सिद्धान्तकौमुदी/प्रकरण‌३१-४०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


तद्धिताधिकारे ठगधिकारप्रकरणम्‌[सम्पाद्यताम्]

  • (1548) प्राग्वहतेष्ठक् <4-4-1>
तद्वहतीत्यतः प्राक्ठगधिक्रियते ॥ । तदहेति माशब्दादिभ्य उपसंख्यानम् (वा) ॥ माशब्दः कारि इति य आह स माशब्दिकः ॥
  • (1549) स्वागतादीनां च <7-3-7>
ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् ॥ । आहौ प्रभूतादिभ्यः ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः ॥ । पृच्छतौ सुस्नातादिभ्यः (वा) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः ॥ । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥
  • (1550) तेन दीव्यति खनति जयति जितम् <4-4-2>
अक्षैर्दीव्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥
  • (1551) संस्कृतम् <4-4-3>
दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥
  • (1552) कुलत्थकोपधादण् <4-4-4>
ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥
उडुपेन तरति औडुपिकः ॥
  • (1554) गोपुच्छाट्ठञ् <4-4-6>
गौपुच्छिकः ॥
  • (1555) नौद्व्यचष्ठन् <4-4-7>
नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥
  • (1557) आकर्षात् ष्ठल् <4-4-9>
आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥
  • (1558) पर्पादिभ्यः ष्ठन् <4-4-10>
पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥
  • (1559) श्वगणाट्ठञ्च <4-4-11>
चात् ष्ठन् ॥
  • (1560) श्वादेरिञि <7-3-8>
ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्टिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥ इकारादाविति वाच्यम् (वा) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥
  • (1561) पदान्तस्यान्तरस्याम् <7-3-9>
श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥
  • (1562) वेतनादिभ्यो जीवति <4-4-12>
वेतनेन जीवति वैतनिकः । धानुष्कः ॥
  • (1563) वस्नक्रयाविक्रयाट्ठन् <4-4-13>
वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥
  • (1564) आयुधाच्छ च <4-4-14>
चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥
  • (1565) हरत्युत्सङ्गादिभ्यः <4-4-15>
उत्सङ्गेन हरत्यौत्सङ्गिकः ॥
  • (1566) भस्त्रादिभ्यः ष्ठन् <4-4-16>
भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥
  • (1567) विभाषा विवधात् <4-4-17>
विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥
  • (1568) अण् कुटिलिकायाः <4-4-18>
कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥
  • (1569) निर्वृत्तेऽक्षद्यूतादिभ्यः <4-4-19>
अक्षद्युतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥
  • (1570) त्रेर्मन्नित्यम् <4-4-20>
त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिकम् । पक्त्रिमम् ॥ । भावप्रत्ययान्तादिमब्वक्तव्यः ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥
  • (1571) अपमित्ययाचिताभ्यां कक्कनौ <4-4-21>
अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥
  • (1572) संसृष्टे <4-4-22>
दध्ना संसृष्टं दाधिकम् ॥
  • (1573) चूर्णादिनिः <4-4-23>
चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥
  • (1574) लवणाल्लुक् <4-4-24>
लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥
  • (1575) मुद्गादण् <4-4-25>
मौद्ग ओदनः ॥
  • (1576) व्यञ्जनैरुपसिक्ते <4-4-26>
ठक् । दध्ना उपसिक्तं दाधिकम् ॥
  • (1577) ओजः सहोऽम्भसा वर्तते <4-4-27>
ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥
  • (1578) तत्प्रत्यनुपूर्वमीपलोमकूलम् <4-4-28>
द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥
  • (1579) परिमुखं च <4-4-29>
परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥
  • (1580) प्रयच्छति गर्ह्यम् <4-4-30>
द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः ॥ । वृद्धेर्वृधुषिभावो वक्तव्यः ॥ वार्धुषिकः ॥
  • (1581) कुसीददशैकादशात् ष्ठन्ष्ठचौ <4-4-31>
गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते ।

दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥

बदराण्युञ्छति बादरिकः ॥
समाजं रक्षति सामाजिकः ॥
  • (1584) शब्ददर्दुरं करोति <4-4-34>
शब्दं करोति शाब्दिकः । दार्दुरिकः ॥
  • (1585) पक्षिमत्स्यमृगान्हन्ति <4-4-35>
। स्वरूपस्य(पर्यायाणां) विशेषाणां च ग्रहणम् ॥ मत्स्यपर्यायेषु मीनस्यैव (भाष्येष्टिः) ॥ पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुनिकः । मार्गिकः । हारिणितः । सारङ्गिकः ॥
  • (1586) परिपन्थं च तिष्ठति <4-4-36>
अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥
  • (1587) माथोत्तरपदपदव्यनुपदं धावति <4-4-37>
दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥
  • (1588) आक्रन्दाट्ठञ्च <4-4-38>
अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥
  • (1589) पदोत्तरपदं गृह्णाति <4-4-39>
पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥
  • (1590) प्रतिकण्ठार्थललामं च <4-4-40>
एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥
  • (1591) धर्मं चरति <4-4-41>
धार्मिकः ॥ । अधर्माच्चेति वक्तव्यम् (वा) ॥ आधर्मिकः ॥
  • (1592) प्रथिपथमेति ठंश्च <4-4-42>
प्रतिपथमेति प्रातिपथिकः ॥
  • (1593) समवायान्समवैति <4-4-43>
सामवायिकः । सामूहिकः ॥
  • (1594) परिषदो ण्यः <4-4-44>
परिषदं समवैति पारिषद्यः ॥
  • (1595) सेनाया वा <4-4-45>
ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥
  • (1596) संज्ञायां ललाटकुक्कुट्यौ पश्यति <4-4-46>
ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥
  • (1597) तस्य धर्म्यम् <4-4-47>
आपणस्य धर्म्यमापणिकम् ॥
  • (1598) अण् महिष्यादिभ्यः <4-4-48>
महिष्या धर्म्यं माहिषम् । याजमानम् ॥
यातुर्धर्म्यं यात्रम् ॥ । नराच्चेति वक्तव्यम् (वा) ॥ नरस्य धर्म्या नारी ॥ । विशसितुरिड्लोपश्चाञ्च वक्तव्यः (वा) ॥ विशसितुर्धर्म्यं वैशस्त्रम् ॥ । विभाजयितुर्णिलोपश्चाञ्च वाच्यः (वा) ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥
षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥
  • (1601) तदस्य पण्यम् <4-4-51>
अपूपाः पण्यमस्य आपूपिकः ॥
  • (1602) लवणाट्ठञ् <4-4-52>
लावणिकः ॥
  • (1603) किसरादिभ्यः ष्ठन् <4-4-53>
किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥
  • (1604) शलालुनोऽन्यतरस्याम् <4-4-54>
ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
  • (1606) मड्डुकझर्झरादणन्यतरस्याम् <4-4-56>
मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥
  • (1607) प्रहरणम् <4-4-57>
तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥
  • (1608) परश्वधाद्ठञ् <4-4-58>
पारश्वधिकः ॥
  • (1609) शक्तियष्ट्योरीकक् <4-4-59>
शाक्तीकः । याष्टीकः ॥
  • (1610) अस्ति नास्ति दिष्टं मतिः <4-4-60>
तदस्येत्येव । अस्तिपरलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥
अपूपभक्षणं शीलमस्य आपूपिकः ॥
  • (1612) छत्रादिभ्यो णः <4-4-62>
गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥
  • (1613) कार्मस्ताच्छील्ये <6-4-172>
कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते 679 इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥
  • (1614) कर्माध्ययने वृत्तम् <4-4-63>
प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥
  • (1615) बह्वच्पूर्वपदाट्ठञ् <4-4-64>
प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिक: । द्वादशापपाठा अस्य जाता इत्यर्थ: ॥
  • (1616) हितं भक्षाः <4-4-65>
अपूपभक्षणं हितमस्मै आपूपिक: ॥
  • (1617) तदस्मै दीयते नियुक्तम् <4-4-66>
अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिक: ॥
  • (1618) श्राणामांसौदनाट्टिठन् <4-4-67>
श्राणा नियुक्तं दीयतेऽस्मै श्राणिक: । श्राणिकी । मांसौदनग्रहणं संधातविगृहीतार्थम् । मांसौदनिक: । मांसिक: । ओदनिक: ॥
  • (1619) भक्तादणन्यतरस्याम् <4-4-68>
पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्त: । भाक्तिक: ॥
  • (1620) तत्र नियुक्तः <4-4-69>
आकरे नियुक्त आकरिक: ॥
  • (1621) अगारान्ताट्ठन् <4-4-70>
देवागारे नियुक्तो देवागारिक: ॥
  • (1622) अध्यायिन्यदेशकालात् <4-4-71>
निषिद्धदेशकालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिक: । चतुर्दश्यामधीते चातुर्दशिक: ॥
  • (1623) कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति <4-4-72>
तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिक: । वंशा वेणव: कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थ: । प्रास्तारिकः । सांस्थानिकः ॥
  • (1624) निकटे वसति <4-4-73>
नैकटिको भिक्षु: ॥
  • (1625) आवसथात् ष्ठल् <4-4-74>
आवसथे वसति आवसथिक: । षित्वान्ङीष् । आवसथिकी । आकर्षात्पर्पादेर्भस्त्रादिभ्य: कुसीदसूत्राच्च । आवसथात्किसरादे: षित: षडेते ठगधिकारे ॥1 ॥ षडिति सूत्रषट्केन विहिता इत्यर्थ: । प्रत्ययास्तु सप्त ॥ ठकोऽवधि: समाप्त: ॥
इति तद्धिताधिकारे ठगधिकारप्रकरणम्‌

तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌[सम्पाद्यताम्]

  • (1626) प्राग्घिताद्यत् <4-4-75>
तस्मै हितम् 1665 इत्यत: प्राक् यदधिक्रियते ॥
  • (1627) तद्वहति रथयुगप्रासङ्गम् <4-4-76>
रथं वहति रथ्य: । युग्य: । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्ग: । तं वहति प्रासङ्ग्य: ॥
  • (1628) धुरो यड्ढकौ <4-4-77>
हलि च 354 इति दीर्घे प्राप्ते ॥
  • (1629) न भकुर्छुराम् <8-2-79>
भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्य: । धौरेय: ॥
  • (1630) खः सर्वधुरात् <4-4-78>
सर्वधरां वहतीति सर्वधुरीण: ॥
  • (1631) एकधुराल्लुक्च <4-4-79>
एकधुरां वहति एकधुरीण: । एकधुर: ॥
शकटं वहति शाकटो गौ: ॥
  • (1633) हलसीराट्ठक् <4-4-81>
हलं वहति हालिक: । सैरिक: ॥
  • (1634) संज्ञायां जन्या <4-4-82>
जनी वधू: तां वहति प्रापयति जन्या ॥
  • (1635) विध्यत्यधनुषा <4-4-83>
द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनु: करणम् । पादौ विध्यन्ति पद्या: शर्करा: ॥
  • (1636) धनगणं लब्धा <4-4-84>
तृन्नन्तमेतत् । धनं लब्धा धन्य: । गणं लब्धा गण्य: ॥
  • (1637) अन्नाण्णः <4-4-85>
अन्नं लब्धा आन्न: ॥
वश्य: परेच्छानुचारी ॥
  • (1639) पदमस्मिन् दृश्यम् ् <4-4-87>
पद्य: कर्दम: । नातिशुष्क इत्यर्थ: ॥
  • (1640) मूलमस्याबर्हि <4-4-88>
आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गा: ॥
  • (1641) संज्ञायां धेनुष्या <4-4-89>
धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥
  • (1642) गृहपतिना संयुक्ते ञ्यः <4-4-90>
गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्नि: ॥
  • (1643) नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु <4-4-91>
नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्य: । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्य: । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्य: । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥
  • (1644) धर्मपथ्यर्थन्यायादनपेते <4-4-92>
धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥
  • (1645) छन्दसो निर्मिते <4-4-93>
छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥
चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥
  • (1647) ह्रदस्य प्रियः <4-4-95>
ह्रद्यो देशः । ह्रदस्य ह्रल्लेख-988 इति ह्रदादेशः ॥
  • (1648) बन्धने चर्षौ <4-4-96>
हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं ह्रद्यो वशीकरणमन्त्रः ॥
  • (1649) मतजनहलात्करणजल्पकर्षेषु <4-4-97>
मतं ज्ञानं तस्य करणं भाव: साधनं वा मत्यम् । जनस्य जल्पो जन्य: । हलस्य कर्पो हल्य: ॥
  • (1650) तत्र साधुः <4-4-98>
अग्रे साधु: अग्र्य: । सामसु साधु: सामन्य: । येचाभावकर्मणो: 1154 इति प्रकृतिभाव: । कर्मण्य: । शरण्य: ॥
  • (1651) प्रतिजनादिभ्यः खञ् <4-4-99>
प्रतिजनं साधु: प्रातिजनीन: । सांयुगीन: । सार्वजनीन: । वैश्वजनीन: ॥
भक्ते साधवो भाक्ता: शालय: ॥
  • (1653) परिषदो ण्यः <4-4-101>
पारिपद्य: । परिषद इति योगविभागाण्णोऽपि । परिषद: । पर्षद इति पाठ: । पार्षद: ॥
  • (1654) कथादिभ्यष्ठक् <4-4-102>
कथायां साधु: काथिक: ॥
  • (1655) गुडादिभ्यष्ठञ् <4-4-103>
गुडे साधुर्गौडिक इक्षु: । साक्तुका यवा: ॥
  • (1656) पथ्यतिथिवसतिस्वपतेर्ढञ् <4-4-104>
पथि साधु: पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रि: । स्वापतेयं धनम् ॥
सभ्य: ॥
  • (1658) समानतीर्थे वासी <4-4-107>
साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्य: ॥
  • (1659) समानोदरे शयितओ चोदात्तः <4-4-108>
समाने उदरे शयित: स्थित: समानोदर्यो भ्राता ॥
सोदर्यः । अर्थ: प्राग्वत् ॥
इति तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌

तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम्‌[सम्पाद्यताम्]

  • (1661) प्राक् क्रीताच्छः <5-1-1>
तेन क्रीतम् 1702 इत्यत: प्राक् छोऽधिक्रियते ॥
  • (1662) उगवादिभ्यो यत् <5-1-2>
प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवाद: । (ग) नाभि नभं च ॥ नभ्योऽक्ष: । नभ्यमञ्जनम् । रथनाभावेवेदम् । (ग) शुन: संप्रसारणं वा च दीर्घत्वम् । शून्यम् । शुन्यम् । (ग) ऊधसो नङ् च । ऊधन्य: ॥
  • (1663) कम्बलाच्च संज्ञायाम् <5-1-3>
यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥
  • (1664) विभाषा हविरपूपादिभ्यः <5-1-4>
आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुला: । पुरोडाशीया: । अपूप्यम् । अपूपीयम् ॥
  • (1665) तस्मै हितम् <5-1-5>
वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥
  • (1666) शरीरावयवाद्यत् <5-1-6>
दन्त्यम् । कण्ठ्यम् ॥ । नस् नासिकायाः (वा) ॥ नस्यम् । नाभ्यम् ॥
  • (1667) ये च तद्धिते <6-1-61>
यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ॥ । वा केशेषु (वा) ॥ शीर्षण्याः शिरस्या वा केशाः ॥ । अचि शीर्ष इति वाच्यम् (वा) ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥
  • (1668) खलयवमाषतिलवृषब्रह्मणश्च <5-1-7>
खलाय हितं खल्यम् । यव्यम् । माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥
  • (1669) अजादिभ्यां थ्यन् <5-1-8>
अजथ्यायूथिः । अविथ्या ॥
  • (1670) आत्मन्विश्वजनभोगोत्तरपदात्खः <5-1-9>
  • (1671) आत्माध्वानौ खे <6-4-169>
एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् ॥ । पञ्चजनादुपसंख्यानम् (वा) ॥ पञ्चजनीनम् ॥ । सर्वजनीट्ठञ् खश्च (वा) ॥ सार्वजनिकः । सर्वजनीनः ॥ । महाजनाट्ठञ् (वा) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । (ग) आचार्यादणत्वं च ॥ आचार्यभोगीनः ॥
  • (1672) सर्वपुरुषाभ्यां णठञौ <5-1-10>
सर्वाण्णो वेति वक्तव्यम् (वा) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥ पुरूषाद्वधविकारसमूहतेकृतेषु (वा) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदम्-1500इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् 1532 इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥
  • (1673) माणवचरकाभ्यां खञ् <5-1-11>
माणवाय हितं माणवीनम् । चारकीणम् ॥
  • (1674) तदर्थ विकृतेः प्रकृतौ <5-1-12>
विकृतिवाचाकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गरेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥
  • (1675) छदिरुपधिबलेर्ढञ् <5-1-13>
छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ॥ । उपधिशब्दात्स्वार्थे इष्यते (वा) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥
  • (1676) ऋषभोपानहोर्ञ्यः <5-1-14>
छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥
  • (1677) चर्मणोऽञ् <5-1-15>
चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वर्ध्र्यै इदं वार्ध्रं चर्म । वारत्रं चर्म ॥
  • (1678) तदस्य तदस्मिन् स्यादिति <5-1-16>
प्राकार आसामिष्टकानां स्यात्प्रकारीया इष्टकाः । प्रासादीयं दारु । प्रकारोऽस्मिन् स्यात् प्राकारीयो देशः । इति शब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥
  • (1679) परिखाया ढञ् <5-1-17>
परिखेयी भूमिः ॥

छयतोः पूर्णोऽवधिः ॥

इति तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम्‌

तद्धिताधिकारे आर्हीयप्रकरणम्‌[सम्पाद्यताम्]

