सिद्धान्तकौमुदी/प्रकरण‌२१-३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

एकशेषप्रकरणम्‌[सम्पाद्यताम्]

  • (931) वृद्धो यूना तल्लक्षणश्चेदेव विशेषः <1-2-65>
यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्यमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गगार्ग्यौ । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्गवात्स्यायनौ ॥
  • (932) स्त्री पुंवच्च <1-2-66>
यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने यञञोश्च 1108 इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥
  • (933) पुमान् स्त्रिया <1-2-67>
स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥
  • (934) भ्रातृपुत्रौ स्वसृदुहितृभ्याम् <1-2-68>
भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥
  • (935) नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् <1-2-69>
अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥
  • (936) पिता मात्रा <1-2-70>
मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥
  • (937) श्वशुरः श्वश्वा <1-2-71>
श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥
  • (938) त्यदादीनि सर्वैर्नित्यम् <1-2-72>
सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ॥ । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ ॥ । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ । अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥
  • (939) ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री <1-2-73>
एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया 933 इत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ॥ । अनेकशफेष्विति वाच्यम् ॥ अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥
इति एकशेषसमासप्रकरणम्‌

सर्वसमासशेषप्रकरणम्‌[सम्पाद्यताम्]

कृत्तद्धितसमासैकशेषसनाद्यधातुरूपाः पञ्च वृत्तयः । 'परारार्थाभिधानं वृत्तिः' । 'वृत्त्यर्थावबोधकं वाक्यः विग्रहः' स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुर्लौकिकः । प्रयोगानार्होऽसाधुरलौकिकः । यथा राज्ञः पुरुषः । राजन्‌ अस्‌ पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा । समासश्चतुर्धेति प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानमपि सह सुपा (649) इति विधानात्‌ । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः । 'सूपप्रति' 'उन्मत्तगङ्गम्‌' इत्याद्यव्ययीभावे 'अतिमालादौ' तत्पुरुषे, 'द्वित्राः' इत्यादिबहुव्रीहौ, 'दनोष्ठम्‌' इत्यादिद्वन्द्वे चाभावात्‌ । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम्‌ । किं च ।
सुपां सुपा गिङा नाम्ना धातुनाथ तिङां तिङा ।
सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥
सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत्‌ । नाम्ना, कुम्भकारः । धातुना, कटप्रूः । अजस्रम्‌ । तिङां तिङा, पिबतखादता । खादतमोदता । तिङां सुपा । कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । 'एहीडादयोऽन्यपदार्थे च' इति मयूरव्यंसकादौ पाठात्समासः ।
इति सवसमासशेषप्रकरणम्‌

सर्वसमासान्तप्रकरणम्‌[सम्पाद्यताम्]

  • (940) ऋक्पूरब्धूः पथामानक्षे <5-4-74>
अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्योऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह - अनुक्साम । बह्वृक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥
  • (941) द्व्यन्तरुपसर्गेभ्योऽप ईत् <6-3-97>
अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी ॥ । अवर्णान्ताद्वा ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥
  • (942) ऊदनोर्देशे <6-3-98>
अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः । सखिपथः । रम्यपथो देशः ॥
  • (943) अच् प्रत्यन्ववपूर्वात्सामलोम्नः <5-4-75>
एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् ॥ । कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते ॥ कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः ॥ । संख्याया नदीगोदावरीभ्यां च ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥
  • (944) अक्ष्णोऽदर्शनात् <5-4-76>
अचक्षुः पर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥
  • (945) अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्ननसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः <5-4-77>
एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः ॥ । त्र्युपाभ्यां चतुरोऽजिष्यत ॥ त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादा द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगावम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा वा नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥
  • (946) ब्रह्महस्तिभ्यां वर्चसः <5-4-78>
अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ । पल्यराजभ्यां चेति वक्तव्यम् ॥ पल्यवर्चसम् । राजवर्चसम् ॥
  • (947) अवसमन्धेभ्यस्तमसः <5-4-79>
अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥
  • (948) श्वसोवसीयश्श्रेयसः <5-4-80>
वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥
  • (949) अन्ववतप्ताद्रहसः <5-4-81>
अनुरहसम् । अवरहसम् । तप्तरहसम् ॥
  • (950) प्रतेरुरसः सप्तमीस्थात् <5-4-82>
उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥
  • (951) अनुगवमायामे <5-4-83>
एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायामः 670 इति समासः ॥
  • (952) द्विस्तावा त्रिस्तावा वेदिः <5-4-84>
अच्प्रत्यष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥
  • (953) उपसर्गादध्वनः <5-4-85>
प्रगतोऽध्वानं प्राध्वो रथः ॥
  • (954) न पूजनात् <5-4-69>
पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । स्वातिभ्यामेव ॥ नेह परमराजः । पूजनात् किम् । गामतिक्रन्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोः - 852 इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः ॥
  • (955) किमः क्षेपे <5-4-70>
क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ताः न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥
  • (956) नञस्तत्पुरुषात् <5-4-71>
समासान्तो न । अराजा । असखा । तत्पुरुषात् किम् । धुरं शकटम् ॥
  • (957) पथो विभाषा <5-4-72>
नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥
इति सर्वसमासान्तप्रकरणम्‌

अलुगुसमासप्रकरणम्‌[सम्पाद्यताम्]

  • (958) अलुगुत्तरपदे <6-3-1>
अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥
  • (959) पञ्चम्याः स्तोकादिभ्यः <6-3-2>
एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥
  • (960) ओजः सहोऽम्भस्तमसस्तृतीयायाः <6-3-3>
ओजसाकृतमित्यादि ॥ । अञ्जस उपसंख्यानम् ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ॥ । पुंसानुजो जनुषान्ध इति च ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥
  • (961) मनसः संज्ञायाम् <6-3-4>
मनसागुप्ता ॥
  • (962) आज्ञायिनि च <6-3-5>
मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥
  • (963) आत्मनश्च <6-3-6>
आत्मनस्तृतीयाया अलुक्स्यात् ॥ पूरण इति वक्तव्यम् ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥
  • (964) वैयाकरणाख्यायां चतुर्थ्याः <6-3-7>
आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थेषा । चतुर्थीति योगविभागात्समासः ॥
परस्मैपदम् । परस्मैभाषाः ॥
  • (966) हलदन्तात्सप्तम्याः संज्ञायाम् <6-3-9>
हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥
  • (967) गवियुधिभ्यां स्थिरः <8-3-95>
आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायाम् 721इति सप्तमीसमासः ॥ । हृद्द्युभ्यां च ॥ हृदिस्पृक् । दिविस्पृक् ॥
  • (968) कारनाम्नि च प्राचां हलादौ <6-3-10>
प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥
  • (969) मध्याद्गुरौ <6-3-11>
मध्येगुरुः ॥ । अन्ताच्च ॥ अन्तेगुरुः ॥
  • (970) अमूर्धमस्तकात्स्वाङ्गादकामे <6-3-12>
कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥
  • (971) बन्धे च विभाषा <6-3-13>
हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥
  • (972) तत्पुरुषे कृति बहुलम् <6-3-14>
स्तम्बेरमः । कर्णेजपः । क्वचिन्न । कुरुचरः ॥
  • (973) प्रावृट्शरत्कालदिवां जे <6-3-15>
प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥
  • (974) विभाषा वर्षक्षरशरवरात् <6-3-16>
एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥
  • (975) घकालतनेषु कालनाम्नः <6-3-17>
सप्तम्या विभाषाऽलुक् स्यात् । घे । पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे । पूर्वाह्णतमे । काले । पूर्वाह्णेकाले । पूर्वाह्णकाले । तने । पूर्वाह्णेतने । पूर्वाह्णतने ॥
  • (976) शयवासवासिष्वकालात् <6-3-18>
खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः ॥ । अपो योनियन्मतुषु ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥
  • (977) नेन्सिद्धबध्नातिषु च <6-3-19>
इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥
  • (978) स्थे च भाषायाम् <6-3-20>
सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥
  • (979) षष्ठ्या आक्रोशे <6-3-21>
चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ॥ । वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ । आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ॥ । देवानांप्रिय इति च मूर्खे ॥ अन्यत्र देवप्रियः ॥ । शेपपुच्छलाङ्गलेषु शुनः ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः ॥ दिवसश्च दासे ॥ दिवोदासः ॥
  • (980) पुत्रेऽन्यतरस्याम् <6-3-22>
षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥
  • (981) ऋतो विद्यायोनिसम्बन्धेभ्यः <6-3-23>
विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ॥ । विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् ॥ नेह । होतृधनम् ॥
  • (982) विभाषा स्वसृपत्योः <6-3-24>
ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥
  • (983) मातुः पितुर्भ्यामन्यतरस्याम् <8-3-85>
आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥
  • (984) मातृपितृभ्यां स्वसा <8-3-84>
आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥
इति अलुक्समासप्रकरणम्‌

समासाश्रयविधिप्रकरणम्‌[सम्पाद्यताम्]

