सिद्धान्तकौमुदी/प्रकरण‌०१-१०

विकिस्रोतः तः
Jump to navigation Jump to search


संज्ञाप्रकरणम्‌[सम्पाद्यताम्]

  • (1) हलन्त्यम् <1-3-3>
हल् (मा.सू.-14) इति सूत्रेऽन्त्यमित्स्यात् ।
  • (2) आदिरन्त्येन सहेता <1-1-71>
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ॥ इति हल्संज्ञायाम् ॥ उपदेशेऽन्त्यं हलित्स्यात् ॥ उपदेश आद्योच्चारणम् ॥ ततः अण् अच् इत्यादिसंज्ञासिद्धौ ॥
  • (3) उपदेशेऽजनुनासिक इत् <1-3-2>
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः प्रत्याहारशब्देन व्यवह्रियन्ते ॥
  • (4) ऊ३कालोऽज्झ्रस्वदीर्घप्लुतः <1-2-27>
उश्च ऊश्च ऊ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्-ह्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥
  • (5) उच्चैरुदात्तः <1-2-29>
ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥
  • (6) नीचैरनुदात्तः <1-2-30>
स्पष्टम् ॥ अ॒र्वाङ् ॥
  • (7) समाहारः स्वरितः <1-2-31>
उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥
  • (8) तस्यादित उदात्तमर्धह्रस्वम् <1-2-32>
ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा ।

क्व१ वोऽश्वाः । रथानां न ये२राः ॥ श॒तच॑क्रं॒ यो॒॑3 ह्यः ॥ इत्यादिष्वनुदात्तः ॥ अ॒ग्निमी॑ळे इत्यादावुदात्तश्रुतिः ॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥

  • (9) मुखनासिकावचनोऽनुनासिकः <1-1-8>
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥
  • (10) तुल्यास्यप्रयत्नं सवर्णम् <1-1-9>
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥
इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ॥
  • (12) पूर्वत्रासिद्धम् । <8-2-1>
अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥
खयां यमाः खयः XकXपौ विसर्गः शर एव च ।
एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥
वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । :कः पाविति इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् (वा) ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥
  • (13) नाऽऽज्झलौ <1-1-10>
आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥
  • (14) अणुदित्सवर्णस्य चाप्रत्ययः <1-1-69>
प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् ।

अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवम् लृकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलौ (सू-13) इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिः इत्यत्र हो ढः (सू - 324) इति ढत्वं न भवति । अनुनासिकाननुनासिकाभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥

  • (15) तपरस्तत्कालस्य <1-1-70>
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् । तेन अत्इत् उत् इत्यादयः षण्णां संज्ञा,ऋदिति द्वादशानाम् ॥
  • (16) वृद्धिरादैच् <1-1-1>
आदैच्च वृद्धिसंज्ञः स्यात् ॥
  • (17) अदेङ्गुणः <1-1-2>
अदेङ् च गुणसंज्ञः स्यात् ॥
  • (18) भूवादयो धातवः <1-3-1>
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥
  • (19) प्राग्रीश्वरान्निपाताः <1-4-56>
इत्यधिकृत्य ॥
  • (20) चादयोऽसत्वे <1-4-57>
अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥
अद्रव्यार्थाः प्रादयस्तथा ॥
  • (22) उपसर्गाः क्रियायोगे <1-4-59>
प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः ॥
  • (24) न वेति विभाषा <1-1-44>
निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥
  • (25) स्वं रूपं शब्दस्याशब्दसंज्ञा <1-1-68>
शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥
  • (26) येन विधिस्तदन्तस्य <1-1-72>
विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ॥ । समासप्रत्ययविधौ प्रतिषेधः (वा) ॥ उगिद्वर्णग्रहणवर्जम् (वा) ॥
  • (27) विरामोऽवसानम् <1-4-110>
वर्णानामभावोऽवसानसंज्ञः स्यात् ॥
  • (28) परः संनिकर्षः संहिता <1-4-109>
वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥
  • (29) सुप्तिङन्तं पदम् <1-4-14>
सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥
  • (30) हलोऽनन्तराः संयोगः <1-1-7>
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥
  • (31) ह्रस्वं लघु <1-4-10>
  • (32) संयोगे गुरु <1-4-11>
संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥
दीर्घं च गुरुसंज्ञं स्यात् ॥
इति संज्ञाप्रकरणम्‌

परिभाषाप्रकरणम्‌[सम्पाद्यताम्]

  • (34) इको गुणवृद्धी <1-1-3>
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षठ्यन्तं पदमुपतिष्ठते ॥
  • (36) आद्यन्तौ टकितौ <1-1-46>
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥
  • (37) मिदचोऽन्त्यात्परः <1-1-47>
च इति निर्धारणे षष्ठी । अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥
  • (38) षष्ठी स्थानेयोगा <1-1-49>
अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥
  • (39) स्थानेऽन्तरतमः <1-1-50>
प्रसङ्गे सति सदृशतम आदेशः स्यात् । यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः ॥
  • (40) तस्मिन्निति निर्दिष्टे पूर्वस्य <1-1-66>
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥
  • (41) तस्मादित्युत्तरस्य <1-1-67>
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥
  • (42) अलोऽन्त्यस्य <1-1-52>
षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥
अयमप्यन्त्यस्यैव स्यात् । -सर्वस्य-45 इत्यस्यापवादः ॥
  • (44) आदेः परस्य <1-1-54>
परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य 42 इत्यस्यापवादः ॥
  • (45) अनेकाल्शित्सर्वस्य <1-1-55>
स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औश् 372 इत्यादौ देः परस्य इत्येतदपि परत्वादनेन बाध्यते ॥
  • (46) स्वरितेनाधिकारः <1-3-11>
स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ (प) परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ (प) असिद्धं बहिरङ्गमन्तरङ्गे ॥ (प) अकृतव्यूहाः पाणिनीयाः ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥
इति परिभाषाप्रकरणम्‌

अच्सन्धिप्रकरणम्‌[सम्पाद्यताम्]

इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥
  • (49) स्थानिवदादेशोऽनल्विधौ <1-1-56>
आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च 48 इति द्वित्वनिषेधो न शङ्क्योऽनल्विधाविति इति तन्निषेधात् ॥
  • (50) अचः परस्मिन्पूर्वविधौ <1-1-57>
अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिद्भावे प्राप्ते ॥
  • (51) न पदान्तद्विर्वचनवरेयलोपस्वरसर्वणानुस्वारदीर्घजश्चर्विधिषु <1-1-58>
पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥
  • (52) झलां जश् झशि <8-4-53>
स्पष्टम् । इति धकारस्य दकारः ॥
  • (53) अदर्शनं लोपः <1-1-60>
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥
  • (54) संयोगान्तस्य लोपः <8-2-23>
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥ यणः प्रतिषेधो वाच्यः (वा) ॥ यणो मये द्वे वाच्यो (वा) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ।
  • (55) नादिन्याक्रोशे पुत्रस्य <8-4-48>
पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् ? तत्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ । तत्परे च (वा) । पुत्रादिनी त्वमसि पापे ॥ वा हतजग्धयोः (वा) ॥ पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी ॥
  • (56) त्रिप्रभृतिषु शाकटायनस्य <8-4-50>
त्र्यादिषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥
  • (57) सर्वत्र शाकल्यस्य <8-4-51>
द्वित्वं न । अर्कः । ब्रह्मा ।
  • (58) दीर्घादाचार्याणाम् <8-4-52>
द्वित्वं न । दात्रम् । पात्रम् ।
  • (59) अचो रहाभ्यां द्वे <8-4-46>
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥
  • (60) हलो यमां यमि लोपः <8-4-64>
हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥
  • (61) एचोऽयवायावः <6-1-78>
एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥
  • (62) तस्य लोपः <1-3-9>
तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ।
  • (63) वान्तो यि प्रत्यये <6-1-79>
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् 1538 इति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मं 1643 इत्यादिना यत् ॥ गोर्यूतौ छन्दस्युपसङ्ख्यानम् (वा) ॥ ।अध्वपरिमाणे च (वा) 3544 ॥ गव्यूतिः । ऊतियूति 3274 इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वली 873ति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥
  • (64) धातोस्तन्निमित्तस्यैव <6-1-80>
यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥
  • (65) क्षय्यजय्यौ शक्यार्थे <6-1-81>
यान्तादेशनिपातनार्थमिदम् । क्षेतु शक्यं क्षय्यम् । जेतु शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं योग्यं क्षेयं पापम् । जेयं मनः ॥
  • (66) क्रय्यस्तदर्थे <6-1-82>
तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥
  • (67) लोपः शाकल्यस्य <8-3-19>
अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धम् 12 इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुत्कः ॥ कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते 51ति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥
  • (68) एकः पूर्वपरयोः <6-1-84>
इत्यधिकृत्य ।
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् 51 इति पक्षे द्वित्वम् ॥
  • (71) झरो झरि सर्वणे <8-4-65>
हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णद्र्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च 48 इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥

द्वित्वं लस्यैव कस्यैव नोभयोरूभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥

  • (72) वृद्धिरेचि <6-1-88>
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥
  • (73) एत्येधत्यूठ्सु <6-1-89>
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः ।

एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् 78 इत्यस्यैव बाधिका न तु ओमाङोश्च 80 इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ॥ । अक्षादूहिन्यामुपसङ्ख्यानम् (वा) । अक्षौहिणी सेना ॥ । स्वादीरेरिणोः (वा) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्विशिष्टपरिभाषया स्वैरिणी ॥ । प्रादूहोढोढ्येषैष्येषु (वा) ॥ प्रौहः । प्रौढः । (प) अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् । व्रश्चे 294ति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ ऋते च तृतीयासमासे (वा) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥ प्रवत्सतरकम्बलवसनार्णदशानामृणे (वा) । प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥

  • (74) उपसर्गादृति धातौ <6-1-91>
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥
  • (75) अन्तादिवच्च <6-1-85>
योऽयमेकादेशः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥
  • (76) खरवसानयोर्विसर्जनीयः <8-3-15>
खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु 3630 कर्तरि चर्षिदेवतयो 3167रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः 92 इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥
  • (77) वासुप्यापिशलेः <6-1-92>
अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥
  • (78) एङि पररूपम् <6-1-94>
आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥ एवे चानियोगे (वा) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवक्लृप्तावेवशब्दः । अनियोगे किम् । तवैव ॥
  • (79) अचोऽन्त्यादिटि <1-1-64>
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ॥ । शकन्ध्वादिषु पररूपं वाच्यम् (वा) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा । (ग)सीमन्तः केशवेशे ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । सारङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मर्ताण्डः ॥ । ओत्वोष्ठयोः समासे वा (वा) । स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥
  • (81) अव्यक्तानुकरणस्यात इतौ <6-1-98>
ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् । पटत् इति पटिति ॥ । एकाचो न (वा) ॥ श्रदिति ॥
  • (82) नाम्रेडितस्यान्त्यस्य तु वा <6-1-99>
आम्रेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात् । डाचि बहुलं द्वे भवत ति बहुलवचनाद्द्वित्वम् ॥
  • (83) तस्य परमाम्रेडितम् <8-1-2>
द्विरूक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥
  • (84) झलां जशोऽन्ते <8-2-39>
पदान्तेझलां जशः स्युः । पटत्पटदिति ॥
  • (85) अकः सवर्णे दीर्घः <6-1-101>
अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् ॥ । ऋति सवर्णे ऋ वा (वा) ॥ होतृकारः ॥ लृति सवर्णे लृ वा (वा) ॥ होत्लृकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः 92 इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥
  • (86) एङः पदान्तादति <6-1-109>
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥
  • (87) सर्वत्र विभाषा गोः <6-1-122>
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥
  • (88) अवङ् स्फोटायनस्य <6-1-123>
अतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥
इति अच्सन्धिप्रकरणम्‌