  • (1680) प्राग्वतेष्ठञ् <5-1-18>
तेन तुल्यम् (सू1778) इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥
  • (1681) आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् <5-1-19>
तदर्हति (सू1728) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥
  • (1682) असमासे निष्कादिभ्यः <5-1-20>
आर्हादित्येतत् तेन क्रीतम् (सू1702) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥
  • (1683) परिमाणान्तस्यासंज्ञाशाणयोः <7-3-19>
उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञाःथ्द्य;ति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तदस्य परिमाणम् (सू1723) इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु ॥ । संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि (वा) ॥ पारायणिकः । द्वैपारायणिकः । अलुकिःथ्द्य;ति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् (सू1691) माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥
  • (1684) अर्धात्परिमाणस्य पूर्वस्य तु वा <7-3-26>
अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् । अर्धद्रौणिकम् ॥
  • (1685) नातः परस्य <7-3-27>
अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् ।?? आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य-(सू 840 इति पुंवद्भावनिषेधो न स्यात् ॥
  • (1686) शताच्च ठन्यतावशते <5-1-21>
शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते,तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥
  • (1687) संख्याया अतिशदन्तायाः कन् <5-1-22>
संख्यायाः कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥
  • (1688) वतोरिड्वा <5-1-23>
वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥
  • (1689) विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् <5-1-24>
योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥
  • (1690) कंसाट्टिठन् <5-1-25>
टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी ॥ । अर्धाच्चेति वक्तव्यम् (वा) ॥ अर्धिकः । अर्धिकी ॥ । कार्षापणाट्ठिठन्वक्तव्यः (वा) ॥ । प्रतिरादेशश्च वा (वा) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥
  • (1691) शूर्पादञन्यरतरस्याम् <5-1-26>
शौर्पम् । शौर्पिकम् ॥
  • (1692) शतमानविंशतिकसहस्रवसनादण् <5-1-27>
एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥
  • (1693) अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम् <5-1-28>
अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चाकलापिकम् ॥
  • (1694) विभाषा कार्षापणसहस्राभ्याम् <5-1-29>
लुग्वा स्यात् । अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥
  • (1695) द्वित्रिपूर्वान्निष्कात् <5-1-30>
लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् ॥ । बहुपूर्वाच्चेति वक्तव्यम् (वा) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥
  • (1696) बिस्ताच्च <5-1-31>
द्वित्रिबहुपूर्वाद्विस्तादार्हीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥
  • (1697) विंशतिकात्खः <5-1-32>
अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥
  • (1698) खार्या ईकन् <5-1-33>
अध्यर्धखारीकम् । द्विखारीकम् ॥ । केवलायाश्चेति वक्तव्यम् (वा) ॥ खारीकम् ॥
  • (1699) पणपादमाषशताद्यत् <5-1-34>
अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् (सू414)ति न । यस्य-(सू311) इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे 991 इत्यपि न,प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥
  • (1700) शाणाद्वा <5-1-35>
यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥
  • (1701) द्वित्रिपूर्वादण् च <5-1-36>
शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोः (सू1683) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥
  • (1702) तेन क्रीतम् <5-1-37>
ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥
  • (1703) इद्नोण्याः <1-2-50>
गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥
  • (1704) तस्य निमित्तं संयोगोत्पातौ <5-1-38>
संयोगः संबन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ॥ । वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् (वा) ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ । संनिपाताच्चेति वक्तव्यम् (वा) ॥ सान्निपातिकम् ॥
  • (1705) गोद्य्वचोऽसंख्यापरिमाणाश्वादेर्यत् <5-2-39>
गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् । विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि-आश्विकम् । आस्मिकम् ॥ । ब्रह्मवर्चसादुपसंख्यानम् (वा) ॥ ब्रह्मवर्चस्यम् ॥
  • (1706) पुत्राच्छ च <5-1-80>
चाद्यत् । पुत्रीयः । पुत्र्यः ॥
  • (1707) सर्वभूमिपृथिवीभ्यामणञौ <5-1-41>
सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥
  • (1708) तस्येश्वरः <5-1-42>
  • (1709) तत्र विदित इति च <5-1-43>
सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥
  • (1710) लोकसर्वोलोकाट्ठञ् <5-1-44>
तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥
  • (1711) तस्य वापः <5-1-45>
उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥
  • (1712) पात्रात् ष्ठन् <5-1-46>
पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥
  • (1713) तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते <5-1-47>
वृद्धिर्दीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ॥ । चतुर्थ्यर्थ उपसंख्यानम् (वा) ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥
  • (1714) पूरणार्धाट्ठन् <5-1-48>
यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥
  • (1715) भागाद्यच्च <5-1-49>
चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥
  • (1716) तद्वरति वहत्यावहति भाराद्वांशादिभ्यः <5-1-50>
वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥
  • (1717) वस्नद्रव्याभ्यां ठन्कनौ <5-1-51>
यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥
  • (1718) संभवत्यवहरति पचति <5-1-52>
प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः ॥ । तत्पचतीति द्रोणादण् च (वा) ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ॥
  • (1719) आढकाचितपात्रात्खोऽन्यतरस्याम् <5-1-53>
पक्षे ठञ् । आढकं संभवति अवहरति पचति वा आढकीना-आढकिकी । अचितीना । आचितिकी । पात्रीणा पात्रीकी ॥
  • (1720) द्विगोः ष्ठंश्च <5-1-54>
आढकाचितपात्रात् इत्येव । आढकाद्यन्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य अध्यर्ध-(सू1693) इति लुक् । षित्वान्ङीष् । द्व्याढकिकी । द्व्याढकीना । द्विगोः-(सू479) इति ङीप् । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । अपरिमाण-(सू470) इति ङीब्निषेधात् । द्व्याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥
  • (1721) कुलिजाल्लुक्खौ च <5-1-55>
कुलिजान्ताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी-द्वैकुलिजिकी-द्विकुलिजीना-द्विकुलिजिकी ॥
  • (1722) सोऽस्यांऽशवस्नभृतयः <5-1-56>
अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥
  • (1723) तदस्य परिमाणम् <5-1-57>
प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥
  • (1724) संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु <5-1-58>
पूर्वसूत्रमनुवर्तते । तत्र । संज्ञायां स्वार्थे प्रत्ययो वाच्यः (वा) ॥ यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् ॥ । स्तोमे डविधिः (वा) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥
  • (1725) पङ्किविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् <5-1-59>
एते रूढिशब्दा निपात्यन्ते ॥
  • (1726) पञ्चद्दशतौ वर्गे वा <5-1-60>
पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥
  • (1727) त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् <5-1-62>
त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ब्राह्मणानि ॥??
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥ ।
  • (1729) छेदादिभ्यो नित्यम् <5-1-64>
नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् । (ग) विराग विरङ्गं च । विरागं नित्यमर्हति । वैरागिकः । वैरङ्गिकः ॥
  • (1730) शीर्षच्छेदाद्यच्च <5-1-65>
शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥
  • (1731) दण्डादिभ्यो यः <5-1-66>
एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥
  • (1732) पात्राद्धंश्च <5-1-68>
चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥
  • (1733) कडङ्करदक्षिणाच्छ च <5-1-69>
चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥
  • (1734) स्थालीबिलात् <5-1-70>
स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥
  • (1735) यज्ञर्त्विग्भ्यां घख़ञौ <5-1-71>
यथासंख्यं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः । आर्त्विजीनो यजमानः ॥ यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् (वा) ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ॥
इति तद्धिताधिकारे आर्हीयप्रकरणम्‌

तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम्‌[सम्पाद्यताम्]

  • (1736) पारायणतुरायणचान्द्रायणं वर्तयति <5-1-72>
पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥
  • (1737) संशयमापन्नः <5-1-73>
संशयविषयीभूतोऽर्थः सांशयिकः ॥
  • (1738) योजनं गच्छति <5-1-74>
यौजनिकः ॥ । क्रोशशतयोजनशतयोरुपसंख्यानम् ॥ क्रोशशतं गच्छति क्रौशशतिकः ॥ । ततोऽभिगमनमर्हतीति च वक्तव्यम् ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥
  • (1739) पथः ष्कन् <5-1-75>
षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥
  • (1740) पन्थो ण नित्यम् <5-1-76>
पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥
  • (1741) उत्तरपथेनाह्रतं च <5-1-77>
उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ । आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् । वारिपथिकम् ॥
व्युष्टादिभ्योऽण् 1761 इत्यतः प्रागधिकारोऽयम् ॥
  • (1743) तेन निर्वत्तम् <5-1-79>
अह्ना निर्वृत्तमाह्निकम् ॥
  • (1744) तमधीष्टौ भृतो भूतो भावी <5-1-80>
अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः कालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥
  • (1745) मासाद्वयसि यत्खञौ <5-1-81>
मासं भूतो मास्यः । मासीनः ॥
  • (1746) द्विगोर्यप् <5-1-82>
मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥
  • (1747) षण्मासाण्ण्यच्च <5-1-83>
वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः । षाण्मासिकः ॥
  • (1748) अवयसि ठंश्च <5-1-84>
चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥
  • (1749) समायाः खः <5-1-85>
समामधीष्टो भृतो भूतो भावी वा समीनः ॥
  • (1750) द्विगोर्वा <5-1-86>
समायाः ख इत्येव । तेन परिजय्य--1757 इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥
  • (1751) रात्र्यहः संवरात्सराच्च <5-1-87>
द्विगोरित्येव । द्विरात्रीणः । द्वैरात्रिकः । द्व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवलत्सरीणः ॥
  • (1752) संख्यायाः संवत्सरसंख्यस्य च <7-3-15>
संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥
  • (1753) वर्षाल्लुक्च <5-1-88>
वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवर्षः ॥
  • (1754) वर्षस्याभविष्यति <7-3-16>
उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । परिमाणान्तस्यासंज्ञाशाणयोः 1683 द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥
  • (1755) चित्तवति नित्यम् <5-1-89>
वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षो दारकः ॥
  • (1756) षष्टिकाः षष्टिरात्रेण पच्यन्ते <5-1-90>
बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥
  • (1757) तेन परिजय्यलभ्यकार्यसुकरम् <5-1-93>
मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ॥
  • (1758) तदस्य ब्रह्मचर्यम् <5-1-94>
द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥ । महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् ॥ महानाम्न्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह ॥ । चतुर्मासाण्ण्यो यज्ञे । तत्र भव इत्यर्थे ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ । संज्ञायामण् ॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अण्णन्तत्वान्ङीप् ॥
  • (1759) तस्य च दक्षिणा यज्ञाख्येभ्यः <5-1-95>
द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥
  • (1760) तत्र च दीयते कार्य भववत् <5-1-96>
प्रावृषि दीयते कार्यं वा प्रावृषेण्यम् । शारदम् ॥ ठञधिकारे कालाधिकारस्य पूर्णोऽवधिः ॥
इति तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम्‌

