सिद्धान्तकौमुदी/प्रकरण‌११-२०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


हलन्तपुंलिङ्गप्रकरणम्‌[सम्पाद्यताम्]

हस्य ढः स्याज्झलि पदान्ते च । हल्ङ्याब् 252 इति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥
  • (325) दादेर्धातोर्धः <8-2-32>
उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र माभूत् ॥
  • (326) एकाचो बशो भष् झषन्तस्य स्ध्वोः <8-2-37>
धातोरवयवो य एकाज्झषन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो धातोरिति सामानाधिकरण्येनाऽन्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः क्विप् । णिलोपः । गर्धप् । झलीति निवृत्तं स्धवोर्ग्रहणसामर्थ्यात् । तेनेह न । दुग्ध्म् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचर्त्वे । धुक् । धुग् । दुहौ । दुहः । षत्वचर्त्वे । धुक्षु ॥
  • (327) वा द्रुहमुहष्णुहष्णिहाम् <8-2-33>
एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ॥
  • (328) इग्यणः संप्रसारणम् <1-1-45>
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥
भस्य वाहः संप्रसारणमूठ् स्यात् ॥
  • (330) संप्रसारणाच्च <6-1-108>
संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । एत्येधत्यूठ्सु 73 । विश्वौहः । विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥
  • (331) चतुरनुडुहोरामुदात्तः <7-1-98>
अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥
अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुम्विधिसामर्थ्यात् वसुस्रंस्वु 334 इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । अनड्वान् ॥
  • (333) अम् संबुद्धौ <7-1-99>
चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः । अनडुहा ॥
  • (334) वसुस्रंसुध्वंस्वनडुहां दः <8-2-72>
सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥
  • (335) सहेः साडः सः <8-3-56>
साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सहः 3409 इति ण्विः । लोके तु साहयतेः क्विप् । अन्येषामपि 539 इति पूर्वपदस्य दीर्घः ॥
दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् हल्ङ्याप् 252 इति सुलोपो न ।

सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥

दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥
  • (338) षट्चतुर्भ्यश्च <7-1-55>
षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् । द्वित्वम् । चतुर्ण्णाम् । चतुर्ण्णाम ॥
सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥
अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुण्नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वाचक्षणः कमल् । कमलौ । कमलः । षत्वं कमल्षु ॥
  • (341) मो नो धातोः <8-2-64>
धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥
किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥
इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥
  • (344) इदोऽय् पुंसि <7-2-111>
इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥
इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥
अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥
अककारस्येदम इदो लोपः स्यादापि हलादौ । (प) नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे ॥
  • (348) आद्यन्तवदेकस्मिन् <1-1-21>
एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥
  • (349) नेदमदसोरकोः <7-1-11>
अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥ ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥
  • (350) इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ <2-4-32>
अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥
  • (351) द्वितीयाटौस्स्वेनः <2-4-34>
द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातु पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं

स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । अनुनासिकस्य क्विझलोः 2666इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥

  • (352) न ङिसंबुद्ध्योः <8-2-8>
नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुक्इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥ ङावुत्तरपदे प्रतिषेधो वक्तव्यः (वा) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । अल्लोपोऽनः 234 । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जञोर्ज्ञः । राज्ञः । राज्ञा ॥
  • (353) नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति <8-2-2>
सुब्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥
रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धिलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥
  • (355) न संयोगाद्वमन्तात् <6-4-137>
वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥
  • (356) इन्हन्पूषार्यम्णां शौ <6-4-12>
एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते ॥
इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे 307 इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥
  • (358) हो हन्तेर्ञ्णिन्नेषु <7-3-54>
ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥
उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य । प्रहण्यात् ॥ अत्पूर्वस्य 8-4-22 हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् (प)अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा एकाजुत्तरपदे 307 इति णत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङिन्यशस्विन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । (प) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्तीति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि । पूषणि ॥
  • (360) मघवा बहुलम् <6-4-128>
मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥
  • (361) उगिदचां सर्वनामस्थानेऽधातोः <7-1-70>
अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच श्वन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे ॥ हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति

भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे । मघवा । छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव । अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥

  • (362) श्वयुवमघोनामतद्धिते <6-4-133>
अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च 330 । आद्गुणः 69 । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥
  • (363) न संप्रसारणे संप्रसारणम् <6-1-37>
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥
  • (364) अर्वणस्त्रसावनञः <6-1-12>
नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्थान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा । यज्ववत् ॥
  • (365) पथिमथ्यृभुक्षामात् <7-1-85>
एषामाकारोऽन्तादेशः स्यात्सौ परे । आ-आदिति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥
  • (366) इतोऽत्सर्वनामस्थाने <7-1-86>
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥
पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्था । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥
  • (368) भस्य टेर्लोपः <7-1-88>
भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति न लुमता 263 इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥ संबुद्धौ नपुंसकानां नलोपो वा वाच्यः । हे सुपथिन् । सुपथि । नलोपः सुप्स्वर 353 इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥
  • (369) ष्णान्ता षट् <1-1-24>
षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । षड्भ्यो लुक् 261 । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । षट्चतुर्भ्यश्च 338इति नुट् ॥
  • (370) नोपधायाः <6-4-7>
नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥
  • (371) अष्टन आ विभक्तौ <7-2-84>
अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥
  • (372) अष्टाभ्य औश् <7-1-21>
कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घात् 3718 इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्य

स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाभ्याम् 3 । प्रियाष्टाभिः । प्रियाष्टाभ्यः 2 । प्रियाष्टासु ॥ प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुद्भ्याम् । भुद्भ्याम् । भुत्सु ॥

  • (373) ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च <3-2-93>
एभ्यः क्विन्स्यात् । अलाक्षणिकमपि किंचित्कार्यं निपातनाल्लभ्यते । निरुपपदाद्युजेः क्विन् । कनावितौ ॥
संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥
  • (375) वेरपृक्तस्य <6-1-67>
अपृक्तस्य वेर्लोपः स्यात् । कृत्तद्धित 179 इति प्रातिपदिकत्वात्स्वादयः ॥
  • (376) युजेरसमासे <7-1-71>
युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः 54 ॥
  • (377) क्विन्प्रत्ययस्य कुः <8-2-62>
क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । नश्चापदान्तस्येति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् चोः कुः 378 इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युग्भ्यामित्यादि । असमासे किम् ॥
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । क्विन्प्रत्ययस्य 377 इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ दैवाहिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः । इत्यादि । व्रश्च 294 इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः ॥ विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् । विभ्राग्भ्यामित्यादि ॥ परौ व्रजेः षः पदान्ते (उ) । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥
  • (379) विश्वस्य वसुराटोः <6-3-128>
विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः । विश्वाराड्भ्यामित्यादि ॥
  • (380) स्कोः संयोगाद्योरन्ते च <8-2-29>
पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ऋत्विग् 373 इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्य 280 इति नियमान्न संयोगान्तलोपः । ऊकर्‌ । ऊगर्‌ । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥
  • (381) तदोः सः सावनन्त्ययोः <7-2-106>
त्यदादीनं तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ । एनान् ।

एनेन । एनयोः 2 ॥

  • (382) ङेप्रथमयोरम् <7-1-28>
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥
  • (383) मपर्यन्तस्य <7-2-91>
इत्यधिकृत्य ॥
  • (384) त्वाहौ सौ <7-1-94>
युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥
  • (385) शेषे लोपः <7-2-90>
आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । अतो गुणे 191 अमि पूर्वः 194 ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र त्व अम् अह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । सच परोऽप्यन्तरङ्गे अतो गुणे 191 कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥
  • (386) युवावौ द्विवचने <7-2-92>
द्वियोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥
  • (387) प्रथमायाश्च द्विवचने भाषायाम् <7-2-88>
इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥
  • (388) यूयवयौ जसि <7-2-93>
स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । (प) अङ्गकार्ये कृते पुनर्नाङ्गकार्यम् - इति न भवति । ङेप्रथमयोः 382 इत्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥
  • (389) त्वमावेकवचने <7-2-97>
एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥
  • (390) द्वितीयायां च <7-2-87>
युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥
नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् । अमोपवादः । आदेः परस्य 44 । संयोगान्तस्य लोपः 54 । युष्मान् । अस्मान् ॥
अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥
  • (393) युष्मदस्मदोरनादेशे <7-2-86>
अनयोराकारः स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
  • (394) तुभ्यमह्यौ ङयि <7-2-95>
अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः 385 । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥
  • (395) भ्यसोभ्यम् <7-1-30>
भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥
  • (396) एकवचनस्य च <7-1-32>
आभ्यां पञ्चम्येकवचनस्य अत्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥
  • (397) पञ्चम्या अत् <7-1-31>
आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥
  • (398) तवममौ ङसि <7-2-96>
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥
  • (399) युष्मदस्मद्भ्यां ङसोऽश् <7-1-27>
स्पष्टम् । तव । मम । युवयोः । आवयोः ॥
आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥1 ॥ सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते । त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥2 ॥ एते परत्वाद्बाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥3 ॥ द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥4 ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् 2 । अतिमाम् 2 । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् 2 । अतिमत् 2 । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु ॥ युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुवाम् 3 । अत्यावाम् 3 । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् 3 । अत्यावाभ्याम् 3 । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् 2 । अत्यावत् 2 । ओसि । अतियुवयोः 2 । अत्यावयोः 2 । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् 3 । अत्यस्माम् 3 । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् 3 । अत्यस्माभ्याम् 3 । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः 2 । अत्यस्मयोः 2 । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥
  • (403) अनुदात्तं सर्वमपादादौ <8-1-18>
इत्यधिकृत्य ॥
  • (404) युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ <8-1-20>
पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥
  • (405) बहुवचनस्य वस्नसौ <8-1-21>
उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥
  • (406) तेमयावेकवचनस्य <8-1-22>
उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥
  • (407) त्वामौ द्वितीयायाः <8-1-23>
द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः । स्वामी ते मेपि स

हरिः पातुवामपि नौ विभुः ॥1 ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥2 ॥ पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ॥ स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः (वा) ॥ एकतिङ्वाक्यम् । तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ॥ । एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः (वा) ॥ अन्वादेसे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥

  • (408) न चवाहाऽहैवयुक्ते <8-1-24>
चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥
  • (409) पश्यार्थैश्चाऽनालोचने <8-1-25>
अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥
  • (410) सपूर्वायाः प्रथमाया विभाषा <8-1-26>
विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥
  • (411) सामन्त्रितम् <2-3-48>
संबोधने या प्रथमा तदन्तमामान्त्रितसंज्ञं स्यात् ॥
  • (412) आमन्त्रितं पूर्वमविद्यमानवत् <8-2-72>
स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥
  • (413) नामन्त्रिते समानाधिकरणे सामान्यवचनम् <8-1-73>
विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालोः नः पाहि । अग्ने तेजस्विन् । विभाषितं विशेषवचने 3655 अत्र भाष्यम्--बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा । यूयं प्रभवः । देवाः शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि ॥ अग्निं मन्थतीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ऋत्विग् 373 इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥
  • (415) अनिदितां हल उपधायाः क्ङिति <6-4-24>
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उगिदचाम् 361इति नुम् । संयोगान्तस्य लोपः 54 । नुमो नकारस्य क्विन्प्रत्ययस्य कुः 377 इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥
लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ ।

प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अच इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥

  • (418) विष्वद्गेवयोश्च टेरद्र्यञ्चतावप्रत्यये <6-3-96>
अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्च इति स्थिते यण् ॥
  • (419) अदसोऽसेर्दादु दो मः <8-2-80>
अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुःथ्द्यर्;चः । अमुमुःथ्द्यर्;चा । अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च --अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥ विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक् । अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमि 160 इति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥
वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥
  • (422) सहस्य सध्रिः <6-3-95>
वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥
  • (423) तिरसस्तिर्यलोपे <6-3-94>
अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥
  • (424) नाञ्चेः पूजायाम् <6-4-30>
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राङ्षु । एवं पूजार्थे प्रत्याङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ऋत्विग् 373आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्यामित्यादि ॥ चोः कुः 378 ॥ पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । व्रश्च 294 इति षत्वम् । स्कोः 380 इति सलोपः । जश्त्वचर्त्वे । सुवृट् । सुवृड् । सुवृश्चौ । सुवृश्चः । सुवृश्चा । सुवृट्सु । सुवृट्त्सु ॥ वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च 241 एते निपात्यन्ते शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । सान्तमहत 317 इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । महतः । महता । महद्भ्यामित्यादि ॥
  • (425) अत्वसन्तस्य चाऽधातोः <6-4-14>
अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । उगिदचाम् 36 इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ॥ भातेर्डवतुः 363 । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥
  • (426) उभे अभ्यस्तम् <6-1-5>
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥
  • (427) नाभ्यस्ताच्छतुः <7-1-78>
अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥
  • (428) जक्षित्यादयः षट् <6-1-6>
षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥
  • (429) त्यदादिषु दृशोऽनालोचने कञ्च <3-2-60>
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ् स्याच्चात् क्विन् ॥
  • (430) आ सर्वनाम्नः <6-3-91>
सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् व्रश्च 294 इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । दिगादिभ्यो यत् 1429 इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्च 294 इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥
नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥
  • (432) स्पृशोऽनुदके क्विन् <3-2-58>
अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । वृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मात् ऋत्विक् 373आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् 261 । षट् । षड् । षड्भिः । षड्भ्यः 2 । षट्चतुर्भ्यश्च 338 इति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक 116 इति विकल्पं बाधित्वा (प) प्रत्यये भाषायां नित्यमिति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषो रुः 162 इति रुत्वम् ॥
  • (433) र्वोरुपधाया दीर्घ इकः <8-2-76>
रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरि 151 इति वा विसर्जनीयः ॥
  • (434) नुम्विसर्जनीयशर्व्यवायेऽपि <8-3-58>
एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्स्व । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमिति - व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अतएव न शर्ग्रहणेन गतार्थता । रात्सस्य 339 इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपि 339 इति नियमान्न विसर्गः । चिकीर्षु ॥ दमर्डोसिः 227 ॥ डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ । दोः । दोषौ । दोषः । पद्दन 228 इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । संयोगान्तलोपः । व्रश्च 294 इति षः । जश्त्वचर्त्वे । विविट् । विविड् । विविक्षौ । विविक्षः । स्कोः 380 इति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरट् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्को 380 इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् ॥पूर्वत्रासिद्धीये न स्थानिवत् - इति तु

इह नास्ति ॥ तस्य दोषः संयोगादलोपलत्वणत्वेषु- इति निषिद्धात् (वा) ॥ तस्मात्संयोगान्तलोप एव । तक् तग् । गोरक् । गोरग् । संयोगान्तलोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस गतौ । सुष्ठु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥

  • (435) वसोः संप्रसारणम् <6-4-131>
वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं 334इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । (प) अकृतव्यूहा इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः 317 इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥
  • (436) पुंसोऽसुङ् <7-1-89>
सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्च 455 इति ङीबर्थं कृतेन पूञो डुम्सुन् इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशन 276 इत्यनङ् । उशना । उशनसौ । उशनसः ॥ । अस्य संबुद्धौ वाऽनङ्नलोपश्च वा वाच्यः ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । ग्रसु ग्लसु अदने ॥
  • (437) अदस औ सुलोपश्च <7-2-107>
अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ 381 इति दस्य सः । असौ ।

औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च (वा) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः 419 इति मत्वोत्वे । अमू । जसः शी 214 । आद् गुणः 69 ॥

  • (438) एत ईद्बहुवचने <8-2-81>
अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धम् 12इति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् 3 । अमीभिः । अमुष्मै । अमीभ्यः 2 । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ॥
इति हलन्तपुल्लिङ्गप्रकरणम्‌

हलन्तस्त्रीलिङ्गप्रकरणम्‌[सम्पाद्यताम्]

नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्स्मात् ऋत्विक् 373आदिना क्विन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतस्रादेशः । चतस्रः 2 । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्ववत् ॥
इदमो दस्य यः स्यात्सौ ॥ इदमो मः 343 इयम् । त्यदाद्यत्वं टाप् ।दश्च 345 इति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः 347 । आभ्याम् 3 । आभिः । अस्यै । अस्याः 2 । अनयोः 2 । आसाम् । अस्याम् । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः 2 । ऋत्विक् 373 आदिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप् शब्दो नित्यं बहुवचनान्तः । अप्तृन् 277 इति दीर्घः । आपः । अपः ॥
अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः 2 । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । त्यदादिषु 429 इति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । त्विट् । त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्त्सु । सह जुषते इति सजूः । सजुषौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वाद्रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः 2 । अमुयोः 2 । अमूषाम् । अमुष्याम् । अमूषु ॥
इति हलन्तस्त्रीलिङ्गप्रकरणम्‌

हलन्तनपुंसकलिङ्ग-प्रकरणम्‌[सम्पाद्यताम्]

अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते । अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघः । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोः 2405 इति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा व्रश्च 294इति सूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरौणादिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न 228 इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । ऊकर्‌ । ऊगर्‌ । ऊर्जि । ऊर्न्जि । नरजानां संयोगः ॥ । बहूर्जि नुम्प्रतिषेधः (वा) ॥ अन्त्यात्पूर्वो वा नुम् । बहूर्जि । बहूर्ञ्जि वा कुलानि ॥ त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बोभिद्यतेः क्विप् । बेभित् । बेभिद् । बेभिदी । शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि चेच्छिदि ॥ गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । असन्ध्यवङपूर्वरूपैर्नवाधिकशतं मतम् ॥1 ॥ स्वम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥2 ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विक् 373 आदिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्य 88 इत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषा 87 इति प्रकृतिभावे गोअक् । गोअग् । पूर्वरूपे । गोऽक् । गोऽग् । पूजायां नस्य कुत्वेन ङः । गवाङ् । गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वात् अचः 416 इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची ॥ जश्शसोः शिः 312 ॥ शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोऽञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षेङ्णोः कुग् 130 इति कुक् । गवाङ्क्षु । गवाङ्षु । गवाक्षु । गोअक्षु । गोक्षु । न चेह । चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् । कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाऽभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्द्धन्त एव ॥ ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् । रूपान्यश्वाक्षिभूतानि(527) भवन्तीति मनीषिभिः ॥1 ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन् 228 इति वा यकन् । यकानि । यक्ना । यकृता । शकृत् । शकृती । शकृन्ति । शकानि । शक्ना । शकृता । ददत् । ददती ॥
  • (444) वा नपुंसकस्य <7-1-79>
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥
  • (445) आच्छीनद्योर्नुम् <7-1-80>
अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥
  • (446) शप्श्यनोर्नित्यम् <7-1-81>
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । स्वब् । स्वपी । नित्यात्परादपि नुमः प्राक् अप्तृन् 277इति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । स्वपा । अपो भि 442 ॥ स्वद्भ्याम् । स्वद्भिः । अर्तिपॄवपि इत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्त 317 इति दीर्घः । नुम्विसर्जनियेति षत्वम् । धनूंषि । धनूषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः क्विप् । र्वोः 433 इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि । पयः । पयसी । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥.
इति हलन्तनपुंसकलिङ्गप्रकरणम्‌

अव्ययप्रकरणम्‌[सम्पाद्यताम्]

  • (447) स्वरादिनिपातमव्ययम् <1-1-37>
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्, अन्तर्, प्रातर्, पुनर्, सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा ,अद्धा,सामि(ग)वत्, ब्राह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा , दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका ,आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अथ, अम्, आम्, प्रताम्, प्रशान्, प्रतान्, मा, माङ् । आकृतिगणोऽयम् । च, वा, ह, अह, एव, एवम्, नूनम्, शश्वत्, युगपत्, भूयस्, कूपत्, कुवित् , सूपत्स, कुवित्, नेत्, चेत्, चण्, कच्चित्,किंचित्, यत्र, नह, हन्त, माकिः, माकीम्, नकिः, आकिम्,माङ्, नञ्, यावत्, तावत्, त्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह । (ग) उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । अवदत्तम् , अहयुः , अस्तिक्षीरा । अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ , पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, हे, भोः, अये, द्य, विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥
  • (448) तद्धितश्चाऽसर्वविभक्तिः <1-1-38>
यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥
  • (449) कृन्मेजन्तः <1-1-39>
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥
  • (450) क्त्वातोसुन्कसुनः <1-1-40>
एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥
  • (451) अव्ययीभावश्च <1-1-41>
अधिहरि ॥
  • (452) अव्ययादाप्सुपः <2-4-82>
अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे ॥ । आब्ग्रहणं व्यर्थमलिङ्गत्वात् ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति(भाष्योक्ता) श्रुतिर्लिङ्गसङ्ख्याकारकाभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥
इति अव्ययप्रकरणम्‌

स्त्रीप्रत्ययप्रकरणम्‌[सम्पाद्यताम्]