प्रकृतिभावप्रकरणम्‌[सम्पाद्यताम्]

  • (90) प्लुतप्रगृह्या अचि नित्यम् <6-1-125>
प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि वरे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे 91 इति ह्रस्वसमुच्चितो माभूत् ॥
  • (91) इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च <6-1-127>
पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ ॥ । न समासे (वा) ॥ वाप्यश्वः ॥ । सिति च (वा) ॥ पार्श्वम् ॥
ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥
  • (93) वाक्यस्य टेः प्लुत उदात्तः <8-2-82>
इत्यधिकृत्य ॥
  • (94) प्रत्यभिवादेऽशूद्रे <8-2-83>
अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त3 ॥ । स्त्रियां न (वा) ॥ अभिवादये गार्ग्यहम् । भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ॥ । भोराजन्यविशां वेति वाच्यम् (वा) ॥ आयुष्मानेधि भोः3 । आयुष्मानेधीन्द्रवर्म3न् । आयुष्मानेधीन्द्रपालित3 ॥
  • (95) दूराद्धूते च <8-2-84>
दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त3 ॥
  • (96) हैहेप्रयोगे हैहयोः <8-2-85>
एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे3 राम । राम है3 ॥
  • (97) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् <8-2-86>
दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे3 वदत्त । देवद3त्त । देवदत्त3 । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्ण3 । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥
  • (98) अप्लुतवदुपस्थिते <6-1-129>
उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥
  • (99) <3>
चाऽक्रवर्मणस्य 6-1-130

ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥

  • (100) ईदूदेद्द्विवचनं प्रगृह्यम् <1-1-11>
ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥
अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥
अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥
  • (103) निपात एकाजनाङ् <1-1-14>
एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥
  • (105) संबुद्धौ शाकल्यस्येतावनार्षे <1-1-16>
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । आनर्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥
उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥
उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥
  • (108) मय उञो वो वा <8-3-33>
मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥
  • (109) ईदूतौ च सप्तम्यर्थे <1-1-19>
सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् 3561 इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥
  • (110) अणोऽप्रगृह्यस्यानुनासिकः <8-4-57>
अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी ॥
इति अच्सन्धिप्रकरणम्‌

हल्सन्धिप्रकरणम्‌[सम्पाद्यताम्]

  • (111) स्तोः श्चुना श्चुः <8-4-40>
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥
शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥
  • (113) ष्टुना ष्टुः <8-4-41>
स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ठौकसे ॥
  • (114) न पदान्ताट्टोरनाम् <8-4-42>
अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥ अनाम्नवतिनगरीणामिति वाच्यम् ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥
तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः । झलां जशोऽन्ते 84 । वागीशः । चिद्रूपम् ॥
  • (116) यरोऽनुनासिकेऽनुनासिको वा <8-4-45>
यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥
तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वॉंल्लिखति । नकारस्याऽनुनासिको लकारः ॥
  • (118) उदः स्थास्तम्भोः पूर्वस्य <8-4-61>
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य 44 । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि 71 इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च 121 इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥
  • (119) झयो होऽन्यतरस्याम् <8-4-62>
झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः । वाग्घरिः । वाग्हरिः ॥
पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥
खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ । छत्वममीति वाच्यम् ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥
  • (122) मोऽनुस्वारः <8-3-23>
मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य 42 हरिं वन्दे । पदस्येति किम् । गम्यते ॥
  • (123) नश्चापदान्तस्य झलि <8-4-24>
नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । यशांसि । आक्रंस्यते । झलि किम् । मन्यते ॥
  • (124) अनुस्वारस्य ययि परसवर्णः <8-4-58>
स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥
  • (125) वा पदान्तस्य <8-4-59>
पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वॅंकरोषि । त्वंकरोषि । सॅंय्यन्ता । संयन्ता । सॅंव्वत्सरः । संवत्सरः । यॅंल्लोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥
  • (126) मो राजि समः क्वौ <8-2-35>
क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥
  • (127) हे मपरे वा <8-3-26>
मपरे हकारे परे मस्य म एव स्याद्वा । ह्नल ह्वल चलने । किम् ह्मलयति । किं ह्नलयति ॥ । यवलपरे यवला वेति वक्तव्यम् ॥
  • (128) यथासङ्ख्यमनुदेशः समानाम् <1-3-10>
समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥
नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥
  • (130) ङ्णोः कुक् टुक् शरि <8-3-28>
ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न ॥ । चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥
  • (131) ङः सि धुट् <8-3-29>
डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥
नकारान्तात्सस्य धुड्वा । सन्त्सः । सन्सः ॥
नस्य पदान्तस्य शे परे तुग्वा स्यात् । शश्छोऽटी 120ति छत्वविकल्पः । पक्षे झरो झरी 7ति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्चशंभुः । सञ्शंभुः ॥
ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् ।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥
  • (134) ङमो ह्रस्वादचि ङमुण्नित्यम् <8-3-32>
ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥
  • (135) समः सुटि <8-3-5>
समो रुः स्यात् सुटि । अलोऽन्त्यस्य 42 ॥
  • (136) अत्रानुनासिकः पूर्वस्य तु वा <8-3-2>
अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥
  • (137) अनुनासिकात्परोऽनुस्वारः <8-3-4>
अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः 76 ॥
  • (138) विसर्जनीयस्य सः <8-3-34>
खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरी 15ति पाक्षिके विसर्गे प्राप्ते ॥ संपुंकानां सो वक्तव्यः । संस्कर्ता । सॅंस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्र अनचि च 48 इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां शरः खयः इति कद्वित्वे षट् ।

अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥

  • (139) पुमः खय्यम्परे <8-3-6>
अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये 155ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि कमि । पुंदासः ॥ ख्याञादेशे न । पुंख्यान्म् ॥
  • (140) नश्छव्यप्रशान् <8-3-7>
अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिच्छिन्धि । शार्ङ्गिश्छिन्धि । चक्रिंस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥
नॄनित्यस्य रुः स्याद्वा पकारे परे ॥
  • (142) कुप्वोः क पौ च <8-3-37>
कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स 138 इत्यस्यापवादोऽयम् । न तु शर्परे विसर्जनीय 150 इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । नॄँ पाहि । नॄँ पाहि । नॄँ:पाहि । नॄन्पाहि ॥
  • (143) कानाम्रेडिते <8-3-12>
कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥
  • (144) कस्कादिषु च <8-3-48>
एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । क पयोरपवादः । इति सः । कॉंस्कान् । कांस्कान् । कस्कः । कोतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥
  • (145) संहितायाम् <8-1-72>
इत्यधिकृत्य ॥
ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु 378रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥
  • (147) आङ्माङोश्च <6-1-74>
एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे 149ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥
दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छाया 828 इति ज्ञापकात् । चेच्छिद्यते ॥
  • (149) पदान्ताद्वा <6-1-76>
दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥
इति हल्सन्धिप्रकरणम्‌

विसर्गसन्धिप्रकरणम्‌[सम्पाद्यताम्]

विसर्जनीयस्य सः 138 विष्णुस्त्राता ॥

  • (150) शर्परे विसर्जनीयः <8-3-35>
शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥
शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते ॥ । खर्परे शरि वा विसर्गलोपो वक्तव्यः (वा) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च 142 ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥
विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥ पाशकल्पककाम्येष्विति वाच्यम् (वा) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ॥ । अनव्ययस्येति वाच्यम् (वा) । प्रातः कल्पम् (वा) ॥ । काम्ये रोरेवेति वाच्यम् (वा) ॥ नेह । गीः काम्यति ॥
इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥
  • (154) नमस्पुरसोर्गत्योः <8-3-40>
गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् 768 इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः ॥
  • (155) इदुदुपधस्य चाप्रत्ययस्य <8-3-41>
इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति । एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा ॥ । मुहुसः प्रतिषेधः (वा) ॥ मुहुः कामा ॥
  • (156) तिरसोऽन्यतरस्याम् <8-3-42>
तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥
  • (157) द्विस्त्रिश्चतुरिति कृत्वोऽर्थे <8-3-43>
कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यदि । कृत्वोऽर्थे किम् । चतुष्कपालः ॥
  • (158) इसुसोः सामर्थ्ये <8-3-44>
एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिःकरोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥
  • (159) नित्यं समासेऽनुत्तरपदस्थस्य <8-3-45>
इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पि कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥
  • (160) अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य <8-3-46>
अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥
  • (161) अधः शिरसी पदे <8-3-47>
एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधःपदम् । शिरःपदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् । कस्कादिषु च (वा) ॥ भास्करः ॥
इति विसर्गसन्धिप्रकरणम्‌

स्वादिसन्धिप्रकरणम्[सम्पाद्यताम्]

स्वौजसमौड् 183 इति सुप्रत्यये शिवस् अर्च्य इति स्थिते
  • (162) ससजुषोः रुः <8-2-66>
पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥
  • (163) अतो रोरप्लुतादप्लुते <6-1-113>
अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो 167 इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥
  • (164) प्रथमयोः पूर्वसवर्णः <6-1-102>
अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥
अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः 69 । एङः पदान्तादति 86 । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत 97 इति प्लुतः ॥
अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥
  • (167) भोभगोअघोअपूर्वस्य योऽशि <8-3-17>
एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य 670 । देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । नह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां

रोर्यत्वे कृते ॥

  • (168) व्योर्लघुप्रयत्नतरः शाकटायनस्य <8-3-18>
पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥
  • (169) ओतो गार्ग्यस्य <8-3-20>
ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥
  • (171) हलि सर्वेषाम् <8-3-22>
भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥
अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ । रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (वा) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ॥ । अहरादीनां पत्यादिषु वा रेफः (वा) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
रेफस्य रेफे परे लोपः स्यात् ॥
  • (174) ढ्रलोपे पूर्वस्य दीर्घोऽणः <6-3-111>
ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥
  • (175) विप्रतिषेधे परं कार्यम् <1-4-2>
तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् 12 इति रोरि 173 इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥
  • (176) एतत्तदोः सुलोपोऽकोरनञ्समासे हलि <6-1-132>
अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥
  • (177) सोऽचि लोपे चेत्पादपूरणम् <6-1-134>
सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् 3526 इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥
इति स्वादिसन्धिप्रकरणम्‌

अजन्तपुल्लिङ्गप्रकरणम्‌[सम्पाद्यताम्]

  • (178) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् <1-2-45>
धातुं प्रत्ययं प्रत्यान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥
  • (179) कृत्तद्धितसमासाश्च <1-2-46>
कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्ध समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥
  • (180) प्रत्ययः <3-1-1>
आ पञ्चमपरिसमाप्तेरधिकारोऽयम् ॥
अयमपि तथा ॥
  • (182) ङ्याप्प्रातिपदिकात् <4-1-1>
ङ्यन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः । (प.)प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमित्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यान्ङ्याब्भ्यां प्राङ्भाभूदित्येवमर्थम् ॥
  • (183) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् <4-1-2>
ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङ्स्योरुकारेकारौ जशटङपाश्चेतः ॥
  • (184) विभक्तिश्च <1-4-104>
सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ।
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥
  • (186) द्वयेकयोर्द्विवचनैकवचने <1-4-22>
द्वित्वैकत्वयोरेते स्तः ॥
  • (187) बहुषु बहुवचनम् <1-4-21>
बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥
  • (188) सरूपाणामेकशेष एकविभक्तौ <1-2-64>
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । प्रथमयोः पूर्वसवर्णः 164 । नादिचि 165 वृद्धिरेचि 72 । रामौ ॥
प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ।
  • (190) न विभक्तौ तुस्माः <1-3-4>
विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ॥
अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे 191 इति हि (प.) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानिति न्यायेन अकः सवर्णे 85 इत्यस्यैवापवादो नतु प्रथमयो 154रित्यस्यापि । रामाः ॥
  • (192) एकवचनं सम्बुद्धिः <2-3-49>
संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥
  • (193) एङ्ह्रस्वात्संबुद्धेः <6-1-69>
एङन्ताद्ध्रस्वान्ताच्चङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि

परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥

अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥
  • (195) लशक्वतद्धिते <1-3-8>
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥
  • (196) तस्माच्छसो नः पुंसि <6-1-103>
पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य च स्यात्पुंसि ॥
  • (197) अट्कुप्वाङ्नुम्व्यवायेऽपि <8-4-2>
अट्कवर्गपवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपी 1057ति निषेधं बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाऽकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥
  • (198) पदान्तस्य <8-4-37>
पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥
  • (199) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् <1-4-13>
यः प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्यस्याऽङ्गसंज्ञार्थं तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा माभूत् ॥
  • (200) अङ्गस्य <6-4-1>
इत्यधिकृत्य ॥
  • (201) टाङसिङसामिनात्स्याः <7-1-12>
अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् । रामेण ॥
यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥
  • (203) अतो भिस् ऐस् <7-1-9>
अकारान्तादङ्गाद्भिस् ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥
अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । (प.)संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे 2670 इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥
  • (205) बहुवचने झल्येत् <7-3-103>
झलादौ बहुवचने सुपि परेऽतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ।
अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चे 121ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरम्भ्यते ॥
ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥
  • (208) ह्रस्वनद्यापो नुट् <7-1-54>
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥
नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे 202ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि 209इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥
  • (210) अपदान्तस्य मूर्धन्यः <8-3-55>
आ पादपरिसमाप्तेरधिकारोऽयम् ॥
इत्यधिकृत्य ॥
  • (212) आदेशप्रत्यययोः <8-3-59>
सहेः साडः सः 335 इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः । सुपिसौ । सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥
  • (213) सर्वादीनि सर्वनामानि <1-1-27>
सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति त्रल् परमभवकानित्यत्राऽकच्च सिद्ध्यति ॥
अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । नचाऽर्वणस्तृ इत्यादाविव (प.)नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञायां एवाऽभावात् । सर्वे ॥
  • (215) सर्वनाम्नः स्मै <7-1-14>
अतः सर्वनाम्नो ङे इत्यस्य स्मै स्यात् । सर्वस्मै ॥
  • (216) ङसिङ्योः स्मात्स्मिनौ <7-1-15>
अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥
  • (217) आमि सर्वनाम्नः सुट् <7-1-52>
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व नेम, सम, सिम ॥ (ग) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । (ग) स्वमज्ञातिधनाख्यायाम् । (ग) अन्तरं बर्हिर्योगोपसंव्यानयोः । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येहपाठस्तूभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाऽभावेनोभयत उभयत्रेत्यादाविवाऽयच्प्रसङ्गात् । तदुक्तम् । उभयोऽन्यत्र (वा) ॥ अन्यत्रेति द्विवचनपरत्वाऽभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमे 226ति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । (प.)प्रत्ययग्रहणे तदन्ता ग्रह्याः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति सुप्तिङन्त 29मिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाऽभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासङ्ख्यमनुदेशः समानामिति ज्ञापकात् ॥ (ग)अन्तरं बहिर्योगेति गणसूत्रेऽपुरीति वक्तव्यम् । अन्तरायां पुरि ॥
  • (218) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् <1-1-34>
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥
  • (219) स्वमज्ञातिधनख्यायाम् <1-1-35>
ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मन इति वा । ज्ञातिधनवाचिनस्तु स्वाः । ज्ञातयोऽर्था वा ॥
  • (220) अन्तरं बहिर्योगोपसंव्यानयोः <1-1-36>
बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥
  • (221) पूर्वादिभ्यो नवभ्यो वा <7-1-16>
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः सङ्ख्यायां नित्यैकवचनान्तः ॥
  • (222) न बहुव्रीहौ <1-1-29>
बहुव्रीहौ चिकीर्षते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथां लौकिके विग्रहवाक्ये इव त्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् ॥ संज्ञोपसर्जनीभूतास्तु न सर्वादयः (वा) ॥ महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥
  • (223) तृतीयासमासे <1-1-30>
अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासाऽर्थवाक्येऽपि न । मासेन पूर्वाय ॥
  • (224) द्वन्द्वे च <1-1-31>
द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥
  • (225) विभाषा जसि <1-1-32>
जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥
  • (226) प्रथमचरमतयाल्पार्धकतिपयनेमाश्च <1-1-33>
एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् ॥ । विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् (वा) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥
  • (227) जराया जरसन्यतरस्याम् <7-2-101>
जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ । (प)पदाङ्गाधिकारे तस्य च तदन्तस्य च । अनेकाल्त्वात्सर्वादेशे प्राप्ते । (प) निर्दिश्यमानस्यादेशा भवन्ति । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिशेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसानिर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठ्येकवचने निर्जरस्येत्येव रूपं स्वीकृतम् । एतच्च भाष्यविरुद्धम् ॥
  • (228) पद्दनोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु <6-1-63>
पाद, दन्त, नासिका, मास,हृदय, निशा, असृज्, यूष्, दोष्, यकृत्, शकृत्, उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥
  • (229) सुडनपुंसकस्य <1-1-43>
