सिद्धान्तकौमुदी/प्रकरण‌५१-६०

विकिस्रोतः तः


तिङन्ततनादिप्रकरणम्‌[सम्पाद्यताम्]

अथ सप्त स्वरितेतः । <<1464>> तनु विस्तारे । तनादिकृञ्भ्य उः (2466)| तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्‌-अतानीत्‌ ।
  • (2547) तनादिभ्यस्तथासोः <2-4-79>
तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट ।अनुदात्तोपदेश---2428 इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । <<1465>> षणु दाने । सनोति । सनुते । ये विभाषा 2319 । सायात् । सन्यात् । जनसन--2504इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः । <<1466>> क्षणु हिंसायाम् । क्षणोति । क्षणुते । ह्मयन्त--2299 इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः । <<1467>> क्षिणु च । उप्रत्ययनिमित्तो लघूपधगुणः । (प) संज्ञापूर्वको विधिरनित्यः इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट । <<1468>> ऋणु गतौ ऋणोति । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः । <<1469>> तृणु अदने । तृणोति । तर्णोति । तृणुते । <<1470>> घृणु दीप्तौ । जघर्ण । जघृणे ॥
अथ द्वावनुदात्तेतौ ॥ <<1471>> वनु । याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान । <<1472>> मनु अवबोधने । मनुते । मेने । <<1473>> डुकृञ् करणे । करोति । अत उत्सार्वधातुके 2467 कुरुतः । यण् । न भकुर्छुराम् 1629 इति न दीर्घः । कुर्वन्ति ॥
  • (2548) नित्यं करोतेः <6-4-108>
करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥
कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः--2547 इति लुकोऽभावे ह्रस्वादङ्गात् 2369 इति सिचो लोपः । अकृत । अकृथाः ॥
  • (2550) संपरिभ्यां करोतौ भूषणे <6-1-137>
संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः 1217 इति ज्ञापकात् । परिनिविभ्यः 2275 इति षः । परिष्करोति ॥ सिवादीनां वा-- ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥
  • (2552) उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च <6-1-139>
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥
  • (2553) सुट्कात्पूर्वः <6-1-135>
अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व इत्यादि भाष्ये प्रत्याख्यातम् । तथाहि । पूर्वं धातुरूपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च ऋतश्च संयोगादेर्गुणः 2389 संचस्करतुः । कृसृभृ--2293 इति सूत्रे ऋतो भारद्वाजस्य 2296 इति सूत्रे च । कृञोऽसुट इति वक्तव्यम् । तेन ससुट्कात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्ति---2380 इति सूत्रे नित्यं छन्दसि 3587 इति सूत्रान्नित्यमत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेः-- 2526 इति लिङ्सिचोर्नेट् । एकाच उपदेशे 2276 इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥
इति तिङन्ततनादिप्रकरणम्‌

तिङन्तक्र्यादिप्रकरणम्‌[सम्पाद्यताम्]

<<1474>> डुक्रीञ्‌ द्रव्यविनिमये ।
  • (2554) क्र्यादिभ्यः श्ना <3-1-81>
क्रीणाति । ई हल्यघः 2497 क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः श्नाभ्यस्तयोः - 2483 इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणाते । चिक्राय । चिक्रियतुः । चिक्रियिथ । चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीतात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट । <<1475>> प्रीञ् तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते । <<1476>> श्रीञ् पाके । <<1477>> मीञ् हिंसायाम् । हिनुमीना 2530 प्रमीणाति । प्रमीणीतः । मीनातिमिनोति 2508 इत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । <<1478>> षिञ् बन्धने । सिनाति । सिनीते । सिषाय । सिष्ये । सेता । <<1479>> स्कुञ् आप्रवणे ।
  • (2555) स्तन्भुस्तुन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च <3-1-82>
चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्काव । चुस्कवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति । विष्टभ्नाति । अवष्टभ्नोति । अवष्टभ्नाति । अवतष्टम्भ । जॄस्तम्भु-2291 इत्यङ्वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥
  • (2556) वेः स्कभ्नातेर्नित्यम् <8-3-77>
वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ॥
  • (2557) हलः श्नः शानज्झौ <3-1-83>
हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तभ्नुहीत्यादि । युञ् <<1480>> बन्धने । युनाति । युनीते । योता । क्नुञ् <<1481>> शब्दे । क्नूनाति । क्नूनीते । क्नविता । द्रुञ् <<1482>> हिंसायाम् । द्रूणाति । द्रूणीते । पूञ् <<1483>> पवने ॥
  • (2558) प्वादीनां ह्रस्वः <7-3-80>
शिति परे । पुनाति । पुनीते । पविता । <<1484>> लूञ् छेदने । लुनाति । लुनीते । <<1485>> स्तॄञ् आच्छादने स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि । स्तीर्यात् । लिङ्सिचोः 2528 इति वेट् न लिङि 2529 वॄत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्च 2368 इति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु 2392 इति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । अस्तरिष्ट । अस्तरीष्ट । अस्तीर्ष्ट । <<1486>> कॄञ् हिंसायाम् । कृणाति । कृणीते । चकार । चकरे । <<1487>> वृञ् वरणे । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदेष्ठ्यपूर्वस्य 2494 वूर्यात् । वरिषीष्ट । वूर्षीष्ट अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट । अवूर्ष्ट । <<1488>> धूञ् कम्पने । धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूञ्भ्यः--2385 इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥
अथ बध्नात्यन्ताः परस्मैपदिनः । <<1489>> शॄ हिंसायाम् । शॄदॄप्रां ह्रस्वो वा 2495 इति ह्रस्वपक्षे यण् । अन्यदा ऋच्छत्यॄताम् 2383 इति गुणः । शश्रतुः । शशरतुः श्र्युकः किति 2381 इति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् । <<1490>> पॄ पालनपूरणयोः । पप्रतुः । पपरतुः । आशिषि । पूर्यात् । <<1491>> वॄ वरणे । भरण इत्येके । <<1492>> भॄ भर्त्सने । भरणेप्येके । <<1493>> मॄ हिंसायाम् । मृणाति । ममार । <<1494>> दॄ विदारणे । ददरतुः । दद्रतुः । <<1495>> जॄ वयोहानौ । झॄ इत्येके । धॄ इत्यन्ये । <<1496>> नॄ नये । <<1497>> कॄ हिंसायाम् । <<1498>> ॠ गतौ । ऋणाति । अरांचकार । अरिता । अरीता । अर्णात् । अर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् । <<1499>> गॄ शब्दे । <<1500>> ज्या वयोहानौ । ग्रहिज्या 2412 ॥
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते प्वादीनां ह्रस्वः 2258 । जिनाति । जिज्यौ । जिज्यतुः । <<1501>> री गतिरेषणयोः । रेषणं वृकशब्दः । <<1502>> ली श्लेषणे । विभाषा लीयतेः <<1509>> इत्येज्विषये आत्वं वा । ललौ । लिलाय । लाता । लेता । <<1503>> व्ली वरणे । व्लिनाति । <<1504>> प्ली गतौ । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके । <<1505>> व्री वरणे । <<1506>> भ्री भये । भरण इत्येते । <<1507>> क्षीष् हिंसायाम् । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न । <<1508>> ज्ञा अवबोधने । ज्ञाजनोर्जा 2511 जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । <<1509>> बन्ध बन्धने । बध्नाति । बबन्धिथ । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्सीत् । पूर्वत्रासिद्धम् 12 इति भष्भावात्पूर्वं झलो झलि 2281 इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रतिसिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सु । <<1510>> वृङ् संभक्तौ । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत । <<1511>> श्रन्थ विमोचनप्रतिहर्षयोः ॥ इतः परस्मैपदिनः ॥ श्रन्थाति । । श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः (वा) ॥ श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् । 1512 मन्थ विलोडने । <<1513>> श्रन्थ <<1514>> ग्रन्थ सन्दर्भे । अर्थभेदाच्छ्रन्धेः पुनः पाठः । रूपं तूक्तम् । <<1515>> कुन्थ संश्लेषणे । संक्लेशे इत्येके । कुथ्नाति । चुकुन्थ । कुथेति दुर्गः । चुकोथ । <<1516>> मृद क्षोदे । मृद्नाति । मृदान । <<1517>> मृड च । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति । <<1518>> गुध रोषे । गुध्नाति । <<1519>> कुष निष्कर्षे । कुष्णाति । कोषिता ॥
  • (2560) निरः कुषः <7-2-46>
निरः परात्कुषोवलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् । <<1520>> क्षुभ संचलने । क्षुभ्नादिषु च 792 क्षुभ्नाति । क्षुभ्नीतः । क्षोभिता । क्षुभान । <<1521>> णभ <<1522>> तुभ हिंसायाम् । नभ्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि । <<1523>> क्लिशू विबाधने । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् । <<1524>> अश भोजने । अश्नाति । आश । <<1525>> उध्रस उञ्छे । उकार इत् । ध्रस्नाति । उकारो धात्ववयव इत्येके । उध्रसांचकार । <<1526>> इष आभीक्ष्ण्ये । पौनः पुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसह-- 2340 इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इड्विकल्प उचितः । तथा च वार्तिकम् ॥ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध इति (वा) ॥ <<1527>> विष विप्रयोगे । विष्णाति । वेष्टा । <<1528>> प्रुष <<1529>> प्लुष स्नेहनसेवनपूरणेषु । प्रुष्णाति । प्लुष्णाति । <<1530>> पुष पुष्टौ । पोषिता । <<1531>> मुष स्तेये । मोषिता । <<1532>> खच भूतप्रादुर्भावे । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्ञाति । वान्तोऽयमित्येके ॥
  • (2561) च्छ्वोः शूडनुनासिके च <6-4-19>
सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तात्वाभावान्न शानच् । खौनीहि <<1533>> हिठ च । ष्टुत्वम् । हिठ्णाति । <<1534>> ग्रह उपादाने । स्वरितेत् । ग्रहिज्या--- 2412 । गृह्णाति । गृह्णीते ॥
  • (2562) ग्रहोऽलिटि दीर्घः <7-2-37>
एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्त----2299 इति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥
इति तिङन्तक्र्यादिप्रकरणम्‌