  • (453) स्त्रियाम् <4-1-3>
अधिकारोऽयम् । समर्थानामिति यावत् ॥
  • (454) अजाद्यतष्टाप् <4-1-4>
अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । द्विगोः 479 इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता ।एषु वयसि प्रथमे 478 इति ङीप् प्राप्तः ॥ सम्भस्त्राजिनशणपिण्डेभ्यः फलात् (वा) ॥ संफला । भस्त्रफला । ङ्यापोः 1001 इति ह्रस्वः ॥ । दच्काण्डप्रान्तशतैकेभ्यः पुष्पात् (वा) ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा ॥ शूद्रा चामहत्पूर्वा जातिः (वा) ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ? महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥ मूलान्नञः (वा) ॥ अमूला । ऋन्नेभ्यो ङीप् 306 ॥ कर्त्री । दण्डिनी ॥
  • (455) उगितश्च <4-1-6>
उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः 446 इति नुम् । उगिदचाम् 361 इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् 415 इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥
वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । (प) प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ॥ । वनो न हश इति वक्तव्यम् (वा) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः 2982 इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥ बहुव्रीहौ वा (वा) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥
  • (457) पादोऽन्यतरस्याम् <4-1-8>
पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥
ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । न षट्स्वस्रादिभ्यः 308 ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षट् 369 इति षट्संज्ञां प्रति न लोपः सुप्स्वर 353 इति नलोपस्यासिद्धत्वात् न षट्स्वस्रादिभ्यः 308 इति न टाप् ॥
मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥
  • (460) अनो बहुव्रीहेः <4-1-12>
अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥
  • (461) डाबुभाभ्यामन्यतरस्याम् <4-1-13>
सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥
  • (462) अन उपधालोपिनोऽन्यतरस्याम् <4-1-28>
अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डाब्निषेधौ । बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ ॥
  • (463) प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः <7-3-44>
प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ? नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ? राका । आपि किम् ? कारकः ॥ । मामकनरकयोरुपसंख्यानम् (वा) ॥ मामिका । नरान् कायतीति नरिका ॥ । त्यक्त्यपोश्च (वा) ॥ दाक्षिणात्यिका । इहत्यिका ॥
यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् ॥ त्यकनश्च निषेधः ॥ अधित्यका । उपत्यका ॥ आशिषि वुनश्च न (वा) ॥ जीवका । भवका ॥ उत्तरपदलोपे च (वा) ॥ देवदत्तिका । देवका ॥ क्षिपकादीनां च (वा) ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥ तारका ज्योतिषि (वा) ॥ अन्यत्र तारिका ॥ वर्णका तान्तवे (वा) ॥ अन्यत्र वर्णिका ॥ वर्तकाशकुनौ प्राचाम् (वा) ॥ उदीचां तु वर्तिका ॥ अष्टकापितृदैवत्ये (वा) ॥ अष्टिकान्या ॥ । सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् (वा) ॥ इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥
  • (465) उदीचामातः स्थाने यकपूर्वायाः <7-3-46>
यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽणः 834 इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् ? सांकाश्ये भवा सांकाश्यिका । यकेति किम् ? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं ातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका ॥ धात्वन्तयकोस्तु नित्यम् (वा) ॥ सुनयिका । सुपाकिका ॥
  • (466) भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि <7-3-47>
स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि आतः स्थाने इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्येवोदाहरणम् । एवं चात्मीयायां स्विका परमस्विकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका । ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःस्विका ॥
  • (467) अभाषितपुंस्काच्च <7-3-48>
एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव ॥
  • (468) आदाचार्याणाम् <7-3-49>
पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका । उक्तपुंस्कात्तु शुभ्रिका ॥
  • (469) अनुपसर्जनात् <4-1-14>
अधिकारोऽयं यूनस्तिः 531 इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥
  • (470) टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः <4-1-15>
अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन (प) लाश्रयमनुबन्धकार्यं नादेशानाम् । इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ (प)ताच्छीलिके णेऽपि ॥ चौरी ॥ । नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् (वा) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी ।

तरुणी । तलुनी ॥

यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥
  • (472) हलस्तद्धितस्य <6-4-150>
हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ॥ अनपत्याधिकारस्थान्न ङीप् । द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राद्गीव्यतीयो न त्वपत्याधिकारपठितः ॥
  • (473) प्राचां ष्फ तद्धितः <4-1-17>
यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥
  • (474) षः प्रत्ययस्य <1-3-6>
प्रत्ययस्यादिः ष इत्स्यात् ॥
  • (475) आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् <7-1-2>
प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा 498 इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥
  • (476) सर्वत्र लोहितादिकतन्तेभ्यः <4-1-18>
लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥
  • (477) कौरव्यमाण्डूकाभ्यां च <4-1-19>
आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः 1175 । कौरव्यायणी । ढक् च मण्डूकात् 1122 इत्यण् । माण्डूकायनी ॥ । आसुरेरुपसङ्ख्यानम् (वा) ॥ आसुरायणी ॥
  • (478) वयसि प्रथमे <4-1-20>
प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ॥ । वयस्यचरम इति वाच्यम् (वा) ॥ वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न । न्यायाः कनीन च 1119 इति निर्देशात् ॥
अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
  • (480) अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि <4-1-22>
अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध 1693 इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥
  • (481) काण्डान्तात्क्षेत्रे <4-1-23>
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् 1838 इति विहितस्य मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥
  • (482) पुरुषात्प्रमाणेऽन्यतरस्याम् <4-1-24>
प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥
ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥
  • (484) बहुव्रीहेरूधसो ङीष् <4-1-25>
ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ स्त्रियामित्युपसङ्ख्यानात् ॥
  • (485) संख्याऽव्ययादेर्ङीप् <4-1-26>
ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ।
  • (486) दामहायनान्ताच्च <4-1-27>
सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥ त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् (वा) ॥ वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते । त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥
  • (487) नित्यं संज्ञाछन्दसोः <4-1-29>
अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥
  • (488) केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च <4-1-30>
एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यक़ृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ।
  • (489) अन्तर्वत्पतिवतोर्नुक् <4-1-32>
एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् 306 गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्ति सामानाधिकरण्याभावाद- प्राप्तो मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥
  • (490) पत्युर्नो यज्ञसंयोगे <4-1-33>
पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥
  • (491) विभाषा सपूर्वस्य <4-1-34>
पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । ग़ृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्ंिमश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः । सपूर्वस्य किम् ? गवां पतिः स्त्री ॥
  • (492) नित्यं सपत्न्यादिषु <4-1-35>
पूर्वविकल्पापवादः । समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥
  • (493) पूतक्रतोरै च <4-1-36>
इयं त्रिसूत्री पुंयोगे एवेष्यते (वा) ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥
  • (494) वृषाकप्यग्निकुसितकुसिदानामुदात्तः <4-1-37>
एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥
मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥
  • (496) वर्णादनुदात्तात्तोपधात्तो नः <4-1-39>
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि 33) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति

ग़ृह्यसूत्रम् । ्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि 21) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥ पिशङ्गादुपसङ्ख्यानम् (वा) ॥ पिशङ्गी । पिशङ्गा ॥ असितपलितयोर्न (वा) ॥ असिता । पलिता ॥ छन्दसि क्नमेके (वा) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥

  • (497) अन्यतो ङीष् <4-1-40>
तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वचो गुरुः (फि 42) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥
  • (498) षिद्गौरादिभ्यश्च <4-1-41>
षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥ आमनडुहः स्त्रियां वा (वा) ॥ अनडुही ॥ अनड्वाही । (ग) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥
  • (499) सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः <6-4-149>
अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ॥ । मत्स्यस्य ङ्याम् (वा) ॥ । सूर्यागस्त्ययोश्छे च ङ्यां च (वा) ॥ । तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् (वा) ॥ मत्सी ॥ । ??मातरि षिच्च (वा) इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष्?? । दंष्ट्रा ॥
  • (500) जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु <4-1-42>
एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदी । उत्सादित्वादञन्तत्वे टिड्ढा 470 इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । कुडि दाहे । गुरोश्च हलः 3280 इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः ॥ ??नील्या अन्वक्तव्यः (वा) इत्यन्?? । अनाच्छादनेऽपि न सर्वत्र किंतु ॥ । नीलादौषधौ (वा) ॥ नीली ॥ । प्राणिनि च (वा) ॥ नीली गौः ॥ । संज्ञायां वा (वा) ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥
  • (501) शोणात्प्राचाम् <4-1-43>
शोणी । शोणा ॥
  • (502) वोतो गुणवचनात् <4-1-44>
उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः किम् ? शुचिः । गुणेति किम् ? आखुः ॥ । खरुसंयोगोपधान्न (वा) ॥ खरुः पतिंवरा कन्या । पाण्डुः ॥
  • (503) बह्वादिभ्यश्च <4-1-45>
एभ्यो वा ङीष् स्यात् । बह्वी । बहुः । (ग) कृदिकारादक्तिनः ॥ रात्रिः । रात्री । (ग) सर्वतोऽक्तिन्नर्थादित्येके ॥ शकटिः । शकटी । अक्तिन्नर्थात्किम् ? अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु च 992 इति पद्भावः । पद्धतिः । पद्धती ॥
  • (504) पुंयोगादाख्यायाम् <4-1-48>
या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी ॥ । पालकान्तान्न (वा) ॥ गोपालिका । अश्वपालिका ॥ । सूर्याद्देवतायां चाप् वाच्यः (वा) ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? सूरी कुन्ती । मानुषीयम् ॥
  • (505) इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् <4-1-49>
एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥ हिमारण्ययोर्महत्त्वे (वा) ॥ महद्धिमं हिमानी । महदरण्यम् अरण्यानी ॥ यवाद्दोषे (वा) ॥ दुष्टो यवो यवानी ॥ यवनाल्लिप्याम् (वा) ॥ यवनानां लिपिर्यवनानी ॥ । मातुलोपाध्याययोरानुग्वा (वा) ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥ या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः (वा) ॥ उपाध्यायी । उपाध्याया । (ग) चार्यादणत्वं च ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥ अर्यक्षत्रियाभ्यां वा स्वार्थे (वा) ॥ अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति कर्मण्यण् 2913 ॥
  • (506) क्रीतात्करणपूर्वात् <4-1-50>
क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥
  • (507) क्तादल्पाख्यायाम् <4-1-51>
करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥
  • (508) बहुव्रीहेश्चान्तोदात्तात् <4-1-52>
बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥ जातिपूर्वादिति वक्तव्यम् (वा) ॥ तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ॥ । जातान्तान्न (वा) ॥ दन्तजाता ॥ । पाणिगृहीती भार्यायाम् (वा) ॥ पाणिग़ृहीतान्या ॥
  • (509) अस्वाङ्गपूर्वपदाद्वा <4-1-53>
पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥
  • (510) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् <4-1-54>
असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ? शिखा । स्वाङ्गं त्रिधा ॥ अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ॥ सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ॥ अतत्स्थं तत्र दृष्टं च (वा) ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥ तेन चेत्तत्तथा युतम् (वा) ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥
  • (511) नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च <4-1-55>
एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ (वृ) अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ॥ स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ॥ । पुच्छाच्च (वा) ॥ सुपुच्छी । सुपुच्छा ॥ कबरमणिविषशरेभ्यो नित्यम् (वा) ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ॥ । उपमानात्पक्षाच्च पुच्छाच्च (वा) ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥
  • (512) न क्रोडादिबह्वचः <4-1-56>
क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥
  • (513) सहनञ्विद्यमानपूर्वाच्च <4-1-57>
सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥
  • (514) नखमुखात्संज्ञायाम् <4-1-58>
ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥
  • (515) दिक्पूर्वपदान्ङीप् <4-1-60>
दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥
वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥
  • (517) सख्यशिश्वीति भाषायाम् <4-1-62>
इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥
  • (518) जातेरस्त्रीविषयादयोपधात् <4-1-63>
जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् ॥ । आकृतिग्रहणा जातिः (वा) ॥ अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ॥ लिङ्गानां च न सर्वभाक् (वा) ॥ सकृदाख्यातनिर्ग्राह्या ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ? शुक्ला । सकृदित्यादि किम् ? देवदत्ता ॥ । गोत्रं च चरणैः सह (वा) ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शाङ्र्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया ॥ । योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः (वा) ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्य 472 इति यलोपः । मनुषी ॥ । मत्स्यस्य ङ्याम् (वा) ॥ मत्सी ॥
  • (519) पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च <4-1-64>
पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥
  • (520) इतो मनुष्यजातेः <4-1-65>
ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् ? तित्तिरिः ॥
उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो ण्यः 1190 ॥ तस्य स्त्रियामवन्ति 1195 इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः ॥ अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम् (वा) ॥ रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि नोङ्धात्वोः 3721इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥
  • (522) बाह्वन्तात्संज्ञायाम् <4-1-67>
स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥
पङ्गूः ॥ । श्वशुरस्योकाराकारलोपश्च (वा) ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥
  • (524) ऊरूत्तरपदादौपम्ये <4-1-69>
उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥
  • (525) संहितशफलक्षणवामादेश्च <4-1-70>
अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ॥ । सहितसहाभ्यां चेति वक्तव्यम् (वा) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥
  • (526) संज्ञायाम् <4-1-72>
कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥
  • (527) शाङ्र्गरवाद्यञो ङीन् <4-1-73>
शाङ्र्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शाङ्र्गरवी । बैदी । जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । (ग) नृनरयोर्वृद्धिश्च इति गणसूत्रम् । नारी ॥
यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ॥ । षाद्यञश्चाप् वाच्यः (वा) ॥ पौतिमाष्या ॥
  • (529) आवट्याच्च <4-1-75>
अस्माच्चाप् स्यात् । यञश्च 471 इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥
आपञ्चमसमाप्तेरधिकारोऽयम् ॥
युवन् शब्दात्तिप्रत्ययः स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥
इति स्त्रीप्रत्ययप्रकरणम्‌

