्वादित्येव सिद्धम् । अतो नियमार्थमिदमित्याह । ॠदन्तादेव थलो नेडिति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः । तदाह । अन्यस्य स्यादे-
७४
[भ्वादि
सिध्दान्तकौमुदीसहिता

अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् ।

ॠदन्त ईदृड्नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥

न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्क्यः । 'अचस्तास्वत्-' (२२९४) इति 'उपदेशेऽत्वतः' (२२९५) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तक: 'अनन्तरस्य-' इति न्यायात् । विवयिथ-विवेथ


वेति ॥ ॠदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ॠदन्तभिन्नाद्धातो परस्य थलो नेण्णिवृत्तिरिति भारद्वाजमते फलतीति न वैयर्थ्यमिति भाव । तथाच अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट । मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत इति च तत्र नेटिति विकल्पः फलतीति भावः । तद्यथा । पपिथ । पपाथ । पेचिथ । पपक्थ । अयमत्रेति ॥ कृसृभृवृस्तुद्रुश्रुवो लिटीति, अचस्तास्वत्थल्यनिटो नित्यमिति, उपदेशेऽत्वत इति, ॠतो भारद्वाजस्येति च, सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः । अजन्त इति ॥ यः धातुः ॠदन्तभिन्नाजन्त. ह्रस्वाकारवात् वा तासौ नित्यानिट् सोऽथ थलि विकल्पितेटक इति पूर्वार्धस्यार्थः । अत्र ईदृगित्यस्य तासौ नित्यानिडित्यर्थः । यः ॠदन्तस्तासौ नित्यानिट् सः थलि नित्यानिडित्यर्थ. । अचस्तास्वदिति पाणिनिमते ॠतो भारद्वाजस्येति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः । क्राद्यन्य इति ॥ क्राद्यष्टभ्योऽन्यो धातुः लिटि नित्यं सेडित्यर्थः । क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनां अष्टानां लिटि नित्यानिट्कत्वमवगतम् । तदनुपपन्नम् । स्तुद्रुस्रुश्रुवां ॠदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमते अप्रवृत्या इड्विकल्पस्य दुर्वारत्वात् । नचैव सति कृसृभृवृ इति सूत्रे स्तुद्रुस्रुश्रुग्रहणमनर्थकमति वाच्यम् । तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्या चरितार्थत्वादित्याशङ्क्य निराकरोति । न च स्तुद्रुस्रुश्रुवामपि थलि विकल्पः शङ्क्य इति कुत इत्यत आह । अचस्तास्वदिति । ॠदन्तादेव परस्य थल इण्णिषेधः । अनृदन्तात्परस्य तु थल इण्णिषेधो नेति भारद्वाज मतम् । अयञ्च इण्णिषेधस्य निषेधः अचस्तास्वदिति उपदेशेऽत्वत इति च सूत्रद्वयप्राप्तस्यैव इण्णिषेधस्य पक्षे निवर्तकः । न तु क्रादिसूत्रप्राप्तस्य इट्प्रतिषेधस्यापीत्यर्थ. । कुत इत्यत आह । अनन्तरस्येति ॥ अचस्तास्वदिति उपदेशेऽत्वत इति ॠतो भारद्वाजस्येति च सूत्रकमः । कृसृभृवृ इति सूत्रन्तु ततः प्राग्बहुव्यवहितमिति भावः । किञ्च नेड्वशिकृतीत्यादिप्रतिषेधकाण्डोत्तरं आर्धधातुकस्येड्वलादेरिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुस्रुश्रुवामिण्णिषेधो भारद्वाजनियमम्बाधत इति नेड्वशिकृतीत्यत्र वस्वेकाजाद्धसामित्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्यानिट्त्वाच्च इड्विकल्प इति सिद्धम् । तदाह । विवयिथ विवेथेति ॥ सिबादेशस्य थलः पित्वादसंयोगादिति कित्वाभावाद्गुणः । इट्पक्षे अबादेशः ।
प्रकरणम्]
७५
बालमनोरमा ।

आजिथ । विव्यथुः । विव्य । विवाय-विवय । विव्यिव । विव्यिम । वेता--अजिता । वेष्यति-अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ।

२२९७ । सिचि वृद्धिः परस्मैपदेषु । (७-२-१)

इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे सिचि । अवैषीत्-आजीत् । अवेष्यत्-आजिष्यत् । 'तेज २३१ पालने' । तेजति । ' खज २३२ मन्थे' । खजति । 'खजि २३३ गतिवैकल्ये' । खञ्जति । 'एजृ २३४ कम्पने' एजांचकार । 'टुओ स्फूर्जा २३५ वज्रनिर्घोषे' स्फूर्जति । पुस्फूर्ज । 'क्षि २३६ क्षये' । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ-चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ।


आजिथेति ॥ वलादावार्धधातुके वेष्यत इति वीभावाभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट् । द्वित्वम् । हलादिशेष । अत आदेरिति सवर्णदीर्घ. । विव्यथुरिति ॥ अथुसि वीभावे द्वित्वे अभ्यासह्रस्वे असयोगादिति कित्वात् गुणाभावे इयडपवादे एरनेकाच इति यणि रूपम् । विव्येति ॥ थस्य अकारे वीभावादि । विवाय विवयेति ॥ णलुत्तमो वेति णित्वविकल्पाद्वृद्धिविकल्प । विव्यिव विव्यिमेति ॥ क्राद्यन्यो लिटि सेट्भवेदिति नित्यमिटि यण् । वेता अजितेति ॥ लुटि तासि वीभावविकल्पः । वेष्यति । अजिष्यतीति ॥ लृटि स्ये वीभावविकल्प । वीयादिति ॥ आशीर्लिङादेशस्य आर्धधातुकत्वात् वीभाव. । अथ लुडि सिचि वीभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते । सिचि वृद्धिरिति ॥ इगन्तस्येति ॥ वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिरिति भाव । एव च अकोषीदित्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति ॥ लुडस्तिप् इकारलोपः सिचि वीभावः एकाच इति इण्णिषेधः वृद्धि अडागमः षत्वम् । आजीदिति ॥ सिज्लोपः । वदव्रजेति हलन्तलक्षणायां वृद्धौ नेटि इति निषिद्धायामडागमे आटश्चेति वृद्धिः । लृङि अवेष्यत् । आजिष्यत् । तेजपालन इत्यादि स्पष्टम् । एजृ कम्पन इति ॥ दीप्तौत्वात्मनेपदी गतः । टुओ स्फूर्जेति ॥ आदिर्ञिटुडव इति टुरित् । उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् । ट्वितोऽथुच् ओदितश्चेति निष्ठानत्वम् । आदितश्चेति निष्ठायामिण्णिषेधश्च । तत्फलानि उपधायाञ्चेति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुर्छतीत्यादौ नदीर्घ इत्याहुः । स्फूर्जतीति ॥ लिटि पुस्फूर्ज अस्फूर्जीत् । क्षि क्षय इति ॥ क्षयो नाशः । अन्तर्भावितण्यर्थ इति नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति ॥ नश्यतीत्यर्थः । नाशयतीति वा । शपि गुणे अयादेशः । चिक्षायेति ॥ णलि वृद्धिः अयादेशः । चिक्षियतुरिति ॥ असंयोगादिति कित्वान्न गुणः । इयड् । चिक्षयिथ चिक्षेथेति ॥ पित्वेन कित्वाभावात्गुणः । अजन्तत्वातासौ नित्यानिट्त्वाच्च । भारद्वाजनियमात्थलि वेट् । इट्पक्षे अयादेशः । चिक्षियथुः । चिक्षिय । चिक्षाय । चिक्षय । वस्मसोस्तु क्रादिनियमात् नित्यमिट् । तदाह ।
७६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२९८ । अकृत्सार्वधातुकयोर्दीर्घः । (७-४२५)

अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे । नतु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैपीत् । 'क्षिज २३७ अव्यक्ते शब्दे' । कूजिना सहायं पठितुं युक्तः । चिक्षेज । 'लज २३८ लजि २३९ भर्त्सने' । 'लाज २४० लाजि २४१ भर्जने च' । 'जज २४२ जजि २४३ युद्धे' । 'तुज २४४ हिंसायाम्' । तोजति । तुतोज । 'तुजि २४५ पालने' । 'गज २४६ गजि २४७ गृज २४८ गृजि २४९ मुज २५० मुजि २५१ शब्दार्थाः' । 'गज' मदने च । 'वज २५२ व्रज २५३ गतौ' । ववजतुः । 'वदव्रज--' (२२६७) इति वृद्धिः । अव्राजीत् ।

अथ टवर्गीयान्ताः शाड्रन्ता अनुदात्तेतः पट्त्रिंशत् । 'अट्ट १५४ अतिक्रमहिंसयोः' । दोपधोऽयम् 'तोपधः' इत्यन्ये । अट्टते । आनट्टे । 'वेष्ट २५५


चिक्षियिव चिक्षियिमेति ॥ क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् । आशीर्लिङि विशेषमाह । अकृत्सार्वधातुकयोरिति ॥ अङ्गस्येत्यधिकृतम् । अयडयिक्डितीत्यत. यीतिराप्तभ्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणम् । तदादिविधि । दीर्घश्रुत्या अच इत्युपस्थितमङ्गविशेषणम् । तदन्तविधिः । तदाह । अजन्तस्येत्यादिना ॥ अकृत्सार्वधातुकयोरिति किं । प्रकृत्या तुकम्बाधित्वा परत्वाद्दीर्घो न । चिनुयात् । सार्वधातुकत्वान्नदीर्घः । क्षिजेति ॥ इदुपधः । कृजिनेति ॥ कूज अव्यक्ते शब्दे इत्यनुपदमेव पठितम् । तत्रैव कूज क्षिज अव्यक्ते शब्दे इति पठितुं युक्तमित्यर्थः । अर्थैक्यादिति भाव. । लजलजि भर्त्सन इति ॥ 'भर्त्सन त्वपवादगीः' इत्यमरः । द्वितीय इदित् । आशीर्लिङि लज्यात् । लञ्ज्यात् । लाजलाजि भर्जन इति ॥ आदुपधौ । द्वितीय इदित् । जजजजीत्यादि स्पष्टम् । वजव्रजेति ॥ आद्यस्य असयुक्तहल्मध्यस्थाकारवत्वेऽपि नशसददवादिगुणानामित्येत्वाभ्यासलोपौ नेत्याह । ववजतुरिति ॥ अवाजात् अवजात् । द्वितीयस्य तु सयुक्तहल्मध्यस्थाकारवत्वादेवैत्वाभ्यासलोपयोर्न प्रसक्तिः । अव्राजीदित्यत्र अतो हलादेरिति वृद्धिविकल्पमाशङ्क्याह । वदद्रवजेति वृद्धिरिति ॥ हलन्तत्वादेव सिद्धे व्रजग्रहणस्य अतो हलादेरिति विकल्पनिरासार्थत्वादिति भावः । शुचादयोद्विसप्ततिर्वृत्ताः । शादन्ता इति ॥ शाडृश्लाघायामित्यन्ता इत्यर्थ. । शाड्यन्ता इति क्वचित्पाठ. । अट्टेति ॥ तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपधनिर्देशः । तदाह । दोपधोऽयमिति ॥ तथा च अट्टधातोः सनि इटि अट्टि स इति स्थिते । ष्टुत्वचर्त्वयोरसिद्धत्वादजादेर्द्वितीयस्येति प्रवर्तमानं द्वित्वम् नन्द्रास्संयोगादय इति दकार विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचर्त्वयोः अट्टिटिषत इतीष्टं सिध्यति । स्वाभाविकमूर्धन्योपधत्वे नन्द्रा इति निषेधाभावात् टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिट्टिषत इत्यनिष्टं प्रसज्येतेति भावः । तोपध इति । अन्य इति ॥ ष्टुत्वेन तोपधनिर्देश
प्रकरणम्]
७७
बालमनोरमा ।

वेष्टने' । विवेष्टे । 'चेष्ट २५६ चेष्टायाम्' । अचेष्टिष्ट । 'गोष्ट २५७ लोष्ट २५८ संघाते' । जुगोष्टे । लुलोष्टे । 'घट्ट २५९ चलने' । जघट्टे । 'स्फुट २६० विकसने' । स्पोटते । पुस्फुटे । 'अठि २६१ गतौ' । अण्ठते । आनण्ठे । 'वठि २६२ एकचर्यायाम्' । ववण्ठे । 'मठि २६३ कठि २६४ शोके' । शोक इह आध्यानम् । मण्ठते । कण्ठते । 'मुठि २६५ पालने' । मुण्ठते 'हेठ २६६ विबाधायाम्' । विबाधा शाठ्यम् । जिहेठे । 'एठ २६७ च' । एठांचक्रे । 'हिडि २६८ गत्यनादरयोः । हिण्डते । जिहिण्डे । 'हुडि २६९ संघाते' । जुहुण्डे । 'कुडि २७० दाहे' । चुकुण्डे । 'वडि २७१ विभाजने' । 'मङि २७२ च' । ववण्डे । 'भडि २७३ परिभाषणे' । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । 'पिडि २७४ संघाते' । पिपिण्डे । 'मुडि २७५ मार्जने' । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते । 'तुडि २७६ तोडने' । तोडनं दारणं हिंसनं च । तुण्डते । 'हुडि २७७ वरणे' । वरणं स्वीकारः । 'हरणे इत्येके' । हुण्डते । 'चडि २७८ कोपे ' । चण्डते । 'शडि २७९ रुजायां संघाते च' । शण्डते । 'तडि २८० ताडने' । तण्डते । 'पडि २८१ गतौ' । पण्डते । 'कडि २८२ मदे' । कण्डते । 'खडि २८३ मन्थे' । 'हेडृ २८४ होडृ २८५ अनादरे' । जिहेडे । जुहोडे । 'बाडृ २८६ आप्लाव्ये' । बशादिः । आप्लाव्यमाप्लवः । बाडते । 'द्राडृ २८७ ध्राडृ २८८ विशरणे' । द्राडते । ध्राडते । 'शाडृ २८९ श्लाघायाम्' । शाडते ।

अथ गड्यन्ताः परस्मैपदिनः । 'शौट्ट २९० गर्वे' । शौटति । शुशौट । 'यौट्ट २९१ बन्धे' । यौटति । 'म्लेटृ २९२ म्रेडृ २९३ उन्मादे' । द्वितीयो डान्तः ।


इति भावः । अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये ष्टुत्वस्य सिद्धत्वेऽपि नन्द्रा इति निषेधाभावात्तकारविशिष्टस्याट्टि स इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्या अतिट्टिषत इति रूपमिति भावः । आनट्ट इति ॥ इह नन्द्रा इति निषेधो न । तत्र द्वितीयस्यैकाच इत्यनुवृत्ते । घट्ट चलन इति ॥ अयञ्चुरादावपि । स्फुट विकसन इति ॥ अयङ्कुटादावपि । अठि गताविति ॥ लिटि नुमि द्वित्वे हलादिशेषे अत आदेरिति दीर्घे तस्मान्नुड्द्विहल इति नुडिति मत्वाऽऽह । आनण्ठ इति । वठि एकचर्यायामिति ॥ असहायचर्यायामित्यर्थ । मडिचेति ॥ विभाजन इत्यनुषज्यते । मडि भूषायामिति परस्मैपदिषु वक्ष्यते । शाडृश्लाघायामिति ॥ डलयोरैक्यात् । शालत इति काश्यपः । इत्यट्टादयः षट्त्रिंशद्गताः । अथ गड्यन्ता इति ॥ गडि वदनैकदेश इत्यन्ता इत्यर्थः । म्लेट्टम्रेडृ इति ॥ एदुपधौ । द्वितीयोडान्त इति ॥
७८
[भ्वादि
सिध्दान्तकौमुदीसहिता

टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेटति । म्रेडति । 'कटे २९४ वर्षावरणयोः' । 'चटे' इत्येके । चकाट । सिचि 'अतो हलादेर्लघोः' (२२८४) इति वृद्धौ प्राप्तायाम् ।

२२९९ । ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । (७-२-५)

हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नस्यादिडादौ सिचि । अकटीत् । 'अट २९५ पट २१६ गतौ' । आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः । 'रट परिभाषणे' । रराट । 'लट २९८ बाल्ये' । ललाट । 'शट २९९ रुजाविशरणगत्यवसादनेषु' । शशाट । 'वट ३०० वेष्टने' । ववाट । ववटतुः । ववटुः । ववटिथ । 'किट ३०१ खिट ३०२ त्रासे' । केटति । खेटति । 'शिट ३०३ षिट ३०४ अनादरे' । शेटति । शिशेट । सेटति । सिषेट । 'जट ३०५ झट ३०६ संघाते' । 'भट ३०७ भृतौ' । 'तट ३०८ उच्छ्राये' । 'खट ३०९


टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेष्वस्य कथम्पाठ । चुड्डभावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठितुं युक्तत्वादित्यत आह । टान्त मध्येति । नाथतिवदिति ॥ एधवृद्धावित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तेषु यथा नाथृनाधृयाच्ञेति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठस्तद्वदित्यर्थः । कटे इति ॥ कण्ठ्यादिः । चटे इति ॥ तालव्यादि आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह । चकाटेति ॥ चकटतुः । द्वितीयस्य चेटतुः वैरूप्यापादकादेशादित्वाभावादेत्वाभ्यासलोपौ । प्राप्तायामिति ॥ हलन्तलक्षणाया नित्यवृद्धेर्न्नेटीति निषेधम्बाधित्वा अतोहलादेरिति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थ । ह्म्यन्तेति ॥ ह्म्यन्त क्षण श्वस जागृ णि श्वि एदित् एषान्द्वन्द्वात्पष्ठी । ह् म् य् इत्येते वर्णा येषामन्ते ते ह्म्यन्ताः । तदाह । हमयान्तस्येति । क्षणादेरिति ॥ आदिना श्वसजागृ इत्यनयोर्ग्रहणं । ण्यन्तस्येति ॥ प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । श्वयतेरिति ॥ श्विधातोरित्यर्थः । एदित इति ॥ एत् इत् यस्येति विग्रहः । वृद्धिर्न स्यादिति ॥ सिचि वृद्धिरित्यतो नेटीत्यतश्च तदनुवृत्तेरिति भावः । इडादौ सिचीति ॥ सिचि वृद्धिरित्यत सिचीति नेटीत्यत इटीति चानुवर्तत इति भावः । अकटीदिति ॥ एदित्वान्न वृद्धिः । अटपटेति ॥ अत आदेरिति दीर्घे मत्वा आह । आटेति । पेटतुरिति ॥ एत्वाभ्यासलोपौ । वट वेष्टने । ववटतुरिति ॥ नशसददवादिगुणानामिति निषेधः । ववटिथेति ॥ अत्र थलि च सेटीति प्राप्तस्य नशसददेति निषेधः । किटखिट त्रास इति ॥ यद्यपि इटकिटकटीगताविति अग्रे किटधातुः पठ्यते । तथाप्यर्थभेदात् पुनरिह पाठः । खिटत्रासे किट गतौ चेति पठितुं युक्तम् । शिटषिटेति ॥ आद्यस्तालव्यादिः । द्वितीयस्तु षोपदेशः । जट झटेति ॥ आद्यस्य अवै
प्रकरणम्]
७९
बालमनोरमा ।

काङ्क्षायाम्' । 'णट ३१० नृत्तौ' । 'पिट ३११ शब्दसंघातयोः' । 'हट दीप्तौ' । 'षट ३१३ अवयवे' । 'लुट ३१४ विलोडने' । 'डान्तोयम्' इत्येके 'चिट ३१५ परप्रेष्ये' । 'विट ३१६ शब्दे' । 'बिट ३२७ आक्रोशे' । बशादिः । 'हिट' इत्येके । 'इट ३१८ किट ३१९ कटी ३२० गतौ' । एटति । केटति । कटति । ईकारः 'श्वीदितो निष्ठायाम्' (३०३९) इतीण्णिषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्येतु 'इ' 'ई' इति प्रश्लिष्य, अयति । इयाय । इयतुः । इयुः । इययिथ-इयेथ । ईय-इयाय-इयय । दीर्घस्य तु 'इजादेश्च–' (२२३७) इत्यामि अयांचकारेत्यादि उदाहरन्ति । 'मडि ३२१ भूषायाम्' । 'कुडि ३२२ वै-


रूप्यापादकादेशादित्वादेत्वाभ्यासलोपौ । द्वितीयस्य तु न । जेटतु । जझटतु । नट नृत्ताविति ॥ णोपदेश । चुरादेरेव नाटेः पर्युदासादय णोपदेश एव । प्रणटति । इटकिटकटीगताविति ॥ कटे वर्षावरणयोरिति कटि. पूर्वमेदित्पठित । इह ईदित्पठ्यते । एदित्वाभावात् ह्म्यन्तेति वृद्धिनिषेधो न भवति । अकटीत् । अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठ्यत इत्यत आह । ईकार इति । केचित्त्विति ॥ कटि इति ह्रस्वान्तपाठ मत्वा इदित्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्येत्विति ॥ उदाहरन्तत्यिन्वयः । प्रश्लिष्येति ॥ कटि इत्यनन्तरम् इ ई इति धातुद्वय सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति ॥ इधातोर्लटि शपि गुणे अयादेशः । इयायेति ॥ णलि द्वित्वे वृद्धौ आयादेशे अभ्यासस्याऽसवर्ण इति इयड् । इयतुरिति ॥ इकारोऽत्र ह्रस्वः । तथाहि इ अतुसिति स्थिते कित्वाद्गुणभावे द्विर्वचनेऽचीति निषेधाद्यणभावे इ इत्यस्य द्वित्वे इ इ अतुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयडभावे सति वार्णदाङ्गम्बलीय इति सवर्णदीर्घम्बाधित्वा एरनेकाच इत्युत्तरखण्डस्य यणि इयतुरिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट् । तत्र इट्पक्षे रूपमाह । इययिथेति ॥ थलि द्वित्वे इटि पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयड् । नचाचः परस्मिन्निति गुणस्य स्थानिवत्त्वेन असवर्णपरत्वाभावात् कथमभ्यासस्य इयडिति वाच्यम् । असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाप्रसक्तेः । एव णलि इयायेत्यत्रापि वृद्धेर्नस्थानिवत्त्वम् । थलि इडभावपक्षे रूपमाह । इयेथेति ॥ थलि द्वित्वे गुणे अभ्यासस्येयड् । अथुसि इयथुः । इयेति ॥ थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि रूपम् । णलुत्तमोवेति णित्वपक्षे आह । इयायेति ॥ द्वित्वे पित्वेन कित्वाभावात् वृद्धौ आयादेशे अभ्यासस्य इयड् । णित्वाभावे आह । इययेति ॥ द्वित्वे पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयड् । वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि इयिव इयिमेति रूपम् । एता एष्यति अयतु ऐत् अयेत् । आशीर्लिङि तु अकृत्सार्वधातुकयोरिति दीर्घात् ईयात् । सिचि वृद्धिः । ऐषीत् । ऐष्यत् । दीर्घस्य त्विति ॥ दीर्घस्य ईधातोरित्यर्थः । तस्य लिट वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह । अयाञ्चकारेति ॥
८०
[भ्वादि
सिध्दान्तकौमुदीसहिता

कल्ये' । कुण्डति । कुण्डत इति तु दाहे गतम् । 'मुड ३२३ प्रुड ३२८ मर्दने' । 'चुडि ३२५, अल्पीभावे' । 'मुडि ३२३ खण्डने' । मुण्डति । 'पुडि च' इत्येके । पुण्डति । 'रुटि ३२७ लुटि ३२८ स्तेये' । रुण्टति । लुण्टति । 'रुठि लुठि' इत्येके । 'रुडि लुडि' इत्यपरे । 'स्फुटिर् ३२९ विशरणे' । इरित्त्वादङ्वा । अस्फुटत्-अस्फोटीत् । 'स्फुटि' इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति । 'पठ ३३० व्यक्तायां वाचि' । पेठतुः । पेठिथ । अपठीत्-अपाठीत् । 'वठ ३३१ स्थौल्ये' । ववठतुः । ववठिथ । 'मठ ३३२ मदनिवासयोः' । 'कठ ३३३ कृच्छ्रजीवने' । 'रट ३३४ परिभाषणे' । 'रठ' इत्येके । 'हठ ३३५ हुतिशठत्वयोः' । 'बलात्कारे' इत्येके । हठति । जहाठ । 'रुठ ३३६ लुठ ३३७ उठ ३३८ उपघाते' । ओठति । 'ऊठ' इत्येके । ऊठति । उठांचकार । 'पिठ ३३९ हिंसासंक्लेशनयोः' । 'शठ ३४० कैतवे च' । 'शुठ ३४१ प्रतिघाते' । शोठति । 'शुठि' इति स्वामी । शुण्ठति । 'कुठि ३४२ च' । कुण्ठति । 'लुठि ३४३ आलस्ये प्रतिघाते च' । 'शुठि ३४४ शोषणे' । रुठि ३४५ लुठि ३४६ गतौ । 'चुड्ड ३४७ भावकरणे' । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड । 'अड्ड ३४८ अभियोगे' । अड्डति । आनड्ड । 'कड्ड ३४९ कार्कश्ये' । कड्डति । चुड्डादयस्त्रयो दोपधाः । तेन व्किपि । चुत् । अत् । कत् । इत्यादि । 'क्रीडृ ३५० विहारे' । चिक्रीड । 'तुडृ ३५१ तोडने' । तोडति । तुतोड । 'तूडृ' इत्येके । 'हुडृ ३५२ हूडृ ३५३ होडृ ३५४ गतौ' । हुड्यात्--हूड्यात्—होड्यात् । 'रौडृ ३५५ अनादरे' । 'रोडृ ३५६ लोडृ ३५७ उन्मादे' । 'अड ३५८ उद्यमे' । अडति । आड । आडतुः । आडुः ।


ईधातोरामि गुणे अयादेशः अनुप्रयोगश्च । कुडि वैकल्य इति ॥ वैकल्यम् अविवेक इत्याहुः । अपूर्णभावो वा । मुडप्रुड मर्दन इत्यादि ॥ स्पष्टम् । पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ । तदाह । पेठतुरिति । पेठिथेति ॥ पित्वे अकित्वेऽपि थलिचसेटीत्येत्वाभ्यासलोपौ । अपठीत् । अपाठीदिति ॥ अतो हलादेर्लघोरिति वृद्धिविकल्पः । वठ स्थौल्य इति ॥ स्थौल्य स्थूलीभवनम् । नशसददवादिगुणानामित्येत्वाभ्यासलोपनिषेध इति मत्वा आह । ववठतुः । ववठिथेति । दोपधा इति ॥ ष्टुत्वेन डोपधनिर्देश इति भावः । चुदिति ॥ चुड्डधातोः क्विपि हल्ड्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ वावसान इति चर्त्वे चुत् इति रूपम् । अदिति ॥ अड्डधातोः क्विपि पूर्ववत् रुपम् । कदिति ॥ कड्डधातोः क्विपि रूपम् । इत्यादीति ॥ आदिना जश्त्वेन चुदित्यादिसंग्रहः ।
प्रकरणम्]
८१
बालमनोरमा ।

'लड ३५९ विलासे' । लडति । डलयोर्लरयोश्चैकत्वस्मरणाल्ललतीति स्वाम्यादयः । 'कड ३६० मदे' । कडति । 'कडि' इत्येके । कण्डति । 'गडि ३६१ वदनैकदेशे' । गण्डति । इति टवर्गीयान्ताः ।

अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । 'तिपृ ३६२ तेपृ ३६३ ष्टिपृ ३६४ ष्टेपृ ३६५ क्षरणार्थाः' । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ।

२३०० । लिङ्सिचावात्मनेपदेषु। (१-२-११)

इक्समीपाद्धलः परौ झलादी लिङात्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि 'झलो झलि' (२२८१) इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तेपिता । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टेपे । तिष्टेपाते । तिष्टेपिरे ।


एकत्वस्मरणादिति ॥ शीक्षादाविति शेषः । गडि वदनेति ॥ तवर्गान्तेषु गदीति गतम् । परस्मैपदिनः शौटृ गर्व इत्यादयो गता । तिपृ इति ॥ प्रथमत्रयाविदुपधौ । द्वितीयचतुर्थौ एदुपधौ । तृतीयचतुर्थौ षोपदेशौ च । तकारस्य ष्टुत्वेन दकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । आद्य इति ॥ तिपृ धातुरित्यर्थ । भाष्यादौ अनुदात्तोपदेशेष्वस्य पाठादिति भावः । बभ्रामेति ॥ भाष्यविरुद्धत्वादिति भावः । आद्यस्योदाहरति । तेपत इति ॥ शपि लघूपधगुण । तितिप इति ॥ असयोगादिति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र एकाच उपदेश इति निषेधमाशङ्क्याह । क्रादिनियमादिति । तेप्स्यत इति ॥ लोडादौ तु, तेपताम् । अतेपत । तेपेत । अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूप वक्ष्यति । तत्र लघूपधगुणे प्राप्ते । लिङिति ॥ इको झलिति हलन्ताच्चेति च, सूत्रमनुवर्त्तते । असयोगादित्यतः किदिति । इक इति सामीण्ये षष्ठी । हलि अन्वेति । तदाह । इक्समीपादित्यादिना ॥ आत्मनेपदपरकत्व सिच एव विशेषणम् । नतु लिडः । लिडादेशस्यात्मनेपदस्य लिडः परत्वाभावात् । इकः कि । वह् वक्षीष्ट। सति तु कित्त्वे वचिस्वपीति सम्प्रसारणं स्यात् । आत्मनेपदेषु किम् । अद्राक्षीत् । इह कित्त्वे सति सृजिदृशोर्झल्यमकितीत्यम्न स्यात् । अतिप्तेति ॥ लुडस्तादेशे, च्लि, सिच् । झलोझलीति लोप । आत्मनेपदपरकत्वेन सिच कित्वात् न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह । तितेपे इति ॥ इदुदुपधत्वेतु कित्त्वाद्गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति । तेपितेति ॥ तेपिषीष्ट । अतेपिष्ट । ष्टिपृ धातोस्तु धात्वादेः षस्स इति सत्वे ष्टुत्वनिवृत्या लटि स्तेपत इति रूप सिद्धवत्कृत्य लिटि रूपमाह । तिष्टिप इति ॥ शर्पूर्वाः खय इति तकार शिष्यते । षकारस्य निवृत्तौ ष्टुत्वनिवृत्ते कित्वान्न गुण । तिष्टेप इति ॥
८२
[भ्वादि
सिध्दान्तकौमुदीसहिता

'तेपृ' कम्पने च । 'ग्लेपृ ३६६ दैन्ये' ग्लेपते | 'टु वेपृ ३६७ कम्पने' । वेपते । 'केपृ ३६८ गेपृ ३६९ ग्लेपृ ३७० च' । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पन इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । 'मेपृ ३७१ रेपृ ३७२ लेपृ ३७३ गतौ' । 'त्रपूष् ३७४ लज्जायाम्' । त्रपते ।

२३०१ । तॄफलभजत्रपश्च । (६-४-१२२)

एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्त्वादिड्वा । त्रपिता-त्रप्ता । त्रपिषीष्ट-त्रप्सीष्ट । । 'कपि ३७५ चलने' कम्पते । चकम्पे । 'रवि ३७६ लबि ३७७ अबि ३७८ शब्दे' । ररम्बे । ललम्बे । आनम्बे । 'लबि ३७९ अवस्रंसने च' । 'कबृ ३८० वर्णे' । चकबे । 'क्लीबृ ३८१ अधार्ष्ट्ये' । चिक्लीबे । 'क्षीबृ ३८२ मदे' । क्षीबते । 'शीभृ ३८३ कत्थने' । शीभते । 'चीभृ ३८४ च' । 'रेभृ ३८५ शब्दे' । रिरेभे । 'अभिरभी' क्वचित्पठ्येते । अम्भते । रम्भते । 'ष्टभि ३८६ स्कभि ३८७ प्रतिबन्धे' । स्तम्भते । उत्तम्भते । नुम्यनुस्वारः । 'उदः स्थास्तम्भ्वोः-' (११८) इति पूर्वसवर्णः । विस्तम्भते । 'स्तन्भेः' (२२७२) इति षत्वं तु न भवति ।


ष्टेपृधातोः रूपम् । तेपृ कम्पने चेति ॥ चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात् । पूर्वत्रास्य पाठस्त्यक्तु शक्यः । केचित्तु, देपृ इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति ॥ अनुक्तसमुच्चयार्थ इति भावः । एतच्च टुवेपृकेपृगेपृग्लेपृकम्पन इत्येव सिद्धे पृथक्पाठाल्लभ्यते । अर्थभेदादिति ॥ ग्लेपृ दैन्य इति पूर्व पठितम् । इह तु अर्थभेदात् पुनः पाठः । अन्यथा ग्लेपृ दैन्ये कम्पने गतौचेति गौरव स्यादिति भावः । त्रपूषिति ॥ ऊकारष्षकारश्च इत् । अदुपधः । असंयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपयोरप्राप्तावाह । तॄफलेति ॥ अत एकहल्मध्ये इत्यतः अत इति लिटीति चानुवर्तते । घ्वसोरित्यत एदिति अभ्यासलोपश्चेति च । गमहनेत्यस्मात्. कितीति । थलिच सेटीति सूत्रञ्च । तदाह । एषामिति ॥ गुणशब्देन भाविताकारवत्त्वाद्विरूपादेशाद्द्वित्वादेकहल्मध्यस्थत्वाभावाच्च प्राप्ते विधिरयम् । आनम्ब इति ॥ द्विहल्त्वान्नुट् । ष्टभिस्कभीति ॥ आद्यः षोपदेश. । ष्टुत्वेन तकारस्य टकारनिर्देशेन दत्यपरकसादित्वात् ततः षस्य सन्वे ष्टुत्वस्य निवृत्तिः । तदाह । उत्तम्भत इति । नुम्यनुस्वार इति ॥ इदित्वान्नुमि नश्चापदान्तस्येति तस्यानुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णः मकारः । ष्टम्भ इत्येव पाठे तु आशीर्लिङि अनिदितामिति नलोपः स्यादिति भावः । पूर्वसवर्ण इति ॥ सकारस्य थकारः । तस्य खरिचेति चर्त्वे तकार इत्यर्थः । अत्र यद्वक्तव्य तत् उदस्थास्तम्भ्वोरित्यत्र हल्सन्धौ प्रपञ्जितम् ।
प्रकरणम्]
८३
बालमनोरमा ।

श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु '-स्थास्तम्भ्वोः' (११८) इति पवर्गीयोपधपाठः 'स्तन्भेः' (२२७२) इति तवर्गीयोपधपाठश्चेति माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते विष्टम्भते । ष्टम्भते । टष्टम्भे । 'जभी ३८८ जृभि ३८९ गात्रविनामे' ।

२३०२ । रधिजभोरचि । (७-१-६१)

एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । अजम्भिष्ट । जृम्भते । जजृम्भे । 'शल्भ ३९० कत्थने' । शशल्भे । 'वल्भ ३९१ भोजने' । दन्योष्ठ्यादिः । ववल्भे । 'गल्भ ३९२ धार्ष्ट्ये' । गल्भते । 'श्रम्भु ३९३ प्रमादे' । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते वा । 'ष्टुभु ३९४ स्तम्भे' । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ।

अथ परस्मैपदिनः । 'गुपू ३९५ रक्षणे' ।


विस्तम्भत इति ॥ सात्पदाद्योरिति षत्वनिषेध इति भावः । नन्वेवमपि स्तन्भेरिति षत्वङ्कुतो न स्यादित्यत आह । स्तन्भेरिति ॥ षत्वन्तु न भवति । कुत इत्यत आह । श्नुविधाविति ॥ स्तन्भु स्तुन्भु स्कन्भु स्कुन्भु स्कुञ्भ्यश्नुश्चेति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तषत्वविधौ ग्रहणादित्यर्थः । नन्वेव सति उदस्थास्तम्भ्वोरिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहण स्यादित्यत आह । तद्बीजन्त्विति ॥ षत्वविधौ सौत्रस्यैव ग्रहण पूर्वसवर्णविधौ तु तदन्यस्येत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य । षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह । इति माधव इति ॥ पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भाव । लिटि शर्पूर्वाः खय इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति स्वाभाविक एव टकारो नतु ष्टुत्वसम्पन्न इत्यर्थः । तन्मते विष्टम्भत इति ॥ तथा च । षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणे षकारो निर्बाध इति भावः । टष्टम्भ इति ॥ शर्पूर्वा इति टकार एव शिष्यत इति भावः । जभी जृभि गात्रविनाम इति ॥ गात्रस्य विनामः वक्रभावः । आद्य ईदित् । द्वितीय इदित् । आद्यस्य ईदित्व श्वीदितो निष्ठायामिति इण्णिषेधार्थम् । रधिजभोरिति ॥ रध हिंसायामिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः । इदितो नुम् धातोरित्यत नुमित्यनुवर्तते । तदाह । एतयोरिति ॥ अनिदित्वात् नुम्विधि । जम्भत इति ॥ शपि नुम् । जम्भितेत्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धा । श्रम्भु इति ॥ अकारमध्यः । ष्टुभुस्तम्भ इति ॥ ष्टुत्वेन तकारस्य टः षोपदेशोऽयम् । विष्टोभत इति ॥ उपसर्गात्सुनोतीति षत्वम् । व्यष्टोभिष्टेति ॥ प्राक्सितादड्व्यवायेऽपीति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्षण इति ॥ ऊदिदयम् । गुपूधूपेति ।
८४
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३०३ । गुपूधूपविच्छिपणिपनिभ्य आयः । (३-१-२८)

एभ्य आयप्रत्ययः स्यात्स्वार्थे । 'पुगन्त-' (२१८९) इति गुणः ।

२३०४ । सनाद्यन्ता धातवः । (३-१-३२)

सनादय: कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ।

२३०५ । आयादय आर्धधातुके वा । (३-१-३१)

आर्धधातुकविवक्षायामायादयो वा स्युः ।

२३०६ । कास्प्रत्ययादाममन्त्रे लिटि । (३-१-३५)

कास्धातो: प्रत्ययान्तेभ्यश्चास्स्याल्लिटि न तु मन्त्रे ।

कास्यनेकाज्ग्रहणं कर्तव्यम् ।


एभ्य इति ॥ गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थ । अर्थनिर्देशाभावादाह । स्वार्थ इति ॥ आयप्रत्ययः अकारान्तः । तत्फलन्तु गोपायतन्नसुमनस्यमान इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तस्य शबकारेण एकादेशस्यापि, एकादश उदात्तेनोदात्त इत्युदात्तत्वे, तमित्यस्य अदुपदेशात्परसार्वधातुकत्वेन अनुदात्तस्य 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति

बोध्द्यम् । धातोरेकाच इत्यतो धातोरित्यनुवृत्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्वात् तत्कार्यं गुणादि भवति । तदाह । पुगन्तेति । गुण इति ॥ नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाभावेन धातुत्वाभावात् कथमस्माल्लडादय इत्यत आह । सनाद्यन्ता इति ॥ गुप्तिजिकिभ्द्य सनित्यारभ्य कमेर्णिङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयः णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह । सनादयः कमेर्णिङन्ता इति ॥ सनक्यचकाम्यच् क्यड् क्यषोऽथाचारक्विबणिज्यडौ तथा । यगायईयड णिड्चेति द्वादशामी सनादयः । इति सङ्गह. । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति ॥ आयप्रत्ययान्तस्येत्यर्थः । गोपायतीति ॥ शपि अतो गुण इति पररूपम् । आयादय इति ॥ आयः आदिः येषां ते आयादयः । आय ईयड् णिड्चेति त्रय आयादयो मताः । गुपूधूपविच्छिपणिपनिभ्य आयः, ॠतेरीयड् , कमेर्णिडित्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति ॥ आर्धधातुक इति विषयसप्तमीति भावः । परसप्तमीत्वेतु गोपायितेत्यत्र अतोलोपो न स्यात् । आर्धधातुकोपदेशकाले अदन्तत्वाभावादिति भावः । तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह । कास्प्रत्ययादिति ॥ आम् अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये, इत्यादिभ्योऽपि लिटि आमिष्यते । तदर्थमाह । कास्यनेकाजिति ॥ ननु यद्यस्मिन् वार्तिके, सूत्रस्थ प्रत्ययग्रहणमपि सम्बध्द्यते । तदा कासृधातोश्च
प्रकरणम्]
८५
बालमनोरमा ।

सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः ।

२३०७ । आर्धधातुके । (६-४-४६)

इत्यधिकृत्य ।

२३०८ । अतो लोपः । (६-४-४८)

आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्त्वाद्वेट् । जुगोपिथ-जुगोप्थ । गोपायिता-गोपिता-गोप्ता । गोपाय्यात्-गुप्यात् । अगोपायीत्-अगोपीत्-अगौप्सीत् । 'धूप ३९६ संतापे' । धूपायति ।


अनेकाचश्च प्रत्ययान्ताच्चेति । ततश्च अ इवाचरति अति क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टन्न सिध्द्येत् । प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृ जाग्रादिभ्यो नस्यादित्यत आह । प्रत्ययग्रहणमपनीयेति ॥ तथाच कास्धातोरनेकाचश्च आमित्येतावतैव लभ्यत इति नोक्तदोषद्वयमितीति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपाय आमिति स्थितम् । अतो लोप इति ॥ अनुदात्तोपदेशवनतीत्यत. उपदेशग्रहणमित्यनुवर्तते । आर्धधातुक इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयन्तु लोपे परनिमित्तम् । तदाह । आर्धधातुकोपदेश इत्यादिना ॥ आर्धधातुकोपदेश इति किम् । अयपय गतौ । आभ्या क्विपि, लोपो व्योरिति लोपे, ह्रस्वस्य पितीति तुकि, अपृक्तलोपे, अत् पत्, इतीष्यते । अत्र यलोपे सति अतो लोपो न भवति । आर्धधातुकोपदेशकाले धातुत्वाद्यकारान्तत्वात् । आर्धधातुकोपदेश इत्यत्र आर्धधातुकग्रहणाभावे चिकीर्षितमित्यत्र अल्लोपो न स्यात् । सन उपदेशकाले नकारान्तत्वात् । आर्धधातुकग्रहणेतु न दोषः । अनुबन्धविनिर्मुक्तात् सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः । आर्धधातुके पर इति किम् । कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति । अचः परस्मिन्नित्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाभावात् स्थानिवत्त्व नस्यात् । तथाच प्रकृते गोपाय आमिति स्थिते अतो लोपे गोपायामिति सिध्द्यति । यद्यपि सवर्णदीर्घेणाप्येतत्सिद्धम् । तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाभावपक्षे आह । जुगोपेति ॥ पित्त्वेन कित्त्वाभावाल्लघूपधगुणः । जुगुपतुरिति ॥ कित्त्वान्न गुणः । ऊदित्त्वाद्वेडिति ॥ थलादाविति शेष. । जुगुपिव । जुगुप्व । जुगुपिम । जुगुप्म । क्रादिनियमस्तु नञ्प्राप्तस्यैवाभावस्य । नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति ॥ लुटि आम्प्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाभावपक्षे इड्विकल्प । ऊदित्त्वस्य केवले चरितार्थत्त्वात् । तदाह । गोपिता, गोप्तेति ॥ गोपायिष्यति। गोपिष्यति । गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । आशीर्लिङि आयप्रत्ययपक्षे अतो लोपे रूपमाह । गोपाय्यादिति ॥ आयप्रत्ययाभावे आह । गुप्यादिति ॥ लुडि सिचि आयप्रत्ययपक्षे आह । अगोपायीदिति ॥ आयप्रत्य
८६
[भ्वादि
सिध्दान्तकौमुदीसहिता

धूपायाञ्चकार । दुधूप । धूपायितासि । धूपितासि । 'जप ३९७ जल्प ३९८ व्यक्तायां वाचि' । 'जप' मानसे च । 'चप ३९९ सान्त्वने' । 'पप ४०० समवाये' । समवाय: संबन्धः, सम्यगवबोधो वा । सपति । 'रप ४०१ लप ४०२ व्यक्तायां वाचि' । 'चुप ४०३ मन्दायां गतौ' । चोपति । चुचोप । चोपिता । 'तुप ४०४ तुम्प ४०५ त्रुप ४०६ त्रुम्प ४०७ तुफ ४०८ तुम्फ ४०९ त्रुफ ४१० त्रुम्फ ४११ हिंसार्थाः' । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्वाभावान्नलोपो न । 'किदाशिषि' (२२१६) इति कित्त्वान्नलोपः । तुप्यात् । 'प्राप्तुम्पतौ गवि कर्तरि' इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्ये सरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितीयान्ताः । अष्टावप्युकारवन्तः । 'पर्ष ४१२ रफ ४१३ रफि ४१४ अर्ब ४१५ पर्ब ४१६ लर्ब ४१७ बर्ब ४१८ मर्ब ४१९ कर्ब ४२० खर्ब ४२१ गर्ब ४२२ शर्ब ४२३ षर्ब ४२४ चर्ब ४२५ गतौ' । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति । 'कुबि ४२६ आच्छादने' । कुम्बति । 'लुबि ४२७ तुबि ४२८ अर्दने' । लुम्बति । तुम्बति । 'चुबि ४२९ वक्त्रसंयोगे' । चुम्बति । 'पृभु ४३० पृम्भु ४३१


याभावपक्षे इटि रूपमाह । अगोपीदिति ॥ इट ईटीति सिज्लोपः । नेटीति हलन्तलक्षणवृद्धेर्निषेधः । इडभावेतु इटः परत्वाभावात् नसिज्लोप इत्याह । अगौप्सीदिति ॥ वदव्रजेति वृद्धिः । अगोपायिष्यत् । अगोपिष्यत् । अगोप्स्यत् । धूप सन्ताप इति ॥ गुपूधूप इत्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति ॥ षोपदेशोऽयम् । चुप मन्दायामिति ॥ चवर्गप्रथमादिरयं । चवर्गादिस्त्वनिट्कः । तुपतुम्पेति ॥ अष्टावप्युदुपधाः तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवन्तः इति मूले स्पष्टीभविष्यति । तुतुम्पतुरित्यत्र नलोपमाशङ्क्याह । संयोगादिति ॥ आशीर्लिङि विशेषमाह । किदाशिषीति । प्राक्तुम्पताविति ॥ श्तिपा निर्देशोऽयम् । तुम्पधातौ परे सुट् स्यात् गविकर्तरि सतीत्यर्थः । आदेः परस्येति तुम्पधातोः सुट् आद्यवयवः सुड्विधावस्मिन् तुम्पताविति श्तिपानिर्देशस्य प्रयोजनमाह । श्तिपानिर्देशाद्यड् लुकि नेति ॥ श्तिपा शपाऽनुबन्धेनेत्युक्तेरिति भावः । षृभुषृम्भु इति ॥ ॠदुपधौ षोपदेशौ । सृभ्यादिति ॥ आशी
प्रकरणम्]
८७
बालमनोरमा ।

हिंसार्थौ' । सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । 'षिभु षिभि' इत्येके । सेभति । सिम्भति । 'शुभ ४३२ शुम्भ ४३३ भाषणे' । 'भासने' इत्येके । 'हिंसायाम्' इत्यन्ये ।

अथानुनासिकान्ताः । तत्र कम्यन्ता अनुदात्तेतो दश । 'घिणि ४३४ घुणि ४३५ घृणि ४३६ ग्रहणे' । नुम् । ष्टुत्वम् । घिण्णते । जिाघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे । 'घुण ४३७ घूर्ण ४३८ भ्रमणे' । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । 'पण ४३९ व्यवहारे स्तुतौ च' । पन ४४० च, स्तुतावित्येव संबद्ध्यते पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु, पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायां चकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पणिषीष्ट । पनायति । पनायां चकार । पेने । 'भाम ४४१ क्रोधे' । भामते । बभामे । 'क्षमूष् ४४२ सहने' । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षंध्वे । चक्षमिवहे ।


र्लिङि अनिदित्वान्न लोपः । षिभु षिभि इत्येक इति ॥ इदुपधौ द्वितीय इदित् । शुभ शुम्भेति ॥ द्वितीयस्य आशीर्लिङि अनिदित्वान्न लोपः । इति गुपू इत्यादयः पवर्गान्ताः परस्मैपदिनो गता । कम्यन्ता इति ॥ कमु कान्तौ इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति ॥ द्वितीयस्य दीर्घपाठः स्पष्टार्थ । उपधायाञ्चेत्येव दीर्घसिद्धे । केचित्तु । घुर्णेति ह्रस्वमेव पठन्ति । स्तुतावित्येवेति ॥ न तु व्यवहार इत्येवकारार्थ । पृथङ्निर्देशादिति ॥ अन्यथा पणपन व्यवहारेस्तुतौचेत्येव निर्देशादिति भावः । यद्यपि पृथङ्नर्देशो यथासङ्ख्यनिवृत्त्यर्थ इत्यपि वक्तुं शङ्क्यम् । तथापि सम्प्रदायानुरोधादेवमुक्तम् । पनि साहचर्यादिति ॥ पनधातुः स्तुतावेव वर्तते । तत्साहचर्यात् गुपूधूपविच्छेत्यत्र पणधातुरपि स्तुत्यर्थक एव गृह्यते । नतु व्यवहारार्थक । अतः स्तुतावेव पणधातोरायप्रत्यय । न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नम् । पणधातोरनुदात्तेत्वेनात्मनेपदापत्तेः । न च आयप्रत्ययान्तस्यानुदात्तेत्वन्नेति शङ्क्यम् । पणधातौ श्रुतस्यानुदात्तेत्वस्य आनर्थक्यात्तदङ्गन्यायेन आयप्रत्ययान्ते अन्वयोपपत्तेरित्यत आह । स्तुताविति ॥ अनुबन्धस्य अनुदात्तात्मकस्य । इतः आर्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदन्नेत्यर्थः । एवञ्च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् । क्षमूष् सहन इति ॥ षिद्भिदादिभ्योऽडित्याद्यर्थं षित्वम् । ऊदित्वादिड्विकिल्प मत्वाऽऽह । चक्षमिषे । चक्षंस इति ॥ इडभावपक्षे अनुनासिकस्य क्विझलेरिति दीर्घस्तु न भवति । क्विसाहचर्येण तिड्भिन्नस्यैव झलादेस्तत्र ग्रहणात् । वहिमह्यो
८८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३०९ । म्वोश्च । (८-२-६५)

मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे । णत्वम् । चक्षमिवहे-चक्षण्वहे । चक्षमिमहे-चक्षण्महे । क्षमिष्यते-क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट-क्षंसीष्ट । अक्षमिष्ट-अक्षंस्त । 'कमु ४४३ कान्तौ' । कान्तिरिच्छा ।

२३१० । कमेर्णिङ् । (३-१-३०)

स्वार्थे । ङित्वात्तङ् । कामयते ।

२३११ । अयामन्ताल्वाय्येत्न्विष्णुषु । (६-४-५५)

'आम्' 'अन्त' 'आलु' 'आय्य' 'इत्नु' 'इष्णु' एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयाञ्चक्रे । 'आयादय आर्धधातुके वा' (२३०५) । चकमे । कामयिता-कमिता । कामयिष्यते-कमिष्यते ।


रिडभावपक्षे विशेषमाह । म्वोश्चेति ॥ मोनोधातोरित्यनुवर्तते । तदाह । मान्तस्येति । णत्त्वमिति ॥ षात्परत्वात् अट्कुप्वाङिति नकारस्य णत्वमित्यर्थः । कमु कान्ताविति ॥ उदितोवेति क्त्वाया इड्विकल्पार्थमुदित्वम् । कान्तिशब्दस्य प्रभापरत्वभ्रमं वारयति । कान्तिरिच्छेति ॥ स्वर्गकाम इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः । कामोऽभिलाषस्तर्षश्चेत्यमर । कमेर्णिङिति ॥ शेषपूरणेन सूत्र व्याचष्टे । स्वार्थे इति ॥ अर्थविशेषानिर्देशादिति भावः । णडावितौ । आयादय आर्धधातुके वेत्यत्र णिचो ग्रहणव्यावृत्तये डित्करणम् । ङित्वात्तङिति ॥ नत्वनुदात्तेत्त्वात्तड् । शब्दपरविप्रतिषेधादिति भावः । कामयत इति ॥ णिडि अत उपधाया इति वृद्धौ कामि इति णिडन्तम् । किडिति चेति निषेधस्तु न । अनिग्लक्षणत्वात् । णिडन्तस्य धातुत्वात् लडादयः । तत्र लटि शपि गुणे अयादेशे कामयत इति रूपम् । कामयेते इत्यादि सुगमम् । लिटि कास्यनेकाच इत्यामि आम इति लिटो लोपे, कामि आम् इति स्थिते, सार्वधातुकेति गुणम्बाधित्वा णेरनिटि इति वक्ष्यमाणे णिलोपे प्राप्ते । अयामन्तेति ॥ अय् इति छेदः । णेरनिटीत्यतो णेरित्यनुवर्तते । तदाह । णेरयादेशः स्यादिति ॥ तथा च कामयामित्यामन्तं स्थितम् । ततः कृञ्चानुप्रयुज्यत इत्यनुप्रयोगाल्लिडिति मत्वाऽऽह । कामयाञ्चक्र इति ॥ णिड आयादिष्वन्तर्भावाल्लिडादावार्धधातुके तद्विकल्पमुक्त स्मारयति । आयादय इति । चकम इति ॥ सेट्कोऽयम् । चकमिषे । चकमिध्वे । चकमिवहे । चकमिमहे । कामयितेति ॥ लुटि णिड्पक्षे तासि इटि वृद्धौ गुणे अयादेशे रूपम् । कमिता । कामयिष्यते । कामयताम् । अकामयत । कामयेत । कामयिषीष्ट । अथ णिङन्तात् कामि इत्यस्माल्लुडः
प्रकरणम्]
८९
बालमनोरमा ।

२३१२ । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । (३-१-४८)

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ्स्यात्कर्त्रर्थे लुङि परे । 'अकाम्' 'इ' 'अत' इति स्थिते ।

२३१३ । णेरनिटि । (६-४-५१)

अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परत्वात् 'एरनेकाचः-' (२७२) इति यणि प्राप्ते ।

'ण्यल्लोपावियड्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन ।'

इति वार्तिकम् । णिलोपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्तु 'अनिटि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य वि-


तादेशे च्लेः सिजादेशे प्राप्ते । णिश्रीति ॥ णि श्रि द्रु स्रु एषा द्वन्द्व । प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहणम् । च्लिलुडीत्यतो लुडीति, च्लेः सिजित्यतः च्लेरिति चानुवर्तते । तदाह । ण्यन्तादित्यादिना ॥ चडावितौ । णेरनिटीति ॥ आर्धधातुक इत्यधिकृतम् । अतो लोप इत्यस्मात् लोप इत्यनुवर्तते । अनिटीत्यस्य आर्धधातुकविशेणत्वात् तदादिविधिः । तदाह । अनिडादाविति ॥ तथाच णिलोपे काम् अ त इति स्थिते । परत्वादिति ॥ एरनेकाच इत्यस्य णेरनिटीत्यपेक्षया परत्वाण्णिलोप बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपो दुर्लभः णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् । यण्स्थानिनमिकारं अल्धर्मणित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याल्विधित्वेन तत्र स्थानिवत्त्वासम्भवात् । स्पष्टा चेयं रीतिः भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति ॥ णिलोपः इयड्यण्गुणवृद्धिदीर्घाः एभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथा च पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः, कार्यते, इति वक्ष्यमाणेषु वार्त्तिकोदाहरणेषु क्रमेण इयड् यण् गुण वृद्धिदीर्घाणामवश्यं प्राप्तेर्णिलोपस्य निरवकाशत्वादेव इयडादिबाधकत्वसम्भवादिदं वार्त्तिकं व्यर्थम् । सुधियौ, प्रध्यौ, कर्ता, चकार, इत्यादौ इयड्यण्गुणवृद्धिदीर्घणां सावकाशत्वादित्यत आह । णिलोपस्यत्विति ॥ पचधातोर्णिचि उपधावृद्धौ, पाचि इति ण्यन्तात्, स्त्रियां क्तिनिति क्तिनि, तितुत्रतथसिसुसरकसेषु च इति इण्णिषेधे णेरनिटीति णिलोपे कुत्वे पाक्तिरिति स्थितिः । क्तिजन्तमिति पाठेतु, क्तिच् क्तौच संज्ञायामिति बोध्द्यः । पाक्तिरिति कस्यचित्संज्ञा । अत्र इयडादीनां अप्रसक्ते र्णिलोपस्यापि सावकाशत्व तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियडादिप्राप्तौ तन्निवृत्त्यर्थ वार्त्तिकमिदमारम्भणीयमिति भावः । वार्त्तिक व्यर्थमेवेत्याह । वस्तुतस्त्विति । आर्धधातुकमात्रमिति ॥ कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथाहि । अततक्षदित्यादौ परानपि इयडादीन् णिलोपः अपवादत्वात् बाधते । परापेक्षया अपवादस्य प्रबलत्वात् ।
९०
[भ्वादि
सिध्दान्तकौमुदीसहिता