तिङन्तचुरादिप्रकरणम्‌[सम्पाद्यताम्]

<<1535>> चुर स्तेये ॥
  • (2563) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् <3-1-25>
एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । (ग) प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्त-2189 इति गुणः । सनाद्यन्ताः--2304 इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥
णिजन्तादात्मनेपदं स्यार्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रि--2312 इति चङ् । णौ चङि--2314 इति ह्रस्वः । द्वित्वम् । हलादिः शेषः 2179 । दीर्घो लघोः 2318 इत्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत । <<1536>> चिति स्मृत्याम् । चिन्तयति । अचिचिन्तत् । चिन्तेति । पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् । चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहल्--2260 इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतत्वात् विशेषापेक्षमित्यपरे । अत एव (ग) आधृषाद्वा इत्यस्य न वैयर्थ्यम् । <<1537>> यत्रि संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु । <<1538>> स्फुडि परिहासे । स्फुण्डयति । इदित्करणात् । स्फुण्डति । स्फुटीति पाठान्तरम् । स्फुण्टयति । <<1539>> लक्ष दर्शनाङ्कनयोः । <<1540>> कुद्रि अनृतभाषणे । कुन्द्रयति । <<1541>> लड उपसेवायाम् । लाडयति । <<1542>> मिदि स्नेहने । मिन्दयति । मिन्दति । <<1543>> ओलडि उत्क्षेपणे । ओलण्डयति । ओलण्डति । ओकार इदित्येके । लण्डयति । लण्डति । उकारादिरयमित्यन्ये । उलण्डयति । <<1544>> जल अपवारणे । लज इत्येके । <<1545>> पीड अवगाहने । पीडयति ॥
  • (2565) भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् <7-4-3>
एषामुपाधाया ह्रस्वो वा स्याच्चङ्परे णौ । अपीपिडत् । अपिपीडत् । <<1546>> नट अवस्कन्दने । अवस्कन्दनं नाट्यम् । <<1547>> श्रथ प्रयत्ने । प्रस्थान इत्येके । <<1548>> बध संयमने । बाधयति । बन्धेति चान्द्रः । <<1549>> पॄ पूरणे । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेट्कत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् । <<1550>> ऊर्ज बलप्राणनयोः । <<1551>> पक्ष परिग्रहे । <<1552>> वर्ण <<1553>> चूर्णप्रेरणे । (ग) वर्ण वर्णन इत्येके । <<1554>> प्रथ प्रख्याने । प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥
  • (2566) अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् <7-4-95>
एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चङ्परे णौ । इत्वापवादः । अपप्रथत् । <<1555>> पृथ प्रक्षेपे । पर्थयति ॥

उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । इररारामपवादाः । अपीपृथत् । अपपर्थत् । पथ इत्येके । पाथयति । <<1556>> षम्ब सम्बन्धने । सम्बयति- अससम्बत् । <<1557>> शम्ब च । अशशम्बत् । साम्ब इत्येके । <<1558>> भक्ष अदने । <<1559>> कुट्ट छेदनभर्त्सनयोः । पूरण इत्येके । कुट्टयति । <<1560>> पुट्ट <<1561>> चुट्ट अल्पीभावे । <<1562>> अट्ट <<1563>> षुट्ट अनादरे । अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वात् नन्द्राः---2246 इति निषेधः । आट्टिटत् । <<1564>> लुण्ठ स्तेये । लुण्ठति । लुण्ठतीति । लुठि स्तेये इति भौवादिकस्य । <<1565>> शठ <<1566>> श्वठ असंस्कारगत्योः । श्वठि इत्येके । <<1567>> तुजि <<1568>> पिजि हिंसाबलादाननिकेतनेषु । तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति । तुज पिजेति केचित् । लजि लुजि इत्येके । <<1569>> पिस गतौ । पेसयति । पेसतीति तु शपि गतम् । <<1570>> षान्त्व सामप्रयोगे । <<1571>> श्वल्क <<1572>> वल्क परिभाषणे । <<1573>> ष्णिह स्नहने । स्फिट इत्येके । <<1574>> स्मिट अनादरे । अषोपदेशत्वान्न षः । असिस्मिटत् । ष्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते । <<1575>> श्लिष श्लेषणे । <<1576>> पथि गतौ । पन्थयति । पन्थति । <<1577>> पिच्छ कुट्टने । <<1578>> छदि संवरणे । छन्दयति । छन्दति । <<1579>> श्रण दाने । प्रायेणायं विपूर्वः । विश्राणयति । <<1580>> तड आघाते । ताडयति । <<1581>> खड <<1582>> खडि <<1583>> कडि भेदने । खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति । <<1584>> कुडि रक्षणे । <<1585>> गुडि वेष्टने । रक्षण इत्येके । कुठि इत्यन्ये । अवकुण्ठयति अकुण्ठति । गुठि इत्यपरे । <<1586>> खुडि खण्डने । <<1587>> वठि विभाजने । वडि इत्येके । <<1588>> मडि भूषायां हर्षे च । <<1589>> भडि कल्याणे । <<1590>> छर्द वमने । <<1591>> पुस्त <<1592>> बुस्त आदरानादरयोः । <<1593>> चुद संचोदने <<1594>> नक्क <<1595>> धक्क नाशने । णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति । <<1596>> चक्क <<1597>> चुक्क व्यथने । <<1598>> क्षल शौचकर्मणि । <<1599>> तल प्रतिष्ठायाम् । <<1600>> तुल उन्माने । तोलयति । लोलयामास । अतूतुलत् । कथं तुलयति तुलना इत्यादि । तुलोपमाभ्याम् --630 इति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् । <<1601>> दुल उत्क्षेपणे । दोलयति । दोलयामास । अदूदुलत् । <<1602>> पुल महत्त्वे । <<1603>> चुल समुच्छ्राये । <<1604>> मूल रोहणे । <<1605>> कल <<1606>> बिल क्षेपे । कालयति । <<1607>> बिल भेदने । <<1608>> तिल स्नेहने । <<1609>> चल भृतौ । <<1610>> पाल रक्षणे । <<1611>> लूष हिंसायाम् । <<1612>> शुल्ब माने । <<1613>> शूर्प च । <<1614>> चुट छेदने । <<1615>> मुट संचूर्णने । <<1616>> पडि <<1617>> पसि नाशने । पण्डयति । पण्डति । पंसयति । पंसति । <<1618>> व्रज मार्गसंस्कारगत्योः । <<1619>> शुल्क अतिस्पर्शने । <<1620>> चपि गत्याम् । चम्पयति । चम्पति । <<1621>> क्षपि क्षान्त्याम् । क्षम्पयति । क्षम्पति । <<1622>> छजि कृच्छ्रजीवने । <<1623>> श्वर्त गत्याम् । <<1624>> श्वभ्र च । <<1625>> ज्ञप मिच्च । अयं ज्ञाने ज्ञापने च वर्तते ॥