कारकप्रकरणम्‌[सम्पाद्यताम्]

  • (532) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा <2-3-46>
नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः - तटी - तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥
  • (533) संबोधने च <2-3-47>
इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥
इत्यधिकृत्य ॥
  • (535) कर्तुरीप्सिततमं कर्म <1-4-49>
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥
  • (536) अनभिहिते <2-3-1>
इत्यधिक़ृत्य ॥
  • (537) कर्मणि द्वितीया <2-3-2>
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः । समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥
  • (538) तथायुक्तं चानीप्सितम् <1-4-50>
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥

दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् ? माणवकस्य पितरं पन्थानं पृच्छति ॥ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् (वा) ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥

  • (540) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ <1-4-52>
गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥

शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥ गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ । नीवह्योर्न (वा) ॥ नाययति वाहयति वा भारं भृत्येन ॥ नियन्तृकर्तृकस्य वहेरनिषेधः (वा) ॥ वाहयति रथं वाहान् सूतः ॥ । आदिखाद्योर्न (वा) ॥ आदयति खादयति वा अन्नं बटुना ॥ भक्षेरहिंसार्थस्य न (वा) । भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥ जल्पतिप्रभृतीनामुपसङ्ख्यानम् (वा) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ॥ । दृशेश्च (वा) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥ शब्दायतेर्न (वा) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥

  • (541) हृक्रोरन्यतरस्याम् <1-4-53>
हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥ अभिवादिदृशोरात्मनेपदे वेति वाच्यम् (वा) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥
  • (542) अधिशीङ्स्थासां कर्म <1-4-46>
अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥
  • (543) अभिनिविशश्च <1-4-47>
अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् 580 इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥
  • (544) उपान्वध्याङ्वसः <1-4-48>
उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥ अभुक्त्यर्थस्य न (वा) ॥ वने उपवसति ॥
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥

उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥ अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥

  • (545) अन्तरान्तरेण युक्ते <2-3-4>
आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥
  • (546) कर्मप्रवचनीयाः <1-4-83>
इत्यधिकृत्य ॥
  • (547) अनुर्लक्षणे <1-4-84>
लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥
  • (548) कर्मप्रवचनीययुक्ते द्वितीया <2-3-8>
एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत 552 इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥
  • (549) तृतीयार्थे <1-4-85>
अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥
हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥
  • (551) उपोऽधिके च <1-4-87>
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥
  • (552) लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः <1-4-90>
एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां, वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥
भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥
  • (554) अधिपरी अनर्थकौ <1-4-93>
उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ 3977 इति निघातो न ॥
  • (555) सुः पूजायाम् <1-4-94>
सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥
  • (556) अतिरतिक्रमणे च <1-4-95>
अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ॥
  • (557) अपिः पदार्थसंभावनाऽन्ववसर्गगर्हासमुच्चयेषु <1-4-96>
एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तम् अपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ॥
  • (558) कालाध्वनोरत्यन्तसंयोगे <2-3-5>
इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडाधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥
  • (559) स्वतन्त्रः कर्ता <1-4-54>
क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥
  • (560) साधकतमं करणम् <1-4-42>
क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥
  • (561) कर्तृकरणयोस्तृतीया <2-3-18>
अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥ प्रकृत्यादिभ्य उपसंख्यानम् (वा) ॥ प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमैणेति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥
  • (562) दिवः कर्म च <1-4-43>
दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥
  • (563) अपवर्गे तृतीया <2-3-6>
अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥
  • (564) सहयुक्तेऽप्रधाने <2-3-19>
सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूना 931 इत्यादिनिर्देशात् ॥
  • (565) येनाङ्गविकारः <2-3-20>
येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥
  • (566) इत्थंभूतलक्षणे <2-3-21>
कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥
  • (567) संज्ञोऽन्यतरस्यां कर्मणि <2-3-22>
संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥
हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया (वा) ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ इति तृतीया ॥
  • (569) कर्मणा यमभिप्रैति स संप्रदानम् <1-4-32>
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥
  • (570) चतुर्थी संप्रदाने <2-3-13>
विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ॥ । क्रियया यमभिप्रैति सोऽपि संप्रदानम् (वा) ॥ पत्ये शेते ॥ । यजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा (वा) ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥
  • (571) रुच्यर्थानां प्रीयमाणः <1-4-33>
रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि ॥
  • (572) श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः <1-4-34>
एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥
  • (573) धारेरुत्तमर्णः <1-4-35>
धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥
  • (574) स्पृहेरीप्सितः <1-4-36>
स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥
  • (575) क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः <1-4-37>
क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥
  • (576) क्रुधद्रुहोरुपसृष्टयोः कर्म <1-4-38>
सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥
  • (577) राधीक्ष्योर्यस्य विप्रश्नः <1-4-39>
एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥
  • (578) प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता <1-4-40>
आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥
  • (579) अनुप्रतिगृणश्च <1-4-41>
आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुग़ृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥
  • (580) परिक्रयणे संप्रदानमन्यतरस्याम् <1-4-44>
नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥ तादर्थ्ये चतुर्थी वाच्या (वा) ॥ मुक्तये हरिं भजति ॥ ्लृपि सम्पद्यमाने च (वा) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥ उत्पातेन ज्ञापिते च (वा) ॥ वाताय कपिला विद्युत् ॥ । हितयोगे च (वा) ॥ ब्राह्मणाय हितम् ॥
  • (581) क्रियार्थोपपदस्य च कर्मणि स्थानिनः <2-3-14>
क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥
  • (582) तुमर्थाच्च भाववचनात् <2-3-15>
भाववचनाश्च 3180 इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥
  • (583) नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च <2-3-16>
एभिर्योगे चतुर्थी स्यात् । हरये नमः । (प) उपपदविभक्तेः कारकविभक्तिर्बलीयसी ॥ नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति 1765 स एषां ग्रामणीः 1878 इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥
  • (584) मन्यकर्मण्यनादरे विभाषाऽप्राणिषु <2-3-17>
प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वेऽहम् । अप्राणिष्वित्यपनीय । । नौकाकान्नशुकशृगालवर्ज्येष्विति वाच्यम् (वा) ॥ तेन न त्वां नावमन्नं वा मन्येःथ्द्य;त्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ॥
  • (585) गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि <2-3-12>
अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ? मनसा हरिं व्रजति । अनध्वनीति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति चतुर्थी ॥
  • (586) ध्रुवमपायेऽपादानम् <1-4-24>
अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥
  • (587) अपादाने पञ्चमी <2-3-28>
ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्णं पतति ॥ । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् (वा) ॥ पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥
  • (588) भीत्रार्थानां भयहेतुः <1-4-25>
भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये

बिभेति त्रायते वा ॥

  • (589) पराजेरसोढः <1-4-26>
पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥
  • (590) वारणार्थानामीप्सितः <1-4-27>
प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥
  • (591) अन्तर्धौ येनादर्शनमिच्छति <1-4-28>
व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥
  • (592) आख्यातोपयोगे <1-4-29>
नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? टस्य गाथां शृणोति ॥
  • (593) जनिकर्तुः प्रकृतिः <1-4-30>
जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥
  • (594) भुवः प्रभवः <1-4-31>
भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥ ्यब्लोपे कर्मण्यधिकरणे च (वा) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः । गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् । कस्मात्त्वं नद्याः ॥ यतश्चाध्वकालनिर्माणं तत्र पञ्चमी (वा) ॥ । तद्युक्तादध्वनः प्रथमासप्तम्यौ (वा) ॥ । कालात्सप्तमी च वक्तव्या (वा) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥
  • (595) अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते <2-3-29>
एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमाम्रेडितम् 83 इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थ 609 इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमी 587 इति सूत्रे कार्तिक्याः प्रभृति इति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिः 666 इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ॥
  • (596) अपपरी वर्जने <1-4-88>
एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥
  • (597) आङ् मर्यादावचने <1-4-89>
आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥
  • (598) पञ्चम्यपाङ्परिभिः <2-3-10>
एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥
  • (599) प्रतिः प्रतिनिधिप्रतिदानयोः <1-4-92>
एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥
  • (600) प्रतिनिधिप्रतिदाने च यस्मात् <2-3-11>
अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥
  • (601) अकर्तर्यृणे पञ्चमी <2-3-24>
कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥
  • (602) विभाषा गुणेऽस्त्रियाम् <2-3-25>
गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥
  • (603) पृथग्विनानानाभिस्तृतीऽयान्यतरस्याम् <2-3-32>
एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥
  • (604) करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य <2-3-33>
एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ॥
  • (605) दूरान्तिकार्थेभ्यो द्वितीया च <2-3-35>
एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकम् अन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥
  • (606) षष्ठी शेषे <2-3-50>
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥
  • (607) षष्ठी हेतुप्रयोगे <2-3-26>
हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥
  • (608) सर्वनाम्नस्तृतीया च <2-3-27>
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः ॥ । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् (वा) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥
  • (609) षष्ठ्यतसर्थप्रत्ययेन <2-3-30>
एतद्योगे षष्ठी स्यात् । दिक्शब्द 595 इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥
  • (610) एनपा द्वितीया <2-3-31>
एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥
  • (611) दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् <2-3-34>
एतैर्योगे षष्ठी स्यात् पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥
  • (612) ज्ञोऽविदर्थस्य करणे <2-3-51>
जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥
  • (613) अधीगर्थदयेशां कर्मणि <2-3-52>
एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ॥
  • (614) कृञः प्रतियत्ने <2-3-53>
कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधो दकस्योपस्करणम् ॥
  • (615) रुजार्थानां भाववचनानामज्वरेः <2-3-54>
भावाकतृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ॥ । अज्वरिसंताप्योरिति वाच्यम् (वा) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा । रोगकर्तृकं चौरसंबन्धि