षयः । तथाचेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । आटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ।

२३१४ । णौ चङ्युपधाया ह्रस्वः । (७-४-१)

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ।

२३१५ । चङि । (६-१-११)

चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ।


परत्वादियडादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततश्च अनिटीति वचनसामर्थ्यादनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवञ्च अततक्षदित्यादावियडादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोप इत्यस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयडादिबाधसिद्धेर्वार्त्तिकमिदं व्यर्थमिति भावः । अपवाद एवायमिति ॥ णिलोप इत्यर्थः । अतो लोपस्तु चिकीर्षक इत्यत्र वृद्धिं, चिकीर्ष्यादित्यत्र अकृत्सार्वधातुकयोरिति दीर्घञ्च, बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्यतो लोपो वृद्धिदीर्घयोरपवादः । गोपायितेत्यादौ वृद्धिदीर्घयोरप्राप्तयोरप्यतो----स्मादित्यलम् । इयङिति ॥ उदाहरणसूचनमिदम् । अततक्षदिति ॥ तक्षधातोर्ण्यन्ताल्लुडस्तिपि इकारलोपे चडि द्वित्वे सयोगपूर्वकत्वादेरनेकाच इति यणभावे इयडि प्राप्ते पूर्वविप्रतिषेधात् णिलोपे हलादिशेषे अडागमे अततक्षदिति रूपम् । यणित्युदाहरणसूचनम् । आटिटदिति ॥ अटधातोर्ण्यन्तात् आटि इत्यस्मात् लुङि तिपि इकारलोपे चङि टि इत्यस्य द्वित्वे एरनेकाच इति यणं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इत्युदाहरणसूचनम् । कारणेति ॥ स्त्रियामित्यधिकारे कृञ्धातोर्ण्यन्तात् कारि इत्यस्मात् ण्यासश्रन्थोयुजिति युचि अनादेशे सार्वधातुकार्धधातुकयोरिति गुणं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे स्त्रीत्वाट्टापि कारणेति रूपम् । वृद्धिरित्युदाहरणसूचनम् । कारक इति ॥ कृञ्धातोर्ण्यन्तात्कारि इत्यस्माण्ण्वुलि अकादेशे वृद्धि बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इत्युदाहरणसूचनम् । का--- इति ॥ कृञ्धातोर्ण्यन्तात्कारि इत्यस्मात् कर्मणि लटि यकि अकृत्सार्वधातुकयोरिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथाच प्रकृते काम् इ अ त इत्यत्र एरनेकाच इति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम् । णौचङीति ॥ अङ्गाधिकारादाह । यदंगमिति ॥ उपधायाः किम् । अचकांक्षत् । चङि किम् । कारयति । णौ किम् । चड्युपधायाह्रस्व इत्युच्यमाने अदीदपदित्यत्र दाधातोः ण्यन्तात् लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे सति पुक् न स्यात् । णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाभावान्न ह्रस्वः । तथाच प्रकृते कम् अ त इति स्थितम् । चङीति ॥ एकाचो द्वे प्रथमस्येति अजादेर्द्वितीयस्येति चाधिकृतम् । लिटिधातोरनभ्यासस्येति सूत्र लिटि इति वर्जमनुवर्तते । तदाह । चङि पर इत्यादिना ॥ द्विर्वचनेऽचीति निषेधस्तु न शङ्क्यः । द्वित्वनिमित्तचङः उपधया व्यवहितत्वात् ।
प्रकरणम्]
९१
बालमनोरमा ।


२३१६ । सन्वल्लघुनि चङ्परेऽनग्लोपे । (७-४-९३)

'चङ्परे' इति बहुव्रीहिः । अन्यपदार्थो णिः । स च 'अङ्गस्य' इति च द्वयमप्यावर्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति । अथवा 'अङ्गस्य' इति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ।

२३१७ । सन्यतः । (७-४-७९)


तथाच कम् इत्यस्य द्वित्वे हलादिशेषे ककम् अ त इति स्थितम् । सन्वल्लघुनीति ॥ अनग्लोप इति च्छेदः । बहुव्रीहिरिति ॥ चङ् परो यस्मादिति विग्रह इति भावः । कर्मधारयमाश्रित्य चङि परे इति नार्थः । परग्रहणवैयर्थ्यात् । ननु बहुव्रीह्याश्रयणेऽपि अत्र लोपोऽभ्यासस्येत्यत. अभ्यासस्येत्यनुवृत्तौ चङ्परके लघुनि परे अभ्यासः सन्वदित्यर्थो लभ्यते । तथा

सति अण्यन्तेभ्यः श्रिद्रुस्रुभ्यश्चडि द्वित्वे अशिश्रियत् । अदुद्रवत् । असुस्रवदित्यत्रापि सन्वत्त्व स्यात् । ततश्च दीर्घो लघोरिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह । अन्यपदार्थो णिरिति ॥ तथाच चङ्परे णौ इति लभ्यते । आशिश्रियदित्यादौ च णेरभावात् न सन्वत्त्वमिति भावः । सचांगस्येति चेति ॥ बहुव्रीहिगम्यो णिः अङ्गस्येत्यनुवृत्तं चेत्यर्थः । तत्र णावित्यावृत्तौ एक लघुनीत्यत्रान्वेति । तथाच चङ्परे णौ यल्लघु तस्मिन्परत इति लभ्यते । द्वितीयन्तु अनग्लोपे इत्यत्रान्वेति । तथाच, णौ परतः यः अग्लोपः तस्याभावे सतीति लभ्यते । अङ्गस्येत्यावृत्तौ एकश्चङ्परे इत्यत्रान्वेति । निमित्तनिमित्तिभावे षष्ठी । तथाच अङ्गसंज्ञानिमित्तभूते चङ्परके वर्णे परे इति लभ्यते । चङ्परकश्च वर्णः अर्थात् णेरिकार एव । न तु श्रिद्रुस्रुवामन्त्यवर्णः । तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाभावात् । एतदर्थमेव अङ्गस्येत्यस्य निमित्तषष्ठ्यन्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु णाविति लभ्यते । श्रिद्रुस्रुष्वव्यभिचारात् । द्वितीय त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति । सन्वदिति सप्तम्यन्ताद्वति । तदाह । अंगसंज्ञानिमित्तमित्यादिना । अथवेति ॥ अस्मिन्व्याख्याने चङ्परे इत्येतत् अङ्गस्येत्यत्रान्वेति । न तु लघुनि । अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभ । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति । तदाह । चङ्परे णौयदंगमित्यादिना । प्राग्वदिति ॥ सनीवकार्यं स्याण्णावग्लोपे असतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसम्मतः । अजजागरदित्यत्र चङ्परे णौ यल्लघु तदभ्यासव्यवहितमिति न सन्वत्त्वमिति भाष्योक्तेः । एवञ्च । प्रथमपक्षे उदेर्ण्यन्ताच्चडि द्वित्वे उदिदि अ त इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेनाभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभावान्नाभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गं उद् इत्येतत् तदीयोऽभ्यासश्चडमादाय लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवञ्च प्रकृते ककम् अ त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् । सन्यत इति ॥ सनि अतः इति
९२
[भ्वादि
सिध्दान्तकौमुदीसहिता

अभ्यासस्यात इकारः स्यात्सनि ।

२३१८ । दीर्घो लघोः (७-४-९४)

अभ्यासस्य लघोः दीर्घः स्यात्सन्वद्भावविषये । अचीकमत । णिङभावपक्षे ।

कमेश्च्लेश्चङ्वक्तव्यः ।

णेरभावान्न दीर्घसन्वद्भावौ । अचकमत ।

संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ।

तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥


च्छेदः । अत्र लोप इत्यतः अभ्यासस्येत्यनुवर्तते । भृञामिदित्यस्मात् इदिति । तदाह । अभ्यासस्येति ॥ किकम् अ त इति स्थितम् । दीर्घो लघोरिति ॥ अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । अभ्यासस्य लघोर्दीर्घ इति ॥ अभ्यासावयवस्य लघोरित्यर्थः । सन्वल्लघुनिचङ्पर इति सूत्र सन्वच्छब्दवर्जमनुवर्तते । तच्च प्राग्वदेव द्वेधा व्याख्येयम् । तथाच फलितमाह । सन्वद्भावविषय इति ॥ सन्यत इत्यत्र तपरत्व स्पष्टार्थमिति दीर्घोऽकित इति सूत्रे भाष्ये स्पष्टम् । तथाच कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घे अभ्यासचुत्वे अडागमे परिनिष्ठितं रूपमाह । अचीकमतेति ॥ अत्र लघोर्णिपरत्व येननाव्यवधानन्यायाद्बोध्द्यम् । णिङभावपक्षेत्विति ॥ आयादय आर्धधातुकेवेति णिडो वैकल्पिकत्वादिति भाव. । कमेश्च्लेश्चड्वक्तव्य इति ॥ अण्यन्तत्वादप्राप्तौ वचनम् । णेरभावादिति ॥ णिडभावपक्षे कमिधातोरनुदात्तेत्त्वात्तडि प्रथमपुरुषैकवचने च्लेश्चङि द्वित्वे हलादिशेषे अभ्यासचुत्वे अडागमे अचकमतेति रूप वक्ष्यते । तत्र णेरभावात् दीर्घो लघोरित्यभ्यासलघोर्दीर्घो न भवति । तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवर्त्य चङ्परे णावेव तद्विधानोक्ते । अत एव सन्वत्त्वाभावात्सन्यत इत्यभ्यासाकारस्य इत्त्वञ्च न भवतीत्यर्थ । दीर्घो लघोरिति दीर्घविधौ सन्वत्त्व न निमित्तम् । किन्तु लघुनि चङ्पर इत्यस्य तत्रानुवृत्या सन्वद्भावविषये तत्प्रवृत्तिः । अतः दीर्घसन्वद्भावाविति पृथगुक्तिः । अथ पञ्चभिः श्लोकैः सन्वद्भावसूत्र दीर्घोलरिघोरिति सूत्रञ्च विशदयति । संज्ञाया इत्यादिना ॥ अस्मिन् शास्त्रे कार्यकालं संज्ञापरिभाषमित्येकः पक्षः । कार्यकालमित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः । यथोद्देशं संज्ञापरिभाषमिति पक्षान्तरम् । उद्देशाः संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः । तान् अनतिक्रम्य यथोद्देश । संज्ञाशास्त्रं परिभाषाशास्त्रञ्च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षित स्वस्वमर्थं समर्थयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषाभ्यान्तदर्थस्यैवोपस्थितिः । न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः । सन्वल्लघुनीति सूत्रे, दीर्घो लघोरिति सूत्रे च, अङ्गस्येति, अभ्यासस्येति, चानुवृत्तम् । तत्र कार्यकालपक्षे पूर्वोऽभ्यास इति सूत्र सन्निहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वः अभ्याससंज्ञः स सन्वद्भवतीति फलितम् । तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी । नत्ववयवषष्ठी । कारकषष्ठ्या बलवत्त्वात् । अङ्गञ्च प्रत्यये
प्रकरणम्]
९३
बालमनोरमा ।

चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते ।

किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥

वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ।

ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥

चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया ।

णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥


परतः कृत्स्नमेव प्रकृतिरूपम् । न तु तदेकदेश. । ततश्च कृत्स्नमङ्ग यत्र द्विरुच्यते न तु तदेकदेशमात्र तत्रैव दीर्घो लघोरिति दीर्घ, सन्वल्लघुनीति सन्वद्भावश्च, भवति । एवञ्च अङ्गस्य एकाच्कत्वे सत्येव तयोः प्रवृतिः । तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः । अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृतिः । तत्र एकस्यैव एकाचः अङ्गैकदेशस्य द्विरुक्तेरिति माधवो मन्यत इति प्रथमश्लोकस्यार्थ. । नानेकाक्ष्वित्युक्तं विशदयति । चकास्तीति श्लोकेन । चकासृ दीप्तौ । अर्थमाचष्टे इत्यर्थे णिचि अर्थवेदयोरिति प्रकृतेरापुगागमे अर्थापिधातुः । ऊर्णञ् आच्छादने । एते त्रयः अनेकाच्का धातवः । आदिना जागृनिद्राक्षय इत्यादिसङ्ग्रह । एभ्यो ण्यन्तेभ्यश्चडि अङ्ग कृत्स्न न द्विरुच्यते । किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते । तस्मात् अनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् एकाच्केष्वेवाङ्गेषु दीर्घो लघोरिति दीर्घः, सन्वल्लघुनीति सन्वद्भावश्चेत्येतद्द्वय भवति । नत्वनेकाच्काङ्गेष्वित्यर्थः । नन्वेव सति दिदारिद्रासति इत्यादौ हलादि शेष इत्याद्यभ्यासकार्यमनेकाच्कादङ्गान्नस्यात् । कृत्स्नाङ्गस्य द्विरुक्त्यभावात् । किञ्च अजजागरदित्यत्र सन्वत्त्वमाशङ्क्य णिपरकलघोर्गकाराकारस्य जा इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्वमिति समाहित भाष्ये । तदेतत् अनेकाच्काङ्गेषु सन्वत्त्वस्याप्रवृत्तौ विरुध्द्येत । कृत्स्नस्याङ्गस्य द्विरुक्त्यभावादेव तत्र सन्वत्त्वस्याप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालब्याह । वस्तुत इति ॥ अङ्गस्येत्यवयवषष्ठी । अङ्गावयवस्याभ्यासस्येति लभ्यते । ततश्च ऊर्णुञि ण्यन्ते चडि नु इत्येकदेशस्य द्वित्वेऽपि और्णूनुवदित्यत्र दीर्घो लघोरित्यभ्यासलघुर्दीर्घीभवति । सन्वत्त्वन्तु प्रयोजनाभावादुपेक्षितम् । अभ्यासे अकाराभावेन सन्यत इत्यस्यासम्भवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिधातोश्चडि णिलोपे उपधाह्रस्वे थप् इत्यस्य द्वित्वेऽपि आर्तथपदित्यत्र सन्वद्भावात् सन्यत इत्यभ्यासस्य इत्त्व अभ्यासदीर्घश्चेति द्वय भवतीति जानमि इति तृतीयश्लोकार्थः । अङ्गस्यावयव इति पक्षेऽपि चकास्तौ विशेषमाह । चकास्तौत्विति ॥ चतुर्थश्लोकोऽयम् । अवस्था वस्तुस्थितिः । व्यवस्थया पक्षद्वयेनेति यावत् । चड्परे इत्यनेन अन्यपदार्थतया लब्धस्य णावित्यस्य सन्निहित लघुनीत्येतत् विशेष्यम् । तथाच चङ्परे णौ यल्लघु इति प्रथमव्याख्यान फलितम् । अङ्गमेव वा णेर्विशेष्यम् । तथाच चङ्परे णौ यदङ्गमिति द्वितीय व्याख्यानं फलितम् । इति व्यवस्थया पक्षद्वयेन सन्वत्त्व दीर्घश्चेत्युभयमिदञ्चकासृधातौ ण्यन्ते चङि णिलोपे द्वित्वे अचचकासत् इत्यत्र न स्यात्, स्याच्चेत्यन्वयः । तत्र चङ्परे णौ यल्लघ्विति व्याख्याने सति नैव उभय स्यात् । चङ्परस्य णे. कास् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानन्तु येन नाव्यव
९४
[भ्वादि
सिध्दान्तकौमुदीसहिता

इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ।

णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥

अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः । 'अण ४४४ रण ४४५ वण ४४६ भण ४४७ मण ४४८ कण ४४९ कण ४५० व्रण ४५१ भ्रण ४५२ ध्वण ४५३ शब्दार्थाः' । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । 'धणिः' अपि कैश्चित्पठ्यते । धणति । 'ओणृ ४५४ अपनयने' । ओणति । ओणांचकार । 'शोणृ ४५५ वर्णगत्योः' । शोणति । शुशोण । श्रोणृ ४५६ संघाते' । श्रोणति । 'श्लोणृ ४५७ च' । शोणादयस्त्रयोमी तालव्योष्मादयः । 'पैणृ ४५८ गतिप्रेरणश्लेषणेषु' । 'प्रैणृ' इति क्वचित्पठ्यते । पिप्रैण । 'ध्रण ४५९ शब्दे' । उपदेशे नान्तोयम् । 'रषाभ्याम्--' (२३५) इति णत्वम् । ध्रणति । णोपदेशफलं यङ्लुकि । दन्ध्रन्ति । 'बण इत्यपि केचित् । बेणतुः । बेणिथ । 'कन ४६० दीप्तिकान्तिगतिषु' । चकान । 'ष्टन


धानन्यायात्सोढव्यमेव । चङ्परे णौ यदङ्गमिति व्यख्याने तु अचीचकासदित्यत्र उभय स्यादेव । अङ्गस्य णिपरकत्वसत्त्वादिति योज्यम् । ननु चङ्परे णौ यल्लघ्विति चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह । इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति ॥ आदर्तव्यतेति शेषः । ननु णौ इत्यस्यावृत्तिमभ्युपगम्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह । णेरग्लोपेऽपीति । अगितामिति ॥ कमु कान्तावित्यादीनामपीत्यर्थ.। सिद्धय इति ॥ दीर्घसन्वत्त्वसिध्द्यर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः । इति घिणिप्रभृतयः कम्यन्ता दश गता.। क्रम्यन्ता इति ॥ क्रमु पादविक्षेपे इत्येतत्पर्यन्ता इत्यर्थः । अनुनासिकान्ता इति शेषः । अणरणेति ॥ इत प्रभृति कनदीप्तावित्यतः प्राक् मूर्द्धन्यान्तः । ओणृ इति ॥ ॠदित्त्वं नाग्लोपीति निषेधार्थम् । ध्रणशब्द इति ॥ अदुपधोऽयम् । उपदेश इति ॥ धातूपदेशे अकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह । रषाभ्यामिति । णत्वमिति ॥ ननु स्वाभाविक एव णकार इत्यस्तु । किन्नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह । णोपदेशेति ॥ नकारस्थानिकणोपदेशस्य नश्चेत्यनुस्वारात्मक फल यङ्लुकि प्रत्येतव्यमित्यर्थः । दन्ध्रन्तीति ॥ ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषेनुगतोऽनुनासिकान्तस्येत्यभ्यासस्य नुकि उत्तरखण्डे णकारस्यासिद्धत्वे अनुस्वारे परसवर्णे तस्यासिद्धत्वात् णत्वाभावे नकारस्यैव श्रवणम् । स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेत इति भावः । बणेत्यपीति ॥ पवर्गतृतीयादिरिति भावः । कनदीप्तीत्यारभ्य अमगत्यादिष्वित्यतः प्राक् तवर्गपञ्चमान्ताः । ष्टनवनेति ॥ आद्यः षोपदेशः । ष्टुत्वसम्पन्नः
प्रकरणम्]
९५
बालमनोरमा

४६१ वन ४६२ शब्दे' । स्तनति । वनति । 'वन ४६३ षण ४६४ संभक्तौ' । वनेरर्थभेदात्पुनः पाठः । सनति । ससान । सेनतुः ।

२३१९ । ये विभाषा । (६-४-४३)

जनसनखनामात्त्वं वा स्याद्यादौ क्डिति । सायात्-सन्यात् । 'अम ४६५ गत्यादिषु' । 'कनदीप्तिकान्तिगति-' इत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन ग्रहः । अमति । आम । 'द्रम ४६६ हम्म ४६७ मीमृ ४६८ गतौ' । द्रमति । दद्राम । 'ह्म्यन्त-' (२२९९) इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च । 'चमु ४६९ छमु ४७० जमु ४७१ झमु ४७२ अदने' ।

२३२० । ष्ठिवुक्लमुचमां शिति । (७-३-७५)

एषामचो दीर्घः स्याच्छिति ।

आङि चम इति वक्तव्यम् ।

आचामति । 'आङि' किम् । चमति विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति । 'क्रमु ४७३ पादविक्षेपे' ।


टकारः । तदाह । स्तनतीति । वनषणेति ॥ द्वितीयः षोपदेशः । ननु ष्टनवनशब्द इति, वनेः पठितस्य पुनः पाठो व्यर्थ इत्यत आह । अर्थभेदादिति ॥ वने. शब्दे सम्भक्तौच वृत्तिरिष्टा । ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्र ष्टन वन षण शब्दे सम्भक्तौ चेत्युक्तौ ष्टनेरपि सम्भक्तौ वृत्तिः स्यात् । ष्टन शब्द इत्युक्त्वा षण सम्भक्तौचेति पाठे तु गौरवमिति भावः । आशीर्लिङि विशेषमाह । ये विभाषेति ॥ जन सन खनां सन् झलोरित्यतः जनसनखनामित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्डितीति । ये इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविधिः । विड्वनोरनुनासिकस्यादित्यतः आदित्यनुवर्तते । तदाह । जनसनखनामित्यादिना । सायादिति ॥ नकारस्य आत्वे सवर्णदीर्घः। द्रम हम्म मीमृ गताविति ॥ आद्योऽदुपधः । न वृद्धिरिति ॥ अद्रमीदित्यत्र हलन्तलक्षणायां वृद्धौ नेटीति निषिद्धायां ह्म्यन्तेत्यतो अतोहलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति ॥ अभ्यासचुत्वेन हस्य झः । तस्य अभ्यासेचर्चेत्यनेन जः । मिमीमेति ॥ मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयंशब्दे चेति ॥ मीमृधातुरित्यर्थः । ष्ठिवुक्लम्विति ॥ शमामष्टानां दीर्घः श्यनीत्यतः दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् । तदाह । एषामचो दीर्घ इति ॥ ष्ठिवु क्लमु आचम् एषां द्वन्द्वः । आचम् इत्यनेन आङ्पूर्वकस्य चमेर्ग्रहणम् । अचमीदिति ॥ ह्म्यन्तेति न वृद्धिः । क्रमु पादेति ॥ उदित्वमुदितो वेति विकल्पा
९६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३२१ । वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः । (३-१-७०)

एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ।

२३२२ । क्रमः परस्मैपदेषु । (७-३-७६)

क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति । क्राम्यति-क्रामति । चक्राम । क्राम्यतु-क्रामतु ।

२३२३ । स्नुक्रमोरनात्मनेपदनिमित्ते । (७-२-३६)

अत्रैवेट् । अक्रमीत् ।

अथ रेवत्यन्ता अनुदात्तेतः | 'अय ४७४ वय ४७५ पय ४७६ मय ४७७ चय ४७८ तय ४७९ णय ४८० गतौ' । अयते ।

२३२४ । दयायासश्च । (३-१-३७)


र्थम् । वा भ्राशेति ॥ दिवादिभ्यश्श्यनित्यत श्यन्निति, कर्तरिशबित्यतः कर्त्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्त्तते । तदाह । एभ्यः श्यन्वेत्यादि ॥ क्रम इति । दीर्घ स्यादिति ॥ शमामष्टानामित्यतः तदनुवृत्तेरिति भावः । शितीति ॥ ष्ठिवुक्लम्वाचमामित्यत स्तदनुवृत्तेरिति भावः । क्रामत्विति ॥ मध्यमपुरुषैकवचने क्रामेत्यत्र तु क्रमः परस्मैपदेष्विति दीर्घो भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वात् नलुमतेति निषेधः शङ्क्यः । लुमता लुप्ते प्रत्यये यदङ्ग तस्य कार्य एव तस्य प्रवृत्तेः । शितिपरतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यम् किन्तु शिति परे अङ्गस्य कार्यमिति बोध्यम् । स्नुक्रमोरिति ॥ पञ्चम्यर्थे षष्ठी आत्मनेपदनिमित्तस्याभावः अनात्मनेपदनिमित्तम् । अर्थाभावे अव्ययीभावेन सह नञ्तत्पुरुषो विकल्पत इत्युक्त्तेः समासः । आत्मनेपदनिमित्ताभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुक्रमोरनुदात्तोपदेशानन्तर्भावादिति सिद्धे वचनमिदं नियमार्थमित्याह । अत्रैवेडिति ॥ एवञ्च भावकर्मलकारेषु इण्ण भवति । उपस्रोष्यते जलेन । भावलकारोऽयम् । उपक्रम्यते । कर्मणि लट । यक् । प्रस्तुतमित्यत्र तु श्र्युकः कितीति निषेधान्नेट् । आर्धधातुकस्येड्लादेरिति इड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । स्नुक्रमोरनात्मनेपद इति तु न सूत्रितम् । आत्मनेपदाभिन्ने परस्मैपदे परे इत्यर्थे विक्रमिष्यतीत्यसिद्धेः । स्येन व्यवधानात् । आत्मनेपदे परे नेडित्यर्थे तु प्रचिक्रसिष्यत इत्यसिद्धिः । अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति ॥ ह्यन्तेति न वृद्धिः । इति क्रम्यन्ताः परस्मैपदिनो गताः । रेवत्यन्ता इति ॥ रेवृ प्लवगतावित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शलचलने इत्यतः प्राक् यकारान्ताः । दयायासश्चेति ॥ दय अय् आस् एषा समाहारद्वन्द्वात्पञ्चम्येकवचनम् । कास
प्रकरणम्]
९७
बालमनोरमा ।


'दय' 'अय' 'आस्' एभ्य आम् स्याल्लिटि । अयाञ्चक्रे । अयिता । अयिषीष्ट ।

२३२५ । विभाषेटः । (८-३-७९)

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम्-अयिषीध्वम् । आयिष्ट । आयिढ्वम्-आयिध्वम् ।

२३२६ । उपसर्गस्यायतौ । (८-२-१९)

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते—पलायते । नि स्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु निलयते । दुलयते । 'प्रत्ययः' इति त्विणो रूपम् । अथ कथम् 'उदयति विततोर्ध्वरश्मिरज्जौ' इति माघः । 'इट' 'किट' 'कटी' इत्यत्र प्रश्लिष्टस्य एर्भविष्यति । यद्वा 'अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम् (प ९७) । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये । 'दय


प्रत्ययादित्यतः आम् लिटीत्यनुवर्तते । तदाह । एभ्य आम् स्याल्लिटि इति । विभाषेटः । 'इण. षीध्व लुङ् लिटान्ध' इत्यनुवर्तते । अपदान्तस्येत्यतो मूर्धन्य इति च । तदाह । इणः परो य इडित्यादि ॥ इण्णन्तादङ्गादित्यर्थः । अयिषीढ्वमिति ॥ आशीर्लिङो ध्वमः सीयुट् । यलोप । आर्धधातुकत्वान्न सलोप.। इट् । यकारादिणः परो य इट् ततः परत्वात् धस्य मूर्धन्यो ढ । इट परभक्तत्वाद्यकारान्तादङ्गात् परस्य इषीध्वमः इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् । आयिढ्वमिति ॥ लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटि धि चेति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः । अङ्गादिति निवृत्तमिति केचित् । उपसर्गस्यायतौ ॥ अयताविति श्तिपा निर्देशः । 'कृपोरोल' इत्यत रोल इत्यनुवर्तते । तदाह । अयतिपरस्येत्यादिना । प्लायत इति ॥ प्र इत्युपसर्गः । पलायत इति ॥ परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्व स्यादित्यत आह । निस् दुसोरिति ॥ तर्हि निलयते दुलयत इति कथमित्यत आह । निर्दुरोस्त्विति ॥ एतदर्थमेव प्रादिषु सान्तयोरेफान्तयोश्च निर्देश इति भावः । तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वात् रस्य लत्व स्यादित्यत आह । प्रत्यय इति त्विति ॥ प्रतिपूर्वकादिण्धातोरच्प्रत्यये प्रत्यय इति रूपम् । अयतिपरत्वाभावान्नलत्वमित्यर्थः । अयधातुमादाय प्लत्यय इति न । अनभिधानादिति कैयटः । कथमुदयतीति ॥ उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्वेन लटश्शानच्प्रसङ्गादिति भावः । प्राश्लिष्टस्येति ॥ इधातोरिति शेषः । तस्य अनुदात्तेत्त्वाभावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ॥ चक्षिड्धातौ इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ डित्करण अनुदात्तेत्त्वप्रयुक्तात्मनेपदस्य अनित्यतां ज्ञापयति । तस्य अनित्यत्वेतु नित्यात्मनेपदार्थ डित्करणमर्थवदिति भावः ।
९८
[भ्वादि
सिध्दान्तकौमुदीसहिता

४८१ दानगतिरक्षणहिंसादानेषु' । आदानं ग्रहणम् । दयाञ्चक्रे । 'रय ४८२ गतौ' । 'ऊयी ४८३ तन्तुसन्ताने' । ऊयाञ्चक्रे । 'पूयी ४८४ विशरणे दुर्गन्धे च' । पूयते । पुपूये । 'क्नूयी ४८५ शब्दे उन्दने च' । चुक्नूये । 'क्ष्मायी ४८६ विधूनने' । चक्ष्माये । 'स्फायी ४८७ ओ प्यायी ४८८ वृद्धौ' । स्फायते । पस्फाये । प्यायते ।

२३२७ । लिङ्यङोश्च । (६-१-२९)

लिटि यङि च प्यायः पीभावः स्यात् । पुन:प्रसङ्गविज्ञानात् पीशब्दस्य द्वित्वम् । 'एरनेकाचः-' (सू २७२) इति यण् । पिप्ये । पिप्याते । पिप्यिरे ।

२३२८ । दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । (३-१-६१)

एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ।

२३२९ । चिणो लुक् । (६-४-१०४)

चिणः परस्य तशब्दस्य लुक्स्यात् । अप्यायि-अप्ययिष्ट । 'तायृ ४८९ सन्तानपालनयोः' । सन्तान: प्रबन्धः । तायते । तताये । अतायि-अतायिष्ट ।


इदन्तु भाष्ये न दृश्यते । वादित्वादिति ॥ वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति ववये इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह । प्रणयत इति ॥ उपसर्गादसमासेऽपीति णत्वमिति भावः । दयाञ्चक्र इति ॥ 'दयायासश्च' इत्याम् । ऊयाञ्चक्र इति ॥ इजादित्वादाम् । उन्दने चेति ॥ क्लेदने चेत्यर्थः । स्फायी ओ प्यायीति ॥ ओदित्त्व 'ओदितश्च' इति निष्ठानत्वार्थम् । ईदित्वन्तु श्वीदितो निष्ठायामिति इड्विकल्पार्थम् । लिङ्यङोश्च ॥ लिट्च यङ्चेति द्वन्द्वात्सप्तमी । 'प्यायः पी' इति सूत्रमनुवर्तते । तदाह । लिटि यङि चेति ॥ ननु प्यायेर्लिटि द्वित्व बाधित्वा परत्वात् पीभावे 'द्वित्वे एरनेकाच' इति यणि पिप्ये इति रूपमिष्यते । तत्र द्वित्वम्बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न सम्भवति । 'विप्रतिषेधे यद्बाधित तद्बाधितमेव' इति न्यायादित्यत आह । पुनःप्रसङ्गेति ॥ 'पुनःप्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा । विप्रतिषेधे बाधितस्यापि पुनःप्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिक सिद्धमिति तदर्थं । दीपजन ॥ 'च्लेः सिच्' इत्यतः च्लेरिति, 'चिण् ते पदः' इत्यस्मात् चिण् ते इति चानुवर्तते । तदाह । एभ्यश्च्लेरिति । एकवचन इति ॥ दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः । चिणो लुक् ॥ चिण इति पञ्चमी । तदाह । चिणः परस्येति ॥ चिणः परश्च अर्थात् तशब्द एव भवति । चिणभावे च्ले. सिचि रूपमाह । अप्यायिष्टेति । तायृ सन्तान इति ॥ 'लुङि दीपजन' इति च्लेश्चिणि तलोपे रूपमाह । अतायीति ॥ चिणभावे सिचि अतायिष्टेति रूपम् ।
प्रकरणम्]
९९
बालमनोरमा ।

'शल ४९० चलनसंवरणयोः' । 'वल ४९१ वल्ल ४९२ संवरणे सञ्चारणे च' । ववले । ववल्ले । 'मल ४९३ मल्ल ४९४ धारणे' । मेले ममल्ले । 'भल ४९५ भल्ल ४९६ परिभाषणहिंसादानेषु' । बभले । बभल्ले । 'कल ४९७ शब्दसङ्ख्यानयोः' । कलते । चकले । 'कल्ल ४९८ अव्यक्ते शब्दे' । कल्लते । 'अशब्दे' इति स्वामी । अशब्दस्तूष्णींभाव इति च । 'तेवृ ४९९ देवृ ५०० देवने' । तितेवे । दिदेवे । 'षेवृ ५०१ गेवृ ५०२ ग्लेवृ ५०३ पेवृ ५०४ मेवृ ५०५ म्लेवृ ५०६ सेवने' । 'परिनिविभ्यः-' (सू २२७५) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । 'शेवृ' 'खेवृ' 'क्लेवृ' इत्यप्येके । 'रेवृ ५०७ प्लवगतौ' । प्लवगतिः प्लुतगतिः । रेवते ।

अथावत्यन्ताः परस्मैपदिनः । 'मव्य ५०८ बन्धने' । 'मव्य ५०८ बन्धने' । ममव्य । सूर्क्ष्य ५०९ ईर्क्ष्य ५१० ईर्ष्य ५११ ईर्ष्यार्थाः' । 'हय ५१२ गतौ' । अहयीत् । यान्तत्वान्न वृद्धिः । 'शुच्य ५१३ अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वा अभिषवः । स्नानं च । शुशुच्य । 'चुच्य' इत्येके । 'हर्य ५१४ गतिकान्त्योः' । जहर्य । 'अल ५१५ भूषणपर्याप्तिवारणेषु' । अलति । आल ।

२३३० । अतो ल्रान्तस्य । (७-२-२)

'ल्र' इति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । 'नेटि' (सू २२६८) इति निषेधस्य 'अतो


शलचलेल्यारभ्य तेवृ इत्यतः प्राक् लान्ता । तेवृ इत्यारभ्य रेवत्यन्ता वकारान्ताः । षेवृधातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्र 'सात्पदाद्योः' इति निषेधे प्राप्ते आह । परिनिविभ्य इति । सिषेवे इति ॥ आदेशसकारत्वात् षत्वमिति भावः । अयं सोपदेशोऽपीति ॥ षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति ॥ सेक् सृप् सृ स्तृ सृजस्तॄस्त्यातामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति ॥ प्लवेति न धात्वन्तरमिति सूचयन्नाह । प्लवगतिः प्लुतगतिरिति ॥ अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति ॥ अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अल भूषणेत्यतः प्राक् यकारान्ता. । अल भूषणेत्यारभ्य खोरृ प्रतीघात इत्यतः प्राक् लकारान्ताः । अतोल्रान्तस्य ॥ 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धे अन्तग्रहण व्यर्थम् । तत्राह । ल्रेतिलुप्तषष्ठीकमिति ॥ ल्र अन्तस्य इति छेद । लृ च रश्चेति समाहारद्वन्द्वात् षष्ठ्येकवचन लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः ।
१००
[भ्वादि
सिध्दान्तकौमुदीसहिता

हलादेः' (सू २२८४) इति विकल्पस्य चापवादः । मा भवानलीत् । अयं स्वरितेदित्येके । तन्मते अलते इत्याद्यपि । 'ञि फला (५१६) विशरणे' । 'तॄफल-' (सू २३०१) इत्येत्वम् । फेलतुः फेलुः । अफालीत् । 'मील ५१७ श्मील ५१८ स्मील ५१९ क्ष्मील ५२० निमेषणे' । निमेषणं सङ्कोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः । 'पील ५२१ प्रतिष्टम्भे' प्रतिष्टम्भो रोधनम् । 'णील ५२२ वर्णे' । निनील । 'शील ५२३ समाधौ' । शीलति । 'कील ५२४ बन्धने' । 'कूल ५२५ आवरणे' । 'शूल ५२६ रुजायां सङ्घोषे च' । 'तूल ५२७ निष्कर्षे' । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निस्सारणम् । तुतूल । 'पूल ५२८ सङ्घाते' । मूल ५२९ प्रतिष्ठायाम् । 'फल ५३० निष्पत्तौ' । फेलतुः । फेलुः । 'चुल्ल ५३१ भावकरणे' । भावकरणमभिप्रायाविष्कारः । 'फुल्ल ५३२ वकसने' । 'चिल्ल ५३३ शैथिल्ये भावकरणे च' । 'तिल ५३४ गतौ' । तेलति । 'तिल्ल' इत्येके । तिल्लति । 'वेलृ ५३५ चेलृ ५३६ केलृ ५३७ खेलृ ५३८ क्ष्वेलृ ५३९ वेल्ल ५४० चलने' । पञ्च ॠदितः । षष्ठो लोपधः । 'पेलृ ५४१ फेलृ ५४२ शेलृ ५४३ गतौ' । 'षेलृ' इत्येके । 'स्खल ५४४ सञ्चलने' । चस्खाल । अस्खालीत् । 'खल ५४५ सञ्चये' । 'गल ५४६ अदने' । गलति । अगालीत् । 'षल ५४७ गतौ' । सलति । 'दल ५४८ विशरणे' । 'श्वल ५४९ श्वल्ल ५५०


अत इति व्यधिकरणषष्ठ्यन्तम् अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथाच अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । अत इत्यावृत्त वृद्धौ स्थानित्वेनान्वेति । तदाह । अतस्समीपावित्यादिना ॥ अतः समीप इति किम् । अखोरीत् । अमीलत् । ल्रान्तस्येति किम् । मा भवानतीत् । अतो वृद्धिरित्युक्त्वा अतः समीपावित्यनुक्तौ तु अवभ्रीत् अश्वल्लीदित्यत्रातिव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नात समीपाविति न वृद्धिः । नचात्र अतः भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः । आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यम् । सिचि परे यदङ्गन्तदकारस्य वृद्धिरित्यर्थाश्रयणे अतिव्याप्तिवारणार्थत्वात् । ञि फलेति ॥ विदारण शिथिलीभाव । 'आदिर्ञिटुडव' इति ञिरित् । 'ञीतः क्तः' इति प्रयोजनम् । 'आदितश्च' इति इड्विकल्पार्थमादित्वम् । लिण्णिमित्तादेशादित्वादप्राप्ते आह । तॄफलेति । मील श्मीलेति ॥ निमेषण नेत्रसङ्कोचः । सङ्कोच इति पाठेऽप्ययमेवार्थः । नीलवर्ण इति ॥ वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति ॥ ञि फलेति पूर्व पठितम् । अनु
प्रकरणम्]
१०१
बालमनोरमा ।

आशुगमने' । शश्वाल । अश्वालीत् । शश्वल्ल । अश्वल्लीत् । 'खोलृ ५५१ खोर्ऋ ५५२ गतिप्रतिघाते' । खोलति । खोरति । 'धोर्ऋ ५५३ गतिचातुर्ये' । धोरति । 'त्सर ५५४ छद्मगतौ' । तत्सार । अत्सारीत् । 'क्मर ५५५ हूर्च्छने' । चक्मार । 'अभ्र ५५६ वभ्र ५५७ मभ्र ५५८ चर ५५९ गत्यर्थाः । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्न वृद्धिः । 'ष्ठिवु ५६० निरसने' । 'ष्ठिवुक्लमु–' (सू २३२०) इति दीर्घः । ष्ठीवति । अस्य द्वितीयो वर्णष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । 'हलि च' (सू ३५४) इति दीर्घः । ष्ठीव्यात् । 'जि ५६१ जये' । अयमजन्तेषु पठितुं युक्तः । जयः उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ।

२३३१ । सन्लिटोर्जेः । (७-३-५७)

जयतेः सन्लिण्णिमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः जिग्युः । जिगयिथ-जिगेथ । जिगाय-जिगय । जिग्यिव । जिग्यिम ।


बन्धभेदात्पुन पाठ । खोलृ खोर्ऋ इति ॥ द्वितीयो रेफान्त । ॠदित् । इत आरभ्य ष्ठिवे प्राक् रेफान्ताः । धोर्ऋ गतिचातुर्य इति ॥ अश्वगतिविशेष इत्यर्थः । रेफान्तोऽयम् । ॠदित् । त्सर छद्मगताविति ॥ कपटगतावित्यर्थः । क्मर हूर्छन इति ॥ कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति ॥ इदुपध । उदित् । इत आरभ्य ऊष्मान्तेभ्य प्राक् वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह । ष्ठिवुक्लम्वितीति ॥ ल्युटि तु शित्परकत्वाभावात् दीर्घाभावे लघूपधगुण । ष्ठीवनमिति तु पृषोदरादित्वात् समाधेयम् । अस्येति ॥ ष्ठिवुधातो. द्वितीयो वर्णः थकार इत्यर्थ. । कृतष्टुत्वस्य निर्देश इति भाव । षोपदेशोऽयम् । केवलदन्त्यथकारपरकसादित्वात्षोपदेशत्वेऽपि न सत्वम् । 'सुब्धातुष्ठिवु' इति निषेधात् । लिटि तु 'शर्पूर्वाः खय.' इति षकारवकारयोर्निवृत्त्या षत्वनिवृत्तौ रूपमाह । तिष्ठेवेति ॥ ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति ॥ जिधातुरनिट्क. । सन्लिटोर्जेः ॥ 'अभ्यासाच्च' इति सूत्रात् अभ्यासादित्यनुवर्तते । 'चजो. कुघिण्यतो' इत्यस्मात् कु इति च । सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह-सन्लिण्णिमित्तोयोऽभ्यास इत्यादि ॥ सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यङ्लुगन्तात् सनि जेजयिषति इत्यत्र कुत्व स्यात् । अतः सन्लिण्णिमित्तो योऽभ्यास इति व्याख्येयमिति माधवः । जिगायेति ॥ णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन ग । जिग्यतुरिति ॥ कित्त्वाद्गुणाभावः । लिटि एकाच इति इण्णिषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते थलि 'अचस्तास्वत्' इति तन्निषेधस्य भारद्वाजनियमाद्विकल्प । तदाह । जिगयिथ । जिगेथेति ॥ जिग्यथुः ।
१०२
[भ्वादि
सिध्दान्तकौमुदीसहिता

जेता । जीयात् । अजैषीत् । 'जीव ५६२ प्राणधारणे' । जिजीव । 'पीव ५६३ मीव ५६४ तीव ५६५ णीव ५६६ स्थौल्ये' । पिपीव । मिमीव । तितीव । निनीव । 'क्षीवु ५६७ क्षेवु ५६८ निरसने' । 'उर्वी ५६९ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी ५७३ हिंसार्थाः' । ऊर्वाञ्चकार । 'उपधायां च' (सू २२६५) इति दीर्घः । तुतूर्व । 'गुर्वी ५७४ उद्यमने' । गूर्वति । जुगूर्व । 'मुर्वी ५७५ बन्धने' । 'पुर्व ५७६ पर्व ५७७ मर्व ५७८ पूरणे' । 'चर्व ५७९ अदने' । 'भर्व ५८० हिंसायाम्' | 'कर्व ५८१ खर्व ५८२ गर्व ५८३ दर्पे' । 'अर्व ५८४ शर्व ५८५ षर्व ५८६ हिंसायाम्' । आनर्व । शर्वति । सर्वति । 'इवि ५८७ व्याप्तौ' । इन्वति । इन्वां चकार । 'पिवि ५८८ मिवि ५८९ णिवि ५९० सेचने' । तृतीयो मूर्धन्योष्मादिरित्येके । 'सेवने' इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । 'हिवि ५९१ दिवि ५९२ धिवि ५९३ जिवि ५९४ प्रीणनार्थाः' । हिन्वति दिन्वति ।

२३३२ । धिन्विकृण्व्योर च । (३-१-८०)

अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । 'अतो लोपः' (सू २३०८) । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वन्ति ।


जिग्य । 'णलुत्तमो वा' इति मत्वा आह । जिगाय । जिगयेति ॥ क्रादिनियमादिट मत्वा आह । जिग्यिव । जिग्यिमेति । जेतेति ॥ जेष्यति । जयतु । अजयत् । आशीर्लिङि 'अकृत्सार्वधातुकयोः' इति दीर्घ मत्वा आह । जीयादिति । अजैषीदिति ॥ 'सिचि वृद्धिः' इति वृद्धिरिति भावः । अजेष्यत् । षर्वधातुष्षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह । इन्वतीति । इन्वाञ्चकारेति ॥ नुमि इजादिगुरुमत्त्वादामिति भावः । पिविमिवीत्यादय इदित् । धिन्विकृण्व्योः ॥ अ इति लुप्तप्रथमाकम् । धिविकृव्यो कृतनुमो: धिन्विकृण्वीति निर्देशः । 'तनादिकृञ्भ्य उ इत्यतः उरिति चकारादनुकृष्यते । 'कर्तरि कृत्' इत्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति च । तदाह । अनयोरित्यादिना ॥ वकारस्याकारः धिन उ ति इति स्थितम् । अतो लोप इति ॥ युगपत्सन्नियोगशिष्टतया उप्रत्ययाकारयोरार्धधातुकयोरुपदेशकाले धिन इत्यस्यादन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां, किमकारविधिनेत्यत आह । तस्येति ॥ वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्व न स्यादिति भावः । तथा

च, धिनु ति इति स्थिते आह । उप्रत्ययस्येति । धिनुत इति ॥ धिविधातोर्नुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपे तसो डित्त्वादुकारस्य न गुणः । धिन्वन्तीति ॥ धिन्व इत्य
प्रकरणम्]
१०३
बालमनोरमा ।

२३३३ । लोपश्चास्यान्यतरस्यां म्वोः । (६-४-१०७)

असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः—धिनुवः । धिन्म:-धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ।

२३३४ । उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६)

असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लुक्स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वतीत्यादि । 'रिवि ५९५ रवि ५९६ धवि ५९७ गत्यर्था:' । रिण्वति । रण्वति । धन्वति । 'कृवि ५९८ हिंसाकरणयोश्च' । चकाराद्गतौ । 'कृणोति' इत्यादि धिनोतिवत् । अयं स्वादौ च । 'मव ५९९ बन्धने' । मवति । मेवतुः । मेवुः । अमवीत्-अमावीत् । 'अव ६०० रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु' । अवति । आव । मा


स्मात् झि । झोऽन्त । उ प्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदम्भो भगो इति सूत्रभाष्ये स्पष्टम् । धिनोषि । धिनुथ. । धिनुथ । धिनोमि । लोपश्च ॥ 'उतश्च प्रत्ययादसयोगपूर्वात्' इति पूर्वसूत्रोक्त उकार. अस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसम्बन्धिनि वर्तते । असयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणम् । तदन्तविधिः । तदाह । असंयोगेति । प्रत्ययोकार इति ॥ प्रत्ययसम्बन्धी उकार इत्यर्थः । प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुम इत्यत्र न स्यात् । तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युम. । असयोगपूर्वादिति किम् । शक्नुवः । शक्नुमः । धिन्वः, धिनुवः, इति ॥ अत्र उप्रत्ययस्य उकारान्तत्व व्यपदेशिवत्त्वेन बोध्द्यम् । नन्वेव धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह । मिपित्विति ॥ दिधिन्व । धिन्विता । धिन्विष्यति । धिनोतु । उतश्च । हेर्लुक्स्यादिति ॥ चिणो लुगित्यतः अतोहेरित्यतश्च तदनुवृत्तेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावे लोडुत्तमस्येत्यडागमञ्च बाधित्वा परत्वादुकारस्य 'लोपश्चास्यान्यतरस्याम्' इति लोपमाशङ्क्याह । नित्यत्वादुकारलोपात् पूर्वमाडिति ॥ निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयो कृतयो. उकारलोपस्य प्रसक्तौ आट. पित्त्वेन डित्त्वाभावादुकारस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः । अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति ॥ धिविवद्रूपाणीति भावः । अयं स्वादौ चेति ॥ कृविरित्यर्थ । अव रक्षणेति ॥ स्वाम्यर्थः ऐश्वर्यम् । मा भवानवीदिति ॥
१०४
[भ्वादि
सिध्दान्तकौमुदीसहिता

भवानवीत् । धावु '६०१ गतिशुद्ध्योः' । स्वरितेत् । धावति-धावते । दधाव-दधावे ।

अथोष्मान्ता आत्मनेपदिनः । 'धुक्ष ६०२ धिक्ष' ६०३ सन्दीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे । 'वृक्ष ६०४ वरणे' । वृक्षते । ववृक्षे । 'शिक्ष ६०५ विद्योपादाने' । शिक्षते । 'भिक्ष ६०६ भिक्षायामलाभे लाभे च' । भिक्षते । 'क्लेश ६०७ अव्यक्तायां वाचि' । 'बाधने' इति दुर्गः । क्लेशते । चिक्लेशे । 'दक्ष ६०८ वृद्धौ शीघ्रार्थे च' । दक्षते । ददक्षे । 'दीक्ष ६०९ मौण्ड्येज्योपनयननियमव्रतादेशेषु' । दीक्षते । दिदीक्षे । 'ईक्ष ६१० दर्शने' । ईक्षाञ्चक्रे । 'ईष ६११ गतिहिंसादर्शनेषु' । ईषाञ्चक्रे । 'भाष ६१२ व्यक्तायां वाचि' । भाषते । 'वर्ष ६१३ स्नेहने' । दन्त्योष्ठ्यादिः । ववर्षे । 'गेषृ ६१४ अन्विच्छायाम्' । 'ग्लेषृ' इत्येके । अन्विच्छा अन्वेषणम् । जिगेपे । 'पेषृ ६१५ प्रयत्ने' । पेषते । 'जेषृ ६१६ णेषृ ६१७ एषृ ६१८ प्रेषृ ३१९ गतौ' । जेषते । नेषते । एषाञ्चक्रे । पिप्रेषे । 'रेषृ ६२० हेषृ ६२१ ह्रेषृ ६२२ अव्यक्ते शब्दे' । आद्यो वृकशब्दे, ततो द्वौ अश्वशब्दे । रेषते । हेषते । ह्रेषते । 'कासृ ६२३ शब्दकुत्सायाम्' । कासाञ्चक्रे । 'भासृ ६२४ दीप्तौ' । बभासे । 'णासृ ६२५ रासृ ६२६ शब्दे' । नासते । प्रणासते । 'णस ६२७ कौटिल्ये' । नसते । 'भ्यस ६२८ भये' । भ्यसते । बभ्यसे । 'आङः शसि ६२९ इच्छायाम्' । आशंसते । आशशंसे । 'ग्रसु ६३० ग्लसु ६३१ अदने' । जग्रसे । जग्लसे । 'ईह ६३२ चेष्टायाम्' । ईहाञ्चक्रे । 'वहि ६३३ महि ६३४ वृद्धौ' । वंहते । ववंहे । मंहते । 'अहि ६३५ गतौ' । अंहते । आनंहे । 'गर्ह ६३६ गल्ह ६३७ कुत्सायाम्' । जगर्हे । जगल्हे । 'बर्ह ६३८ बल्ह ६३९ प्राधान्ये' । ओष्ठ्यादी । 'वर्ह


नेटीति न वृद्धि. । मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः । धावुगतीति ॥ उदिदयम् । स्वरितेदिति ॥ ततश्च कर्तृगामिनि फले आत्मनेपदम् । अन्यथा परस्मैपदमिति भावः । अथोष्मान्ता इति ॥ तत्र धुक्षेत्यारभ्य कासृधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्ष मौण्ड्येति ॥ पञ्चार्थाः । णेषृधातुर्णोपदशः । कासृधातुमारभ्य ईहधातोः प्राक् सकारान्ताः । कासाञ्चक्र इति ॥ कास्प्रत्ययादित्याम् । णासृधातुर्णसधातुश्च णोपदश । आङः शसीति ॥ आङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काशृधातुवर्ज
प्रकरणम्]
१०५
बालमनोरमा ।

६४० वल्ह ६४१ परिभाषणहिंसाच्छादनेषु' । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः । 'प्लिह ६४२ गतौ' । पिप्लिहे । 'वेहृ ६४३ जेहृ ६४४ बाहृ ६४५ प्रयत्ने' । आद्यो दन्त्योष्ठ्यादि: । अन्त्यः केवलोष्ठ्यादिः । 'उभावप्योष्ठ्यादी' इत्येके । 'दन्त्योष्ठ्यादी' इत्यपरे । जेहतिर्गत्यर्थोऽपि बबाहे । 'द्राहृ ६४६ निद्राक्षये' । 'निक्षेपे' । इत्येके । 'काशृ ६४७ दीप्तौ' । चकाशे । 'ऊह ६४८ वितर्क' ऊहाञ्चक्रे' । 'गाहू ६४९ विलोडने' । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे-जगाहिध्वे-जघाढ्वे । गाहिता ।

२३३५ । ढो ढे लोपः । (८-३-१३)

ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यते-घाक्ष्यते । गाहिषीष्ट-घाक्षीष्ट । अगाहिष्ट-अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् ।


घुषिकान्तीत्यतः प्राक् हकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहधातुरिदुपधः । ऊह वितर्के इति ॥ युक्तया अर्थनिर्णयो वितर्क. । 'अनुक्तमप्यूहति पण्डितो जनः' । इत्यत्र तु अनुदात्तेत्त्वलक्षणात्मनेपदमनित्यमिति बोध्द्यम् । गाह्धातुरूदित्त्वाद्वेट् । तदाह । जगाहिषे । जघाक्षे इति ॥ इडभावे जगाह् से इति स्थिते होढ. एकाच इति भष्भावेन गस्य घ षढोरिति ढस्य कः सस्य षः । जगाहिढ्वे, जगाहिध्वे इति ॥ इट्पक्षे 'विभाषेट:' इति ढत्वविकल्पः । इडभावे त्वाह । जघाढ्वे इति ॥ जगाह् ध्वे इति स्थिते हस्य ढः धस्य ष्टुत्वेन ढः गस्य भष्घकार. पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ढ्रलोप इति सूत्र त्विहैव पठितुं युक्तम् । गाहितेति ॥ इट्पक्षे रूपम् । इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथोर्धोऽध.' इति तकारस्य धत्वे ष्टत्वेन धस्य ढत्वे गाढ् ढा इति स्थिते । ढोढे ॥ ढ. इति षष्ठ्यन्तम् । तदाह । ढस्येति ॥ ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् । ढलोपे ष्टुत्वस्यासिद्धत्वन्तु न । तथा सति ढलोपविधिवैयर्थ्यात् । घाक्ष्यते इति ॥ इडभावे हस्य ढ गस्य भष्घकारः ढस्य कः सस्य ष इति भावः । घाक्षीष्टेति ॥ आशीर्लिङि सीयुटि इडभावपक्षे हस्य ढः गस्य भष् घकारः ढस्य कः सस्य ष इति

भावः । अगाहिष्टेति ॥ सिच इट् । सस्य षः तकारस्य ष्टुत्वेन टः । इडभावे त्वाह । अगाढेति ॥ अगाह् स् त इति स्थिते सिच इडभावे झलो झलीति लोपः ढत्वधत्वष्टुत्वढलोपाः । सलोपात्पूर्वं भष्भावस्तु न । भष्भावस्यासिद्धतया झलो झलीति सलोपस्य पूर्व प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष्दुर्वार इति शङ्क्यम् । वर्णाश्रये प्रत्ययलक्षणाभावादिति भावः । अघाक्षातामिति ॥ इडभावपक्षे ढघकषा. । अघाक्षतेति । अगाढा इति ॥ थास् सिच् इडभावे सलोपः ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति ॥ ध्वमि
१०६
[भ्वादि
सिध्दान्तकौमुदीसहिता

अघाक्षि । 'गृहू ६५० ग्रहणे' । गर्हते । जगृहे । 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५९३) । जगृहिषे—जघृक्षे । जघृढ्वे । गर्हिता-गर्ढा । गर्हिष्यते—घर्क्ष्यते । गर्हिषीष्ट-घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ।

२३३६ । शल इगुपधादनिटः क्सः । (३-१-४५)

इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । अघृक्षत ।

२३३७ । क्सस्याचि । (७-३-७२)

अजादौ तङि क्सस्य लोपः स्यात् । 'अलोऽन्त्यस्य' (सू ४२) । अघृक्षाताम् । अघृक्षन्त । 'ग्लह ६५१ च' । ग्लहते । 'घुषि ६५२ कान्तिकरणे' । घुंषते । जुघुंषे । केचित् 'घष' इत्यदुपधं पठन्ति ।


इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्वममाश्रित्य ढलेापात्पूर्व भष्भाव. । अघाक्षीति ॥ इडभावे हस्य ढ । भष्भाव. ढस्य क सस्य षत्वमिति भावः । अघाक्ष्वहि । अगाहिष्यत । अघाक्ष्यत । गृहूधातु ऊदित् । ॠदुपधः । गर्हते इति ॥ लटस्तिपि लघूपधगुणे शपि रपरत्वम् । जगृहे इति ॥ असयोगादिति कित्त्वाद्गुणाभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः 'ॠदुपधेभ्यो लिट. कित्त्व गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्प मत्वा आह । जगृहिषे । जघृक्षे इति ॥ अभ्यासे उरदत्व हलादिशेषः जश्त्वम् इट् षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह । जघृढ्वे इति ॥ हस्य ढ भष्भावः ढलोपः । गर्ढेति ॥ इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः । घर्क्ष्यते इति ॥ गुणः रपरत्व हस्य ढः भष्भावः ढस्य कः षत्वम् । घृक्षीष्टेति ॥ आशीर्लिङः सीयुटि इडभावे लिड्सिचाविति कित्त्वाद्गुणाभावे हस्य ढः भरूभावः ढस्य कः षत्वम् । अगर्हिष्टेति ॥ सिच इटि गुणे रपरत्वे षत्वे रूपम् । शल इगुपधा ॥ शलन्त इति ॥ 'धातोरेकाच' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भाव । सिचोऽपवादः क्सादेशः अदन्तः । ककार इत् । अघृक्षतेति ॥ च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः भष्भावः ढस्य कः षत्वमिति भावः । 'अघृक्ष आताम्' इति स्थिते 'आतो ङित' इति इयादेशे प्राप्ते । क्सस्य ॥ अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदन्तविधिः । 'घोर्लोपो लेटि वा' इत्यतः लोप इत्यनुवर्तते । तदाह । अजादावित्यादिना । अलोऽन्त्यस्येति ॥ अन्त्यस्याकारस्य लोप इति भाव । 'वस्तुतस्तु लुग्वा दुहदिह' इत्युत्तरसूत्रादात्मनेपदे इत्यनुवृत्तेस्तद्विशेषणत्वादचीति तदादिविधिः । तेन दृशेः क्सप्रत्यये तादृक्ष इत्यादौ नायं लोपः । अजादौ तडीत्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति ॥ 'अघृक्ष आताम्' इति स्थिते क्साकारस्य लोपे अत परत्वाभावात् 'आतो डितः' इति इय् नेति भावः । अघृक्षन्तेति ॥ झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाभावादतः परत्वादात्मनेपदेष्वनत इत्यदादेशो न । कृते तु झोऽन्ता
प्रकरणम्]
१०७
बालमनोरमा ।

अथार्हत्यन्ताः परस्मैपदिनः । 'घुषिर् ६५३ अविशब्दने' विशब्दनं प्रतिज्ञानं, ततोऽन्यस्मिन्नर्थ इत्येके । 'शब्दे' इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ्वा । अघुषत्-अघोषीत् । 'अक्षू ६५४ व्याप्तौ' ।

२३३८ । अक्षोऽन्यतरस्याम् । (३-१-७५)

अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रथे सार्वधातुके परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्ति । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ-आनष्ठ । अक्षिता-अष्टा । अक्षिष्यति । 'स्कोः' (सू ३८०) इति कलोपः । 'षढोः कः सि' (सू २९५) । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । आक्ष्णोत् । आक्ष्णवम् । अक्ष्णुयात् । अक्ष्णुयुः । अक्ष्यात् ।


देशे क्सस्याकारलोप. पररूप वा । ग्लह चेति ॥ ग्लहधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति ॥ उदुपधोऽयम् । इदित्त्वान्नुम् । नश्चेत्यनुस्वारः । यय्परकत्वाभावान्न परसवर्ण । तदाह । घुंषत इति ॥ सेट्कोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गता । अथार्हत्यन्ताः परस्मैपदिन इति ॥ ऊष्मान्ता इति शेषः । तत्र तुस ह्रेसेत्यतः प्राक् षान्ताः । घुषिर् इति ॥ इर् इत् । प्रतिज्ञानमिति ॥ वेदा प्रमाणमित्याद्यभ्युपगम इत्यर्थ । ततोऽन्यस्मिन्निति ॥ विशब्दनात् अन्यत् अविशब्दन तस्मिन्नित्यर्थः । इरित्त्वादङ्वेति ॥ इरितो वेत्यनेनेति शेषः । अघुषदिति ॥ अडो डित्त्वान्न लघूपधगुण. । अघोषीदिति ॥ अडभावपक्षे लघूपधगुणे 'इट ईटि' इति सिज्लोपः । हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधः । अक्षधातुः ऊादत्त्वाद्वेट्कः । अक्षोऽन्यतरस्याम् ॥ अक्ष इति पञ्चमी । स्वादिभ्यः श्नुरित्यत. श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्त्तते । तदाह । अक्षो वेति ॥ श्नुप्रत्ययस्य शित्त्व सार्वधातुकत्वार्थम् । तत्फलन्तु 'स्वादिभ्य. श्नु.' इत्यत्र वक्ष्यते । अक्ष्णोतीति ॥ तिपि श्नुः तस्य तिपः पित्त्वेन डित्त्वाभावात् सार्वधातुकेति श्नो गुणः णत्वम् । अक्ष्णुत इति ॥ तसः अपित्त्वेन डित्त्वात् श्नो न गुणः । अक्ष्णुवन्तीति ॥ डित्त्वाद्गुणाभावे उवड् । अक्ष्णोषि । अक्ष्णुथः । अक्ष्णुथ । अक्ष्णोमि । अक्ष्णुवः । अक्ष्णुमः । अक्षतीति शप्पक्षे रूपम् । आानक्षेति ॥ णलि द्विहल्त्वान्नुट् । आनक्षतुः । आनक्षुः । ऊदित्त्वादिट्पक्षे आह । आनक्षिथेति ॥ इडभावे आह । आनष्ठेति ॥ आनक्ष् थ् इति स्थिते स्कोरिति कलोपः थस्य ष्टुत्वेन ठ । अष्टेति ॥ लुटि तासि इडभावपक्षे स्कोरिति कलोपे तकारस्य ष्टुत्वेन टः । अक्ष् स्य इति स्थिते प्रक्रियान्दर्शयति । स्कोरिति कलोपः । षढोः कस्सीति ॥ कात्परत्वात् सस्य षत्वञ्च । अक्ष्णोत्विति ॥ अक्ष्णोतु । अक्ष्णुतात् । अक्ष्णुताम् । अक्ष्णुवन्तु । अक्ष्णुहीति ॥ संयोगपूर्वत्वादुतश्चेति हेर्लुक् न । हेरपित्त्वेन डित्वात् श्नोर्न गुणः । अक्ष्णुतात् । अक्ष्णुतम् । अक्ष्णुत । अक्ष्णवानीति ॥ आटः पित्त्वेन डित्त्वाभावान्न गुणनिषेधः ।
१०८
[भ्वादि
सिध्दान्तकौमुदीसहिता

ऊदित्त्वाद्वेट् । 'नेटि' (सू २२६८) । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः । 'तक्षू ६५५ त्वक्षू ६५६ तनूकरणे' ।

२३३९ । तनूकरणे तक्षः । (३-१-७६)

श्नुः स्याद्वा शब्विषये । तक्ष्णोति-तक्षति वा काष्ठम् । ततक्षिथ- ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । 'तनूकरणे' किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । 'उक्ष ६५७ सेचने' । उक्षां चकार । 'रक्ष ६५८


गुणे अवादेशः । अक्ष्णवाव । अक्ष्णवाम । शपि तु अक्षत्वित्यादि । आक्ष्णोदिति ॥ लडस्तिप् श्नोर्गुर्णः आट् वृद्धिः । आक्ष्णुताम् । आक्ष्णुवन् । आक्ष्णोः । आक्ष्णुतम् । आक्ष्णुत । आक्ष्णवमिति ॥ मिप. अम् श्नोर्गुणः अवादशः । आक्ष्णुव । आक्ष्णुम । अक्ष्णुयादिति ॥ विधिलिङि यासुटो डित्त्वात् श्नोर्न गुण । अक्ष्णुयुरिति ॥ अक्ष्णुयाः । अक्ष्णुयातम् । अक्ष्णुयात । अक्ष्णुयाम् । अक्ष्णुयाव । अक्ष्णुयाम । शप्पक्षे आक्षदित्यादि । अक्ष्यादिति ॥ आशीर्लिङः आर्धधातुकत्वान्न श्नुः, नापि शप् । लुडि सिचि विशेषमाह । ऊदित्त्वाद्वेडिति ॥ तत्र इट्पक्षे आह । नेटीति ॥ हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तिरिति शङ्क्यम् । रञ्जेः अरांक्षीदिदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः । मा भवानक्षीदिति ॥ आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्याञ्च रूपे भेदाभावात् मा भवानित्युपात्तम् । आक्षिष्टाम् । अक्षिषुरिति ॥ अत्रापि मा भवानिति सम्बध्द्यते । इडभावे त्विति ॥ लुडस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाप्रसक्तया हलन्तलक्षणवृद्धौ झलो झलीति सिज्लोपे स्कोरिति कलोपे तकारस्य ष्टुत्वम् । आक्षुरिति ॥ अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौ स्कोरिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः । आक्षीः । आष्टम् । आष्ट । आक्षम् । आक्ष्व । आक्ष्म । आक्षिष्यत् । आक्ष्यत् । आक्ष्यताम् । आक्ष्यन् । आक्ष्य । आक्ष्यतम् । आक्ष्यत । आक्ष्यम् । आक्ष्याव । आक्ष्याम । तक्षू त्वक्षू इति ॥ स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणन्तनूकरणम् । तनूकरणे ॥ शेषपूरणेन सूत्र व्याचष्टे । श्नुः स्याद्वा शब्विषये इति ॥ स्वादिभ्यः श्नुरित्यतः श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यत सार्वधातुक, इति चानुवर्तते । तनूकरणेऽर्थे विद्यमानात् तक्ष्धातोः श्नु स्यात्कर्त्रर्थे सार्वधातुके इति फलितम् । नच तक्षूधातोस्तनूकरणार्थकत्वाव्यभिचारात् श्नुविधौ तनूकरणग्रहण व्यर्थमिति वाच्यम् । अतएव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि ॥ अक्षूवद्रूपाणि । लुडि सिचि इट्पक्षे नेटीति वृद्धिनिषेधे अतक्षीदिति रूपम् । इडभावे तु अताक्षीदिति च
प्रकरणम्]
१०९
बालमनोरमा ।

पालने । 'णिक्ष ६५९ चुम्बने' । प्रणिक्षति । 'त्रक्ष ६६० ष्ट्रक्ष ६६१ णक्ष ६६२ गतौ' । त्रक्षति । स्त्रक्षति । नक्षति । 'वक्ष ६६३ रोषे' । 'सङ्घाते' इत्येके । 'मृक्ष ६६४ सङ्घाते' । 'म्रक्ष' इत्येके । 'तक्ष ६६५ त्वचने' । त्वचनं संवरणं त्वचो ग्रहणं च । 'पक्ष परिग्रहे' इत्येके । 'सूर्क्ष ६६६ आदरे' । सुषूर्क्ष । 'अनादरे' इति तु क्वाचित्कोऽपपाठः । 'अवज्ञावहेळनमसूर्क्षणम्' इत्यमरः । 'काक्षि ६६७ वाक्षि ६६८ माक्षि ६६९ काङ्क्षायाम्' । 'द्राक्षि ६७० ध्राक्षि ६७१ ध्वाक्षि ६७२ घोरवाशिते च' । 'चूष ६७३ पाने' । चुचूष । 'तूष ६७४ तुष्टौ' । 'पूष ६७५ वृद्धौ' । 'मूष ६७६ स्तेये' । लूष ६७७ रूष ६७८ भूषायाम्' । 'शूष ६७९ प्रसवे' । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः । 'यूष ६८० हिंसायाम्' । 'जूष ६८१ च' 'भूष ६८२ अलङ्कारे' । भूषति । 'ऊष ६८३ रुजायाम्' । ऊषां चकार 'ईष ६८४ उञ्छे' । 'कष ६८५ खष ६८६ शिष ६८७ जष ३८८ झष ६८९ शष ६९० वष ६९१ मष ६९२ रुष ६९३ रिष ६९४ हिंसार्थाः' । तृतीयषष्ठौ तालव्योस्मादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ।


अक्षूवत् । एवं त्वक्षूधातुरपि । णिक्षधातुर्णोपदेश । प्रणिक्षतीति ॥ 'उपसर्गादसमासेऽपि' इति णत्वम् । त्रक्ष ष्ट्रक्ष णक्ष गताविति ॥ त्रयोऽप्यकारमध्द्या । द्वितीयष्षोपदेशः । तदाह । त्रक्षतीति ॥ षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः । णक्षधातुर्णोपदेशः । सिचि नेटीति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति ॥ दन्त्योष्ठ्यादि । म्रक्षधातुरकारमध्द्य । संवरणशब्दस्य विवरण त्वचो ग्रहणमिति । सूर्क्षधातुः रेफमध्द्यः । अपपाठत्वे हेतुमाह । अवज्ञेति ॥ सूर्क्षधातोरनादरार्थकत्वे असूर्क्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति ॥ चात् काक्षायामपि । घोरवाशितक्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः । ईष उञ्छ इति ॥ ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपध. । शिषधातुरनिट्कः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् । अजन्ताकारवत्त्वाभावेन थलि सेट्कत्वाभावात् शिशेषिथ । शिशिषिव । शिशिषिम । अशिक्षदिति ॥ 'शल इगुपधात्' इति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ॥ 'न शसदद' इति निषेधादेत्वाभ्यासलोपौ न । रुषधातुस्सेट्कः । रोषति । रुरोष । रुरुषतुः । रुरुषुः । रुरोषिथ । रुरुषथुः । रुरुष । रुरोष । रुरुषिव । रुरुषिम ।
११०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३४० । तीषसहलुभरुषरिषः । (७-२-४८)

इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् । रोषिता-रोष्टा । रोषिष्यति । रेषिता-रेष्टा । रेषिष्यति 'भष ६९५ भर्त्सने' । इह भर्त्सनं श्वरवः । भषति । बभाष । 'उष ६९६ दाहे' । ओषति ।

२३४१ । उषविदजागृभ्योऽन्यतरस्याम् । (३-१-३८)

एभ्यो लिट्याम्वा स्यात् । ओषां चकार । उवोष । ऊषतुः । उवोषिथ । 'जिषु ६९७ विषु ६९८ मिषु ६९९ सेचने' । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् । 'पुष ७०० पुष्टौ'। पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु 'पुष्य' इति श्यना निर्देशादयं सेट् अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् । 'श्रिषु ७०१ श्लिषु ७०२ प्रुषु ७०३ प्लुषु ७०४ दाहे' । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । 'अनिट्सु दैवादिकस्यैव ग्रहणम्' इति कैयटादयः ।


तीषस ॥ आर्धधातुकस्येत्यतः इडित्यनुवर्तते । 'स्वरतिसूति' इत्यतो वेति च । तीतिसप्तम्युपादानात्तदादिविधिः । इष सह लुभ रुष रिष एषान्द्वन्द्वात्पञ्चम्येकवचनम् । तदाह । इच्छत्यादेरिति ॥ इच्छतीति इषे तिपा निर्देशः । इषधातुर्विवक्षितः । इषु इच्छाया तुदादिश्शविकरणः । इष गतौ दिवादिः श्यन्विकरणः । इष आभीक्ष्ण्ये क्र्यादिः श्नाविकरणः । तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता, रोष्टेति ॥ इडभावे ष्टुत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पम्मत्वा आह । रेषिता, रेष्टेति ॥ उष दाह इति ॥ सेट्ऽकोऽयम् उखधातुवत् । उषविद ॥ कासप्रत्ययादित्यतः आम् लिटीत्यनुवर्तते । तदाह । एभ्यो लिटीति ॥ आमभावपक्षे आह । उवोषेति ॥ 'अभ्यासस्यासवर्णे' इति उवडादेश. । जिषु विषु मिषु सेचन इति ॥ द्वितीयो दन्त्योष्ठ्यादिः । थलि वसि मसि च विशेषमाह । क्रादिनियमादिडिति । विवेषिथेति ॥ अजन्ताकारवत्त्वाभावेन भारद्वाजनियमाप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट् । वेष्टेति ॥ तासि ष्टुत्वेन तकारस्य टः । वेक्ष्यतीति ॥ षढोरिति षस्य कः सस्य षः । अविक्षदिति ॥ 'शल इगुपधात्' इति क्सः । षस्य कः सस्य षः कित्त्वान्नगुण । पुषधातुः सेडिति मत्वा आह । पोषितेति । अपोषीदिति ॥ नेटीति वृद्धिनिषेधः । नन्वनिट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह । अनिट्केष्विति । अत इति ॥ सेट्कत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अइ कुतो नेत्यत आह । अङ्विधाविति ॥ एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति ॥ पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति ॥ 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः ।
प्रकरणम्]
१११
बालमनोरमा ।

यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं, तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष । 'पृषु ७०५ वृषु ७०६ मृषु ७०७ सेचने' । 'मृषु' सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । 'घृषु ७०८ सङ्घर्षे' । 'हृषु ७०९ अळीके' । 'तुस ७१० ह्रस ७११ ह्लस ७१२ रस ७१३ शब्दे' । तुतोस । जह्रास । जह्लास । ररास । 'लस ७१४ श्लेषणक्रीडनयोः' 'घस्लृ ७१५ अदने' । अयं न सार्वत्रिकः । 'लिट्यन्यतरस्याम्' (सू २४२४) इत्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ।

२३४२ । सः स्यार्धधातुके । (७-४-४९)

सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अधसत् । घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः ।


द्वयोर्ग्रहणमिति ॥ भौवादिकदैवादिकयोरित्यर्थः । स्वोक्तीति ॥ 'श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ॠदुपधा । अलीक मिथ्याभवन मिथ्योक्तिर्वा । तुसह्रसेत्यारभ्य णशगतावित्यत. प्राक् सकारान्ताः । घस्लृधातुरनिट्कः । अयमिति ॥ घस्लृधातुः सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत आह । लिटीति ॥ यद्ययं सार्वत्रिकस्स्यात् तदा लिट्यपि प्रयुज्येत । ततश्च 'अद भक्षणे' इति धातोर्लिट्यन्यतरस्यामिति घस्लृभावविधिर्व्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह । ततश्चेति ॥ यत्र घस्लृधातोः प्रयोगे ज्ञापक प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । तत्र तावल्लिङ्गन्दर्शयति । अत्रैवेति ॥ भ्वादिगणे अत्रैव क्रमेः परस्मैपदे अस्य पाठश्शपि प्रयोगे लिङ्गमित्यर्थः । नच धातुसज्ञार्थः पाठ इति शङ्क्यम् । द्युतदीप्तावित्युक्तरीत्याऽस्य पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयर्थ्यादिति भावः । लृदित्करणमङीति ॥ प्रयोगे लिङ्गमिति शेषः । अनिट्कारिकास्विति ॥ अनुदात्तोपदेशेषु घस्लृधातोः पाठः वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनन्दर्शयति । क्मरचीति ॥ 'सृघस्यदः क्मरच्, इत्यत्र विशिष्य घसेरुपादानात्क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति ॥ लुटि तसाद्युपलक्षणमिदम् । लिटि अस्य प्रयोगाभावाल्लुट्युदाहरति । घस्तेति । सस्सि ॥ सः इति छेदः । सः इति षष्ठ्यन्तम् । सि इति सप्तम्यन्तम् आर्धधातुकविशेषणम् । । तदादिविधिः । 'अच उपसर्गात्त' इत्यतः त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह । सस्य तः स्यादिति ॥ आदेशे अकारस्य उच्चारणार्थत्वात्तकारः
११२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३४३ । पुषादिद्युताघ्लृदितः परस्मैपदेषु । (३-१-५५)

श्यन्बिकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अघसत् । 'जर्ज ७१६ चर्च ७१७ झर्झ ७१८ परिभाषणहिसातर्जनेषु' । 'पिसृ ७१९ पेसृ ७२० गतौ' । पिपिसतुः । पिपेसतुः । 'हसे ७२१ हसने' । एदित्त्वान्न वृद्धिः । अहसीत् । 'णिश ७२२ समाधौ' तालव्योष्मान्तः । प्रणेशति । 'मिश ७५३ मश ७२४ शब्दे रोषकृते च' तालव्योष्मान्तौ । 'शव ७२५ गतौ' दन्त्योष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् - अशावीत् । 'शश ७२६ प्लुतगतौ' । तालव्योष्याद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । 'शसु ७२७ हिंसायाम्' । दन्त्यष्मान्तः । 'न शसदद--' (सू २२६३) इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । 'शंसु ७२८ स्तुतौ' । अयं दुर्गनावपीति दुर्गः । 'नृशंसो घातुकः क्रूरः' इत्यमरः । शशंस । आशिषि नलोपः शस्यात् । 'चह ७२९ परिकल्कने' । कल्कनं शाठ्यम् । अचहीत् । 'मह ७३० पूजायाम्' । अमहीत् । 'रह ७३१ त्यागे' । 'रहि ७३२ गतौ' । रंहति । रंह्यात् । 'दृह ७३३ दृहि ७३४ बृह ७३५ बृहि ७३६ वृद्धौ' । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । 'बृहि' शब्दे च । 'बृंहितं करिगर्जितम्' इत्यमरः । 'बृहिर्' इत्येके ।


स्यादित्यर्थः । लुडि च्लेः सिचि प्राप्ते । पुषादि ॥ 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिरव्यातिभ्यः' इत्यतः अडिति चानुवर्तते । पुषादिद्युदादिलृदित एषां समाहारद्वन्द्वात्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादै चास्ति । तत्र यदि भैवादिकः पुषादिगणो गृह्येत । तर्हि द्युतादिग्रहणमनर्थक स्यात् । पुषादिगणोत्तरमेवात्र द्व्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । 'मुष स्तेये' 'खच भूतप्रादुर्भावे' 'हेठ च' 'ग्रह उपादाने' इति चत्वार एव पठ्यन्ते । यदि त एवात्र पुषादयो विवक्षितास्स्युः तर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकपुषादिर्गृह्यते । णिचा च्लेर्व्यवहितत्वात् । अतः परिशेषात् दिवादय एव गृह्यन्ते । तदाह । श्यन्विकरणेति । जर्ज चर्च झर्झेति ॥ एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति ॥ एदिदयम् । न वृद्धिरिति ॥ ह्म्यन्तेत्यनेनेति शेषः । णिश समाधाविति ॥ णोपदेशत्वादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह । प्रणेशतीति ॥ 'शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति ॥ नो विकृतानुस्वारस्य निर्देशः । 'चह परिकल्कने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति ॥ नायमिदित् । रहि गताविति ॥ अय
प्रकरणम्]
११३
बालमनोरमा ।

अबृहत्-अबर्हीत् । तुहिर् ७३७ दुहिर् ७३८ उहिर् ७३९ अर्दने । तोहति । तुतोह । अतुहत्-अतोहीत् । दोहति । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । मा भवानुहत् । औहीत् । अर्ह ७४० पूजायाम् । आनई ।

अथ कृपूपर्यन्ता अनुदात्तेतः । 'द्युत ७४१ दीप्तौ' । द्योतते ।

२३४४ । द्युतिस्वाप्योः सम्प्रसारणम् । (७-४-६७)

अनयोरभ्यासस्य सम्प्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ।

२३४५ । द्युद्भ्यो लुङि । (१-३-९१)

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदे अङ् । अद्युतत्-अद्योतिष्ट । श्विता ७४२ वर्णे । श्वेतते । शिश्विते । अश्वितत्-अश्वेतिष्ट । ञि मिदा ७४३ स्नेहने । मेदते ।

२३४६ । मिदेर्गुणः । (७-३-८२)


मिदित् । दृहदृहीति ॥ ॠदुपधा एते । द्वितीयचतुर्थाविदितौ । अबृहत् । अबर्हीदिति ॥ इरित्त्वादड्विकल्प इति भाव । उवोहेति ॥उहिर्धातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवड् । मा भवानुहदिति ॥ इरित्त्वादडि रूपम् । औहीदिति ॥ अडभावपक्षे च्लेस्सिचि तस्य इटि 'अस्तिसिचः' इति तकारस्य ईटि 'इट ईटि' इति सिचो लोपे 'आडजादीनाम्’ इति आटि वृद्धिः । मांड्योगे तु मा भवानुहीत् । आनर्हेति ॥ 'अत आदे' इति दीर्घे नुट् । कृपूपर्यन्ता अनुदात्तेत इति ॥ द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थ । द्युतिस्वाप्योः । अभ्यासस्येति ॥ 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तेरिति भावः । दिद्युते इति ॥ द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः' इति सम्प्रसारणे, 'सम्प्रसारणाच्च' इति उकारस्य पूर्वरूपे रूपम् । द्युद्भ्यो लुङि ॥ बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी । 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येत्युपतिष्ठते । 'शेषात्कर्तरि' इत्यतः परस्मैपदमित्यनुवर्तते । तदाह-द्युतादिभ्यः इति । परस्मैपदे अङिति ॥ आत्मनेपदपक्षे सिजेव नत्वड् । पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह । अद्योतिष्टेति । श्विता वर्णे इति ॥ श्वेतवर्णकरणे श्वेतीभवने वेत्यर्थः । अश्वितदिति ॥ द्युतादित्वादड् । अश्वेतिष्टेत्यात्मनेपदपक्षे रूपम् । एवमग्रेऽपि । द्युतादौ लुडि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति ॥ ञिरित् 'ञीतः क्तः' इत्येतदर्थः । मिमिदे इत्यत्र लिटः असंयोगादिति कित्त्वेऽपि गुण शङ्कितुमाह । मिदेर्गुणः ॥ मिदेरित्यवयवषष्ठी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते । 'ष्ठिवुक्लमुचमां शिति' इत्यतः
११४
[भ्वादि
सिध्दान्तकौमुदीसहिता

मिदेरिको गुणः स्यादित्संज्ञकशकारादौ । एशः आदिशित्त्वाभावान्नानेन गुणः । मिमिदे । अमिदत्-अमेदिष्ट । 'ञि ष्विदा ७४४ स्नेहनमोचनयोः' । 'मोहनयोः' इत्येके । स्वेदते । सिष्विदे । अस्विदत्-अस्वेदिष्ट । ञि क्षिवदा च' । इत्येके । अक्ष्विदत्-अक्ष्वेदिष्ट | 'रुच ७४५ दीप्तावभिप्रीतौ च' । रोचते सूर्यः । 'हरये रोचते भक्तिः' । अरुचत्-अरोचिष्ट । घुट ७४६ परिवर्तने । घोटते । जुघुटे । अघुटत्-अघोटिष्ट । रुट ७४७ लुट ७४८ लुठ ७४९ प्रतिघाते । अरुटत्-अरोटिष्ट । शुभ ७५० दीप्तौ । क्षुभ ७५१ सञ्चलने । णभ ७५२ तुभ ७५३ हिंसायाम् । आद्योऽभावे च । 'नभन्तामन्यके समे' । 'मा भूवन्नन्यके सर्वे' इति निरुक्तम् । अनभत्-अनभिष्ट । अतुभत्-अतोभिष्ट । इमौ दिवादी क्र्यादी च । स्रंसु ७५४ ध्वंसु ७५५ भ्रंसु ७५६ अवस्रंसने । 'ध्वंसु गतौ च' । अङि न लोपः । अस्रसत्-असंसिष्ट । 'नास्रसत्करिणां ग्रैवम्' इति रघुवंशे । 'भ्रंशु' इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । 'भ्रशु भ्रंशु अधःपतने' इति दिवादौ । स्रम्भु ६५७


शीत्यनुवर्तते। शचासाविच्चेति कर्मधारयः । तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधि:। इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । तदाह । मिदेरित्यादिना ॥ दैवादिकमिदे श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिकोगुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह । एशः आदिशित्त्वाभावादिति । ञि ष्विदेति ॥ षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति ॥ अभिप्रीतिः प्रीतिविषयीभवनम् । दीप्तौ उदाहरति । रोचते सूर्यः इति ॥ प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति । हरये रोचते भक्तिरिति ॥ भक्ति. हर्याश्रितप्रीतिविषयो भवतीत्यर्थः । 'रुच्यर्थानाम्' इति सम्प्रदानत्वाच्चतुर्थी । क्षुभ सञ्चलने इति ॥ क्षोभते क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुः णोपदेशः । नभते । आद्योऽभावे चेति ॥ चात्सञ्चलनेऽपि । तत्र अभावार्थकस्य प्रयोगन्दर्शयति । नभन्तामन्यके समे इति ॥ मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्यत आह । मा भूवन्नन्यके सर्वे इति ॥ नभन्तामित्यस्य विवरण मा भूवन्निति । न भवन्तीत्यर्थः । समे इत्यस्य विवरणं सर्वे इति । निरुक्तमिति ॥ वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । स्रंसुध्वंसुभ्रंसु इति ॥ त्रयो नोपधाः कृतानुस्वारनिर्देशाः । ध्वंसु गतौ चेति ॥ चादवस्रंसनेऽपि । अस्रसदिति ॥ द्युतादित्वात्परस्मैपदे अङि नलोप इति भावः । नास्रसदिति ॥ नास्रसदित्यपपाठ । नचास्रंसदिति लङो
प्रकरणम्]
११५
बालमनोरमा ।

विश्वासे । अस्रभत्-अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः । वृतु ७५८ वर्तने । वर्तते । ववृते ।

२३४७ । वृभ्द्यः स्यसनोः । (१-३-९२)

वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ।

२३४८ । न वृद्भ्यश्चतुर्भ्यः । (७-१-५९)

एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत । वृधु ७५९ वृद्धौ । शृधु ७६० शब्दकुत्सायाम् । इमौ वृतुवत् । स्यन्दू ७६१ प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे-सस्यन्त्से । सस्यन्दिध्वे-सस्यन्ध्द्वे । स्यन्दिता-स्यन्ता ।


रूपमिति भ्रमितव्यम् । तत्र परस्मैपदासम्भवात् । स्रम्भुधातुरकारमध्द्य । वृतु वर्तने इति ॥ उदित् ॠदुपधः सेट्कः । वर्तते इति ॥ शपि गुणे रपरत्वम् । ववृते इति ॥ असयोगादिति कित्त्वाद्गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि वर्तिता । वृद्भ्यः ॥ बहुवचनाद्वृतादिभ्य इति गम्यते । शेषात्कर्तरीत्यतः परस्मैपदमित्यनुवर्तते । तदाह । वृतादिभ्य इति । न वृद्भ्यः ॥ सेऽसिचीति सूत्रात् से इति आर्द्धधातुकस्येडिति चानुवर्तते । तदाह । एभ्यः सकारादेरिति । तङानयोरभावे इति ॥ गमेरिडित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तडानयोरभावो लक्ष्यते । व्याख्यानादिति भावः । तेन जिगमिषिता इत्यत्र गमेस्तृचि इट् सिध्द्यति । वृतेस्सन्नन्तात् हेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्द्यति । वर्त्स्यतीति ॥ लृटि स्यः । 'वृभ्द्यः स्यसनो' इति परस्मैपदविकल्प । 'न वृभ्द्यः' इति इण्निषेधः । गुणः रपरत्व चर्त्वम् । परस्मैपदाभावेत्वाह । वर्तिष्यते इति ॥ तडानयोरभावे इत्युक्तेः न वृभ्द्य इति इण्निषेधो न । अवर्तिष्टेति ॥ परस्मैपदस्य अङश्चाभावे रूपम् । अवर्त्स्यदिति ॥ लृडि स्य । 'वृभ्द्यः स्यसनोः' इति परस्मैपदम् । 'न वृभ्द्य' इति इण्निषेधः । गुणः । रपरत्वमिति भावः । अवर्तिष्यतेति ॥ परस्मैपदस्याभावे न वृभ्द्य इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ॠदुपधौ । तत्रापि 'द्युभ्द्यो लुडि' इति परस्मैपदपक्षे द्युतादिलक्षणः अड् । लृट्लृडो 'वृध्द्यः स्यसनो' इति परस्मैपदपक्षे 'न वृध्द्य' इति इण्निषेधश्च । तदाह । इमौ वृतुवदिति ॥ वर्त्स्यति । वर्धिष्यते । अवृधत् । अवर्धिष्ट । अवर्त्स्यत् । अवर्धिष्यत । शर्त्स्यति । शर्धिष्यते । अशृधत् । अशर्धिष्ट । अशर्त्स्यत् । अशर्धिष्यत । स्यन्दूधातु ऊदित् नकारोपध कृतानुस्वारपरसवर्णनिर्देश । सस्यन्दिषे, सस्यन्त्से इति ॥ इडभावे दस्य चर्त्वेन तः । सस्यन्दिध्द्वे, सस्यन्ध्द्वे इति ॥ इडभावे धकारात् प्राक् दकारः । खर्परकत्वाभावान्नचर्त्वम् । स्यन्दिता, स्यन्तेति ॥ इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सति 'वृभ्द्यः स्यसनो.' इति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पम्बाधित्वा 'न वृभ्द्यश्चतुर्भ्य' इति
११६
[भ्वादि
सिध्दान्तकौमुदीसहिता

'वृद्भ्यः स्यसनोः' (मू २३४७) इति परस्मैपदे कृते ऊदिल्लक्ष्णमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् 'न वृद्भ्यः-' (सू २३४८) इति निषेधः । स्यन्त्स्यति-स्यन्दिष्यते-स्यन्त्स्यते । स्यन्दिषीष्ट-स्यन्त्सीष्ट । 'द्युद्भ्यो लुङि' (सू २३४५) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट-अस्यन्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत-अस्यन्त्स्यत ।

२३४९ । अनुविपर्यभिनिम्यः स्यन्दतेरप्राणिषु । (८-३-७२)

एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते-अनुस्यन्दते वा जलम् । 'अप्राणिषु' किम् । अनुस्यन्दते हस्ती । 'अप्राणिषु'


इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते । नतु स्यन्दिष्यत इति । तदयुक्तम्--अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तडानाभावनिमित्तापेक्षतया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्याशङ्क्य निराकरोति । वृद्भ्य इति ॥ 'वृद्भ्यस्स्यसनो:' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा न वृद्भ्य इति निषेध इत्यन्वय कुत इत्यत आह । चतुर्ग्रहणसामर्थ्यादिति ॥ यदिह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यात् नतु 'न वृभ्द्यश्चतुर्भ्यः' इति निषेधः तर्हि चतुर्भ्य. इति व्यर्थ स्यात् । नच कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यम् । 'तासि च क्लृप' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । भाष्ये तु 'निषेधाश्च बलीयास.' इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृभ्द्यः' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहण प्रत्याख्यातम् । तथा च लृटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'न वृभ्द्यः' इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्प मत्वा आह । स्यन्दिष्यते, स्यन्त्स्यते इति ॥ इडभावे दस्य चर्त्वम् । आशीर्लिडि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह । स्यन्दिषीष्ट, स्यन्त्सीष्टेति ॥ 'न वृभ्द्यः' इति निषेधस्तु न । तडानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुडि विशेषमाह । द्युभ्द्यो लुङीत्यादिना । अङिति ॥ द्युतादिलक्षण इति शेषः । नलोप इति ॥ अनिदितामित्यनेनेति शेषः । आत्मनपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह । अस्यन्दिष्ट, अस्यन्तेति ॥ तत्र इडभावपक्षे अस्यन्द् स् त इतिस्थिते 'झलो झलि’ इति सलोपे दस्य चर्त्वम् । नचापित्त्वेन डित्त्वात् 'अनिदिताम्' इति नलोपः शङ्क्यः । सिज्लोपस्यासिद्धत्वेनानुपधात्वादिति भाव । अस्यन्त्साताम् । अस्यन्त्सतेति ॥ अस्यन्त्थाः । अस्यन्त्साथाम् । अस्यन्ध्द्वम् । अस्यन्त्सि । अस्यन्स्वहि । अस्यन्त्स्महि । अस्यन्त्स्यत् । अस्यन्त्स्यत । अस्यन्दिष्यत । अनुविपर्यभिनि । एभ्य इति ॥ अनु परि अभि नि वि इत्येतेभ्य इत्यर्थः । सस्येति ॥ 'सहेः साढस्सः' इत्यतः स इति षष्ठ्यन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति ॥ 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति

भावः । ननु मत्स्योदके अनुष्यन्देते इत्यत्र कथं षत्व प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत
प्रकरणम्]
११७
बालमनोरमा ।

इति पर्युदासात् 'मत्स्योदके अनुष्यन्देते' इत्यत्रापि पक्षे षत्वं भवत्येव । 'प्राणिषु न' इत्युक्तौ तु न स्यात् । कृपू ७६२ सामर्थ्ये ।

२३५० । कृपो रो लः । (८-२-१८)

कृप उः रः लः इति छेदः । 'कृप इति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेर्ॠकारस्यावयवो यो रो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चक्लृपे । चक्लृपिषे-चक्लृप्से । इत्यादि स्यन्दिवत् ।

२३५१ । लुटि च क्लृपः । (१-३-८३)


आह । अप्राणिष्विति । पर्युदासादिति ॥ प्राणिकर्तृकस्य नेति न प्रतिषेध येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्व न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवञ्च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वानपायादिह षत्व निर्बाधमिति भाव । कृपू सामर्थ्ये इति ॥ सामर्थ्यङ्कार्यक्षमीभवनम् । ऊदित्त्वाद्वेट्ऽकोयम् । ॠदुपध । तडि प्रथमपुरुषैकवचनस्य टेरेत्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते । कृपो रो लः ॥ कृप इति लुप्तविभक्तिकम् । षष्ठ्येकवचने उ इति ॠकारस्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । र इति षष्ठ्यन्तम् । कृपोर् र इति स्थिते 'रो रि' इति रेफलोपे कृपोर इति भवति । ल इति प्रथमान्तम् । अकार उच्चारणार्थ । तदाह । कृप उः रः लः इति छेदः इति ॥ एतच्च ॠलृक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह । कृप इति लुप्तपष्ठीकमिति ॥ पकारादकार उच्चारणार्थ । कृप्धातोरिति लभ्यते । तच्चावर्तते इति ॥ कृपः रः लः इति पदत्रयमावर्तते इत्यर्थः । तथाच । वाक्यद्वय सम्पद्यते । कृपः रः लः इत्येक वाक्यम् । तदाह । कृपो यो रेफस्तस्य लः स्यादिति ॥ तथाच कल्पते इति भवति । कृप उ र ल इति द्वितीय वाक्यम् । तत्र कृपेत्यवयवषष्ठ्यन्तम् । उरित्यत्रान्वेति । उरित्यवयवषष्ठ्यन्त रेफे अन्वेति । तथाच कृप्धातोरवयव य ॠकारः । तस्य यो रेफः तस्य लकारस्स्यादिति लभ्यते । तत्र ॠकारावयवत्व रेफस्य न सम्भवतीति रेफशब्दो रेफसदृशे ॠकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे लृकारांशे लाक्षणिकः । तदाह । कृपेर्ॠकारस्यावयव इत्यादिना ॥ एवञ्च लिटि चकृप् ए इति स्थिते कित्त्वाद्गुणाभावे ॠकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लृपे इति रूपम् । कृपः रः लः इति छेदमभ्युपगम्य कृपधातोः रेफस्य लकार इति व्याख्याने तु चक्लृपे इति न सिध्द्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह । कल्पते । चक्लृपे इति ॥ ऊदित्त्वादिड्विकल्प मत्वा आह । चक्लृपिषे, चक्लृप्से इति । स्यन्दिवदिति ॥ चक्लृपाथे चक्लृपिध्वे चक्लृप्ध्वे । चक्लृपे चक्लृपिवहे चक्लृप्वहे चक्लृपिमहे चक्लृप्महे । लुटि च क्लृपः ॥ चकारात् 'वृभ्द्यः स्यसनो' इत्यतः स्यसनोरित्यनुकृष्यते । 'शेषात्कर्तरि'
११८
[भ्वादि
सिध्दान्तकौमुदीसहिता

लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ।

२३५२ । तासि च क्लृपः । (७-२-३०)

क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट-क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट-अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत-अकल्प्स्यत । वृत् । वृत्तः सम्पूर्णो द्युतादिर्वृतादिश्चेत्यर्थः ।

अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । घट ७६३ चेष्टायाम् । घटते । जघटे । 'घटादयो मितः' इति वक्ष्यमाणेन मित्संज्ञा । तत्फलन्तु णौ 'मितां ह्रस्वः' (सू १५६८) इति 'चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (सू २७६२)


इत्यतः परस्मैपदमिति । 'वा क्यष' इत्यतो वेति च । तदाह । लुटि स्यसनोरित्यादिना ॥ तासि च ॥ चकारात्सकाराद्यार्धधातुक गृह्यते । 'सेऽसिचि कृत' इत्यत से इति 'आर्धधातुकस्य' इत्यतः आर्धधातुकस्येडिति चानुवर्त्तते । 'न वृभ्द्यश्चतुर्भ्यः' इत्यतो नेति च । गमेरिडित्यतः परस्मैपदमिति च । तदाह । क्लृपेः परस्येत्यादिना । कल्प्तासीति ॥ 'लुटि च क्लृप' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पम्बाधित्वा 'तासि च क्लृप' इति इण्निषेधे गुणे रपरत्वे लत्वे रूपम् । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्प मत्वा आह । कल्पितासे, कल्प्तासे इति ॥ लृटि तु 'लुटि च क्लृपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पम्बाधित्वा 'तासि च क्लृपः' इति इण्निषेध मत्वा आह । कल्प्स्यतीति ॥ परस्मैपदाभावे तु ऊदित्त्वादिड्विकल्प मत्वा आह । कल्पिष्यते इति ॥ कल्पताम् । अकल्पत । कल्पेत । आशीर्लिडि ऊदिल्लक्षणमिड्विकल्प मत्वा आह । कल्पिषीष्टेति । क्लृप्सीष्टेति च ॥ इडभावे 'लिड्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । अक्लृपदिति ॥ 'द्युभ्द्यो लुडि' इति परस्मैपदपक्षे द्युतादिलक्षणे अडि सति डित्वान्न गुणः । अडभावे तु ऊदिल्लक्षणमिड्विकल्प मत्वा आह । अकल्पिष्टेति, अक्लृप्तेति च । अकल्प्स्यदिति ॥ लृडि स्ये 'लुटि च क्लृपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्प बाधित्वा 'तासि च क्लृपः' इति इण्निषेध इति भावः । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्प मत्वा आह । अकल्पिष्यत, अकल्प्स्यतेति । वृदिति ॥ वृतेः समाप्त्यर्थकात् कर्तरि क्विप् । तदाह । वृत्तः इति ॥ 'गत्यर्थाकर्मक' इति कर्तरि क्तः । वृत्तशब्दस्य विवरण सम्पूर्णः इति ॥ द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ताः इति ॥ 'ञि त्वरा सम्भ्रमे' इत्यन्ता इत्यर्थः । षितश्चेति ॥ षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा । 'ञि त्वरा सम्भ्रमे' इत्युक्त्वा 'घटादयः षित' इति वक्ष्यमाणत्वादिति भावः । षित्फलन्तु स्त्रियामित्यधिकारे 'षिद्भिदादिभ्यः' इत्यड् । घटा व्यथा, इत्यादि रूपम् । घटते इति ॥ चेष्टते इत्यर्थः । तत्फलन्त्विति ॥ मित्त्वफलन्तु 'मितां ह्रस्वः' इति णौ ह्रस्वः । 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते । धातुपाठे अर्थनिर्देशः उपलक्षणमि
प्रकरणम्]
११९
बालमनोरमा ।

इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' 'प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि । शृणु । 'घट सङ्घाते' इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् 'नान्ये मितोऽहेतौ' इति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । व्यथ ७६४ भयसञ्चलनयोः । व्यथते ।


त्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटधातोर्घटादिकार्यम्भवत्येव । तदाह । घटयति । विघटयतीति ॥ सश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति, चिण्युदाहरणम् । घाट घाटम् । घटं घटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् । 'नित्यवीप्सयोः' इति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घट धातोर्मित्त्वन्तदा उद्घाटन प्रविघाटयितेत्यत्र विकसनार्थकस्यापि घट धातोर्णौ मित्त्वाध्द्रस्व स्यादित्याक्षिपति । कथन्तर्हीति । शृण्विति ॥ समाधानमिति शेषः । चौरादिकस्येति ॥ चुरादौ 'घट सङ्घाते' इति पठितम् । तदिदङ्घाटादिकात् घटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाभावात् । ह्रस्वाभावे उद्घाटन प्रविघाटयितेति निर्बाधमेव । अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसम्भवादिति भाव । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानान्धातूनामिह घटादिगणे पाठ. घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव नतु धातुभेदः । अन्यथा घटादिकत्व गणान्तरस्थत्व चादाय मित्त्वतदभावयोर्विकल्पापत्ते । ये तु धातवो घटादिगण एव पूर्व पठिताः नतु गणान्तरे तेषान्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु घट सङ्घाते इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवञ्च विघटयति इत्यादावर्थान्तरवृत्तौ ण्यन्तस्य मित्त्वमित्याशङ्क्य निराकरोति । नचेति ॥ तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह । नान्ये मितोऽहेताविति ॥ चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' । 'चिञ् चयने' इति पञ्च धातून् पठित्वा 'नाऽन्ये मितोऽहेतौ' इति पठितम् । तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति । तथाच पञ्चत्वस्य न विरोध । एषु पञ्चस्वपि मिदित्यनुवर्तते । अहेताविति च्छेदः । कस्मादन्ये इत्यपेक्षाया सन्निहितत्वात् ज्ञपादिपञ्चभ्य इति लभ्यते । हेतुशब्देन 'हेतुमति च' इति सूत्रविहितो णिच् लभ्यते । तद्भिन्नो णिच् स्वार्थिक अहेतुः तदाह । अहेतौ स्वार्थे णिचीति ॥ ज्ञपः आदिर्येषामिति अतद्गुणसविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येव षड्भ्योऽन्ये ये चुरादयः ते मितो नेति फलितम् । एवञ्च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावात् 'घट चेष्टायाम्' इति निर्देशश्चौरादिकस्य 'घट सङ्घाते' इत्यस्य चेष्टाया वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते ।
१२०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३५३ । व्यथो लिटि । (७-३-६८)

व्यथोऽभ्यासस्य सम्प्रसारणं स्याल्लिटि । हलादिशेषापवादः । थस्य हलादिशेषेण निवृत्तिः । विव्यथे । प्रथ ७६५ प्रख्याने । पप्रथे । प्रस ७६६ विस्तारे । पप्रसे । मृद ७६७ मर्दने । स्खद ७३८ स्खदने । स्खदनं विद्रावणम् । क्षजि ७३९ गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि 'चिण्णमुलो:-' (सू २७६२) इति दीर्घविकल्पः । अक्षञ्जि-अक्षाञ्जि । क्षञ्जं क्षञ्जम् । क्षाञ्जं क्षाञ्जम् । दक्ष ७७० गतिहिसनयोः । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । क्रप ७७१ कृपायां गतौ च । कदि ७७२ क्रदि ७७३ क्लदि ७७४ वैक्लव्ये । 'वैकल्ये' इत्येके । 'त्रयोऽप्यनिदितः' इति नन्दी । 'इदितः' इति स्वामी । 'कदि क्रदी' इदितौ 'क्रद क्लद' इति चानिदिताविति मैत्रेयः । 'कदि क्रदि क्लदीनामाह्वानरोदनयोः' परस्मैपदिपूक्तानां


किन्तु इहैव घटादिगणे 'घट चेष्टायाम्' इत्यपूर्वोऽयन्धातुः तस्य चार्थान्तरवृत्तावपि मित्त्वमस्त्येवेति विघटयतीत्यादौ मित्त्वाध्द्रस्वो निर्बाधः । व्यथधातुर्द्वितीयान्तः । व्यथो लिटि ॥ 'अत्र लोपः' इत्यतः अभ्यासस्येति 'द्युतिस्वाप्योः' इत्यतः सम्प्रसारणमिति चानुवर्तते । तदाह व्यथोऽभ्यासस्येत्यादिना । हलादिशेषापवाद इति ॥ व्यथ व्यथ ए इति स्थिते हलादिशेषलभ्य यकारस्य लोपम्बाधित्वा सम्प्रसारणमित्यर्थः । तथाच यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न सम्प्रसारणम् । 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । ननु सम्प्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्नस्यादित्यत आह । थस्येति ॥ यकारलोपस्य बाधं विना सम्प्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः । मृद मर्दने इति ॥ ॠदुपधोऽयम् । मर्दते । ममृदे । क्षजिधातुरिदित् । क्षञ्जते । चक्षञ्जे । ननु घटादिगणे अस्य पाठो व्यर्थः । क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वे उपधादीर्घस्याप्रसक्त्या 'मिता ह्रस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावात् अनुपधात्वेन 'मितां ह्रस्वः' इत्यस्य प्रसक्त्यभावाच्च । अतएव अक्षञ्जि क्षञ्जक्षञ्जमित्यत्रापि 'चिण्णमुलोः' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह । मित्त्वसामर्थ्यादिति । दक्ष गतीति ॥ ननु 'दक्ष वृद्धौशीघ्रार्थे च' इत्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठ । अर्थनिर्देशस्योपलक्षणत्वादेव गति हिंसार्थकत्वस्यापि सम्भवादित्यत आह । वृद्धिशैघ्र्ययोरिति ॥ मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः । अदक्षि अदाक्षि । दक्षन्दक्षम् । दाक्षन्दाक्षम् । क्रप कृपायाङ्गताविति ॥ अदुपधोऽयम् । कृपायां गतौ वेत्यर्थः । कदि क्रदि क्लदेति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्द्यम् । तत्र इदितान्त्रयाणां
प्रकरणम्]
१२१
बालमनोरमा ।


पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च । ञि त्वरा ७७५ सम्भ्रमे । 'घटादयः षितः' (ग सू १८६) । षित्त्वादङ् कृत्सु वक्ष्यते ।

अथ फणान्ताः परस्मैपदिनः । ज्वर ७७६ रोगे । ज्वरति । जज्वार । गड ७७७ सेचने । गडति । जगाड । हेड ७७८ वेष्टने । 'हेडृ अनादरे' इत्यात्मनेपदिषु गतः । स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मद्ध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि-अहीडि । अनादरे तु हेडयति । वट ७७९ भट ७८० परिभाषणे । 'वट वेष्टने' 'भट भृतौ' इति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः । णट ७८१ नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्व पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः ।


पौनरुक्त्य परिहरति । कदि क्रदि क्लदीनामित्यादिना । ञि त्वरेति ॥ ञिरित् । 'ञीत क्त' इति प्रयोजनम् । आदित्त्वन्तु 'आदितश्च' इति निष्ठायामिण्निषेधार्थम् । वस्तुतस्तु आदित्त्व व्यर्थम् । ह्रस्वेऽप्यात्मनेपदसिद्धेः 'रुष्यमत्वरसघुषास्वनाम्' इति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति ॥ त्वरत्यन्ता इति शेषः । गणसूत्रमिदम् । तत्प्रयोजनमाह । षित्त्वादिति । वक्ष्यते इति ॥ 'षिद्भिदादिभ्योऽड्' इत्यनेनेति शेष । घटादिषु त्रयोदशानुदात्तेतो गताः । 'द्युत दीप्तौ' इत्यतः प्राक् घटादिसमाप्तिरिति वक्ष्यते । अथ फणान्ता इति ॥ फण गतावित्येतत्पर्यन्ता इत्यर्थ । ज्वर रोगे इति ॥ णौ ज्वरयति । चिणि तु अज्वरि अज्वारि । णमुलि तु ज्वर ज्वरम्, ज्वार ज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टने इति ॥ डकारादकार उच्चारणार्थः । ततश्च 'नाग्लोपिशास्वृदिताम्' इति निषेधो न भवति । स एवेति ॥ हेडृधातुरेव ॠकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्प स्यादिति भावः । नन्वात्मनेपदिन एवात्रानुवादे परस्मैपदन्न स्यादित्यत आह । परस्मैपदिभ्य इति ॥ यदित्वात्मनेपदमिष्ट तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ्येतेति भावः । हेडतीति ॥ वेष्टते इत्यर्थ । हिडयतीति ॥ वेष्टयतीत्यर्थः । 'हेतुमति' इति णिचि 'मिता ह्रस्वः' इति ह्रस्व इति भावः । अहिडि अहीडीति ॥ 'चिण्णमुलोः' इति दीर्घविकल्प । अनादरे तु हेडयतीति ॥ वेष्टनरूपार्थ एव मित्त्वान्न ह्रस्व इति भावः । 'वट परिभाषणे' इति नापूर्वो धातुरित्याह । वट वेष्टने इत्यादि । अनुवाद इति ॥ धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भाव । 'णट नृत्तौ' इत्यस्य पौनरुक्त्यमाक्षिपति । इत्थमेव पूर्वमपि पठितमिति ॥ टवर्गान्तेष्विति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्य सम्भवान्नपौनरुक्त्यमिति भावः । परिहर्तुमुपक्षिपति । तत्रायं विवेक इति ॥ तत्र तयोः धात्वोः अयं वक्ष्यमाणः विवेकः अर्थभेदः प्रत्येतव्य इत्यर्थः । पूर्वम्पठितस्येति ॥
१२२
[भ्वादि
सिध्दान्तकौमुदीसहिता

वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्तं नृत्यं चार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ 'णट नतौ' इति पठन्ति । 'गतौ' इत्यन्ये । णोपदेशपर्युदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठाद्घटादिर्णोपदेश एव । ष्टक ७८२ प्रतीघाते । स्तकति । चक ७८३ तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् । कखे ७८४ हसने । एदित्त्वान्न वृद्धिः । अकखीत् । रगे ७८५ शङ्कायाम् । लगे ७८६ सङ्गे । ह्रगे ७८७ ह्लगे ७८८ षगे ७८९ ष्टगे ७९० संवरणे । कगे ७९१ नोच्यते । 'अस्यायमर्थः' इति विशिष्य नोच्यते । क्रियासामान्यार्थवाचित्वात् । अनेकार्थत्वादित्यन्ये । अक ७९२ अग ७९३ कुटिलायां गतौ । कण ७९४ रण ७९५ गतौ । चकाण । रराण । चण ७९६ शण ७९७ श्रण ७९८ दाने च । 'शण गतौ' इत्यन्ये । श्रथ ७९९ क्नथ ८०० क्रथ ८०१ क्लथ


टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति ॥ यस्य कर्तृषु नटव्यवहार तन्नाट्य पर्वम्पठितस्य नटधातोरर्थ इत्यर्थः । किन्तन्नाट्यमित्यत आह । वाक्यार्थेति । घटादौ त्विति ॥ यस्य कर्तृषु नर्तकव्यपदेशः तत् नृत्य नृत्तञ्च घटादौ पठितस्य नटेरर्थ इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह । पदार्थेति ॥ एवञ्च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यत इति भावः । हेत्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यात् । अथ नटधातोरस्य णोपदेशपर्युदासभ्रम वारयति । णोपदेशेति ॥ अनर्द्नाटीत्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन 'नट अवस्पन्दने' इति चौरादिकस्यैव ग्रहणादय णोपदेश एवेत्यर्थः । ष्टकधातुष्षोपदेश । कृतष्टुत्वस्य निर्देशः । स्तकतीति ॥ 'धात्वादे' इति षस्य सत्वे ष्टुत्वनिवृत्तिः । चक तृप्तौ । तृप्तीति ॥ 'चक तृप्तौ प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः । एवञ्च धात्वन्तरत्वाभावान्नमित्त्वतदभावविकल्पः । ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपद स्यादित्यत आह । आत्मनेपदेष्विति । षगे ष्टगे इति ॥ षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यते इति ॥ ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कथमस्य धातुत्वमित्यत आह । अस्यायमिति ॥ क्रियाविशेषो नास्यार्थ इति भावः । ननु यदि न कोपि क्रियाविशेषोऽस्यार्थः तर्हि कथमयं धातुरित्यत आह । क्रियासामान्यार्थवाचित्वादिति ॥ धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वम्परिशेषलभ्यमिति भावः । अनेकेति ॥ कलिः कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थकत्वमिति भावः । 'श्रथ क्नथ क्रथ क्लथ' इति ॥ चत्वारोऽपि द्वितीयान्ताः । आद्यतृतीयौ रेफमध्द्यौ । द्वितीयो नकारमध्द्यः । चतुर्थस्तु लकारमध्द्यः । आद्यस्तु शकारादिः । इतरे
प्रकरणम्]
१२३
बालमनोरमा ।

८०२ हिंसार्थाः । 'जासिनिप्रहण –' (सू ६१७) इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वन्तु निपातनात्परत्वात् 'चिण्णमुलोः' (सू २७६२) इति दीर्घे चरितार्थम् । अक्रथि-अक्राथि । क्रथं क्रथम् । क्राथं क्राथम् । वन ८०३ च । हिंसायामिति शेषः । वनु च नोच्यते । 'वनु' इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपस्पृष्टस्य तु मित्त्वविकल्पो वक्ष्यते । ज्वल ८०४ दीप्तौ । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति । ह्वल ८०५ ह्मल ८०६ चलने । प्रह्वलयति । प्रह्मलयति ।