सुट् प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥
  • (230) स्वादिष्वसर्वनामस्थाने <1-4-17>
कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ॥
यकारादिष्वजादिषु च कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥
  • (232) आकडारादेका संज्ञा <1-4-1>
इत ऊर्ध्वं कडाराः कर्मधारये इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दद्भ्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥
अधिकारोऽयम् ॥
  • (234) अल्लोपोऽनः <6-4-134>
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥
  • (235) रषाभ्यां नो णः समानपदे <8-4-1>
एकापदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम् ॥ पूर्वत्रासिद्धये न स्थानिवदिति तु इह नास्ति (वा) ॥ । तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् (वा) ॥
  • (236) न लोपः प्रातिपदिकान्तस्य <8-2-7>
नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्याऽसिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥
  • (237) विभाषा ङिश्योः <6-4-136>
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्न 228 इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथाच । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाह्रतः । तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भव आसन्यः । दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति सङ्गच्छते । भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति द्वयोरह्नोर्भवो द्व्यह्नः ॥
  • (238) सङ्ख्याविसायपूर्वस्याह्नस्याऽहनन्यतरस्यां ङौ <6-3-110>
सङ्ख्यादिपूर्वस्याह्नस्याऽहनादेशो वा स्यान् ङौ । द्व्यह्नि । द्व्यहनि । द्व्यह्ने । विगमहर्व्यह्नः । व्यह्नि । व्यहनि । व्यह्ने । अह्नः सायः सायाह्नः । सायाह्नि । सायाहनि । सायाह्ने । इत्यदन्ताः ॥ विश्वपाः ॥
  • (239) दीर्घाज्जसि च <6-1-105>
दीर्घाज्जसि इचि च परे प्रथमयोः पूर्वसवर्णदीर्घो न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि नादिची 165त्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति तथापि गौर्यौ गौर्य इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्यम् ॥
आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । अलोऽन्त्यस्य 42 । विश्वपः । विश्वपाभ्यामित्यादि । एवं शङ्खाध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । ङे वृद्धिः । हाहै । ङसिङसोदीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगाविभागादधातोरप्याकारलोपः क्वचित् । क्त्त्वः । श्नः ॥ इत्यादन्ताः ॥
हरिः । प्रथमयोः पूर्वसवर्णः 164 हरी ॥
ह्रस्वान्तस्याऽङ्गस्य गुणः स्याज्जसि परे । हरयः ॥
  • (242) ह्रस्वस्य गुणः <7-3-108>
ह्रस्वस्य गुणः स्यात्संबुद्धौ ।एङ्ह्रस्वा 193दिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥
  • (243) शेषो घ्यसखि <1-4-7>
अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम् । ह्रस्वौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥
  • (244) आङो नाऽस्त्रियाम् <7-3-120>
घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासञ्ज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥
घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती 245ति गुणे कृते ॥
एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥
इदुद्भ्यामुत्तरस्य ङेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । हर्योः । हरिषु । एवं श्रीपत्यग्निरविकव्यादयः ॥
सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्च 43 इत्यन्तादेशः ॥
  • (249) अलोऽन्त्यात्पूर्व उपधा <1-1-65>
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥
  • (250) सर्वनामस्थाने चाऽसंबुद्धौ <6-4-8>
नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥
  • (251) अपृक्त एकाऽल्प्रत्ययः <1-2-41>
एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥
  • (252) हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् <6-1-68>
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥
  • (253) सख्युरसंबुद्धौ <7-1-92>
सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥
ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥
  • (255) ख्यत्यात्परस्य <6-1-112>
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥
इदुद्भ्यां परस्य ङेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावात् असखि 243इति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् 255इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाऽनङ्णित्त्वे न भवतः । गोस्त्रियो 656रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । (प) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् ॥
  • (257) पतिः समास एव <1-4-8>
पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥
  • (258) बहुगणवतुडति सङ्ख्या <1-1-23>
एते सङ्ख्यासंज्ञाः स्युः ॥
डत्यन्ता सङ्ख्या षट्संज्ञा स्यात् ॥
  • (260) प्रत्ययस्य लुक्श्लुलुपः <1-1-61>
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥
  • (261) षड्भ्यो लुक् <7-1-22>
षड्भ्यः परयोर्जश्शसोर्लुक्स्यात् ॥
  • (262) प्रत्ययलोपे प्रत्ययलक्षणम् <1-1-62>
प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥
  • (263) न लुमताङ्गस्य <1-1-63>
लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतीभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥
  • (264) त्रेस्त्रयः <7-1-53>
त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥
  • (265) त्यदादीनामः <7-2-102>
एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥ द्विपर्यन्तानामेवेष्टिः (वा) ॥द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि ॥ औडुलोमिः । औडुलोमी । बहुवचने तु उडुलोमाः ॥ । लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः (वा) ॥ बाह्वादीञोऽपवादः । औडुलोमिम् । औडुलोमी । उडुलोमान् ॥ इतीदन्ताः ॥
वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घज्जसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः । अमि पूर्वः 194 । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् 3 । वातप्रम्ये । वातप्रम्यः 2 । वातप्रम्योः 2 । वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्ण दीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किद्द्वे च उ. 439इति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् ।