ज्वरादिकमित्यर्थः ॥

  • (616) आशिषि नाथः <2-3-55>
आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥
  • (617) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् <2-3-56>
हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ?धानापेषणम् ॥
  • (618) व्यवहृपणोः समर्थयोः <2-3-57>
शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥
  • (619) दिवस्तदर्थस्य <2-3-58>
द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥
  • (620) विभाषोपसर्गे <2-3-59>
पूर्वयोगापवादः शतस्य शतं वा प्रतिदीव्यति ॥
  • (621) प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने <2-3-61>
देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥
  • (622) कृत्वोर्थप्रयोगे कालेऽधिकरणे <2-3-64>
कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥
  • (623) कर्तृकर्मणोः कृति <2-3-65>
कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ॥ । गुणकर्मणि वेष्यते (वा) ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् ? तद्धिते माभूत् । कृतपूर्वी कटम् ॥
  • (624) उभयप्राप्तौ कर्मणि <2-3-66>
उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥ स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः (वा) ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ॥ । शेषे विभाषा (वा) ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥
  • (625) क्तस्य च वर्तमाने <2-3-67>
वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोक 627 इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥
  • (626) अधिकरणवाचिनश्च <2-3-68>
क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥
  • (627) न लोकाव्ययनिष्ठाखलर्थतृनाम् <2-3-69>
एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः । अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥ कमेरनिषेधः (वा) ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥ द्विषः शतुर्वा (वा) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः

प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥

  • (628) अकेनोर्भविष्यदाधमर्ण्ययोः <2-3-70>
भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥
  • (629) कृत्यानां कर्तरि वा <2-3-71>
षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । भव्यगेय 2894 इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥
  • (630) तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् <2-3-72>
तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥
  • (631) चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः <2-3-73>
एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥
  • (632) आधारोऽधिकरणम् <1-4-45>
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥
  • (633) सप्तम्यधिकरणे च <2-3-36>
अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्तिकार्थेभ्यः 605 इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः ॥ क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् (वा) ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्च 1888 इति कर्तरीनिः ॥ साध्वसाधुप्रयोगे च (वा) ॥ साधुः कृष्णो मातरि । असाधुर्मातुले ॥ निमित्तात्कर्मयोगे (वा) ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः ।
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।

केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥1 ॥ (इति भाष्यम्) । हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥

  • (634) यस्य च भावेन भावलक्षणम् <2-3-37>
यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ । अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च (वा) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥
  • (635) षष्ठी चानादरे <2-3-38>
अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥
  • (636) स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च <2-3-39>
एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ।
  • (637) आयुक्तकुशलाभ्यां चासेवायाम् <2-3-40>
आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । एआसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥
  • (638) यतश्च निर्धारणम् <2-3-41>
जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥
  • (639) पञ्चमी विभक्ते <2-3-42>
विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥
  • (640) साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः <2-3-43>
आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ॥ । अप्रत्यादिभिरिति वक्तव्यम् (वा) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥
  • (641) प्रसितोत्सुकाभ्यां तृतीया च <2-3-44>
आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥
  • (642) नक्षत्रे च लुपि <2-3-45>
नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥
  • (643) सप्तमीपञ्चम्यौ कारकमध्ये <2-3-7>
शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । तदस्मिन्नधिकम् 1846 इति यस्मादधिकम् 645 इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥
  • (644) अधिरीश्वरे <1-4-97>
स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥
  • (645) यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी <2-3-9>
अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । सप्तमी शौण्डैः 717 इति समासपक्षे तु रामाधीना । अषडक्ष 2079 इत्यादिना खः ॥
  • (646) विभाषा कृञि <1-4-98>
अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति 3978 इति निघातो न ॥ इति सप्तमी ॥
इति कारकप्रकरणम्‌

अव्ययीभावसमासप्रकरणम्‌[सम्पाद्यताम्]

  • (647) समर्थः पदविधिः <2-1-1>
पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥
  • (648) प्राक्कडारात्समासः <2-1-3>
कडाराः कर्मधारये 751 इत्यतः प्राक् समास इत्यधिक्रियते ॥
सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥
  • (650) सुपो धातुप्रातिपदिकयोः <2-4-71>
एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरट् 1999 इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वे भूतो भूतपूर्वः ॥ । इवेन समासो विभक्त्यलोपश्च ॥ जीमूतस्येव ॥
  • (651) अव्ययीभावः <2-1-5>
अधिकारोऽयम् ॥
  • (652) अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु <2-1-6>
अव्ययमिति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते । सोऽव्ययीभावः ॥
  • (653) प्रथमानिर्दिष्टं समास उपसर्जनम् <1-2-43>
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥
  • (654) उपसर्जनं पूर्वम् <2-2-30>
समासे उपसर्जनं प्राक्प्रयोज्यम् ॥
  • (655) एकविभक्ति चापूर्वनिपाते <1-2-44>
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः ॥
  • (656) गोस्त्रियोरुपसर्जनस्य <1-2-48>
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अव्ययीभावश्च 451 इत्यव्ययत्वम् ॥
  • (657) नाव्ययीभावादतोऽम् त्वपञ्चम्याः <2-4-83>
अदन्तादव्ययीभावात्सुपो न लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥
  • (658) तृतीयासप्तम्योर्बहुलम् <2-4-84>
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥
  • (659) अव्ययीभावश्च <2-4-18>
अयं नपुंसकं स्यात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य 318 । गोपायतीति इति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे । कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु

नाव्ययीभावः । अभितः परितः अन्यारात् 595 इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यृद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इति हरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥

  • (660) अव्ययीभावे चाकाले <6-3-81>
सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥
  • (661) यथाऽसादृश्ये <2-1-7>
असादृश्ये एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते ॥
  • (662) यावदवधारणे <2-1-8>
यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छ्लोकम् ॥
  • (663) सुप्प्रतिना मात्रार्थे <2-1-9>
शाकस्य लेशः शाकप्रतिः । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥
  • (664) अक्षशलाकासंख्याः परिणा <2-1-10>
द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ॥
अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानज्ञापकात् ॥
  • (666) अपपरिबहिरञ्चवः पञ्चम्या <2-1-12>
अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥
  • (667) आङ्मर्यादाभिविध्योः <2-1-13>
एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः आ मुक्तेः । आबालं हरिभक्तिः आ बालेभ्यः ॥
  • (668) लक्षणेनाभिप्रती आभिमुख्ये <2-1-14>
आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्रागवत् । अभ्यग्नि शलभाः पतन्ति अग्निमभि । प्रत्यग्नि अग्निं प्रति ।
  • (669) अनुर्यत्समया <2-1-15>
यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ।
  • (670) यस्य चायामः <2-1-16>
यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ।
  • (671) तिष्ठद्गुप्रभृतीनि च <2-1-17>
एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः

दोहनकालः । आयतीगवम् इत्यादि । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥

  • (672) पारे मध्ये षष्ठ्या वा <2-1-18>
पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय गङ्गापारात् । मध्ये गङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गायाः मध्यात् ॥
  • (673) संख्या वंश्येन <2-1-19>
वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥
नदीभिः सह सङ्ख्या प्राग्वत् ॥ । समाहारे चायमिष्यते ॥ सप्तगङ्गम् । द्वियमुनम् ॥
  • (675) अन्यपदार्थे च संज्ञायाम् <2-1-21>
अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥
  • (676) समासान्ताः <5-4-68>
इत्यधिकृत्य ॥
  • (677) अव्ययीभावे शरत्प्रभृतिभ्यः <5-4-107>
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । (ग) जरायाः जरस् च । उपजरसम् । (ग) प्रतिपरसमनुभ्योऽक्ष्णः ॥ यस्येति च 311 ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिट् 2171 इति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्श आद्यचि । समक्षम् । अन्वक्षम् ॥
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
  • (679) नस्तद्धिते <6-4-144>
नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ॥
  • (680) नपुंसकादन्यतरस्याम् <5-4-109>
अन्नन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥
  • (681) नदीपौर्णमास्याग्रहायणीभ्यः <5-4-110>
वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि ॥
झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥
  • (683) गिरेश्च सेनकस्य <5-4-112>
गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥
इति अव्ययीभावसमासप्रकरणम्‌

तत्पुरुषसमासप्रकरणम्‌[सम्पाद्यताम्]