ककारादय । ननु क्रथधातोर्घटादित्वेन मित्त्वात् णौ उपधावृद्धिसम्पन्नस्य आकारस्य 'मिता ह्रस्व' इति ह्रस्वत्वे क्रथयतीति स्यात्, नतु क्राथयतीति । तत्राह । जासिनीति ॥ 'जासिनिप्रहणनाटकाथपिषा हिंसाया' इति षष्ठीविधौ णौ मित्त्वेऽपि क्राथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेव सति घटादौ क्रथधातो पाठो व्यर्थ इत्यत आह । मित्त्वं त्विति ॥ चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वय । ननु तत्रापि क्राथेति निपातनाद्वृद्धिरित्यत आह । निपातनात्परत्वादिति ॥ क्राथेति निपातनापेक्षया चिण्णमुलोरित्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्व' इत्यपि परम् । तथापि पुरस्तादपवादन्यायेन क्राथेति वृद्धिनिपातन 'मितां ह्रस्व' इत्यस्यैवाव्यवहितस्य बाधक, नतु चिण्णमुलोरित्यस्यापि । तस्य व्यवहितत्वादिति योज्यम् । अक्रथि-अक्राथीति ॥ क्रथेर्ण्यन्ताच्चिणि दीर्घविकल्प । क्रथं क्रथम् । क्राथं क्राथमिति ॥ णमुलि दीर्घविकल्प । वन चेति ॥ चकारो हिंसानुकर्षक । तदाह । हिंसायामितीति । शेष इति ॥ वन शब्दे, वन सम्भक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवाद । वनति । णौ तु वनयति । णमुल तु वन वनम् । वान वानम् । वनु च नोच्यते इति ॥ कगे नोच्यते इति वद्व्याख्येयम् । नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोऽनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽत्रानुवादात् क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह । अपूर्व एवायमिति । उदित्करणेति ॥ यदि तानादिकस्यैव अत्रानुवादः स्यात्, तर्हि तनादिगणे वनु इति कृतेन उदित्करणेनैव 'उदितो वा' इत्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनरुदित्करणमनर्थक स्यात् । अतस्तानादिकस्य नात्रानुवादः । कित्वपूर्व एवायं वनुधातुः । तथा च वनतीति परस्मैपदं शब्विकरणश्चेत्याह । तेन क्रियासामान्ये वनतीत्यादीति ॥ आदिना वनतः वनन्तीत्यादिसङ्ग्रहः । प्रवनयतीति ॥ घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाध्द्रस्वः । वक्ष्यते इति ॥ 'ग्लास्नावनुवमाञ्च' इत्यनेनेति शेषः । तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घे वानयतीत्येव भवति । ज्वल दीप्तौ । णप्रत्ययार्थमिति ॥ 'ज्वलितिकसन्तेभ्यो णः' इति णप्रत्ययार्थञ्ज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्रस्वम्प्रयोजनमाह । प्रज्वलयति इति ॥ धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति
१२४
[भ्वादि
सिध्दान्तकौमुदीसहिता

स्मृ ८०७ आद्ध्याने । चिन्तायां पठिष्यमाणस्य आद्ध्याने मित्त्वार्थोऽनुवादः । आद्ध्यानमुत्कण्ठापूर्वकं स्मरणम् । दॄ ८०८ भये । 'दॄ विदारणे' इति क्र्यादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ 'अत्स्मृदॄत्वर-'(सू २५६६) इति सूत्रे च 'दॄ' इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः । नॄ ८०९ नये । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । श्रा ८१० पाके । श्रै इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य' (प ९१) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्'


बोध्द्यम् । स्मृ आध्द्याने । चिन्तायामिति ॥ स्मृ चिन्तायामिति पठिष्यमाणस्य आव्द्याने मित्त्वार्थोऽनुवाद इत्यर्थः । चन्ताया आध्द्यानमन्यदिति दर्शयितुमाह । आध्द्यानमुत्कण्ठेति । दॄ भये इति ॥ अस्य दृणातीति रूप नतु शप् । तदाह । क्र्यादेरयं मित्त्वार्थोऽनुवाद इति ॥ भयेऽर्थे मित्त्वार्थमिति शेष । अर्थनिर्देशस्य उपलक्षणत्वात् भये वृत्तिः । तथाच क्र्यादित्वात् श्नाविकरण एवायमिति भाव । मित्त्वप्रयोजनन्दर्शयति । दृणन्तम्प्रेरयति दरयतीति ॥ भीषयतीत्यर्थः । भयादन्यत्र दारयतीति ॥ भेदयतीत्यर्थः । धात्वन्तरमेवेति ॥ नतु क्र्यादेरनुवाद इत्यर्थ । अस्मिन्मते भौवादिकत्वात् शबेवेत्याह। दरतीत्यादीति । सूत्रे चेति ॥ 'अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्' इति अत्वविधावित्यर्थः । ह्रस्वम्पठन्तीति ॥ तन्मते क्र्यादेरनुवादप्रसक्तिरेव नास्तीति भावः । तन्नेतीति ॥ यदि ह्ययङ्घटादौ ह्रस्वान्त क्र्यादौ तु दीर्घान्तो भवेत् तर्हि 'शॄदॄप्रां ह्रस्वो वा' इत्यत्र दॄग्रहणमनर्थक स्यात् । ह्रस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धेरिति भावः । नॄ नये इति ॥ नय नयनम् । क्र्यादिष्विति ॥ नॄ नये इत्येव क्र्यादिषु पठ्यते । तत्रार्थनिर्देशो न विवक्षितः । क्र्यादिषु पठिष्यमाणस्य नॄधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थ । तथाच श्नाविकरण एवायम् । नृणातेर्धात्वन्तरत्वाभावान्नमित्त्वतदभावौ । अपि तु नित्यमेव मित्त्वम् । श्रा पाके इति ॥ नन्वत्र भ्वादौ पठ्यमानः च्छ्रायतेः, उत्तरत्र अदादो पठिष्यमाणाच्च श्रातेरन्य एव यदि कश्चन स्वतन्त्रो धातुर्घटादौ । निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपम्पत्त्या लुग्विकरणस्थेन श्रापाके इत्यनेन पौनरुक्त्यमित्यत आह । श्रै इतीति ॥ अग्रे भ्वादिगणे श्रै पाके इति पठिष्यते । तस्य कृतात्वस्यानुकरणमित्यन्वयः । तथाच तस्यैव श्रैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थोऽत्रानुवादात् । शपि श्रायतीत्यादि रूपम् । एतच्च 'शृतम्पाके' इति सूत्रे भाष्यकैयटयौ. स्थितम् । एवञ्च सति सम्भवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादग्रे भ्वादौ श्रै पाके इत्यस्य पौनरुक्त्य न शङ्क्यम् । नन्वेवं सति 'श्रै पाके' इत्येवात्र कुतो न पठितमित्यत आह । श्रा इत्यादादिकस्य चेति ॥ ननु लाक्षणिकत्वात् 'श्रै पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यते इत्यत आह । लुग्विकरणेत्यादि । परि
प्रकरणम्]
१२५
बालमनोरमा ।


(प ११४) इति परिभाषाभ्याम् । श्रपयति विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः । मारणतोषणनिशामनेषु ज्ञा ८११ । 'निशामनं चाक्षुषज्ञानम्' इति माधवः । ज्ञापनमात्रम् इत्यन्ये । 'निशानेषु' इति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । 'ज्ञप मिच्च' इति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं 'विज्ञापना भर्तृषु सिद्धिमेति' इति 'तज्ज्ञापयत्याचार्यः' इति च । शृणु । माधवमते अचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु 'ज्ञा नियोगे' इति चौरादिकस्य । धातूनामनेकार्थत्वात् ।


भाषाभ्यामित्यन्तम् ॥ परिभाषाभ्यामुभयोरनुकरणमित्यन्वय । श्रपयतीति ॥ श्रै धातोर्णिचि 'आदेच उपदेशे' इत्यात्वे 'अर्तिह्री' इति पुकि मिता ह्रस्व. । श्रा धातोस्तु स्वत एवाऽऽदन्तत्वाण्णिचि पुकि ह्रस्व । पाकादन्यत्रेति ॥ अर्थनिर्देशस्योपलक्षणत्वादिति भावः 'स्वरति सूति सूयति' इति सूत्रे सू इति पठितेऽपि द्वयोर्ग्रहणे सिद्धे सूतिसूयत्यो पृथग्ग्रहण 'लुग्विकरण' इति परिभाषा ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेत्युक्तमेव । मारणेति ॥ मारणे तोषणे निशामने च ज्ञा धातुर्वर्तत इत्यर्थ । अक्षतस्य मारणे सम्पूर्वकस्यैव ज्ञाधातोः प्रयोगः । चाक्षुषज्ञानमिति ॥ निपूर्वकात् 'शम आलोचने' इत्यस्मात् चौरादिकण्यन्तात् ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति ॥ उपसर्गवशादिह ज्ञापने वृत्तिः । चाक्षुषत्वञ्च ज्ञानस्य न विवक्षितमिति भाव । निशानेष्वितीति ॥ 'मारणतोषणनिशानेषु ज्ञा' इति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपि 'ज्ञाजनोर्जा' इति जादेशे जाति जात इत्यादि स्यादित्यत आह । एष्वेवेति ॥ ज्ञा अवबोधने इति श्नाविकरणस्यैव मारणादिष्वर्थेषु णौ मित्त्वार्थमिहानुवादात् श्नाविकरण एवायमिति भावः । जानाते मित्त्वफलन्तु णौ ह्रस्वः । पशु संज्ञपयति अक्षत मारयतीत्यर्थ । हरि ज्ञपयति । सन्तोषयतीत्यर्थः । रूप ज्ञपयति माधवमते दर्शयतीत्यर्थ । मतान्तरे तु बोधयतीत्यर्थ । शर ज्ञपयति तीक्ष्णीकरोतीत्यर्थ. । ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथ मित्त्वम् । तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह । ज्ञप मिच्चेति चुरादाविति ॥ एवञ्च चौरादिक ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्रस्वस्सङ्गच्छते इति भाव । ननु चौरादिकस्यापि ज्ञपेर्मारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु । तत्रार्थान्तरनिर्देशाभावात् । तथाच माधवमते कथं बोधनेऽर्थे मित्त्वमित्यत आह । ज्ञापनं मारणादिकञ्च तस्यार्थ इति ॥ ज्ञापन मारण तोषण निशामनञ्च तस्य चौरादिकस्य ज्ञपधातोरर्थो माधवमते इत्यर्थः । कथमिति ॥ ज्ञाधातोर्ज्ञपधातोश्च णौ मित्त्वाध्द्रस्वप्रसङ्गादिति भावः । शृण्विति ॥ उत्तरमिति शेषः । मित्त्वाभावादिति ॥ ह्रस्वो नेति शेषः । विज्ञापनेत्यत्र तत् ज्ञापयतीत्यत्र च अचाक्षुषमेवाऽऽत्मज्ञान विवक्षितमिति भावः । ननु ज्ञापनमात्रे मित्त्वमिति मते विज्ञापनेत्यत्र तत् ज्ञापयतीत्यत्र च मित्त्व दुर्वारमित्यत आह । ज्ञापनमात्रे इति । चौरादिकस्येति ॥
१२६
[भ्वादि
सिध्दान्तकौमुदीसहिता

निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः । कम्पने चलिः ८१२ । चल कम्पने इति ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । 'हरतीत्यर्थः' इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । छदिर् ८१३ ऊर्जने । 'छद अपवारणे' इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्के छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति प्राणीभवति अपवारयति वेत्यर्थः । जिह्वोन्मथने लडिः ८१४ । 'लड विलासे' इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं क्षोभणम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् ।


विज्ञापनेति, ज्ञापयतीति च रूपमिति शेष । 'नान्ये मितोऽहेतौ' इति निषेधान्न तस्य मित्त्वमिति भावः । ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह । धातूनामिति । न कापीति ॥ विज्ञापनेत्यत्र ज्ञापयतीत्यत्र च ज्ञापनार्थवृत्तित्वात् ज्ञापनस्य च मारणतोषणतीक्ष्णीकरणान्यत्त्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवञ्च माधवमते बोधने ज्ञाधातो ज्ञापयतीत्युपधादीर्घः । ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि सान्विति स्थितम् । कम्पने चलिरिति ॥ इका निर्देशोऽयम् । 'चलधातु कम्पने' मिदित्यर्थ । ज्वलादिरिति ॥ तस्य चलेः कम्पने मित्वार्थोऽत्रानुवाद इति भावः । शीलञ्चालयतीति ॥ अत्र कम्पनार्थकत्वाभावान्न मित्त्वमिति भाव । तदाह । अन्यथा करोतीत्यर्थ इति ॥ धातूनामनेकार्थत्वादिति भावः । छदिर् ऊर्जने इति ॥ इका निर्देशोऽयम् 'छद धातुरूर्जने' मिदित्यर्थः । ऊर्जन बलवत्करण प्राणन वा । ऊर्ज बलप्राणनयोरित्युक्ते । अन्यत्र पठितस्यात्रार्थविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयञ्चुराद्यन्तर्गणे युजादौ पठितः । तस्यात्रानुवादो व्यर्थ । नान्ये मितोऽहेताविति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह । छद अपवारणे इति ॥ चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृपाद्वा' इति स्वार्थिकणिजभावपक्षे ऊर्जनेऽथे मित्त्वार्थोऽनुवाद इत्यर्थः । स्वार्थिकाणिचि सत्येव नान्ये मित इति निषेधप्रवृत्तेरिति भावः । नन्वपवारणार्थकस्य छदे कथमूर्जने वृत्तिरित्यत आह । अनेकार्थत्वादिति ॥ ननु स्वार्थणिजभावे सति मित्त्वङ्किमर्थमित्यत आह । छदन्तं प्रयुङ्क्ते छदयतीति ॥ अत्र हतुमण्णिचि ह्रस्वः । नान्ये मित इति निषेधस्य हेतुमण्णिचि निषेधः स्यादिति भावः । अन्यत्रेति ॥ ऊर्जनादन्यत्र अपवारणे इत्यर्थः । स्वार्थे णिचि त्विति ॥ 'नान्ये मित' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति ॥ इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति ॥ 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवञ्च धातुभेदाभावात् सर्वथैव मित्त्वकार्यम्फलति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति
प्रकरणम्]
१२७
बालमनोरमा ।

तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् । मदी ८१५ हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति हर्षयति ग्लेपयति वेत्यर्थः । अन्यत्र मादयति चित्तविकारमुत्पादयतीत्यर्थः । ध्वन ८१६ शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोज: 'दलिवलिस्खलिराणिध्वनित्रपिक्षपयश्च' इति पपाठ । तत्र 'ध्वनिरणी' उदाहृतौ । 'दल विशरणे' । 'वल संवरणे' 'स्खल सञ्चलने' 'त्रपूष् लज्जायाम्' इति गताः । तेषां णौ दलयति । वलयति । स्खलयति । त्रपयति । 'क्षौ क्षये' इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देशः । क्षपयति । स्वन ८१७ अवतंसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । 'घटादयो


जिह्वामिति ॥ रसना रसान् ज्ञापयतीत्यर्थः । 'गतिबुद्धि' इति द्विकर्मकोऽयम् । लडयति जिह्वयेति ॥ देवदत्तो रसान् जानाति तज्जिह्वया ज्ञापयतीत्यर्थः । तव्द्यापार इति ॥ शब्दप्रयोगादिजिह्वाव्यापार इत्यर्थः । समाहारेति ॥ जिह्वाच उन्मथनञ्चेति समाहारद्वन्द्व । जिह्वाव्यापारे उदाहरति । लडयति शत्रुमिति ॥ गेहे शूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः । उन्मथन लोडन इत्यभिप्रेत्योदाहरति । लडयति दधीति ॥ विलोडयतीत्यर्थः । अन्यत्रेति ॥ जिह्वोन्मथनादन्यत्रेत्यर्थ । लाडयति पुत्रमिति ॥ क्रीडयतीत्यर्थः । ग्लेपनन्दैन्यमिति ॥ दीनीभवनमित्यर्थः । ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह । दैवादिकस्येति ॥ तथाच श्यन्विकरण एवायमिति भाव । ध्वन शब्दे इति ॥ पूर्वमनुनासिकान्तेषु अणरणेत्यत्र 'ध्वणधातुर्मूर्धन्यान्त पठितः । अयन्तु दन्त्यान्त इति भेदः । भावीति ॥ ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति ॥ शब्दायमानाङ्करोतीत्यर्थः । अन्यत्रेति ॥ अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः । अत्रेति ॥ घटादावित्यर्थः । तत्रेति ॥ दलिवल्यादिष्वित्यर्थः । उदाहृताविति ॥ घटादाविति शेष । तत्र ध्वनिरनुपदमेवोदाहृत. । कणिस्तु कणरणगतावित्यत्रेति बोध्द्यम् । भोजमते प्रागनयो पाठो नेति न पौनरुक्त्यम् । गता इति ॥ भ्वादौ पठिता इत्यर्थः । इह मित्त्वार्थमनूद्यन्त इति शेष । धात्वन्तरत्वे मित्त्वतदभावौ स्यातामिति भाव । ननु क्षपेरत्र पाठान्मित्त्वे णौ ह्रस्वे क्षपयतीति वक्ष्यति । अस्त्वेवम् । तथापि क्षै क्षये इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात् । क्षै धातोः क्षपीत्यनुवादासम्भवात् । तत्राह । क्षै इत्यादि ॥ णौ आत्वे पुकि मित्त्वाद्ध्रस्वे सति क्षपीति क्षै इत्यस्यानुवादसम्भव इति भाव । स्वन अवतंसने इति ॥ अवतंसन अलङ्कृतिः । पठिष्यमाणस्येति ॥ घटादिगणादूर्ध्वं स्वनशब्दे
१२८
[भ्वादि
सिध्दान्तकौमुदीसहिता

मितः' (ग सू १८७) मित्संज्ञका इत्यर्थः । 'जनीजॄष्न्कसुरञ्जोऽमन्ताश्च' (ग सू १८८) 'मितः' इत्यनुवर्तते । 'जॄष्' इति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु 'जनी जॄ ष्णसु-' इति पठित्वा 'ष्णसु निरसने' इति दैवादिकमुदाहरन्ति । 'ज्वलह्वलह्मलनमामनुपसर्गाद्वा' (ग सू १८९) एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति-ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति उन्नामयतीति । घञन्तात् 'तत्करोति-' इति णौ । कथं संक्रामयतीति । 'मितां ह्रस्वः' (सू २५६८) इति सूत्रे 'वा चित्तविरागे' (सू २६०५) इत्यतो 'वा' इत्यनुवर्त्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत् । एतेन 'रजो विश्रामयन् राज्ञां' 'धुर्यान्विश्रामयेति


इति पठिष्यमाणस्य स्वनेरवतसनेऽर्थे णौ मित्त्वार्थोऽत्रानुवाद इत्यर्थ । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । स्वनयतीति ॥ भूषयतीत्यर्थः । अन्यत्रेति ॥ अवतसनादन्यत्र शब्देऽर्थे णौ मित्त्वाभावान्न ह्रस्व इति भाव । घटादयो मित इति ॥ गणसूत्रम् । ननु घटादिषु मकारानुबन्धादर्शनात्कथ मितस्ते स्युरित्यत आह । मित्संज्ञका इति ॥ मित्कार्यभाज इत्यर्थः । जनीजॄषिति ॥ गणसूत्रम् । जनी जॄष क्नसु रञ्ज एषान्द्वन्द्वात्प्रथमाबहुवचनम् । अम् अन्ते येषान्ते अमन्ताः । क्रमिगम्यादय. । एते अघटादित्वेऽपि मित इत्यर्थः । जीर्यतेरिति ॥ 'जॄष् वयोहानौ' इति श्यन्विकरणस्येत्यर्थः । जृणातेस्त्विति ॥ 'जॄ वयोहानौ' इति श्नाविकरणस्य षित्त्वाभावेनात्र ग्रहणाभावान्न मित्त्वमिति भावः । उदाहरन्तीति ॥ तन्मते जृणातेरपि मित्त्वमिति भावः । ज्वलह्वल ॥ इत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति ॥ ज्वलह्वलह्मलाङ्घटादित्वान्नमेर्मान्तत्वाच्च मित्त्वस्य प्राप्तेरिति भावः । उपसृष्टे त्विति ॥ सोपसर्गे त्वित्यर्थ । कथं तर्हीति ॥ अनुपसर्गादिति विशेषणे सति ज्वलेर्नमेश्च णौ मित्त्वविकल्पाभावाज्जनीजॄषिति मित्त्वाध्द्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते । घञन्तादिति । तत्करोतीति ॥ णावित्यनन्तर समाधेयमिति शेषः । प्रज्वलन प्रज्वालः । उन्नमनम् उन्नाम । भावे घञ् । उपधावृद्धिः । प्रज्वालङ्करोतीति उन्नामङ्करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचि 'णाविष्ठवत्' इति इष्ठवत्त्वात् टिलोपे सति तस्य स्थानिवत्त्वात् मित्त्वप्रयुक्तह्रस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपे इति भाव । ननु सम्पूर्वात् क्रमेर्णौ सङ्क्रामयतीति रूपमिष्यते । तत्र अमन्तत्वे मित्त्वाध्द्रस्वप्रसङ्गः । नच क्रमणङ्क्राम इति घञन्तात्तत्करोतीति णावुक्तरीत्या ह्रस्वाभाव इति समाधान सम्भवति । क्रमेर्घञिहि 'नोदात्तोपददेशस्य' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति । नतु क्राम इति कृत्वा उक्तसमाधानासम्भवादित्यभिप्रेत्याक्षिपति । कथमिति ॥ समाधत्ते । मितामिति ॥ 'मितां ह्रस्वः' इति सूत्रे वेत्यनुवर्त्य मित्त्वाभावे सक्रामयतीति रूपमित्यन्वयः । ननु कदाचिध्द्रस्वो दुर्वार इत्यत आह । व्यवस्थितेति ॥ तथाचात्र ह्रस्वाभाव एवाश्रीयत इति
प्रकरणम्]
१२९
बालमनोरमा ।

सः' इत्यादि व्याख्यातम् । 'ग्लास्नावनुवमां च' (ग सू १९०) । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । 'न कम्यमिचमाम्' (ग सू १९१) । अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् । कामयते । आमयति । चामयति । शमो ८१८ दर्शने (ग सू १९२) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु 'प्रणयिनो निशमय्य वधूकथाः' कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्नदतो मम' इति । 'शम आलोचने' इति चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः । शाम्यतिवत् । यमो ८१९ ऽपरिवेषणे (ग सू १९३) । यच्छतिर्भोजनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजय-


भात् । वृत्तिकृदिति ॥ भाष्ये तु नैतद्दृश्यत इति भावः । एतेनेति ॥ व्यवस्थितविभाषाश्रयणेनेत्यर्थ. । 'ग्लास्नावनुवमाञ्च' इत्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति मित इति वेति चानुवर्तते । फलितमाह । अनुपसर्गादिति । आद्ययोरिति ॥ ग्लास्ना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे इतरयोर्वनुवमो प्राप्ते मित्त्वे विभाषेत्यर्थः । तत्र 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्द्यम् । 'न कम्यमिचमाम्' इति शमो दर्शने इति च गणसूत्रम् । दर्शन चाक्षुषज्ञानम् । 'शम उपशमे' इति दैवादिक श्यन्विकरण एवात्र गृह्यते । नतु 'शम आलोचने' इति चौरादिक । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् । तदाह । शाम्यतिरिति । निशामयति रूपमिति ॥ पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थकत्वात् दर्शने वृत्तिः । अन्यत्रेति ॥ दर्शनादन्यत्रेत्यर्थः । निशमय्येति ॥ श्रावयित्वेत्यर्थः । शमेर्ण्यन्तात् क्त्वो ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । कथमिति ॥ तर्हि दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति शृणु इत्यर्थे मित्त्वाध्द्रस्वप्रसङ्गान्निशामयेति कथमित्याक्षेपः । समाधत्ते । शम आलोचने इति चौरादिकस्येति ॥ निशामयेति रूपमिति शेषः । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् नह्रस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह । धातूनामिति । शाम्यतिवदिति ॥ श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः । 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनम्परिवेषणम् । तदाह । भोजनतोऽन्यत्रेति ॥ भुक्तयनुकूलपरिवेषणादन्यत्रेत्यर्थः । 'यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः सम्भवति । तत्र अपरिवेषणे वृत्तौ मित्त्वन्नेत्यर्थः । आायामयतीति ॥ अत्रापरिवेषणे वृत्तेर्नमित्त्वमिति भावः । तदाह । द्राघयतीति ॥ दीर्घीकरोतीत्यर्थः । व्यापारयतीति ॥ प्रवर्तयतीत्यर्थः । यमयति ब्राह्मणानिति ॥ परिवेषणार्थकत्वान्मित्त्वमिति भावः । तदाह । भोजयतीति ॥ भुञ्जते ब्राह्मणाः तान्परिवेषणेन प्रवर्तयतीत्यर्थः । ननु पर्यवसित नियमयन्नित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं
१३०
[भ्वादि
सिध्दान्तकौमुदीसहिता

तीत्यर्थः । 'पर्यवसितं नियमयन्' इत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बोद्ध्यम् । 'स्खदिर् ८२० अवपरिभ्यां च' (ग सू १९४) । मिन्नेत्येव । अवस्खादयति । परिस्खादयति । 'अपावपरिभ्यः' इति न्यासकारः । स्वामी तु 'न कमि—' इति नञमुत्तरत्रिसूत्र्यामननुवर्त्य 'शमः अदर्शने' इति चिच्छेद । यमस्तु 'अपरिवेषणे' मित्त्वमाह । तन्मते 'पर्यवसितं नियमयन्' इत्यादि सम्यगेव । 'उपसृष्टस्य स्खदेश्वेदवादिपूर्वस्य' इति नियमात्प्रस्खादयतीत्याह । तस्मात्सूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदञ्च


ह्रस्व इत्यत आह । पर्यवसितमित्यादि ॥ नियमनन्नियमः । 'यमः समुपनिविषु च' इति भावे कप्रत्ययः । तस्मान्मतुप् । नियमवच्छब्दात्तत्करोतीति णिचि 'विन्मतोर्लुक्' इति मतुपो लुकि ण्यन्ताल्लटश्शतरि गुणायादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो ञ्णिति' इति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकात् अर्श आद्यजन्तात् नियमशब्दात् 'तत्करोति' इति णिचि इष्ठवत्त्वाट्टिलोपे तस्य स्थानिवत्त्वादुपधावृध्द्यभावे नियमयन्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । 'स्खदिरवपरिभ्याञ्च' इत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । अव परि आभ्याम्पर. स्खदधातुर्मिन्नेत्यर्थः । 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्खादयतीति ॥ अषोपदेशत्वेन आदेश सकारत्वाभावान्न ष इति भावः । अपावेति ॥ 'स्खदिरपावपरिभ्यः' इति न्यासकारः । पपाठेत्यर्थः । तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान्न ह्रस्वः । स्वामी त्विति ॥ 'न कम्यमिचमाम्' इत्यत्र श्रुत. नञ् 'शमो दर्शने' 'यमोऽपरिवेषणे' 'स्खदिरवपरिभ्याञ्च' इति त्रिषु सूत्रेषु नानुवर्तते । शमः अदर्शने इति च्छेद. । शमधातुः अदर्शने मित्स्यादित्यर्थः । अमन्तत्वादेव सिद्धे नियमार्थमिदम् । अदर्शन एव शमधातुर्मित्स्यात् नतु दर्शने इति स्वामिमतम् । इदञ्च पर्यवसानगत्या पूर्वमतान्नातिरिच्यते । यमस्त्विति ॥ यमधातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः । अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्मित् नतु परिवेषण इति फलति । एवञ्च द्राघयति व्यापारयति वेत्यर्थे मित्त्वाध्द्रस्वे आयमयतीत्येव रूपम् । परिवेषणे तु मित्त्वाभावाध्द्रस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्वमताद्विपरीतम्फलति । एवञ्च पर्यवसितन्नियमयन्नित्यत्र यमेरपरिवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्वाधः । तदाह । तन्मते इति ॥ स्खदेर्घटादित्वादेव मित्त्वसिद्धेः स्खदिरवपरिभ्याञ्चेति सूत्रमपि नियमार्थम् । सोपसर्गस्य चेत् स्खदेर्मित्त्व तर्हि अवपारिभ्यां परस्यैव मित्त्व न तूपसर्गान्तरादिति । एवञ्च प्रस्खादयतीत्यत्र मित्त्वाभावान्न ह्रस्वः । अवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वाध्द्रस्व इति फलति । तदाह । उपस्पृष्टस्येति ॥ सोपसर्गस्येत्यर्थः । पूर्वमते तु अवपरिभ्याम्परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाध्द्रस्व इति विपरीतम् । तस्मादिति ॥ यमोऽपरि
प्रकरणम्]
१३१
बालमनोरमा ।

मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । फण ८२१ गतौ । 'न' इति निवृत्तमसम्भवात् । निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् ।

२३५४ । फणां च सप्तानाम् । (६-४-१२५)

एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । पफणतुः । पफणुः । फेणिथ । पफणिथ । फणयति । 'वृत्' घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव । राजृ ८२२ दीप्तौ । 'स्वरितेत्' । राजति-राजते । रेजतुः-रराजतुः । रेजे-रराजे । 'अतः' इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्त्वम् । टु भ्राजृ ८२३ टु भ्राशृ ८२४ टु भ्लाशृ ८२५ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चा-


वेषणे । स्खदिरवपरिभ्याञ्चेति सूत्रद्वये उक्तरीत्या मित्त्वनियमविध्द्याश्रयणादुदाहरणप्रत्युदाहरणयोरुत्क्तरीत्या व्यत्यास. फलित इत्यर्थः । उपेक्ष्यमिति ॥ 'न पादमाड्' इति सूत्रव्याख्यावसरे यमोऽपरिवेषणे इति मित्त्वम्प्रतिषिध्द्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केचित्तु स्वामिमते पर्यवसितन्नियमयन्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति ॥ ननु घटादित्वेऽपि नाय मित् । इत प्राक् 'स्वन अवतसने' इति उत्तरमेव घटादयो मित इत्युक्तेः । तत्राह । न इति निवृत्तमसम्भवादिति ॥ प्राप्ति विना मित्त्वस्य निषेधासम्भवादिह नेति नानुवर्तते किन्तु मिदित्येवानुवर्तत इत्यर्थः । ननु फण गतावित्यत्र मिन्नेति यदि नानुवर्तते तर्हि 'न कम्यमिचमाम्' इति निषेधकाण्डात् प्रागेवायङ्कुतो न पठित । तदाह । निषेधात्पूर्वमसौ न पठित इति ॥ कुत इत्यत आह । फणादिकार्यानुरोधादिति ॥ निषेधकाण्डात्प्रागेव फणे पाठे कम्यमिचमीनामपि फणादिष्वन्तर्भाव स्यादिति भाव । फणाञ्च ॥ 'अत एकहल्मध्द्ये' इत्यतो लिटीति 'थलिच सेटि' इति चानुवर्तते । 'ध्वसो' इत्यतः एदिति, गमहनेत्यतः कितीति 'वा जॄभ्रमुत्रसाम्' इत्यतो वेति च । तदाह । एषामिति ॥ फणादीनामित्यर्थः । फणामिति बहुवचनात् तदादिलाभः । 'फण गतौ' इत्यत्र मिदित्येवानुवर्तते नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह । फणयतीति । वृदिति ॥ कर्तरि क्विबन्तम् । वृतुधातुरिह समाप्त्यर्थकः । तदाह । घटादिः समाप्त इति । फणेः प्रागेवेति ॥ एवं सति फणेरघटादित्वान्न मित्त्वमिति भावः । तदाह । तन्मते फणयतीत्येवेति ॥ इति घटादय. । राजृ दीप्ताविति ॥ इत आरभ्य षण्णामेत्त्वाभ्यासलोपौ फणादित्वात्पक्षे भवत । तदाह । रेजतुरित्यादि ॥ ननु 'फणाञ्च सप्तानाम्' इत्यत्र अत इत्यनुवृत्ते कथमिह एत्त्वाभ्यासलोपावित्यत आह । अत इत्यनुवृत्तावपीति ॥ अत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्यात् राजृधातोराकारस्याप्येत्वाभ्यासलोपस्य विकल्प. स्यादेवेत्यर्थ । अत इति राजादिधातौ न सम्बध्द्यते, असम्भवादिति यावत् । टु भ्राजृ टु भ्राशृ टु भ्लाशृ दीप्ताविति ॥ टुरित् । ट्वितोऽथुजित्येतदर्थः । अनुदात्तेत इति ॥ एते त्रय इति शेषः । ननु टु भ्राजृ इत्येव सिद्धौ पूर्वञ्चवर्गान्तेष्वनुदात्तेत्सु
१३२
[भ्वादि
सिध्दान्तकौमुदीसहिता

दिपत्वाभावार्थः । तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् । भ्रेजे-बभ्राजे । 'वा भ्राश-' (२३२१) इति श्यन्वा । भ्राश्यते—भ्राशते । भ्रेशे-बभ्राशे । भ्लाशते भ्लाश्यते । भ्लेशे—बभ्लाशे । द्वावपीमौ तालव्यान्तौ । स्यमु ८२६ स्वन ८२७ ध्वन ८२८ शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः-सस्यमतुः । अस्यमीत् । स्वेनतुः-सस्वनतुः । सस्वनुः । अस्वनीत्-अस्वानीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्त इत्यर्थः । 'वेश्च स्वनः-' (सू २२७४) इति षत्वम् । फणादयो गताः । दध्वनतुः । षम ७२९ ष्टम ८३० अवैकल्ये । ससाम । तस्ताम । ज्वल ८३१ दीप्तौ 'अतो ल्रान्तस्य' (सू-२३३०) । अज्वालीत् । चल ८३२ कम्पने । जल ८३३ घातने । घातनं तैक्ष्ण्यम् । टल ८३४ ट्वल ८३५ वैक्लव्ये । ष्ठल ८३६ स्थाने । हल ८३७ विलेखने । णल ८३८ गन्धे । 'बन्धने' इत्येके । पल ८३९ गतौ । पलति । बल ८४० प्राणने, धान्यावरोधने च । बलति । बेलतुः । बेलुः । 'पुल ८४१ महत्त्वे' । पोलति । कुल ८४२ संस्त्याने बन्धुषु च । संस्त्यानं सङ्घातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । शल ८४३ हुल ८४४ पत्लृ ८४५ गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ।

२३५५ । पतः पुम् । (७-४-१९)


'एजृ भ्रेजृ भ्राजृ दीप्तौ' इति भ्राजे पाठो व्यर्थ इत्यत आह । भ्राजतेरिति । षत्वाभावार्थ इति ॥ व्रश्चभ्रस्जेति षत्वविधौ भ्राजेर्ग्रहणाभावार्थ इत्यर्थ. । ननु पूर्वं पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह । तत्र हीति ॥ षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह । भ्रेजे बभ्राजे इति । द्वावपीमाविति ॥ द्वितीयतृतीयावित्यर्थः । ननु विष्वणतीत्यत्र कथं षत्वम् । केवलदन्त्याजन्तसादत्वाभावेन अपोपदेशतया आदेशसकारत्वाभावात् । तथा अवष्वणतीत्यत्र इण्कवर्गाभ्याम्परत्वाभावान्न षत्वस्य प्रसक्तिः । सात्पदाद्योरिति निषेधाच्चेत्यत आह । वेश्च स्वन इतीति ॥ तत्र चकारेण अवाच्चेत्यपि लभ्यत इति भावः । फणादयो गता इति ॥ ध्वनतेः प्रागिति शेष । ततश्च ध्वनेर्न फणादिकार्यमिति भावः । तदाह । दध्वनतुरिति । षम ष्टमेति ॥ षोपदेशौ । तस्तामेति ॥ सत्वे सति ष्टुत्वनिवृत्तिरिति भावः । तैक्ष्ण्यमिति ॥ तीक्ष्णीभवनमित्यर्थः । टल ट्वल वैक्लब्ये इति ॥ वैक्लव्यम्भयादिजनितो व्यग्रीभाव. । णल गन्धे इति ॥ णोपदेशोऽयम् । गन्धः गन्धक्रिया । तद्व्यापार इति ॥ बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः । पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः । लुडि लृदित्त्वात् च्लेरडि कृते अपत् अ त् इति स्थिते । पतः पुम् ॥ शेषपूरणेन
प्रकरणम्]
२३३
बालमनोरमा ।

अङि परे । अपप्तत् । 'नेर्गद---' (सू २२८५) इति णत्वम् । प्रण्यपप्तत् । क्वथे ८४६ निष्पाके । क्वथति । चक्वाथ । अक्वथीत् । पथे ८४७ गतौ । अपथीत् । मथे ८४८ विलोडने । मेथतुः । अमथीत् । टु वम् ८४९ उद्गिरणे । इहैव निपातनात् ॠतः इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्वादेत्त्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतम् । तद्भाष्यादौ न दृष्टम् । भ्रमु ८५० चलने । 'वा भ्राश--' (सू २६२१) इति श्यन्वा भ्रम्यति । भ्रमति । भ्राम्यति इति तु दिवादौ वक्ष्यते ।

२३५६ । वा जॄभ्रमुत्रसाम् । (६-४-१२४)

एषामेत्त्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः-बभ्रमतुः । अभ्रमीत् । क्षर ८५१ संचलने । अक्षारीत् ।

अथ द्वावनुदात्तेतौ । षह ८५२ मर्षणे । 'परिनिविभ्यः--' (सू-२२७५) इति षत्वम् । परिषहते । सेहे । सहिता । 'तीषसह--'(सू २३४०) इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ।

२३५७ । सहिवहोरोदवर्णस्य । (६-३-११५)

अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ।


सूत्र व्याचष्टे । अङि परे इति ॥ 'ॠदृशोऽडि' इत्यत तदनुवृत्तेरिति भाव । पतेः पुम् स्यादडि परे इति फलितम् । पुमि मकार इत् उकार उच्चारणार्थ मित्त्वादन्त्यादचः पर । तदाह । अपप्तदिति । क्वथे निष्पाके इति ॥ जलक्षीरशृतादीनाम्पादभागादिशोषणपर्यन्त पाको निष्पाक । अक्वथीदिति ॥ एदित्त्वान्न वृद्धि । एव अमथीत् । टु वम् उद्गिरणे इति ॥ टुरित् । नायमुदित् । तेन 'उदितो वा' इति क्त्वायामिड्विकल्पो न । 'गॄनिगरणे' इति दीर्घान्तोऽयम् । नन्वस्माद्धातोर्ल्युटि 'ॠत इद्धातोः' इति इत्त्वम्बाधित्वा परत्वात् 'सार्वधातुक’ इति गुणे सति उद्गरण इत्येव निर्देशो युज्यत इत्यत आह । इहैवेति ॥ उद्गिरण इत्यर्थनिर्देश पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलने इति ॥ वक्रमार्गसञ्चारे इत्यर्थ । अयथार्थज्ञानेऽप्ययम् । उदितो वेति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । वा जॄभ्रमु ॥ 'अत एकहल्मध्द्ये' इत्यतो लिटि इति 'थलि च सेटि' इति चानुवर्तते । 'घ्वसोरेद्धौ' इत्यतः एदिति 'गमहनेत्यत' कितीति च । तदाह । एषामिति । अभ्रमीदिति ॥ ह्य्यन्तेति न वृद्धिः । अक्षारीदिति ॥ 'अतो ल्रान्तस्य' इति वृद्धिः । षह मर्षणे इति ॥ अपराधे सत्यपि कोपानाविष्करण मर्षणम् । इडभावे इति ॥ सह् ता इति स्थिते होढ इति ढत्व 'झषस्तथोः' इति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढ । 'ढोढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । सढा इति स्थितम् । सहिवहोः । ढलोपे इति ॥ ढ्रलोप इत्यतः तदनुवृत्तेरिति भावः । रलोप इति तु नानुवर्तते ।
१३४
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३५८ । सोढः । (८-३-११५)

सोड्रूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ।

२३५९ । सिवादीनां वाड्व्यवायेऽपि । (८-३-७१)

परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत । पर्यसहत । रमु ८५३ क्रीडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ।

अथ कसन्ताः परस्मैपदिनः । पद्लृ ८५४ विशरणगत्यवसादनेषु ।

२३६० । प्राघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां षिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः । (७-३-७८)

षादीनां षिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ--ससत्थ । सत्ता । सत्स्यति । लृदित्त्वादङ् । असदत् । 'सदिरप्रतेः' ( सू २२७१) निषीदति । न्यषीदत् ।


असम्भवात् । तथाच सकारादाकारस्य ओत्वे सोढेति रूपम् । परिसोढेत्यत्र परिनिविभ्य इति षत्वे प्राप्ते । सोढः ॥ सोढ इति सहेरोत्वसम्पन्नस्य पष्ठ्यन्तत्वम् । 'सहे: साढस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । 'न रपर' इत्यतो नेति । मूर्धन्य इत्यधिकृतम् । तदाह । सोड्रूपस्येत्यादिना । सिवादीनाम् ॥ 'परिनिविभ्यः' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह । परिनिविभ्यः परेषामिति ॥ सिबुसहसुट्स्तुस्वञ्जामिति शेष । रमु क्रीडायामिति ॥ नायमुदिदिति माधव । केचित्तु उदितं मत्वा 'उदितो वा' इति क्त्वायामिड्विकिल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह । रेमिषे इति । अथ कसन्ता इति ॥ 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । पद्लृधातुः षोपदेशः अनिट्कश्च । लटि शपि सद् अ इति स्थिते । पाघ्राध्मा ॥ पा घ्रा ध्मा स्था स्ना दाण् दृशि अर्ति सर्ति शद् सद् एषान्द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ॠच्छ धौ शीय सीद एषान्द्वन्द्वात् प्रथमाबहुवचनम् । यथासङ्ख्यमादेशाः । ष्ठिवुक्लमु इत्यतः शितीत्यनुवर्तते । शचासौ इच्चेति कर्मधारयः । अङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः । तदाह । इत्संज्ञकेति । ससादेति ॥ इत्संज्ञकशकारादिप्रत्ययाभावात् न सीदादेशः । श् इत् यस्यसः शित् शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पषे इत्यत्रापि षिबादेशः स्यादिति बोध्द्यम् । थलि

क्रादिनियमप्राप्तस्य इट 'उपदेशे अत्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे थलि च सेटीत्येत्त्वाभ्यासलोपौ । तदाह । सेदिथ, ससत्थेति ॥ सेदिव । सेदिम । क्रादिनियमादिट् । न्यषीददिति ॥ 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । निषसादेत्यत्र अभ्यासात्
प्रकरणम्]
१३५
बालमनोरमा ।

२३६१ । सदेः परस्य लिटि । (८-६-११८)

सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः । शद्लृ ८५५ शातने । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ।

२३६२ । शदेः शितः । (१-३-६०)

शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् । क्रुश ८५६ आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् । कुच ८५७ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच । बुध ८५८ अवगमने । बोधति । बोधिता । बोधिष्यति ।


परस्य 'स्थादिष्वभ्यासेन' इति षत्वे प्राप्ते । सदेः परस्य ॥ 'न रपर' इत्यत नेत्यनुवर्तते । मूर्धन्य इत्यधिकृतम् । सदेरित्यवयवषष्ठी । परशब्द उत्तरखण्डपर । सदेरुत्तरखण्डस्य षत्वन्नेति लभ्यते । फलितमाह । सदेरभ्यासात्परस्येति । शद्लृ शातने इति ॥ ननु शद्धातोरस्मात् हेतुमण्ण्यन्तात् ल्युटि 'शदेरगतौ तः' इति दकारस्य तकारे शातनशब्द । तथाच शातनं शीर्णतानुकूलक्रियेति फलति । एवञ्च सकर्मकत्वापतौ विशीर्यतीत्यर्थे शीर्यत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह । विशीर्णतायामिति ॥ विशरणे इत्यर्थ । तर्हि कथं शातनमिति हेतुमण्णिजित्यत आह । शातनन्तु विषयतयेति ॥ विपूर्वात् 'षिञ् बन्धने' इत्यस्मात् विषयशब्दः । अविनाभावेनेत्यर्थः । प्रयोजकव्यापार विना विशरणस्यासम्भवात् शातननिर्देशः । ण्यर्थस्याविवक्षितत्वात् विशरणमेव शद्लृधात्वर्थ इति यावत् । शदेः शितः ॥ 'अनुदात्तडित' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः । शिति विवक्षिते सतीत्यर्थ । तिडुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपोऽसम्भवात् । तदाह । शिद्भाविन इति ॥ शिद्भावी भविष्यन् यस्मात्स शिद्भावी तस्मादित्यर्थः । शीयते इति ॥ शपि सदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते । शीयन्ते । इत्यादि । शिद्विषयादित्युक्तेर्लिटि नात्मनेपदम् । इत्संज्ञकशकारादावित्युक्तेर्न शीयादेशः । तदाह । शशादेति ॥ अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इट. 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमात् वेट् । तदाह । शेदिथ । शशत्थेति च ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव । शेदिम । क्रादिनियमादिट् । अशददिति ॥ लृदित्त्वादडिति भावः । क्रुश धातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताकारवत्त्वाभावान्न भारद्वाजनियम. । चुक्रुशिव । चुक्रुशिम । क्रोष्टेति ॥ व्रश्चादिना शस्य षत्वे ष्टुत्वेन तकारस्य ट । च्लेः क्स इति ॥ इगुपधशलन्तत्वादिति भावः । अक्रुक्षदिति ॥ व्रश्चादिना शस्य षः । 'षढोः' इति षस्य कः । सस्य षत्वम् । कित्त्वान्न गुणः । नापि हलन्तलक्षणा वृद्धिः । कुच सम्पर्चने इति ॥ 'कुच शब्दे' इति पठितस्य पुनरिह पाठः सम्पर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देश. क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध
१३६
[भ्वादि
सिध्दान्तकौमुदीसहिता

रुह ८५९ बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् । कस ८६० गतौ । अकासीत्-अकसीत् । वृत् । ज्वलादिगणः समाप्तः ।

अथ गूहत्यन्ताः स्वरितेतः । हिक्क ८६१ अव्यक्ते शब्दे । हिक्कति--हिक्कते । अञ्चु ८६२ गतौ याचने च । अञ्चति-अञ्चते । अचु इत्यके । अचि इत्यपरे । टु याचृ ८६३ याच्ञायाम् । याचति--याचते । रेटृ ८३४ परिभाषणे । रेटति । रेटते । चते ८६५ चदे ८६६ याचने । चचात । चेते । अचतीत् । चचाद । चेदे । अचदीत् । प्रोथृ ८३७ पर्याप्तौ । पुप्रोथ । पुप्रोथे । मिदृ ८६८ मेदृ ८६९ मेधाहिंसनयोः । मिमेद । मिमेदे । 'थान्ताविमौ' इति स्वामी । मिमेथ । 'धान्तौ' इति न्यासः । मेधृ ८७० सङ्गमे च । मेधति मिमेधे । णिदृ ८७१ णेदृ ८७२ कुत्सासन्निकर्षयोः । निनेद । निनिदतुः । निनेदे । शृधु ८७३ मृधु ८७४ उन्दने । उन्दनं क्लेदनम् । शर्धति-शर्धते । शर्धीता । मर्धति-मर्धते । बुधिर् ८७५ अवबोधने । बोधति--बोधते । इरित्त्वादङ्वा । अबुधत्--अबोधीत्--अबोधिष्ट । 'दीपजन--' (सू २३२८) इति चिण्तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । उ बुन्दिर् ८७६ निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् ।


अवगमने इति ॥ सेट्कोऽयम् । अनिट्सु श्यन्विकरणस्यैव बुधेर्ग्रहणात् । तदाह । बोधितेति ॥ अबोधीत् । रुहधातुरनिट्क । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताकारवत्त्वाभावात् न भारद्वाजनियमः । रोढेति ॥ लुटि तासि ढत्व धत्व ष्टुत्व ढलोपाः । रोक्ष्यतीति ॥ लृटि स्ये ढकषा । अरुक्षदिति ॥ इगुपधशलन्तत्वात् ढकषाः । कित्त्वान्न वृद्धिगुणौ । वृदिति ॥ 'ज्वलितिकसन्तेभ्यः' इति उत्तरावधेरिति कसेर्ग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति ॥ 'गुहू सवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचतीदिति ॥ एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् अवबोधने इति ॥ 'बुध अवगमने' इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयन्तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति ॥ इरइत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येक मित्त्वाभावान्न नुम् । स्वरितेत्त्वप्रयुक्तमात्मनेपदन्तु भवत्येव । स्वरितेत्सु पाठसामर्थ्यात् । वस्तुतस्तु इकारस्य प्रत्येकमित्त्वेऽपि न नुम् । इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्विधेः । पूर्वोत्तरेति ॥ जनपूरिसाहचर्येणेत्यर्थः । उ बुन्दिरिति ॥ आद्य उकार इत् । उदितो वेति क्त्वायामिड्विकल्पार्थः । अबुददिति ॥ इरित्त्वादडि अनिदितामिति नलोपः । इर इकारस्य प्रत्येकमित्संज्ञाविरहात् ।
प्रकरणम्]
१३७
बालमनोरमा ।

अबुन्दीत् । वेणृ ८७७ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति-वेणते । नान्तोऽप्ययम् । खनु ८७८ अवदारणे । खनति-खनते ।

२३६३ । गमहनजनखनघसां लोपः क्ङित्यनङि । (६-४-९८)

एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । 'ये विभाषा' (सू २३१९) । खायात्-खन्यात् । चीवृ ८७९ आदानसंवरणयोः । चिचीव-चिचीवे । चायृ ८८० पूजानिशामनयोः । व्यय ८८१ गतौ । अव्ययीत् । दाशृ ८८२ दाने । ददाश-ददाशे । भेषृ ८८३ भये । 'गतौ' इत्येके । भेषति-भेषते । भ्रेषृ ८८४ भ्लेषृ ८८५ गतौ । अस ८८६ गतिदीप्त्यादानेषु । असति-असते । आस-आसे । अयं षान्तोऽपि । स्पश ८८७ बाधनस्पर्शनयोः । स्पर्शनं ग्रथनम् । स्पशति-स्पशते । लष ८८८ कान्तौ । 'वा भ्राश–' (सू २३२१) इति श्यन्वा । लष्यति-लषति । लेषे । चष ८८९ भक्षणे । छष ८९० हिसायाम् । चच्छषतुः । चच्छषे । झष ८९१ आदानसंवरणयोः । भ्रक्ष ८९२ भ्लक्ष ८९३ अदने । 'भक्ष' इति मैत्रेयः । दासृ ८९४ दाने । माहृ ८९५ माने । गुहू ८९६ संवरणे ।

२३६४ । ऊदुपधाया गोहः । (६-४-८९)

गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति-गूहते । ऊदित्त्वा-


अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृगतीति ॥ वाद्यभाण्डस्य वादनार्थङ्ग्रहण वादित्रग्रहणम् । खनुधातुरुदित् । क्त्वायामिड्विकल्प । गमहन । उपधाया इति ॥ 'ऊदुपधायाः' इत्यतः तदनुवृत्तेरिति भाव । अजादाविति ॥ अचि श्नुधात्वित्यत अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भाव । क्डितीत्युक्ते चखानेत्यत्र नोपधालोप. । अनडीति किम् । अगमत् । चख्ने चख्नाते इत्यादि । व्यय गताविति ॥ अयं वित्तत्यागेऽपि । अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति ॥ ह्म्यन्तेति न वृद्धिः । चष भक्षणे इति ॥ चचाष । चेषतु । छष हिंसायामिति ॥ वैरूप्यसम्पादकादेशादित्वादेत्त्वाभ्यासलोपौ न । तदाह । चच्छषतुः इति । गुहू संवरणे इति ॥ उदुपधोऽयम् । ऊदित् । ऊदुपधायाः ॥ गोह इति कृतलघूपधगुणस्य गुहेर्निर्देश । ततश्च गुणविषय एवेदम्भवति । अचि श्नुधात्वित्यतः अनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधि । तदाह । गुह उपधायाः इत्यादिना । गुणहेताविति ॥ गुणम्प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः । जुगुहुः । जुगुहे । जुगुहाते । जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्व
१३८
[भ्वादि
सिध्दान्तकौमुदीसहिता

दिड्वा । गूहिता-गोढा । गूहिष्यति-घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे क्स: । अघुक्षत् ।

२३६५ । लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । (७-३-७३)

एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । 'क्सस्याचि' (सू २३३७) इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि—अघुक्षावहि । अघुक्षामहि ।

अथाजन्ता उभयपदिनः । श्रिञ् ८९७ सेवायाम् । श्रयति-श्रयते । शिश्रियतुः । श्रयिता । 'णिश्रि–' (सू २३१२) इति चङ् । अशिश्रियत् ।


ष्टुत्वढलोपाः । जुगुहथु । जुगुह । जुगुहिषे । जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे । जुगुहिध्वे । जुघुढ्वे । जुगूह । जुगुहिव । जुगुह्व । जुगुहिम । जुगुह्म । जुगुहे । जुगुहिवहे । जुगुह्वहे । जुगुहिमहे । जुगुह्महे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह । गूहितेति ॥ इडभावे अजादिप्रत्ययाभावात् ऊत्त्वाभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रूपमाह । गोढेति ॥ लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह । गूहिष्यतीति ॥ इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह । घोक्ष्यतीति ॥ गूहिष्यते, घोक्ष्यते, इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूहत । गूहेदिति ॥ गूहेतेत्यपि ज्ञेयम् । गुह्यादिति ॥ आशीर्लिङि अजादिप्रत्ययाभावादूत्त्वन्न । कित्त्वान्न गुणः । लुडि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह । अगूहीदिति ॥ अगूहिष्टाम् । अगूहिषुरित्यादि । इडभावे क्सः इति ॥ इगुपधशलन्तादिति भावः । अघुक्षदिति ॥ ढत्वभष्भावकत्वषत्वानि । अघुक्षताम् । अधुक्षन्नित्यादि । लुडस्तडि विशेषमाह । लुग्वादुह । दन्त्ये तङीति ॥ दन्त्यादौ तडीत्यर्थः । प्रत्ययादर्शनात्सर्वादेशोऽयं लुक् । अगूढेति ॥ अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादित्वाभावाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियान्दर्शयति । ढत्वधत्वष्टुत्वढलोपदीर्घाः इति । अघुक्षतेति ॥ क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुक्षातामिति ॥ च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभष्भावकत्वषत्वेषु कृतेषु क्सस्याचीत्यन्त्यलोपे अतः परत्वाभावादातो डित इति न भवतीति भावः । अघुक्षन्तेति ॥ झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अन्त्यलोपाभावादतः परत्वाभावादात्मनेपदेष्वनत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्यान्तलोप इति भावः । अघुक्षथाः । अघुक्षाथाम् । अघुक्षध्वम् । अघुक्षि । इति रूपाणि सिद्धवत्कृत्याह । अगुह्वहीति ॥ दन्त्यादिप्रत्ययपरत्वात् क्सस्य लुकि अजादिप्रत्ययाभावात् ऊत्त्वाभावे रूपम् । अघुक्षावहीति ॥ क्सलुगभावे ढत्वभष्भावकत्वषत्वानि । अतो दीर्घश्च । अघुक्षामहीति ॥ दन्त्यादिप्रत्ययपरत्वाभावान्न क्सलुक् । इति गूहत्यन्ताः स्वरितेतः । उभयपदिनः इति ॥ ञित्त्वादिति भावः । श्रिञ् धातुः सेट् । शिश्रियतुरिति ॥ कित्त्वान्न गुणः । इयड् ।
प्रकरणम्]
१३९
बालमनोरमा ।

भृञ् ८९८ भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभूव । बभृषे । भर्ता ।

२३६६ । ऋद्धनोः स्ये । (७-२-७०

ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ।

२३६७ । रिङ् शयग्लिङ्क्षु । (७-४-२८)

शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ।


शिश्रियुः । शिश्रयिथ । शिश्रियथु । शिश्रिय । शिश्राय । शिश्रय । शिश्रियिव । शिश्रियिम । शिश्रिये । शिश्रियाते । शिश्रियिरे । शिश्रियिषे । शिश्रियाथे । शिश्रियिढ्वे । शिश्रियिध्वे । शिश्रिये । शिश्रियिवहे । शिश्रियिमहे । श्रयितेति ॥ श्रयिष्यति । श्रयिष्यते । श्रयतु । श्रयताम् । अश्रयत् । अश्रयत । श्रयेत् । श्रयेत । श्रीयात् । श्रयिषीष्ट । लुडि विशेषमाह । णिश्रीति । आशिश्रियदिति ॥ चडीति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् । अश्रयिष्यत । भृञ्धातुरनिट् । भरतीति ॥ भरते इत्यपि ज्ञेयम् । बभ्रतुरिति ॥ कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ 'एकाच.' इति नेट् । कृसृभृवृस्तुद्रुस्रुश्रुषु लिट्यपि तन्निषेधस्य प्रवृत्तेः । थलि अचस्तास्वदिति निषेधाच्च । ॠदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह । बभर्थेति ॥ बभ्रथु । बभ्र । बभार । बभर । इति सिद्धवत्कृत्याह । बभृवेति ॥ बभृम ।