वातप्रम्यः । वातप्रम्यि । एरनेकाचः 272 इति वक्ष्यमाणो यण् प्रधीवत् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घङ्यन्तत्वात् हल्ङ्याब् 252इति सुलोपः ॥

  • (266) यू स्त्र्याख्यौ नदी <1-4-3>
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः ॥ । प्रथमलिङ्गग्रहणं च ॥ पूर्व स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥
  • (267) अम्बार्थनद्योर्ह्रस्वः <7-3-107>
अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥
नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥
आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥
  • (270) ङेराम्नद्याम्नीभ्यः <7-3-116>
नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् 252 इति सुलोपः ॥
  • (271) अचिश्नुधातुभ्रुवां य्वोरियङुवङौ <6-4-77>
श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । ङिच्चेत्यन्तादेशः । आन्तरतम्यादेरियङ् ओरुवङ् । इतीयङि प्राप्ते ॥
  • (272) एरनेकाचोऽसंयोगपूर्वस्य <6-4-82>
धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण्स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यौ कुमार्यः । हे कुमारि । अमि शसि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः 2 । कुमारीणाम् । कुमार्याम् । प्रधीः । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्न्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । ङेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । ङेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियौ । यवक्रियौ ॥ गतिकारकेतरपूर्वपदस्य यण्नेष्यते (वा) ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥
  • (273) न भूसुधियोः <6-4-85>
एतयोर्यण्न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि ॥ सखायमिच्छति सखीयति । ततः क्विप् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते ॥ क्वौ लुप्तं न स्थानिवत् (वा) ॥ एकदेशविकृतस्यानन्यतयाऽनङ्णित्त्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धा 253विति प्रवर्त्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ । सुत्यौ । ख्यत्या 255दिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्या 255दित्युत्वम् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्क्रीयतेः क्विप् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः । शुष्किय इत्यादि । इतीदन्ताः ॥
शम्भुर्हरिवत् । एवं विष्णुवायुभान्वादयः ॥
  • (274) तृज्वत्क्रोष्टुः <7-1-95>
क्रोष्टुशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्ट्टशब्दः प्रयोक्तव्य इत्यर्थः ॥
  • (275) ऋतो ङिसर्वनामस्थानयोः <7-3-110>
ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥
  • (276) ऋदुशनस्पुरुदंसोऽनेहसां च <7-1-94>
ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥
  • (277) अप्तृन्तृच्स्वसृनप्तृनेष्ट्वत्वष्टुक्षत्तृहोतृपोतृप्रशास्तॄणाम् <6-4-11>
अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव ॥ तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थ 647 सूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥
  • (278) विभाषा तृतीयादिष्वचि <7-1-97>
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥
ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टुः । आमि परत्वात्तृज्वद्भावे प्राप्ते ॥ । नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन ॥ क्रोष्टूनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् ॥ इत्युदन्ताः ॥
हूहूः । हूह्वौ । हूह्वः । हूहूम् । हूह्वौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥ गतिकारकेतरपूर्वपदस्य यण्नेष्यते (वा) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः 273 । स्वभुवौ । स्वभुवः ॥
  • (282) वर्षाभ्वश्च <6-4-84>
अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषू 93रित्युणादिसूत्रेण व्युत्पादितः । दृम्भ्वौ । दृम्भ्वः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । दृन्भूः ॥ । दृन्करपुनः पूर्वस्य भुवो यण्वक्तव्यः (वा) ॥ दृन्भ्वौ । दृन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूर्यौगिकः पुंसि । पुनर्भ्वावित्यादि । दृग्भूकाराभूशब्दौ स्वम्भूवत् ॥ इत्यूदन्ताः ॥
धाता । हे धातः । धातारौ । धातारः ॥ । ऋवर्णान्नस्य णत्वं वाच्यम् (वा) ॥ धातॄणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्नदीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥
नृ इत्येतस्य नामि वा दीर्घः स्यात् । नॄणाम् । नृणाम् । इति ऋदन्ताः ॥
कॄ तॄ अनयोरनुकरणे (प)प्रकृतिवदनुकरणमिति वैकल्पिकातिदेशादित्त्वे रपरत्वम् । कीः । किरौः ।

किरः । तीः । तिरौ । तिरः । इत्यादि गीर्वत् । इत्त्वाऽभावपक्षे तु ऋदुशन सू 276इति ऋतो ङी 275ति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि । इत्यॄदन्ताः ॥

गम्लृ शक्लृ अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उ 279दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः । गमुल् । शकुलित्यादि । इति लृदन्ताः ॥
सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः । इत्येदन्ताः ॥
  • (284) गोतो णित् <7-1-90>
गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ । गावः ॥
  • (285) औतोऽम्शसोः <6-1-93>
आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । गोः । इत्यादि ॥ ओतो णिदिति वाच्यम् । विहितविशेषणं च । तेन सुद्यौः । सुद्यावौ । सुद्यावः इत्यादि । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शम्भुः स्मृतो येन सः स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि । इत्योदन्ताः ॥
रैशब्दस्याऽऽकारोऽन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः । राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि । इत्यैदन्ताः ।
ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि । औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्ण्याऽभावज्ञापनात् । इत्यौदन्ताः ॥
इति अजन्तपुल्लिङ्गप्रकरणम्‌

अजन्तस्त्रीलिङ्गप्रकरणम्‌[सम्पाद्यताम्]

आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥
आप एकारः स्यात्संबुद्धौ । एङ्ह्रस्वात् 193इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥
आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥
आपः परस्य ङिद्वचनस्य याडागमः स्यात् । वृद्धिरेचि 72 । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥
  • (291) सर्वनाम्नः स्याड्ढ्रस्वश्च <7-3-114>
आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् आमि सर्वानाम्नः 217 इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥
  • (292) विभाषा दिक्समासे बहुव्रीहौ <1-1-28>
अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥
  • (293) विभाषा द्वितीयातृतीयाभ्याम् <7-3-115>
आभ्यां ङितः स्याड्वा स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसङ्ख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः । द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योर्ह्रस्वः 267 । हे अम्ब । हे अक्क । हे अल्ल ॥ असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न (वा) ॥ हे अम्बाडे । हे अम्बाले । अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य औङ् आपः 287 । आङि चापः 289 । याडापः 290 । ह्रस्वनद्यापः 208 । ङेराम् 270 । इति पञ्चापि विधयः प्राप्ताः । एवं न स्निश्पृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । आ-आबिति प्रश्लिष्य आकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हल्ङ्यादिसूत्रेऽपि आ आप् ङी ई इति प्रश्लेषादतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पदन्न इति नासिकया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥
  • (294) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः <8-2-36>
व्रश्चादीनां सप्तानां छशान्तयोश्च वकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि डः सीति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोः इति ष्टुत्वं न । निट्त्सु । निट्सु ॥
  • (295) षढोः कः सि <8-2-41>
षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्च 294आदिसूत्रे

दादेर्धातोः 325 इति सूत्राद्धातोरित्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । चोः कुः 378इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥ मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा (वा) ॥ पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥

  • (296) ङिति ह्रस्वश्च <1-4-6>
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः 268 । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥
  • (297) इदुद्भ्याम् <7-3-117>
नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् स्यात् । पक्षे अच्च घेः 247 । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥
  • (298) त्रिचतुरोः स्त्रियां तिसृचतसृ <7-2-99>
स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ॥
तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । आमि नुमचिरेति नुट् ॥
  • (300) न तिसृचतसृ <6-4-4>
एतयोर्नामि दीर्घो न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणान्नेह । प्रियस्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्त्रो यस्य स इति विग्रहे तु प्रयतिसा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्वोर्लुका 319 लुप्त्तवेन प्रत्ययलक्षणाभावन्न तिस्रादेशः । न लुमता 263 इति निषेधस्यानित्यत्वापक्षे प्रियतिसृ ॥ । रादेशात्पूर्वविप्रतिषेधेन नुम् (वा) ॥ प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणा । इत्यादि । द्वेरत्वे सत्याप् । द्वे 2 । द्वाभ्याम् 3 । द्व्योः 2 । गौरी । गौर्यौ । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । (प) प्रातिपदिकग्रहणे लिङ्विशिष्टस्यापि ग्रहणादनङि णिद्वद्भावे च प्राप्ते ॥ । विभक्तौ लिङ्विशिष्टाग्रहणम् (वा) ॥ सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङ्यन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतव्यादयः ॥ स्त्री । हे स्त्रि ॥
  • (301) स्त्रियाः <6-4-79>
स्त्रीशब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥
अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु ॥ स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ॥ गुणनाभावौत्त्वनुड्भिः परत्वात्पुंसि बाध्यते ॥ क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥जसि च 241 ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । वाम्शसोः 302 । अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा । घेर्ङिति 245 ॥ अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियः । अतिस्त्रियः । अतिस्त्रीणाम् । अच्च घेः । अतिस्त्रौ ॥ ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः । अतिस्त्रिणः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रिणोः । अतिस्त्रिणोः । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङिति ह्रस्वश्चे 296ति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः । तत्संबद्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो नतु ह्रस्वस्य । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः । अतिस्त्रियाः ।

अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥

  • (303) नेयङुवङ्स्थानावस्त्री <1-4-4>
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥
इयङुवङ्स्थानौ स्त्रयाख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥
  • (305) स्त्रियां च <7-1-96>
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥
  • (306) ऋन्नेभ्यो ङीप् <4-1-5>
ऋदन्तेभ्यो नान्तेभ्यस्च स्त्रियां ङीप्स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूर्गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः क्वासि हे सुभ्रु इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । दृन्करेति यणा उवङो बाधनात् नेयङुवङ 303 इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्वः ॥
  • (307) एकाजुत्तरपदे णः <8-4-12>
एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभरक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥
  • (308) न षट्स्वस्रादिभ्यः <4-1-10>
षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ अप्तृन् 277 इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौर्ग्लौवत् ॥
इति अजन्तस्त्रीलिङ्गप्रकरणम्‌

अजन्तनपुंसकलिङ्गप्रकरणम्‌[सम्पाद्यताम्]

अतोऽङ्गात् क्लीबात्स्वमोरम् स्यात् । अमि पूर्वः 194 । ज्ञानम् । एङ्ह्रस्वात् 193 इति हल्मात्रलोपः । हे ज्ञान ॥
  • (310) नपुंसकाच्च <7-1-19>
क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥
भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥ औङः श्यां प्रतिषेधो वाच्यः (वा) ॥ ज्ञाने ॥
  • (312) जश्शसोः शिः <7-1-20>
क्लीबादनयोः शिः स्यात् ॥
  • (313) शि सर्वनामस्थानम् <1-1-42>
शि इत्येतदुक्तसंज्ञं स्यात् ॥
  • (314) नपुंसकस्य झलचः <7-1-72>
झलन्तस्याऽजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥
  • (315) अद्ड्डतरादिभ्यः पञ्चम्यः <7-1-25>
एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥
डिति परे भस्य टेर्लोपः स्यात् । वाऽवसाने ॥ कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् प्रथमयोः 164 इति पूर्वसवर्णदीर्घः एङ्ह्रस्वात् 193 इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ॥ । एकतरात्प्रतिषेधो वक्तव्यः (वा) ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥
  • (317) सान्तमहतः संयोगस्य <6-4-10>
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न 228 इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्न 228 इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथापि अपोभि 442 इत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥
  • (318) ह्रस्वो नपुंसके प्रातिपदिकस्य <1-2-47>
क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात् । श्रीपम् । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोः 240 इत्याकारलोपो न ॥
  • (319) स्वमोर्नपुंसकात् <7-1-23>
क्लीबादङ्गात्स्वमोर्लुक् स्यात् । वारि ॥
  • (320) इकोऽचि विभक्तौ <7-1-73>
इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता 263 इति

निषेधस्याऽनित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे! । हे वारि । आङो ना 244 ॥ वारिणा । घेर्ङिति 245 इति गुणे प्राप्ते ॥ । वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन (वा) ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामी 209 इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥

  • (321) तृतीयादिषु भाषितपुंस्कं पुंवद्नालवस्य <7-1-74>
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने । इत्यादि । शेषं वारिवत् ॥ पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥
  • (322) अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः <7-1-75>
एषामनङ् स्याट्टादावचि स चोदात्तः । अल्लोपोऽनः 234 ॥ दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः । दध्नि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । तदन्तस्याऽप्यनङ् । अतिदध्ना ॥ सुधि । सुधिनी । सुधिनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या । प्रधिना ॥ मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः ॥ सानुशब्दस्य स्नुर्वा । स्नूनि । सानूनि । प्रियक्रोष्टु । प्रियोक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिरेति नुट् । प्रियक्रोष्टूनाम् ॥ सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा । सुलुना । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः ॥
  • (323) एच इग्घ्रस्वादेशे <1-1-48>
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाऽभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्याऽनन्यत्वात् रायो हलि इत्यात्वम् । प्रराभ्यात् । प्रराभिः । नुमिचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामि 209 इति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥
इति अजन्तपुल्लिङ्गप्रकरणम्‌