  • (684) तत्पुरुषः <2-1-22>
अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥
  • (685) द्विगुश्च <2-1-23>
द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥
  • (686) द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तन्नैः <2-1-24>
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत ॥ । गम्यादीनामुपसंख्यानम् ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥
  • (687) स्वयं क्तेन <2-1-25>
द्वितीया - 686 इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥
  • (688) खट्वा क्षेपे <2-1-26>
खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥
सामिकृतम् ॥
क्तेनेत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥
  • (691) अत्यन्तसंयोगे च <2-1-29>
काला इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखं मुहूर्तसुखम् ॥
  • (692) तृतीया तत्कृतार्थेन गुणवचनेन <2-1-30>
तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥
  • (693) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः <2-1-31>
तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे । माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । मिश्रं चानुपसर्गमसन्धौ 3888 इत्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः ॥ । अवरस्योपसंख्यानम् ॥ मासेनावरो मासावरः ॥
  • (694) कर्तृकरणे कृता बहुलम् <2-1-32>
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्रागवत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः ॥ (प) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥
  • (695) कृत्यैरधिकार्थवचने <2-1-33>
स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥
  • (696) अन्नेन व्यञ्जनम् <2-1-34>
संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥
  • (697) भक्ष्येण मिश्रीकरणम् <2-1-35>
गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥
  • (698) चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः <2-1-36>
चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठी समासाः ॥ । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥
  • (699) पञ्चमी भयेन <2-1-37>
चोराद्भयं चोरभयम् ॥ । भयभीतभीतिभीभिरिति वाच्यम् ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥
  • (700) अपेतापोढमुक्तपतितापन्नस्तैरल्पशः <2-1-38>
एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥
  • (701) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन <2-1-39>
स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्यः 159 इत्यलुक् ॥
राज्ञः पुरुषो राजपुरुषः ॥
  • (703) याजकादिभिश्च <2-2-9>
एभिः षष्ठ्यन्तं समस्यते । तृजकाभ्यां कर्तरि 709 इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः ॥ । गुणात्तरणे तरलोपश्चेति वक्तव्यम् ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । न निर्धारणे 704 इति पूरणगुण 705 इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ॥ । कृद्योगा च षष्ठी समस्यत इति वाच्यम् ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥
  • (704) न निर्धारणे <2-2-10>
निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ॥ । प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् ॥ सर्पिषो ज्ञानम् ॥
  • (705) पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन <2-2-11>
पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे । काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेवमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । तदाशिष्यं संज्ञाप्रमाणत्वात् 1295 इत्यादिनिर्देशात् । तेनार्थगौरवम् बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः । सत् । द्विजस्य कुर्वन्कुर्वाणो वा । किंकरः इत्यर्थः । अव्ययम् । ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्ये । ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् स्वरे भेदः । समानाधिकरणेन । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवति 744 इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्बाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते ॥
  • (706) क्तेन च पूजायाम् <2-2-12>
मतिबुद्धि - 3089 इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥
  • (707) अधिकरणवाचिना च <2-2-13>
क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥
उभयप्राप्तौ कर्मणि 624 इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥
  • (709) तृजकाभ्यां कर्तरि <2-2-15>
कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥
कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥
  • (711) नित्यं क्रीडाजीविकयोः <2-2-17>
एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायाम् 3286 इति भावे ण्वुल् । जीविकायां । दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरि 709 इति निषेधे प्राप्ते वचनम् ॥
  • (712) पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे <2-2-1>
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसाय - 238 इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोप्येकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥
  • (713) अर्धं नपुंसकम् <2-2-2>
समांसवाच्यर्ध शब्दो नित्यं क्लीबे स प्राग्वत् ॥ । एकविभक्तावषष्ठ्यन्तवचनम् ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥
  • (714) द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् <2-2-3>
एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - 705 इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥
  • (715) प्राप्तापन्ने च द्वितीयया <2-2-4>
पक्षे द्वितीयाश्रिता-- 686 इति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्न जीविका ॥
  • (716) कालाः परिमाणिना <2-2-5>
परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य सः इति विग्रहः ॥ । उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् ॥ द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । अह्नोऽह्न- 790 इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु न सङ्ख्यादेः समाहारे 793 इति निषेधः ॥
  • (717) सप्तमी शौण्डैः <2-1-40>
सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदात् 2079 इति खः । ईश्वराधीनः ॥
  • (718) सिद्धशुष्कपक्वबन्धैश्च <2-1-41>
एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥
  • (719) ध्वाङ्क्षेण क्षेपे <2-1-42>
ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥
  • (720) कृत्यैर्ऋणे <2-1-43>
सप्तम्यन्तं कृत्प्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ॥
  • (721) संज्ञायाम् <2-1-44>
सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । हलदन्तात्सप्तम्या 966 इत्यलुक् ॥
  • (722) क्तेनाहोरात्रावयवाः <2-1-45>
अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्णकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥
तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥
सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥
  • (725) पात्रेसमितादयश्च <2-1-48>
एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥
  • (726) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन <2-1-49>
विशेषणं विशेष्येण 736 इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायाम् 727 इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥
  • (727) दिक्संख्ये संज्ञायाम् <2-1-50>
समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥
  • (728) तद्धितार्थोत्तरपदसमाहारे च <2-1-51>
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञः 1328 इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शाला शब्दे आकारः उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ । द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् ॥
  • (729) गोरतद्धितलुकि <5-4-92>
गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥
  • (730) संख्यापूर्वो द्विगुः <2-1-52>
तद्धितार्थ - 728 इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगोः स्यात् ॥
  • (731) द्विगुरेकवचनम् <2-4-1>
द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकम् 821 इति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥
  • (732) कुत्सितानि कुत्सनैः <2-1-53>
कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥
  • (733) पापाणके कुत्सितैः <2-1-54>
पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥
  • (734) उपमानानि समान्यवचनैः <2-1-55>
घन इव श्यामो घनयामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥
  • (735) उपमितं व्याघ्रादिभिः सामान्याप्रयोगे <2-1-56>
उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्यप्रयेगे किम् । पुरुषो व्याघ्र इव शूरः ॥
  • (736) विशेषणं विशेषेण बहुलम् <2-1-57>
भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥
  • (737) पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च <2-1-58>
पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ॥ । अपरस्यार्धे पश्चभावो वक्तव्यः ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैक - 726 इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥
  • (738) श्रेण्यादयः कृतादिभिः <2-1-59>
। श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम् ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥
  • (739) क्तेन नञ्विशिष्टेनानञ् <2-1-60>
नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ॥ । शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् ॥ शाकप्रियः पार्थिवः शकपार्थिवः । देवब्राह्मणः ॥
  • (740) सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः <2-1-61>
सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥
  • (741) वृन्दारकनागकुञ्जरैः पूज्यमानम् <2-1-62>
गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥
  • (742) कतरकतमौ जातिपरिप्रश्ने <2-1-63>
कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥
  • (743) किं क्षेपे <2-1-64>
कुत्सितो राजा किंराजा । यो न रक्षति ॥
  • (744) पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्दातिः <2-1-65>
  • (745) तत्पुरुषः समानाधिकरणः कर्मधारयः <1-2-42>
  • (746) पुंवत्कर्मधारयजातीयदेशीयेषु <6-3-42>
कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्ंिमस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥
  • (747) प्रशंसावचनैश्च <2-1-66>
एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः न तु विशेष्यनिध्नाः । जातिः किम् । कुमारी मतल्लिका ॥
  • (748) युवा खलतिपलितवलिनजरतीभिः <2-1-67>
पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः ।

युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्समानाधिकरण्यम् ॥

  • (749) कृत्यतुल्याख्या अजात्या <2-1-68>
भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥
  • (750) वर्णो वर्णेन <2-1-69>
समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥
  • (751) कडाराः कर्मधारये <2-2-38>
कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥
  • (752) कुमारः श्रमणादिभिः <2-1-70>
कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥
  • (753) चतुष्पादो गर्भिण्या <2-1-71>
चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी ॥
  • (754) मयूरव्यंसकादयश्च <2-1-72>
एते निपात्यन्ते । मयूरो व्यंसको । मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः ॥ (ग) आख्यातमाख्यातेन क्रियासातत्ये ॥ अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता ॥ (ग) एहीडादयोऽन्यपदार्थे ॥ एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ (ग) जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयत इत्यर्थः ॥ जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥
  • (755) ईषदकृता <2-2-7>
ईषत्पिङ्गलः ॥ । ईषद्गुणवचनेनेति वाच्यम् ॥ ईषद्रक्तम् ॥
नञ् सुपा सह समस्यते ॥
  • (757) नलोपो नञः <6-3-73>
नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः, अब्राह्मणः ॥
  • (758) तस्मान्नुडचि <6-3-74>
लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावे अव्ययीभावेन सहायं विकल्पते । रक्षोहागमलघ्वसंदेहाः प्रयोजनम् इति, । अद्रुतायामसंहितम् इति च भाष्यवार्तिकप्रयोगात् । तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् ॥ । नञो नलोपस्तिङि क्षेपे ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु न शब्देन सह सूपा 649 इति समासः ॥
  • (759) नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या <6-3-75>
पाद् शत्रन्तः । वेदाः इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चति इति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । नस्त्रीपुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । क्रमेर्डः । न अकस्मिन्निति नाकः ॥
  • (760) नगोऽप्राणिष्वन्यतरस्याम् <6-3-77>
नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । नित्यं क्रीडा 711 इत्यतो नित्यमित्यनुवर्तमाने ॥
  • (761) कुगतिप्रादयः <2-2-18>
एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्च 23 इत्यनुवर्तमाने ॥
  • (762) ऊर्यादिच्विडाचश्च <1-4-61>
एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥
  • (763) अनुकरणं चानितिपरम् <1-4-62>
खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥
  • (764) आदरानादरयोः सदसती <1-4-63>
सत्कृत्य । असत्कृत्य ॥
  • (765) भूषणेऽलम् <1-4-64>
अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम् - 763 इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ॥
  • (766) अन्तरपरिग्रहे <1-4-65>
अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥
  • (767) कणेमनसी श्रद्धाप्रतीघाते <1-4-66>
कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातऽभिलाषातिशये वर्तते । मनः शब्दोऽप्यत्रैव ॥
  • (768) पुरोऽव्ययम् <1-4-67>
पुरस्कृत्य ॥
अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥
  • (770) अच्छ गत्यर्थवदेषु <1-4-69>
अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥
  • (771) अदोऽनुपदेशे <1-4-70>
अदःकृत्य अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥
  • (772) तिरोऽन्तर्धौ <1-4-71>
तिरोभूय ॥
  • (773) विभाषा कृञि <1-4-72>
तिरस्कृत्य । तिरकृत्य । तिरः कृत्वा ॥
  • (774) उपाजेऽन्वाजे <1-4-73>
एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥
  • (775) साक्षात्प्रभृतीनि च <1-4-74>
कृञि वा गतिसंज्ञानि स्युः ॥ । च्व्यर्थ इति वाच्यम् ॥ साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥
  • (776) अनत्याधान उरसिमनसी <1-4-75>
उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥
  • (777) मध्ये पदे निवचने च <1-4-76>
एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥
  • (778) नित्यं हस्ते पाणावुपयमने <1-4-77>
कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥
  • (779) प्राध्वं बन्धने <1-4-78>
प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥
  • (780) जीविकोपनिषदावौपम्ये <1-4-79>
जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ॥ । प्रादयो गताद्यर्थे प्रथमया ॥ प्रगत आचार्यः प्राचार्यः ॥ । अत्यादयः क्रन्ताद्यर्थे द्वितीयया ॥ अतिक्रान्तो मालामतिमालः ॥ । अवादयः क्रुष्टाद्यर्थे तृतीयया ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥ । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ । निरादयः क्रान्ताद्यर्थे पञ्चम्या ॥ निष्क्रान्तः कौशाम्ब्या निष्कशाम्बिः ॥ । कर्मप्रवचनीयानां प्रतिषेधः ॥ वृक्षं प्रति ॥
  • (781) तत्रोपपदं सप्तमीस्थम् <3-1-92>
सप्तम्यन्ते पदे कर्मणि - 2913 इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्ंिमश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥
  • (782) उपपदमतिङ् <2-2-19>
उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङ् 1219 इति सप्तमीनिर्देशान्माङुपपदम् । अतिङ्ग्रहणं ज्ञापयति सुपेत्येन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च (प) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥
  • (783) अमैवाव्ययेन <2-2-20>
अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ कालसमयवेलासु तुमुन् 3179 ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाऽग्रेप्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥
  • (784) तृतीयाप्रभृतीन्यन्यतरस्याम् <2-2-21>
उपदंशस्तृतीयायाम् 3368 इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥
तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेत - 3381 इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥
  • (786) तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः <5-4-86>
संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥
  • (787) अहः सर्वैकदेशसंख्यातपुराणाच्च रात्रेः <5-4-87>
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः ॥ । अहर्ग्रहणं द्वन्द्वार्थम् ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥
  • (788) राजाहः सखिभ्यष्टच् <5-4-91>
एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥
  • (789) अह्नष्टखोरेव <6-4-145>
टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्टः - 1744 इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहः संवत्सराच् 1751 इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह ।