बभ्रे । बभ्राते । बभ्रिरे । इति सिद्धवत्कृत्याह । बभृषे इति ॥ बभ्राथे । बभृढ्वे । बभ्रे । बभृवहे । बभृमहे । लृटि स्ये इण्निषेधे प्राप्ते । ऋद्धनोः ॥ ॠत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्ठीद्विवचनम् । स्ये इति षष्ठ्यर्थे सप्तमी । आर्धधातुकस्येडित्यत इडित्यनुवर्तते । तदाह । ऋत इत्यादिना ॥ एकाच इति इण्निषेधस्यापवाद । भरिष्यतीति ॥ भरिष्यते । भरतु । भरताम् । अभरत् । अभरत । भरेत् । भरेत । आशीर्लिङि परस्मैपदे भृ यात् इति स्थिते । रिङ् शय ॥ श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् । अयङ् यि क्डितीत्यतो यीति सप्तम्यन्तमनुवृत्त लिडो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति । असम्भवात् । नापि यकि अव्यभिचारात् । अत एव अकृत्सार्वधातुकयोरित्यनुवृत्तमपि लिड एव विशेषणम् । तदाह । शे यकीत्यादिना । ऋत इति ॥ ‘रीडृत’ इत्यतः तदनुवृत्तेरिति भावः । अङ्गस्येत्यधिकृतम् । ॠत इति तद्विशेषणम् । तदन्तविधि. । ॠदन्तस्याङ्गस्येति लभ्यते । आदेशे डकार इत् । डित्त्वात् अन्तादेशः । निर्दिश्यमानपारिभाषयैव सिद्धे डकारोच्चारण, इडागमेनैव सिद्धे रेफोच्चारणञ्च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाहरणमयुक्तम् । कृते रिडि अकृत्सार्वधातुकयोरिति दीर्घप्रसङ्गादित्यत आह । रीङि प्रकृते इति ॥ कृते रिडि यदि दीर्घः स्यात्तर्हि रिड्विधिर्व्यर्थः स्यात् । रीडृत इत्येव सिद्धे. । अतो रिडि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति ॥ भ्रियास्तामित्यादि सुगमम् । आशीर्लिङि भृषीष्टेत्यत्र
१४०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३६८ । उश्च । (१-२-१२)

ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ।

२३६९ । ह्रस्वादङ्गात् । (८-२-२७)

सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । हृञ् ८९९ हरणे । हरणं प्रापणं स्वीकारः स्तेयं नाशनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति । धृञ् ९०० धारणे । धरति । अधार्षीत् । अधृत । णीञ् ९०१ प्रापणे । निनयिथ । निनेथ । निन्यिषे ।

अथाजन्ताः परस्मैपदिनः । धेट् ९०२ पाने । धयति ।


गुणे प्राप्ते । उश्च ॥ 'लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते । 'इको झल्' इत्यतो झलिति च । तदाह । ऋवर्णादिति । भूषीष्टेति ॥ कित्त्वान्न गुण । अभार्षीदिति ॥ परस्मैपदे सिचि वृद्धौ रपरत्वम् । तडि तु अभृ स् त इति स्थिते । ह्रस्वादङ्गात् ॥ ह्रस्वान्तादित्यर्थः । सिच इति भाष्यम् । 'झलो झलि' इत्यतो झलीति 'सयोगान्तस्य लोप' इत्यतो लोप इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । सिचो लोपः स्याज्झलीति ॥ ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिच किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्तमपौ । अभृतेति ॥ ‘उश्च' इति सिच कित्वान्न गुणः । झलीत्युक्तेः अभृषाताम् । अभृषतेत्यत्र न सिज्लोपः । अनत परत्वात् झस्य अदादेश: । अभृथाः । अभृषाथाम् । अभृढ्वम् । अभृषि । अभृष्वहि । अभृष्महि । हृधातुरनिट् । हरणञ्चतुर्विधमित्याह । प्रापणमित्यादि ॥ तद्यथा-भार हरति । प्रापयतीत्यर्थ । अश हरति । स्वीकरोतीत्यर्थः । परस्व हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार । जह्रतु: । जह्रुः । 'एकाच ' इति इण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते 'अचस्तास्वत्' इति तन्निषेध । ॠदन्तत्वेन भारद्वाजमतेऽपि इण्निपेध एव । तदाह । जहर्थेति ॥ जह्रथुः । जह्र । जहार । जहर । इति सिद्धवत्कृत्याह । जह्रिवेति ॥ क्रादिनियमादिट् । जह्रिम । जह्रिषे । क्रादिनियमादिट् । जह्राथे । जह्रिढ्वे । जह्रिध्वे । जह्रे । जह्रिवहे । जह्निमहे । लुडादिषु भृञ इव रूपाणि । धृञ् धातुरनिट् । हृञ इव रूपाणि । णीञ् धातुरानिट् णोपदेशः । नयति । नयते । निनाय । निन्यतुः । निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्वत्' इति इण्निषेधस्य भारद्वाजनियमादिटमभिप्रेत्याह । निन्यिषे निन्याथे निन्यिढ्वे निन्यिध्वे । निन्ये । निन्यिवहे । निन्यिमहे । नेता । नेष्यति । नेष्यते । नयतु । नयताम् । अनयत् । अनयत । नयेत् । नयेत । नीयात् । नेषीष्ट । अनैषीत् । अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ॥ 'जि, ज्रि' अभिभवे । इत्येतर्त्पयन्ता इति शेषः । धेट् पाने इति ॥ स्तनन्धयीत्यादौ डीबर्थं
प्रकरणम्]
१४१
बालमनोरमा ।

२३७० । आदेच उपदेशेऽशिति । (६-१-४९)

उपदेशे एजन्तस्य धातोरात्त्वं स्यान्न तु शिति ।

२३७१ । आत औ णलः । (७-१-३४)

आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ।

२३७२ । आतो लोप इटि च । (६-४-६४)

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वा-


टित्त्वम् । अवयवे टित्त्वस्य व्यर्थतया समुदायार्थत्वादिति हरदत्त । आदेचः । एजन्तस्य धातोरिति ॥ 'लिटि धातोः' इत्यतः धातोरित्यनुवृत्त एचा विशेष्यते । तदन्तविधिरिति भावः । न तु शितीति ॥ श् चासौ इच्चेति कर्मधारयात्सप्तमी । प्रत्ययविशेषणत्वात्तदादिविधिः । इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च' 'न व्यो लिटि' इत्यादिपूर्वोत्तरसूत्राणाम्प्रत्ययेष्वेव प्रवृत्त्या प्रत्यये इति विशेष्यलाभः । आशितीति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः । ततश्च सुग्ल इत्यत्र ग्लैधातोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात् । कप्रत्ययनिमित्तमात्त्वम् आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् । शिति नेति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्यय सूपपाद. । शितीति बहुव्रीह्याश्रयणे ग्लैधातोर्भावे लिटि 'भावकर्मणोः' इति तडि एशि आत्त्वे आतो लोपे जग्ले इति न सिध्द्येत् । एशश्शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः । एवञ्च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिप्रत्यये विवक्षिते इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः । उपदेशे किम् । चेता, स्तोता । धातो किम् । गोभ्याम् । 'गमेर्डो' इति डोप्रत्ययोपदेशादप्राप्तिः । उपदेशे य एच् तदन्तत्वाभावाद्नमे । न च मेडादीनामुपदेशे एजन्तत्वाभावात् कथमात्त्वमिति न शङ्क्यम् । 'उदीचाम्माड' इति निर्देशेन नानुबन्धकृतमनेजन्तत्वमिति ज्ञापनादित्यास्तान्तावत् । तथाच प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते । आत औ ॥ औ इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतम्पञ्चम्या विपरिणम्यते । आत इति तद्विशषणम् । तदन्तविधिः । तदाह । आदन्ताद्धातोरिति ॥ णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथाच णल औत्वे वृद्धौ रूपमाह । दधाविति ॥ दधा अतुसिति स्थिते । आतो लोपः ॥ आर्धधातुके इत्यधिकृतम् । दीडो युडित्यतः अचि क्ङितीतिचानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः । क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह । अजाद्योरिति ॥ इट: आर्धधातुकत्वन्तु तदवयवत्वाद्बोध्यम् । क्ङितीति च इटो न विशेषणम् । इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम् इडागमश्च गृह्यते । अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि ग्लायते । आर्धधातुकयोः किम् । यान्ति । वान्ति । दधौ इत्यत्र तु क्ङित्वाभावान्नाल्लोपः ।
१४२
[भ्वादि
सिध्दान्तकौमुदीसहिता

त्परत्वाल्लोपे प्राप्ते 'द्विर्वचनेऽचि' (सू २२४३) इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ-दधाथ । दधिव । दधिम । धाता ।

२३७३ । दाधा घ्वदाप् । (१-१-२०)

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ।

२३७४ । एर्लिङि । (६-४-६७)

घुसंज्ञानां मास्थादीनां चैत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ।

२३७५ । विभाषा धेट्श्व्योः । (३-१-४९)

आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । ‘चङि' (सू २३१५) इति द्वित्वम् । अदधत् । अदधताम् ।

२३७६ । विभाषा घ्राधेट्शाच्छासः । (२-४-७८)


सति तस्मिन् औत्वन्न स्यात् । ननु धा अतुस् इति स्थिते द्वित्वात्परत्वादाल्लोपे सति एकाच्त्वाभावात् द्वित्वन्न स्यादित्याशङ्क्य परिहरति । द्वित्वादित्यादिना ॥ धेट्धातुरनिट् । भारद्वाजनियमात् थलि वेडित्याह । दधिथ । दधाथेति ॥ इट्पक्षे आल्लोपः । दधथुः । दध । दधौ इति सिद्धवत्कृत्याह । दधिवेति ॥ वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । दधिमेमत्यपि ज्ञेयम् । धातेति ॥ लुटि आत्त्वे ता इति भावः । धास्यति । धयतु । अधयत् । धयेत् । आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन् घुसंज्ञां दर्शयति । दाधाघ्वदाप् ॥ दा धा घु एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । दाधेत्यनेन स्वाभाविकाकारान्तयोः 'दाण् दाने' 'डुधाञ् धारणपोषणयोः' इत्यनयोः कृतात्त्वानाञ्च दोदेड्धेटा लाक्षणिकानामपि ग्रहणम् । 'गामादाग्रहणेष्वविशेषः' इति परिभाषाबलात् । तत्र दाग्रहणेन धारूपस्यापि ग्रहणात् । अतएव 'दो दद् घोः ' इत्यत्र धेण्निवृत्त्यर्थन्दाग्रहणमर्थवत् । दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह । दारूपाः धारूपाश्चेति ॥ शब्दा इति शषः । एर्लिङि ॥ एरिति प्रथमान्तम् । आर्धधातुके इत्यधिकृतम् । तदाह । घुसंज्ञानां मास्थादीनामिति ॥ मा स्था जहाति सा एषान्द्वन्द्वात् षष्ठीबहुवचनम् । किति लिङीति ॥ दीडो युडित्यतः कितीत्यनुवृत्तेरिति भावः । डितीति नानुवर्तते । लिडार्धधातुकस्य डित्वासम्भवात् । लुडि च्ले सिचि प्राप्ते । विभाषा धेट् ॥ च्लि लुडीत्यनुवर्तते । 'णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चडिति च । तदाह । आभ्यामिति ॥ धेट् श्वि आभ्यामित्यर्थः । अदधदिति ॥ चडि द्वित्वे आल्लोप इति भावः । अदधताम् । अदधत् । अदध । अदधतम् । अदधत । अदधम् । अदधाव । अदधाम । चडभावपक्षे विशेषमाह । विभाषा घ्रा ॥ 'ण्यक्षत्रियार्ष' इत्यतः
प्रकरणम्]
१४३
बालमनोरमा ।

एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ।

२३७७ । यमरमनमातां सक्च । (७-२-७३)

एषां सक्स्यादेभ्यः सिच इट् च परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः । ग्लै ९०३ म्लै ९०४ हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ-जग्लाथ ।

२३७८ । वाऽन्यस्य संयोगादेः । (६-४-६८)


लुडित्यनुवर्त्तते । 'गातिस्था' इत्यतः सिचः परस्मैपदेष्विति । तदाह । एभ्यः इति ॥ 'धेट् पाने' 'घ्रा गन्धोपादाने' 'शो तनूकरणे' 'छो छेदने' ' षो अन्तकर्मणि' एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । शोप्रभृतीनाङ्कृतात्वाना निर्देश । धेट: 'गातिस्थाधुपा' इति नित्य प्राप्ते अन्येषामप्राप्ते वचनम् । अधुरिति ॥ 'उस्यपदान्तात्' इति पररूपम् । अधाः । अधातम् । अधात । अधाम् । अधाव । अधाम । सिचो लुगभावपक्षे आह । यमरम ॥ यम, रम, नम, आत्, एषां समाहारद्वन्द्वात्षष्ठीबहुवचम् । आदित्यनेन आदन्तङ्गृह्यते । तदाह । एषां सक् स्यादिति ॥ सकि ककार इत् अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेण 'इडत्त्यर्ति' इत्यत इडिति स्तुसुधूञ्भ्यः इत्यतः परस्मैपदेष्विति चानुकृष्यते । अञ्जेस्सिचीत्यतः सिचीति च । तच्च षष्ठ्या विपरिणम्यते । तदाह । एभ्यस्सिचः इट् चेति । अधासीदिति ॥ धातोस्सगागमः । सिच इट् । 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति ॥ अपृक्तत्वाभावादीडभावान्न सिज्लोपः । सस्य षत्वे तकारस्य ष्टुत्वेन टः । अधासिषुरिति ॥ अधासीः । अधासिष्टम् । अधासिष्ट । अधासिषम् । अधासिष्व । अधासिष्म । यद्यपि अधासीदित्यत्र सगिटोर्विधिर्व्यर्थ एव । तथापि अधासिष्टामित्याद्यर्थ आत. सगिड्विधानम् । यमादीनान्तु अयसीदित्यादौ हलन्तलक्षणवृद्धेरभावार्थम् अयसिष्टामित्याद्यर्थञ्च । तदेतत् तत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । 'ग्लै म्लै हर्षक्षये' धातुक्षयः इति ॥ बलक्षय इत्यर्थः । अनिटाविमौ । ग्लायतीति शपि आयादेशः । शिद्विषयत्वादात्त्वन्न । जग्लाविति ॥ णलि आत्त्वे 'आत औ णलः' इति औभावे वृद्धिरिति भावः । अतुसादौ द्वित्वे कृते आतो लोपः । जग्लतुः । जग्लुः । भारद्वाजनियमात्थलि वेडित्याह । जग्लिथ । जग्लाथेति ॥ इट्पक्षे आल्लोपः । जग्लथुः । जग्ल । जग्लौ । जग्लिव । जग्लिम । ग्लाता । ग्लास्यति । ग्लायपु । अग्लायत् । ग्लायेत् । आशीर्लिङि आत्त्वे कृते ग्ला यात् इति स्थिते । वाऽन्यस्य ॥ आर्धधातुक इत्यधिकृतम् । 'ऐर्लिङि' इत्यनुवर्त्तते । एरिति प्रथमान्तम् । 'आतो लोप इटि च' इत्यतः आत इत्यनुवर्तते कस्मादन्यस्येत्यपेक्षाया घुमास्थागापाजहातिसा हलीति प्रकृतत्वाल्ल
१४४
[भ्वादि
सिध्दान्तकौमुदीसहिता

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्त्वं वा स्यादार्धधातुके किति लिङि । ग्लायात्-ग्लेयात् । अग्लासीत् । म्लायति । द्यै ९०५ न्यक्करणे । न्यक्करणं तिरस्कारः । द्रै ९०६ स्वप्ने । ध्रै ९०७ तृप्तौ । द्ध्यै ९०८ चिन्तायाम् । रै ९०९ शब्दे । स्त्यै ९१० ष्ट्यै ९११ शब्दसङ्घातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति अतिष्ट्यपदित्यत्र षत्वम् । खै ९१२ खेदने । क्षै ९१३ जै ९१४ । षै ९१५ क्षये । क्षायति जजौ । ससौ । साता । 'घुमास्था–' (सू २४६२) इत्यत्र 'विभाषा घ्राधेट् (सू २३७६) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य ।


भ्यते । तदाह । घुमास्थादेरित्यादिना । कितीति ॥ अनुदात्तोपदेशवनतीत्यतः तदनुवृत्तेरिति भावः । डितीति तु नानुवर्तते । लिडार्धधातुकस्य डित्त्वासम्भवात् । अग्लासीदिति ॥ यमरमेत्यादन्तत्वात् सगिटौ । अग्लासिष्टाम् । अग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति ॥ ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करणे इति ॥ यकारमद्ध्योऽयम् । इत आरभ्य ऐकारान्तानां सयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनान्तु असयोगादीनाम् आशीर्लिङि 'वाऽन्यस्य सयोगादेः' इत्येत्त्व न भवति । रायादित्यादिरूपमिति विशेषः । स्त्यै ष्ट्यै इति ॥ षोपदेशेषु स्त्याधातोः पर्युदासादाद्यो न षोपदेशः । द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसम्पन्नटकारनिर्देशः । सत्वे कृते इति ॥ धात्वादेरिति षस्य सकारे सति निमित्तापायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्ट्यासतीति ॥ ष्ट्यैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि शपि 'सन्यडोः' इति द्वित्वे 'शर्पूर्वाः खयः' इति सकारयकारनिवृत्तौ तास्त्यासति इति स्थिते अभ्यासह्रस्वे सन्यत इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वे तिष्ट्यासतीति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाभावात् षत्वं न स्यादिति भावः । अतिष्ट्यपदिति ॥ ष्ट्यैधातोः कृतसत्वात् णौ आत्त्वे 'अर्तिह्री' इति पुकि स्त्यापि इति ण्यन्तात् लुडि अडागमे तिपि इतश्च इति इकारलोपे 'णिश्रिद्रुस्त्रुभ्यः' इति ‘च्लेश्चङि’ ‘णेरनिटि’ इति णिलोपे ‘णौ चड्युपधायाः’ इति ह्रस्वे ‘चडि’ इति स्त्यप् इत्यस्य द्वित्त्वे शर्पूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्या 'सन्यतः' इति इत्वे इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे तस्य ष्टुत्वे अतिष्ट्यपदिति रूपम् । स्वाभाविकसकारत्वे त्वादेशसकारत्वाभावात् षत्वन्न स्यादिति भावः । जजौ । ससाविति ॥ जैधातो पैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः । ननु ‘एर्लिङि’ इत्यत्र 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्त्या सैधातोराशीर्लिङि सायादित्यत्र एत्त्व स्यात् । तथा लुडि सगिटोः असासीत् असासिष्टामित्येव इष्यते । तत्र 'विभाषा घ्राधेट्शाच्छासः' इति सिचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह । घुमास्थेत्यत्रेत्यादि । स्यतेरिति ॥ षो अन्तकर्मणि
प्रकरणम्]
१४५
बालमनोरमा ।

तेन एत्त्वसिज्लुकौ न । सायात् । असासीत् । कै ९१६ गै ९१७ शब्दे । गेयात् । अगासीत् । शै ९१८ श्रै ९१९ पाके । पै ९२० ओ वै ९२१ शोषणे । पायात् । अपासीत् । 'घुमास्था–’ (सू २४६२) इतीत्त्वं, तदपवाद 'एर्लिङि' (सू २३७४) 'इत्येत्त्वं' 'गाति स्था–' (सू २२२३) इति सिज्लुक् च, न । पारूपस्य लाक्षणिकत्वात् । ष्टै ९२२ वेष्टने । स्तायति । ष्णै ९२३ वेष्टने । 'शोभायां च' इत्येके । स्नायति । दैप् ९२४ शोधने । दायति । अघुत्वादेत्त्वसिज्लुकौ न । दायात् । अदासीत् । पा ९२५ पाने । 'पाघ्राध्मा--' (सू २३६०) इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् । घ्रा ९१६ गन्धोपादाने । जिघ्रति । घ्रायात्-घ्रेयात् । अघ्रासीत् ।


इति श्यन्विकस्णस्येत्यर्थ । अत्र व्याख्यानमेव शरणम् । 'विभाषा घ्राधेट्' इत्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । 'पै ओ वै शोषणे' । पायति । वायति । 'ओदितश्च' इति निष्ठानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र 'घुमास्थागापाजहातिसां हलि' इति ईत्त्व स्यात् । तथा आशीर्लिङि पायात् इत्यत्र 'एर्लिङि’ इति एत्व स्यात् । तत्रापि 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्तेः । तथा लुडि अपासीदित्यत्र ‘गातिस्था’ इति सिचो लुकि ‘यमरम’ इति इटः अभावात्तत्सन्नियोगशिष्टस्सगपि न स्यादित्यत आह । घुमास्थेतीत्त्वमित्यादिना । पारूपस्येति ॥ उदाहृतसूत्रत्रयेषु लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोर्ग्रहणम् । नतु पैधातोः कृतात्वस्येति भावः । एवञ्च प्रकृते पैधातोराशीर्लिङि पायादित्येव रूपम् । लुडि सगिटोः अपासीत्, अपासिष्टामित्येव रूपम् । ष्टै वेष्टने इति ॥ षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह । स्तायतीति ॥ ष्णैधातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह । स्नायतीति ॥ दैप् शोधने । अघुत्वादिति ॥ घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः । 'पा पाने' पिबादेश इति । शिद्विषये इति शेषः । पिबादेशस्य अदन्तत्वात् न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ । पपतुः । पपुः । भारद्वाजनियमात् थलि वेट् । पपिथ-पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । क्रादिनियमादिट् । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । आशीर्लिङि 'एर्लिङि' इत्येत्त्वमभिप्रेत्याह । पेयादिति ॥ 'गातिस्था' इति सिचो लुगित्यभिप्रेत्याह । अपादिति ॥ अपाताम् । अपुः । अपाः । अपातम् । अपात । अपाम् । अपाव । अपाम । अपास्यत् । घ्रा गन्धोपादाने ॥ 'पाघ्राध्मा' इति शिद्विषये जिघ्रादेशः । तदाह । जिघ्रतीति ॥ अनिडयम् । जघ्रौ । जघ्रतुः । जघ्रुः । भारद्वाजनियमात् थलि वेट् । जघ्रिथ-जघ्राथ । जघ्रथुः । जघ्र । जघ्रौ । जघ्रिव । जघ्रिम । क्रादिनियमादिट् । घ्राता । घ्रास्यति । जिघ्रतु । आजिघ्रत् । जिघ्रेत् । आशीर्लिङि 'वाऽन्यस्य संयोगादेः' इत्येत्त्वविकल्पं मत्वा आह । घ्रायात्-घ्रेयादिति ॥ 'विभाषा घ्राधेट्’ इति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ । तदाह । अघ्रासीदिति ॥ ध्माधातुरनिट् । 'पाघ्राध्मा' इति शिद्विषये
१४६
[भ्वादि
सिध्दान्तकौमुदीसहिता

अघ्रात् । ध्मा ९२७ शब्दाग्निसंयोगयोः । धमति । ष्ठा ९२८ गतिनिवृत्तौ । तिष्ठति । 'स्थादिष्वभ्यासेन –’ (सू २२७७ ) इति षत्वम् । अधितष्ठौ । 'उपसर्गात्–' (सू २२७०) इति षत्वम् । अधिष्ठाता । स्थेयात् । म्ना ९२९ अभ्यासे । मनति । दाण् ९३० दाने । प्रणियच्छति । देयात् । अदात् । ह्वृ ९३१ कौटिल्ये । ह्वरति ।

२३७९ । ऋतश्च संयोगादेर्गुणः । (७-४-१०)

ॠदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदं परत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । 'ॠद्धनोः स्ये' (सू २३६६) ह्वरिष्यति ।


धमादेशः । तदाह । धमतीति ॥ दध्मौ । दध्मतुः । दध्मुः । दध्मिथ–दध्माथ । दध्मथुः । दध्म । दध्मौ । दध्मिव । दध्मिम । ध्माता । ध्मास्यति । धमतु । अधमत् । धमेत् । ध्मायात्-ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्ठाधातुः षोपदेशः । कृतष्टुत्वनिर्देशः । शिद्विषये 'पाघ्रा' इति तिष्ठादेशः । तदाह । तिष्ठतीति ॥ तस्थौ, अधितष्ठावित्यत्र इणकवर्गाभ्यां परत्वाभावेऽपि षत्वमाह । स्थादिष्विति ॥ तस्थतुः । तस्थुः । तस्थिथ । तस्थाथ । तस्थथुः । तस्थ । तस्थौ । तस्थिव । तस्थिम । स्थाता । अधिष्ठातेत्यत्र 'सात्पदाद्योः' इति षत्वनिषेधमाशङ्क्याह । उपसर्गादिति । षत्वमिति ॥ स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । आशीर्लिङि सयोगादित्वेऽपि घुमास्थादेरन्यत्वाभावादेत्त्वविकल्पो न । किन्तु 'एर्लिङि' इति नित्यमेव एत्त्वम् । तदाह । स्थेयादिति ॥ 'गातिस्था' इति सिचो लुक् । अस्थात् । अस्थास्यत् । म्ना अभ्यासे इति ॥ अयमप्यनिट् । 'पाघ्रा' इति शिद्विषये मनादेशः । तदाह । मनतीति ॥ मम्नौ । मम्नतुः । मम्नुः । मम्निथ-मम्नाथ । मम्नथुः । मम्न । मम्नौ । मम्निव । मम्निम । म्नाता । म्नास्यति । मनतु । अमनत् । मनेत् । म्नायात्-म्नेयात् । अम्नासीत् । अम्नास्यत् । दाण् दाने इति ॥ अयमप्यनिट् । 'पाघ्रा' इति शिद्विषये यच्छादेशः । प्रणियच्छतीति ॥ 'नेर्गद' इति णत्वम् । ददौ । ददतुः । ददुः । ददिथ-ददाथ । ददथुः । दद । ददौ । ददिव । ददिम । दाता । दास्यति । यच्छतु । अयन्छत् । यच्छेत् । आशीर्लिङि 'एर्लिङि’ इत्येत्त्वम् मत्वा आह । देयादिति ॥ 'गातिस्था' इति सिचो लुक मत्वा आह । अदादिति । ह्वृ कौटिल्ये इति ॥ अयमप्यनिट् । ह्वरतीति ॥ शपि गुणे रपरत्वम् । ऋतश्च । लिटीति ॥ 'दयतेर्दिगि लिटि' इत्यत तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु अकृत्सार्वधातुकयोरित्येव गुणे सिद्धे किमर्थमिदमित्यत आह । किदर्थमपीदमिति ॥ अतुसादिकिदर्थं णलाद्यकिदर्थञ्चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वात् णलि 'अचो ञ्णिति' इति वृद्धिप्रसङ्गात्कथम् णलि अयं गुण इत्यत आह । परत्वाण्णल्यपि भवतीति ॥ ‘अचो ञ्णिति’ इति वृध्द्यपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हि जह्वार इति कथमित्यत
प्रकरणम्]
१४७
बालमनोरमा ।

२३८० । गुणोऽर्तिसंयोगाद्योः । (७-४२९)

अर्तेः संयोगादेर्ॠदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । अह्वार्ष्टाम् । स्वृ ९३२ शब्दोपतापयोः । 'स्वरति-सूति-–' (२२७९) इति वेट् । सस्वरिथ-सस्वर्थ । वमयोस्तु

२३८१ । श्र्युकः किति । (७-२-११)

श्रिञ एकाच उगन्ताच्च परयोर्गित्कितोरिण्नस्यात् । परमपि स्वरत्यादि विकल्पम्बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनि-


आह । उपधावृद्धिरिति ॥ ‘अत उपधायाः’ इत्यनेनेति शेष । जह्वर्थेति ॥ क्रादिनियमप्राप्तस्य इट. 'अचस्तास्वत्' इति 'ॠतो भारद्वाजस्य' इति च निषेधादिति भावः । जह्वरथुः । जह्वर । जह्वार—जह्वर । जह्वरिव । जह्वरिम । क्रादिनियमादिट् । ह्वरतु । अह्वरत् । ह्वरेत् । आशीर्लिङि ह्वृ यात् इति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते । गुणोऽर्ति ॥ भौवादिक जौहोत्यादिकश्च ॠधातु अर्तीत्यनेन गृह्यते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । ‘रीडृतः’ इत्यत ॠत इत्यनुवर्तते । तच्च अङ्गविशेषण तदन्तविधि ॠदन्तस्याङ्गस्येति लभ्यते । सयोगादेरित्यपि तद्विशेषणम् । 'अकृत्सार्वधातुकयोः' इत्यत असार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । ‘रिड् शयग्लिड्क्षु' इत्यत यकि लिडीति च लभ्यते । 'अयड्यि क्डिति' इत्यतः यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधि । तदाह । अर्तेरित्यादिना ॥ तथाच ह्वृ यात् इति स्थिते गुणे रपरत्वे रूपमाह । ह्वर्यादिति । अह्वार्षीदिति ॥ सिचि वृद्धि रपरत्व षत्वम् । अह्वरिष्यत् । स्वृ शब्दोपतापयेरिति ॥ अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुण । णलि तु कृते गुणे रपरत्वे उपधावृद्धि । सस्वार । सस्वरतुः । सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटः 'अचस्तास्वत्' इति ‘ॠतो भारद्वाजस्य’ इति च नित्यनिषेधे प्राप्ते आह । स्वरतिसूतीति-वेडिति । सस्वरिथ-सस्वर्थेति ॥ सस्वरथु । सस्वर । सस्वार—सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति ॥ क्रादिनियमान्नित्यमिडित्यन्वयः । अत्र इण्निषेध शङ्कितुमाह । श्र्युकः किति ॥ श्रिश्च उकश्चेति समाहारद्वन्द्वात् षष्ठी । उक् प्रत्याहार । अङ्गस्येत्यधिकृत पञ्चम्या विपरिणतम् ॠता विशेष्यते । तदन्तविधि । ‘एकाच उपदेशे' इत्यतः एकाच इत्यनुवृत्त इगन्तेऽन्वेति । 'नेड्वशिकृति’ इत्यतो नेडिति । क्डितीति सप्तमी षष्ठ्यर्थे । ग्च क्च क्कौ तौ इतौ यस्येति विग्रहः । गकारस्य चर्त्वेन निर्देश । तदाह । श्रिञ एकाचः इत्यादिना ॥ गकारप्रश्लेष किम् । भूष्णुः । ‘ग्लाजिस्थश्च ग्स्नु' इति चकाराद्भूधातोः ग्स्नु । तस्य गित्त्वादीन्न । कित्त्वे तु स्थास्नुरित्यत्र 'घुमास्था' इति ईत् स्यात् । इण्नस्यादित्यनन्तर अनेन निषेधे प्राप्ते इत्यन्वयः । नन्विय शङ्का न युज्यते । 'श्र्युकः किति' इति निषेधम्बाधित्वा परत्वात् ‘स्वरतिसूतीति’ विकल्पस्य प्राप्तेरित्यत आह । परमपीत्यादिसामर्थ्यादित्यन्तम् ॥ पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पम्बाधित्वा अनेन
१४८
[भ्वादि
सिध्दान्तकौमुदीसहिता

यमान्नित्यमिट् । सस्वरिव । सस्वरिम । परत्वात् 'ॠद्धनोः स्ये' (सू २३६६) इति नित्यमिट् । स्वरिष्यति । स्वर्यात् । अस्वारीत् । अस्वारिष्टाम् । अस्वार्षीत् । अस्वार्ष्टाम् । स्मृ ९३३ चिन्तायाम् । ह्वृ ९३४ संवरणे । सृ ९३५ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्रियात् । असार्षीत् । असार्ष्टाम् ।

२३८२ । सर्तिशास्त्यर्तिभ्यश्च । (३-१-५६)

एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात् 'सर्त्यर्ती' जौहोत्यादिकावेव गृह्येते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु


निषेधे प्राप्ते इत्यन्वयः । आर्धधातुकस्येडित्यादिविधिकाण्डात्प्रागेव 'नेड्वशि कृति' इत्यादिप्रतिषेधकाण्डारम्भसामर्थ्यात् 'स्वरति' इति विकल्पोऽप्यनेन बाध्यते इत्यर्थः । परमपीत्यादिः प्राप्ते इत्यन्त शङ्काग्रन्थः । परिहरति । क्रादिनियमान्नित्यमिडिति ॥ प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावान् इण्निषेधः स लिटि चेत् तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः । लुटि स्वरिता-स्वर्ता । लृटि स्ये 'स्वरति इति विकल्पन्निरस्यति । परत्वादिति ॥ स्वरतु । अस्वरत् । स्वरेत् । स्वर्यादिति ॥ आशीर्लिङि 'गुणोऽर्तिसयोगाद्योः' इति गुणः । अस्वारीदिति ॥ 'स्वराति' इति इट्पक्षे अतो ल्रान्तेति वृद्धिरिति भावः । अस्वार्षीदिति ॥ इडभावे 'सिचि वृद्धिः' इति सिचि वृद्धिभावः । स्मृ चिन्तायामिति ॥ अयमप्यनिट् । स्मरति । लिटि 'ॠतश्च' इति कित्यपि गुणः । णलि तु गुणे उपधावृद्धिः । सस्मार । सस्मरतुः । सस्मरुः । ॠदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इट् थलि नित्यनिपधः । सस्मर्थ । सस्मरथुः । सस्मर । सस्मार - सस्मर । सस्मरिव । सस्मरिम । स्मर्ता । लृटि स्ये ‘ॠद्धनोः' इति इट् । स्मरिष्यति । स्मरतु । अस्मरत् । स्मरेत् । आशीर्लिङि ‘गुणोऽर्ति’ इति गुणः । स्मर्यात् । सिचि वृद्धौ रपरत्वम् । अस्मार्षीत् । अस्मरिष्यत् । ह्वृ संवरणे इति ॥ अयमपि स्मृधातुवत् । सृ गताविति ॥ ॠदन्तोऽयमनिट् । सरति । लिटि सयोगादित्वाभावात् ॠतश्चेति गुणो न । ससार । सस्रतुः । सस्रुः । क्रादित्वान्नेडिति ॥ सृधातोः क्रादिस्थत्वादिति भावः । ससर्थेति ॥ क्रादित्वात्थल्यपि नित्यं निषेध इति भावः । सस्रथुः । सस्र । ससार-ससर । ससृव । ससृम । इत्यपि ज्ञेयम् । सर्ता । लृटि 'ॠद्धनोः' इति इट् सरिष्यति । सरतु । असरत् । सरेत् । आशीर्लिङि सयोगादित्वाभावात् 'गुणोऽर्ति' इति न गुणः । 'रिड् शयग्लिड्क्षु' इति रिडित्याह । रिङिति । स्रियादिति ॥ रीङि प्रकृते रिड्विधिसामर्थ्यान्नदीर्घ इति भावः । असार्षीदिति ॥ सिचि वृद्धौ रपरत्वम् । अत्र च्लेरडमाशङ्कितुमाह । सर्ति ॥ च्लिलुङीत्यनुवर्तते । 'णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चडिति । तदाह । एभ्यः इति ॥ ततश्च प्रकृते असार्षीदित्यत्र अड् स्यादिति शङ्का सूचिता । ताम्परिहरति । इह लुप्तेत्यादिना ॥ इह अड्विधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्यते इति निर्विवादम् । तस्य विकरणान्तराभावात् । एवञ्च
प्रकरणम्]
१४९
बालमनोरमा ।

'पाघ्राध्मा' (सू २३६०) इति शिति धौरादेशः । धावति । ॠ ९३६ गतिप्रापणयोः । ऋच्छति ।

२३८३ । ऋच्छत्यॄताम् । (७-४-११)

तौदादिकस्य ऋच्छतेः ऋरधातो: ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।

२३८४ । इडत्त्यर्तिव्ययतीनाम् । (७-२-६६)

'अद्' 'ऋ' 'व्येञ्' एभ्यस्थलो नित्यमिट् स्यात् । आरिथ ।


तत्साहचर्यात् सृधातुः ॠधातुश्च जौहोत्यादिकौ श्लुविकरणावेव गृह्येते इत्यर्थ । लुप्तविकरणत्वसाम्यादिति भावः । तेनेति ॥ लुप्तविकरणयोरेव ग्रहणेन भ्वादिगणस्थयोः सृधातुॠधात्वोरड् नेत्यर्थः । तदेव सृधातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि । यदि शीघ्रगतौ सृधातु तदा तस्य विशेषमाह । शीघ्रगतौ त्विति । धौरादेश इति ॥ धौशब्दस्य धौरिति प्रथमान्तम् । धौ इत्यौकारान्त आदेश इत्यर्थः । 'पाघ्रा' इति सूत्रे सर्तीति श्तिपा निर्देशः । लुग्विकरणनिर्देशस्तु अविवक्षित इति भावः । 'सर्तेर्वेगितायाङ्गतौ धावादेशः' इति वार्तिकमभिप्रेत्येदम् । धावतीति ॥ शपि सृधातोर्धौभावे आवादेशः । धावतु । अधावत् । धावेत् । ऋ गतिप्रापणयोः ॥ अनिट् । ‘पाघ्राध्मा' इति शिद्विषये ॠच्छादेशः । तदाह । ऋच्छतीति ॥ ननु ॠ अतुस् इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे ‘अत आदेः’ इति दीर्घे आ ॠ अतुस् इति स्थिते 'असयोगात्' इति कित्त्वादुत्तरखण्डस्य गुणाभावे यणम्बाधित्वा परत्वादाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह । ॠच्छत्यॄताम् ॥ 'दयतेर्दिगि लिटि' इत्यतो लिटीति 'ॠतश्च सयोगादेर्गुण' इत्यतो गुण इति चानुवर्तते । ॠच्छति ॠ, ॠत् एषान्द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ॠकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ॠकारेण ॠधातुरेव गृह्यते । ॠवर्णान्तधातुग्रहणे 'ॠतश्च सयोगादेर्गुणः’ इत्यस्य वैयर्थ्यात् । 'ॠच्छगतीन्द्रियप्रळयमूर्तिभावेषु' इति तौदादिकस्य ॠच्छतीति श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ॠग्रहणेनैव सिद्धेः । तदाह । तौदादिकस्य ऋच्छतेरित्यादिना ॥ किदर्थमपीद सूत्रम् । णलि प्राग्वदिति ॥ 'ह्वृ कौटिल्ये' इत्यत्र उक्तया रीत्या कित्सु चरितार्थेऽप्ययड्गुण 'अचो ञ्णिति' इति वृध्द्यपेक्षया परत्वात् णल्यपि भवति । ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति ॥ ॠधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषे 'अत आदेः' इति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति ॥ पूर्ववत् द्वित्वादौ आ ॠ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते 'ॠच्छत्यॄताम्’ इति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् । थलि तु क्रादिनियमप्राप्तस्य इट: 'अचस्तास्वत्' इति निषेधे ॠदन्तत्वात् भारद्वाजमतेऽपि प्राप्ते आह । इडत्त्यर्ति ॥ पञ्चम्यर्थे षष्ठी । 'अचस्तास्वत्' इत्यतः थलीत्यनुवर्तते । 'विभाषा सृजिदृशोः' इति पूर्वसूत्राद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते । तदाह । अद् ॠ इत्यादिना ॥ आर्धधातुकस्ये
१५०
[भ्वादि
सिध्दान्तकौमुदीसहिता

अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् । गृ ९३७ घृ ९३८ सेचने । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् । ध्वृ ९३९ हूर्च्छने । स्रु ९४० गतौ । सुस्रोथ । सुस्रुव । स्रूयात् । 'णिश्रि –’ (सू २३१२) इति चङ् । लघूपधगुणादन्तरङ्गत्वादुवङ् । असुस्रुवत् । पु ९४१ प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ-सुषविथ । सुषुविव । सोता ।


डित्यनुवृत्तौ पुनरिङ्ग्रहणन्तु 'न वृभ्द्यश्चतुर्भ्यः' इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । आरिथेति ॥ आरथुः । आरुः । आर । आरिव । आरिम । क्रादिनियमादिट् । अरिष्यतीति ॥ 'ऋद्धनोः' इति इट् । ॠच्छतु । आर्छत् । अर्यादिति ॥ 'गुणोऽर्ति' इति गुणे रपरत्वमिति भावः । आर्षीदिति ॥ सिचि वृद्धिः । 'सर्तिशास्त्यर्तिभ्यश्च' इति अड् तु न । तत्र भौवादिकस्य ॠधातोर्न ग्रहणमित्यनुपदमेवोक्तेरिति भावः । आरिष्यत् । 'ॠद्धनो स्ये' इति इट् । 'गृ घृ सेचने' । अनिटौ । गरतीति ॥ जगार । असयोगादित्वात् 'ॠतश्च' इति गुणो न । जग्रतुः । जग्रुः । क्रादिनियमेन इटि प्राप्ते अचस्तास्वदिति नेट् । ॠदन्तत्वाद्भारद्वाजमतेऽपि नेट् । तदाह । जगर्थेति ॥ जग्रथुः । जग्र । जगार । जगर । जग्रिवेति ॥ क्रादिनियमादिट् । जग्रिम । गर्ता । गरिष्यति । ‘ॠद्धनोः’ इति इट् । गरतु । अगरत् । गरेत् । रिङिति ॥ आशीर्लिङि असयोगादित्वात् 'गुणोर्ति' इति गुणाभावे 'रिड् शयग्लिड्क्षु' इति रिडित्यर्थ ।

ग्रियादिति ॥ रीडि प्रकृते रिड्विधेर्न दीर्घ । अगार्षीदिति ॥ सिचि वृद्धौ रपरत्वम् । अगार्ष्टाम् । अगरिष्यत् । 'ॠद्धनोः' इति इट् । घृधातोस्तु भौवादिकस्य घृत, घर्म, घृणा, इत्यत्रैव प्रयोगः, नान्यत्रेति ‘तृज्वत्क्रोष्टुः’ इति सूत्रे भाष्ये स्पष्टम् । ध्वृ हूर्च्छने इति ॥ हूर्च्छनङ्कुटिलीभवनम् । ध्वरति । दध्वार । ‘ॠतश्च' इति गुणः । दध्वरतुः । दध्वरुः । थलि 'अचवस्तास्वत्’ इति क्रादिनियमप्राप्त इट् न । ॠदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ । दध्वरथुः । दध्वर । दध्वार-दध्वर । दध्वरिव । दध्वरिम । क्रादिनियमादिट् । ध्वर्ता । ‘ॠद्धनोः' इति इट् । ध्वरिष्यति । ध्वरतु । अध्वरत् । ध्वरेत् । आशीर्लिङि ‘गुणोऽर्ति’ इति गुण । ध्वर्यात् । अध्वार्षीत् । अध्वरिष्यत् । 'स्रु गतौ' । अनिट् । स्रवति । सुस्राव । अतुरादौ कित्त्वात् गुणाभावे उवड् । सुस्रुवतुः । सुस्रुवुः । क्रादित्वान्नेट् । तदाह । सुस्रोथेति ॥ सुस्रुवथुः । सुस्रुव । सुस्राव-सुस्रव । सुस्रुवेति ॥ क्रादित्वान्नेट् । सुस्रुमेत्यपि ज्ञेयम् । स्रोता । स्रोष्यति । स्रवतु । अस्रवत् । स्रवेत् । स्रूयादिति ॥ 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः । लुडि विशेषमाह । णिश्रीति चङिति ॥ 'चङि' इति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुस्रु अ त् इति स्थिते रेफादुत्तरस्य उकारस्य सार्वधातुकार्धधातुकयोरिति गुणस्य चड्निमित्तकस्य डित्त्वान्निषेधेऽपि उवडपेक्षया परत्वात् तिपन्निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह । लघूपधगुणादन्तरङ्गत्वादुवङिति ॥ बहिर्भृततिबपेक्षत्वाल्लघूपधगुणः बहिरङ्गः । अन्तर्गतचडपेक्षत्वादुवडन्तरङ्गः । अत: उवडेव भवति । परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुस्रुवदिति ॥ अस्रोष्यत् । षु प्रसवेति ॥ अत्र
प्रकरणम्]
१५१
बालमनोरमा ।

२३८५ । स्तुसुधूञ्भ्यः परस्मैपदेषु । (७-२-७२)

एभ्यः सिच इट् स्यात्परस्मैपदेषु । असावीत् । पूर्वोत्तराभ्यां ञिद्भ्यां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् । श्रु ९४२ श्रवणे ।

२३८६ । श्रुवः शृ च । (३-१-७४)

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शपोऽपवादः । श्नोर्ङित्त्वाद्धातोर्गुणो न । शृणोति । शृणुतः ।

२३८७ । हुश्नुवोः सार्वधातुके । (६-४-८७)

जुहोते: श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यणस्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः-शृणुवः ।


प्रसवशब्दस्य गर्भमोचनपरत्वभ्रम वारयति । प्रसवोऽभ्यनुज्ञानमिति ॥ 'ओ प्रणयेति ब्रह्मा प्रसौति' इत्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवडम्बाधित्वा परत्वात्सार्वधातुकार्धधातुकयोरिति गुण । सवति । सुषाव । अतुसादौ । कित्त्वाद्गुणाभावे उवड् । सुषुवतुः । सुषुवुः । भारद्वाजनियमात्थलि वेट् । तदाह । सुषविथ-सुषोथेति ॥ अकित्त्वाद्गुण इति भावः । सुषुवथुः । सुषुव । सुषाव-सुषव । वमयोस्तु क्रादिनियमान्नित्यमिट् । तदाह । सुषुविवेति ॥ कित्त्वाद्गुणाभावे उवड् । सोतेति ॥ सोष्यति । सवतु । असवत् । सवेत् । सूयात् । लुडि असौषीदिति प्राप्ते । स्तुसुधूञ्भ्यः ॥ 'इडत्त्यर्ति' इत्यतः इडित्यनुवर्तते । ‘अञ्जे सिचि' इत्यत. सिचीत्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । एभ्यः सिचः इति । असावीदिति ॥ सिचि वृद्धौ ‘इट ईटि' इति सिज्लोपः । पूर्वोत्तराभ्यामिति ॥ स्तुञ्धूञ्भ्यामित्यर्थः । सुनोतेरिति ॥ ‘षूञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति ॥ इडभावे 'सिचि वृद्धिः’ इति भावः । असोष्यत् । श्रु श्रवणे इति ॥ उदन्तोऽयमनिट् । श्रुवः शृ च ॥ शृ इति लुप्तप्रथमाकम् । चकारेण 'स्वादभ्यः श्नुः' इति सूत्रस्थः श्नुः समुच्चीयते । तदाह । श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति ॥ शपोऽपवादः इति ॥ अनेन शब्विषये कर्त्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्ङित्त्वादिति ॥ सार्वधातुकमपिदित्यनेनेति भावः । शृणोतीति ॥ तिपमाश्रित्य श्नोर्गुण । तसादीनां डित्त्वात् श्नोर्न गुणः । तदाह । शृणुतः इति ॥ शृणु अन्तीति स्थिते अन्तेः डित्त्वात् श्नोर्गुणनिषेधे सति उवडि प्राप्ते । हुश्नुवोः ॥ श्नो प्रत्ययत्वात्तदन्तग्रहणम् । 'इणो यण् ’ इत्यत. यण् इत्यनुवर्तते । 'अचि श्नु' इत्यतः अचीति सार्वधातुकविशेषणत्वात्तदादिविधिः । 'एरनेकाचः' इति सूत्र एरितिवर्जमनुवर्तते । 'ओः सुपि' इत्यतः ओरिति च षष्ठ्यन्तम् । तदाह । जुहोतेरित्यादिना ॥ असयोगपूर्वस्येति तु उकारस्य विशेषण नतु श्नुविशेषणम् । तेन आप्नुवन्तीत्यत्र यण् न । हुश्नुवोः
१५२
[भ्वादि
सिध्दान्तकौमुदीसहिता

शृण्मः-शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् । ध्रु ९४३ स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । दु ९४४ द्रु ९४५ गतौ । दुदोथ-दुदविथ । दुदुविव । दुद्रोथ । दुद्रुव । 'णिश्रि--' (सू २३१२) इति चङ् । अदुद्रुवत् । जि ९४६ ज्रि ९४७ अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रूञ्जयति ।


किम् । योयुवति । अत्र युधातोर्यङ्लुकि अदभ्यस्तादिति झेरदादेशे योयु अति इति स्थिते अनेकाजङ्गावयवस्य असयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये 'बहुल छन्दसि’ इत्यनुवृत्तौ ‘यडोऽचि च' इति विहितस्य यङ्लुकश्छान्दसत्वात् । 'छन्दस्युभयथा, इत्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेः हुश्नुग्रहणम्भाषायामपि क्वचित्यङ्लुक ज्ञापयतीत्युक्तम् । तथाच भाषायामपि अनेकाचः असयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ युङ्लुक्सिद्धे तत्र यणभावार्थ हुश्नुग्रहणमिति फलति । ज्ञापकस्य सामान्यापेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि क्वचिद्यङ्लुक् सिध्द्यति । एतदेवाभिप्रेत्य भाष्ये 'हुश्नुग्रहणं ज्ञापयति भाषायामपि यङ्लुक् भवतीत्युक्त्वा किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चेच्छिदीति इत्येतत्सिद्धम्भवति' इत्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, नत्वन्यत्रेत्याहुः । भिदिच्छिद्योर्ग्रहणम्प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति ॥ शृणुथः । शृणुथेत्यपि ज्ञेयम् । 'लोपश्चास्यान्यतरस्या म्वोः' इत्यभिप्रेत्याह । शृण्वः इत्यादि ॥ शुश्राव । शुश्रुवतुः । शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिण्निषेधः । तदाह । शुश्रोथ । शुश्रुवेति ॥ शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति । शृणोतु-शृणुतात् । शृणुताम् । शृण्वन्तु । 'उतश्च प्रत्ययादसयोगपूर्वात्' इति हेर्लुक मत्वा आह । शृण्विति ॥ शृणुतात् । शृणुतम् । शृणुत । शृणवानीति ॥ आटः पित्त्वेन डित्त्वाभावाद्गुण इति भावः । ध्रु स्थैर्ये इति ॥ अनिट् । ध्रवति । दुध्राव । दुध्रुवतुः । दुध्रुवुः । भारद्वाजनियमात्थलि वेट् । दुध्रविथ-दुध्रोथ । दुध्रुवथुः । दुध्रुव । दुध्राव--दुध्रव । दुध्रुविव । दुध्रुविम । क्रादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । ध्रूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति ॥ अनिटौ । दवति । द्रवति । दुदाव । दुदुवतुः । दुदुवुः । दुद्राव । दुद्रुवतुः । दुद्रुवुः । अस्य भारद्वाजनियमात्थलि वेडित्याह । दुदोथ-दुदविथेति ॥ दुदुवथुः । दुदुव । दुदाव--दुदव । वमयोः क्रादिनियमादिडित्याह । दुदुविवेति ॥ द्वितीयस्य क्रादित्वात्थलि नित्य नेट् । तदाह । दुद्रोथेति ॥ दुद्रुवथुः । दुद्रुव । दुद्राव-दुद्रव । वमयोः क्रादित्वान्नेट् । तदाह । दुद्रुवेति ॥ दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । अद्रवत् । दवेत् । द्रवेत् । दूयात् । द्रूयात् । अदौषीत् । चिङिति ॥ द्रुधातोरिति भावः । अदुद्रुवदिति ॥ चडीति द्वित्वम् । डित्त्वाद्गुणनिषेधे उवडिति भावः । अदोष्यत् । अद्रोष्यत् । जि ज्रि अभिभवे इति ॥ अनिट् । न्यूनीकरणमिति ॥ नीचीकरणमित्यर्थः । न्यूनीभवनमिति ॥ क्षीणबलीभवनमित्यर्थः । शत्रूञ्जयतीति ॥ नीचीकरोतीत्यर्थः । ननु
प्रकरणम्]
१५३
बालमनोरमा ।

द्वितीये त्वकर्मकः । ‘अद्ध्ययनात्पराजयते' । अद्ध्येतुं ग्लायतीत्यर्थः । 'विपराभ्यां जेः ' (सू २६८५ ) इति तङ् । 'पराजेरसोढः' । (सू ५८९) इत्यपादानत्वम् ।

अथ डीङन्ता डितः । ष्मिङ् ९४८ ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे । गुङ् ९४९ अव्यक्ते शब्दे । गवते जुगुवे । गाङ् ९५० गतौ । गाते । गाते । गाते । इट एत्त्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । 'गाङ्कुटादिभ्य:--'


जिधातोः परस्मैपदित्वात् पराजयत इति कथमात्मनेपदमित्यत आह । विपराभ्यामिति ॥ ननु पराजयस्य अध्द्ययनेन सश्लेषविश्लेषयोरभावात् कथम्पराजयम्प्रत्यध्ययनस्यापादानत्वमित्यत आह । पराजेरिति ॥ जयति । लिटि ‘सन्लिटोर्जे' इति कुत्वम् । जिगाय । जिग्यतुः । जिग्युः । भारद्वाजनियमात्थलि वेट् । जिगयिथ-जिगेथ । जिग्यथुः । जिग्य । जिगाय-जिगय । वमयो क्रादिनियमादिट् । जिग्यिव । जिग्यिम । जेता । जेष्यति । जयतु । अजयत् । जयेत् । जीयात् । अजैषीत् । अजैष्टाम् । अजैषु । अजैषीः । अजैष्टम् । अजैष्ट । अजैषम् । अजैष्व । अजैष्म । अजेष्यत् । इति धेडादयोऽजन्ताः परस्मैपदिनः । अथ डीङन्ता ङितः इति ॥ 'ङीड् विहायसा गतौ' इत्येतत्पर्यन्ताः डित्त्वादात्मनेपदिन इत्यर्थः । ष्मिड् ईषद्धसने । षोपदेशोऽयम् । स्मयते इति ॥ धात्वादेरिति षस्य सः । सिष्मिये इति ॥ कित्त्वाद्गुणाभावे इयङ् । आदेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियाते । सिष्मियिरे । क्रादिनियमादिट् । सिष्मियिषे । सिष्मियाथे। ‘विभाषेट:’ इति मत्वा आह । सिष्मियिढ्वे-सिष्मियिध्वे इति ॥ स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट। अस्मेष्ट । अस्मेष्यत । गुड्-धातुरनिट् । गुणः ओकारः अवादेश इति विशेषः । गाड्धातुरनिट् । गाते इति ॥ लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह । गाते इति ॥ गा अ आतामिति स्थिते परत्वात् सवर्णदीर्घे अतः परस्य दीर्घाकारस्याभावात् ‘आतो डित' इति इय् न भवति । झावपि तथैव रूपमाह । गाते इति ॥ शपा सह आकारस्य सवर्णदीर्घे ‘आत्मनेपदेष्वनतः’ इति झेः अदादेशे टेरेत्वमिति भावः । गासे । गाथे । गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह । इट इति ॥ गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृते 'वृद्धिरेचि' इति वृद्धौ गै इति रूपमित्यर्थः । गावहे । गामहे । लिटि अजादौ आल्लोपः । जगे । जगाते । जगिरे । क्रादिनियमादिट् । जगिषे । जगाथे । जागध्वे । जगे । जागिवहे। जगिमहे । गाता । गास्यते । गाताम् । गाताम् । गाताम् । गास्व । गाथाम् । गाध्वम् । गै । गावहै । गामहै । अगात । अगाताम् । अगात । अगाथाः । अगाथाम् । अगाध्वम् । लङ इटीति ॥ अगा अ इ इति स्थिते टिदादेशत्वाभावादेत्वाभावे सवर्णदीर्घे आद्गुणे अगे इति रूपामित्यर्थः । अगावहि । अगामहि । गेतेति ॥ लिडस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे ‘आद्गुण’ इति भावः । गेयातामिति ॥ गा अ आतामिति स्थिते सवर्णदीर्घे
१५४
[भ्वादि
सिध्दान्तकौमुदीसहिता

(सू २४६१) इति सूत्रे इङादेशम्यैव गाडो ग्रहणं न त्वस्य । तेनाङित्त्वात् 'घुमास्था–' (२४६२) इतीत्त्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादय: । फले तु न भेदः । कुङ् ९५१ घुङ् ९५२ उङ् ९५३ ङुङ् ९५४ शब्दे । अन्ये तु 'उङ् कुङ् खुङ् गुङ् घुङ् ङुङ्' इत्याहुः । कवते । चुकुवे । घवते । अवते । ऊवे । वर्णादाङ्गं वलीयः (प ५६) इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता । च्युङ् ९५५ ज्युङ् ९५६ प्रुङ् ९५७ प्लुङ् ९५८ गतौ ।