  • (985) घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः <6-3-43>
भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः कुत्सितानि कुत्सनैः 732 इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥
  • (986) नद्याः शेषस्यान्यतरस्याम् <6-3-44>
अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ । कृन्नद्या न ॥ लक्ष्मीतरा ॥
उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । वादुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- 836 इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥
  • (988) हृदयस्य हृल्लेखयदण्लासेषु <6-3-50>
हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं ह्रद्यम् । हृदयस्येदं हार्दम् । ह्रल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु ह्रदयलेखः । लेखग्रहणमेव ज्ञापकम् (प) उत्तरपदाधिकारे तदन्तविधिर्नास्तीति ॥
  • (989) वा शोकष्यञ्रोगेषु <6-3-51>
ह्रच्छोकः । ह्रदशोकः । सौहार्द्यम् । सौहृदय्यम् । ह्रद्रोगः । ह्रदयरोगः । ह्रदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥
  • (990) पादस्य पदाज्यातिगोपहतेषु <6-3-52>
एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च 570 इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥
  • (991) पद्यत्यतदर्थे <6-3-53>
पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च 1093 इति यत् ॥ इके चरतावुपसंख्यानम् ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥
  • (992) हिमकाषिहतिषु च <6-3-54>
पद्धिमम् । पत्काषी । पद्धतिः ॥
ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥
  • (994) वा घोषमिश्रशब्देषु <6-3-56>
पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ । निष्के चेति वाच्यम् ॥ पन्निष्कः । पादनिष्कः ॥
  • (995) उदकस्योदः संज्ञायाम् <6-3-57>
उदमेघः ॥ । उत्तरपदस्य चेति वक्तव्यम् ॥ क्षीरोदः ॥
  • (996) पेषंवासवाहनधिषु च <6-3-58>
उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥
  • (997) एकहलादौ पुरयितव्येऽन्यतरस्याम् <6-3-59>
उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥
  • (998) मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च <6-3-60>
उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥
  • (999) इको ह्रस्वोऽङ्यो गालवस्य <6-3-61>
इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ॥ । इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ॥ । अभ्रुकुंसादीनामिति वक्तव्यम् ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥
  • (1000) एक तद्धिते च <6-3-62>
एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ॥
  • (1001) ङ्यापोः संज्ञाछन्दसोर्बहुलम् <6-3-63>
रेवतिपुत्रः । अजक्षीरम् ॥
त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥
  • (1003) ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे <6-1-13>
ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥
  • (1004) सम्प्रसारणस्य <6-3-139>
सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । (प) स्त्रीप्रत्यये चानुपसर्जनेन इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥
  • (1005) बन्धुनि बहुव्रीहौ <6-1-14>
बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ॥ । मातज्मातृकमातृषु वा ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च 833 इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥
  • (1006) इष्टकेषीकामालानां चिततूलभारिषु <6-3-65>
इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥
  • (1007) कारेसत्यागदस्य <6-3-70>
मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः ॥ । अस्तोश्चेति वक्तव्यम् ॥ अस्तुङ्कारः ॥ । धेनोर्भव्यायाम् ॥ धेनुम्भव्या ॥ । लोकस्य पृणे ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः ॥ । इत्येऽनभ्याशस्य ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः ॥ । भ्राष्ट्राग्न्योरिन्धे ॥ भ्राष्टमिन्धः । अग्निमिन्धः ॥ । गिलेऽगिलस्य ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ॥ । गिलगिले च ॥ तिमिङ्गिलगिलः ॥ । उष्णभद्रयोः करणे ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥
  • (1008) रात्रेः कृति विभाषा <6-3-72>
रीत्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषत्- 2942 इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥
  • (1009) सहस्य सः संज्ञायाम् <6-3-78>
उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥
  • (1010) ग्रन्थान्ताधिके च <6-3-79>
अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥
  • (1011) द्वितीये चानुपाख्ये <6-3-80>
अनुमेये द्वितीये सहस्य सः स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥
  • (1012) समानस्य च्छन्दस्यमूर्धप्रभृत्यदर्केषु <6-3-84>
समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र भव इत्यर्थे सगर्भसयूथसनुताद्यत् 3401 अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥
  • (1013) ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु <6-3-85>
एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥
  • (1014) चरणे ब्रह्मचारिणि <6-3-86>
ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदध्ययनार्थं व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानः सः सब्रह्मचारी ॥
  • (1015) तीर्थे ये <6-3-87>
तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः, एकगुरुकः । समानतीर्थेवासी 1658 इति यप्रत्ययः ॥
  • (1016) विभाषोदरे <6-3-88>
यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥
  • (1017) दृग्दृशवतुषु <6-3-89>
सदृक् । सदृशः ॥ । दृक्षे चेति वक्तव्यम् ॥ सदृक्षः । वतुरुत्तरार्थः ॥
  • (1018) इदंकिमोरीश्की <6-3-90>
दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते ॥ । दृक्षे च ॥ ईदृक्षः । कीदृक्षः । आ सर्वनाम्नः 430 ॥ । दृक्षे च ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥
  • (1019) समासेऽङ्गुलेः सङ्गः <8-3-80>
अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥
  • (1020) भीरोः स्थानम् <8-3-81>
भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥
  • (1021) ज्योतिरायुषः स्तोमः <8-3-83>
आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥
  • (1022) सुषामादिषु च <8-3-98>
सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ।
  • (1023) एतिसंज्ञायामगात् <8-3-99>
सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥
  • (1024) नक्षत्राद्वा <8-3-100>
एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥
  • (1025) अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु <6-3-99>
अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्यान्येन वाशीः अन्याशीः ॥ । कारके छे च नायं निषेधः ॥ अन्यस्य कारकः,अन्यत्कारः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ॥
  • (1026) अर्थे विभाषा <6-3-100>
अन्यदर्थः । अन्यार्थः ॥
  • (1027) कोः कत्तत्पुरुषेऽचि <6-3-101>
अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ । त्रौ च ॥ कुत्सितास्त्रयः कत्त्रयः ॥
कद्रथः । कद्वदः ॥
  • (1029) तृणे च जातौ <6-3-103>
कत्तृणम् ॥
  • (1030) का पथ्यक्षयोः <6-3-104>
कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥
ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥
  • (1032) विभाषा पुरुषे <6-3-106>
कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥
  • (1033) कवं चोष्णे <6-3-107>
उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥
  • (1034) पृषोदरादीनि यथोपदिष्टम् <6-3-109>
पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥ । दिक्छब्देभ्यस्तीरस्य तारभावो वा ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् ॥ । दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्च 2898 इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः, सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥
  • (1035) संहितायाम् <6-3-114>
अधिकारोऽयम् ॥
  • (1036) कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य <6-3-115>
कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥
  • (1037) नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ <6-3-116>
क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । विभाषा पुरुषे 1032 इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥
  • (1038) वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् <6-3-117>
कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥
  • (1039) वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः <8-4-4>
वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥
वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥
  • (1041) मतौ बह्वचोऽनजिरादीनाम् <6-3-119>
अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥
  • (1042) शरादीनां च <6-3-120>
शरावती ॥
  • (1043) इको वहेऽपीलोः <6-3-121>
इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् ॥ । अपील्वादीनामिति वाच्यम् ॥ दारुवहम् ॥
  • (1044) उपसर्गस्य घञ्यमनुष्ये बहुलम् <6-3-122>
उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥
इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥
  • (1046) अष्टनः संज्ञायाम् <6-3-125>
उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥
एकचितीकः ॥
  • (1048) नरे संज्ञायाम् <6-3-129>
विश्वानरः ॥
  • (1049) मित्रे चर्षौ <6-3-130>
विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ॥ । शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः ॥ श्वादन्तः इत्यादि ॥
  • (1050) प्रनिरन्तः शरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि <8-4-5>
एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥
  • (1051) विभाषौषधिवनस्पतिभ्यः <8-4-6>
एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ॥ । द्व्यच्त्र्यज्भ्यामेव ॥ नेह । देवदारुवनम् ॥ । इरिकादिभ्यः प्रतिषेधो वक्तव्यः ॥ इरिकावनम् । मिरिकावनम् ॥
  • (1052) वाहनमाहितात् <8-4-8>
आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥
  • (1053) पानं देशे <8-4-9>
पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥
  • (1054) वा भावकरणयोः <8-4-10>
पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ॥ । गिरिनद्यादीनां वा ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा ।

चक्रनितम्बा ॥

  • (1055) प्रातिपदिकान्तनुम्विभक्तिषु च <8-4-11>
पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ॥ । उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् ॥ नेह । गर्गाणां भगिनी गर्गभगिनी । अतएव नुम्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुभ्नादित्वान्न ॥ । युवादेर्न ॥ रम्ययूना । परिपक्वानि । एकाजुत्तरपदे णः 307 । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥
कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥
  • (1057) पदव्यवायेऽपि <8-4-38>
पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ॥ । अतद्धित इति वाच्यम् ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥
  • (1058) कुस्तुम्बुरूणि जातिः <6-1-143>
अत्र सुण्निपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥
  • (1059) अपरस्पराः क्रियासातत्ये <6-1-144>
सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥
  • (1060) गोष्पदं सेवितासेवितप्रमाणेषु <6-1-145>
सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥
  • (1061) आस्पदं प्रतिष्ठायाम् <6-1-146>
आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥
  • (1062) आश्चर्यमनित्ये <6-1-147>
अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्मं शोभनम् ॥
  • (1063) वर्चस्केऽवस्करः <6-1-148>
कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥
  • (1064) अपस्करो रथाङ्गम् <6-1-149>
अपकरोऽन्यः ॥
  • (1065) विष्किरः शकुनौ वा <6-1-150>
पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥
  • (1066) प्रतिष्कशश्च कशेः <6-1-152>
कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥
  • (1067) प्रस्कण्वहरिश्चन्द्रावृषी <6-1-153>
हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥
  • (1068) मस्करमस्करिणौ वेणुपरिव्राजकयोः <6-1-154>
मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥
  • (1069) कास्तीराजस्तुन्दे नगरे <6-1-155>
ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥
  • (1070) कारस्करो वृक्षः <6-1-156>
कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥
  • (1071) पारस्करप्रभृतीनि च संज्ञायाम् <6-1-157>
एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा ॥ ग. तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । ग. प्रायस्य चित्तिचित्तयोः ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥
इति समासाश्रयविधिप्रकरणम्‌

तद्धिताधिकारप्रकरणे अपत्यादिविकारान्तार्थसाधारणप्रत्ययाः[सम्पाद्यताम्]