तद्धिताधिकारे ठञ्विधिप्रकरणम्‌[सम्पाद्यताम्]

  • (1761) व्युष्टादिभ्योऽण् <5-1-97>
व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट,तीर्थ,संग्राम,प्रवास इत्यादि ॥ । अग्निपदादिभ्य उपसंख्यानम् ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥
  • (1762) तेन यथाकथाच हस्ताभ्यां णयतौ <5-1-98>
यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः ॥ । अर्थाभ्यां तु यथासंख्यं नेष्यते ॥ यथाकथाच दीयते कार्यं वा याथाकथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ॥
  • (1763) संपादिनि <5-1-99>
ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥
  • (1764) कर्मवेषाद्यत् <5-1-100>
कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥
  • (1765) तस्मै प्रभवति संतापादिभ्यः <5-1-101>
संतापाय प्रभवति सांतापिकः । सांग्रामिकः ॥
  • (1766) योगाद्यच्च <5-1-102>
चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥
  • (1767) कर्मण उकञ् <5-1-103>
कर्मणे प्रभवति कार्मुकम् ॥
  • (1768) समयस्तदस्य प्राप्तम् <5-1-104>
समयः प्राप्तोऽस्य सामयिकम् ॥
ऋतुः प्राप्तोऽस्य आर्तवम् ॥ । उपवस्त्रादिभ्य उपसंख्यानम् ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥
कालः प्राप्तोऽस्य काल्यं शीतम् ॥
  • (1771) प्रकृष्टे ठञ् <5-1-108>
कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥
तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥
  • (1773) विशाखाषाढादण्मन्थदण्डयोः <5-1-110>
आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥ । चूडादिभ्य उपसंख्यानम् ॥ चूडी,चौडम् । श्रद्धा,श्राद्धम् ॥
  • (1774) अनुप्रवचनादिभ्यश्छः <5-1-111>
अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥
  • (1775) समापनात्पूर्वपदात् <5-1-112>
व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥
  • (1776) ऐकागारिकट् चौरे <5-1-113>
एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चारैः ॥
  • (1777) आकालिकडाद्यन्तवचने <5-1-114>
समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याऽऽकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ॥ । आकालाट्ठंश्च ॥ आकालिका विद्युत् ॥ ठञः पूर्णोऽवधिः ॥
इति तद्धिताधिकारे ठञ्विधिप्रकरणम्‌

तद्धिताधिकारे नञ्स्नञधिकारप्रकरणम्‌[सम्पाद्यताम्]

  • (1778) तेन तुल्यं क्रिया चेद्वतिः <5-1-115>
ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
  • (1779) तत्र तस्येव <5-1-116>
मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥
विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥
  • (1781) तस्य भावस्त्वतलौ <5-1-119>
प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबं (लि 120) तलन्तं स्त्रियाम्(लि17) ॥
ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥
  • (1783) न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः <5-1-121>
इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥
  • (1784) पृथ्वादिभ्य इमनिज्वा <5-1-122>
वावचनमणादिसमावेशार्थम् ॥
  • (1785) र ऋतो हलादेर्लघोः <6-4-161>
हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥
भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ॥
  • (1787) वर्णदृढादिभ्यः ष्यञ्च <5-1-123>
चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दाढर्‌यम् ॥ । पृथुमृदुभृशदृढपरिढानामेव रत्वम् (वा) ॥ द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥
  • (1788) गुणवचनब्राह्मणादिभ्यः कर्मणि च <5-1-124>
चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम्च ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥
  • (1789) यथातथायथापुरयोः पर्यायेण <7-3-31>
नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ॥ । चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (वा) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ॥ । सर्वादेः-- इति लुक् (वा) । स एव सार्ववैद्यः ॥ (ग) चतुर्वेदस्योभयपदवृद्धिश्च ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥
  • (1790) स्तेनाद्यन्नलोपश्च <5-1-125>
नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥
सख्युर्भावः क्रम वा सख्यम् ॥ । दूतवणिग्भ्यां च ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥
  • (1792) कपिज्ञात्योर्ढक् <5-1-127>
कापेयम् । ज्ञातेयम् ॥
  • (1793) पत्यन्तपुरोहितादिभ्यो यक् <5-1-128>
सैनापत्यम् । पौरोहित्यम् ॥ (ग)राजाऽसे ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्यवात्ष्यञ् । आधिराज्यम् ॥
  • (1794) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् <5-1-129>
प्राणभृज्जाति, आश्वम् । औष्ट्रम् । वयोवचने,कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥
  • (1795) हायनान्तयुवादिभ्योऽण् <5-1-130>
द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ॥ । श्रोत्रियस्य यलोपश्च ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥
  • (1796) इगन्ताच्च लघुपूर्वात् <5-1-131>
शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥
  • (1797) योपधाद्गुरूपोत्तमाद्वुञ् <5-1-132>
रामणीयकम् । आभिधानीयकम् ॥ । सहायाद्वा ॥ साहाय्यम् । साहायकम् ॥
  • (1798) द्वन्द्वमनोज्ञादिभ्यश्च <5-1-133>
शैष्योपाध्यायिका । मानोज्ञकम् ॥
  • (1799) गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु <5-1-134>
अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥
  • (1800) होत्राभ्यश्छः <5-1-135>
होत्राशब्द ऋत्विग्वाची स्त्रीलिङ्गः । वहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा आच्छावाकीयम् । मैत्रावरुणीयम् ॥
  • (1801) ब्रह्मणस्त्वः <5-1-136>
होत्रावाचिनो ब्रह्मशब्दस्य स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥
इति तद्धिताधिकारे नञ्स्नञधिकारप्रकरणम्‌

तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌[सम्पाद्यताम्]