सियुटि सलोपे ‘आद्गुण’ इति भावः । गेरन्निति ॥ झस्य रन्भावे गा अ रन् इति स्थिते सवर्णदीर्घे सियुटि सलोपे यलोपे ‘आद्गुण’ इति भावः । गेथा । गेयाथाम् । गेध्वम् । गेय । गेवहि । गेमहि । आशीर्लिङि आह । गासीष्टेति ॥ गासीरन् । गासीष्ठाः । गासीयास्थाम् । गासीध्वम् । गासीय । गासीवहि । गासीमहि । ननु गासीष्टेत्यादौ 'गाङ्कुटादिभ्योऽञ्णिन्ङित् । इति ञ्णिद्भिन्नप्रत्ययस्य ङित्त्वविधानेन सीयुङागमविशिष्टप्रत्ययस्य ङित्त्वात् 'घुमास्थागापाजहातिसा हलि’ इति हलादौ क्ङिति विहितमीत्त्व स्यादित्यत आह । गाङ्कुटादिभ्यः इति सूत्रे इति ॥ इङ् इत्यनुवृत्तौ ‘गाङ् लिटि' इति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहण, नत्वस्य गाधातोरित्यर्थः । एतच्च ‘गाङ् लिटि’ इति सूत्रे भाष्ये स्पष्टम् । तेनेति ॥ गाङ्कुटादिसूत्रे प्रकृतस्य गाधातोरग्रहणेनेत्यर्थः । लुङ्याह । अगास्तेति ॥ अगासाताम् । अगासत । अगास्था । अगासाथाम् । अगाध्वम् । अगासि । अगास्वहि । अगास्महि । अगास्यत । आदादिकोऽयमिति ॥ ततश्च ‘अदिप्रभृतिभ्यः शपः’ इति शपो लुगिति भावः । फले तु न भेदः इति ॥ शपो लुकि सति, गाते, इत्याद्येव रूपम् । तस्मिन्नसत्यपि गा अ ते इत्यादौ सवर्णदीर्घे सति तदेव रूपमिति न रूपभेद इत्यर्थः । कुङ् घुङ् उङ् ङुङ् शब्दे इति ॥ चत्वारोऽपि ङितः । आद्यद्वितीयचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवलोवर्ण: । अन्ये त्विति ॥ आद्यः केवलोवर्णो ङित् । इतरे तु पञ्च क्रमेण कवर्गाद्या: । तत्र कुङ्धातोरुदाहरति । कवते इति ॥ लिटि अजादौ कित्त्वाद्गुणाभावे उवङ् । तदाह । चुकुवे इति ॥ चुकुवाते । चुकुविरे । क्रादिनियमादिट् । चुकुविषे । चुकुवाथे । चुकुविध्वे । चुकुवे । चुकुविवहे । चुकुविमहे । कोता । कोष्यते । कवताम् । अकवत् । कवेत् । कोपीष्ट । अकोष्ट । अकोष्यत । एव खवते इत्यादि । उङ्धातोराह । अवते इति । ऊवे इति ॥ उ ऊ ए इति स्थिते द्वितीयस्य उवर्णस्य उवङि कृते सवर्णदीर्घ इति भावः । ननु उवङ् बहिर्भूतप्रत्ययापेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घे कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह । वार्णादिति ॥ ऊवाते । ऊविरे । क्रादिनियमादिट् । ऊविषे । ऊवाथे। ऊविध्वे । ऊवे । ऊविवहे । ऊविमहे । ओता, ओष्यते इति ॥ आवत । अवेत । ओषीष्ट । औष्ट । औष्यत । इत्यपि ज्ञेयम् । ङुङ्धातोर्लटि, ङवते, इति रूपमुक्तम् । सम्प्रति लिटि रूपमाह । ञुङुवे इति ॥ ‘कुहोश्चुः’ इति ङकारस्य स्थानिनश्चुर्भवन् स्थानसाम्यस्य
प्रकरणम्]
१५५
बालमनोरमा ।

'क्लुङ् इत्येके । रुङ् ९५९ गतिरेषणयोः । रेषणं हिंसा । रुरुवे । रवितासे । धृङ् ९६० अवध्वंसने । धरते । दध्रे । मेङ् ९६१ प्रणिदाने । प्रणिदानं, विनिमयः प्रत्यर्पणं च । प्रणिमयते । 'नेर्गद--' (सू २२८५) इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् । देङ् ९६२ रक्षणे । दयते ।

२३८८ । दयतेर्दिगि लिटि । (७-४-९)

'दिग्यादेशेन द्वित्वबाधनमिष्यते' इति वृत्तिः । दिग्ये ।


पञ्चस्वभावादाभ्यन्तरप्रयत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणानुनासिक्यसाम्यात् ञकारः । प्रथमतृतीयौ तु न भवतः आनुनासिक्याभावात् । च्युडादयोऽप्युवर्णान्ता अनिटः कुङ्धातुवत् ज्ञेयाः । रुङ् गतीति ॥ सेट्कोऽयम् । 'ऊदॄदन्तैर्यौतिरुक्ष्णु' इत्यनिट्सु पर्युदासात् । तदाह । रवितासे इति ॥ धृङ्धातुरनिट् । दध्रे इति ॥ कित्त्वाद्गुणनिषेधे ॠकारस्य यण् । दध्राते । दध्रिरे । क्रादिनियमादिट् । दध्रिषे । दध्राथे । दध्रिध्वे । दध्रे । दध्रिवहे । दध्रिमहे । धर्ता । लृटि स्ये ‘ॠद्धनोः' इति इटि धरिष्यते । धरताम् । अधरत । धरेत । आशीर्लिङि सीयुटि ‘उश्च' इति कित्त्वान्न गुणः । धृषीष्ट । ‘ह्रस्वादङ्गात्’ इति सिचो लुक् । अधृत । अधृषाताम् । अधृषत । अधरिष्यत । मेङ् प्रणिदाने । णत्वमिति ॥ प्रणिदानशब्दे प्रणिमयते इत्यत्र च 'नेर्गद' इति णत्वमित्यर्थः । ननु प्राणेमयत इत्यत्र णत्वमिदन्न सम्भवति । शिद्विषये आत्वाभावेन, मारूपाभावात् । तथा प्रणिदानशब्देऽपि णत्व न सम्भवति । तत्र देङ् कृतात्वस्य लाक्षणिकदारूपत्वात् । ‘गामादाग्रहणेष्वविशेष' इत्याश्रित्य मेडोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमिनोरात्त्योरात्त्वे प्रनिमाता प्रनिमास्यति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह । तत्रेति ॥ तत्र 'नेर्गद’ इति णत्वविधौ । घुमेत्यस्य स्थाने घुप्रकृतिमाडिति पठित्वा तत्र प्रकृतिशब्दस्य घुमाङ्प्रकृतिपरत्वमाश्रित्य घौ माङ्धातौ घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्डितो मेङ्धातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृता इष्टत्वात् । (अभ्युपगतत्वादित्यर्थ) एवञ्च प्रणिमयते प्रणिदानमित्यत्र नाव्याप्तिः । मेङ् कृतात्वस्य माप्रकृतित्वे सति ङित्त्वात् । नापि मीनातिमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्ति । मारूपस्य ङित्त्वाभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे । ममाते । ममिरे । क्रादिनियमादिट् । ममिषे । ममाथे । ममिध्वे । ममे । ममिवहे । ममिमहे । माता । मास्यते । मयताम् । अमयत । मयेत । मासीष्ट । अमास्त । अमास्यत । देङ्धातुर्मेङ्वत् । दयतेर्दिगि ॥ दिगीति लुप्तप्रथमाकम् । देङ्धातोः दिगि इत्यादेश स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदिग्ये इत्यादि स्यादित्यत आह । दिग्यादेशेनेति ॥ एतच्च भाष्ये स्पष्टम् । वृत्तिरिति ॥ भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे । दिग्याथे । दिग्यिध्वे । दिग्ये ।
१५६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३८९ । स्थाघ्वोरिच्च । (१-२-१७)

अनयोरिदादेशः स्यात् सिच्च कित्स्यात् । अदित । अदिथा: । अदिषि । श्यैङ् ९६३ गतौ । श्यायते । शश्ये । प्यैङ् ९६४ वृद्धौ । प्यायते । पप्ये । प्याता । त्रैङ् ९६५ पालने । त्रायते । तत्रे । पूङ् ९६६ पवने । पवते । पुपुवे । पविता । मूङ् ९६७ बन्धने । मवते । डीङ् ९६८ विहायसा गतौ । डयते । डिड्ये । डयिता । तॄ ९६९ प्लवनतरणयोः ।

२३९० । ॠत इद्धातोः (७-१-१००)


दिग्यिवहे । दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट । लुडि सिचि अदास् त इति स्थिते । स्थाघ्वोरिच्च ॥ ‘असयोगाल्लिट्’ इत्यतः किदिति ‘हनस्सिच्’ इत्यतस्सिजिति चानुवर्तते । तदाह । अनयोरित्यादिना ॥ परस्मैपदेषु नेदं प्रवर्तते । तत्र ‘गातिस्था' इति सिचो लुका लुप्तत्वात् । अत एव लिड्सिचौ' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम् । व्यावर्त्याभावात् । अदितेति ॥ इत्वे कृते ‘ह्रस्वादङ्गात्’ इति सिचो लुक । त इत्यस्य डित्त्वादिकारस्य न गुण । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक । झलि परत एव लुग्विवे । सिचः कित्त्वादिकारस्य न गुणः । आदिषाताम् । आदिषत् । आदिथा । आदिषाथाम् । अदिट्वम् । अदिषीति ॥ अदिष्वहि । अदिष्महि । अदास्यत् । इत्यपि ज्ञेयम् । श्यैङ् गतौ ॥ श्यायते इति ॥ शपि आयादेशः । शिद्विपयत्वादात्वन्नेति भावः । शश्ये इति ॥ एाशि आत्वे आतो लोपः । शिश्याते । शिश्यिरे । क्रादिनियमादिट् । शिश्यिषे । शिश्याथे । शिश्यिध्वे । शिश्ये । शिश्यिवहे । शिश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्येङ्धातुरपि श्यैडवत् । त्रैडप्येवम् । पूङ् पवने इति ॥ सेट् । ऊदन्तानामनिट्सु पर्युदासात् । पवते इति ॥ शपि गुण अवादेशः । पुपुवे इति ॥ कित्त्वाद्गुणाभावे उवड् । पुपुवाते । पुपुविरे । पुपुविषे । पुपुवाथे । पुपुविध्वे । पुपुवे । पुपुविवहे । पुपुविमहे । पविता । पविष्यते । पवताम् । अपवत । पवेत । पविषीष्ट। अपविष्ट । अपविष्यत । मूङ्धातुरप्येवम् । डीङ् विहायसा गताविति ॥ आकाशेन गमने इत्यर्थः । सेडयम् । अनिट्सु डीङ् पर्युदासात् । डयते इति ॥ शपि ईकारस्य गुणे अयादेश इति भावः । डिड्ये इति ॥ कित्त्वाद्गुणाभावे ईकारस्य यणिति भावः । डिड्याते । डिड्यिरे। डिड्यिषे । डिड्याथे । डिड्यिध्वे । डिड्ये । डिड्यिवहे । डिड्यिमहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयिषीष्ट। डयिषीयास्ताम् । डयिषीरन् । डयिषीष्ठा । डयिषीयास्थाम् । डयिषीढ्वम्-डयिषीध्वम् । डयिषीय । डयिषीवहि । डयिषीमहि । अडयिष्ट । अडयिष्यत । इति स्मिडादयो डीडन्ता ङितः । तॄधातुः सेट् परस्मैपदी । अनिट्सु ॠदन्तपर्युदासात्सेट् । ॠत इद्धातोः ॥ ॠत इति धातोर्विशेषणम् । तदन्त
प्रकरणम्]
१५७
बालमनोरमा ।

ॠदन्तस्य धातोरङ्गस्य इत्स्यात् । 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा ४३७३) । तरति । 'ॠच्छत्यॄताम्' (सू २३८३) इति गुणः । 'तॄफल-' (सू २३०१) इत्येत्त्वम् । तेरतुः । तेरुः ।

२३९१ । वॄतो वा । (७-२-३८)

वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । तरिता-तरीता । 'अलिटि' इति किम् । तेरिथ । 'हलि च' (सू ३५४) इति दीर्घ ।

२३९२ । सिचि च परस्मैपदेषु । (७-२-४०)

अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ।

अथाष्टावनुदात्तेतः । गुप ९७० गोपने । तिज ९७१ निशाने । मान ९७२ पूजायाम् । बध ९७३ बन्धने ।


विधि । अङ्गस्येत्यधिकृतम् । तदाह । ॠदन्तस्येति ॥ धातो किम् । मातॄणा । तथाच तरति, पिपर्ति, ततार, पपार, इत्यादौ ॠकारस्य परे शपि गुणवृद्धी बाधित्वा अन्तरङ्गत्वात् उत्व स्यादिति शङ्का प्राप्ता । ता परिहर्तुमाह । इत्वोत्वाभ्यामिति ॥ ल्यब्लोपे पञ्चमीद्विवचनम् । ‘ॠत इद्धातोः' इति इत्त्व ‘उदोष्ठ्यपूर्वस्य’ इति उत्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात् स्यातामिति भावः । तरतीति ॥ णलि ततार । अतुसादौ कित्त्वाद्गुणनिषेधमाशङ्क्याह । ऋच्छत्यॄतामिति ॥ ततर् अतुस् इति स्थिते अकारस्य गुणशब्देन भावितत्वात् 'न शसददवादिगुणानाम्' इति निषेधमाशङ्क्याह । तॄफलेति । तेरतुः, तेरुः, इति ॥ तेरिथ । तेरथुः । तेर । ततार-ततर । तेरिव । तेरिम । वॄतो वा ॥ वृ ॠ इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोर्ग्रहणम् । ‘आर्धधातुकस्येट्’ इत्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते । 'ग्रहोऽलिटि दीर्घः’ इत्यतः अलिटि दीर्घ इत्यनुवर्तते । तदाह । वृङ्वृञ्भ्यामित्यादि । तरिता-तरीतेति ॥ इटो दीर्घविकल्प । गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति ॥ आशीर्लिङि ङित्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे, ‘हलि च' इति दीर्घे तीर्यात् इति रूपमित्यर्थः । अतारीत्, अतारिष्टाम्, इत्यादौ ‘वॄतो वा' इति दीर्घे प्राप्ते । सिचि च । अत्रेति ॥ परस्मैपदपरके सिचि वृङ्वृञ्भ्याम् ॠदन्ताच्च परस्य इटो दीर्घो नेत्यर्थ ‘न लिडि’ इत्यतो नेत्यनुवर्तते । अतारिष्टामिति ॥ अतारिषु । अतारिषम् । अतारिष्व । अतारिष्म । अतरिष्यत् । गुप गोपने इति ॥ गोपन रक्षणम् । तिज निशाने इति ॥ निशानन्तीक्ष्णीकरणम् । मान पूजायाम् । बध
१५८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३९३ । गुप्तिज्किद्भ्यः सन् । (३-१-५)

२३९४ । मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य । (३-१-६)

सूत्रद्वयोक्तेभ्यः सन्स्यात् । मानादीनामाभ्यासस्येकारस्य दीर्घश्च । 'गुपेर्निन्दायाम्' (वा १६८७) । 'तिजेः क्षमायाम्' (वा १६८८) । 'कितेर्व्याधिप्रतीकारे' (वा १६८९ ) 'निग्रहे' 'अपनयने' 'नाशने 'संशये च' 'मानेर्जिज्ञासायाम्' (वा १६९२) 'बधेश्चित्तविकारे' (वा १६९३) । 'दानेरार्जवे' (वा १६९४) । 'शानेर्निशाने' (वा १६९५) । 'सनाद्यन्ताः--' (सू २३०४) इति धातुत्वम् ।

२३९५ । सन्यङोः । (६-१-९)

सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यथैका एवानुदात्तेतः । दानशानी


बन्धने इति ॥ एते चत्वारोऽनुदात्तेतः इति स्थितिः । गुप्तिज्किद्भ्यः । मान्व ध ॥ गुप्तिजी इह पठितौ । ‘कित निवासे’ इत्यनुपदमेव परस्मैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्वधधातुश्च इह पठितौ । दान खण्डने । शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्यते । एभ्यश्चतुर्भ्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्यार्थः । आभ्यासस्येति च्छेदः । अभ्यासस्य विकार आभ्यासः स च ‘सन्यत:’ इति इत्त्वमेव नतु ह्रस्व इति ‘गुणो यङ्लुको ' इति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्वधदान्शानामभ्यासावयवस्य इकारस्य सन्सन्नियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थ इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह । सूत्रद्वयेति ॥ अथ उक्तसनो वृत्तिकृताषुपनिबद्धान् अर्थविशेषानाह । गुपेर्निन्दायामित्यादिना शानेर्निशाने इत्यन्तेन ॥ अथ गोपनाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्द्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । मानेर्विचारे इत्येव वृत्तिकृत् । सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह । सनाद्यन्ताः इति सन्यङोः ॥ अवयवषष्ठ्येषा । प्रत्ययत्वात्तदन्तग्रहणम् । ‘एकाचो द्वे प्रथमस्य' इति ‘अजादेर्द्वितीयस्य' इति चाधिकृतम् । तदाह । सन्नन्तस्येत्यादिना ॥ सनि यङि च परे इति तु न व्याख्येयम् । तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीपिपति, अटाट्यते, इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्ते । अभ्यासकार्यमिति ॥ हलादिशेषादिकमित्यर्थः । गुपिप्रभृतयः इति ॥ कितधातुभिन्ना गुप्तिजमानवधाश्चत्वार गुपेर्निन्दायामित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादनुदात्तेदेव सन् व्याधिप्रतीकारादिपञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति ॥ दान खण्डने, शान तेजने, इति धातू स्वारितेतावेव सन्तो आर्जवे निशाने चार्थे सन्भाजावित्यर्थः । तयोरनुपदमेव
प्रकरणम्]
१५९
बालमनोरमा ।

तु स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरेषु त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्साञ्चक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बीभत्सते । रभ ९७४ राभस्ये । आरभते ।


स्वरितेत्सु पाठादिति भावः । एते नित्यं सन्नन्ता इति ॥ एते गुप्तिजादय सप्त धातव गुपेर्निन्दायामित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः । निन्दाद्यर्थकत्वे सन् विना एषाम्प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु त्विति ॥ निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धरहिता स्सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तात्कर्तृगेऽपि फले तङ् स्यादिति भावः । नन्वेव सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरण व्यर्थम् । उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाभावादित्यत आह । अनुबन्धस्येति ॥ गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्फलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्व विज्ञायत इति कृत्वा सन्नन्तात्तडित्यर्थः । नचैवमपि भ्वादिगणे एषाङ्गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यम् । भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः । तदुक्तम्भाष्ये । ‘गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपदम्’ इति । अत्र सन्नन्तादात्मनेपदमित्युक्त्या केवलानामेषा शब्विकरणानां नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यमित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात् सन्नन्तादिव ण्यन्तादपि कर्तृगे फले आत्मनेपदार्थत्वापातात्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तर । धातोरितीति ॥ 'आर्धधातुक शेषः' इत्यत्र धातोर्विहित प्रत्यय इति विहितविशेषणाश्रयणात् सनश्चास्य धात्वधिकारविहितत्वाभावान्नार्धधातुकत्वमित्यर्थः । तेनेति ॥ सन आर्धधातुकत्वाभावेनेत्यर्थः । जुगुप्सते इति ॥ निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणयोरभावे 'सन्यङोः' इति द्वित्वे हलादिशेषे अभ्यासकुत्वे जश्त्वे इति भावः । जुगुप्साञ्चक्रे इति ॥ कास्प्रत्ययादित्याम् । जुगुप्सिता । जुगुसिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट। अजुगुप्सिष्ट । अजुगुप्सिष्यत । तितिक्षते इति ॥ तीक्ष्णीकरोतीत्यर्थः । तिजे सनि द्वित्वादि । जस्य कुत्वेन ग तस्य चर्त्वेन क सस्य षत्वमिति विशेषः । मीमांसते इति ॥ विचारयतीत्यर्थः । मान्धातो सनि द्वित्वे हलादिशेषे अभ्थासह्रस्वे 'सन्यतः’ इति इत्त्वे मान्बधेत्यभ्यासदीर्घे, नश्चेत्यनुस्वारे, मीमांसधातोर्लडादीति भावः । बधधातोः सनि विशेषमाह । भष्भावः इति ॥ बकारस्य भकार इत्यर्थः । चर्त्वमिति॥। धस्य तकार इत्यर्थः । तथाच भत्सेति सन्नन्त सम्पन्नम् । बीभत्सते इति ॥ भष्त्वचर्त्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे ‘सन्यत:’ इति इत्त्वे 'मान्बध' इति दीर्घे बीभत्सधातोर्लडादीति भावः । तदेवड्गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्रतत्रोदाहरिष्यन्ते । रभ
१६०
[भ्वादि
सिध्दान्तकौमुदीसहिता

आरेभे । रब्धा । रप्स्यते । डु लभष् ९७५ प्राप्तौ । लभते । ष्वञ्ज ९७६ परिष्वङ्गे ।

२३९६ । दंशसञ्जस्वञ्जां शपि । (६-४-२५)

२३९७ । रञ्जेश्च । (६-४-२६)

एषां शपि नलोपः । स्वजते । परिष्वजते । 'श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वा' इति व्याकरणान्तरम् । 'देभतुः' 'सस्वजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते । 'सदेः परस्य लिटि' (सू २३६१) इति सूत्रे 'स्वञ्जेरुपसंख्यानम्' (वा ४९६८) । अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे-परिषस्वञ्जे । सस्वजिषे-सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । अस्वङ्क्त । प्रत्यष्वङ्क्त । 'प्राक्सितात्–' (सू २२७६)


राभस्ये इति ॥ अनिडयम् । राभस्य शीघ्रीभावः । आडपूर्वकस्तु प्रारम्भार्थकः । तदाह । आरभते इति । रब्धेति ॥ झपस्तथोरिति धत्वम् । भस्य जश्त्वम् । रप्स्यत इति ॥ रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । डु लभषिति ॥ डुरित् । पकारश्च 'ड्वितः क्रि' । षिद्भिदादिभ्योऽड्' इति प्रयाजनम् । अनिट् । रभधातुवद्रूपाणि । ष्वञ्ज परिष्वङ्गे इति ॥ षोपदेशोऽयमनिट् । दंशसञ्ज । रञ्जेश्च ॥ व्याख्यासौकर्यार्थं सूत्रद्वयमुपात्तम् । नलापः इति ॥ नकारस्य लोप इत्यादि । ‘श्नान्नलोप’ इत्यतः तदनुवृत्तरिति

भावः । परिष्वजते इति ॥ 'परिनिविभ्यः' इति षत्वमिति भावः । सयोगात्परत्वाल्लिटः कित्त्वे अप्राप्ते आह । श्रन्थीति ॥ व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्यमित्याह । देभतुरिति ॥ ‘अत एकहल्मध्ये' इति सूत्रभाष्ये देभतुः इत्युदाहृतम् । 'सदेः परस्य लिटि' इति सूत्रभाष्ये सस्वजे इत्युदाहृतम् । ततश्च एकदेशानुमत्या श्रन्थिग्रन्थीत्यादिवाक्य कृत्स्न व्याकरणान्तरस्थम्भाष्यानुमतमिति विज्ञायते इत्यर्थः । सदेरिति ॥ 'सदेः परस्य लिटि’ इति षत्वनिषधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः । ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वन्न स्यादिति लब्धम् । तदाह । अतोऽभ्यासात् परस्येति । परिषस्वजे । परिषस्वञ्जे इति ॥ परस्येत्युक्तेरुत्तखण्डस्यैव षत्वनिषेध , नत्वभ्यासस्य कित्त्वपक्षे नलोपः । सस्वञ्जाते । सस्वजाते । सस्वञ्जिरे । सस्वजिरे । क्रादिनियमादिडित्याह । सस्वाजिषे । सस्वञ्जिषे इति ॥ सस्वञ्जाथे । सस्वजाथे । सस्वञ्जिध्वे । सस्वजिध्वे । सस्वञ्जे । सस्वजे । सस्वञ्जिवहे । सस्वजिवहे । सस्वञ्जिमहे । सस्वजिमहे । स्वङ्क्तेति ॥ स्वञ् ज् ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसम्पन्नञकारस्य निवृत्तौ नकारस्यानुस्वारे तस्य परसवर्णेन डकारे गकारस्य चर्त्वे रूपम् । एवमग्रेऽपि । स्वजेतेति ॥ 'दशसञ्ज' इति शपि नलोप इति भावः । स्वङ्क्षीष्ट । अस्वङ्क्तेति ॥ लुडि अस्वञ् ज् स् त इति स्थिते 'झलो झलि' इति सिज्लोपे कुत्वादि पूर्ववदिति भावः । ननु प्रत्यष्वङ्क्त इत्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाभावात् कथम् 'उपसर्गात्सुनोति' इति षत्वमित्यत आह । प्राक् सितादिति । परि-
प्रकरणम्]
१६१
बालमनोरमा ।

इति षत्वम् । परिनिविभ्यस्तु 'सिवादीनां वा –' (सू २३५९) इति विकल्पः । एतदर्थमेव 'उपसर्गात्सुनोति-' (सू २२७०) इत्येव सिद्धे स्तुस्वञ्ज्योः 'परिनिवि--' (सू २२७५) इत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त-पर्यस्वङ्क्त । 'हद ९७७ पुरीषोत्सर्गे । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ।

अथ परस्मैपदिनः । ञि ष्विदा ९७८ अव्यक्ते शब्दे । स्कन्दिर् ९७९ गतिशोषणयोः । चस्कन्दिथ-चस्कन्त्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्त्वादङ्वा । अस्कदत्-अस्कान्त्सीत् । अस्कान्ताम् । अस्कान्त्सुः ।


निविभ्यस्त्विति ॥ परस्य स्वञ्जे इति शेष । ननु परिनिविभ्य परस्यापि स्वञ्जे ‘परिनिविभ्य सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्' इति नित्यमेव षत्वमुचितम् । ‘प्राक्सितादड्व्यवायेऽपि' इत्यटा व्यवधानेऽपि तस्य प्रवृत्तेः । 'उपसर्गात्सुनोति’ इत्यादिसूत्रे स्वञ्जेः पठितत्वेन स्वञ्जे ‘प्राक्सितात्’ इति सूत्रविषयत्वादित्यत आह । एतदर्थमेवेत्यादि । परिनिवि इति ॥ नित्यषत्वविधौ स्वञ्जिरप्युपात्त ततः 'उपसर्गात्सुनोति’ इत्येव तस्य षत्वे सिद्धे पुनरुपादान 'सिवादीनां वाड्व्यवायेऽपि' इत्युत्तरसूत्रे षत्वविकल्पविधौ अनुवृत्त्यर्थमेव सम्पद्यते । परिनिविभ्यः परस्य स्वञ्जेः 'सिवादीनां वा’ इति षत्वविकल्पार्थ पूर्वसूत्रे ‘परिनिविभ्य सेव' इत्यत्र खञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः । हद पुरीषोत्सर्गे ॥ अनिडयम् । क्रादिनियमादिट् । जहदिषे । जहदिध्वे । जहदिवहे । जहदिमहे । हत्तेति ॥ लुटि तासि दस्य चर्त्वम् । अहत्तेति ॥ 'झलो झलि' इति सिज्लोपः । गुपादयोऽष्टावनुदात्तेतो गताः । अथ परस्मैपदिनः इति ॥ ‘कित निवासे’ इत्यन्ता इति शेष । ञि ष्विदेति ॥ ञि आकारश्च इत् । सेट् । स्वेदति । सिष्वेद । सिष्विदतुः । सिष्विदुः । सिष्वेदिथ । सिष्विदथुः । सिष्विद । सिष्वेद । सिष्विदिव । सिष्विदिम । स्वेदिता । स्वेदिष्यति । स्वेदतु । अस्वेदत् । स्वेदेत् । स्विद्यात् । अस्वेदीत् । अस्वेदिष्यत् । स्कन्दिरिरित् | अनिट् । भारद्वाजनियमात्थलि वेडित्याह । चस्कन्दिथ-चस्कन्त्थेति ॥ अनिट्पक्षे चस्कन् द् थ इति स्थिते 'खरि च' इति दकारस्य तकारः । चस्कन्दिव । चस्कन्दिम । स्कन्तेति ॥ लुटि तासि चर्त्वेन दस्य तः । स्कन्त्स्यतीति ॥ स्ये दस्य चर्त्वम् । स्कन्दतु । अस्कन्दत् । स्कन्देत् । आशीर्लिङि विशेषमाह । नलोपः इति ॥ इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लापः इत्यर्थः । अस्कददिति ॥ लुडि अडि सति डित्त्वान्नलोप इति भावः । अडभावे आह । अस्कान्त्सीदिति ॥ अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ । अतोऽत्र वृद्धौ दस्य चर्त्वेन तः । अस्कान्तामिति ॥ हलन्तलक्षणवृद्धौ 'झलो झलि' इति सिज्लोपे दस्य चर्त्वम् । अस्कान्त्सुरिति ॥ उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः । अस्कान्तम् । अस्कान्त
१६२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३९८ । वेः स्कन्देरनिष्ठायाम् । (८-३-७३)

षत्वं वा स्यात् । कृत्येवेदम् 'अनिष्ठायाम्’ इति पर्युदासात् । विष्कन्ता-विस्कन्ता । निष्ठायां तु विस्कन्नः ।

२३९९ । परेश्च । (८-३-७४)

अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागात् 'अनिष्ठायाम्' इति न संबद्ध्यते । परिष्कन्दति-परिस्कन्दति । परिस्कन्नः-परिष्कण्णः । षत्वपक्षे णत्वम् । नच पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । 'धातूपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् । 'पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् । 'पूर्वं साधनेन---' इति मतान्तरे तु न णत्वम् ।


अस्कान्त्सम् । अस्कान्त्स्व । अस्कान्त्स्म । अस्कन्त्स्यत् । वेः स्कन्देः ॥ शेषपूरणेन सूत्र व्याचष्टे । षत्वं वा स्यादिति ॥ 'अपदान्तस्य मूर्धन्यः’ इत्यधिकारात् 'सिवादीनां वा' इत्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यात् । अनिष्ठाया परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह । कृत्येवेदमिति ॥ पर्युदासस्य अब्राह्मणमानयेत्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्ता-विस्कन्तेति ॥ तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् । परेश्च ॥ ननु विपरिभ्या स्कन्देरनिष्ठायामित्येव सिद्धे सूत्रभेदो व्यर्थ इत्यत आह । योगेति । षत्वपक्षे इति ॥ परिष्कन् द् त इति स्थिते अनिदितामिति नलोपे 'रदाभ्याम्' इति निष्ठातकारस्य तत्पूर्वदकारस्य च नत्वे सस्यानेन षत्वपक्षे प्रथमनकारस्य रेफापेक्षया भिन्नपदस्थत्वेऽपि षात् परत्वात् णत्वे द्वितीयनकारस्य ष्टुत्वेन णत्वे परिष्कण्ण इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तक णत्वमन्तरङ्गम् । निमित्तनिमित्तिनोरेकपदस्थत्वात् । षत्वन्तु परि इत्युपसर्गात्मकपदान्तरस्थमिणन्निमित्तीकृत्य प्रवर्तमानम्बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्यासिद्धत्वात् षात्परत्वाभावात् कथं णत्वमित्याशङ्क्य निराकरोति । नचेति ॥ पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्यासिद्धत्वं यत्प्रसक्तन्तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह । धातूपसर्गयोरिति । पूर्वं धातुरिति ॥ धातुरुपसर्गेण सह युज्यते सन्ध्यादिकार्य लभते । पश्चात् धातूपसर्गकार्यप्रवृत्त्यनन्तर साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदञ्च ‘सम्प्रसारणाच्च' इत्यादिसूत्रभाष्ये स्पष्टम् । तदाह । भाष्यमिति । मतान्तरे त्विति ॥ ‘पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ । येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेना
प्रकरणम्]
१६३
बालमनोरमा ।

यभ ९८० मैथुने । येभिथ-ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् । णम ९८१ प्रह्वत्वे शब्दे च । नेमिथ-ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् । गम्लृ ९८२ स्पृप्लृ ९८३ गतौ ।

२४०० । इषुगामियमां छः । (७-३-७७ )

एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ-जगन्थ । गन्ता ।

२४०१ । गमेरिट् परस्मैपदेषु । (७-२-५८)


कित्त्वेऽपि 'थलि च सेटि’ इत्येत्वाभ्यासलोपं मत्वा आह । येभिथेति । ययब्धेति ॥ थलि इडभावपक्षे पित्त्वेनाकित्त्वादेत्त्वाभ्यासलोपाभावे ययभ् थ इति स्थिते 'झषस्तथो' इति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः । येभ । ययाभ-ययभ । क्रादिनियमादिट् । येभिव । येभिम । यब्धेति ॥ लुटि तासि तकारस्य 'झषस्तथोः' इति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति ॥ स्ये भस्य चर्त्वेन षः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । अयप्स्यत् । णम प्रह्वत्वे इति ॥ अनिडय णोपदेशश्च । केचित्त्विम धातुमुदित पठन्ति । तत्तु प्रामादिकम् । तथा सति ‘उदितो वा' इति क्त्वायामिड्विकल्पस्य ‘यस्य विभाषा' इति निष्ठायामिटश्चापत्ते । नमति । ननाम । नेमतुः । नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाकित्त्वेऽपि ‘थलि च सेटि' इत्येत्त्वाभ्यासलोप मत्वा आह । नेमिथ-ननन्थेति ॥ इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाभावे रूपम् । नेमथुः । नेम । ननाम-ननम । नेमिव । नेमिम । क्रादिनियमादिट् । नन्तेति ॥ मस्यानुस्वारपरसवर्णौ । नस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ॥ 'यमरम' इति सगिति भावः । अनस्यत् । गम्लृ सृप्लृ गताविति ॥ अनिटौ । सृपिरषोपदेश । इषुगमि । शितीति ॥ 'ष्ठिवुक्लमुचमाम्' इत्यतः तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेर्ग्रहणम् । अत्राचीत्यनुवर्त्य अजादौ शितीत्याश्रित्य इष्यति, इष्णाति, इत्यत्र छत्व नेति भाष्ये स्थितम् । एवञ्चात्र सूत्रे तुदादौ च उदित्पाठः अनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति ॥ शपि मकारस्य छकारः । जग्मतुरिति ॥ 'गमहन' इत्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह । जगमिथ-जगन्थेति ॥ जग्मथुः । जग्म । जगाम-जगम । जग्मिव । जग्मिम । क्रादिनियमादिट् । गमेरिट् ॥ गमेरिति पञ्चमी 'सेऽसिचि' इत्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्त विशेष्यते ।
१६४
[भ्वादि
सिध्दान्तकौमुदीसहिता

गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । 'अनङि' इति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ।

२४०२ । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५९)

उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता-सर्प्ता । स्रप्स्यति-सर्प्स्यति । असृपत् । यम ९८४ उपरमे । यच्छति । येमिथ-ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् । तप ९८५ सन्तापे । तप्ता । अताप्सीत् ।

२४०३ । निसस्तपतावनासेवने । (८-३-१०२)


तदादिविधिः । तदाह । गमेः परस्येत्यादिना ॥ परस्मैपदेष्वित्यस्य आत्मनेपदाभावे इत्यर्थः । एवञ्च सञ्जिगमिषितेति तृचि इट् सिध्द्यति । गमिष्यतीति ॥ गन्छतु । अगच्छत् । गच्छेत् । गम्यात् । लुडि विशेषमाह । लृदित्त्वादङिति ॥ 'गमहन' इति उपधालोपो नेत्याह । अनङि इति पर्युदासादिति । अगमदिति ॥ लृङि अगमिष्यत् । सर्पतीति ॥ शपि ॠकारस्य लघूपधगुणः रपरत्वम् । ससर्पेति ॥ ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाभावादकारान्तत्वाभावाच्च नेण्निषेध । ससर्पिथ । ससृपथुः ।

ससृप । ससर्प । ससृपिव। ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते । अनुदात्तस्य च ॥ 'सृजिदृशोः' इत्यतः झल्यमकितीति ‘आदेच' इत्यतः उपदेशे इति चानुवर्तते । तदाह । उपदेशेऽनुदात्तः इत्यादिना ॥ मित्त्वादन्त्यादचः परः । उपदेशे किम् । स्रप्तुम् । तुमुनि परे 'ञ्नित्यादिर्नित्यम्’ इत्युदात्तोऽयम् । अथापि उपदेशे अनुदात्तत्वादम्भवत्येव । अकितीति किम् । क्तप्रत्यये सृप्तः । स्रप्तेति ॥ सृप्धातोर्लुटि तासि अमागमे ॠकारस्य यणिति भावः । सर्प्तेति ॥ अमभावे लघूपधगुणे रपरत्वमिति भावः । एवं स्रप्स्यति - सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति ॥ लृदित्वात् च्लेरिडि सति कित्त्वान्न गुण इति भावः । अस्रप्स्यत्-असर्प्स्यत् । यम उपरमे इति ॥ उपरमो विरमणम् । अनिडयम् । यच्छतीति ॥ 'इषुगमियमाम्' इति शपि छः । ययाम । येमतुः । येमुः । थलि भारद्वाजनियमादिट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ । तदाह । येमिथययन्थेति ॥ इडभावे रूपम् । येमथुः । येम । ययाम-ययम। येमिव । येमिम । क्रादिनियमादिट् । यन्तेति ॥ यस्यति । यन्छतु । अयच्छत् । यच्छेत् । यस्यात् । अयसीत् । यमरमेति इट्सकौ । इट ईटीति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयस्यत् । तप सन्तापे इति ॥ अनिडयम् । तपति । तताप । तेपतुः । तेपुः । तेपिथ-ततप्थ । तेपथुः । तेप । तताप-ततप । तेपिव । तेपिम । तप्तेति ॥ तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ ॥ शेषपूरणेन सूत्र व्याचष्टे । षः स्यादिति ॥ अपदान्तस्य मूर्धन्य
प्रकरणम्]
१६५
बालमनोरमा ।

षः स्यात् । आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये । निष्टपति । त्यज ९८६ हानौ । तत्यजिथ-तत्यक्थ । त्यक्ता । अत्याक्षीत् । षञ्ज ९८७ सङ्गे । 'दंशसञ्जस्वञ्जां शपि' (सू २३९६) इति नलोपः । सजति । सङ्क्ता । दृशिर् ९८८ प्रेक्षणे । पश्यति ।

२४०४ । विभाषा सृजिदृशोः । (७-२-६५)

आभ्यां थल इड्वा ।

२४०५ । सृजिदृशोर्झल्यमकिति । (६-१-५८)


इत्यधिकारादिति भावः । निस सकारस्य षः स्यात् तपधातौ परत इति यावत् । अनासेवने इत्येतद्व्याख्यास्यन् आसेवनशब्द व्याचष्टे । पौनःपुन्यमिति ॥ आसेवनशब्देन सह नञ्समास इत्यभिप्रेत्याह । ततोऽन्यस्मिन्विषये इति ॥ आदेशत्वाभावात् पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति ॥ निष्कृष्य तपतीत्यर्थः । निसस्सस्य षत्वे तकारस्य ष्टुत्वेन ट । आसेवने तु न षत्वम् । त्यज हानाविति ॥ हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज । तत्यजतुः । तत्यजुः । सयुक्तहल्मध्द्यस्थत्वादेत्त्वाभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह । तत्यजिथ-तत्यक्थेति ॥ इडभावे चो कुरिति भावः । त्यक्तेति ॥ त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति ॥ षोपदेशोऽयमनिट् नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाभावात्तस्मिन्परे 'अनिदिताम्’ इति नलोपाप्रवृत्तेराह । दंशसञ्जेति । नलोपः इति ॥ अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति ॥ लिटि तु ससञ्ज । अतुसादौ तु कित्त्वान्न लोपः । ससजतु । ससजु । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ-ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसम्पन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परे नकारस्य परसवर्णो डकारः । ससजथु । ससज । ससञ्ज । ससजिव । ससजिम । क्रादिनियमादिट् । सङ्क्तेति ॥ तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य डकार इति भावः । सङ्क्ष्यति । सजतु । असजत् । सजेत् । सज्यात् । असाङ्क्षीत् । हलन्तत्वाद्वृद्धिः । असड्क्ष्यत् । दृशिर् प्रेक्षणे इति ॥ इरित् । अनिट् च । पश्यतीति ॥ शिति ‘पाघ्राध्मा' इति पश्यादेश इति भावः । ददर्श । ददृशतुः । ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्त । अजन्ताकारवत्त्वाभावात् ‘अचस्तास्वत्’ इति ‘उपदेशे अत्वत' इति निषेधस्य चाप्राप्ते ॠदन्तत्वाभावेन भारद्वाजनियमस्याप्रसक्ते । तत्राह । विभाषा सृजि ॥ पञ्चम्यर्थे षष्ठी । ‘गमेरिट्’ इत्यतः इडिति ‘अचस्तास्वत्’ इत्यतः थलीति चानुवर्तते । तदाह । आभ्यामिति ॥ इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते । सृजिदृशोः ॥ अम् अकिति इति च्छेदः । नित्यार्थमिदम् ।
१६६
[भ्वादि
सिध्दान्तकौमुदीसहिता


अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ-ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ।

२४०६ । ऋदृशोऽङि गुणः । (७-४-१६)

ॠवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ।

२४०७ । न दृशः । (३-१-४७)

दृशश्च्लेः क्सो न । अद्राक्षीत् । दंश ९८९ दशने । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । 'दंशसञ्ज–’ (सू २३९६) इति


दद्रष्ठेति ॥ ददृश थ इति स्थिते इडभावपक्षे अमागमे ॠकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह । ददर्शिथेति ॥ अझलादित्वादम् नेति भावः । द्रष्टेति ॥ तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति ॥ अमागमे शस्य षत्वे षढोरिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह । दृश्यादिति ॥ अझलादित्वादम् नेति भावः । लुडि विशेषमाह । इरित्त्वादङ् वेति ॥ अत्र अडपक्षे गुणनिषेधे प्राप्ते । ऋदृशोऽङि ॥ ॠ इत्यङ्गविशेषणत्वात् तदन्तविधिः । तदाह । ऋवर्णान्तानामिति । अङभावे इति ॥ अङभावपक्षे ‘शल इगुपधात्' इति क्सादेशे प्राप्ते सतीत्यर्थः । न दृशः ॥ 'च्लेः सिच' इत्यत च्लेरिति ‘शल इगुपधात्' इत्यतः क्स इति चानुवर्तते । तदाह । दृशश्च्लेः क्सो नेति ॥ क्सादेशे तु अदृक्षदिति स्यादिति भावः । अद्राक्षीदिति ॥ सिचि अमागमे ॠकारस्य यणि अकारस्य हलन्तलक्षणवृद्धौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अद्रक्ष्यत् । दंश दशने इति ॥ अयमनिट् नोपधश्च कृतानुस्वारनिर्देश । दंष्ट्राव्यापारः इति ॥ हनुमूलगताः स्थृलदन्ताः दंष्ट्राः तद्व्यापारः क्षतक्रियादिरूपः इत्यर्थः । ननु दंशधातोर्ल्युटि दशनशब्दः तत्र ‘अनिदिताम्' इति नकारस्य लोपो न सम्भवति ल्युट क्डित्त्वाभावात् । दंशसञ्जेत्यपि नस्य लोपो न सम्भवति । तस्य शप्येव प्रवृत्ते । तथाच दशन इत्यर्थनिर्देश कथमित्यत आह । पृषोदरादित्वादिति । अत एवेति ॥ दशनशब्दनिदेशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति ॥ निपातनान्नकारलोप इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्य न तु धातुपाठे दश दंशने इत्यर्थनिर्देशे । विनिगमनाविरहमाशङ्क्याह । अर्थनिर्देशस्याधुनिकत्वादिति ॥ सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुष्वर्थनिर्देश पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात् 'अनिदिताम्’ इति नलोपाप्रवृत्तेराह । दंशसञ्जेति । नलोपः
प्रकरणम्]
१६७
बालमनोरमा ।

नलोपः । दशति । ददंशिथ-ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् । कृष ९९० विलेखने । विलेखनमाकर्षणम् । क्रष्टा-कर्ष्टा । क्रक्ष्यति-कर्क्ष्यति । 'स्पृशमृशकृषतृषदृषां च्लेः सिज्वा वाच्य:’ (वा १८२६) । अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् । दह ९९१ भस्मीकरणे । देहिथ-ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः । मिह ९९२ सेचने । मिमेह । मिमे-


इति । दशतीति ॥ अनुस्वारस्यासिद्धत्वादिति भावः । दशसज्जेत्यत्र शपीत्युक्तेरार्धधातुके नलोपो न । सयोगात्परत्वेन लिट कित्त्वाभावादनिदितामित्यपि न । ददश । ददशतुः । ददशुः । भारद्वाजनियमात्थलि वेट् । तदाह । ददंशिथ-ददंष्ठेति ॥ अनिट्पक्षे व्रश्चादिना शस्य षः थस्य ष्टुत्वेन ठ इति भावः । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दङ्क्ष्यतीति ॥ व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे डकारे सस्य षत्वमिति भावः । दशतु । अदशत् । दशेत् । दश्यादिति ॥ आशीर्लिङि 'अनिदिताम्' इति नलोप इति भावः । अदाङ्क्षीदिति ॥ सिचि शस्य षः तस्य कः अनुस्वारस्य परसवर्णेन डः सस्य षत्वमिति भावः । अदङ्क्ष्यत् । कृष विलेखने इति ॥ अनिडयम्। कर्षति । चकर्ष । चकृषतुः । चकृषुः । थलि अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । चकर्षिथ । चकृषथुः । चकृष । चकर्ष । चकृषिव । चकृषिम । इति सिद्धवत्कृत्याह । क्रष्टा-कर्ष्टेति ॥ ‘अनुदात्तस्य च' इत्येव विकल्प । तकारस्य ष्टुत्वम्। क्रक्ष्यति-कर्क्ष्यतीति ॥ षस्य कत्वे सस्य षः । कर्षतु । अकर्षत् । कर्षेत् । कृष्यात् । 'शल इगुपधात्' इति च्लेः क्सादेशे प्राप्ते आह । स्पृशमृशेति । अक्राक्षीदिति ॥ च्लेः क्सादेशाभावे सिचि 'अनुदात्तस्य चर्दुपधस्य’ इत्यमि ॠकारस्य यणि हलन्तलक्षणवृद्धौ 'षढोः कस्सि' इत्यनेन षस्य कत्वे सस्य षत्वमिति भावः । अकार्क्षीदिति ॥ अमभावे सिचि वृद्धौ रूपम् । पक्षे क्सः इति ॥ च्ले सिजभावपक्षे ‘शल इगुपधात्’ इति क्स इत्यर्थः । अकृक्षदिति ॥ क्से सति कित्त्वाद्गुणाभावे षस्य कः सस्य ष इति भावः । अक्रक्ष्यत्-अकर्क्ष्यत् । दह भस्मीकरणे इति ॥ अनिट् । दहति । ददाह । देहतुः । देहुः । थलि तु भारद्वाजनियमाद्वेडित्याह । देहिथ-ददग्ध इति ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ । अनिट्पक्षे तु ‘दादेः’ इति हस्य घः 'झषस्तथोः' इति थस्य ध: घस्य जश्त्वेन ग इति भावः । देहथुः देह । ददाह-ददह । देहिव । देहिम । दग्धेति ॥ तासि हस्य घः तकारस्य धः घस्य गः इति भावः । धक्ष्यतीति ॥ हस्य घः दस्य भष् घस्य गः तस्य चर्त्वेन कः सस्य ष इति भावः । दहतु । अदहत् । दहेत् । दह्यात् । अधाक्षीदिति ॥ सिचि हलन्तलक्षणा वृद्धिः । हस्य घः दस्य भष् घस्य गः तस्य कः सस्य षः इति भावः । अदाग्धामिति ॥ सिचि वृद्धिः । हस्य घः 'झलो झलि’ इति सलोपः । 'झषस्तथो' इति तकारस्य धः । घस्य गः इति भावः । अधाक्षुरिति ॥ सिचि वृद्धिः हस्य घः दस्य भष् घस्य गः तस्य कः
१६८
[भ्वादि
सिध्दान्तकौमुदीसहिता


हिथ । मेढा । मेक्ष्यति । अमिक्षत् । कित ९९३ निवासे रोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । 'विचिकित्सा तु संशयः' इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य 'चिकित्सते' इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ।

दान ९९४ खण्डने । शान ९९५ तेजने । इतो वहत्यन्ताः स्वरितेतः । दीदांसति-दीदांसते । शीशांसति-शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । शानयति । डु पचप् ९९६ पाके । पचति-पचते । पेचिथ-पपक्थ ।


सस्य षः इति भावः । अधाक्षीः । अदाग्धम् । अदाग्ध । अधाक्षम् । अधाक्ष्व । अधाक्ष्म । अधक्ष्यत् । मिह सेचने इति ॥ अनिट् । मेहति । मिमेह । मिमिहतुः । मिमिहुः । अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । तदाह । मिमेहिथेति ॥ मिमिहथुः । मिमिह । मिमेह । मिमिहिव । मिमिहिम । मेढेति ॥ तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति ॥ हस्य ढः तस्य कः सस्य षः । मेहतु । अमेहत् । मेहेत् । मिह्यात् । लुडि ‘शल इगुपधात्' इति क्सः । कित्त्वान्न गुण: । हस्य ढः तस्य कः सस्य षः । तदाह । अमिक्षदिति ॥ अमेक्षयत् । कित निवासे रोगापनयने चेति ॥ परस्मैपदिषु पाठात् अयं परस्मैपदी । अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वात् अर्थीन्तरेषु वृत्तिः । तत्र 'कितेव्यीधिप्रतीकारे निग्रहे अपनयने नाशने संशये च इति निबद्धेष्वर्थेषु 'गुप्तिज्किद्भ्यः सन्' इति सन्विहितः । तदाह । चिकित्सति इति ॥ ‘सन्यत’ इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्त तस्माल्लटि शपि चिकित्सतीति रूपम् । अस्य सन् ‘धातोः' इति विहितत्वाभावादनार्धधातुकत्वान्न लघूपधगुणः नापि इडागम इति प्रागुक्तम् । 'चिकित्साञ्चकार' इत्यादि सुगम जुगुप्सतिवत् । संशये इत्यादि व्यक्तम् । निवासे त्विति ॥ व्याधिप्रतीकाराद्यर्थपञ्चकादर्थान्तरे चुरादित्वस्याक्तत्वादिति भावः । दान खण्डने। शान तेजने इति ॥ तेजनम् तीक्ष्णीकरणम् । इतः इति ॥ ‘दान खण्डने' इत्यारभ्य ‘वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे शानधातुस्तु निशनि वर्तते तदा ‘मान् बध दान् शान्’ इति सनि ‘सन्यडोः' इति द्वित्वे अभ्यासह्रस्वे तस्य ‘सन्यत:’ इति इत्त्वे तस्य ‘मान् बध' इति दीर्घे सति नकारस्यानुस्वारे दीदांसशीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात् कर्तृगे फले तडि शपि दीदांसते शीशासते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति इति रूपम् । एवं शीशांसतीति । तीक्ष्णीकरोतीत्यर्थः । तदाह । दीदांसते इत्यादि ॥ अर्थविशेषे इति ॥ आर्जवे निशाने चाथे सनित्यर्थः । अन्यत्रेति ॥ आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्यर्थः । अर्थान्तरे अनुबन्धकाश्चुरादयः इत्युक्तेरिति भावः । डु पचप् पाके इति ॥ डुः षकारः चकारादकारश्च इत् । स्वरितेत्त्वादुभयपदी । तदाह । पचति-पचते इति ॥ पपाच । पेचतुः । पेचुः । भारद्वाजनियमात्थलि वेट् । तदाह । पेचिथ-पपक्थेति ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यास
प्रकरणम्]
१६९
बालमनोरमा ।

पेचे । पक्ता । पक्षीष्ट । षच ९९७ समवाये । सचति । सचते । भज ९९८ सेवायाम् । बभाज । भेजतुः । भेजुः । भेजिथ-बभक्थ । भक्ता । भक्ष्यति - भक्ष्यते । अभाक्षीत् । अभक्त । रञ्ज ९९९ रागे । नलोपः । रजति-रजते । रज्यात् । रङ्क्षीष्ट । अराङ्क्षीत् । अराङ्क्ताम् । अरङ्क्त । शप १००० आक्रोशे । आक्रोशो विरुद्धानुद्ध्यानम् । शशाप-शेपे । अशाप्सीत्-अशप्त । त्विष १००१ दीप्तौ । त्वेषति-त्वेषते । तित्विषे । त्वेष्टा । त्वेक्ष्यति-त्वेक्ष्यते ।


लोपौ । अनिट्पक्षे तु 'चोः कुः' इति भावः । पेचथुः । पेच । पपाच-पपच । पेचिव । पेचिम । क्रादिनियमादिट् । पेचे इति ॥ पेचाते । पेचिरे । पचिषे । पेचाथे । पेचिध्वे । पेचे । पेचिवहे । पेचिमहे । क्रादिनियमादिट् । पक्तेति ॥ तासि 'चोः कुः' पक्ष्यति । पक्ष्यते । पचतु । पचताम् । अपचत् । अपचत । पचेत् । पक्षीष्टेति ॥ आशीर्लिङि तडि सीयुटि 'चोः कुः' षत्वम् । अपाक्षीत् । अपक्त । अपक्षाताम् । अपक्ष्यत् । अपक्ष्यत । षचधातुः षोपदेशः । तदाह । सचति-सचते इति ॥ सेडयम् । ससाच । सेचतुः । सेचुः । सेचिथ । सेचथुः । सेच । ससाच-ससच । सेचिव । सेचिम । सेचे । सेचिषे । सेचिवहे । सेचिमहे । सच्यात् । सचिषीष्ट । असाचीत्-असचीत् । असचिष्ट । भजधातुरनिट् । भजति । किति लिटि वैरूप्यापादकादेशादित्वात् 'अत एक हल्मध्द्ये' इत्यप्राप्तौ ‘तॄ फल' इत्येत्त्वाभ्यासलोपौ । तदाह । भेजतुरिति ॥ भारद्वाजनियमात्थलि वेट् । तदाह । भेजिथ-बभक्थेति ॥ इट्पक्षे ‘थलि च सेटि' इत्येत्त्वाभ्यासलोपौ इति भावः । भेजिव । भेजिम । क्रादिनियमादिट् । भेजे । भजिषे । भेजिवहे । भक्तेत्यादि सुगमम् । रञ्ज रागे इति ॥ नोपधोऽयम् । कृतानुस्वारपरसवर्णनिर्देशः । अनिडयम् । शप पित्त्वेन डित्त्वाभावात् ‘अनिदिताम्' इत्यप्राप्तावपि ‘रञ्जेश्च' इति शपि नलोप । तदाह । रजति-रजते इति ॥ सयोगात्परत्वाल्लिटो न कित्त्वम् । ररञ्ज । ररञ्जतुः । भारद्वाजनियमात्थलि वेट् । ररञ्जिथ-ररङ्क्थ । अनिट्पक्षे जस्य कुत्वेन गः । ततोऽनुस्वारपरसवर्णञकारनिवृत्तौ गस्य चर्त्वेन कः । नस्यानुस्वारे तस्य परसवर्णो ङकार इति भावः । ररञ्जिव । ररञ्जिम । क्रादिनियमादिट् । रङ्क्ता । रङ्क्ष्यति । रङ्क्ष्यते । रजतु । रजताम् । अरजत् । अरजत । रजेत् । आशीर्लिङि यासुट कित्त्वात् ‘अनिदिताम्' इति नलोपः । तदाह । रज्यादिति । रङ्क्षीष्टेति ॥ आत्मनेपदे लिडः सयुटि जस्य कुत्वेन गः तत परसवर्णसम्पन्नञकारनिवृत्ति गस्य कः नस्य परसवर्णेन ङः षत्वमिति भावः । अराङ्क्षीदिति ॥ सिचि हलन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् । अराङ्क्तामिति ॥ 'झलो झलि' इति सलोपः । कुत्वादि पूर्ववत् । अरङ्क्तेति ॥ लुडस्तडि प्रथमपुरुषैकवचने ‘झलो झलि' इति सलोपे कुत्वादि । शप आक्रोशे इति ॥ अनिडयम् । भारद्वाजनियमात्थलि वेट् । वमादौ तु क्रादिनियमादिट् । अशाप्सीदिति ॥ हलन्तलक्षणा वृद्धिः । अशप्तेति ॥ 'झलो झलि’ इति सलोपः । अशप्साताम् । त्विषधातुरनिट् । शपि लघूपधगुणः । तदाह । त्वेषति-त्वेषते इति ॥ तित्वेष। तित्विषतुः । तित्विषुः।
१७०
[भ्वादि
सिध्दान्तकौमुदीसहिता


त्विष्यात् । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षत । अत्विक्षाताम् । अत्विक्षन्त । यज १००२ देवपूजासङ्गतिकरणदानेषु । यजति-यजते ।

२४०८ । लिट्यभ्यासस्योभयेषाम् । (६-१-१७)

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं स्याल्लिटि । इयाज ।

२४०९ । वचिस्वपियजादीनां किति । (६-१-१५)