  • (1072) समर्थानां प्रथमाद्वा <4-1-82>
इदं पदत्रयमधिक्रियते । प्राद्गिश- इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसंधिकार्यत्वमिति यावत् ॥
  • (1073) प्राद्गीव्यतोऽण् <4-1-83>
तेन दीव्यति (सू1550) इत्यतः प्रागणधिक्रियते ॥
  • (1074) अश्वपत्यादिभ्यश्च <4-1-84>
एभ्योण् स्यात् प्राद्गीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्याऽपवादः ॥
  • (1075) तद्धितेष्वचामादेः <7-2-117>
ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥
किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥
  • (1077) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः <4-1-85>
दित्यादिभ्यः पत्युत्तरपदाच्च प्राद्गीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः ॥ दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाच्चेदि काशिकायाम् ॥ याम्यः ॥ । पृथिव्या ञाञौ (वा) ॥ पार्थिवा । पार्थिवी ॥ । देवाद्यञञौ (वा) ॥ दैव्यम् । दैवम् ॥ बहिषष्टिलोपो यञ्च (वा) ॥ बाह्यः ॥ । ईकक्च (वा) ॥ बाहीकः ॥ स्थाम्नोऽकारः (वा) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ । भवार्थे तु लुग्वक्तव्यः (वा) ॥ अश्वत्थामा ॥ । लोम्नोऽपत्येषु बहुष्वकारः (वा) ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ? औडुलोमिः ॥ । गोरजादिप्रसङ्गे यत् (वा) ॥ गव्यम् । अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥
  • (1078) उत्सादिभ्योऽञ् <4-1-86>
औत्सः ॥ । अग्निकलिभ्यां ढक् वक्तव्यः (वा) ॥ अग्नेरपत्यादि आग्नेयम् । कालेयम् ॥
इति तद्धिकाधिकारप्रकरणे अपत्यादिविकारान्तार्थसाधारणप्रत्ययाः

तद्धिताधिकारे अपत्याधिकारप्रकरणम्‌[सम्पाद्यताम्]

  • (1079) स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् <4-1-87>
धान्यानां भवने (सू1802) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रामान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न,स्त्री पुंवच्च (सू932) इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥
  • (1080) द्विगोर्लुगनपत्ये <4-1-88>
द्विगोर्निमित्तं यस्तद्धितोऽजीदिरनपत्यार्थः प्राद्गीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तम्इति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥
  • (1081) गोत्रेऽलुगचि <4-1-89>
अजादौ प्राद्गीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक् स्यात् । गर्गाणां छात्राः । ृद्धाच्छः (सू1337) ॥
  • (1082) आपत्यस्य च तद्धितेऽनाति <6-4-151>
हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राद्गीव्यतीये किम् ? गर्गेभ्यो हितं गार्गीयम् । अचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् ॥
  • (1083) यूनि लुक् <4-1-90>
प्राद्गीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः,वक्ष्यमाणः फिन्,ततो यून्यण्,ग्लौचुकायनः । तस्य ??छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥
  • (1084) पैलादिभ्यश्च <2-4-59>
एभ्यो युवप्रत्ययस्य लुक् । पीलाया वा-(सू1121) इत्यण्,तस्मात् अणो द्व्यचः (सू1180) इति फिञ्,तस्य लुक् । पैलः पिता पुत्रश्च । (ग) तद्राजाच्चाणः । द्व्यञ्मगध-(सू1188)इत्यण्णन्तादाङ्गशब्दात् अणो

द्व्यचः-(सू1180) इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥

  • (1085) इञः प्राचाम् <2-4-60>
गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्, तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । अत इञ् (सू1095),ञञिञोश्च-(सू1103) इति फक् । ???? तस्य लुक्?? । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥
  • (1086) न तौल्वादिभ्यः <2-4-61>
तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्,तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥
  • (1087) फक्फिञोरन्यतरस्याम् <4-1-91>
यूनि लुक्-(सू1083) इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः,शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्व्यचः-(सू1180) इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥
  • (1088) तस्यापत्यम् <4-1-92>
षष्ठ्यन्तात्कृतसन्धेः ??समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥

दस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धाऽन्यस्य प्रयोजनम् ॥(श्लो.वा.)

योगविभागस्तु भानोरपत्यं भानवः । कृतसन्धेःकिम् ? सौत्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिःमाभूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् ? अपत्यवाचकात् षष्ठ्यर्थे माभूत् । वाग्रहणाद्वाक्यमपि । दैवयज्ञि--(सू1209) इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवा । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥
  • (1089) अपत्यं पौत्रप्रभृति गोत्रम् <4-1-162>
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
  • (1090) जीवति तु वंश्ये युवा <4-1-163>
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥
  • (1091) भ्रातरि च ज्यायसि <4-1-164>
ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥
  • (1092) वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति <4-1-165>
भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवतिःथ्द्य;ति किम् ? मृते मृतो वा गार्ग्य एव ॥ । वृद्धस्य च पूजायामिति वाच्यम्‌ (वा) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम्‌ । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम्‌ । तत्र भवान्गार्ग्यायणः । पूजा- इति किम्‌ । गार्ग्यः ॥ यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् (वा) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् । गार्ग्यायणः ॥
  • (1093) एको गोत्रे <4-1-93>
गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥

गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वाद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥1 ॥

अपत्यं पितुरेव स्यात्ततः प्राचामपीति च ।
मतभेदेन तद्धान्यैसूत्रमेतत्तथोत्तरम् ॥2 ॥

पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्, चतुर्थे फक् इति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यमम् ॥

  • (1094) गोत्राद्यून्यस्त्रियाम् <4-1-94>
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥
अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥
  • (1096) बाह्वादिभ्यश्च <4-1-96>
बाहविः । औडुलोमिः । आकृतिगणोऽयम् ॥
  • (1097) सुधातुरकङ् च <4-1-97>
चादिञ् । सुधातुरपत्यं सौधातकिः ॥ । व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् (वा) ॥
  • (1098) न य्वाभ्यां पदान्ताभ्यां पूर्वो तु ताभ्यामैच् <7-3-3>
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥
  • (1099) गोत्रे कुञ्जादिभ्यश्चफञ् <4-1-98>
  • (1100) व्रातच्फञोरस्त्रियाम् <5-3-113>
व्रातवाचिभ्यश्चफञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये-कौञ्जिः ।
  • (1101) नडादिभ्यः फञ् <4-1-99>
गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥
  • (1102) हरितादिभ्योऽञः <4-1-100>
एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥
गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । अनाति इत्युक्तेः आपत्यस्य-(सू1082)इति यलोपो न,गार्ग्यायणः । दाक्षायणः ॥
  • (1104) शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु <4-1-102>
गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्नायणश्चेत् । दार्भिरन्यः ॥
  • (1105) द्रोणपर्वतजीवन्तादन्यतरस्याम् <4-1-103>
एभ्यो गोत्रे फग्वा । द्रौणायनः-द्रौणिः । पार्वतायनः-पार्वतिः । जैवन्तायनः-जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।
  • (1106) अनृष्यानन्तर्ये बिदादिभ्योऽञ् <4-1-104>
एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥
  • (1107) गर्गादिभ्यो यञ् <4-1-105>
गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः ।

तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् ? द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥

  • (1109) मधुबभ्र्वोर्बाह्मणकौशिकयोः <4-1-106>
गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥
  • (1110) कपिबोधदाङ्गिरसे <4-1-107>
गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः ॥
आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥
  • (1112) लुक् स्त्रियाम् <4-1-109>
वतण्डाच्च-(सू1111) इति विहितस्य लुक् स्यात् स्त्रियाम् । शाङ्र्गरवादित्वान् ङीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥
  • (1113) अश्वादिभ्यः फञ् <4-1-110>
गोत्रे । आश्वायनः ॥ (ग) पुंसि जाते ॥ पुंसीति तु प्रक़ृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसिःथ्द्य;ति किम् ? जाताया अपत्यं जातेयः ॥
  • (1114) भर्गात्त्रैगर्ते <4-1-111>
गोत्रे फ़ञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥
  • (1115) शिवादिभ्योऽण् <4-1-112>
गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥
  • (1116) अवृद्वाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः <4-1-113>
अवृद्धेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदीःथ्द्य;त्यादि किम् ? वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शोभनेयः ॥
  • (1117) ऋष्यन्धकवृष्णिकुरुभ्यश्च <4-1-114>
ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः,श्वाफल्कः । वृष्णिभ्यः,वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः,नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥
  • (1118) मातुरुत्संख्यासंभद्रपूर्वायाः <4-1-115>
संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥
  • (1119) कन्यायाः कनीन च <4-1-116>
ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥
  • (1120) विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु <4-1-117>
अपत्येऽण्?? तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥
तन्नामिकाणां बाधित्वाद्व्यच-(सू1124) इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥
  • (1122) ढक् च मण्डूकात् <4-1-119>
चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥
  • (1123) स्त्रीभ्यो ढक् <4-1-120>
स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः ।??
द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थः इत्यत्र तु तस्येदम् (सू1500) इत्यण् ॥
  • (1125) इतश्चानिञः <4-1-122>
इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥
  • (1126) शुभ्रादिभ्यश्च <4-1-123>
ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥
  • (1127) विकर्णकुषीतकात्काश्यपे <4-1-124>
अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः ॥
  • (1128) भ्रुवो वुक् च <4-1-125>
चाड्ढक् । भ्रौवेयः ॥
  • (1129) प्रवाहणस्य ढे <7-3-28>
प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥
  • (1130) तत्प्रत्ययस्य च <7-3-29>
ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥
  • (1131) कल्याम्यादीनामिनङ् <4-1-126>
एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥
  • (1132) कुलटाया वा <4-1-127>
इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः - कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः क्षुद्राभ्यो वा (सू1137) इति पक्षे ढ्रक् । कौलटेरः ॥
  • (1133) ह्रद्भगसिन्ध्वन्ते पूर्वपदस्य च <7-3-19>
ह्रदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च । सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥
  • (1134) चटकाया ऐरक् <4-1-128>
चटकस्येति वाच्यम् (वा) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ । स्त्रियामपत्ये लुग्वक्तव्यः (वा) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥
  • (1135) गोधाया ढक् <4-1-129>
गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥
  • (1136) आरगुदीचाम् <4-1-130>
गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥
  • (1137) क्षुद्राभ्यो वा <4-1-131>
अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥
  • (1138) पितृष्वसुश्छण् <4-1-132>
अणोऽपवादः । पैतृष्वस्त्रीयः ॥
पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥
  • (1140) मातृष्वसुश्च <4-1-134>
पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥
  • (1141) चतुष्पाद्भ्यो ढञ् <4-1-135>
  • (1142) ढे लोपोऽकद्रवाः <6-4-147>
कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥
  • (1143) गृष्ट्यादिभ्यश्च <4-1-136>
एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥
  • (1144) केकयमित्रयुप्रलयानां यादेरियः <7-3-2>
एषां यकारादेरियादेशः स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥
  • (1145) दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि <6-4-174>
एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ ॥
  • (1146) यस्कादिभ्यो गोत्रे <2-4-63>
एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्क़ृते बहुत्वे । न तु स्त्रियाम् । मित्रयवः ॥
  • (1147) अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च <2-4-65>
एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥
  • (1148) बह्वश्च इञः प्राच्यभरतेषु <2-4-66>
बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः ॥
  • (1149) न गोपवनदिभ्यः <2-4-67>
एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥
  • (1150) तिककितवादिभ्यो द्वन्द्वे <2-4-68>
एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।तिकादिभ्यः फिञ्-(सू1178) । तस्य लुक् । तिककितवाः ॥
  • (1151) उपकादिभ्योऽन्यतरस्यामद्वन्द्वे <2-4-69>
एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च । नडादिभ्यः फक् (सू1101) । तस्यलुक् । उपकलमकाः - औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । उपकाः - औपकाः । लमकाः - लामकाः ॥
  • (1152) आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् <2-4-70>
एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥
  • (1153) राजश्वशुराद्यत् <4-1-137>
राज्ञो जातावेवेति वाच्यम् (वा) ॥
  • (1154) ये चाभावकर्मणोः <6-4-138>
यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥
अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥
  • (1156) संयोगादिश्च <6-4-166>
इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥
  • (1157) न पूर्वोऽपत्येऽवर्मणः <6-4-170>
मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा

परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ॥ । वा हितनाम्न इति वाच्यम् (वा) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥

  • (1158) ब्राह्मोऽजातौ <6-4-171>
योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥
  • (1159) औक्षमनपत्ये <6-4-173>
अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥
  • (1160) षपूर्वहन्धृतराज्ञामणि <6-4-135>
षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ? ताक्षण्यः ॥
  • (1161) क्षत्राद्धः <4-1-138>
क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥
कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥
  • (1163) अपूर्वपदादन्यतरस्यां यड्ढकञौ <4-1-140>
कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥
  • (1164) महाकुलादञ्खञौ <4-1-141>
अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः - माहाकुलीनः - महाकुलीनः ॥
  • (1165) दुष्कुलाड्ढक् <4-1-142>
पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥
स्वस्त्रीयः ॥
  • (1167) भ्रातुर्व्यच्च <4-1-144>
चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥
  • (1168) व्यन्त्सपत्ने <4-1-145>
भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥
  • (1169) रेवत्यादिभ्यष्ठक् <4-1-146>
अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥
  • (1171) गोत्रास्त्रियाः कुत्सने ण च <4-1-147>
गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-(सू311) इति लोपः । आपत्यस्य-(सू1082) इति यलोपः ॥
  • (1172) वृद्धाट्ठक् सौवीरेषु बहुलम् <4-1-148>
सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥
फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो

ण्यक्षत्रिया-(सू1276) इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥

  • (1174) फाण्टाहृतिमिमताभ्यां णफिञौ <4-1-150>
सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाह्रतः - फाण्टाह्रतायनिः । मैमतः - मैमतायनिः ॥
  • (1175) कुर्वादिभ्यो ण्यः <4-1-151>
अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ (ग) सम्राजः क्षत्रिये ॥ साम्राज्यः । साम्राजोऽन्यः ॥
  • (1176) सेनान्तलक्षणकारिभ्यश्च <4-1-152>
एभ्यो ण्यः । एति संज्ञायाम्-(सू1023) इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥
हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः ॥ । तक्ष्णोऽण उपसंख्यानम् (वा) ॥ षपूर्व-(सू1160) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥
  • (1178) तिकादिभ्यः फिञ् <4-1-154>
तैकायनिः ॥
  • (1179) कौशल्यकार्मार्याभ्यां च <4-1-155>
अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं कौशल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ॥ । छागवृषयोरपि (वा) ॥ छाग्यायनिः । वार्ष्यायणिः ॥
  • (1180) अणो द्वयचः <4-1-156>
अपत्ये फिञ् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् ? दाक्षायणः । द्व्यचः किम् ? औपगविः ॥ त्यादादीनां फिञ्वा वाच्यः (वा) ॥ त्यादायनिः - त्यादः ॥
  • (1181) उदीचां वृद्धादगोत्रात् <4-1-157>
आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥
  • (1182) वाकिनादीनां कुक्च <4-1-158>
अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः - वाकिनिः ॥
  • (1183) पुत्रान्तादन्यतरस्याम् <4-1-159>
अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः- गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥
  • (1184) प्राचामवृद्धात्फिन्बहुलम् <4-1-160>
ग्लुचुकायनिः ॥
  • (1185) मनोर्जातावञ्यतौ षुक् च <4-1-161>
समुदायार्थो जातिः । मानुषः - मनुष्यः ॥
  • (1186) जनपदशब्दात्क्षत्रियादञ् <4-1-168>
जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायन-(सू1145) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥ क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् (वा) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः । ॥ पूरोरण्वक्तव्यः (वा) ॥ पौरवः ॥ । पाण्डोडर्‌यण् (वा) ॥ पाण्ड्यः ॥
  • (1187) साल्वेयगान्धारिभ्यां च <4-1-169>
आभ्यामपत्येऽञ् । वृद्धेत्-(सू1189) इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥
  • (1188) द्व्यञ्मगधकलिङ्गसूरमसादण् <4-1-170>
अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥
  • (1189) वृद्धेकोसलाजादाञ्यङ् <4-1-171>
वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥
  • (1190) कुरुनादिभ्यो ण्यः <4-1-172>
कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥
  • (1191) साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् <4-1-173>
साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥
  • (1192) ते तद्राजाः <4-1-194>
अञादय एतत्संज्ञाः स्युः ॥
  • (1193) तद्राजस्य बहुषु तेनैवास्त्रियाम् <2-4-62>
बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥
  • (1194) कम्बोजल्लुक् <4-1-195>
अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥ कम्बोजादिभ्य इति वक्तव्यम् (वा) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ-(सू1473) इत्यण् ॥
  • (1195) स्त्रियामवन्तिकुन्तिकुरुभ्यश्च <4-1-176>
तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ॥
तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौःथ्द्य;ति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥
  • (1197) न प्राच्यभर्गादियौधेयादिभ्यः <4-1-178>
एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां द्व्यचः-(सू1124) इति ढक् । ततः स्वार्थे पर्श्वादियौधेयादिभ्योऽणञौ-(सू2070) इत्यञ् । शाङ्र्गरवाद्यञ -(सू527) इति ङीन् । अतश्च-(सू1196) इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ॥
  • (1198) अणिञोरनार्षयोर्गुरुपोत्तमयोः प्यङ् गोत्रे <4-1-178>
त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्,गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ (प) निर्दिश्यमानस्यादेशा भवन्ति इत्यणिञोरेव । षङावितौ । यङश्चाप् -(सू528) कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥
  • (1199) गोत्रावयवात् <4-1-79>
गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या । भौणिक्या ॥
  • (1200) क्रौड्यादिभ्यश्च <4-1-70>
स्त्रियां ष्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । (ग)सूत युवत्याम् । सूत्या । (ग)भोज क्षत्रिये । भोज्या ॥
  • (1201) दैवयज्ञिशौचिवृक्षिसात्यमुग्निकाण्डेविद्धिभ्योऽन्यतरस्याम् <4-1-81>
एभ्यश्चतुर्भ्यः ष्यङ्वा । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्य-(सू520) इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि ॥
इति तद्धिताधिकारे अपत्याधिकारप्रकरणम्‌

तद्धिताधिकारे चातुरर्थिकप्रकरणम्‌[सम्पाद्यताम्]