मद्राणां राज्ञी मद्रराज्ञी ॥

  • (790) अह्नोऽह्न एतेभ्यः <5-4-88>
सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्यात्समासान्ते परे ॥
  • (791) अह्नोऽदन्तात् <8-4-7>
अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् 1381 ॥ द्विगोर्लुगनपत्य 1080 इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्ह्यह्नप्रियः । अत्यह्नः ॥
  • (792) क्षुभ्नादिषु च <8-4-39>
एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्त - 1055 इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपकरणान्नेह । परगतमहः पराह्नः ॥
  • (793) न संख्यादेः समाहारे <5-4-89>
समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥
  • (794) उत्तमैकाभ्यां च <5-4-90>
आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥
  • (795) अग्राख्यायामुरसः <5-4-93>
टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥
  • (796) अनोश्मायः सरसां जातिसंज्ञयोः <5-4-94>
टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥
  • (797) ग्रामकौटाभ्यां च तक्ष्णः <5-4-95>
ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥
  • (798) अतेः शुनः <5-4-96>
अतिश्वो वराहः । अतिश्वी सेना ॥
  • (799) उपमानादप्राणिषु <5-4-97>
अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥
  • (800) उत्तरमृगपूर्वाच्च सक्थ्नः <5-4-98>
चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥
  • (801) नावो द्विगोः <5-4-99>
नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्ये 1080 इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥
अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥
  • (803) खार्याः प्राचाम् <5-4-101>
द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥
  • (804) द्वित्रिभ्यामञ्जलेः <5-4-102>
टज्वा स्याद् द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ॥
  • (805) ब्रह्मणो जानपदाख्यायाम् <5-4-104>
ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥
  • (806) कुमहद्भ्यामन्यतरस्याम् <5-4-105>
आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा ॥
  • (807) आन्महतः समानाधिकरणजातीययोः <6-3-46>
महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महत् 740 इति समासोऽत्र ग्रहीष्यते इति चेत्, महाबाहुर्न स्यात् । तस्मात् (प) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् । प्रागेकादशभ्यः 1995 इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारय 746 इति पुंवद्भावे कृते आत्त्वम् । महाजातीया ॥ । महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः ॥ । अष्टनः कपाले हविषि ॥ अष्टाकपालः ॥ । गवि च युक्ते ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अच्प्रत्यन्वव 943 इत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥
  • (808) द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः <6-3-47>
आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः ॥ । प्राक्शतादिति वक्तव्यम् ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥
  • (809) त्रेस्त्रयः <6-3-48>
त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥
  • (810) विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् <6-3-49>
द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥
  • (811) एकादिश्चैकस्य चादुक् <6-3-76>
एकादिर्नञ्प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन नविंशतिः एकान्नविंशतिः । एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः ॥ । षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् ॥ षोडन् । षोडश । षोढा । षड्धा ॥
  • (812) परवल्लिङ्गं द्वन्द्वतत्पुरषयोः <2-4-26>
एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ॥ । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥
  • (813) पूर्ववदश्ववडवौ <2-4-27>
द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥
  • (814) रात्राह्नाहाः पुंसि <2-4-29>
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्णः । द्व्यहः ॥ संङ्ख्यापूर्वं रात्रं क्लीबम् ॥ लि. 131 द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥
  • (815) अपथं नपुंसकम् <2-4-30>
तत्पुरुषः इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥
  • (816) अर्धर्चाः पुंसि च <2-4-31>
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्घर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ,शरीर,मण्ड,पीयूष,देह,अङ्कुश,कलश इत्यादि ॥
  • (817) जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्यम् <1-2-58>
एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥
  • (818) अस्मदो द्वयोश्च <1-2-59>
एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ॥ । सविशेषणस्य प्रतिषेधः ॥ पटुरहं ब्रवीमि ॥
  • (819) फल्गुनीप्रोष्ठपदानां च नक्षत्रे <1-2-60>
द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥
  • (820) तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् <1-2-63>
बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माणवकाः ॥
  • (821) स नपुंसकम् <2-4-17>
समाहारे द्विगुर्द्वन्द्वाश्च नपुंसकं स्यात् । परवल्लिङ्गपवादः । पञ्चगवम् । दन्तोष्ठम् ॥ । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः ॥ पञ्चमूली ॥ । आबन्तो वा ॥ पञ्चखट्वम् । पञ्चखट्वी ॥ । अनो नलोपश्च वा द्विगुः स्त्रियाम् ॥ पञ्चतक्षी । पञ्चतक्षम् ॥ । पात्राद्यन्तस्य न ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ । पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा ॥ पुण्याहम् । सुदिनाहम् ॥ । पथः संख्याव्ययादेः ॥ संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः ॥ । सामान्ये नपुंसकम् ॥ मृदु पचति । प्रातः कमनीयम् ॥
  • (822) तत्पुरुषोऽनञ्कर्मधारयः <2-4-19>
अधिकारोऽयम् ॥
  • (823) संज्ञायां कन्थोशीनरेषु <2-4-20>
कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥
  • (824) उपज्ञोपक्रमं तदाद्याचिख्यासायाम् <1-4-21>
उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥
  • (825) छाया बाहुल्ये <2-4-22>
छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । विभाषासेना - 828 इति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्यः इति तु आ समन्तान्निषादिन्य इत्याङ्श्लेषो बोध्यः ॥
  • (826) सभा राजाऽमनुष्यपूर्वा <2-4-23>
राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ॥ । पर्यायस्यैवेष्यते ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥
सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥
  • (828) विभाषा सेनासुराच्छायाशालानिशानाम् <2-4-25>
एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनञ्कर्मधारय - 822 इत्यनुवृत्तेर्नेह ।

दृढसेनो राजा । असेना । परमसेना ॥

इति तत्पुरुषसमासप्रकरणम्

बहुव्रीहिसमासप्रकरणम्‌[सम्पाद्यताम्]