वचिस्वप्योर्यजादीनां च सम्प्रसारणं स्यात्किति । पुन:प्रमङ्गविज्ञाना-


तित्वेषिथ । तित्विषथुः । तित्विष । तित्वेष । तित्विषिव । तित्विषिम । क्राद्रिनियमादिट् । तित्विषे इति ॥ तित्विषाते । तित्विषिरे । तित्विषिषे । तित्विषाथे । तित्विषिध्वे । तित्विषे । तित्विषिवहे । तित्विषिमहे । त्वेष्टेति ॥ तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति । त्वेक्ष्यते इति ॥ स्ये कुत्वषत्वे । त्वेषतु । त्वेषताम् । अत्वेषत् । अत्वेषत । त्वेषेत् । त्वेषेत । त्विष्यादिति ॥ यासुटः आशीर्लिङि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति ॥ 'लिड् सिचावात्मनेपदेषु' इति कित्वान्न गुणः । लुडि परस्मैपदे 'शल इगुपधात्' इति च्लेः क्सः । कित्त्वान्न गुणः । तदाह । अत्विक्षदित्यादि ॥ लुडि आत्मनपदे च्लेः क्सादेश मत्वा आह । अत्विक्षतेति । अत्विक्षन्तेति ॥ अत्विक्ष झ इति स्थिते 'क्सस्याचि' इत्यन्त्यलोपासम्भवादतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशासम्भवादन्तादेशे क्सस्यान्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति ॥ अनिडयम् । यजति-यजते इति ॥ देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः । णलि द्वित्वादौ तु ययाज इति स्थिते 'लिट्यभ्यासस्योभयेषाम्' 'ष्यङ सम्प्रसारणम्’ इत्यतः सम्प्रसारणमित्यनुवर्तते । 'वचिस्वपियजादीनाम्' इति सूत्रोपात्ताः ‘ग्रहिज्यावयि' इति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह । वच्यादीनां ग्रह्यादीनाञ्चेति ॥ अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः । ‘यज देवपूजा' इत्यारभ्य ‘टु ओ श्चि गतिवृध्द्योः' इत्येतत्पर्यन्ताः यजादयः । तदुक्तम् ‘यजिर्वपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ वदिः श्वयतिश्चैव यजाद्यास्स्युरिमे नव' इति तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्यादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति ॥ अभ्यासयकारस्य सम्प्रसारणे 'सम्प्रसारणाच्च' इति पूर्वरूपमिति भावः । यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य सम्प्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते । वचिस्वपि ॥ वचिस्वपीति इका निर्देशः । सौत्रः सम्प्रसारणाभावः । आदिशब्दो यजिनैव सम्वध्द्यते, न तु वचिस्वपिभ्याम्, तथा सति हि वच्यादेः स्वप्यादेर्यजादेश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहणं व्यर्थं स्यात् । अदादिगणे लुग्विकरणे 'वच परिभाषणे' इत्यारभ्य षष्टस्य ‘ञि ष्वप शये' इत्यस्य वच्यादिग्रहणेनैव सिद्धेः । तदाह । वचिस्वप्योर्यजादीनाञ्चेति ॥ ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्सम्प्रसारणे कृते 'विप्रतिषेधे यद्बाधित तद्बाधितमव' इति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्क्याह । पुनःप्रसङ्गेति । ईजतुरिति ॥ यज् अनुस् इति
प्रकरणम्]
१७१
बालमनोरमा ।

द्द्वित्वम् । ईजतुः। ईजुः । इयजिथ-इयष्ठ । ईजे । यष्टा । यक्ष्यति । यक्ष्यते । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट । डु वप् १००३ बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप-ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत्-अवप्त । वह १००४ प्रापणे ।


स्थिते सम्प्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवञ्चात्र लिटि किति 'वचिस्वपि' इति सूत्रम् । अकिति लिटि तु 'लिट्यभ्यासस्य' इति सूत्रमिति स्थितिः । भारद्वाजनियमात्थलि वेट् । कृते द्वित्वे अकित्त्वाद्वचिस्वपीत्यप्रवृत्तौ ‘लिट्यभ्यासस्य' इत्यभ्यासयकारस्य सम्प्रसारणम् । तदाह । इयजिथ-इयष्ठेति ॥ अनिट्पक्षे व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथु । ईज । इयाज-इयज । ईजिव । ईजिम । ईजे इति ॥ 'असयोगात्' इति कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते । ईजिरे । क्रादिनियमादिट् । ईजिषे । ईजाथे । ईजिध्वे । ईजे । ईजिवहे । ईजिमहे । यष्टेति ॥ तासि व्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति-यक्ष्यते इति ॥ व्रश्चादिना जस्य षत्वे 'षढो' इति षस्य कत्वे सस्य षत्वमिति भावः । यजतु । यजताम् । अयजत् । अयजत । यजेत् । यजेत । आशीर्लिङि आह । इज्यादिति ॥ यासुटः कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणमिति भावः । यक्षीष्टेति ॥ आशीर्लिङि आत्मनेपदे प्रथमैकवचने सीयुटि जस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अयाक्षीदिति ॥ सिचि हलन्तलक्षणा वृद्धिः । जस्य षः तस्य कः सस्य षः इति भावः । अयष्टेति ॥ अयज् स् त इति स्थिते 'झलो झलि’ इति सलोपे जस्य षः ष्टुत्वेन तकारस्य टः इति भावः । अयक्षाताम् । अयक्षत । अयक्ष्यत् । अयक्ष्यत । डु वप् बीजसन्ताने इति ॥ प्ररोहार्थम्बीजानां क्षेत्रेषु प्रक्षेपणे इत्यर्थः । तदाह । क्षेत्रे विकिरणमिति ॥ वपि प्रकिरणार्थ इति 'सन्यडो ' इत्यत्र भाष्यम् । गर्भाधानञ्चेति ॥ "अप्रमत्ता रक्षत तन्तुमेत मा व क्षेत्रे परबीजानि वाप्सु" इत्यादौ तथा दर्शनादिति भावः । अय छेदनेऽपीति ॥ वर्तते इति शेषः । केशान् वपतीति ॥ छिनत्तीत्यर्थः । अनिडयम् । उवापेति ॥ 'लिट्यभ्यासस्य’ इत्यकित्यभ्यासस्य सम्प्रसारणमिति भावः । किति तु 'वचिस्वपि' इति द्वित्वात्प्राक्सम्प्रसारणे कृते द्वित्वम् । ऊपतुः । ऊपुः । उवपिथ । उवप्थ । ऊपथुः । ऊप । उवाप-उवप । ऊपिव । ऊपिम । ऊपे इति ॥ ऊपाते । ऊपिरे । ऊपिषे । ऊपाथे । ऊपिध्वे । ऊपे । ऊपिवहे । ऊपिमहे । वप्तेति ॥ वप्स्यति । वप्स्यते । वपतु । वपताम् । अवपत् । अवपत । वपेत् । वपेत । उप्यादिति ॥ आशिषि यासुट कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणम् । वप्सीष्टेति ॥ सीयुटि रूपम् । प्रण्यवाप्सीदिति ॥ लुडि परस्मैपदे सिचि हलन्तलक्षणा वृद्धि । ‘नेर्गद’ इति णत्वम् । अवाप्ताम् । अवाप्सुः । अवप्तेति ॥ आत्मनेपदे लुडि 'झलो झलि' इति सलोप । अवप्साताम् । वह प्रापणे इति ॥ अयमनिट् । वहति-वहते । उवाहेति ॥ 'लिट्यभ्यासस्य' इति किति अभ्यासस्य सम्प्रसारणमिति भावः । किति 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् । ऊहतुः । ऊहुः । भारद्वाजनियमा
१७२
[भ्वादि
सिध्दान्तकौमुदीसहिता

उवाह । उवहिथ । 'सहिवहोरोदवर्णस्य' (सू २३५७) । उवोढ । ऊहे । वोढा । वक्ष्यति-वक्ष्यते । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत् । अवोढाः । अवोढ्वम् । वस १००५ निवासे । परस्मैपदी । वसति । उवास ।

२४१० । शासिवसिघसीनाञ्च । (८-३-६० )

इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ-उवस्थ । वस्ता । 'सः स्यार्धधातुके' (सू २३४२) वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् । वेञ् १००६ तन्तुसन्ताने । वयति-वयते ।


त्थलि वेट् । तदाह । उवहिथेति ॥ ‘न शसदद’ इति निषेधात् । ‘थलि च सेटि’ इति न भवति । अथ थलि अनिट्पक्षे आह । सहिवहोरोदवर्णस्येति ॥ सहिवहोरवर्णस्य ओत्स्याड्ढ्रलोपे परत इत्यर्थः । ढ्रलोप इति दीर्घम्बाधित्वा ओत्त्वमिति भावः । उवोढेति ॥ उवह् थ इति स्थिते ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्चेति भावः । ऊहथुः । ऊह । उवाह-उवह । ऊहिव । ऊहिम । क्रादिनियमादिट् । ऊहे इति ॥ ऊहाते । ऊहिरे । ऊटिषे । ऊहाथे । ऊहिध्वे । ऊहे । ऊहिवहे । ऊहिमहे । वोढेति ॥ तासि ढत्वधत्वष्टुत्वढलोपाः ओत्वञ्च । लृटि स्ये हस्य ढ: तस्य कः षत्वम् । तदाह । वक्ष्यति-वक्ष्यते इति ॥ वहतु । वहताम् । अवहत् । अवहत । वहेत् । उह्यात् । अवाक्षीदिति ॥ हलन्तलक्षणवृद्धौ ढकषा प्राग्वत् । अवोढामिति ॥ 'झलो झलि' इति सलोपे ढत्वधत्वष्ठुत्वढलोपाः ओत्त्वञ्चेति भावः । अवाक्षुरिति ॥ उसि सिचि वृद्धौ ढकषा । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढेति ॥ लुडि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स त इति स्थिते सलोपः ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्च । अवक्षातामिति ॥ आतामि सिचि ढकषा इति भावः । अवक्षतेति ॥ 'आत्मनेपदेष्वनतः' इत्यदादेशः । अवोढ्वमिति ॥ अवक्षि । अवक्ष्वहि । अवक्ष्महि । अवक्ष्यत् । अवक्ष्यत । इति वहत्यन्ता: स्वरितेतो गताः । वसधातुरनिट् । अकिति लिटि परे 'लिट्यभ्यासस्य’ इत्यभ्यासस्य सम्प्रसारणम् । तदाह । उवासेति ॥ किति तु 'वचिवस्वपि' इति सम्प्रसारणे कृते ऊस अतुस् इति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादप्राप्ते षत्वे । शासिवसि ॥ 'सहेस्साडस्स:' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । 'इण्कोः' इति 'अपदान्तस्य मूर्धन्यः' इति चाधिकृतम् । तदाह । इण्कवर्गाभ्यामिति ॥ भारद्वाजनियमात्थलि वेट् इति मत्वा आह । उवसिथ-उवस्थेति ॥ 'न शसदद’ इति निषेधात् 'थलि च सेटि' इति न भवति । ऊषथुः । ऊष । उवास-उवस । ऊषिव । ऊषिम । क्रादिनियमादिट् । वस् स्यतीति स्थिते आह । सस्स्यार्धधातुके इति ॥ अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति ॥ आशीर्लिङि यासुट कित्त्वात् वस्य सम्प्रसारणे ‘शासिवसि’ इति षत्वमिति भावः । अवात्सीदिति ॥ सिचि
प्रकरणम्]
१७३
बालमनोरमा ।

२४११ । वेञो वयिः । (२-४-४१)

वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ।

२४१२ । ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । (६-१-१६)

एषां किति ङिति च सम्प्रसारणं स्यात् । यकारस्य प्राप्ते ।

२४१३ । लिटि वयो यः । (६-१-३८)

वयो यस्य सम्प्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ।

२४१४ । वश्चास्यान्यतरस्यां किति । (६-१-३९)

वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयेस्तासावभा-


हलन्तलक्षणवृद्धौ सस्य तकारः । अवात्तामिति ॥ अवस् स् तामिति स्थिते वृद्धौ 'झलो झलि' इति सलोपे प्रत्ययलक्षणमाश्रित्य सकाराद्यार्धधातुकपरत्वात् धातुसकारस्य 'सस्सि' इति तकारः । वस्तुतस्तु सिज्लोपस्यासिद्धत्वात् ‘सस्सि’ इति तकारे सिज्लोप इति बोध्द्यम्। अवात्सु । अवात्सीः । अवात्तम् । अवात्त । अवात्सम् । अवात्स्व । अवात्स्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः पटनिर्माणार्थन्तन्तूनान्तिर्यगतिर्यक्प्रसारणविशेष । वयति-वयते इति ॥ शपि गुणायादेशौ । वेञो वयिः ॥ शेषपूरणेन सूत्र व्याचष्टे । वा स्याल्लिटीति ॥ 'लिट्यन्यतरस्याम्’ इत्यतः अन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति ॥ इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भाव । उवायेति ॥ णलि वयादेशे यजादित्वादकिति लिटि परे 'लिट्यभ्यासस्य' इति वकारस्य सम्प्रसारणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न सम्प्रसारणम् । ‘लिटि वयो य:’ इति तन्निषेधस्यानुपदमेव वक्ष्यमाणत्वादिति भावः । यद्यपि णलि वयादेशाभावेऽपि द्वित्वे अभ्यासस्य सम्प्रसारणे ‘अचो ञ्णिति’ इति वृद्धौ आयादेशे उवायेति सिध्द्यति । तथापि ऊयतुरित्याद्यर्थे वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे अतुस् इति स्थिते वयादेशे कृते । ग्रहिज्या ॥ चकारेण 'वचिस्वपियजादीनाम्' इत्यतः कितीति समुच्चीयते । ष्यडस्सम्प्रसारणमित्यतः सम्प्रसारणमित्यनुवर्तते । तदाह । एषामित्यादि ॥ अत्र परस्मैपदिग्रह्यादिसाहचर्यात्‘ अयवयपय' इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वये सम्प्रसारणे सिद्धे अत्र वयग्रहण स्पष्टार्थमिति भाष्ये स्पष्टम् । इति यकारस्य प्राप्ते इति ॥ 'न सम्प्रसारणे सम्प्रसारणम्' इति लिङ्गादन्त्यस्य यण् पूर्व सम्प्रसारणमिति विज्ञानाद्यकारस्य सम्प्रसारणे प्राप्ते सतीत्यर्धः । लिटि वयो ॥ सम्प्रसारणन्नेति ॥ 'न सम्प्रसारणे सम्प्रसारणम्' इत्यत तदनुवृत्तेरिति भावः । तथा च यकारस्य सम्प्रसारणनिषेधे वकारस्य सम्प्रसारणमिति भावः । तदाह । ऊयतुरिति ॥ वश्चास्य ॥ 'लिटि वयो यः’ इत्यनुवर्तते । तदाह । वयो यस्येत्यादि ।
१७४
[भ्वादि
सिध्दान्तकौमुदीसहिता


वात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्त्वात्तङ् । ऊये । ऊवे । वयादेशाभावे ।

२४१५ । वेञः । (६-१-४०)

वेञो न सम्प्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ-ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् । व्येञ् १००७ संवरणे । व्ययति । व्ययते ।


उवयिथेति ॥ अकित्त्वान्न वः । अजन्तत्वादकारत्त्वाच्च थलि इण्निषेधमाशङ्क्याह । वयेस्तासावभावात्थलि नित्यमिडिति ॥ वयेर्लिट्येव विहितत्वेन तासावभावात् ‘अचस्तास्वत्' इति 'उपदेशेऽत्वत्' इति च इण्निषेधाप्रसक्तया क्रादिनियमान्नित्यमिडिलयर्थः । 'यस्तासावस्ति नित्यानिट् च' इति भाष्यम् । ऊयथु -ऊवथुः । ऊय-ऊव । उवाय-उवय । ऊयिव-ऊविव । उयिम—ऊविम । ननु वयेरडित्त्वात् कथमुभयपदित्वमित्यत आह । स्थानिवद्भावेनेति । ऊये-ऊवे इति ॥ 'वश्चास्यान्यतरस्याम्' इति वत्वविकल्पः । वत्वाभावे 'लिटि वयो यः' इति यकारस्य सम्प्रसारणनिषेधः । वकारस्य 'ग्रहिज्या' इति 'वचिस्वपि' इति वा सम्प्रसारणम् । ऊयाते । ऊयिरे । ऊयिषे । ऊयाथे । ऊयिध्वे । ऊये । उयिवहे । ऊयिमहे । क्रादिनियमादिट् । एवं ऊवाते । ऊविरे । इत्यादि । वयादेशाभावे इति ॥ यजादित्वात् 'लिट्यभ्यासस्य’ इति 'वचिस्वपि' इति च सम्प्रसारणे सतीति शेषः । वेञः ॥ 'लिटि वयो यः' इत्यतो लिटीति 'न सम्प्रसारणे सम्प्रसारणम्' इत्यतो न सम्प्रसारणमिति चानुवर्तते । तदाह । वेञो नेति ॥ अत्र कितीति नानुवर्तते । तदाह । ववाविति ॥ णलि सम्प्रसारणनिषेधे 'आदे च उपदेशे' इत्यात्त्वे 'आत ओ णल' इत्यौभावे 'वृद्धिरेचि' इति वृद्धौ रूपम् । ववतुरिति ॥ 'आदेच' इत्यात्त्वे 'आतो लोपः' । एवं ववुः । भारद्वाजनियमात्थलि वेट् । वेञस्तासावनिट्कत्वात् । तदाह । वविथ ववाथेति ॥ इट्रपक्षे अकित्त्वेऽपि इटपरत्वादाल्लोप इति भावः । ववथुः । वव । ववौ । वविव । वविम । क्रादिनियमादिट् । ववे इति ॥ ववाते । वविरे । वाविषे । ववाथे । वविध्वे । ववे । वविवहे । वविमहे । वातेति ॥ लुटि तासि आत्त्वम् । वास्यति । वास्यते । वयतु । वयताम् । अवयत् । अवयत । वयेत् । वयेत । ऊयादिति ॥ आशीर्लिङि यासुटि आत्त्वे कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयो' इति दीर्घ इति भावः । वासीष्टेति ॥ आशीर्लिङि आत्मनेपदे सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवासीदिति ॥ आत्त्वे कृते इट् सकौ । अवास् इ स् ईदिति स्थिते 'इट ईटि' इति सिज्लोपः । अवासिष्टामित्यादि । आत्मनेपदे, अवास्त । अवासाता, इत्यादि । अवास्यत् । अवास्यत । व्येञ् । संवरणे इति ॥ ञित्त्वादुभयपदी । अनिट् । व्ययति-व्ययते इति ॥ शपि गुणाया
प्रकरणम्]
१७५
बालमनोरमा ।

२४१६ । न व्यो लिटि । (६-१-४६)

व्येञ आत्त्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । 'इडत्त्यर्ति--' (सू २३८४) इति नित्यमिट् । विव्ययिथ । विव्याय--विव्यय । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त । ह्वेञ् १००८ स्पर्धायां शब्दे च । ह्वयति । ह्वयते ।


देशौ । णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् । तत्राह । न व्यो लिटि ॥ व्ये इत्यस्य कृतात्त्वस्य षष्ठ्यन्तस्य व्यः इति निर्देश । आत्त्वमिति ॥ 'आदेच उपदेशे' इत्यतः तदनुवृत्तेरिति भावः । वृद्धिरिति ॥ णलि व्ये अ इति स्थिते 'अचो ञ्णिति' इति वृद्धिरित्यर्थः । तथाच व्यै अ इति स्थितम् । ननु तत्र द्वित्वे 'लिट्यभ्यासस्य’ इत्यभ्यासे यकारस्य सम्प्रसारणे पूर्वरूपे उत्तरखण्डस्य आयादेशे विव्याय इति रूप वक्ष्यति । तदयुक्तम् । सम्प्रसारणात्प्राक् परत्वात् हलादिशेषेण यकारस्य निवृत्तौ वकारस्य सम्प्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह । परमपीति ॥ उभयेषामिति ॥ 'लिट्यभ्यासस्य' इति सूत्रे उभयेषामिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति । अन्यथेति ॥ 'वचिस्वपियजादीनाम्' इत्यस्य 'ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छातिभृज्जतिनाम्' इत्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुनर्लिट्यभ्यासस्य इत्यत्र उभयेषां ग्रहणं पुनर्विधानार्थम् । तथाच वच्यादीनां ग्रह्यादीनाञ्चाभ्यासस्य सम्प्रसारण स्याल्लिटीति द्विर्विधानं लब्धम् । तत्र द्वितीय विधानं नियमार्थम् । उभयेषामभ्यासस्य सम्प्रसारणमेव स्यान्नेतरदिति । तेनाभ्यासे एतत्सम्प्रसारणविषये कार्यान्तरनिवृत्तिस्सिध्देत्यर्थः । तथाच प्रकृते अभ्यासयकारस्य सम्प्रसारणे सिद्ध रूपमाह । विव्यायेति । विव्यतुः । विव्युः इति ॥ 'वचिस्वपि' इति सम्प्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह । इडत्त्यर्तीति ॥ विव्ययिथेति ॥ अकित्त्वादभ्यासस्य सम्प्रसारणमिति भावः । विव्यथुः । विव्य । विव्याय-विव्ययेति ॥ अकित्त्वादभ्यासस्य सम्प्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः । विव्यिव । विव्यिम । विव्ये इति ॥ कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे पूर्वरूपे वि इत्यस्य द्वित्वे यणिति भावः । विव्याते । विव्यिरे । विव्यिषे । विव्याथे । विव्यिध्वे । विव्ये । विव्यिवहे । विव्यिमहे । व्यातेति ॥ तासि एकारस्य आत्त्वम् । व्यास्यति । व्ययतु । व्ययताम् । अव्ययतुः । अव्ययत । व्ययेत् । वीयादिति ॥ कित्त्वात् ‘वचिस्वपि’ इति सम्प्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः' इति दीर्घः । वीयास्ताम् । व्यासीष्टेति ॥ आशीर्लिङि सीयुटि आत्त्वम् । अव्यासीदिति ॥ लुडि सिचि आत्त्वे इट्सकोः सिज्लोपः । अव्यासिष्टामित्यादि । अव्यास्तेति ॥ लुडि आत्मनेपदे अव्ये स् त इति स्थिते आत्त्वमिति भावः । अव्यासातामित्यादि । अव्यास्यत् । अव्यास्यत । ह्वेञ् धातुरनिट् । ञित्त्वादुभयपदी । शब्दे चेति ॥
१७६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२४१७ । अभ्यस्तस्य च । (६-१-३३)

अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ-जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ।

२४१८ । लिपिसिचिह्वश्च । (३-१-५३)

एभ्यश्च्लेरङ् स्यात् ।

२४१९ । आत्मनेपदेष्वन्यतरस्याम् । (३-२-५४)

'आतो लोपः' (सू २३७२) । अह्वत् । अह्वताम् । अह्वन् । अह्वत । अह्वास्त ।


आकारणार्थः आगच्छेत्यादिशब्दोऽत्र विवक्षितः। ह्वयति-ह्वयते इति ॥ शपि गुणायादेशो । णलादौ अकिति 'लिट्यभ्यासस्य' इति अभ्यासस्यैव सम्प्रसारणे प्राप्ते । अभ्यस्तस्य च ॥ 'ह्वः सम्प्रसारणम्' इत्यनुवर्तते । ह्व इति कृतात्त्वस्य ह्वे इत्यस्य षष्ठ्यन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञ् सम्प्रसारणमिति लभ्यते । तथा सति णलि ह्वे अ इति स्थिते द्वित्वे कृते 'उभे अभ्यस्तम्' इत्यभ्यस्तसज्ञायामुत्तरखन्ण्डस्य सम्प्रसरणे कृते पूर्वखण्डस्याभ्यासस्य 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधः स्यादित्यत आह । अभ्यस्तीभविष्यतः इति ॥ ननु यद्यभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्सम्प्रसारणे सति 'विप्रातिषेधे यद्बाधितन्तद्बाधितम्' इति न्यायात् द्वित्वन्न स्यादित्यत आह । ततो द्वित्वमिति ॥ सम्प्रसारणानन्तर द्वित्वमित्यर्थः । ‘पुनः प्रसङ्गविज्ञानात्' इति भावः । तथाच णलि आत्त्वे कृते सम्प्रसारणे पररूपे हु इत्यस्य द्वित्वे ‘कुहोश्चुः' इति श्चुत्वे तस्य जश्त्वे 'अचो ञ्णिति' इति वृद्धौ आवादेशे परिनिष्ठितं रूपमाह । जुहावेति । जुहुवतुरिति ॥ अतुसि आत्त्वे आल्लोपम्बाधित्वा अन्तरङ्गत्वात् ‘अभ्यस्तस्य च' इत्यनेन सम्प्रसारणे ‘वार्णादाङ्गम्बलीयः' इत्यस्यानित्यतया अन्तरङ्गात्पूर्वरूपे कृते द्वित्वे उवडिति भावः । यद्यपि किति ‘वचिस्वपि' इति सम्प्रसारणेऽपि सिद्धमिदम् । तथापि अकिति आवश्यकमभ्यस्तस्यचेत्येतत् न्याय्यत्वादिहापि भवतीति बोध्द्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह । जुहोथ-जुहविथेति ॥ जुहुवथुः । जुहुव । जुहाव-जुहव । जुहुविव । जुहुविम । क्रादिनियमादिट् । जुहुवे । जुहुवाते । जुहुविरे । जुहुविषे । जुहुवाथे । जुहुविध्वे । जुहुवे । जुहुविवहे । जुहुविमहे । ह्वातेति ॥ तासि आत्त्वम् । ह्वास्यति । ह्वास्यते । ह्वयतु । ह्वयताम् । अह्वयत् । अह्वयत । ह्वयेत् । ह्वयेत । ह्वयादिति ॥ आशीर्लिङि आत्त्वे यासुटि कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणे पर्वरूपे 'अकृन्सार्वधातुकयोः' इति दीर्घ इति भावः । ह्वासीष्टेति ॥ आशीर्लिङि सीयुटि रूपम् । लुडि विशेषमाह । लिपि सिचि ॥ लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । 'च्लेः सिच' इत्यतः च्लेरिति ‘अस्यतिवक्तिख्यातिभ्यः’ इत्यतः अडिति चानुवर्तते । तदाह । एभ्यः इति ॥ इदम्परस्मैपदविषयम् । आत्मनेपदे विकल्पविधानात् । तदाह । आत्मनेपदेषु । आतो लोपः इति ॥ अह्वा अ त् इति स्थिते 'आतो लोप इटि च' इत्याल्लोप इत्यर्थः । अह्वदिति ॥ अह्वताम् ।
प्रकरणम्]
१७७
बालमनोरमा ।

अथ द्वौ परस्मैपदिनौ । वद १००९ व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । 'वदव्रज –' (सू २२६७) इति वृद्धिः । अवादीत् । टु ओ श्वि १०१० गतिवृद्ध्योः । श्वयति ।

२४२० । विभाषा श्वेः । (६-१-३०)

श्वयतेः सम्प्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः । 'श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः’ (वा ३४६२) । तेन ‘लिट्यभ्यासस्य--'


अह्वन्नित्यादि । अह्वतेति ॥ लुडि आत्मनेपदे अडि रूपम् । अह्वेताम् । अह्वन्तेत्यादि । अडभावपक्षे त्वाह । अह्वास्तेति ॥ अह्वासाताम् । अह्वासत इत्यादि । अह्वास्यत् । अह्वास्यत । वद व्यक्तायां वाचीति ॥ अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदति । अच्छेत्यव्ययमाभिमुख्ये । अभिमुख वदतीत्यर्थः । 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वे ‘लिट्यभ्यासस्य’ इति सम्प्रसारणमिति मत्वा आह । उवादेति ॥ किति लिटि तु ‘वचिस्वपियजादीनाम्' इति द्वित्वात्प्राक् सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ऊदतुरिति । उवदिथेति ॥ द्वित्वे अभ्यासस्य सम्प्रसारणमिति भावः । ऊदथुः । ऊद । उवाद-उवद । ऊदिव । ऊदिम । वदितेति ॥ तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति ॥ आशीर्लिङि यासुटः कित्त्वात् ‘वचिस्वपि’ इति सम्प्रसारणमिति भावः । अवादीत् इत्यत्र हलन्तलक्षणवृद्धेः ‘नेटि’ इति निषेधेऽपि ‘अतो हलादेः’ इति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथक् ग्रहणाद्वृद्धिरित्यभिप्रेत्याह । वदव्रजेति वृद्धिरिति ॥ एतदर्थमेव ‘वदव्रजहलन्तस्य’ इत्यत्र वदधातोः पृथक् ग्रहणमिति भावः । टु ओ श्वि इति ॥ टुरोकारश्चेत् । श्वयतीति ॥ शपि गुणायादेशौ । लिटि तु अकिति णलादौ 'लिट्यभ्यासस्य' इत्यभ्यासस्य नित्यं सम्प्रसारणे प्राप्ते किति तु अतुसादौ द्वित्वात्प्राक् ‘वचिस्वपि' इति नित्यं सम्प्रसारणे प्राप्ते आह । विभाषा श्वेः ॥ सम्प्रसारणमिति ॥ ‘ष्यडस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ॥ 'लिड्यडोः' इत्यनुवृत्तेरिति भावः । शुशावेति ॥ णलि अभ्याससम्प्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन सम्प्रसारणे कृते ततो द्वित्वे वृध्द्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नात्र प्राप्तिः । तथाच लिड्वत्स्वेकवचनेषु द्वित्वात् प्रागप्राप्तस्य सम्प्रसारणस्य विकल्पविधिः । शुशुवतुरिति ॥ लिटि तु द्विवचनबहुवचनेषु द्वित्वात्प्राक् वचिस्वपीति सम्प्रसारणस्य विकल्पविधिः । तथाच उभयत्र विभाषेयम् । यडशे त्वप्राप्तविभाषैवेयम् । शोशूयते । शेश्वीयते । तत्र णलि एतत्सम्प्रसारणाभावपक्षे श्वि इत्यस्य द्वित्वानन्तरमभ्याससम्प्रसारणे शुश्वाय इति प्राप्ते आह । श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः इति ॥ लिट्यभ्याससम्प्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथाच श्वि इत्यभ्यासस्य सम्प्रसारणाभावादभ्यासे इकार एव श्रूयते इत्याह । तेनेति ॥ शूयादिति ॥ आशीर्लिङि यासुटः
१७८
[भ्वादि
सिध्दान्तकौमुदीसहिता

(सू २४०८) इति सम्प्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । 'जॄस्तम्भु-' (सू २२९१) इत्यङ् वा ।

२४२१ । श्वयतेरः । (७-४-१८)

श्वयतेरिकारस्याकारः स्यादडि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । 'विभाषा धेट्श्व्यो:' (सू २३७५) इति चङ् । इयङ् । अशिश्वियत् । 'ह्म्यन्त–' (सू २२९९) इति न वृद्धिः । अश्वयीत् । वृत् । यजादयो वृत्ताः । भ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसङ्ग्रहः । इति भ्वादयः ।

२४२२ । ऋतेरीयङ् । (३-१-२९)

ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे । 'जुगुप्सायामयं धातुः' इति


कित्त्वाद्वचिस्वपीति सम्प्रसारणे पूवरूपे ‘अकृत्सावंधातुकयोः' इति दीर्घ इति भावः । लुडि विशेषमाह । जॄस्तम्भ्विति ॥ तथाच अश्वि अ त् इति स्थिते इयडि प्राप्ते । श्वयतेरः ॥ श्वयते अः इति च्छेदः । श्वयतेरिति श्तिपा निर्देशः । श्विधातोरित्यर्थः । ‘अलोऽन्त्यस्य' इत्यन्त्यस्य इकारस्येति लभ्यते । ‘ऋदृशोऽडि’ इत्यतः अडीत्यनुवर्तते । तदाह । श्वयतेरिकारस्येति ॥ अश्व अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह । पररूपमिति ॥ आर्धधातुकोपदेशे अदन्तत्वाभावात् न अल्लोपः । अश्वन्निति ॥ अश्वः । अश्वतम् । अश्वत । अश्वम् । अश्वाव । अश्वाम । अडभावपक्षे त्वाह । विभाषेति ॥ इयङिति ॥ ‘चडि’ इति द्वित्वमित्यपि ज्ञेयम् । तदाह । अशिश्वियदिति ॥ अडश्चडश्चाभावे तु अश्वि ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्या आयादेशे अश्वायीदिति प्राप्ते आह । ह्म्यन्तेति न वृद्धिरिति ॥ श्विग्रहणादिति भावः । नच ‘नेटि’ इत्येव सिचि वृद्धेः निषेधसिद्धेः पृथक् श्विग्रहण व्यर्थमिति वाच्यम् । ‘नेटि' इति निषेधस्य हलन्तलक्षणवृद्धिमात्रविषयत्वात् । नच अश्वि ईत् इति स्थिते सिचि वृध्द्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाभावेन सिचि वृध्द्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेः 'ह्म्यन्त’ इत्यत्र श्विग्रहण व्यर्थमिति वाच्यम् । अनवकाशतया अपवादत्वेन गुणम्बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यान यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह । भ्वादिस्त्वाकृतिगणः इति ॥ चुलुम्पतीति ॥ चुलुम्पधातुर्लोपार्थकः तस्यापि भ्वादिगणे पाठात् शब्विकरणत्वमिति भावः । इति भ्वादयः इति ॥ नचैव सति ‘अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्व कथमित्याशङ्क्य शब्विकरणा. भ्वादयस्समाप्ता इत्यर्थात् । ऋतेरीयङ् ॥ ऋतेर्धातुपाठे अदर्शनादाह । ऋतिः सौत्रः इति ॥ स्वार्थे इति ॥ अर्थविशेषस्यानिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टः न त्विकारान्तः । इदन्तत्वे हि सवर्णदीघेणैव सिद्धे ईकारोच्चारणवैयर्थ्यात् । नच
प्रकरणम्]
१७९
बालमनोरमा ।

बहवः । 'कृपायां च' इत्येके । 'सनाद्यन्ताः-' (सू २३०४) इति धातुत्वम् । ॠतीयते । ॠतीयाञ्चक्रे । आर्धधातुकविवक्षायां तु 'आयादय आर्धधातुके वा' (सू २३०५) इतीयङभावे 'शेषात्कर्तरि-' (सू २१५९) इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ।

इति तिन्ङतभ्वादिप्रकरणम्


इदन्तत्वे सति 'एरनेकाच' इति यण् स्यादिति वाच्यम् । एवमपि ॠतेर्ड्यः इति ड्यप्रत्यये कृते 'अकृत्सार्वधातुकयोर्दीर्घ' इति दीर्घेणैव सिद्धे ईयड्विधिवैयर्थ्यात् । एके इति ॥ अन्ये इत्यर्थः । ॠतीयते इति । ईयडोऽदन्तत्वात् शपि पररूपम् । ॠतीयाञ्चक्रे इति ॥ 'कास्प्रत्ययात्' इत्याम् । ॠतीयिता । ॠतीयिष्यते । ॠतीयताम् । आर्तीयत । ॠतीयेत । ॠतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति ॥ ॠत् इति तकारान्तात् लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे 'अत आदेः' इत्यभ्यासस्य दीर्घे 'तस्मान्नुड्द्विहल' इति नुट् । नुड्विधौ ॠकारैकदेशो रेफो हल्त्वेन गृह्यते इति उत्तेरिति भावः । आनृततुः । आनृतुः । अनिट्सु अस्यापाठात् थलि नित्यमिट् । आनर्तिथ । आनृतथुः । आनृत । आनर्त । आनृतिव । आनृतिम । अर्तिता । अर्तिष्यति । ॠत्यात् । आर्तीदिति ॥ 'इट ईटि' इति सिज्लोपः । आडागमः । आर्तिष्यत् ॥

इति श्रीसिद्धान्तकौमुदीव्याख्यायां

वासुदेवदीक्षितविरचितायां बालमनोरमायां

॥ शब्विकरणनिरूपणम् ॥

। श्रीरस्तु ।

॥ अथ तिङन्तादादिप्रकरणम् ॥


अद १०११ भक्षणे । द्वौ परस्मैपदिनौ ।

२४२३ । अदिप्रभृतिभ्यः शपः । (२-४-७२)

लुक्स्यात् । अत्ति । अत्तः । अदन्ति ।

२४२४ । लिट्यन्यतरस्याम् । (२-४-४०)

अदो घस्लृ वा स्याल्लिटि । जघास । 'गमहन -' (सू २३६३) इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । 'शासिवसि--' (सू २४१०) इति षत्वम् । जक्षतुः । जक्षुः । घसेस्तासावभावात्थलि नित्य-


अथ लुग्विकरणान् धातून्निरूपयितुमुपक्रमते । अद भक्षणे इति ॥ अनिडयम् । अदिप्रभृतिभ्यः ॥ 'ण्यक्षत्रियार्षञितः' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । लुक् स्यादिति ॥ अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति ॥ शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति ॥ एतदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि । अत्थः । अत्थ । अद्मि । अद्वः । अद्मः । लिट्यन्यतरस्याम् ॥ 'अदो जग्धिः' इत्यतः अद इति 'लुड्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते । तदाह । अदः इति ॥ आदेशे लृकार इत् । घसादेशः अनिट् । जघासेति ॥ अकित्त्वात् 'गमहन' इत्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह । गमहनेत्युपधालोपः इति ॥ 'असयोगात्' इति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्व वक्ष्यन् उपधालोपस्य स्थानिवत्त्वमाशङ्क्याह । तस्येति ॥ उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादाह । शासीति ॥ थलि तु क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्यानिड्विषयत्वात् । घस् तु तासौ न विद्यत एव कुतस्तस्य तासावनिट्कत्वम् । ‘यस्तासावस्ति अनिट् च' इति हि भाष्यम् । तदाह । घसेस्तासाविति । जघसिथेति ॥ जक्षथुः । जक्ष । जघास-जघस । जक्षिव ।
प्रकरणम्]
१८१
बालमनोरमा ।

मिट् । जघसिथ । आद । आदतुः । 'इडत्त्यर्त्ति-' (सू २३८४) इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ।

२४२५ । हुझल्भ्यो हेर्धिः । (६-४-१०१)

होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि । अत्तात् । अदानि ।

२४२६ । अदः सर्वेषाम् । (७-३-१००)

अदः परस्यापृक्तसार्वधातुकस्याडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ।

२४२७ । लुङ्सनोर्घस्लृ । (२-४-३७)

अदो घस्लृ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् । हन १०१२ हिंसागत्योः । प्रणिहन्ति ।


जक्षिम । घसादेशाभावपक्षे त्वाह । आदेति ॥ थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते आह । इडत्त्यर्तीति । आदिथेति ॥ आदथु । आद । आद । आदिव । आदिम । अत्ता । अत्स्यतीति ॥ अनिट् । दस्य तः । अत्तु-अत्तात् । अत्ताम् । अदन्तु । अद् हि इति स्थिते 'झयो होऽन्यतरस्याम्' इति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते । हुझल्भ्यो हेर्धिः ॥ झलन्तेभ्यः इति ॥ अङ्गविशेषणत्वात् तदन्तविधिरिति भावः । अनेकाल्त्वात् सर्वादेशः । रुदिहीत्यत्र तु न । निर्दिश्यमानहेरिटा व्यवहितत्वात् । इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति ॥ धित्वात् परत्वात्तातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वम् । 'विप्रतिषेधे यद्बाधित तद्बाधितमेव' इति न्यायात् । अत्तम् । अत्त । अदानीति ॥ ‘आङुत्तमस्य’ इत्याङागमः । एतदर्थमेव आङागमे दीर्घोच्चारणमिति भावः । अदाव । अदाम । लडि आद् त् इति स्थिते । अदः सर्वेषाम् ॥ अद इति पञ्चमी । ‘तस्मादित्युत्तरस्य इति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते ’ इत्यतः अपृक्ते इति 'तुरुस्तु शम्यमः' इत्यतस्सार्वधातुके इति चानुवर्तते । सप्तमीद्वयञ्च षष्ठ्या विपरिणम्यते । 'अड् गार्ग्यगालवयोः' इत्यतः अडित्यनुवर्तते । गार्ग्यगालवयोरित्यस्यानुवृत्तिनिवृत्तये सर्वेषामिति । तदाह । अदः परस्येत्यादिना ॥ टित्त्वादाद्यवयवः । तदाह । आददिति ॥ आत्तामिति ॥ अपृक्तग्रहणान्नाडागम इति भावः । विधिलिङि रूपमाह । अद्यादिति ॥ शपो लुकि अतः परत्वाभावात् 'अतो येयः' इति नेति भावः । मिपः अमि यासुटि सलोपे सवर्णदीर्घे अद्याम् । अद्याव । अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह । अद्यास्तामिति ॥ लुडि अद् स् त् इति स्थिते । लुङ्सनोर्घस्लृ ॥ 'अदो जग्धिः' इत्यत अद इत्यनुवर्तते । तदाह । अदेरिति ॥ लृदित्त्वस्य प्रयोजनमाह । लृदित्त्वादिति ॥ हनधातुरनिट् । प्रणिहन्तीति ॥ शपो लुक् ।
१८२
[अदादि
सिध्दान्तकौमुदीसहिता

२४२८ । अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति । (६-४-३७)

'अनुनासिक--' इति लुप्तषष्ठीकं पदं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनु तनोत्यादयः । हतः । घ्नन्ति ।

२४२९ । वमोर्वा । (८-४-२३)

उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः ।


नस्यानुस्वारपरसवर्णौ । 'नेर्गद' इति णत्वम् । अनुदात्तोपदेश ॥ ऊदॄदन्तैरित्यादिभिस्सङ्गृहीता अनुदात्तोपदेशा वनतिर्भौवादिक तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतेषामनुनासिकस्य लोपः स्यात् झलादौ क्ङिति इति प्रतीयमानार्थः । एवं सति मुक्तमित्यादौ मुचादीनामपि मकारादिलोपः स्यात् । तत्राह । अनुनासिकः इति लुप्तषष्ठीकं पदमिति ॥ एवमप्युक्तातिप्रसङ्गतादवस्थ्यादाह । वनतीतरेषां विशेषणमिति ॥ अनुदात्तोपदेशानां तनोत्यादीनाञ्चेत्यर्थः । तथाच विशेषणत्वात्तदन्तविधौ अनुनासिकान्तानामनुदात्तोपदशानान्तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः । तदाह । अनुनासिकान्तानामित्यादिना ॥ वनधातोस्तु अनुनासिकान्तत्वान्न वशेषणम् । अव्यभिचारादिति भावः । अत्रानुदात्तोपदेशान् अनुनासिकान्तान् दर्शयति । यमिरमीति ॥ अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः । अथ तनेातीत्यादीननुनासिकान्तान् दर्शयति । तनुक्षणुक्षिण्विति ॥ मनु इत्यन्त समाहारद्वन्द्वात् प्रथमैकवचनम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः । तत्र करोतिरनुनासिकान्तत्वाभावादिह न गृह्यते । 'जनसनखनां सन्झलोः' इनि सनोतेरात्त्वस्य वक्ष्यमाणत्वात् सोऽप्यत्र न गृहीतः । ‘वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया उदित्त्वेन च वनतिग्रहणेनाग्रहणात् तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्वात् 'उदितो वा' इति कायामिड्विकल्पात् ‘यस्य विभाषा' इति निष्ठायामिडभावपक्षे, वत्, वतवान्, इत्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाभावान्निष्ठाया सेट्कत्वेऽपि क्तिनि वतिरित्युदाहरणम् । 'तितुत्रतथसिसुसरकसेषु च' इति इण्निषेधादित्यलम् । हतः इति ॥ तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः । 'सार्वधातुकमपित्' इति तसो ङित्त्वात् । घ्नन्तीति ॥ अजादिडित्परकत्वात्

'गमहन' इत्युपधालोपे 'हो हन्तेः’ इति कुत्वेन हस्य घः । हसि । हथः । हथ । वमोर्वा ॥ 'उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते । 'रषाभ्यान्ने णः' इति सूत्रमनुवर्तते । 'हन्तेरत्पूर्वस्य' इत्यतो हन्तेरिति । तदाह । उपसर्गस्थान्निमित्तादिति ॥ णलि जहा
प्रकरणम्]
१८३
बालमनोरमा ।

प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । 'हो हन्तेः–’ (सू ३५८) इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ।

२४३० । अभ्यासाच्च । (७-३-५५)

अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । 'ऋद्धनोः–' (सू २३६६) इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ।

२४३१ । हन्तेर्जः । (६-४-३६)

हौ परे आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ।

२४३२ । आर्धधातुके । (२-४-३५)

इत्यधिकृत्य ।

२४३३ । हनो वध लिङि । (२-४-४२)

२४३४ । लुङि च । (२-४-४३)


नेति स्थिते आह । हो हन्तेरिति ॥ 'अभ्यासाच्च' इत्यपेक्षया अस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ॥ 'गमहन' इत्युपधालोपे 'हो हन्ते ' इति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ। जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाभावान्नकारपरत्वाभावाच्च ‘हो हन्ते' इति कुत्वाप्राप्तौ । अभ्यासाच्च ॥ ‘हो हन्तेः’ इत्यनुवर्तते । ‘चजो कुघिण्ण्यतोः' इत्यत कुग्रहणञ्च । तदाह । अभ्यासात् परस्येत्यादिना । जघनिथ-जघन्थेति ॥ इडभावे नस्यानुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान-जघन । जघ्निव । जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह । ऋद्धनोरिति ॥ हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते । हन्तेर्जः ॥ 'शा हौ' इत्यतः हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । हौ परे इति ॥ कृते जादेशे ‘अतो हेः’ इति हेर्लुकमाशङ्क्य आह । आभीयतयेति । जहीति ॥ हतात् । हतम् । हत । हनानीति ॥ आटः पित्त्वेन डित्त्वाभावान्नोपधालोप इति भावः। अहन्निति ॥ लडस्तिपि 'इतश्च' इति इकारलोपे ‘सयोगान्तस्य’ इति तकारलोपः । न्याय्यत्वाद्धल्ड्यादिलोपो वा । अहनमिति ॥ अहन्व। अहन्म । झलादिपरकत्वाभावान्नोपधादीर्घः । विधिलिङि हन्यात् । हन्याताम् इत्यादि । आशीर्लिङि वधादेश वक्ष्यन्नाह । आर्धधातुके इत्यधिकृत्येति ॥ 'अदो जग्धिः' इत्यादिविधयो वक्ष्यन्ते इति शेषः । तदधिकारस्थ सूत्रमाह । हनो वध ॥ वधेति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिडीत्यर्थः । लुङि च ॥
१८४
[भ्वादि
सिध्दान्तकौमुदीसहिता

वधादेशोऽदन्तः 'आर्धधातुके' (सू २३०७) इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् 'अतो लोपः' (सू २३०८) । वध्यात् वध्यास्ताम् । 'आर्धधातुके' किम् । विध्यादौ हन्यात् । 'हन्तेः-' (सू ३५९) इति णत्वम् । प्रहण्यात् । अवधीत् ।

अथ चत्वारः स्वरितेतः । द्विष १०१३ अप्रीतौ । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति । द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ।

२४३५ । द्विषश्च । (३-४-११२)

लङो झेर्जुस् वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विष्यात् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् । दुह १०१४ प्रपूरणे । प्रपूरणं पूरणा-


हनो वधादेशः स्याल्लुडीत्यर्थः स्पष्टः । वधादेशोऽदन्तः इति ॥ धकारादकारो न सुखोच्चारणार्थ इति भावः । तत्प्रयोजनन्तु अनुपदमेव अवधीत् इत्यत्र वक्ष्यते । ननु आशीर्लिङि हन यादिति स्थिते आर्धधातुके परे कृतस्य वधादेशस्य आर्धधातुकोपदेशे अकारान्तत्वाभावात् कथं वध्द्यादित्यत्र अल्लोप इत्यत आह । विषयसप्तमीति ॥ तथाच आर्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेशे कृते आर्धधातुकप्रवृित्तिरिति फलितम् । ततश्च आर्धधातुकोपदेशे वधादेशस्य अकारान्तत्वादल्लोपो निर्बाधः । तदाह । तेनेति ॥ अवधीदिति ॥ सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशे अनेकाच्त्वेन ‘एकाच उपदेशे’ इति निषेधाभावात् सिच इट् । 'अतो हलादेः' इति वृद्धिस्तु न भवति । 'अचः परस्मिन्’ इत्यल्लोपस्य स्थानिवत्त्वात् । एतदर्थमेव हि वधादेशस्य अदन्तत्वमाश्रितम् । स्वरितेतः इति ॥ उभयपदिन इति फलितम् । द्विष अप्रीताविति ॥ अनिट् । द्वेष्टीति ॥ पित्त्वेन ङित्त्वाभावाल्लघूपधगुण इति भावः । द्विष्टः । द्विषन्ति । द्वेक्षि । द्विष्टः । द्विष्ट । द्वेष्मि । द्विष्वः । द्विष्मः । तडि उदाहरति । द्विष्टे इति ॥ ङित्वान्न गुणः । द्विषाते । द्विषते । द्विक्षे । द्विषाथे । द्विड्ढ्वे । द्विषे । द्विष्वहे । द्विष्महे । षढोरिति षस्य कत्वम्मत्वा आह । द्वेक्ष्यतीति । द्विड्ढीति ॥ हेर्धिः षस्य जश्त्वेन ड:। द्विष्टात् । द्विष्टम् । द्विष्ट। द्वेषाणीति ॥ आटः पित्त्वेन डित्त्वाभावात् गुणः षात्परत्वाण्णत्वम् । द्वेषाव । द्वेषाम । द्विष्टाम् । द्विषाताम् । द्विषताम् । द्विक्ष्व । द्विषाथाम् । द्विड्ढ्वम् । द्वेषै इति ॥ आटः पित्त्वेन डित्त्वाभावात् गुण इति भावः । अद्वेडिति ॥ लडस्तिप् गुणः इकारलोपः 'वाऽवसाने' इति चर्त्वजश्त्वे इति भावः । अद्विष्टाम् । द्विषश्च ॥ 'झेर्जुस्' इति 'लडश्शाकटायनस्य’ इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । लङो झेरिति । अद्विषन्निति ॥ अद्वेट् । अद्विष्टम् । अद्विष्ट । अद्वेषम् । अद्विष्व । अद्विष्म । विधिलिङि परस्मैपदे आह । द्विष्यादिति ॥ द्विष्याताम्, द्विष्युः, इत्यादि । तडि आह । द्विषीतेति ॥ द्विषीयाताम् । द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् इत्यादि । तड्याह । द्विक्षीष्टेति ॥ 'लिड्सिचोरात्मनेपदेषु' इति कित्त्वान्न गुणः । द्विक्षीयास्तामित्यादि । लुङि परस्मैपदे आह ।
प्रकरणम्]
१८५
बालमनोरमा ।

भावः । धात्वर्थम्बाधते कश्चित् । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । दुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अदुग्ध । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । ‘लुग्वा दुह-' (सू २३६५) इति लुक्पक्षे तथास्ध्वम्वहिषु लङ्वदपि । दिह १०१५ उपचये । उपचयो


अद्विक्षदिति ॥ ‘शल इगुपधात्' इति क्स: । अद्विक्षताम् । अद्विक्षन् इत्यादि । तडि अद्विक्षत । अद्विक्षाताम् । अद्विक्षन्त इत्यादि । अद्वेक्ष्यत् । अद्वेक्ष्यत । दुह प्रपूरणे इति ॥ अयमनिट् । 'पयो दोग्धि' इत्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह । प्रपूरणं पूरणाभावः इति ॥ ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधसः सकाशात् क्षारणे इति यावत् । ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह । धात्वर्थम्बाधते कश्चिदिति ॥ प्रसिद्ध धात्वर्थं कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्यर्थः । दोग्धीति ॥ ‘दादेः’ इति हस्य घः ‘झषस्तथो’ इति तकारस्य धकार घस्य जश्त्वेन गः । एवं दुग्धः इत्यपि । दुहन्ति । धोक्षीति ॥ हस्य घः चर्त्वेन कः षत्वमिति भावः । दुग्धः । दुग्ध । दोह्मि । दुह्वः । दुह्मः । लटि आत्मनेपदे आह । दुग्धे इति ॥ घधगाः । दुहाते । दुहते । धुक्षे इति ॥ हस्य घः दस्य भष् धकारः घस्य कः षत्वम् । दुहाथे । धुग्ध्वे इति ॥ हस्य घः भष् घस्य गः । दुह्वहे। दुद्महे । दुदोह । दुदुहतुः । दुदुहुः । अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । दुदोहिथ । दुदुहथुः । दुदुह । दुदोह । दुदुहिव । दुदुहिम । दुदुहे । दुदुहाते । दुदुहिरे । दुदुहिषे । दुदुहाथे । दुदुहिढ्वे-दुदुहिध्वे । दुदुहे । दुदुहिवहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्ध्विति ॥ दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धीति ॥ हेर्धिः घत्वजश्त्वे । दुग्धात् । दुग्धम् । दुग्ध । दोहानीति ॥ आटः पित्त्वादडित्त्वाद्गुणः । दोहाव । दोहाम । दुग्धाम् । दुहाताम् । दुहताम् । धुक्ष्वेति ॥ घत्व भष् जश्त्वचर्त्वे षत्वम् । दुहाथाम् । धुग्ध्वमिति ॥ हस्य घः भष् घस्य जश्त्वम् । दोहै इति ॥ आटः पित्त्वादकित्त्वाद्गुण इति भावः । दोहावहै । दोहामहै । लडि परस्मैपदे आह । अधोगिति ॥ तिप् इकारलोपः हल्ड्यादिलोपः हस्य घः दस्य भष् घस्य चर्त्वविकल्पः । अदुग्धाम् । अदुहन् । अधोक् । अदुग्धम् । अदुग्ध । अदोहमिति ॥ अदुह्व । अदुह्म । लडस्तड्याह । अदुग्धेति ॥ हस्य घः तकारस्य ध घस्य गः । अदुहाताम् । अदुहत । अदुग्धाः । अदुहाथाम् । अधुग्ध्वमिति ॥ हस्य घः दस्य भष् घस्य गः । अदुहि । अदुह्वहि । लुडि परस्मैपदे आह । अधुक्षदिति ॥ 'शल इगुपधात्’ इति क्सः । हस्य घः दस्य भष् घस्य चर्त्वम् । अधुक्षताम् । अधुक्षन् इत्यादि । लुडस्तड्याह । अधुक्षतेति ॥ 'क्सस्याचि' अधुक्षाताम् । अधुक्षन्त । अधुक्षथाः । अधुक्षाथाम् । अधुक्षध्वम् । अधुक्षि । अधुक्षावहि । अधुक्षामहि । लुग्वेति ॥ त थास् ध्वम् वहि एषु चतुर्षु दन्त्यादिषु परेषु 'लुग्वा दुह' इति क्सस्य लुक्पक्षे लडीव रूपाणीत्यर्थः । तथाच अदुग्ध । अदुग्धाः । अधुग्ध्वम् । अदुह्वहि इत्यपि रूपाणीति फलितम् । अधोक्ष्यत् । अधोक्ष्यत । दिह उपचये इति ॥ उपचयो वृद्धिः । अनिट् । प्रणिदेग्धीति ॥ 'नेर्गद' इति णत्वम् ।
१८६
[अदादि
सिध्दान्तकौमुदीसहिता

वृद्धिः । प्रणिदेग्धि । लिह १०१६ आस्वादने । लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लीढि । लेहानि । अलेट् । अलिक्षत् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि । अलिह्वहि । अलेक्ष्यत् । अलेक्ष्यत । चक्षिङ् १०१७ व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । 'विचक्षणः प्रथयन्' । नुम् तु न । 'अन्ते इदितः’ इति व्याख्यानात् । डकारस्तु ‘अनुदा-


दुहधातुवद्रूपाणि । लिह आस्वादने इति ॥ अनिट् । लेढीति ॥ शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति ॥ सिपि हस्य ढः ‘षढोः’ इति ढस्य कः इति भावः । लीढः । लीढ । लेह्मि । लिह्वः । लिह्मः । लटि तड्याह । लीढे इति ॥ लिहाते । लिहते । लिक्षे इति ॥ ढकषाः । लिहाथे इति सुगमम् । लीढ्वे इति ॥ ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे । लिह्वहे । लिह्महे । लेढा । लेक्ष्यति । लेक्ष्यते । लेढ्विति ॥ लीढात् । लीढाम् । लिहन्तु । लीढीति ॥ हेर्धिः ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् । लीढम् । लीढ । लेहानीति ॥ आटः पित्त्वेन डित्त्वाभावाद्गुण इति भावः । लेहाव । लेहाम । लीढाम् । लिहाताम् । लिहताम् । लिक्ष्व । लिहाथाम् । लीढ्वम् । लेहै । लेहावहै । लेहामहै । अलेडिति ॥ लडि तिपि शपो लुकि इकारलोपे हल्ड्यादिलोपे हस्य ढः चर्त्वविकल्प इति भावः । अलीढाम् । अलिहन् । अलेट् । अलीढम् । अलीढ । अलेहम् । अलिह्व । अलिह्म । अलीढ । अलिहाताम् । अलिहत । अलीढा । अलिहाथाम् । अलीढ्वम् । अलिहि । अलिह्वहि । अलिह्महि । अलिक्षदिति ॥ लुडि क्सः । अलिक्षताम् । अलिक्षन् । अलिक्षः इत्यादि । तडि आह । अलिक्षतेति । अलीढेति ॥ 'लुग्वा दुह' इति क्सलोपपक्षे रूपम् । अलिक्षाताम् । अलिक्षन्त । अलिक्षथाः –अलीढाः । अलिक्षाथाम् । अलिक्षध्वम्-अलीढ्वम् । अलिक्षि । 'लुग्वा दुह' इति लुग्विकल्पम्मत्वा आह । अलिक्षावहि । अलिह्वहीति ॥ अलेक्ष्यत् । अलेक्ष्यतेति ॥ द्विषादयश्चत्वारः स्वरितेतो गताः । चक्षिङ् व्यक्तायां वाचीति ॥ गृढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः । अयं दर्शनेऽपीति ॥ श्रुतौ “पूर्वापरञ्चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचक्षे । ॠतूनन्यो विदधज्जायते पुनः" इत्यादौ तथा