  • (2568) मितां ह्रस्वः <6-4-92>
मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति । <<1626>> यम च परिवेषणे । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः । <<1627>> चह परिकल्कने । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति । <<1628>> रह त्यागे इत्येके । अरीरहत् । कथादेस्तु अररहत् । <<1629>> बल प्राणने । बलयति । <<1630>> चिञ् चयने ।
  • (2569) चिस्फुरोर्णौ <6-1-54>
आत्वं वा स्यात् ॥
  • (2570) अर्तिह्रीव्लीरीक्नुयीक्ष्माय्यातां पुग्णौ <7-3-36>
चपयति । चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । (ग) नान्ये मितोऽहेतौ । अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न । <<1631>> घट्ट चलने । <<1632>> मुस्त संघाते । <<1633>> खट्ट संवरणे । <<1634>> षट्ट <<1635>> स्फिट्ट <<1636>> चुबि हिंसायाम् । <<1637>> पुल सङ्घाते । पूर्ण इत्येके । पुण इत्यन्ये । <<1638>> पुंस अभिवर्धने । <<1639>> टकि बन्धने । टङ्कयति । टङ्कति । <<1640>> धूस कान्तिकरणे । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे । <<1641>> कीट वर्णे । <<1642>> चूर्ण संकोचने । <<1643>> पूज पूजायाम् । <<1644>> अर्क स्तवने । तपन इत्येके । <<1645>> शुठ आलस्ये । <<1646>> शुठि शोषणे । शुण्ठयति । शुण्ठति । <<1647>> जुड प्रेरणे । <<1648>> गज । <<1649>> मार्ज शब्दार्थौ । गाजयति । मार्जयति । <<1650>> मर्च च । मर्चयति । <<1651>> घृ प्रस्रवणे । स्रावण इत्येके । <<1652>> पचि विस्तारवचने । पञ्चयति । पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् । <<1653>> तिज निशाने । तेजयति । <<1654>> कॄत संशब्दने ॥
धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां च 2265 इति दीर्घः । कीर्तयति । उर्ऋत् 2567 । अचीकृतत् । अचिकार्तत् । <<1655>> वर्ध छेदनपूरणयोः । <<1656>> कुबि आच्छादने । कुम्बयति । कुम्बति । कुभि इत्येके । <<1657>> लुबु <<1658>> तुबि अदर्शने । अर्दन इत्येके । <<1659>> ह्लप व्यक्तायां वाचि । क्लप इत्येके । <<1660>> चुटि छेदने । <<1661>> इल प्रेरणे । एलयति । ऐलिलत् । <<1662>> म्रक्ष म्लेच्छने । <<1663>> म्लेच्छ अव्यक्तायां वाचि । <<1664>> ब्रूस <<1665>> बर्ह हिंसायाम् । केचिदिह गर्ज गर्द शब्दे । गर्द अबिकाङ्क्षायामिति पठन्ति । <<1666>> गुर्द पूर्वनिकेतने । <<1667>> जसि रक्षणे । मोक्षण इति केचित् । जंसयति । जंसति । <<1668>> ईड स्तुतौ । <<1669>> जसु हिंसायाम् । <<1670>> पिडि संघाते । <<1671>> रुष रोषे । रुठ इत्येके । <<1672>> डिप क्षेपे । <<1673>> ष्टुप समुच्छ्राये ॥
आ कुस्मादात्मनेपदिनः । कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् । <<1674>> चित संचेतने । चेतयते । अचीचितत । <<1675>> दशि दंशने । दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् । <<1676>> दसि दर्शनदंशनयोः । दंसयते । दंसति । दसेत्यप्येके । <<1677>> डप <<1678>> डिप संघाते । <<1679>> तत्रि कुटुम्बधारणे । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति कृत्वा कुटुम्बयते इत्युदाहरन्ति । <<1680>> मत्रि गुप्तपरिभाषणे । <<1681>> स्पश ग्रहणसंश्लेषणयोः । <<1682>> तर्ज <<1683>> भर्त्स तर्जने । <<1684>> बस्त <<1685>> गन्ध अर्दने । बस्तयते । गन्धयते । <<1686>> विष्क हिंसायाम् । हिष्केत्येके । <<1687>> निष्क परिमाणे । <<1688>> लल ईप्सायाम् । <<1689>> कूण सङ्कोचे । <<1690>> तूण पूरणे । <<1691>> भ्रूण आशाविशङ्कयोः । <<1692>> सठ श्लाघायाम् । <<1693>> यक्ष पूजायाम् । <<1694>> स्यम वितर्के । <<1695>> गूर उद्यमने । <<1696>> शम <<1697>> लक्ष आलोचने । नान्ये मित इति मित्त्वनिषेधः । शामयते । <<1698>> कुत्स अवक्षेपणे । <<1699>> त्रुट छेदने । कुट इत्येके । <<1700>> गल स्नवणे । <<1701>> भल आभण्डने । <<1702>> कूट आप्रदाने । अवसादने इत्येके । <<1703>> कुट्ट प्रतापे । <<1704>> वञ्चु प्रलम्भने । <<1705>> वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते । <<1706>> मद तृप्तियोगे । मादयते । <<1707>> दिव परिकूजने । <<1708>> गृ विज्ञाने । गारयते । <<1709>> विद चेतनाख्याननिवासेषु । वेदयते । विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् । <<1710>> मान स्तम्भे । मानयते । <<1711>> यु जुगुप्सायाम् । यावयते । (ग) <<1712>> कुस्म नाम्नोवा । कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थो णिच् । इत्याकुस्मीयाः ॥
<<1713>> चर्च अध्ययने । <<1714>> बुक्क भषणे । <<1715>> शब्द उपसर्गादाविष्कारे च । चाद्भषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । अनुपसर्गाच्च । आविष्कारे इत्येव । शब्दयति । <<1716>> कण निमीलने । काणयति । णौ चङ्युपाधाया ह्रस्वः 1324 ॥ काण्यादीनां वेति विकल्प्यते (वा) ॥ अचीकणत् । अचकाणत् । <<1717>> जभि नाशने । जम्भयति । जम्भति । <<1718>> षूद क्षरणे । सूदयति । असूषुदत् । <<1719>> जसु ताडने । जासयति । जसति । <<1720>> पश बन्धने । पासयति । <<1721>> अम रोगे । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति । <<1722>> चट <<1723>> स्फुट भेदने । विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् । <<1724>> घट सङ्घाते । घाटयति हन्त्यर्थाश्च (ग) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थः । <<1725>> दिवु मर्दने । उदित्त्वादेवतीत्यपि । <<1726>> अर्ज प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति । <<1727>> घुषिर् विशब्दने । घोषयति । घुषिरवि शब्दने 3063 इति सूत्रेऽविशब्देन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अघुषत् । अघोषीत् । ण्यन्तस्य तु अजूघुषत् । आङः <<1728>> क्रन्द सातत्ये । भौवादिकः क्रन्दधातुराह्वानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये । आक्रन्दयति । अन्ये तु आङ्पूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति । <<1729>> लस शिल्पयोगे । <<1730>> तसि <<1731>> भूष अलंकरणे । अवतंसयति । अवतंसति । भूषयति । <<1732>> अर्ह पूजायाम् । <<1733>> ज्ञा नियोगे । आज्ञापयति । <<1734>> भज विश्राणने । <<1735>> श्रृधु प्रहसने । अशशर्धत् । अशीशृधत् । <<1736>> यत निकारोपस्कारयोः । <<1737>> रक <<1738>> लग आस्वादने । रघ इत्येके । रग इत्यन्ये । <<1739>> अञ्चु निशेषणे । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् । <<1740>> लिगि चित्रीकरणे । लिङ्गयति । लिङ्गति । <<1741>> मुद संसर्गे । मोदयति सक्तून् घृतेन । <<1742>> त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये । <<1743>> उध्रस उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । ध्रसति । उध्रासयति । <<1744>> मुच प्रमोचने मोदने च । <<1745>> वस स्नेहच्छेदापहरणेषु । <<1746>> चर संशये । <<1747>> च्यु सहने । हसने चेत्येके । च्यावयति । च्युसेत्येके । च्योसयति । <<1748>> भुवोऽवकल्कने । अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति । <<1749>> कृपेश्च । कल्पयति ॥
(ग) आ स्वदः स्वकर्मकात् ॥ स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् । <<1750>> ग्रस ग्रहणे । ग्रासयति फलम् । <<1751>> पुष धारणे । पोषयत्याभरणम् । <<1752>> दल विदारणे । दालयति । <<1753>> पट <<1754>> पुट <<1755>> लुट <<1756>> तुजि <<1757>> मिजि <<1758>> पिजि <<1759>> लुजि <<1760>> भजि <<1761>> लघि <<1762>> त्रसि <<1763>> पिसि <<1764>> कुसि <<1765>> दशि <<1766>> कुशि <<1767>> घट <<1768>> घटि <<1769>> बृहि <<1770>> बर्ह <<1771>> वल्ह <<1772>> गुप