  • (1202) तेन रक्तं रागात् <4-2-1>
रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ।
  • (1203) लाक्षारोचनाट्ठक् <4-2-2>
लाक्षिकः । रौचनिकः ॥ । शकलकर्दमाभ्यामुपसंख्यानम् (वा) ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ । नील्या अन् (वा) ॥ नील्या रक्तं नीलम् ॥ । पीतात्कन् (वा) ॥ पातकम् ॥ । हरिद्रामहारजनाभ्यामञ् (वा) ॥ हारिद्रम् । माहारजनम् ॥
  • (1204) नक्षत्रेण युक्तः कालः <4-2-3>
पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥
  • (1205) लुबविशेषे <4-2-4>
पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः-1225इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥
  • (1206) संज्ञायां श्रवणाश्वत्थाभ्याम् <4-2-5>
विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥
  • (1207) द्वन्द्वाच्छः <4-2-6>
नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥
  • (1208) दृष्टं साम <4-2-7>
तेनेत्येव । वसिष्ठेन दृष्टं साम ॥ । अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः (वा) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥
  • (1209) कलेर्ढक् <4-2-8>
कलिना दृष्टं कालेयं साम ॥
  • (1210) वामदेवाड्ड्याड्ड्यौ <4-2-9>
वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपोन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥1 ॥ इति भाष्यम् ॥
  • (1211) परिवृतो रथः <4-2-10>
वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥
  • (1212) पाण्डुकम्बलादिनिः <4-2-11>
पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥
  • (1213) द्वैपवैयाघ्रादञ् <4-2-12>
द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥
  • (1214) कौमारापूर्ववचने <4-2-13>
कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥
  • (1215) तत्रोद्धृतममत्रेभ्यः <4-2-14>
शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥
  • (1216) स्थण्डिलाच्छयितरि व्रते <4-2-15>
तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥
  • (1217) संस्कृतं भक्षाः <4-2-16>
सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्क़ृताभ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टकपालः पुरोडाशः ॥
  • (1218) शूलोखाद्यत् <4-2-17>
अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तस्यां संस्कृतं उख्यम् ॥
  • (1219) दध्नष्ठक् <4-2-18>
दध्नि संस्कृतं दाधिकम् ।
  • (1220) उदश्वितोऽन्यतरस्याम् <4-2-19>
ठक् स्यात्पक्षेऽण् ॥
  • (1221) इसुसुक्तान्तात्कः <7-3-51>
इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः । उषा चरति औषिकः । ॥ दोष उपसंख्यानम् (वा) ॥ दोर्भ्यां चरित दौष्कः ॥
  • (1222) क्षीराड्ढञ् <4-2-20>
अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥
  • (1223) सास्मिन्पौर्णमासीति <4-2-21>
इतिशब्दात्संज्ञायामिति लभ्यते । पौषी । पौर्णमासी अस्मिन् पौषो मासः ॥ ।
  • (1224) आग्रहायण्यश्वत्थाट्ठक् <4-2-22>
अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-857 इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आस्वत्थिकः ॥
  • (1225) विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः <4-2-23>
एभ्यष्ठग्वा । पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥
  • (1226) सास्य देवता <4-2-24>
इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देस्यविसेषो देवता मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । आग्नेयो वै ब्राह्मणो देवतयेति तु शैषिकेऽर्थे । सर्वत्राग्नि- इति ढक् (वा) ॥
कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । यस्य-311 इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥
  • (1228) शुक्राद्धन् <4-2-26>
शुक्रियम् ॥
  • (1229) अपोनप्त्रपांनप्तृभ्यां घः <4-2-27>
अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥
योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् ॥ । शतरुद्राद्धश्च (वा) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात्द्विगोर्लुगनपत्ये 1080 इति न लुक् ॥
  • (1231) महेन्द्राद्धाणौ च <4-2-29>
चाच्छः । महेन्द्रियं हविः । माहेन्द्रिम् । महेन्द्रीयम् ॥
  • (1232) सोमाट्ट्यण् <4-2-30>
सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥
  • (1233) वाय्वृनुपित्रुषसो यत् <4-2-31>
वायव्यम् । ऋतव्यम् ॥
अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् ॥यस्येति च 311 । पित्र्यम् । उषस्यम् ।
  • (1235) द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगुहमेधाच्छ च <4-2-32>
चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । सुनीसीर्यम् ॥
  • (1236) अग्नेर्ढक् <4-2-33>
आग्नेयम् ॥
  • (1237) कालेभ्यो भववत् <4-2-31>
मासिकम् । प्रावृषेण्यम् ॥
  • (1238) महाराजपोष्ठपदाट्ठञ् <4-2-35>
माहाराजिकम् । प्रौष्ठपदिकम् ॥
  • (1239) देवताद्वन्द्वे च <7-3-21>
अत्र पूर्वेत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम् ॥
  • (1240) नेन्द्रस्य परस्य <7-3-22>
परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः ॥
  • (1241) दीर्घाच्च वरुणस्य <7-3-23>
दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत । तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् (वा) ॥ नावयज्ञिकः कालः । पाकयज्ञिकः ॥ । पूर्ण मासादण् वक्तव्यः (वा) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥
  • (1242) पितृव्यमातुलमातामहपितामहाः <4-2-36>
एते निपात्यन्ते ॥ । पितुर्भ्रातरि व्यत् (वा) ॥ पितुर्भ्राता पितृव्यः ॥ । मातुर्डुलच् (वा) ॥ मातुर्भ्राता मातुलः ॥ । मातृपितृभ्यां पितरि डामहच् (वा) ॥ मातुः पिता मातामहः । पितु ः पिता पितामहः ॥ । मातरि षिच्च (वा) ॥ मातामही । पितामही ॥ अवेर्दुग्धे सोढदूसमरीसचो वक्तव्यः (वा) ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् ॥ । तिलानिष्फलात्पिञ्जौ (वा) । तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः ॥ । पिञ्जश्छन्दसि डिच्च (वा) ॥ तिल्पिञ्जः ॥
  • (1243) तस्य समूहः <4-2-37>
काकानां समूहः काकम् । बाकम् ।
  • (1244) भिक्षादिभ्योऽण् <4-2-38>
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥
  • (1245) इनण्यनपत्ये <6-4-164>
अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते 679 इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥
  • (1246) गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् <4-2-39>
एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥
  • (1247) युवोरनाकौ <7-1-1>
यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च--1082 इति यलोपे प्राप्ते ॥ । प्रकृत्याऽकेराजन्यमनुष्ययुवानः (वा) ॥ राजन्यकम् । मानुष्यकम् ॥ वृद्धाच्चेति वक्तव्यम् (वा) ॥ वार्धकम् ॥
  • (1248) केदाराद्यञ्च <4-2-40>
चाद्वुञ् । कैदार्यम् । कैदारकम् । गणिकाया यञिति वक्तव्यम् । गाणिक्यम् ॥
  • (1249) ठञ्कवचिनश्च <4-2-41>
चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥
  • (1250) ब्राह्मणमाणववाडवाद्यन् <4-2-42>
ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ । पृष्ठादुपसंख्यानम् (वा) ॥ पृष्ठ्यम् ॥
  • (1251) ग्रामजनबन्धुभ्यस्तल् <4-2-43>
ग्रामता । जनता । बन्धुता ॥ । गजसहायाभ्यां चेति वक्तव्यम् (वा) ॥ गजता । सहायता ॥ । अह्नः खः क्रतौ (वा) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्नष्टखोरेव 789 इति नियमाट्टिलोपो न ॥ । पर्श्वा णस् वक्तव्यः (वा) ॥
सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥
  • (1253) अनुदात्तादेरञ् <4-2-44>
कापोतम् । मायूरम् ॥
  • (1254) खण्डिकादिभ्यश्च <4-2-45>
अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥
  • (1255) चरणेभ्यो धर्मवत् <4-2-46>
काठकम् । छान्दोग्यम् ॥
  • (1256) अचित्तहस्तिधेनोष्ठक् <4-2-47>
साक्तुकम् । हास्तिकम् । धैनुकम् ॥
  • (1257) केशाश्वाभ्यां यञ्छावन्यतरस्याम् <4-2-48>
पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥
  • (1258) पाशादिभ्यो यः <4-2-49>
पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥
  • (1259) खलगोरथात् <4-2-50>
खल्या । गव्या । रथ्या ॥
  • (1260) इनित्रकट्यचश्च <4-2-51>
खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥ । खलादिभ्य इनिर्वक्तव्यः (वा) ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥
  • (1261) विषयो देशे <4-2-52>
षष्ठ्यन्तादमादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥
  • (1262) राजन्यादिभ्यो दुञ् <4-2-53>
राजन्यकः ॥
  • (1263) भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ <4-2-54>
भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥
  • (1264) सोऽस्यादिरिति च्छन्दसः प्रगाथेषु <4-2-55>
अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः ॥ । स्वार्थ उपसंख्यानम् (वा) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥
  • (1265) संग्रामे प्रयोजनयोद्धृभ्यः <4-2-56>
सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥
  • (1266) तदस्यां प्रहरणमिति क्रीडायां णः <4-2-57>
दण्डः प्रहसणमस्यां क्रीडायां दाण्डा । मौष्टा ॥
  • (1267) घञः सास्यां क्रियेति ञः <4-2-58>
घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥
  • (1268) श्येनतिलस्य पाते ञे <6-3-71>
श्येन तिल एतयोर्मुमागमः स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥
  • (1269) तदधीते तद्वेद <4-2-59>
व्याकरणमधीते वेद वा वैयाकरणः ॥
  • (1270) क्रतूक्थादिशूत्रान्ताट्ठक् <4-2-60>
क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वद्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा । औक्थिकः ॥ । मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते (वा) ॥ न्यायम्,नैयायिकः । वृत्तिम्,वार्तिकः । लोकायतम्,लौकायतिकः इत्यादि ॥ । सूत्रान्तात्त्वकल्पादेरेवेष्यते (वा) ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ । विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् (वा) ॥ वायसविद्यिकः । गौलक्षणकः । आश्वलक्षणिकः । पाराशरकल्पिकः ॥ । अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् (वा) ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ॥ । आख्यानाख्यायिकेतिहासपुराणेभ्यश्च (वा) ॥ यवक्रीतमधिकृत्य कृतामाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । अधिकृत्य कृते ग्रन्थे 1467 इत्यर्थे वृद्धाच्छः 1337 । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ । सर्वादेः सादेश्च लुग्वक्तव्यः (वा) ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । द्विगोर्लुक् 1080 इति लुक् । द्वितन्त्रः ॥ । इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः (वा) ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥
  • (1271) क्रमादिभ्यो वुन् <4-2-61>
क्रमकः । क्रम,पद,शिक्षा,मीमांसा,क्रमादिः ॥
  • (1272) अनुब्राह्मणादिनिः <4-2-62>
तदधते तद्वेद 1269इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥
  • (1273) वसन्तादिभ्यष्ठक् <4-2-63>
वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन--1145 इति सूत्रे निपातनाट्टिलोपो न ॥
  • (1274) प्रोक्ताल्लुक् <4-2-64>
प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥
  • (1275) गाथिविदथिकेशिगणिपणिनश्च <6-4-165>
एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥
  • (1276) ण्यक्षत्रियार्षञितो यूनि लुगणिञोः <2-4-58>
ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता । तत इञ् । कौहङिः पुत्रः । यूनि

किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना प्रोक्तं पानिनीयम् । वृद्धाच्छः 1337 । इञश्च 1333 इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥

  • (1277) सूत्राच्च कोपधात् <4-2-65>
सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥
  • (1278) छन्तोब्राह्मणानि च तद्विषयाणि <4-2-66>
छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य कठचरकात्--1487 इति लुक् । ततोऽण्, तस्य प्रोक्ताल्लुक् 1274 ॥
  • (1279) तदस्मिन्नस्तीति देशे तन्नाम्नि <4-2-67>
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥
  • (1280) तेन निर्वृत्तम् <4-2-68>
कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥
  • (1281) तस्य निवासः <4-2-69>
शिबीनां निवासो देशः शैबः ॥
  • (1282) अदूरभवश्च <4-2-70>
विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥
अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥
  • (1284) मतोश्च बह्वजङ्गात् <4-2-72>
बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् । बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूत् ॥
  • (1285) बह्वचः कूपेषु <4-2-73>
अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥
  • (1286) उदक्च विपाशः <4-2-74>
विषाश उत्तरे कूले ये कूपात्येष्वञ् । अबह्वजर्थ आरम्भः । दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव ॥
  • (1287) सङ्कलादिभ्यश्च <4-2-75>
कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥
  • (1288) स्त्रीषु सौवीरसाल्वप्राक्षु <4-2-76>
स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे,वैधूमाग्नी । प्राचि, माकन्दी ॥
  • (1289) सुवास्त्वादिभ्योऽण् <4-2-77>
अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्मु,वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥
रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥
  • (1291) कोपधाच्च <4-2-79>
अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ॥
  • (1292) वुञ्छण्कठजिलसेनिरठञ्ययपक्फिञिञ्यकक्ठकोऽरीहणकृशाश्वश्र्यकुमुतदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतगमप्रगदिन्वराहकुमुदादिभ्यः <4-2-80>
एभ्यः सप्तदशभ्यः सप्तदश क्रमात्स्युस्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ् । अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋस्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । (ग) पथः पन्थ च ॥ पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रगदिन्,प्रागद्यः । वराहादिभ्यः कक् । वारीहकः । कुमुदादिभ्यष्ठक् । कौमुदीकः ॥
  • (1293) जनपदे लुप् <4-2-81>
जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥
  • (1294) लुपि युक्तवद्व्यक्तिवचने <1-2-51>
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥
  • (1295) तदशिष्यं संज्ञाप्रमाणत्वात् <1-2-53>
युक्तवद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥
  • (1296) लुब्योगाप्रख्यानात् <1-2-54>
लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।
  • (1297) योगप्रमाणे च तदभावेऽदर्शन स्यात् <1-2-55>
यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥
  • (1298) प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् <1-2-56>
प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः,अर्थस्य लोकत एव सिद्धेः ॥
  • (1299) कालोपसर्जने च तुल्यम् <1-2-57>
अतीताया रात्रेः पश्चार्धेनागामिन्याः । पूर्वार्धेन य सहितोदिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिपूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ॥
  • (1300) विशेषाणां चाजातेः <1-2-52>
लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ॥ । हरीतक्यादिषु व्यक्तिः (वा) ॥ हरीतक्याः फलानि हरीतक्यः ॥ खलतिकादिषु वचनम् (वा) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ । मनुष्यलुपि प्रतिषेधः (वा) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥
  • (1301) वरणादिभ्यश्च <4-2-82>
अजनपदार्थ आरम्भः । वरणानामदूरभवे नगरं वरणाः ॥
  • (1302) शर्कराया वा <4-2-83>
अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥
शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥
  • (1304) नद्यां मतुप् <4-2-85>
चातुरर्थिकः । इक्षुमती ॥
  • (1305) मध्वादिभ्यश्च <4-2-86>
मतुप् स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् ॥
  • (1306) कुमुदनडवेतसेभ्यो ड्मतुप् <4-2-87>
कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोःझयः 1898 इति अन्त्ये मादुपधायाः--1897 इति वक्ष्यमाणेन वः ॥ । महिषाच्चेति वक्तव्यम् (वा) ॥ महिष्मान्नाम देशः ॥
  • (1307) नडशादाड्ड्वलच् <4-2-88>
नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥
  • (1308) शिखाया वलच् <4-2-89>
शिखावलम् ॥
  • (1309) उत्कारादिभ्यश्छः <4-2-90>
उत्करीयः ॥
  • (1310) नडादीनां कुक्च <4-2-91>
नडकीयम् । (ग) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (ग) तक्षन्नलोपश्च ॥ तक्षकीयः ॥
  • (1311) बिल्कादिभ्यश्छस्य लुक् <6-4-153>
नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः । छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा(प) संनियोगशिष्टानामिति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ॥
इति तद्धिताधिकारे चातुरर्थिकप्रकरणम्‌

तद्धिताधिकारे शैषिकप्रकरणम्‌[सम्पाद्यताम्]

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे 1312 इति लक्षणं चाधिकारश्च । तस्य विकारः 1514 इत्यतः प्राक् शेषाधिकारः ॥
  • (1313) राष्ट्रावारपाराद्धखौ <4-2-93>
आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ॥ । अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
  • (1314) ग्रामाद्यखञौ <4-2-94>
ग्राम्यः । ग्रामीणः ॥
  • (1315) कत्त्र्यादिभ्यो ढकञ् <4-2-95>
कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥
  • (1316) कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु <4-2-96>
कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥
  • (1317) नद्यादिभ्यो ढक् <4-2-97>
नादेयम् । माहेयम् । वाराणसेयम् ॥
  • (1318) दक्षिणापश्चात्पुरसस्त्यक् <4-2-98>
दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥
  • (1319) कापिश्याः ष्फक् <4-2-99>
कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥
  • (1320) रङ्कोरमनुष्येऽण्च् <4-2-100>
चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम् । राङ्कवको मनुष्यः ॥
  • (1321) द्युप्रागपागुदक्प्रतीचो यत् <4-2-101>
दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥
  • (1322) कन्थायाष्ठक् <4-2-102>
कान्थिकः ॥
  • (1323) वर्णौ वुक् <4-2-103>
वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥
  • (1324) अव्ययात्त्यप् <4-2-104>
। अमेहक्वतसित्रेभ्य एव ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ॥ । अव्ययानां भमात्रे टिलोपः ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ॥ । त्यब्नेर्ध्रुव इति वक्तव्यम् ॥ नित्यः ॥ । निसो गते ॥
  • (1325) ह्रस्वात्तादौ तद्धिते <8-3-101>
ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः ॥ । अरण्याण्णः (वा) ॥ आरण्याः सुमनसः ॥ । दूरादेत्यः ॥ दूरेत्यः ॥ । उत्तरादाहञ् ॥ औत्तराहः ॥
  • (1326) ऐषमोह्यः श्वसोऽन्यतरस्याम् <4-2-105>
एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥
  • (1327) तीररूप्योत्तरपदादञ्ञौ <4-2-106>
यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् । बाहुरूप्यम् ॥
  • (1328) दिक्पूर्वपदादसंख्यायां ञः <4-2-107>
अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् 1400 इत्युत्तरपदवृद्धिः ॥
  • (1329) मद्रेभ्योऽञ् <4-2-108>
दिक्पूर्वपदादित्येव । दिशोऽमद्राणाम् 1399 इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ॥
  • (1330) उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् <4-2-109>
अञ् स्यात् । शैवपुरम् ॥
  • (1331) प्रस्थोत्तरपदपलद्यादिकोपधादण् <4-2-110>
माहिकिप्रस्थः । पालदः । नैलीनकः ॥
  • (1332) कण्वादिभ्यो गोत्रे <4-2-111>
एभ्यो गौत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥
गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥
  • (1334) न द्व्यचः प्राच्यभरतेषु <4-2-113>
इञश्च 1333 इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥
  • (1335) वृद्धिर्यस्याचामादिस्तद्वृद्धम् <1-1-73>
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥
  • (1336) त्यादादीनि च <1-1-74>
वृद्धसंज्ञानि स्युः ॥
  • (1337) वृद्धाच्छः <4-2-114>
शालीयः । मालीयः । तदीयः ॥
  • (1338) एङ् प्राचां देशे <1-1-75>
एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः ॥ । वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वा) ॥ दैवदत्तः । देवदत्तीयः ॥
  • (1339) भवतष्ठक्छसौ <4-2-115>
वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥
  • (1340) काश्यादिभ्यष्ठञ्ञिठौ <4-2-116>
इकार उच्चारणार्थः । काशिकी । काशिका । बैदिकी । बैदिका ॥ (ग) आपदादिपूर्वपदात्कालान्तात् ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥
  • (1341) वाहीकग्रामेभ्यश्च <4-2-117>
वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥
  • (1342) विभाषाशीनरेषु <4-2-118>
एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥
  • (1343) ओर्देशे ठञ् <4-2-119>
उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः 834 इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥
  • (1344) वृद्धात्प्राचाम् <4-2-120>
प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥
  • (1345) धन्वयोपधाद्वुञ् <4-2-121>
धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण्--1292 आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥
  • (1346) प्रस्थपुरवहान्ताच्च <4-2-122>
एतदन्ताद्वृद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राद्गेशे तूत्तरेण सिद्धम् ॥
  • (1347) रोपधेतोः प्राचाम् <4-2-123>
रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रः । ईतः,काकन्दकः ॥
  • (1348) जनपदतदवध्योश्च <4-2-124>
जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥
  • (1349) अवृद्धादपि बहुवचनविषयात् <4-2-125>
अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्,आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः,तासु भवो वार्तनः ॥
  • (1350) कच्छाग्निवक्त्रवर्तोत्तरपदात् <4-2-126>
देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः ॥
  • (1351) धूमादिभ्यश्च <4-2-127>
देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ॥
  • (1352) नगरात्कुत्सनप्रावीण्ययोः <4-2-128>
नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥
  • (1353) अरण्यान्मनुष्ये <4-2-129>
वुञ् ॥ अरण्याण्ण इत्यास्यापवदः ॥ पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् ॥ आरण्यकः पन्थाः, अध्यायो,न्यायो,विहारो,मनुष्यो,हस्ती वा ॥ । वा गोमयेषु ॥ आरण्यकाः आरण्या वा गोमयाः ॥
  • (1354) विभाषा कुरुयुगन्धराभ्याम् <4-2-130>
वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥
  • (1355) मद्रवृज्योः कन् <4-2-131>
जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥
माहिषिकः ॥
  • (1357) कच्छादिभ्यश्च <4-2-133>
देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥
  • (1358) मनुष्यतत्स्थयोर्वुञ् <4-2-134>
कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥
  • (1359) अपदातौ साल्वात् <4-2-135>
साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥
  • (1360) गोयवाग्वोश्च <4-2-136>
साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका यवागूः । साल्वमन्यत् ॥
  • (1361) गर्तोत्तरपदाच्छः <4-2-137>
देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥
  • (1362) गहादिभ्यश्च <4-2-138>
छः स्यात् । गहीयः ॥ (ग) मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ (ग) कुग्जनस्य परस्य च ॥ जनकीयम् । परकीयम् ॥ (ग) देवस्य च ॥ देवकीयम् ॥ (ग) स्वस्य च ॥ स्वकीयम् ॥ (ग) वेणुकादिभ्यश्छण्वाच्यः ॥ वैणुकीयम् । वैत्रकीयम् ॥ औत्तरपदकीयम् ॥
  • (1363) प्राचां कटादेः <4-2-139>
प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥
वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥
  • (1365) वृद्धादकेकान्तखोपधात् <4-2-141>
अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥
  • (1366) कन्थापलदनगरग्रामह्रदोत्तरपदात् <4-2-142>
कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिह्रदीयम् ॥
पर्वतीयः ॥
  • (1368) विभाषाऽमनुष्ये <4-2-144>
मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥
  • (1369) कृकणपर्णाद्भारद्वाजे <4-2-145>
भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥
  • (1370) युष्मदस्मदोरन्यतरस्यां खञ्च <4-3-1>
चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥
  • (1371) तस्मिन्नणि च युष्माकास्माकौ <4-3-2>
युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥
  • (1372) तवकममकावेकवचने <4-3-3>
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥
  • (1373) प्रत्ययोत्तरपदयोश्च <7-2-98>
मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥
  • (1374) अर्धाद्यत् <4-3-4>
अर्ध्यः ।
  • (1375) परावराधमोत्तमपूर्वाच्च <4-2-5>
परार्ध्यम् । अवरार्थम् । अधमार्ध्यम् । उत्तमार्ध्यम् ॥
  • (1376) दिक्पूर्वपदाट्ठञ्च <4-3-6>
चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥
  • (1377) ग्रामजनपदैकदेशादञ्ठञौ <4-3-7>
ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः संभाव्येत ॥
  • (1378) मध्यान्मः <4-3-8>
मध्यमः ॥
  • (1379) अ सांप्रतिके <4-3-9>
मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥
  • (1380) द्वीपादनुसमुद्रं यञ् <4-3-10>
समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥
  • (1381) कालाट्ठञ् <4-3-11>
कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः,अनुदितौषसराग--इति भारविः,,समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । तत्र जातः 1393 इति यावत्कालाधिकारः ॥
  • (1382) श्राद्धे शरदः <4-3-12>
ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥
  • (1383) विभाषा रोगातपयोः <4-3-13>
शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥
  • (1384) निशाप्रदोषाभ्यां च <4-3-14>
वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥
  • (1385) श्वसस्तुट् च <4-3-15>
श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥
  • (1386) द्वारादीनां च <7-3-4>
द्वार, स्वर्, व्यल्कश, स्वस्ति,स्वर,स्फ्यकृत्,स्वादु,मृदु,श्वस्,श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥
  • (1387) संधिवेलाद्यृतुनक्षत्रेभ्योऽण् <4-3-16>
संधिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽम् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या,त्रयोदशी,चतुर्दशी,पौर्ममासी,प्रतिपत् ॥ (ग) संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥
  • (1388) प्रावृष एण्यः <4-3-17>
प्रावृषेण्यः ॥
  • (1389) वर्षाभ्यष्ठक् <4-3-18>
वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेषु 1418 इति साध्वर्थे ॥
  • (1390) सर्वत्राण्च तलोपश्च <4-3-22>
हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥
  • (1391) सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च <4-3-23>
सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतने 2185इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् ।