  • (1802) धान्यानां भवने क्षेत्रे ख़़ञ् <5-2-1>
भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥
  • (1803) व्रीहिशाल्योर्ढक् <5-2-2>
व्रैहेयम् । शालेयम् ॥
  • (1804) यवयवकष्टिकाद्यत् <5-2-3>
यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥
  • (1805) विभाषा तिलमाषोमाभङ्गाणुभ्यः <5-2-4>
यत् वा स्यात् पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥
  • (1806) सर्वचर्मणः कृतः खखञौ <5-2-5>
असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥
  • (1807) यथामुखसंमुखस्य दर्शनः खः <5-2-6>
मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥
  • (1808) तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति <5-2-7>
सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥
  • (1809) आप्रपदं प्राप्नोति <5-2-8>
पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥
  • (1810) अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु <5-2-9>
अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेय आयानयीनः शारः ॥
  • (1811) परोवरपरम्परपुत्रपौत्रमनुभवति <5-2-10>
परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥
  • (1812) अवारपारात्यन्तातुकामं गामी <5-2-11>
अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥
  • (1813) समांसमां विजायते <5-2-12>
यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते ॥ । खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः (वा) ॥ समांसमां विजायते । समायां समायां वा ॥
  • (1814) अद्यश्वीनावष्टब्धे <5-2-13>
अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥
आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥
  • (1816) अनुग्वलंगामी <5-2-15>
अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥
  • (1817) अध्वनो यत्खौ <5-2-16>
अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः 1154 । आत्माध्वानौ खे 1671 इति सूत्राभ्यां प्रकृतिभावः ॥
  • (1818) अभ्यमित्राच्छ च <5-2-17>
चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥
  • (1819) गोष्ठात्स्वञ् भूतपूर्वे <5-2-18>
गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥
  • (1820) अश्वस्यैकाहगमः <5-2-19>
एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥
  • (1821) शालीनकौपीने अधृष्टाकार्ययोः <5-2-20>
शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥
  • (1822) व्रातेन जीवति <5-2-21>
व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥
  • (1823) साप्तपदीनं सख्यम् <5-2-22>
सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥
  • (1824) हैयङ्गवीनं संज्ञायाम् <5-2-23>
ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥
  • (1825) तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ <5-2-24>
पीलूनां पाकः पालुकुणः । कर्णस्य मूलं कर्णजाहम् ॥
  • (1826) पक्षात्तिः <5-2-25>
मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥
  • (1827) तेन वित्तश्चुश्चुप्चणपौ <5-2-26>
यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥
  • (1828) विनञ्भ्यां नानाञौ न सह <5-2-27>
असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥
  • (1829) वेः शालच्छङ्कटचौ <5-2-28>
कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥
  • (1830) संप्रोदश्च कटच् <5-2-29>
सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ । अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् ॥ अलाबूनां रजः अलाबूकटम् । तिलकटम् ॥ । गोष्ठजादयः स्थानादिषु पशुनामभ्यः (वा) ॥ गवां गोगोष्ठम् ॥ । संघाते कटच् (वा) ॥ अवीनां सङ्घातोऽविकटः ॥ । विस्तारे पटच् ॥ अविपटः ॥ । द्वित्वे गोयुगच् ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् ॥ । षट्त्वे षङ्गवच् (वा) ॥ अश्वषङ्गवम् ॥ । स्नेहेतैलच् (वा) ॥ तिलतैलम् । सर्षपतैलम् ॥ । भवने क्षेत्रे शाकटाशाकिनौ ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥
  • (1831) अवात्कुटारच्च <5-2-30>
चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥
  • (1832) नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः <5-2-31>
अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥
  • (1833) नेर्बिडज्बिरीसचौ <5-2-32>
निबिडम् । निबिरीसम् ॥
  • (1834) इनच् पिटच्चिकचि च <5-2-33>
नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्यादेशौ च ॥ । कप्रत्ययचिकादेशौ च वक्तव्यौ ॥ चिकिनम् ॥ चिपिटम् । चिक्कम् ॥ । क्लिन्नस्य चिल्-पिल्-लश्चास्य चक्षुषी ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः ॥ । चुल् च ॥ चुल्लः ॥
  • (1835) उपाधिभ्यां त्यकन्नासन्नारूढयोः <5-2-34>
संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥
  • (1836) कर्मणि घटोऽठच् <5-2-35>
घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥
  • (1837) तदस्य संजातं तारकादिभ्य इतच् <5-2-36>
तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ॥
  • (1838) प्रमाणे द्वयसज्दघ्नञ्मात्रचः <5-2-37>
तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् ॥ । प्रामाणे लः ॥ शमः । दिष्टिः । वितस्तिः ॥ । द्विगोर्नित्यम् ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ॥ । प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ॥ । वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥
  • (1839) पुरुषहस्तिभ्यामण् च <5-2-38>
पुरूषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥
  • (1840) यत्तदेतेभ्यः परिमाणे वतुप् <5-2-39>
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
  • (1841) किमिदंभ्यां वो घः <5-2-40>
आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥
  • (1842) किमः संख्यापरिमाणे डति च <5-2-41>
चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥
  • (1843) संख्याया अवयवे तयप् <5-2-42>
पञ्चावयवा अस्य पञ्चतयं दारु ॥
  • (1844) द्वित्रिभ्यां तयस्यायज्वा <5-2-43>
द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
  • (1845) उभादुदात्तो नित्यम् <5-2-44>
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥
इति तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌

तद्धिताधिकारे मत्वर्थीयप्रकरणम्‌[सम्पाद्यताम्]

  • (1846) तदस्मिन्नधिकमिति दशान्ताड्डः <5-2-45>
एकादश अधिका अस्मिन्नेकादशम् ॥ । शतसहस्त्रयोरेवेष्यते ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ । प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते (वा) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥
  • (1847) शदन्तविंशतेश्च <5-2-46>
डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥
  • (1848) संख्याया गुणस्य निमाने मयट् <5-2-47>
भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ

निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥

  • (1849) तस्य पूरणे डट् <5-2-48>
एकादशानां पूरण एकादशः ॥
  • (1850) नान्तादसंख्यादेर्मट् <5-2-49>
डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥
  • (1851) षट्कतिपयचतुरां थुक् <5-2-51>
एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ॥ । चतुरश्छयतावाद्यक्षरलोपश्च ॥ तुरीयः । तुर्यः ॥
  • (1852) बहुपूगगणसंघस्य तिथुक् <5-2-52>
डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥
  • (1853) वतोरिथुक् <5-2-53>
डटीत्येव । यावतिथः ॥
  • (1854) द्वेस्तीयः <5-2-54>
डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥
  • (1855) त्रेः संप्रसारणं च <5-2-55>
तृतीयः ॥
  • (1856) विंशत्यादिभ्यस्तमडन्यतरस्याम् <5-2-56>
एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥
  • (1857) नित्यं शतादिमासार्धमाससंवत्सराच्च <5-2-57>
शतस्य पूरणः शततमः । एकशततमः । मासादेरतएव डट् । मासतमः ॥
  • (1858) षष्ठ्यादेश्चाऽसंख्यादेः <5-2-58>
षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य--1856 इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥
  • (1859) मतौ छः सूक्तसाम्नोः <5-2-59>
मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥
  • (1860) अध्यायानुवाकयोर्लुक् <5-2-60>
मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥
  • (1861) विमुक्तादिभ्योऽण् <5-2-61>
मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥
  • (1862) गोषदादिभ्यो वुन् <5-2-62>
मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥
  • (1863) तत्र कुशलः पदः <5-2-63>
वुन् स्यात् । पथि कुशलः पथिकः ॥
  • (1864) आकर्षादिभ्यः कन् <5-2-64>
आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥
  • (1865) धनहिरण्यात्कामे <5-2-65>
काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥
  • (1866) स्वाङ्गेभ्यः प्रसिते <5-2-66>
केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥
  • (1867) उदराट्ठगाद्यूने <5-2-67>
अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥
  • (1868) सस्येन परिजातः <5-2-68>
कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥
  • (1869) अंशं हारी <5-2-69>
हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥
  • (1870) तन्त्रादचिरापह्रते <5-2-70>
तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥
  • (1871) ब्राह्मणकोष्णिके संज्ञायाम् <5-2-71>
आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥
  • (1872) शीतोष्णाभ्यां कारिणि <5-2-72>
करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥
अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥
  • (1874) अनुकाभिकाभीकः कमिता <5-2-74>
अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥
  • (1875) पार्श्वेनान्विच्छति <5-2-75>
अनृजुरुपायः पार्श्वं तेनान्विच्छति पार्श्वकः ॥
  • (1876) अयः शूलदण्डाजिनाभ्यां ठक्ठञौ <5-2-76>
तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः,तेनान्विच्छति दाण्डाजिनिकः ॥
  • (1877) तावतिथं ग्रहणमिति लुग्वा <5-2-77>
कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ । तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् (वा) ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥
  • (1878) स एषां ग्रामणीः <5-2-78>
देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥
  • (1879) श्रृङ्खलमस्य बन्धनं करभे <5-2-79>
शृङ्खलकः करभः ॥
  • (1880) उत्क उन्मनाः <5-2-80>
उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥
  • (1881) कालप्रयोजनाद्रोगे <5-2-81>
कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥
  • (1882) तदस्मिन्नन्नं प्रायेण संज्ञायाम् <5-2-82>
प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ॥ । वटकेभ्य इनिर्वाच्यः (वा) ॥ वटकिनी ॥
  • (1883) कुल्माषादञ् <5-2-83>
कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥
  • (1884) श्रोत्रियंश्छन्दोऽधीते <5-2-84>
श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥
  • (1885) श्राद्धमनेन भुक्तामिनिठनौ <5-2-85>
श्राद्धी । श्राद्धिकः ॥
  • (1886) पूर्वादिनिः <5-2-86>
पूर्वं कृतमनेन पूर्वी ॥
  • (1887) सपूर्वाच्च <5-2-87>
कृतपूर्वी ॥
  • (1888) इष्टादिभ्यश्च <5-2-88>
इष्टमनेन इष्टी । अधीती ॥
  • (1889) छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि <5-2-89>
लोके तु परिपन्थिशब्दो न न्याय्यः ॥
  • (1890) अनुपद्यन्वेष्टा <5-2-90>
अनुपदमन्वेष्टा अनुपदी गवाम् ॥
  • (1891) साक्षाद्द्रष्टरि संज्ञायाम् <5-2-91>
साक्षाद्रष्टा साक्षी ॥
  • (1892) क्षेत्रियच् परक्षेत्रे चिकित्स्यः <5-2-92>
क्षेत्रियो व्याधिः शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥
  • (1893) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा <5-2-93>
इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥
  • (1894) तदस्यास्त्यस्मिन्निति मतुप् <5-2-94>
गावोऽस्यास्मिन्वा सन्ति गोमान् ॥ । भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥
  • (1895) रसादिभ्यश्च <5-2-95>
मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस,रुप,वर्ण,गन्ध,स्पर्श,शब्द,स्नेह । (ग)गुणात् ॥ (ग)एकाचः ॥ स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ॥
  • (1896) तसौ मत्वर्थे <1-4-19>
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् 435 । विदुष्मान् ॥ । गुणवचनेभ्यो मतुपो लुगिष्टः ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
  • (1897) मादुपधायाश्च मतोर्वोऽयवादिभ्यः <8-2-9>
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥
झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥
  • (1899) संज्ञायाम् <8-2-11>
मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।शरादीनां च 1042 इति दीर्घः ॥
  • (1900) आसन्दीवदष्ढीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मणवती <8-2-12>
एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः ।

रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥

  • (1901) उदन्वानुदधौ च <8-2-13>
उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥
  • (1902) राजन्वान् सौराज्ये <9-2-14>
राजन्वती भूः । राजवानन्यत्र ॥
  • (1903) प्राणिस्थादातो लजन्यतरस्याम् <5-2-16>
चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् । प्राण्यङ्गादेव । नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ 3659 इति स्वरितबाधनार्थश्चकारः ॥
  • (1904) सिध्मादिभ्यश्च <5-2-97>
लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (ग)वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥
  • (1905) वत्सांसाभ्यां कामबले <5-2-98>
आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥
  • (1906) फेनादिलच्च <5-2-99>
चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥
  • (1907) लोमादिपामादिपिच्छादिभ्यः शनेलचः <5-2-100>
लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ (ग)अङ्गात्कल्याणे । अङ्गना ॥ (ग)लक्ष्म्या अच्च । लक्ष्मणः ॥ । विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥
  • (1908) प्रज्ञाश्रद्धार्चाभ्यो णः <5-2-101>
प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः ॥ । वृतेश्च । वार्तः ॥
  • (1909) तपःसहस्राभ्यां विनीनी <5-2-102>
विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥
योगविभाग उत्तरार्थः । तापसः । साहस्रः ॥ । ज्योत्स्नादिभ्य उपसंख्यानम् ॥ ज्यौत्स्नः । तामिस्रः ॥
  • (1911) सिकताशर्कराभ्यां च <5-2-104>
सैकतो घटः ॥ शार्करः ॥
  • (1912) देशे लुबिलचौ च <5-2-105>
चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥
  • (1913) दन्त उन्नत उरच् <5-2-106>
उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥
  • (1914) ऊषसुषिमुष्कमधो रः <5-2-107>
ऊषरः । सुषिरः । मुष्कोऽण्डः,मुष्करः । मधु माधुर्यम्,मधुरः ॥ । रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् (वा) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ । नगपांसुपाण्डुभ्यश्च (वा) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ॥ । कच्छ्वा ह्रस्वत्वं च । कच्छुरः ॥
  • (1915) द्युद्रुभ्यां मः <5-2-108>
द्युमः । द्रुमः ॥
  • (1916) केशाद्वोऽन्यतरस्याम् <5-2-109>
प्रकृतेनमान्यतरस्यां ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ । अन्येभ्योऽपि दृश्यते ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ । अर्णसो लोपश्च (वा) ॥ अर्णवः ॥
  • (1917) गाण्ड्यजगात्संज्ञायाम् <5-2-110>
ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥
  • (1918) काण्डाण्डादीरन्नीरचौ <5-2-111>
काण्डीरः । आण्डीरः ॥
  • (1919) रजःकृष्यासुतिपरिषदो वलच् <5-2-112>
रजस्वला स्त्री । कृषीवलः । वले 1040 इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् ॥ । अन्येभ्योऽपि दृश्यते ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वले 1040 इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥
  • (1920) दन्ताशिखात्संज्ञायाम् <5-2-113>
दन्तवलो हस्ती । शिखावलः केकी ॥
  • (1921) ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः <5-2-114>
मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥
दण्डी । दण्डिकः ॥
  • (1923) व्रीह्यादिभ्यश्च <5-2-116>
व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि ॥ । शिखामालासंज्ञादिभ्य इनिः । यवखदादिभ्य इकः ॥ अन्येभ्य उभयम् ॥
  • (1924) तुन्दादिभ्य इलच्च <5-2-117>
चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ (ग)स्वाङ्गाद्विवृद्धौ । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥
  • (1925) एकगोपूर्वाट्ठञ् नित्यम् <5-2-118>
एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥
  • (1926) शतसहस्रान्ताच्च निष्कात् <5-2-119>
निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥
  • (1927) रुपादाहतप्रशंसयोर्यप् <5-2-120>
आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ॥ । अन्येभ्योऽपि दृश्यते ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥
  • (1928) अस्मायामेधास्रजो विनिः <5-2-121>
यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ । आमयस्योपसंख्यानं दीर्घश्च ॥ आमयावी ॥ । शृङ्गवृन्दाभ्यामारकन् ॥ शृङ्गारकः । वृन्दारकः ॥ । फलबर्हाभ्यामिनच् ॥ फलिनः । बर्हिणः ॥ । हृदयाच्चालुरन्यतरस्याम् ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ । शीतोष्णतृप्रेभ्यस्तदसहने (वा) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ । हिमाच्चेलुः ॥ हिमं न सहते हिमेलुः ॥ ।