<<1773>> धूप <<1774>> विच्छ <<1775>> चीव <<1776>> पुथ <<1777>> लोकृ <<1778>> लोचृ <<1779>> णद <<1780>> कुप <<1781>> तर्क <<1782>> वृतु <<1783>> वृधु भाषार्थाः । पाटयति । पोटयति । लोटयति । तुञ्जयति । पिञ्जति । एवं परेषाम् । घटयति । घण्टयति ।

  • (2572) नाग्लोपिशास्वृदिताम् <7-4-2>
णिच्यग्लोपिनः शास्तेर्ऋदितां च उपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति । <<1784>> रुट <<1785>> लजि <<1786>> अजि <<1787>> दसि <<1788>> भृशि <<1789>> रुशि <<1790>> शीक <<1791>> रुसि <<1792>> नट <<1793>> पुटु <<1794>> जि <<1795>> चि <<1796>> रघि <<1797>> लघि <<1798>> अहि <<1799>> रहि <<1800>> महि च । <<1801>> लडि <<1802>> तड <<1803>> नल च । <<1804>> पूरी आप्ययने । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा । पूरयति । पूरति । <<1805>> रुज हिंसायाम् । <<1806>> ष्वद आस्वादने । स्वाद इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेसत्वात् । असिस्वदत् । इत्यास्वदीयाः ॥
(ग) आ धृषाद्वा । इत उर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य । <<1807>> युज <<1808>> पृच संयमने । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् । <<1809>> अर्च पूजायाम् । <<1810>> षह मर्षणे । साहयति । स एवातं नागः सहति कलभेभ्यः परिभवम् । <<1811>> ईर क्षेपे । <<1812>> ली द्रवीकरणे । लापयति । लयति । लेता । <<1813>> वृजी वर्जने । वर्जयति । वर्जति । <<1814>> वृञ् आवरणे । वारयति । वरति । वरते । वरिता । वरीता । <<1815>> जॄ वयोहानौ । जारयति । जरति । जरिता । जरीता । <<1816>> ज्रि च । ज्राययति । ज्रयति । ज्रेता । <<1817>> रिच वियोजनंपर्चनयोः । रेचयति । रेचति । रेक्ता । <<1818>> शिष असर्वोपयोगे । शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये । <<1819>> तप दाहे । तापयति । तपति । तप्ता । <<1820>> तृप तृप्तौ । संदीपन इत्येके । तर्पयति । तर्पति । तर्पिता । <<1821>> छृदी सन्दीपने ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेसिचि--250 इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चृप छृप तृप दृप संदीपन इत्येके । चर्पयति । छर्पयति । <<1822>> दृभी भये । दर्भयति । दर्भति । दर्भिता । <<1823>> दृभ संदर्भे ॥ अयं तुदादावीदित् । <<1824>> श्रथ मोक्षणे । हिंसायां इत्येके । <<1825>> मी गतौ । माययति-मयति । मेता । <<1826>> ग्रन्थ बन्धने । ग्रन्थयति-ग्रन्थति । <<1827>> शीक आमर्षणे । <<1828>> चीक च । <<1829>> अर्द हिंसायाम् । स्वरितेत् । अर्दयति । अर्दति । अर्दते । <<1830>> हिसि हिंसायाम् । हिंसयति । हिंसति । हिनस्तीति श्नमि गतम् । <<1831>> अर्ह पूजायाम् । आङः <<1832>> षद पद्यर्थे । आसादयति । आसीदति । पाघ्रा---2360 इति सीदादेशः । आसत्ता । आसात्सीत् । <<1833>> शुन्ध शौचकर्मणि । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् । <<1834>> छद अपवारणे । स्वरितेत् । <<1835>> जुष परितर्कणे । परितर्कणमूहो हिंसा वा । परितर्पण इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ । <<1836>> धूञ् कम्पने । णावित्यधिकृत्य ॥ । धूञ्प्रीञोर्नुग्वक्तव्यः (वा) ॥ धूनयति । धवति । धवते । केचित्तु धूञ्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धुनातेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये ॥ धूनोतिचम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तिम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च । <<1837>> प्रीञ् तर्पणे ॥ प्रीणयति । धूञ्प्रीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते । <<1838>> श्रन्थ <<1839>> ग्रन्थ सन्दर्भे । <<1840>> आप्लृ लम्भने । आपयति । आपिपत् । आपति । आप्ता । आपत् । स्वरितेदयमित्येके । आपते । <<1841>> तनु श्रद्धोपकरणयोः ॥ उपसर्गाच्च दैर्घ्ये ॥ तानयति । वितानयति । तनति । वितनति । चन श्रद्धोपहननयोरित्येके । चानयति । चनति । <<1842>> वद संदेशवचने ॥ वादयति । स्वरितेत् । वदति । वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् । <<1843>> वच परिभाषणे । वाचयति । वचति । वक्ता । अवाक्षीत् । <<1844>> मान पूजायाम् । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते । इत्याकुस्मीयाः । मन्यते इति दिवादौ । मनुते इति तनादौ च । <<1845>> भू प्राप्तावात्मनेपदी । भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति । <<1846>> गर्ह विनिन्दने । <<1847>> मार्ग अन्वेषणे । <<1848>> कठि शोके । उत्पर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः । <<1849>> मृजू शौचालंकारयोः । मार्जयति । मार्जति । मार्जिता । मार्ष्टा । <<1850>> मृष तितिक्षायाम् । स्वरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति मृष्यते इति दिवादौ । सेचने शपि मर्षति । <<1851>> धृष प्रहसने । धर्षयति । धर्षति । इत्याधृषीयाः ॥
अथादन्ताः ॥ <<1852>> कथ वाक्यप्रबन्धे । अल्लोपस्य स्थानिवद्भावान्नवृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् । <<1853>> वर ईप्सायाम् । वरयति । वारयतीति गतम् । <<1854>> गण संख्याने । गणयति ॥
गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् । <<1855>> शठ <<1856>> श्वठ सम्यगवभाषणे । <<1857>> पठ <<1858>> वठ ग्रन्थे । <<1859>> रह त्यागे । अररहत् । <<1860>> स्तन । <<1861>> गदी देवशब्दे । स्तनयति । गदयति अजगदत् । <<1862>> पत गतौ वा । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् । <<1863>> पष अनुपसर्गात् । गतावित्येव । पषयति । <<1864>> स्वर आक्षेपे । स्वरयति । <<1865>> रच प्रतियत्ने । रचयति । <<1866>> कल गतौ संख्याने च । <<1867>> चह परिकल्कने । परिकल्कनं दम्भः शाठ्यं च । <<1868>> मह पूजायाम् । महयति । महतीति शपि गतम् । <<1869>> सार <<1870>> कृप <<1871>> श्रथ दौर्बल्ये । सारयति । कृपयति । श्रथयति । <<1872>> स्पृह ईप्सायाम् । <<1873>> भाम क्रोधे । अबभामत् । <<1874>> सूच पैशून्ये ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् । <<1875>> खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये । <<1876>> क्षोट क्षये । <<1877>> गोम उपलेपने । अजुगोमत् । <<1878>> कुमार क्रीडायाम् । अचुकुमारत् । <<1879>> शील उपधारणे । उपधारणमभ्यासः । <<1880>> साम सान्त्वप्रयोगे । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् । <<1881>> वेल कालोपदेशे । वेलयति । काल इति पृथग्धातुरित्येके । कालयति । <<1882>> पल्पूल लवनपवनयोः । <<1883>> वात सुखसेवनयोः । वातयति । अववातत् । <<1884>> गवेष मार्गणे । अजगवेषत् । <<1885>> वास उपसेवायाम् । <<1886>> निवास आच्छादने । अनिनिवासत् । <<1887>> भाज पृथक्कर्मणि । <<1888>> सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । सभाजयति । <<1889>> ऊन परिहाणे । ऊनयति । ओः पुयण्जि 2577 इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् । <<1890>> ध्वन शब्दे । अदध्वनत् । <<1891>> कूट परितापे । परिदाहे इत्यन्ये । <<1892>> सङ्केत <<1893>> ग्राम <<1894>> कुण <<1895>> गुण चामन्त्रणे । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् । <<1896>> केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केत । <<1897>> कूण सङ्कोचने इति । <<1898>> स्तेन चौर्ये ॥ अतिस्तेनत् ॥
आ गर्वादात्मनेपदिनः ॥ <<1899>> पद गतौ । पदयते । अपपदत । <<1900>> गृह ग्रहणे । गृहयते । <<1901>> मृग अन्वेषणे । मृगयते । मृग्यतीति कण्ड्वादिः । <<1902>> कुह विस्मापने । <<1903>> शूर <<1904>> वीर विक्रान्तौ । <<1905>> स्थूल परिबृंहणे । स्थूलयते । अतुस्थूलत । <<1906>> अर्थ उपायाच्ञायाम् । अर्थयते । आर्तथत । <<1907>> सत्र सन्तानक्रियायाम् । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते । <<1908>> गर्व माने ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥
<<1909>> सूत्र वेष्टने । सूत्रयति । असुसूत्रत् । <<1910>> मूत्र प्रस्रवणे । मूत्रयति । मूत्रति । <<1911>> रूक्ष पारुष्ये । <<1912>> पार <<1913>> तीर कर्मसमाप्तौ । अपपारत् । अतितीरत् । <<1914>> पुट संसर्गे । पुटयति । <<1915>> धेकृ दर्शन इत्येके । अदिधेकत् । <<1916>> कत्र शैथिल्ये । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (ग) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि--2314 इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (ग) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (ग) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (ग) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ॥ । आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति (वा) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥
  • (2574) हनस्तोऽचिण्णलोः <7-3-32>
हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (ग) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति । <<1917>> वल्क दर्शने । <<1918>> चित्र चित्रीकरणे । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति । <<1919>> अंस समाघाते । <<1920>> वट विभाजने । <<1921>> लज प्रकाशने ॥ वटि लजि इत्येके । वाण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि । <<1922>> मिश्र सम्पर्के । <<1923>> संग्राम युद्धे । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत । <<1924>> स्तोम श्लाघायाम् । अतुस्तोमत् । <<1925>> छिद्र कर्णभेदने । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये । <<1926>> अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये । आन्दधत् । <<1927>> दण्ड दण्डनिपातने । <<1928>> अङ्क पदे लक्षणे च । आञ्चकत् । <<1929>> अङ्ग च । आञ्जगत् । <<1930>> सुख <<1931>> दुःख तत्क्रियायाम् । <<1932>> रस आस्वादनस्नेहनयोः । <<1933>> व्यय वित्तसमुत्सर्गे । अवव्ययत् । <<1934>> रूप रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । <<1935>> छेद द्वैधीकरणे । अचिच्छेदत् । <<1936>> छद अपवारण इत्येके । छादयति । <<1937>> लाभ प्रेरणे । <<1938>> व्रण गात्रविचूर्णने । <<1939>> वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा । <<1940>> पर्ण हरितभावे । अपपर्णत् । <<1941>> विष्क दर्शने । <<1942>> क्षिप प्रेरणे । <<1943>> वस निवासे । <<1944>> तुत्थ आवरणे ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (ग) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (ग) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (ग) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-2676 इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥
इति तिङन्तचुरादिप्रकरणम्‌