दर्शनादिति भावः । ननु चक्षिडित्यत्र इकारोच्चारण व्यर्थं न च सुखोच्चारणन्तदिति वाच्यम् । अकारोच्चारणेनैव तत्सिद्धेः । नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्य वक्तुम् । डित्त्वादेव तत्सिद्धेरित्यत आह । इकारोऽनुदात्तो युजर्थः इति ॥ ‘अनुदात्तेतश्च हलादेः' इति ल्युडपवादयुच्प्रत्ययार्थं इत्यर्थः । अकारमुल्लङ्घ्य इकारोच्चारणन्तु उच्चारणार्थत्वाभावप्रतिपत्त्यर्थमिति भावः । “विचक्षण प्रथयन्” इति मन्त्रः । अत्र लित्स्वरनिवृत्तये युच्प्रत्यय इति भावः । ननु युच्प्रत्ययार्थमिकारस्य इत्सज्ञावश्यकत्वे नुमागमः स्यादित्यत आह । नुम् तु नेति ॥ कुत इत्यत आह । अन्ते इदितः इति ॥ ‘इदितो नुम् धातोः' इत्यत्र 'गोः पदान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थम् अनुदात्तत्वस्य इत्सज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसम्भवात् डकारोच्चारण व्यर्थमित्याशङ्क्य आह । ङकारस्त्विति ॥
प्रकरणम्]
१८७
बालमनोरमा ।

त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ (प ९७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोकसन्धि-' इत्यादि सिद्ध्यति । चष्टे । चक्षाते । 'आर्धधातुके' (सू २३७७) इत्यधिकृत्य ।

२४३६ । चक्षिङः ख्याञ् । (२-४-५४)

२४३७ । वा लिटि । (२-४-५५)

अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे 'शस्य यो वा' (वा १५८६) इति स्थित्तम् । ञित्त्वात्पदद्वयम् । चख्यौ—चख्ये । चक्शौ– चक्शे । 'चयो द्वितीयाः –’ (वा ५०२३) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट ।


डकारः नित्यात्मनेपदार्थ । अनुदात्तेत्त्वप्रयुक्त त्वात्मनेपदङ्कदाचिन्न स्यात् । अतो डकारोच्चारणम् । अत एव ‘अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्’ इति विज्ञायते इत्यर्थः । स्फायन्निति ॥ स्फायी वृद्धावित्यनुदात्तेतोऽपि लट् शत्रादेशः । न त्वात्मनेपद शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथा अनुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथञ्चित्साध्द्यमित्याहुः । चष्टे इति ॥ 'स्कोः' इति कलोपः ष्टुत्वञ्चेति भावः । चक्षाते इति ॥ चक्षते । थासः सेभावे 'स्कोः' इति कलोपे 'षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे । चक्षाथे । ध्वमि 'स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चड्ढ्वे । चक्षे । चक्ष्वहे । चक्ष्महे । आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः । चक्षिङः ख्याञ् ॥ 'चक्षिङः ख्याञ्' स्यादार्धधातुके परे इत्यर्थः । वा लिटि ॥ 'चक्षिङ् ख्याञ्’ वा स्याल्लिटीत्यर्थः । अत्रेति ॥ ‘चक्षिङ् ख्याञ्’ इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्’ इत्यधिकारे ‘ख्शाञ् शस्य यो वा वक्तव्यः’ इति च स्थितमित्यर्थः । तेन पुङ्ख्यानमित्यत्र यत्वस्यासिद्धत्वात् ‘पुम खय्यम्परे’ इति रुत्वन्नेति हल्सन्धिनिरूपणे प्रपञ्चितम् । ञित्त्वात्पदद्वयमिति ॥ परस्मैपदमात्मनेपदञ्चेत्यर्थः । चख्यौ इति ॥ ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः । चख्युः । भारद्वाजनियमात्थलिवेट् । चख्यिथ-चख्याथ । चख्यथुः । चख्य । चख्यौ । चख्यिव । चख्यिम । क्रादिनियमादिट् । लिटि तडि ख्याञादेशस्य शस्य यत्वपक्षे आह । चख्ये इति ॥ चख्याते । चख्यिरे । चख्यिषे । चख्याथे । चख्यिध्वे । चख्ये । चख्यिवहे । चख्यिमहे । शस्य यत्वाभावपक्षे त्वाह । चक्शौ-चक्शे इति ॥ खस्य चर्त्वेन कः इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशङ्क्य निराकरोति । चयः इति ॥ अथ ख्याञादेशाभावपक्षे आह । चचक्षे इति ॥ चचक्षिषे । चचक्षिध्वे । चचक्षिवहे । ख्यास्यते इति ॥ चष्टाम् । चक्षाताम् । चक्षताम् । चक्ष्व । चक्षाथाम् । चड्ढ्वम् । चक्षै । चक्षावहै । चक्षामहै । लड्याह । अचष्टेति ॥ अचक्षाताम् । अचक्षत । अचष्ठाः । अचक्षाथाम् । अचड्ढ्वम् । अचक्षि । अच
१८८
[अदादि
सिध्दान्तकौमुदीसहिता

चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ।

२४३८ । अस्यतिवक्तिख्यातिभ्योऽङ् । (३-१-५२)

एभ्यश्च्लेरङ् । अख्यत्-अख्यत । अक्शासीत्-अक्शास्त । ‘वर्जने क्शाञ् नेष्टः’ (वा १५९२) । समचक्षिष्ट इत्यादि ।

अथ पृच्यन्ता अनुदात्तेत:। ईर १०१८ गतौ कम्पने च । ईर्ते । ईराञ्चक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ईड १०१९ स्तुतौ । ईट्टे ।

२४३९ । ईशः से । (७-२-७७)

२४४० । ईडजनोर्ध्वे च । (७-२-७८)

ईशीडजनां 'से---' 'ध्वे---' शब्दयोः सार्वधातुकयोरिट् स्यात् ।


क्ष्महि । विधिलिङ्याह । चक्षीतेति ॥ आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह । ख्यायात्-ख्येयादिति ॥ 'वाऽन्यस्य' इत्येत्त्वविकल्पः । शस्य यत्वाभावपक्षे आह । क्शायात्-क्शेयादिति ॥ लुडि च्लेः सिचि प्राप्ते । अस्यतिवक्ति ॥ 'च्लेः सिच्' इत्यत च्लेरित्यनुवर्तते । तदाह । एभ्यश्च्लेरिति । अख्यत्-अख्यतेति ॥ यत्वपक्षे रूपम् । आल्लोपः ञित्त्वादुभयपदित्वादात्मनेपदे रूपम् ।ख्शादेशपक्षे परस्मैपदपक्षे तु आह । अक्शासीदिति ॥ अड्विधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अड् न भवति । किन्तु आदन्तत्वलक्षणौ सगिटौ । अक्शासिष्टाम् इत्यादि । अक्शास्तेति ॥ आत्मनेपदे लुडि रूपम् । अक्शासातां इत्यादि । अख्यास्यत् । अख्यास्यत । अक्शास्यत् । अक्शास्यत । वर्जने क्शाञ् नेष्टः इति ॥ वार्तिकमिदम् । समचक्षिष्टेति ॥ अवर्जयदित्यर्थः । लुडि रूपम् । अथ पृच्यन्ताः इति ॥ ‘पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः । ईर गताविति ॥ सेट् । ईर्ते इति ॥ ईराते । ईरते । ईर्षे । ईराथे । ईर्ध्वे । ईरे । ईर्वहे । ईर्महे । ईराञ्चक्रे इति ॥ 'इजादेश्च' इत्याम् । ईरितेति ॥ ईरिष्यते । इत्यपि ज्ञेयम् । ईर्तामिति ॥ ईराताम् । ईरताम् । ईर्ष्वेति ॥ ईराथाम् इत्यपि ज्ञेयम् । ईर्ध्वमिति ॥ ईरै । ईरावहै । ईरामहै । ऐर्त । ऐराताम् । ऐरत । ऐर्थाः । ऐराथाम् । ऐर्ध्द्वम् । ऐरि । ऐर्वहि । ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । ईड स्तुतौ । ईट्टे इति ॥ तकारस्य ष्टुत्वेन ट: डस्य चर्त्वेन टः इति भावः । ईडाते । ईडते । ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते । ईशः से । ईडजनोर्ध्वे च ॥ 'इडत्त्यर्ति’ इत्यतः इडिति 'रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वय युगपद्व्याचष्टे । ईशीडजनामिति ॥ ध्वे इत्यस्य पूर्वत्रापकर्षः । से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येक व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् । ईडजनोः सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशीडजनाम्' से
प्रकरणम्]
१८९
बालमनोरमा ।

योगविभागो वैचित्र्यार्थः । ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) । ईडिष्व । ईडिध्वम् । ‘विकृतिग्रहणेन प्रकृतेरग्रहणात्' । ऐड्ढ्वम् । ईश १०२० ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । आस १०२१ उपवेशने । आस्ते । 'दयायासश्च' । (सू २३२४) आसाञ्चक्रे । आस्स्व । आध्वम् । आसिष्ट । आङश्शासु १०२२ इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् । वस १०२३ आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता । कसि १०२४ गतिशासनयोः ।


ध्वयोः इत्येकमेव सूत्र कुतो न कृतमित्यत आह । योगविभागो वैचित्र्यार्थः इति ॥ से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थं इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति ॥ ईडे । ईड्वहे । ईण्महे । लिटि तु ईडाञ्चक्रे इत्यादि । ईडिता । ईडिष्यते । ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट् सेशब्दाभावात् । तत्राह । एकदेशेति ॥ एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः । ननु तर्हि ईडिध्वम् इत्यत्र कथं नेट् ध्वेस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह । विकृतीति ॥ प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् । न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् । पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष आनीयते । अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथाच ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । ईडै । ईडावहै । ईडामहै । ऐट्ट । ऐडाताम् । ऐडत । ऐठ्ठाः । ऐडाथाम् । ऐड्ढ्वम् । ऐडि । ऐड्वहि । ऐण्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । आस उपवेशने । आस्ते इति ॥ आसाते । आसते । आस्से । आसाथे । 'धि च ’ इति सलोप । आध्वे । आसे । आस्वहे । आस्महे । इजादित्वाद्यभावादाह । दयायासश्चेति ॥ आसिता । आसिष्यते । आस्ताम् । आसाताम् । आस्स्वेति ॥ सकारद्वयमत्रबोध्द्यम् । आसाथाम् । आध्वमिति ॥ 'धि च’ इति सलोपः । आसै । आसावहै । आसामहै। आस्त । आसाताम् । आसत । आस्थाः । आसाथाम् । आध्वम् । आसि । आस्वहि । आस्महि । आसीत । आसीयाताम् । आसिषीष्ट । आसिषीयास्ताम् । आसिष्टेति ॥ आसिषातामित्यादि । आसिष्यत । आङश्शासु इच्छायामिति ॥ आङः परश्शासधातुरिच्छायामित्यर्थः । नमोवाकमिति ॥ वचेर्घञि वाकः नमश्शब्दस्य वचनङ्कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् आसिवद्रूपाणि । वस आच्छादने इति ॥ परिधाने इत्यर्थः । वध्वे इति ॥ 'धि च' इति सलोपः । ववसे इति ॥ वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । वसितेति ॥ अनिट्सु शब्विकरणस्यैव वसेर्ग्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि गतीति ॥ वसधातुवत् । इदित्वान्नुमिति
१९०
[अदादि
सिध्दान्तकौमुदीसहिता

कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । णिसि १०२५ चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । निंस्से । णिजि १०२६ शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । शिजि १०२७ अव्यक्ते शब्दे । शिङ्क्ते । पिजि १०२८ वर्णे । 'सम्पर्चने इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे' । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । वृजी १०२९ वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० सम्पर्चने । पृक्ते ।

षूङ् १०३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता-सविता । 'भूसुवोः-' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट-असोष्ट । शीङ् १०३२ स्वप्ने ।


विशेष । तालव्यान्तः इति ॥ तालव्योष्मान्त इत्यर्थः । कष्टे इति ॥ व्रश्चेति शस्य षः ष्टुत्वम् । कक्षे इति ॥ शस्य षः षस्य 'षढोः' इति कः षत्वम् । कड्ढ्वे इति ॥ शस्य षः तस्य जश्त्वेन डः धस्य ष्टुत्वेन ढः । णिसि चुम्बने इति ॥ णोपदेशोऽयम् । नुमि 'नश्च' इत्यनुस्वारः निस्ते इत्यादि । निंस्से इति ॥ नुमोऽनुस्वारः थासः सेभावः । दन्त्यान्तोऽयमिति ॥ दन्त्योष्मान्तोऽयमित्यर्थः । बभ्रामेति ॥ 'नुम्विसर्जनीयशर्व्यवायेऽपि' इति सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति ॥ णोपदेशोऽयम् । अनिट्सु इरित एव ग्रहणादय सेट् । निङ्क्ते इति ॥ नुमि निञ् ते इति स्थिते जस्य कुत्वेन गः तस्य चर्त्वेन कः नस्य परसवर्णो डकारः । निञ्जाते । निङ्क्षे । निञ्जाथे । निङ्ग्ध्वे । निञ्जे । निञ्ज्वहे । निञ्ज्महे । लिटि सयोगात्परत्वात् कित्त्वाभावान्नलोपो न । निनिञ्जे । निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्त । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति ॥ ॠदुपधोऽयम् । वृजीधातुः ॠदुपधः ईदित् अतो नुम् नेति भावः । पृची सम्पर्चने इति ॥ ॠदुपधोऽयम् । पपृचे इत्यादि । ईरादय पृच्यन्ता अनुदात्तेतो गता । षूड्धातुः षोपदेशः सेट् डित्वात्तङ् । सूते इति ॥ सुवाते । सुवते । सूषे । सुवाथे । सूध्वे । सुवे । सूवहे । सूमहे । सुषुविषे इति ॥ स्वरतीति इड्विकल्पं बाधित्वा 'श्र्युकः किति' इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् 'स्वरति

सूति' इति इड्विकल्पम्मत्वा आह । सोता-सवितेति ॥ तिडस्तासा व्यवधानात् 'भूसुवोः' इति न गुणनिषेधः इति भावः । सोष्यते-सविष्यते । सूताम् । सुवाताम् । सूष्व । सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह । भूसुवोरिति । सुवै इति ॥ सुवावहै । सुवामहै। असूत ।
प्रकरणम्]
१९१
बालमनोरमा ।

२४४१ । शीङः सार्वधातुके गुणः । (७-४-२१)

'क्ङिति च' (सू २२१७) इत्यस्यापवादः । शेते । शयाते ।

२४४२ । शीङो रुट् । (७-१-६)

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ।

अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । यु १०३३ मिश्रणे अमिश्रणे च ।

२४४३ । उतो वृद्धिर्लुकि हलि । (७-३-८९)

लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके । न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह 'उतो वृ-


सुवीत । सविषीष्ट इत्यादि स्पष्टम् । 'शीङ् स्वप्ने' सेट् ङित्वात्तङ् । शीङः सार्वधातुके ॥ स्पष्टम् । “सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह । क्ङिति चेत्यस्यापवादः इति ॥ झस्य अदादेशे सति शे अते इति स्थिते । शीङो रुट् ॥ 'झोऽन्तः इत्यतो झ इत्यनुवर्तते 'अदभ्यस्तात्’ इत्यतः अदित्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । शीङः परस्य झादेशस्येति ॥ रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ॥ 'षीध्वलुड्लिटाम्' इत्युक्तेर्न ढः । शिश्ये इति ॥ शिश्यिषे । शिश्यिढ्वे-शिश्यिध्वे । शयितेति ॥ शयिष्यते । शेताम् । शयाताम् । शेष्व । शयाथाम् । शेध्वम् । शयै । शयावहै। शयामहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशयाथाम् । अशेध्वम् । अशयि । अशेवहि । अशेमहि । शयीत । शयिषीष्ट। अशयिष्टेति ॥ अशयिष्यत इत्यपि ज्ञेयम् । स्तौत्यन्ताः इति ॥ ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति ॥ ञित्त्वादिति भावः । यु मिश्रणे अमिश्रणे चेति ॥ अमिश्रणम्पृथग्भावः सेडयम् । उतो वृद्विर्लुकि हलि ॥ 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते । लुकीति विषय सप्तमी । दर्शनाभावस्य लुकः परत्वासम्भवात् । तदाह । लुग्विषय इत्यादिना । यौतीति ॥ गुणं बाधित्वा वृद्धिः । युतः इति ॥ अपित्त्वान्न वृद्धिः । युवन्तीति ॥ अपित्त्वाद्वृध्द्यभावे ङित्त्वाद्गुणाभावे उवडिति भावः । यौषि । युथः । युथ । यौमि । युवः । युमः । युयावेति ॥ युयुवतुः । युयुवुः । युयविथ । युयुवथुः । युयुव । युयाव-युयव । युयुविव । युयुविम । यवितेति ॥ उवडं बाधित्वा परत्वाद्गुणः । यविष्यति । यौतु-युतात् । युताम् । युवन्तु। हौ अपित्त्वान्न वृद्धिः । युहि-युतात् । युतम् । युत । आटि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः । पित्त्वेन ङित्वाभावाद्गुणः । यवानि । यवाव । यवाम । अयौत् । अयुताम् । अयुवन् । अयौः । अयुतम् । अयुत । अयवम् । अयुव । अयुम । विधिलिङ्याह । युयादिति ॥ अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह । इह उतो वृद्धिर्नेति ॥ कुत
१९२
[अदादि
सिध्दान्तकौमुदीसहिता

द्धिः–' न । भाष्ये 'पिच्च ङिन्न ' 'ङिच्च पिन्न' इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् । रु १०३४ शब्दे ।

२४४४ । तुरुस्तुशम्यमः सार्वधातुके । (७-३-९५)

एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । 'नाभ्यस्तस्य--' (सू २५०३) इत्यतोऽनुवृत्तिसम्भवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति -- रौति । रुवीतः-रुतः । 'हलादेः' किम् । रुवन्ति । 'तिङः' किम् । शाम्यति । 'सार्वधातुके' किम् । आशिषि रूयात् । विद्ध्यादौ तु रुयात्-रुवीयात् । अरावीत् । अरविष्यत् | 'तु' इति सौत्रो धातुर्गतिवृद्धिहिंसासु । 'अयञ्च लुग्विकरणः' इति स्मरन्ति । तवीति-तौति । तुवीतः-तुत: । तोता ।


इत्यत आह । भाष्ये इति । व्याख्यानादिति ॥ ‘हलःश्नश्शानज्झौ’ इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात् 'पिच्च ङिन्न' इत्युक्तवचनेन ‘यासुट् परस्मैपदेषु' इति ङित्त्वस्याप्यभावात् 'क्ङिति च' इति गुणनिषेधाभावात् गुणस्स्यादित्यत आह । विशेषविहितेनेत्यादि बाधादित्यन्तम् ॥ ‘यासुट् परस्मैपदेषु' इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपो 'ङिच्च पिन्न'इति पित्त्वप्रयुक्तडित्त्वनिषेधस्य बाधात् ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः । आशीर्लिङ्याह । यूयादिति ॥ आर्धधातुकत्वान्न वृद्धिः । ‘अकृत्सार्वधातुकयोः' इति दीर्घः । यूयास्ताम् इत्यादि । लुडयाह । अयावीदिति । सिचि वृद्धिः ।

इट ईटि ' इति सिज्लोपः । अयाविष्टाम् इत्यादि । अयविष्यत् । तुरुस्तु ॥ तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । ‘उतो वृद्धिः’ इत्यतो हलीति ‘भूसुवोः’ इत्यतस्तिडीति 'ब्रुव ईट्’ इत्यतः ईडिति 'यडो वा' इति चानुवर्तते । तदाह । एभ्यः इत्यादिना । नाभ्यस्तस्येति ॥ ‘नाभ्यस्तस्याचि पिति सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवृत्तिसम्भवे पुनः सार्वधातुकग्रहण पिति इत्यस्यानुवृत्तिर्माभूदित्येतदर्थमित्यर्थः । रवीतीति ॥ ईट्पक्षे हलादित्वाभावात् उतो वृद्धिर्नेति भावः । रौतीति ॥ ईडभावे ‘उतो वृद्धिः’ इति भावः । रुवीतः-रुतः इति ॥ अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति ॥अन्तादेशे कृते हलादित्वाभावादीडभावे उवङिति भावः । शाम्यतीति ॥ श्यनस्तिड्त्वाभावादीट् नेति भावः । आशिषि रूयादिति ॥ आर्धधातुकत्वादीडभावे 'अकृत्सार्वधातुकयोः' इति दीर्घः । विध्द्यादौ त्विति ॥ आदिना निमन्त्रणादिसङ्ग्रहः । रुयात्-रुवीयादिति ॥ हलादिसार्वधातुकत्वात् ईड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुके ‘उतो वृद्धिः’ इति बोध्यम् । ननु धातुपाठे तुधातोरदर्शनात् धातुत्वाभावात्कथन्ततः सार्वधातुकस्य ईड्विधिरित्यत आह । तु इति सौत्रो धातुरिति । गतिवृद्धिहिंसास्विति ॥ अत्र व्याख्यानमेव शरणम् । ननु शपा व्यवधानादस्य सार्वधातुकपरत्व कथमित्यत आह । अयञ्च लुग्विकरणः इति स्मरन्तीति ॥ ‘अव्यव
प्रकरणम्]
१९३
बालमनोरमा ।

तोष्यति । णु १०३५ स्तुतौ । नौति । नविता । टुक्षु १०३६ शब्दे । क्षौति । क्षविता । क्ष्णु १०३७ तेजने । क्ष्णौति । क्ष्णविता । ष्णु १०३८ प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नूयात् । ऊर्णञ् १०३९ आच्छादने ।

२४४५ । ऊर्णोतेर्विभाषा । (७-६-९०)

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति-ऊर्णोति । ऊर्णुत: । ऊर्णुवन्ति । ऊर्णुते। ऊर्णुवाते । ऊर्णुवते । ‘ऊर्णोतेराम्नेति वाच्यम्’ (वा १८०२)

२४४६ । नन्द्राः संयोगादयः । (६-१-३)

अचः पराः संयोगादयो नदराः द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । 'उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । उर्णुनुवतुः । उर्णुनुवुः ।


हिततिड ईड्विधानमेवात्र बीजम् । शम्यमोस्तु, शमीध्वम् । अभ्यमीति । इति वेदे शपो लुकि बोध्द्यम् । अयमनिट्। हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह । तोतेति । णु स्तुताविति ॥ णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नुधातवः सेट: । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । सुष्णाव इति ॥ षोपदेशोऽयमिति भावः । ऊर्णुञ् धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्य प्राप्तौ । ऊर्णोतेर्विभाषा ॥ ‘उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते । 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । वृद्धिः स्यादित्यादिना ॥ लिटि ‘इजादेः’ इति ‘कास्यनेकाच्’ इति च आमि प्राप्ते आह । ऊर्णोतेराम् नेति ॥ ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्णु अ इति स्थिते ‘अजादेर्द्वितीयस्य’ इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते । नन्द्राः संयोगादयः ॥ 'एकाचो द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी । न्, द्, र्, एषां द्वन्द्वः । तदाह । अचः पराः इति ॥ ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह । नुशब्दस्य द्वित्वमिति ॥ णत्वस्येति ॥ धातुपाठे ऊर्णु इति नकारस्य कृतणत्वस्य निर्देशः । द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । लिङ्गादिति ॥ ‘उभौ साभ्यासस्य’ इत्यस्यायमर्थः । साभ्यासस्यानितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् । अत्र अनितेः इति णत्वे कृते ‘पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः । ऊर्णनावेति ॥ नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्'
१९४
[अदादि
सिध्दान्तकौमुदीसहिता

२४४७ । विभाषोर्णोः । (१-२-३)

इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ-ऊर्णुनविथ । ऊर्णुविता-ऊर्णविता । ऊर्णौतु-ऊर्णोतु । ऊर्णवानि । ऊर्णवै ।

२४४८ । गुणोऽपृक्ते । (७-३-९१)

ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । 'ङिच्च पिन्न' इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट-ऊर्णुविषीष्ट। और्णुवीत् । और्णुविष्टाम् ।

२४४९ । उर्णोतेर्विभाषा । (७-२-६)

इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णाविषुः । और्णवीत् । द्यु १०४० अभिगमने ।


इति णत्वम् । द्वितीयस्य तु ‘अट्कुप्वाङ्’ इति न णत्वम्, 'उभौ साभ्यासस्य' इति लिङ्गादेव । विभाषोर्णोः ॥ 'गाड् कुटादिभ्यः' इत्यतो डिदित्यनुवर्तते 'विज इट्' इत्यत इडिति इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । इडादीति ॥ ऊर्णुनुविथेति ॥ ङित्त्वपक्षे गुणाभावादुवङ् । ऊर्णुनविथेति ॥ डित्त्वाभावपक्षे गुणः । ऊर्णुनुवथुः । ऊर्णुनुव । ऊर्णुनाव-ऊर्णुनव । लुटि तासि इटि डित्त्वविकल्पं मत्वा आह । ऊर्णविता-ऊर्णुवितेति ॥ ऊर्णविष्यति-ऊर्णुविष्यति । ऊर्णविष्यते-ऊर्णुविष्यते । लडि और्णु त् इति स्थिते 'ऊर्णोतेर्विभाषा' इति वृद्धिविकल्पे गुणे च प्राप्ते । गुणोऽपृक्ते ॥ 'ऊर्णोतेर्विभाषा' इत्यत ऊर्णोतेरिति 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः' इत्यतो हलीति चानुवर्तते । तदाह । ऊर्णोतेरित्यादि । वृध्द्यपवादः इति ॥ 'ऊर्णोतेर्विभाषा' इति वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णुयात् इत्यत्र 'विभाषोर्णोः' इति वृद्धिविकल्पमाशङ्क्याह । इह वृद्धिर्नेति । भाष्यादिति ॥ तथा च यासुटो ङित्त्वेन पित्त्वाभावान्न वृद्धिविकल्प इति भावः । नचैव सति गुणनिषेधोऽपि न स्यादिति शङ्क्यम् । विशेषविहितेन यासुटो ङित्त्वेन ङिच्च पिन्नेति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति ‘यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः । परस्मैपदे आशीर्लिङ्याह । ऊर्णूयादिति ॥ अकृत्सार्वधातुकयोरिति दीर्घः । ऊर्णूयास्तामित्यादि । आत्मनेपदे लिङ्याह । ऊर्णविषीष्ट -ऊर्णुविषीष्टेति ॥ ‘विभाषोर्णोः' इति ङित्त्वविकल्प इति भावः । लुडि परस्मैपदे और्णु ईत् इति स्थिते ‘विभाषोर्णोः’ इति ङित्त्वपक्षे गुणाभावे उवडि रूपमाह । और्णुवीदिति ॥ ङित्त्वाभावपक्षे गुणे नित्य प्राप्ते । ऊर्णोतेर्विभाषा ॥ ‘सिचि वृद्धिः परस्मैपदेषु' इत्यनुवर्तते, 'नेटि' इत्यतः इटीति च । तदाह । इडादाविति ॥ आत्मनेपदे तु लुडि और्णुविष्ट-और्णविष्ट । और्णविष्यत्-और्णुविष्यत् । और्णविष्यत-और्णुविष्यत । द्यु आभिगमने इति ॥ अनिट् । द्यौतीति ॥
प्रकरणम्]
१९५
बालमनोरमा ।

द्यौति । द्योता । षु १०४१ प्रसवैश्वर्ययोः | प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् । कु १०४२ शब्दे । कोता । ष्टुञ् १०४३ स्तुतौ । स्तौति-स्तवीति । स्तुतः-स्तुवीतः । स्तुते—स्तुवीते । 'स्तुसुधूञ्भ्यः -' (सू २३८५) इतीट् । अस्तावीत् । 'प्राक्सितात्–' (सू २२७६) इति षत्वम् । अभ्यष्टौत् । 'सिवादीनां वा –' (सू २३५९) । पर्यष्टौत्-पर्यस्तौत् । बूञ् १०४४ व्यक्तायां वाचि ।

२४५० । बुवः पञ्चानामादित आहो ब्रुवः । (३-४-८४)

बुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । अकार उच्चारणार्थः । आह । आहतुः । आहुः ।


उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । द्योतेति ॥ द्योष्यति । अद्यौषीत् । षु प्रसवेति ॥ षोपदेशोऽयम् । अनिट् । सौतीत्यादि द्युधातुवत् । एवं कु शब्दे इत्यपि । ष्टुञ् स्तुताविति ॥ उभयपदी अनिट् । 'तुरुस्तुशम्यम’ इति ईड्विकल्पं, ईडभावपक्षे तु उतो वृद्धिं च मत्वा आह । स्तौति-स्तवीतीति ॥ स्तुवन्ति । स्तौषि-स्तवीषि । स्तुथ-स्तुवीथ । स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि । स्तुवः-स्तुवीवः । स्तुम-स्तुवीम । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह । स्तुते-स्तुवीते इति ॥ स्तुवाते । स्तुवते । स्तुषे-स्तुवीषे । स्तुवाथे । स्तुध्वे-स्तुवीध्वे । स्तुवे । स्तुवहे-स्तुवीवहे । स्तुमहे-स्तवीमहे । लिटि तुष्टाव । तुष्टुवतुः । तुष्टुवुः । क्रादित्वात्थल्यपि नेट् भवति । तुष्टोथ । तुष्टुवथुः । तुष्टुव । तुष्टाव-तुष्टव । तुष्टुव । तुष्टुम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति । स्तोष्यते । स्तौतु-स्तवीतु । स्तुतात्-स्तुवीतात् । स्तुताम्-स्तुवीताम् । स्तुवन्तु । स्तुहि-स्तुवीहि । स्तुतात्-स्तुवीतात् । स्तुतम्-स्तवीतम् । स्तुत-स्तुवीत । स्तवानि । स्तवाव । स्तवाम । स्तुष्व-स्तुवीष्व । स्तुवाथाम् । स्तुध्वम्-स्तुवीध्वम् । स्तवै । स्तवावहै । स्तवामहै । लङि अस्तौत्-अस्तवीत् । अस्तुताम्-अस्तुवीताम् । अस्तुवन् । अस्तौः-अस्तवीः । अस्तुतम्-अस्तुवीतम् । अस्तुत-अस्तुवीत । अस्तवम् । अस्तुव-अस्तुवीव । अस्तुम-अस्तुवीम । अस्तुत-अस्तुवीत । अस्तुवाताम् इत्यादि । विधिलिङि स्तुयात्-स्तुवीयात् इत्यादि । स्तोषीष्टेत्यादि । लुडि सिचि इडभावे प्राप्ते आह । स्तुसुधूञ्भ्यः इति ॥ तथाच ‘इट ईटि' इति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इट् न । अस्तोष्ट । अस्तोषाताम् इत्यादि । बूञ् व्यक्तकायां वाचीति ॥ उभयपदी । ब्रुवः पञ्चानाम् ॥ 'परस्मैपदानां णलतुस्' इत्यतः उत्तरसूत्रमिदम् । ‘विदो लटो वा' इत्यतः लटो वेत्यनुवर्तते । तदाह । ब्रुवो लटः इति ॥ आदितः पञ्चानामिति ॥ तिप् तस् झि सिप् थस् इत्येषामित्यर्थः । णलादयः पञ्चेति ॥ णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थः इति ॥ तत्प्रयोजनमात्थेत्यत्रानुपदमेव
१९६
[अदादि
सिध्दान्तकौमुदीसहिता


२४५१ । आहस्थः । (८-२-३५)

झलि परे चर्त्वम् । आत्थ । आहथुः ।

२४५२ । ब्रुव ईट् । (७-३-९३)

ब्रुवः परस्य हलादेः पित ईट् स्यात् । 'आत्थ' इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलिति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ।

२४५३ । ब्रुवो वचिः । (२-४-५३)

उवाच । ऊचतुः । ऊचुः । उवचिथ-उवक्थ । ऊचे । वक्ता ।


व्यक्तं भविष्यति । आहेति ॥ ब्रूधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते । आहस्थः ॥ आह इति षष्ठ्यन्तम् । ‘झलो झलि’ इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । झलि परे इति ॥ आह् इत्यस्य थकारः स्यात् झलीति फलितम् । अलोऽन्त्यस्य इत्यन्त्यस्य भवति । चर्त्वमिति ॥ आथ् थ इति स्थिते प्रथमथकारस्य खरि चेति चर्त्वे आत्थ इति रूपमित्यर्थः । नच आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम् । पञ्चानां णलाद्यभावपक्षे आह । ब्रुव ईट् ॥ 'नाभ्यस्तस्य' इत्यतः पितीति ‘उतो वृद्धिः' इत्यतो हलीति चानुवर्तते । तदाह । ब्रुवः परस्येत्यादिना ॥ ननु आत्थेत्यत्र आहादेशस्य स्थानिवत्त्वेन ब्रूत्वात्ततः परस्य थस्य ईडागमः स्यादित्यत आह । आत्थेत्यत्रेति ॥ स्थानिवद्भावात् प्राप्तोऽयमीडागमः न भवतीत्यन्वयः । कुत इत्यत आह । झलि थत्वविधानादिति ॥ 'आहस्थ' इति झलि परत आहादेशस्य थत्व विधीयते । ईटि तु सति झलादित्वाभावात्तन्निर्विषय स्यात् । अतः आत्थेत्यत्र ईट् नेति विज्ञायते इत्यर्थः । ब्रुवन्तीति ॥ ब्रवीषि । ब्रूथः । ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः । लट आत्मनेपदे आह । ब्रूते इति ॥ ‘ब्रुवः पञ्चानाम्' इत्यत्र परस्मैपदानामित्यनुवृत्तेराहादेशो न । ब्रुवाते । ब्रुवते । ब्रूषे । ब्रुवाथे । ब्रूध्वे । ब्रुवे । ब्रूवहे । ब्रूमहे । ब्रुवो वचिः ॥ ब्रुवो वचिरादेशः स्यादार्धधातुके इत्यर्थः । इकार उच्चारणार्थः । उवाचेति ॥ अकिति द्वित्वे कृते 'लिट्यभ्यासस्य’ इति सम्प्रसारणमिति भावः । ऊचतुरिति ॥ किति द्वित्वात्प्राक् 'वचिस्वपियजादीनाम्' इति सम्प्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् ‘अभ्यासस्यासवर्णे' इत्युवडभावे सवर्णदीर्घ इति भावः । वचिरनिट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट् । तदाह । उवचिथ-उवक्थेति ॥ इडभावे 'चोः कुः' 'ब्रुव ईट्' इत्यत्र 'नाभ्यस्तस्य’ इत्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीड् न । ऊचथुः । ऊच । उवाच-उवच । ऊचिव । ऊचिम । क्रादिनियमादिट् । ऊचे इति ॥ ऊचाते । ऊचिरे । ऊचिषे । ऊचाथे । ऊचिध्वे । ऊचे । ऊचिवहे । ऊचिमहे । वक्तेति ॥ वच्यादेशे इण्निषेधः । वक्ष्यति ।
प्रकरणम्]
१९७
बालमनोरमा ।

ब्रवीतु-ब्रूतात् । 'ङिच्च पिन्न' इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । 'अस्यतिवक्ति-' (सू २४३८) इत्यङ् ।

२४५४ । वच उम् । (७-४-२०)

अङि परे । अवोचत् । अवोचत ।

अथ शास्यन्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी । इण् १०४५ गतौ । एति । इतः ।

२४५५ । इणो यण् । (६-४-८१)

अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ।

२४५६ । दीर्घ इणः किति । (७-४-६९)


वक्ष्यते । ब्रवीतु-ब्रूतादिति ॥ ननु तिबादेशस्य तातड पित्त्वात् ‘ब्रूव ईट्’ इति ईडागमः स्यादित्यत आह । ङिच्चेति ॥ ब्रूताम् । ब्रुवन्तु । ब्रूहि । ब्रूतात् । ब्रूतम् । ब्रूत । ब्रवाणीति ॥ आट पित्त्वेन डित्त्वाभावात् न गुणनिषेध इति भावः । ब्रवाव । ब्रवाम । ब्रूताम् । ब्रूष्व । ब्रुवाथाम् । ब्रूध्वमिति सिद्धवत्कृत्य आह । ब्रवै इति ॥ आटः पित्त्वेन डित्त्वाभावाद्गुण । ब्रवावहै । ब्रवामहै । लडि अब्रवीत् । अब्रूताम् । अब्रुवन् । अब्रवीः । अब्रूतम् । अब्रूत । अब्रवम् । अब्रूव । अब्रूम । विधिलिङ्याह । ब्रूयादिति ॥ ब्रूयातामित्यादि । आशीर्लिङ्याह । उच्यादिति ॥ वच्यादेशे 'वचिस्वपि' इति सम्प्रसारणमिति भावः । उच्यास्ताम् इत्यादि । आत्मनेपदे आशीर्लिङि वक्षीष्ट । वक्षीयास्ताम् इत्यादि । अकित्त्वान्न सम्प्रसारणम् । लुडि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह । अस्यतीति ॥ अवच् अ त् इति स्थिते । वच उम् ॥ शेषपूरणेन सूत्र व्याचष्टे । अङि परे इति ॥ 'ॠदृशो डि’ इत्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादच परः । आद्गुणः । तदाह । अवोचदिति ॥ अवक्ष्यत् । अवक्ष्यत । इङ्त्विति ॥ ‘इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण् गताविति ॥ 'इणो यण्' इत्यादौ विशेषणार्थो णकारः । एतीति ॥ ‘शपो लुकि तिपः पित्त्वेन ङित्त्वाभावाद्गुणः । इतः इति ॥ अपित्त्वेन ङित्त्वान्न गुणः । इ अन्तीत्यत्र ङित्त्वाद्गुणाभावे इयडि प्राप्ते । इणो यण् ॥ 'अचि श्नुधातुः' इत्यतः अचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । अजादौ प्रत्यये परे इति । इयङोऽपवादः इति ॥ इयडि प्राप्ते एव तदारम्भादिति भावः। गुणवृद्धौ तु परत्वादस्य बाधकौ । यथा अयनम्, आयकः । यन्तीति ॥ एषि । इथः । इथ । एमि । इवः । इमः । इयायेति ॥ द्वित्वे सति उत्तरखण्डवृद्धौ आयादेशे 'अभ्यासस्यासवर्णे' इति इयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाभावे इ इ अतुस् इति स्थिते ‘इणो यण्’ इत्युत्तरखण्डस्य यणि इयतुरितिस्थिते । दीर्घ इणः ॥ ‘अत्र लोपः’ इत्यतः अभ्यासस्येति ‘व्यथो लिटि’ इत्यतो लिटीति चानुवर्तते । तदाह ।
१९८
[अदादि
सिध्दान्तकौमुदीसहिता

इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ-इयेथ । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ।

२४५७ । एतेर्लिङि । (७-४-२४)

उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । 'उभयत आश्रये नान्तादिवत् –' । अभीयात् । ‘अणः किम्' । समेयात् । 'समीयात्' इति प्रयोगस्तु भौवादिकस्य ।

२४५८ । इणो गा लुङि । (२-४-४५)


इणोऽभ्यासस्य दीर्घस्यात् किति लिटि । ईयतुरिति ॥ भारद्वाजनियमात्थलि वेडिति मत्वा आह । इययिथ-इयेथेति ॥ ईयथुः । ईय । इयाय-इयय । ईयिव । ईयिम । एता । एष्यति । एतु—इतात् । इताम् । यन्तु । इहि-इतात् । इतम् । इत । अयानि । अयाव । अयाम । ऐदिति ॥ लडि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः । आयन्निति ॥ झेरन्तादेशे इकारलोपे आ इ अन् इति स्थिते ‘इणो यण्’ इति यणि कृते तस्याभीयत्वेनासिद्धत्वादाडिति भावः । ऐः । ऐतम् । एत । आयम् । ऐव । ऐम । विधिलिङ्याह । इयादिति ॥ इयाताम् । इयुरित्यादि । आशीर्लिङ्याह । ईयादिति ॥ 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भावः । ईयास्तामित्यादि । एतेर्लिङि ॥ 'उपसर्गाध्द्रस्व ऊहते' इत्यतः उपसर्गाध्द्रस्व इति ‘केऽणः’ इत्यतः अण इति 'अयङ् यिक्ङिति' इत्यतः कितीति चानुवर्तते । तदाह । उपसर्गात्परस्येत्यादि ॥ इह आर्धधातुके इति प्रामादिकम् । पूर्वसूत्रेषु तदभावादनुवृत्तेरसम्भवात्, किति लिडीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते । इण आर्धधातुकलिडो ङित्त्वाभावात् । नन्वभीयादित्यत्रापि ह्रस्वः स्यादित्यत आह । उभयतः इति ॥ अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिण्धातुत्वन्न सम्भवति । परादित्वेन इण्धातुत्वाश्रयणे तु नोपसर्गात्परत्वम् । उपसर्गैकदेशस्य ईकारस्य ईकारात्मना सत्त्वेन अभ् इत्यस्य उपसर्गत्वाभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न सम्भवति । पूर्वपरशब्दाभ्यां अन्तादिशब्दाभ्याञ्च विरोधस्य पुरस्स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसम्भवादित्यर्थः । इदञ्च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च अभ् इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वात् ईकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यम् । लक्ष्यानुसारेण क्वचित् एकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । समेयादिति ॥ आ इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित् समीयादिति प्रयोगः कथमित्याशङ्क्याह । समीयादिति प्रयोगस्तु भौवादिकस्येति ॥ ‘इट किट कटी गतौ’ इति प्रश्लिष्टस्य इधातोराशीर्लिङि ‘अकृत्सार्वधातुकयोर्दीर्घः' इति दीर्घो बोध्द्य इति भावः । लुङि विशेषमाह । इणो गा लुङि ॥
प्रकरणम्]
१९९
बालमनोरमा ।

'गातिस्था –’ (२२२३) इति सिचो लुक् । अगात् । अगाताम् । अगुः । इङ् १०४६ अध्ययने । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ।

२४५९ । गाङ् लिटि । (२-४-४९)

इङो गाङ् स्याल्लिटि लावस्थायां, विवक्षिते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । 'पूर्वं धातुरुपसर्गेण-' इति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः


इण्धातो गा इत्यादेशस्स्याल्लुडीति सूत्रार्थ स्पष्टः । अगा स् त् इति स्थिते आह । गातिस्थेतीति ॥ लृडि ऐष्यत् । इङ् अद्ध्ययने इति ॥ अधिरुपरिभावे । उपरिभावश्च पठने नियमपूर्वकत्वमिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्वः इति ॥ धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ॥ 'सार्वधातुकमपित्' इति ङित्त्वात् गुणनिषेधे सवर्णदीर्घः । तदाह । अधीयाते । अधीयते इति ॥ अधीषे । अधीयाथे । अधीध्वे । अधीये । अधीवहे । अधीमहे । गाङ् लिटि । इङ इति ॥ ‘इङश्च' इत्यतस्तदनुवृत्तेरिति भावः । स्थानिवत्त्वादेव ङित्त्वे सिद्धे ङित्करण ‘गाङ्कुटादिभ्यः' इत्यत्र 'इणो गा लुङि' इत्यस्य ग्रहणाभावार्थमिति भाष्यम् । ननु कृते गाङादेशे द्वित्वे अभ्यासजश्त्वे आल्लोपे अधिजगे इति रूप वक्ष्यति । तदयुक्तम् । 'द्विर्वचनेऽचि' इति गाङादेशनिषेधात् गाङादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपापत्तेरित्यत आह । लावस्थायां, विवक्षिते वेति ॥ तत्र लावस्थायामिति वार्तिकमते एकादेशात् प्रागेव 'द्विर्वचनेऽचि' इति सूत्र न प्रवर्तते । द्वित्वनिमित्ताचोऽभावात् । विवक्षिते इति भाष्यमते तु सुतरा 'द्विर्वचनेऽचि' इति न प्रवर्तते । अनैमित्तिकत्वादिति भावः । अधिजगिरे इति ॥ अधिजगिषे । अधिजगाथे । अधिजगिध्वे । अधिजगे । अधिजगिवहे । अधिजगिमहे । लोटि अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व । अधीयाथाम् । अधीध्वम् इति सिद्धवत्कृत्य आह । अध्द्ययै इति ॥ तत्र प्रक्रिया दर्शयति । गुणायादेशयोरिति ॥ ‘पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इति 'सुट्कात्पूर्वः' इति सूत्रसिद्धान्तादिति भावः । तथाच इट एत्त्वे आटि वृद्धौ अधि इ ऐ इति स्थिते गुणे अयादेशे यणिति फलितम् । ननु ‘पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्यपि पक्षः ‘सुट्कात्पूर्व’ इति सूत्रभाष्ये स्थितः । तथाच अधि इ ऐ इति स्थिते पूर्वं सवर्णदीर्घे सति गुणायादेशयो कृतयो अधयै इति स्यादित्याशङ्क्य निराकरोति । पूर्वन्धातुरिति ॥ साधनेनेत्यस्य कारकबोधकेनेत्यर्थः । प्रत्ययेनेति यावत् । दर्शन इत्येतस्य मते इत्यर्थः । ‘पूर्वन्धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इति पक्षे पूर्वप्रवृत्तिकत्वेन अन्तरङ्गत्वात् ‘सार्व
२००
[अदादि
सिध्दान्तकौमुदीसहिता

प्राप्तः । 'णेरध्ययने वृत्तम्' (सू ३०६६) इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् वृद्धिः । अध्यैयाताम् । अध्यैयत । अध्यैयि । अध्यैवहि । अध्यैमहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ।

२४६० । विभाषा लुङ्लृङोः । (२-४-५०)

इङो गाङ् वा स्यात् ।

२४६१ । गाङ्कुटादिभ्योऽञ्णिन्ङित् । (१-२-१)


धातुकार्धधातुकयोः' इति गुणम्बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह । णेरध्द्ययने वृत्तमिति निर्देशादिति ॥ अन्यथा ल्युटि अनादेशे अधि इ अन इति स्थिते पूर्व सवर्णदीर्घे ततो गुणायादेशयोः कृतयोः अधयनमिति प्रसङ्गादिति भावः । वस्तुतस्तु पूर्व धातुः साधनेन युज्यते इत्येव भाष्यसम्मतम् । पूर्व धातुरुपसर्गेण, नैतत्सारमिति भाष्योक्तेरित्यन्यत्र विस्तर । अध्द्ययावहै । अध्द्ययामहै । लङ्याह । अध्द्यैतेति ॥ अधि आ इ त इति स्थिते 'आटश्च' इति वृद्धौ यणिति भावः । अधि इ आतामिति स्थिते आटि वृद्धौ यणि अध्यैतामिति प्राप्ते आह । परत्वादियङिति ॥ आटः प्रागेव परत्वादिकारस्य इयडि तत आटि वृद्धौ यणि अध्यैयातामिति रूपमित्यर्थः । अध्यैयतेति ॥ 'आत्मनेपदेष्वनतः इत्यदादेशः । अध्यैथाः । अध्यैयाथाम् । अध्यैध्वम् इति सिद्धवत्कृत्याह । अध्यैयि । अध्यैवहि । अध्यैमहीति ॥ विधिलिङ्याह । अधीयीतेति ॥ अधि इ त इति स्थिते सीयुटि सुटि सलोपे यलोपे अधि इ ईत इति स्थिते धातुभूतस्य इकारस्य इयडि सवर्णदीर्घ इति भावः । अधीयीयातामिति ॥ अधि इ आतामिति स्थिते सीयुटि सुटि सलोपे अधि इ ईयातामिति स्थिते धातुभूतइकारस्य इयडि सवर्णदीर्घ इति भावः । झस्य रन्भावे सीयुटि सकारयकारलोपे अधि इ ई रन् इति स्थिते धातुभूतस्य इकारस्य इयडि सवर्णदीर्घे अधीयीरन्, अधीयीथाः, अधीयीयाथाम्, इति सिद्धवत्कृत्य आह । अधीयीध्वमिति ॥ ध्वमि सीयुिटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इड इयडि सवर्णदीर्घ इति भावः । अधीयीयेति ॥ इटोऽत् सीयुट् सलोपः । अधि इ ईय इति स्थिते इड इयडि सवर्णदीर्घ इति भावः । अधीयीवहि । अधीयीमहि । आशीर्लिङ्याह । अध्येषीष्टेति ॥ सीयुटि गुणः यण् षत्वम् । अध्येषीयास्ताम् । अध्येषीरन् । अध्येषीष्ठाः । अध्येषीयास्थाम् । अध्येषीढ्वम् । अध्येषयि । अध्येषीवहि । अध्येषीमहि । लुडि आटि अधि आ इ त इति स्थिते । विभाषा लुङ्लृङोः ॥ शेषम्पूरयति । इङो गाङ् वा स्यादिति ॥ ‘इङश्च' इत्यतो ‘गाङ् लिटि’ इत्यतश्च तदनुवृत्तेरिति भावः । सिचि अधि अ गा स् त इति स्थिते । गाङ्कुटादिभ्यो ॥ ञ्च ण्च ञ्णौ तौ इतौ यस्य सः ञ्णित् सः न भवतीत्यञ्णित् गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति ङकारानुबन्धात् 'इणो गा लुडि’
प्रकरणम्]
२०१
बालमनोरमा ।

गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ।

२४६२ । घुमास्थागापाजहातिसां हलि । (६-४-६६)

एषामात ईत्स्यात् हलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत-अध्यैष्यत । इक् १०४७ स्मरणे । अयमप्यधिपूर्वः । 'अधीगर्थदयेशाम्–’ (सू ६१६) इति लिङ्गात् । अन्यथा हि 'इगर्थ–’ इत्येव ब्रूयात् । 'इण्वदिक इति वक्तव्यम्' (वा १५७७) । अधियन्ति । अध्यगात् ।


इत्यस्य न ग्रहणमित्युक्तम् । नापि ‘गाङ् गतौ' इत्यस्यात्र ग्रहणम् । तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः । स्थानिवत्त्वेनैव तत्सिद्धेः । तदाह । गाङादेशादिति ॥ एवञ्च सिच ङित्त्वे आह । घुमास्था ॥ 'षो अन्तकर्मणि' इत्यस्य कृतात्त्वस्य निर्देशः । घु मा स्था गा पा जहाति सा एषान्द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् 'आतो लोप इटि च' इत्यतः आत इति 'ईद्यति' इत्यतः ईदिति 'अनुदात्तोपदेश' इत्यतः क्ङिति इति चानुवर्तते । तदाह । एषामित्यादिना । अध्यगीष्टेति ॥ अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचष्षत्वे तकारस्य ष्टुत्वेन ट इति भावः । ‘गातिस्था' इति न सिज्लोपः । परस्मैपदाभावात् । अध्यगीषाताम् । अध्यगीषत । अध्यगीष्ठाः । अध्यगीषाथाम् । अध्यगीढ्वम् । अध्यगीषि । अयगीष्वहि । अध्यगीष्महि । गाङभावपक्षे आह । अध्यैष्टेति ॥ अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषाताम् । अध्यैषत । अध्यैष्ठाः । अध्यैषाथाम् । अध्यैड्ढ्वम् । 'धि च' इति सलोपः । अध्यैषि । अध्यैष्वहि । अध्यैष्महि । लृङ्याह । अध्यगीष्यतेति ॥ 'विभाषा लुङ्लृङो' इति गाङादेशे स्ये तस्य ‘गाङ्कुटादिभ्यः' इति ङित्त्वे ‘घुमास्था' इति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाङभावपक्षे आह । अध्यैष्यतेति ॥ अध्यैष्येतामित्यादि । इक् स्मरणे । अयमपीति ॥ इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य नित्यमधिपूर्व इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम् । अस्य तु तथात्वे किम्प्रमाणमित्यत आह । अधीगर्थेति ॥ तत्र हि अधीगर्थेत्यनेन स्मरणार्थकधातुर्विवक्षितः । इग्धातोरधिपूर्वकत्वाभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात् तत्र अधीति व्यर्थ स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायते इत्यर्थः । इण्वदिकः इति ॥ षष्ठ्यन्ताद्वतिः इणः यत्कार्यं 'इणो यण्’ इत्यादि तत् इको भवतीत्यर्थः । अध्द्येति, अधीतः, इति सिद्धवत्कृत्य आह । अधियन्तीति ॥ अन्तादेशे इयङपवादः 'इणो यण्’ इति यणिति भावः । अध्द्येषि । अधीथः । अधीथ । अध्द्येमि । अधीवः । अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थिते 'इणो यण्' इति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्य 'दीर्घ इणः किति' इति दीर्घे सवर्णदीर्घे, अधीयतुः । अधीयुः । अधीययिथ-अधीयेथ । अधीयथुः । अधीय । अधीयाय-अधीयय । अधीयिव । अधीयिम । अध्येता ।
२०२
[अदादि
सिध्दान्तकौमुदीसहिता

केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथा च भट्टि: -- 'ससीतयो राघवयोरधीयन्' इति । वी १०४८ गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणं । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्यनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते । एति । ईत: । इयन्ति । ईयात् । ऐषीत् । या १०४९ प्रापणे । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ।

२४६३ । लङः शाकटायनस्यैव । (३-४-१११)


अध्येष्यति । अध्येतु-अधीतात् । अधीताम् । अधियन्तु । अधीहि-अधीतात् । अधीतम् । अधीत । अध्ययानि । अध्ययाव । अध्ययाम । अध्यैत् । अध्यैताम् । अध्यायन् । अध्यैः । अध्यैतम् । अध्यैत । अध्यायम् । अध्यैव । अध्यैम । इति सिद्धवत्कृत्य लुङ्याह । अध्यगादिति ॥ इण्वत्त्वात् 'इणो गा लुङि’ इति गादेशे ‘गातिस्था’ इति सिचो लुका लुप्तत्वात् 'घुमास्था’ इति ईत्त्वन्न । अध्यगाताम् । अध्यगाम् । अध्यगाव । अध्यैष्यत् । केचित्त्विति ॥ आर्धधातुके इत्यधिकारे 'इणो गा लुङि' इति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादिति भावः । तन्मते यण् नेति ॥ 'इणो यण्' इत्यस्य आर्धधातुकाधिकारस्थत्वाभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्यम् । राघवयोरधीयन्निति ॥ 'अधीगर्थ' इति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वात् इग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयन्निति शत्रन्तात् सुबुत्पत्तौ सौ रूपम् । वी गतीति ॥ 'अजेर्व्यघञपोः' इति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति ॥ एकाच्त्वाद्यणभावादियङिति भावः । लोटि वेतु-वीतात् । वीताम् । वियन्तु । वीतम् । वीतेति सिद्धवत्कृत्य आह । वीहीति ॥ हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वयानि । वयाव । वयाम । लङ्याह । अवेदिति ॥ अवियन्निति ॥ वी अन्निति स्थिते परत्वादडागमात् प्रागियडि कृते अडागम इति भावः । मतान्तरमाह । अडागमे सतीति ॥ लावस्थायामडिति पक्षे इयडम्बाधित्वा अनेकाच्त्वात् यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरस सूचयति । तद्वीजन्तु कृतेऽप्यटि यणि कर्तव्ये आभीयतया अट असिध्दत्वादनेकाच्त्वाभावाद्यणभावादियडेवोचित इति शब्देन्दुशेखरे विस्तरः । अत्रेति ॥ वी ई इति सवर्णदीर्घे वी गतीति निर्देश इति भावः । ईयादिति ॥ विधिलिङि आशीर्लिङि च रूपमिदं समानम् । ‘स्कोः' इति सलोपः । तत्र विधिलिङि ईयातामित्यादि । आशिषि तु ईयास्तामित्यादि इति विशेषः । ऐषीदिति ॥ सिचि वृद्धिः । या प्रापणे इति ॥ ननु गच्छतीत्यर्थे यातीति कथमित्यत आह । प्रापणमिह गतिरिति ॥ णिजर्थस्त्वविवक्षित इति भावः । प्रणियातीति ॥ 'नेर्गद’ इति णत्वम् । ययौ । याता । यास्यति । यातु । अयात् । अयाताम् । लङः शाकटायनस्यैव ॥ ‘झेर्जुस्'