दोषातनम् । दिवातनम् ॥ । चिरपरुत्परारिभ्यस्त्नो वक्तव्यः (वा) ॥ चिरत्नम् । परुत्नम् । परारित्नम् ॥ । अग्रादिपश्चाड्डिमच् (वा) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ अन्ताच्च ॥ अन्तिमम् ॥

  • (1392) विभाषा पूर्वाह्णापराह्णाभ्याम् <4-3-24>
आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । घकालतनेषु--975इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ॥
  • (1393) तत्र जातः <4-3-25>
सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥
  • (1394) प्रावृषष्ठप् <4-3-26>
एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥
  • (1395) संज्ञायां शरदो वुञ् <4-3-27>
ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥
  • (1396) उत्तरपदस्य <7-3-10>
अधिकारोऽयं हनस्त--2574 इत्यस्मात्प्राक् ॥
  • (1397) अवयवादृतोः <7-3-11>
अवयववाचिनः पूर्वपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात् ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । अवयवात्किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः ॥ ऋतोर्वृद्धिमद्विधाववयवानामिति तदन्तविधिः पूर्वत्र (वा) । इह तु न । अवयवत्वाभावात् ॥
  • (1398) सुसर्वार्धाज्जनपदस्य <7-3-12>
उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः--1348 इति वुञ् ॥ । सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः ॥
  • (1399) दिशोऽमद्राणाम् <7-3-13>
दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥
  • (1400) प्राचां ग्रामनगराणाम् <7-3-14>
दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गनामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे,पूर्वपाटलिपुत्रकः ॥
  • (1401) पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् <4-3-28>
पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥
  • (1402) पथः पन्थ च <4-3-29>
पथि जातः पन्थकः ॥
  • (1403) अमावास्याया वा <4-3-30>
अमावास्यकः । आमावास्यः ॥
अमावास्यः ॥
  • (1405) सिन्ध्वपकराभ्यां कन् <4-3-32>
सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥
क्रमात् स्तः । सैन्धवः । आपकारः ॥
  • (1407) श्रविष्ठाफल्गुन्यराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् <4-3-34>
एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥
  • (1408) लुक्तद्धितलुकि <1-2-49>
तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥ चित्रारेवतीरोहिणीभ्यः स्त्रियामुसंख्यानम् (वा) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकि 1408 इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् ॥ । फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ ॥ स्त्रियामित्येव । फल्गुनी । अषाढा ॥ । श्रविष्ठाषाढाभ्यां छण्वक्तव्यः ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥
  • (1409) जे प्रोष्ठपदानाम् <7-3-18>
प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥
  • (1410) स्थानान्तगोशालखरशालाच्च <4-3-35>
एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेना--828 इति नपुंसकत्वे ह्रस्वत्वम् ॥
  • (1411) वत्सशालाभिजिदश्वयुक्शतभिषजो वा <4-3-36>
एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ॥ । जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः ॥ शातभिषः । शातभिषजः । शतभिषक् ॥
  • (1412) नक्षत्रेभ्यो बहुलम् <4-3-37>
जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥
  • (1413) कृतलब्धक्रीतकुशलाः <4-3-38>
तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥
  • (1414) प्रायभवः <4-3-39>
तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥
  • (1415) उपजानूपकर्णोपनीवेष्ठक् <4-3-40>
औपजानुकः । औपकर्णिकः । औपनीविकः ॥
स्रुघ्ने संभवति स्रौघ्नः ॥
  • (1417) कोशाड्ढञ् <4-3-42>
कौशेयं वस्त्रम् ॥
  • (1418) कालात्साधुपुष्प्यत्पच्यमानेषु <4-3-43>
हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥
हेमन्ते उप्यन्ते हैमन्ता यवाः ॥
  • (1420) आश्वायुज्या वुञ् <4-3-45>
ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥
  • (1421) ग्रीष्मवसन्तादन्यतरस्याम् <4-3-46>
पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ।
कालादित्येव । मासे देयमृणं मासिकम् ॥
  • (1423) कलाप्यस्वत्थयवबुसाद्वुन् <4-3-48>
यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन्

यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥

  • (1424) ग्रीष्मावरसमाद्वुञ् <4-3-49>
ग्रीष्मे देयमृणं ग्रैष्मकम् । आवसरसमकम् ॥
  • (1425) संवत्सराग्रहायणीभ्यां ठञ्च <4-3-50>
चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥
  • (1426) व्याहरति मृगः <4-3-51>
कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥
  • (1427) तदस्य सोढम् <4-3-52>
कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥
स्रुघ्ने भवः स्रौघ्नः ॥ राष्ट्रियः ॥
  • (1429) दिगादिभ्यो यत् <4-3-54>
दिश्यम् । वर्ग्यम् ॥
  • (1430) शरीरावयवाच्च <4-3-55>
दन्त्यम् । कर्ण्यम् ॥
  • (1431) प्राचां नगरान्ते <7-3-24>
प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥
  • (1432) जङ्गलधेनुवलजान्तस्य विभाषातमुत्तरम् <7-3-25>
जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥
  • (1433) दृतिकुक्षिकलाशिबत्स्यस्त्यहेर्ढञ् <4-3-56>
दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥
  • (1434) ग्रीवाभ्योऽण्च <4-3-57>
चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥
  • (1435) गम्भीराञ् ञ्यः <4-3-58>
गम्भीरे भवं गाम्भीर्यम् ॥ पञ्चजनादुपसंख्यानम् ॥ पाञ्चजन्यः ॥
  • (1436) अव्ययीभावाच्च <4-3-59>
परिमुखं भवं पारिमुख्यम् ॥ । परिमुखादिभ्य एवेष्यते ॥ नेह । औपकूलः ॥
  • (1437) अन्तः पूर्वपदाट्ठञ् <4-3-60>
अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् ॥ अध्यात्मादेष्ठञिष्यते ॥ अध्यात्मं भवमाध्यात्मिकम् ॥
  • (1438) अनुशतिकादीनां च <7-3-20>
एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥
  • (1439) देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् <7-3-1>
एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । पलाशादिभ्यो वा 1521 त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥
  • (1440) ग्रामात्पर्यनुपूर्वात् <4-3-61>
ठञ् स्यात् । अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥
  • (1441) जिह्वामूलाङ्गुलेश्छः <4-3-62>
जिह्वामूलीयम् । अङ्गुलीयम् ॥
  • (1442) वर्गान्ताच्च <4-3-63>
कवर्गीयम् ॥
  • (1443) अशब्दे यत्खावन्यतरस्याम् <4-3-64>
पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥
  • (1444) कर्णललाटात्कनलंकारे <4-3-65>
कर्णिका । ललाटिका ॥
  • (1445) तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः <4-3-66>
सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥
  • (1446) बह्वचोऽन्तोदात्ताट्ठञ् <4-3-67>
षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥
  • (1447) ऋतुयज्ञेभ्यश्च <4-3-68>
सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥
  • (1448) अध्यायेष्वेवर्षेः <4-3-69>
ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥
  • (1449) पौरोडाशपुरोडाशात्ष्ठन् <4-3-70>
पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥
  • (1450) छन्दसो यदणौ <4-3-71>
छन्दस्यः । छान्दसः ॥
  • (1451) द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् <4-3-72>
द्व्यच् । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥
  • (1452) अणृगयनादिभ्यः <4-3-73>
ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥
स्रुघ्नादागतः स्रौघ्नः ॥
  • (1454) ठगायस्थानेभ्यः <4-3-75>
शुल्काशालाया आगतः शौल्कशालिकः ॥
  • (1455) शुण्डिकादिभ्योऽण् <4-3-76>
आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥
  • (1456) विद्यायोनिसंबन्धेभ्यो वुञ् <4-3-77>
औपाध्यायकः । पैतामहकः ॥
वुञोऽपवादः । पौतृकम् । भ्रातृकम् ॥
  • (1458) पितुर्यच्च <4-3-79>
चाट्ठञ् । रीङ् ऋतः- 1234 । यस्य-311इति लोपः । पित्र्यम् । पैतृकम् ॥
  • (1459) गोत्रादङ्कवत् <4-3-80>
बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥
  • (1460) नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् <7-3-30>
नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥
  • (1461) हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः <4-3-81>
समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥
सममयम् । विषममयम् । देवदत्तमयम् ॥
तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥
  • (1464) विदूराञ् ञ्यः <4-3-84>
विदूरात्प्रभवति वैदूर्यो मणिः ॥
  • (1465) तद्गच्छति पथिदूतयोः <4-3-85>
स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥
  • (1466) अभिनिष्क्रामति द्वारम् <4-3-86>
तदित्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥
  • (1467) अधिकृत्य कृते ग्रन्थे <4-3-87>
तदित्येव । शारीरकमधिकृत्य कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥
  • (1468) शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः <4-3-88>
शिशूनां क्रन्दनं शिशुक्रन्दः,तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥
  • (1469) सोऽस्य निवासः <4-3-89>
स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥
  • (1470) अभिजनश्च <4-3-90>
स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥
  • (1471) आयुधजीविभ्यश्छः पर्वते <4-3-91>
पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः । पर्वतोऽभिजनो येषामायुधजीविनां ते ह्रद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ॥
  • (1472) शण्डिकादिभ्यो ञ्यः <4-3-92>
शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥
  • (1473) सिन्धुतक्षशिलादिभ्योऽणञौ <4-3-93>
सिन्ध्वादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥
  • (1474) तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः <4-3-94>
तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ॥
सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः ॥
  • (1476) अचित्ताददेशकालट्ठक् <4-3-96>
आपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् । ग्रैष्मः ॥
  • (1477) महाराजाट्ठञ् <4-3-97>
माहाराजिकः ॥
  • (1478) वासुदेवार्जुनाभ्यां वुन् <4-3-98>
वासुदेवकः । अर्जुनकः ॥
  • (1479) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् <4-3-99>
अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥
  • (1480) जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने <4-3-100>
जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्च 1348 इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥
  • (1481) तेन प्रोक्तम् <4-3-101>
पाणिनिना प्रोक्तं पाणिनीयम् ॥
  • (1482) तित्तिरिवरतन्तुखण्डिकोखाच्छण् <4-3-102>
छन्दोब्राह्मणानि--1278 इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥
  • (1483) काश्यपकौशिकाभ्यामृषिभ्यां णिनिः <4-3-103>
काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥
  • (1484) कलापिवैशम्पायनान्तेवासिभ्यश्च <4-3-104>
कलाप्यन्तेवासिभ्यः,हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥
  • (1485) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु <4-3-105>
तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य--1082 इति यलोपः ॥
  • (1486) शौनकादिभ्यश्छन्दसि <4-3-106>
छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥
  • (1487) कठचरकाल्लुक् <4-3-107>
कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥
  • (1488) कलापिनोऽण् <4-3-108>
कलापिना प्रोक्तमधीयते कालापाः ॥ । नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् इत्युपसंख्यानाट्टिलोपः ॥
  • (1489) छगलिनो ढिनुक् <4-3-109>
छगलिना प्रोक्तमधीयते छागलेयिनः ॥
  • (1490) पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः <4-3-110>
पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥
  • (1491) कर्मन्दकृशाश्वादिनिः <4-3-111>
भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥
सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥
स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥
चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥
तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥
  • (1496) कृते ग्रन्थे <4-3-116>
वररुचिना कृतो वाररुचो ग्रन्थः ॥
  • (1497) संज्ञायाम् <4-3-117>
तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥
  • (1498) कुलालादिभ्यो वुञ् <4-3-118>
तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥
  • (1499) क्षुद्राभ्रमरवटरपादपादञ् <4-3-119>
तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥
उपगोरिदमौपगवम् ॥ । वहेस्तुरणिट् च ॥ संवोढुः स्वं सांवहित्रम् ॥ । अग्नीधः शरणे रण् भं च ॥ अग्निमिन्धे अग्नीत्,तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ॥ । समिधामाधाने षेण्यणू ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥
रथ्यं चक्रम् ॥
  • (1502) पत्रपूर्वादञ् <4-3-122>
पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥
  • (1503) पत्राध्वर्युपरिषदश्च <4-3-123>
अञ् ॥ । पत्राद्वाह्ये ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥
  • (1504) हलसीराट्ठक् <4-3-124>
हालिकम् । सैरिकम् ॥
  • (1505) द्वन्द्वाद्वुन्वैरमैथुनिकयोः <4-3-125>
काकोलूकिका । कुत्सिकुशिकिका ॥ । वैरे देवासुरादिभ्यः प्रतिषेधः ॥ दैवासुरम् ॥
  • (1506) गोत्रचरणाद्वुञ् <4-3-126>
औपगवकम् ॥ । चरणाद्धर्माम्नाययोरिति वक्तव्यम् ॥ काठकम् ॥
  • (1507) सङ्घाङ्कलक्षणेष्वञ्यञिञामण् <4-3-127>
। घोषग्रहणमपि कर्तव्यम् ॥ अञ्,बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्,गार्गः । गार्गम् । इञ्,दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥
अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥
  • (1509) छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः <4-3-129>
छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ॥ । चरणाद्धर्माम्नाययोः (वा) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥
  • (1510) न दण्डमाणवान्तेवासिषु <4-3-130>
दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥
  • (1511) रैवतिकादिभ्यश्छः <4-3-131>
तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥
  • (1512) कौपिञ्जलहास्तिपदादण् <4-3-132>
कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥
  • (1513) आथर्वणिकस्येकलोपश्च <4-3-133>
अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥
इति तद्धिताधिकारे शैषिकप्रकरणम्‌

तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम्‌[सम्पाद्यताम्]

  • (1514) तस्य विकारः <4-3-134>
अश्मनो विकारे टिलोपो वक्तव्यः (वा) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥
  • (1515) अवयवे च प्राण्योषधिवृक्षेभ्यः <4-3-135>
चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥
  • (1516) बिल्वादिभ्योऽण् <4-3-136>
बैल्वम् ॥
अण् । अञोऽपवादः । तर्कु,तार्कवम् । तैत्तिडीकम् ॥
  • (1518) त्रपुजतुनोः षुक् <4-3-138>
आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥
दैवदारवम् । भाद्रदारवम् ॥
  • (1520) अनुदात्तादेश्च <4-3-140>
दाघित्थम् । कापित्थम् ॥
  • (1521) पलाशादिभ्यो वा <4-3-141>
पालाशम् । कारीरम् ॥
  • (1522) शम्याः ष्लञ् <4-3-142>
शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥
  • (1523) मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः <4-3-143>
प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥
  • (1524) नित्यं वृद्धशरादिभ्यः <4-3-144>
आम्रमयम् । शरमयम् ॥ । एकाचो नित्यम् ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदम् 1500 इत्यण्णन्तात्स्वार्थे ष्यञ् ॥
  • (1525) गोश्च पुरीषे <4-3-145>
गोः पुरीषं गोमयम् ॥
मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं 1500इत्यण् ॥
  • (1527) संज्ञायां कन् <4-3-147>
पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् ॥
  • (1528) व्रीहेः पुरोडाशे <4-3-148>
मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥
  • (1529) असंज्ञायां तिलयवाभ्याम् <4-3-149>
तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥
  • (1530) तालादिभ्योऽण् <4-3-152>
अञ्मयटोरपवादः । (ग) तालाद्धनुषि ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥
  • (1531) जातरूपेभ्यः परिमाणे <4-3-153>
अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥
  • (1532) प्राणिरजतादिभ्योऽञ् <4-3-154>
शौकम् । बाकम् । राजतम् ॥
  • (1533) ञितश्च तत्प्रत्ययात् <4-3-155>
ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥
  • (1534) क्रीतवत्परिमाणात् <4-3-156>
प्राग्वहतेष्ठक् 1548 इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥
  • (1535) उष्ट्राद्वुञ् <4-3-157>
प्राण्यञोऽपवादः । औष्ट्रकः ॥
  • (1536) उमोर्णयार्वा <4-3-158>
औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥
ऐणेयम् । एणस्य तु ऐणम् ॥
  • (1538) गोपयसोर्यत् <4-3-160>
गव्यम् । पयस्यम् ॥
द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥
द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥
विकारावयवप्रत्ययस्य लुक् स्यात् । फले । आमलक्याः फलमामलकम् ॥
  • (1542) प्लक्षादिभ्योऽण् <4-3-164>
विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥
  • (1543) न्यग्रोधस्य च केवलस्य <7-3-5>
अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥
  • (1544) जम्ब्वा वा <4-3-165>
जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥
जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि यक्तवत् 1294 जम्ब्वाः फलं जम्बूः ॥ । फलपाकशुषामुपसंख्यानम् ॥ व्रीहयः । मुद्गाः ॥ । पुष्पमूलेषु बहुलम् ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥
  • (1546) हरीतक्यादिभ्यश्च <4-3-167>
एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥
  • (1547) कंसीयपरशव्ययोर्यञञौ लुक्च <4-3-168>
कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्,तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥
इति तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम्‌