तिङन्तणिच्प्रकरणम्‌[सम्पाद्यताम्]

  • (2575) तत्प्रयोजको हेतुश्च <1-4-55>
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥
  • (2576) हेतुमति च <3-1-26>
प्रयोजकव्यापारेप्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्च--2564 इति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥
  • (2577) ओः पुयण्ज्यपरे <7-4-80>
सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥
  • (2578) स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा <7-1-81>
एषामभायसोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वपक्षे परे । असिस्रवत् । असुस्रवत् । नाग्लेपि--2572 इति ह्रस्वनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । अग्लोपीति नुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौचङि---2314 इति ह्रस्वः । ीर्घो लघोः 2318 । न चाग्लोपित्वाद्द्वयोरप्यसंभवः, ण्याकृतिनिर्देशात् । अचूचुरत् ॥
  • (2579) णौ च संश्चङोः <6-1-31>
सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । (प) संप्रसारणं तदाश्रयं च कार्यं बलवदिति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥
  • (2580) स्तम्भुसिवुसहां चङि <8-3-116>
उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः--- 2446 इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः 2877 इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः 2446 इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥
  • (2581) रभेरशब्लिटोः <7-1-63>
रभेर्नुम् स्यादचि न तु शब्लिटोः ॥
अररम्भत् । अललम्भत् । हेरचङि---2531 इति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् 2566 । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥
  • (2583) विभाषा वेष्टिचेष्ट्योः <7-4-96>
अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभास-2565 इत्यादिनावोपधाह्रस्वः । अबिभ्रजत् । अबभ्राजत् ॥ । काण्यादीनां वेति वक्तव्यम् ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोप(च) यश्चत्वारोऽधिका न्यासे । वाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥
  • (2584) स्वापेश्चङि <6-1-18>
ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ॥
  • (2585) शाच्छासाह्वाव्यावेपां युक् <7-3-37>
णौ परे । पुकोऽपवादः । शाययति । ह्वाययति ॥
  • (2586) ह्वः संप्रसारणम् <6-1-32>
सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥
  • (2587) लोपः पिबतेरीच्चाभ्यासस्य <6-4-4>
पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । अर्तिह्री-- 2570 इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ॥
  • (2588) तिष्ठतेरित् <7-4-5>
उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥
  • (2589) जिघ्रतेर्वा <7-4-6>
अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् 2567 । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् ॥ । पातेर्णौ लुग्वक्तव्यः ॥ पुकोऽपवादः । पालयति ॥
  • (2590) वो विधूनने जुक् <7-3-38>
वातेर्जुक्स्याण्णौ कम्पार्थे । वाजयति । कम्पे किम् । केशान्वापयति । विभाषा लीयतेः 2509 ॥
  • (2591) लीलोर्नुग्लुकावन्यतरस्याम् स्नेहविपातने <7-3-39>
लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ॥ । प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम् ॥
  • (2592) लियः संमाननशालीनीकरणयोश्च <1-3-70>
लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥
  • (2593) बिभेतेर्हेतुभये <6-1-56>
बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥
  • (2594) भीस्म्योर्हेतुभये <1-3-68>
ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥
  • (2595) भियो हेतुभये षुक् <7-3-40>
भी ई इतीकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥
  • (2596) नित्यं स्मयतेः <6-1-57>
स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥
  • (2597) स्फायो वः <7-3-41>
णौ । स्फावयति ॥
  • (2598) शदेरगतौ तः <7-3-42>
शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥
  • (2599) रुहः पोऽन्यतरस्याम् <7-3-43>
णौ । रोपयति । रोहयति ॥
  • (2600) क्रीङ्जीनां णौ <6-1-48>
एषामेच आत्वं स्याण्णौ । क्रापयति । अध्यापयति । जापयति ॥
  • (2601) णौ च संश्चङोः <2-4-51>
सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥
  • (2602) सिध्यतेरपारलौकिके <6-1-49>
ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके

किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥

  • (2603) प्रजने वीयतेः <6-1-55>
अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः 2364 । गूहयति ॥
दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥
  • (2605) वा चित्तविरागे <6-4-91>
विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां ह्रस्वः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजॄष् । जनयति । जरयति । जृणातेस्तु । जारयति ॥ । रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगांस्तृणादानेन । चुरादिषु ज्ञपादिश्चिञ् । चिस्फुरोर्णौ 2569 चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फुरत् । अपुस्फरत् ॥
  • (2606) उभौ साभ्यासस्य <8-4-21>
साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥
  • (2607) णौ गमिरबोधने <2-4-46>
इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥ इण्वदिकः (वा) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः 2574 । हो हन्तेः-- 358 इति कुत्वम् । घातयति । ईर्ष्ययति ॥ । ईर्ष्यतेस्तृतीयस्येति वक्तव्यम् । तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य 2176 इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ॥
इति तिङन्तणिच्प्रकरणम्‌

तिङन्तसन्प्रकरणम्‌[सम्पाद्यताम्]