  • (829) शेषो बहुव्रीहिः <2-2-23>
अधिकारोऽयम् । द्वितीया श्रिता - 683 इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥
  • (830) अनेकमन्यपदार्थे <2-2-24>
अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ॥ । प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः ॥ प्रपतितपर्णः प्रपर्णः ॥ । नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः ॥ अविद्यमानपुत्रः अपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥
  • (831) स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु <6-3-34>
भाषितपुंस्कादनूङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोः - 656 इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे । चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः । जरतीचित्रगुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आनङ् ऋतः -- 921 इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुरित्यादिः । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रमाणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरूभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥
  • (832) अप्पूरणीप्रमाण्योः <5-4-116>
पूरणार्थप्रत्ययान्तं यस्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः । पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव । रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥
नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः ॥
के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ॥
कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकतृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया ॥ । सामान्ये नपुंसकम् ॥ दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥
  • (836) तसिलादिष्वाकृत्वसुचः <6-3-35>
तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्यप्त्यतिव्याप्तिपरिहाराय ॥ । त्रतसौ । तरप्तमपौ । चरट्जातीयरौ । कल्पब्देशीयरौ । रूपप्पाशपौ । थाल् । तिल्थ्यनौ । बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । घरूप - 985 इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । र्दानीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या ॥ । शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ॥ । त्वतलोर्गुणवचनस्य ॥ शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्त्र्या भावः कर्त्रीत्वम् । शरदः कृतार्थता इत्यादौ तु सामान्ये नपुंसकम् ॥ । भस्याढे तद्धिते ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढक् 1123 इति ढोऽत्र गृह्यते । अग्नेर्ढक् 1236 इति ढकि तु पुंवदेव । अग्नायी देवताऽस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छाङ्र्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् । सापत्यः ॥ । ठक्छसोश्च ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकं एकतद्धिते च 1000 इति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति भाष्यकारेषट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । भस्त्रैषाजाज्ञाद्वा - 466 इति लिङ्गात् । तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः ॥ । कुक्कुट्यादीनामण्डादिषु ॥ कुक्कुट्या अण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः ॥
  • (837) क्यङ्मानिनोश्च <6-3-36>
एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥
  • (838) न कोपधायाः <6-3-37>
कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥ कोपधप्रतिषेधे तद्धितवुग्रणम् ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥
  • (839) संज्ञापूरण्योश्च <6-3-38>
अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥
  • (840) वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे <6-3-39>
वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्त्रौघ्नीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥
  • (841) स्वाङ्गाच्चेतः <6-3-40>
स्वाङ्गाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात्किम् । पटुभार्यः । ईतः किम् । अकेशभार्यः ॥ । अमानिनीति वक्तव्यम् ॥ सुकेशमानिनी ॥
जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे 3928 इति तु भवत्येव ॥
  • (843) संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये <2-2-25>
संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दाशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये- 851 इति वक्ष्यमाणो डच् ॥
  • (844) ति विंशितेर्डिति <6-4-142>
विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥
  • (845) दिङ्नामान्यन्तराले <2-2-26>
दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्र्याश्च कौबेर्याश्चान्तरालं दिक् ॥
  • (846) तत्र तेनेदमिति सरूपे <2-2-27>
सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्यस्य पाठादव्ययीभावत्वमव्यत्वं च । अन्येषामपि दृश्यते 3539 दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥
उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः (प) संज्ञापूर्वको विधिरनित्यः इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मूसलेन ॥
  • (848) तेन सहेति तुल्ययोगे <2-2-28>
तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥
  • (849) वोपसर्जनस्य <6-3-82>
बहुव्रीह्यवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकमर्कः । सलोमकः ॥
  • (850) प्रकृत्याशिषि <6-3-83>
सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ॥ । अगोवत्सहलेष्विति वाच्यम् ॥ सगवे । सवत्साय । सहलाय ॥
  • (851) बहुव्रीहौ संख्येये डजबहुगणात् <5-4-73>
संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ । संख्यायास्तत्पुरुषस्य वाच्यः ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः ॥
  • (852) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् <5-4-113>
व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् 644 इत्यच् ॥
  • (853) अङ्गुलेर्दारुणि <5-4-114>
अङ्गुल्यन्ताद्बहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्टमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेः - 789 इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः ॥
  • (854) द्वित्रिभ्यां ष मूर्ध्नः <5-4-115>
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥ । नेतुर्नक्षत्रे अब्वक्तव्यः ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥
  • (855) अन्तर्बहिर्भ्यां च लोम्नः <5-4-117>
आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥
  • (856) अञ् नासिकायाः संज्ञायां नसं चास्थूलात् <5-4-118>
नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥
  • (857) पूर्वपदात्संज्ञायामगः <8-4-3>
पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः 1452इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः ॥ । खुरखराभ्यां वा नस् ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥
  • (858) उपसर्गाच्च <5-4-119>
प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥
  • (859) उपसर्गाद्बहुलम् <8-4-28>
उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ॥ । वेर्ग्रो वक्तव्यः ॥ विगता नासिकाऽस्य विग्रः ॥ । ख्यश्च ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥
  • (860) सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः <5-4-120>
एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्त्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः ॥
  • (861) नञ्दुः सुभ्यो हलिसक्थ्योरन्यतरस्याम् <5-4-121>
अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥
  • (862) नित्यमसिच् प्रजामेधयोः <5-4-122>
नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥
  • (863) धर्मादनिच्केवलात् <5-4-124>
केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ माभूत् । स्वशब्दो हीह न केवलं पूर्वपदम् किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहव्रीहिः । एवं च परमस्वधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽऽक्षिप्यते ॥
  • (864) जम्भा सुहरिततृणसोमेभ्यः <5-4-125>
जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥
  • (865) दक्षिणेर्मा लुब्धयोगे <5-4-126>
दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥
  • (866) इच् कर्मव्यतिहारे <5-4-127>
कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥
  • (867) द्विदण्ड्यादिभ्यश्च <5-4-128>
तादर्थ्ये चतुर्थ्येषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥
  • (868) प्रसंभ्यां जानुनोर्ज्ञुः <5-4-129>
आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥
  • (869) ऊर्ध्वद्विभाषा <5-4-130>
ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥
धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शाङ्र्गधन्वा ॥
  • (871) वा संज्ञायाम् <5-4-133>
शतधन्वा । शतधनुः ॥
  • (872) जायाया निङ् <5-4-134>
जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥
  • (873) लोपो व्योर्वलि <6-1-66>
वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥
  • (874) गन्धस्येदुत्पूतिसुसुरभिभ्यः <5-4-135>
एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ । गन्धस्येत्त्वे तदेकान्तग्रहणम् ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥
  • (875) अल्पाख्यायाम् <5-4-136>
सूपस्य गन्धो लोशो यस्ंिमस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इति विश्वः ॥
पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥
  • (877) पादस्य लोपोऽहस्त्यादिभ्यः <5-4-138>
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥
  • (878) कुम्भपदीषु च <5-4-139>
कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् 414 ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥
  • (879) संख्यासुपूर्वस्य <5-4-140>
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥
  • (880) वयसि दन्तस्य दतृ <5-4-141>
संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥
  • (881) स्त्रियां संज्ञायाम् <5-4-143>
एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥
  • (882) विभाषा श्यावारोकाभ्याम् <5-4-144>
दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥
  • (883) अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च <5-4-145>
एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥
  • (884) ककुदस्यावस्थायां लोपः <5-4-146>
अजातककुत् । पूर्णककुत् ॥
  • (885) त्रिककुत्पर्वते <5-4-147>
त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥
  • (886) उद्विभ्यां काकुदस्य <5-4-148>
लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥
  • (887) पूर्णाद्विभाषा <5-4-149>
पूर्णकाकुत् । पूर्णकाकुदः ॥
  • (888) सुहृद्दुर्हृदौ मित्रामित्रयोः <5-4-150>
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥
  • (889) उरः प्रभृतिभ्यः कप् <5-4-151>
व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौ, लक्षमीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषा 811 इति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ (ग) अर्थान्नञः ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥
  • (890) इनः स्त्रियाम् <5-4-152>
बहुदण्डिका नगरी ॥ (प) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति ॥ बहुवाग्ग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥
  • (891) शेषाद्विभाषा <5-4-154>
अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सुपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥
  • (892) आपोऽन्यतरस्याम् <7-4-15>
कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे तु बहुमालः ॥
  • (893) न संज्ञायाम् <5-4-155>
शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः ॥
ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोः - 656 इति ह्रस्वे प्राप्ते ॥ । ईयसो बहुव्रीहेर्नेति वाच्यम् ॥ बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥
  • (895) वन्दिते भ्रातुः <5-4-157>
पूजितेऽर्थे यो भ्रातुशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रास्तभ्राता । न पूजनात् 954 इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः- 852 इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥
  • (896) नाडीतन्त्र्योः स्वाङ्गे <5-4-159>
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥
  • (897) निष्प्रवाणिश्च <5-4-160>
कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥
  • (898) सप्तमीविशेषणे बहुव्रीहौ <2-2-35>
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः ॥ । सर्वनामसंख्ययोरुपसख्यानम् ॥ सर्वश्वेतः । द्विशुक्लः ॥ । मिथोऽनयोः समासेसंख्या पूर्वं शब्दपरविप्रतिषेधात् ॥ द्व्यन्यः ॥ । संख्याया अल्पीयस्याः ॥ द्वित्राः ॥ । द्वन्द्वेऽपि ॥ द्वादश ॥ । वा प्रियस्य ॥ गुडप्रियः । प्रियगुडः ॥ । गड्वादेः परा सप्तमी ॥ गडुकण्ठः । क्वचिन्न । वहेगडुः ॥
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः ॥ । जातिकालसुखादिभ्यः परा निष्ठा वाच्या ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥
  • (900) वाहिताग्न्यादिषु <2-2-37>
आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ॥ । प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥
इति बहुव्रीहिसमासप्रकरणम्

द्वन्द्वसमासप्रकरणम्‌[सम्पाद्यताम्]

  • (901) चार्थे द्वन्द्वः <2-2-29>
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्वेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ॥
  • (902) राजदन्तादिषु परम् <2-2-31>
एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः ॥ । धर्मादिष्वनियमः ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ॥
  • (903) द्वन्द्वे घि <2-2-32>
द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ । अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे ॥ हरिगुरुहराः । हरिहरगुरवः ॥
  • (904) अजाद्यदन्तम् <2-2-33>
इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ॥ । घ्यन्तादजाद्यदन्तं विप्रतिषेधेन ॥ इन्द्राग्नी ॥
  • (905) अल्पाच्तरम् <2-2-34>
शिवकेशवौ ॥ । ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण ॥ हेमन्ताशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ॥ । लघ्वक्षरं पूर्वम् ॥ कुशकाशम् ॥ । अभ्यर्हितं च ॥ तापसपर्वतौ ॥ । वर्णानामानुपूर्व्येण ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ । भ्रातुर्ज्यायसः ॥ युधिष्ठिरार्जुनौ ॥
  • (906) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् <2-4-2>
एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥
  • (907) अनुवादे चरणानाम् <2-4-3>
चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे ॥ । स्थेणोर्लुङीति वक्तव्यम् ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥
  • (908) अध्वर्युक्रतुरनपुंसकम् <2-4-4>
यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥
  • (909) अध्ययनतोऽविप्रकृष्टाख्यानाम् <2-4-5>
अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥
  • (910) जातिरप्राणिनाम् <2-4-6>
प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ॥
  • (911) विशिष्टलिङ्गो नदीदेशोऽग्रामाः <2-4-7>
ग्रामवर्ज्यनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालूकिन्यौ ॥
  • (912) क्षुद्रजन्तवः <2-4-8>
एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥
  • (913) येषां च विरोधः शाश्वतिकः <2-4-9>
एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वात् विभाषा वृक्षमृग 916 इति प्राप्तं चकारेण बाध्यते ॥
  • (914) शूद्राणामनिरवसितानाम् <2-4-10>
अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥
  • (915) गवाश्वप्रभृतीनि च <2-4-11>
यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥
  • (916) विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् <2-4-12>
वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा ॥ । वृक्षादौ विशेषाणामेव ग्रहणम् ॥ प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ । फलसेनाङ्वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् ॥ बदराणि चामलकानि च बदरामलकम् । जातिरप्राणिनाम् 910 इत्येकवद्भावः । नेह । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधावित्यादि । विभाषावृक्ष - 916 इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम् 910 इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थ मृगाकृनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् पूर्ववदश्ववडवौ 813 इति स्यात् ॥
  • (917) विप्रतिषिद्धं चानधिकरणवाचि <2-4-13>
विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् । शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः चार्थे 901 इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥
  • (918) न दधिपयआदीनि <2-4-14>
एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥
  • (919) अधिकरणैतावत्त्वे च <2-4-15>
द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥
  • (920) विभाषा समीपे <2-4-16>
अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥
  • (921) आनङ् ऋतो द्वन्द्वे <6-3-25>
विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥
  • (922) देवताद्वन्द्वे च <6-3-23>
इहोत्तरपदे परे आनङ् । मित्रावरुणौ ॥ । वायुशब्दप्रयोगे प्रतिषेधः ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥
  • (923) ईदग्नेः सोमवरुणयोः <6-3-27>
देवताद्वन्द्वे इत्येव ॥
  • (924) अग्नेः स्तुत्स्तोमसोमाः <8-3-82>
अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥
  • (925) इद्वृद्धौ <6-3-28>
वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्निवरुणौ देवते अस्य आग्निवारुणम् । देवताद्वन्द्वे च 1239 इत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आग्नेन्द्रः । नेन्द्रस्य परस्य 1240 इत्युत्तरपदवृद्धिप्रतिषेधः ॥ । विष्णौ न ॥ आग्नावैष्णवम् ॥
  • (926) दिवो द्यावा <6-3-29>
देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामा ॥
  • (927) दिवसश्च पृथिव्याम् <6-3-30>
दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ । छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिमित्यत्र पदकारा विसर्गं पठन्ति ॥
उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥
  • (929) मातरपितरावुदीचाम् <6-3-32>
मातरपितरौ । उदीचां किम् । मातापितरौ ॥
  • (930) द्वन्द्वाच्चुदषहान्तात्समाहारे <5-4-106>
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥
इति द्वन्द्वसमासप्रकरणम्