बलादूलः ॥ वलं न सहते बलूलः ॥ । वातात्समूहे च (वा) ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ । तप्पर्वमरुद्भ्याम् ॥ पर्वतः । मरुत्तः ॥

  • (1929) ऊर्णाया युस् <5-2-123>
सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः--1946इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥
  • (1930) वाचो ग्मिनिः <5-2-124>
वाग्ग्मी ॥
  • (1931) आलजाटचौ बहुभाषिणि <5-2-125>
। कुत्सित इति वक्तव्यम् ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
  • (1932) स्वामिन्नेश्वर्ये <5-2-126>
ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥
  • (1933) अर्शआदिभ्योऽच् <5-2-127>
अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥
  • (1934) द्वन्द्वोपतापगर्ह्यात्प्रात्प्राणिस्थादिनिः <5-2-128>
द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः ॥ । प्राण्यङ्गान्न ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥
  • (1935) वातातीसाराभ्यां कुक्च <5-2-129>
चादिनिः । वतकी । अतीसारकी ॥ । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ॥ । पिशाचाच्च (वा) ॥ पिशाचकी ॥
  • (1936) वयसि पूरणात् <5-2-130>
पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥
  • (1937) सुखादिभ्यश्च <5-2-131>
इनिर्मत्वर्थे । सुखी । दुःखी ॥ (ग) मालाक्षेपे ॥ माली ॥
  • (1938) धर्मशीलवर्णान्ताच्च <5-2-132>
धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥
  • (1939) हस्ताज्जातौ <5-2-133>
हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥
  • (1940) वर्णाद्ब्रह्मचारिणि <5-2-134>
वर्णी ॥
  • (1941) पुष्कारादिभ्यो देशे <5-2-135>
पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ॥ । बाहूरुपूर्वपदाद्बलात् ॥ बाहुबली । ऊरुबली ॥ । अर्थाच्चासंनिहिते (वा) ॥ अर्थी । संनिहिते तु अर्थवान् ॥ । तदन्ताच्च (वा) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥
  • (1942) बलादिभ्यो मतुबन्यतरस्याम् <5-2-136>
बलवान् बली । उत्साहवान् । उत्साही ॥
  • (1943) संज्ञायां मन्माभ्याम् <5-2-137>
मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥
  • (1944) कंशंभ्यां बभयुस्तितुतयसः <5-2-138>
कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य

वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥

  • (1945) तुन्दिवलिवटेर्भः <5-2-139>
वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥
  • (1946) अहंशुभमोर्युस् <5-2-140>
अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥
इति तद्धिताधिकारे मत्वर्थीयप्रकरणम्‌

तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌[सम्पाद्यताम्]

  • (1947) प्राद्गिशो विभक्तिः <5-3-1>
दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिका प्रत्ययाः । समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥
  • (1948) किंसर्वनामबहुभ्योऽद्व्यादिभ्यः <5-3-2>
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥
  • (1949) इदम् इश् <5-3-3>
प्राद्गिशीये परे ॥
  • (1950) एतेतौ रथोः <5-3-4>
इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राद्गिशीये परे । इशोऽपवादः ॥
  • (1951) एतदोऽन् <5-3-5>
योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । अन् एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । नलोपः प्रातिपदिकान्तस्य 236 ॥
  • (1952) सर्वस्य सोऽन्यतरस्यां दि <5-3-6>
प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥
  • (1953) पञ्चम्यास्तसिल् <5-3-7>
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥
किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ॥
  • (1956) पर्यभिभ्यां च <5-3-1>
आभ्यां तसिल् स्यात् ॥ । सर्वोभयार्थाभ्यामेव ॥ परितः । सर्वत इत्यर्थः । अभतः । उभयत इत्यर्थः ॥
  • (1957) सप्तम्यास्त्रल् <5-3-10>
कुत्र । यत्र । तत्र । बहुत्र ॥
त्रलोऽपवादः इशादेशः । इह ॥
वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥
किमः क्वादेशः स्यादति । क्व । कुत्र ॥
  • (1961) वा ह च च्छन्दसि <5-3-13>
कुह स्थः कुह जग्मथुः ॥
  • (1962) एतदस्त्रतसोस्त्रतसौ चानुदात्तौ <2-4-33>
अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥
  • (1963) इतराभ्योऽपि दृश्यन्ते <5-3-14>
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ । दृशिग्रहणाद्भवदादियोग एव ॥ सभवान् । ततोभवान् । तत्रभवान् । तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥
  • (1964) सर्वैकाल्यकिंयत्तद काले दा <5-3-15>
सप्तम्यन्तेभ्य एभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा काले किम् । सर्वत्र देशे ॥
  • (1965) इदमोर्हिल् <5-3-16>
सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥
इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । यस्य 311 इति लोपः । अधुना ॥
इदानीम् ॥
तदा । तदानीम् ॥ तदो दावचनमनर्थकं विहितत्वात् ॥
  • (1969) अनद्यतनेर्हिलन्यतरस्याम् <5-3-21>
कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥
  • (1970) सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः <5-3-22>
एते निपात्यन्ते ॥ । समानस्य सभावो द्यश्चाहनि ॥ समानेऽहनि सद्यः ॥ । पूर्वपूर्वतरयोः पर उदारीच संवत्सरे ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ । इदम इश् समसण् प्रत्यश्च संवत्सरे (वा) ॥ अस्मिन्संवत्सरे ऐषमः ॥ । परस्मादेद्यव्यहनि (वा) ॥ परस्मिन्नहनि परेद्यवि ॥ इदमोऽश्द्यश्च ॥ अस्निन्नहनि अद्य ॥ । पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः ॥ । द्युश्चोभयाद्वक्तव्यः ॥ उभयद्युः ॥
  • (1971) प्रकारवचने थाल् <5-3-23>
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥
  • (1972) इदमस्थमुः <5-3-24>
थालोऽपवादः ॥ । एतदोऽपि वाच्यः ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥
केन प्रकारेण कथम् ॥
इति तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