  • (2608) धातोः कर्मणः समानकर्तृकादिच्छायां वा <3-1-7>
इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः 2317 । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घस्लृ 2427 एकाच उपदेशे--- 2246 इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघत्सति ॥ ईर्ष्यतेस्तृतीयस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥
  • (2609) रुदविदमुषग्रहिस्वपिप्रच्छः संश्च <1-2-8>
एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥
  • (2610) सनि ग्रहगुहोश्च <7-2-12>
ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्या--- 2412 इति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥
  • (2611) किरश्च पञ्चभ्यः <7-2-75>
कॄ गॄ दृङ् धृङ् प्रच्छ् एभ्यः सन इट् स्यात् ॥ पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति ॥ । अत्रेटो दीर्घो नेष्टः ॥ दिदरिषते । दिधरिषते । कथमुद्दिधीर्षुरिति । भौवादिकयोर्धृङ्धृञोरिति गृहाण ॥
इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् मीनातिमिनोति-- 2508 इत्यात्वं न । अत एव सनि मीमा--2623 इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥
  • (2613) हलन्ताच्च <1-2-10>
इक्समीपाद्धलः परो झलादि सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृन्हू । तितृक्षति । तितृंहिषति ॥
  • (2614) अज्झनगमां सनि <6-4-16>
अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः 2331 जिगीषति । विभाषा चेः 2525 चिकीषति । चिचीषति । जिघांसति ॥
इणो गमिः स्यात्सनि ने तु बोधने । जिगमिषति । बोधने प्रतीषिषति ॥ इण्वदिकः ॥ अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेषु इत्युक्तेर्नेट् । झलादौ सनि इति दीर्घः । जिगांस्यते । अधिजिगांस्यते अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । संजिगंसते ॥
इङो गमिः स्यात्सनि । अधिजिगांसते ॥
  • (2617) रलो व्युपधाद्धलादेः संश्च <1-2-26>
उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्वाप्योः संप्रसारणम् 2344 । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । रलः किम् । दिदेविषति । व्युपधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि द्वित्वं गुणेन बाध्यते । उपधाकार्यं हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षाज्ञापकत्वत् ॥
  • (2618) सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् <7-2-49>
इवान्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताच्च 2613 इति कित्वम् । छ्वोः--2561 इति वस्य ऊठ् । यण् द्वित्वम् । दुद्यूषति । दिदेविषति । स्तौतिण्योरेव---2627 इति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥
  • (2619) आप्ज्ञप्यृधामीत् <7-4-55>
एषामच ईत्स्यात्सादौ सनि ॥
  • (2620) अत्र लोपोऽभ्यासस्य <7-4-58>
सनिमीमा--- 2623 इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चर्त्वम् । ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥
  • (2621) दम्भ इच्च <7-4-56>
दम्भेरच इत्स्यादीच्च सादौ सनि । अभ्यासलोपः । हलन्ताच्च 2613 इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्यपूर्वस्य 2494 । सुस्वूर्षति । सिस्वरिषति । युयूषति । यियविषति । ऊर्णुनूषति । ऊर्णुनुविषति । ऊर्णुनविषति । न च परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । द्विर्वचनेचि 2343 इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशमनिषेधाद्वा । न च सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् ॥ (प) कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते न त्वननुभवन्नपि ॥ न चेह सन् द्वित्वमनुभवति । बुभूर्षति । बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे इको झल् 2612 इति कित्त्वान्न गुणः । अज्झन--2614 इति दीर्घः परत्वाण्णिलोपेन बाध्यते । आप्ज्ञप्--2619 इति ईत् । ज्ञीप्सति । जिज्ञपयिषति । अमितस्तु । जिज्ञापयिषति । जनसन--- 2504 इत्यात्वम् । सिषासति । सिसनिषति ॥ । तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः ॥
  • (2622) तनोतेर्विभाषा <6-4-17>
अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ॥ । आशङ्कायां सन्वक्तव्यः ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥
  • (2623) सनि मीमाघुरभलभशकपतपदामच इस् <7-4-54>
एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोः--380 इति सलोपः । पित्सति । दिदरिद्रिषति । दिदरिद्रासति । डुमिञ् मीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपत्वाविशेषादिस् । सः सि --2342 इति तः । मित्सति । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट् । धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शकि । शिक्षति । शक मर्षण इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सते ॥ । राधो हिंसायां सनीस् वाच्यः (वा) ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥
  • (2624) मुचोऽकर्मकस्य गुणो वा <7-4-57>
सादौ सनि । अभ्यासलोपः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ।न वृद्भ्यश्चतुर्भ्यः 2348 । विवृत्सति । तङि तु । विवर्तिषते । सेऽसिचि--- 2506 इति वेट् । निनर्तिषति । निनृत्सति ॥
  • (2625) इट् सनि वा <7-2-41>
वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥
  • (2626) स्मिपूङ्रञ्ज्वशां सनि <7-2-74>
स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह रिस्शब्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् ्विर्वचनेऽचि--2243 इति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । उभौ साभ्यासस्य 2606 । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । पूर्वत्रासिद्धीयमद्विर्वचने इति चछाभ्यां सहितस्येटो द्वित्वम् । हलादिः शेषः 2179 । उचिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपायः इति त्वनित्यम् । च्छ्वोः-- 2561 इति सतुग्ग्रहणाज्ज्ञापकात् । प्रकृतिप्रत्यापत्तिवचनाद्वा । णौ च संश्चङोः--2579 इति सूत्राभ्यामिङो गाङ् श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति । अध्यापिपयिषति । शिश्वाययिषति । शुशावयिषति । ह्वः संप्रसारणम् 2586 जुहावयिषति ।

णौ द्वित्वात्प्रागच आदेशो नेत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षाययिषति । ओः पुयण्ज्यपरे 2577 । पिपावयिषति । बिभावयिषति । जिजायिषति । पुयण्जि किम् । नुनावयिषति । अपरे किम् । बुभूषति । स्रवति---2578 इतीत्वं वा । सिस्रावयिषति । सुस्रावयिषतीत्यादि । अपर इत्येव । शुश्रूषते ॥

  • (2627) स्तौतिण्योरेव षण्यभ्यासात् <8-3-61>
अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभूते सनि नान्यस्य । तुष्टूषति । द्युतिस्वाप्योः---2344 इत्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन च --2277 इति षत्वम् । परिषिषिक्षचि । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥
  • (2628) सः स्विदिस्वदिसहीनां च <8-3-62>
अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे । सिस्वेदयिषति । सिस्वादयिषति । सिसाहयिषति । स्थादिष्वभ्यासेनेति नियमान्नेह । अभिसुसूषति । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न नसिष्यते ॥ (भाष्यं) । शैषिकाच्छैषिकः सरूपो न, तेन शालीये भव इति वाक्यमेव । न तु छान्ताच्छः । सरूपः किम् । अहिच्छत्रे भव आहिच्छत्रः । आहिच्छत्रे भव आहिच्छत्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सपरूपः स न । धनवानस्यास्ति । इह मतुबन्तान्मतुप् न । विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तात्सन्न । स्वार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ॥
इति तिङन्तसन्प्रकरणम्‌

तिङन्तयङ्प्रकरणम्‌[सम्पाद्यताम्]

  • (2629) धातोरेकाचो हलादेः क्रियासमभिहारे यङ् <3-1-22>
पौनः पुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥
  • (2630) गुणो यङ्लुको <7-4-82>
अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः---2604 इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः--2453 इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥ सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः (वा) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥
यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य 44 । अतो लोपः 2308 । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥
  • (2632) दीर्घोऽकितः <7-4-83>
अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥
अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्तवान्नोपधागुणः । बेभिदिता ॥
  • (2634) नित्यं कौटिल्ये गतौ <3-1-23>
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥
  • (2635) लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् <3-1-24>
एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥
  • (2636) चरफलोश्च <7-4-87>

अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते ॥ स च पदान्तवद्वाच्यः । वा पदान्तस्य 125 इति यथा स्यात् ॥

  • (2637) उत्पस्यातः <7-4-88>
चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । हलि च 354 इति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥
  • (2638) जपजभदहदशभ्ञ्जपशां च <7-4-86>
एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति । जञ्जप्यते इत्यादि ॥
गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था---2462 इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः 2420 । शोशूयते । शेश्वीयते । यङि च 2623 । सास्मर्यते । रीङृतः 1234 । चेक्रीयते । सुट् । संचेस्क्रीयते ॥
सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥
  • (2641) न कवतेर्यङि <7-4-63>
कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥
  • (2642) नीग्वञ्चूस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् <7-4-84>
एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥
  • (2643) नुगतोऽनुनासिकान्तस्य <7-4-85>
अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यॅंय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा 2319 । जाजायते । जञ्जन्यते ॥ । हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः । जेघ्नीयते । हिंसायां किम् । जङ्घन्यते ॥
  • (2644) रीगृदुपधस्य च <7-4-90>
ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीक्लृप्यते ॥ । रीगृत्वत इति वक्तव्यम् ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥
  • (2645) स्वपिस्यमिव्येञां यङि <6-1-19>
संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥
वावश्यते ॥
चेकीयते ॥
  • (2648) ई घ्राघ्मोः <7-4-31>
जेघ्रीयते । देध्मीयते ॥
  • (2649) अयङ् यि क्ङिति <7-4-22>
शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥
इति तिङन्तयङ्प्रकरणम्‌

तिङन्तयङ्लुक्प्रकरणम्‌[सम्पाद्यताम्]

यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि---2149 इति परस्मैपदम् । अनुदात्तङित---2157 इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य--425 इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित--2157 । इत्यनुबन्धनिर्देशात् । तत्र च (प) श्तिपा शपेति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥
यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्वा स्यात् । भुसुवोः--2224 इति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते 3596 इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । (प) प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात् । द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्था---2223 इति सिचो लुक् । यङो वा---2651 इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्रुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्त्सि । हुझल्भ्यो हेर्धिः 2425 । पास्पर्धि । लङ् । अपास्पतर्‌ । अपास्पदर्‌ । सिपि दश्च 2468 इति रुत्वपक्षे रो रि 173 । अपास्पाः । जागाद्धि । जाधात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथृ । नानात्ति । नानात्तः । दध । दादद्धिः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लङ् तिप् । अचोकूतर्‌ । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवङ्क्ति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेश---2428 इत्यनुनासिकलोपः । जङ्गन्तः । जङ्ग्मति । म्वोश्च 2309 । जङ्गन्मि । जङ्गन्वः । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि ॥मो नो धातोः 341 अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । ह्म्यन्त--2299 इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्युङ्लुक् । अभ्यासाच्च 2430 इति कुत्वं यद्यपि हो हन्तेः 358 इत्यतो हन्तेरित्यनुवर्त्य विहितं, तथापि यङ्लुकि भवत्येवेति न्यासकारः । श्तिपा शपेति निषेधस्तवनित्यः गुणो यङ्लुकोः 2630 इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तु । वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु आङो यमहनः 2695 इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्य---2637 इति तपरत्वान्न गुणः । हलि च 354 इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चूरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसन---2504 इत्यात्वम् । चङ्खातः । गमहन---2363 इत्युपधालोपः । चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचङ्खाताम् । अचङ्ख्नुः । ये विभाषा 2319 । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिः 2443 इत्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतोवृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः 2497 । जाहीतः । इह जहातेश्च 2498 आच हौ 2499 लोपो यि 2500 घुमास्था--2462 एर्लिङि---2374 इत्येते पञ्चापि न

भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीति । अजाहेत् । अजाहात् । अजाहीताम् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् स्वपिस्यमि--2645 इत्युत्वं न । रुदादिभ्यः ---2464 इति गणनिर्दिष्टत्वादिण्न । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत् । असास्वप् । सास्वप्यात् । आशिषि तु वचिस्वपि---2409 इत्युत्वम् । सासुप्यात् । असास्वापीत् । असास्वपीत् ॥

  • (2652) रुग्निकौ च लुकि <7-4-91>
ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥
ऋदन्ताद्धातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः 3 । वर्वृतति 3 । वर्वर्तामास 3 । वर्वर्तिता । गणनिर्दिष्टत्वात् न वृद्भ्यश्चतुर्भ्यः 2348 इति न । वर्वर्तिष्यति 3 । अवर्वृर्तीत् 3 । अवर्वतर्‌ 3 । सिपि दश्च 2468 इति रुत्वपक्षे रो रि 173 । अवर्वाः 3 । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् । चर्करीति 3 । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः 3 । चर्क्रति 3 । चर्करांचकार 3 । चर्करिता 3 । अचर्करीत् । अचर्कः 3 । चर्कृयात् 3 । आशिषि रिङ् । चर्क्रियात् 3 । अचर्कारीत् 3 । ऋतश्च 2653 इति तपरत्वान्नेह । कॄ विक्षेपे । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङलुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिः शेषः 2179 । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्णे 2290 इति इयङ् । अरर्ति । अरियर्ति । अरियर्ति । अररीति । अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण् । रुको रोरि 1731 इति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धीये तन्निषेधात् । आरति । अरिय्रति । लिङि श्तिपा निर्देशात् गुणोऽर्ति--2380 इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात् । अरिय्रियात् । अरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति 3 । जर्गर्ढि 3 । जर्गृढः 3 । जर्गृहति 3 । अजर्घटर्‌ 3 । गृह्णातेस्तु । जाग्रहीति । जाग्राढि ॥ तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्नरुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि । जाग्रहिता । ग्रहोऽलिटि 2562 इति दीर्घस्तु न । तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । गृधु अभिकाङ्क्षायाम् । जर्गृधीति 3 । जर्गर्द्धि 3 । जर्गृद्धः 3 । जर्गृधति 3 । जर्गृधीषि 3 । जर्घर्त्सि 3 । अजर्गृधीत् 3 । ईडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घतर्‌ 3 । अजर्गृद्धाम् 3 । सिपि दश्च 2668 इति पक्षे रुत्वम् । अजर्घाः 3 । अजर्गर्धीत् 3 । अजर्गर्धिष्टाम् 3 । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्या---2412 इति संप्रसारणं न भवति । श्तिपा निर्देशात्. च्छ्वोः शूड्---2561 इति शः । व्रश्च---294 इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नास्तीति च्छ्वोः--2561 इति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छ्वोः--2561 इति यत्रोठ् तद्विषयकम् । ज्वरत्वर---2564 इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । मव्य बन्धने । अयं यान्त ऊठ्भावी । तेवृ देवृ देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाहर्यीति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥
  • (2654) ज्वरत्वरस्रिव्यविमवामुपधायाश्च <6-4-20>
ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । णमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥
  • (2655) राल्लोपः <6-4-21>
रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥
  • (2656) न धातुलोप आर्धधातुके <1-1-4>
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति ।हलि च 354 इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥
इति तिङन्तयङ्लुक्प्रकरणम्‌

तिङन्तनामधातुप्रकरणम्‌[सम्पाद्यताम्]

  • (2657) सुप आत्मनः क्यच् <3-1-8>
इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥
अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये 63 । गव्यति । नाव्यति । लोपः शाकल्यस्य 67 इति तु न । अपदान्तत्वात् । तथा हि ॥
क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च 1373 । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च 354 । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः 1234 । कर्त्रीयति । क्यच्व्योश्च 2119 । गर्गीयति । वाच्यति । अकृत्सार्व-- 2298 इति दीर्घः । कवीयति । समिध्यति ॥
  • (2660) क्यस्य विभाषा <6-4-50>
हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य 44 । अतो लोपः 2308 । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥ मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न (वा) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥
  • (2661) अशनायोदनयधनाया बुभुक्षापिपासागर्धेषु <7-4-34>
क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥
  • (2662) अश्वक्षीरवृषलवणानामात्प्रीतौ क्यचि <7-1-51>
एषां क्यचि असुगागमः स्यात् ॥ । अश्ववृषयोर्मैथुनेच्छायाम् ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥ क्षीरलवणयोर्लालसायाम् ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः ॥ । सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥
  • (2663) काम्यच्च <3-1-9>
उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः 2631इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥
  • (2664) उपमानादाचारे <3-1-10>
उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ॥ । अधिकरणाच्चेति वक्तव्यम् ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥
  • (2665) कर्तुः क्यङ् सलोपश्च <3-1-11>
उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः ॥ । ओजसोऽप्सरसो नित्यमितरेषां विभाषया ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ् मानिनोश्च 837 । कुमारीवाचरति । कुमारायते । हरिणीवाचरति । हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्वाविव पट्वीमृदूयते ॥ न कोपधायाः 838 । पाचिकायते ॥ । आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः ॥ वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः ।

क्विप्सन्नियोगेनानुदात्तत्वमनुनानिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ॥ । सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः ॥ पूर्ववार्तिकं तु अनुबन्धासञ्जानार्थं, तत्र क्विबनूद्यते । प्रादिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । अतो गुणे 191 इति शपा सह पररूपम् । अ इवाचरति अति । अतः अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे 191 । अत आदेः 2248 इति दीर्घः । णल् औ वृद्धिः । अतुसादिषु तु आतो लोप इटि च 2372 इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचिर्वृद्धिः-- 2297 इत्यत्र धातौरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव । श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्था 2223 इति, भुवो वुक् 2174 इति, भवतेरः 2181 इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । द्रुरिव द्रवति । णिश्रि-- 2312 इति चङ् न । अद्रावीत् ॥

  • (2666) अनुनासिकस्य क्विझलोः क्ङिति <6-4-15>
अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥
  • (2667) भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः <3-1-12>
अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । सुमनस् । अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् । तथा हि ॥ । उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्च 269 इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्टे स्थितम् ॥
  • (2668) लोहितादिडाज्भ्यः क्यष् <3-1-13>
लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात् ॥
क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणं न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् ॥ । लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति । न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत

उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विनापीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तुलोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥1 ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥

  • (2670) कष्टाय क्रमणे <3-1-14>
चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ॥ । सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते । कक्षायते इत्यादि ॥
  • (2671) कर्मणो रोमन्थतपोभ्यां वर्तिचरोः <3-1-15>
रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनीयां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ॥ । हनुचलन इति वक्तव्यम् (वा) ॥ चर्वितस्याकृष्यपुनश्चर्वण इत्यर्थः । नेह कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थं इति कैयटः । वर्तुलं करोतीत्यर्थं इति न्यासकारहरदत्तौ ॥ । तपसः परस्मैपदं च ॥ तपश्चरति तपस्यति ॥
  • (2672) बाष्पोष्मभ्यामुद्वमने <3-1-16>
आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ॥ । फेनाच्चेति वाच्यम् ॥ फेनायते ॥
  • (2673) शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे <3-1-17>
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥ सुदिनदुर्दिननीहारेभ्यश्च ॥ सुदिनायते ॥
  • (2674) सुखादिभ्यः कर्तृवेदनायाम् <3-1-18>
सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥
  • (2675) नमो वरिवश्चित्रङः क्यच् <3-1-29>
करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥
  • (2676) पुच्छभाण्डचीवराण्णिङ् <3-1-20>
पुच्छादुदसने व्यसने पर्यसने च (वा) ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ॥ । भाण्डात्समाचयने ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थः । समवभाण्डत ॥ । चीवरादर्जने परिधाने च ॥ संचीवरयते भिक्षुः । चीवराण्यर्जयति । परिधत्ते वेत्यर्थः ॥
  • (2677) मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् <3-1-21>
कॄञर्थे । मुण्डं करोति मुण्डयति ॥ । व्रताद्भोजनतन्निवृत्त्योः (वा) ॥ पयः शूद्रान्नं वा व्रतयति ॥ । वस्त्रात्समाच्छादने ॥ संवस्त्रयति ॥ । हल्यादिभ्यो ग्रहणे (वा) ॥ हलिकल्योरदन्तत्वं च निपात्यते ॥ हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाश----2563 इत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धेः केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ॥ । अर्थवेदयोरप्यापुग्वक्तव्यः (वा) ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरूपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति ।

उपसर्गात्सुनोति---2270 इति षः । अभ्यषेणयत् । प्राक्सितात्--2276 इति षः । अभिषिषेणयिषति । स्थादिष्वभ्यासेन च---2277 इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुम् म्रदयति । अम्म्रदत् । भृशं कृशं दृढम् । भ्रशयति । क्रशयति । द्रढयति । अबभ्रशत् । अचकशत् । अदद्रढत् । परिव्रढत् । ऊढिमाख्यत् द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊढमाख्यत् । औजढत् । औडढत् । ओः पुयण्जि--2577 इति सूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् । प्रकृत्यैकाच् 2010 । वृद्धिपुकौ । स्वापयति । त्वां मां वाऽऽचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः पुक् । त्वादयति । मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाच् 2010 इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रोष्ठाद्युदाहरणविशेषेऽऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धिते 679 इति टिलोपः । प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन टेः 1786 इत्यस्यैव बाधको हि सः । भत्वाकत्संप्रसारणम् । अन्ये तु । नस्तद्धिते 679 इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् । टेः 1786 इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे । विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके । संप्रासारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चामाचष्टे उदीचयति ॥ उदैचिचत् । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्णे--91 इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । समिअचिचत् । तिर्यञ्चामाष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेमनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्र-- 2183 इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे साध्राययति । अससध्रायत् । विष्वद्यञ्चम् । अविविष्वद्रायत् । देवद्र्यञ्चम् देवद्राययति । अदिदेवद्रायत् । अदद्र्यञ्चम् । अददद्रायत् । अदमुयञ्चम् । अदमुआययति । आददमुआयत् । अमुमुयञ्चम् । अमुमुआययति । चङ् । आमुमुआययत् । भुवम् भावयति । अबीभवत् । भ्रुवम् अबुभ्रवत् । श्रियम् अशिश्रयत् । गाम् अजूगवत् । रायम् अरीरयत् । नावम् अनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः । अव्ययानां भमात्रे टिलोपः । स्वयति । असस्वत् । असिस्वत् । बहून् भावयति । बहयतीत्यन्ये विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीत् । पयसयति । इह टिलेपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि दूरयत्यवनते विवस्वतीति । दूरमतति अयते वा दूरात् । दूरातं कूर्वतीत्यर्थः । युवानं यवयति कनयति । युवाल्पयोः--2019 इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्फिरं स्फापयति । उरुं वरयति । वारयति । बहुलं बंहयति । गुरुं गरयति । तृप्रं त्रापयति । दीर्घं द्राघयति । वृन्दारकं वृन्दयति ॥

इति तिङन्तनामधातुप्रकरणम्‌

तिङन्तकण्ड्वादिप्रकरणम्‌[सम्पाद्यताम्]

  • (2678) कण्ड्वादिभ्यो यक् <3-1-27>
एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च । <<1945>> कण्डूञ् गात्रविघर्षणे । कण्डूयति । कण्डूयते । <<1946>> मन्तु अपराधे । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते । <<1947>> वल्गु पूजामाधुर्ययोः । वल्गूयति । <<1948>> असु उपतापे । असू । असूञ् । इत्येके । अस्यति । असूयति । असूयते । <<1949>> लेट् <<1950>> लोट् धौर्त्ये पूर्वभावे स्वप्ने च । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता । <<1951>> लेला दीप्तौ । <<1952>> इरस् <<1953>> इरज् <<1954>> इरञ् ईर्ष्यायाम् ॥ इरस्यति । इरज्यति । हलि च 354 इति दीर्घः । ईर्यति । ईर्यते । <<1955>> उषस् प्रभातीभावे । <<1956>> वेद धौर्त्ये स्वप्ने च । <<1957>> मेधा आशुग्रहणे ॥ मेधायति । <<1958>> कुषुभ क्षेपे ॥ कुषुभ्यति । <<1959>> मगध परिवेष्टने । नीचदास्य इत्यन्ये ॥ <<1960>> तन्तस् <<1961>> पम्पस् दुःखे । <<1962>> सुख <<1963>> दुःख तत्क्रियायाम् । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । <<1964>> सपर पूजायाम् । <<1965>> अरर आराकर्मणि <<1966>> भिषजू चिकित्सायाम् । <<1967>> भिष्णज् उपसेवायाम् । <<1968>> इषुध शरधारणे । <<1969>> चरण <<1970>> वरण गतौ । <<1971>> चुरण चौर्ये । <<1972>> तुरण त्वरायाम् । <<1973>> भुरण धारणपोपणयोः । <<1974>> गद्गद वाक्स्खलने । <<1975>> एला <<1976>> केला <<1977>> खेला विलासे । <<1978>> इलेत्यन्ये । <<1979>> लेखा स्खलने च । अदन्तोऽयमित्यन्ये । लेख्यति । <<1980>> लिट अल्पकुत्सनयोः । लिट्यति । <<1981>> लाट जीवने । <<1982>> हृणीङ् रोषणे लज्जायां च । <<1983>> महीङ् पूजायाम् । महीयते । पूजां लभत इत्यर्थः । <<1984>> रेखा श्लाघासादनयोः । <<1985>> द्रवस् परितापपरिचरणयोः । <<1986>> तिरस् अन्तर्धौ । <<1987>> अगद नीरोगत्वे । <<1988>> उरस् बलार्थः । उरस्यति । बलवान् भवतीत्यर्थः । <<1989>> तरण गतौ । <<1990>> पयस् प्रसृतौ । <<1991>> संभूयस् प्रभूतभावे । <<1992>> अंबर <<1993>> संवर संभरणे । आकृतिगणोऽयम् ॥
इति तिङन्तकण्ड्वादिप्रकरणम्‌

तिङन्तप्रत्ययमालाप्रकरणम्‌[सम्पाद्यताम्]

कण्डूयतेः सन्‌ । सन्यङोः (2395) इति प्रथमस्यैकाचो द्वित्वे प्राप्ते कण्ड्वादेस्तृतीयस्येति वाच्यम्‌ (वा) ॥ कण्डूयियिषति । क्यजन्तात्सन्‌ । यथेष्टं नामधातुषु (वा) । आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । अजादेस्त्वाद्येतरस्य । पुपुत्रीयिषति-पुतित्रीयिषति-पुत्रीयियिषति । अशिश्वीयिषति-अश्वीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः । इन्द्रीयतेः सन्‌ । द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम्‌ । इन्दिद्रीयिषति-इन्द्रीयियिषति । चिचन्द्रीयिषति-चन्दिद्रीयिषति-चन्द्रीयियिषति-प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति । पिप्रापयिषति-प्रापिपयिषति-प्रापयियिषति । उरुं विवारयिषति-वारिरयिषति-वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम्‌ । षत्वं तु नास्ति । 'यङ्सन्ण्यन्तात्सन्‌' । बोभूयिषयिषति । यङ्णिच्सन्नन्ताण्णिच्‌ । बोभूययिषतीत्यादि ।
इति तिङन्तप्रत्ययमालाप्रकरणम्‌