सिगिपम्
नत्वा देवं गुरूंश्चैव विदुषः समुपस्थितान्।
सिगिपं-कूटलेखस्य गुह्यं व्याक्रियते मया॥१॥
स्वरमात्रा तु वर्णस्य यथावद्धि प्रयुज्यते।
विसर्गोऽप्यनुस्वारोऽपि मूलवद्दीयते सदा॥२॥
स्वरस्थाने ककारस्य स्वरमात्रोपयोजनम्।
खकारे गकारस्यैव घस्थाने ङस्य योजनम्॥३॥
चौ टोस्तौ पोस्तथा नित्यमन्तस्थेषूष्मणां क्रमात्।
क्षे ळस्यैवं प्रयुज्यन्ते सिगिपेऽर्णाः परस्परम्॥४॥
(- ढापरे इत्युपाह्वः मेहेरालोकः)
कूटलेखनस्य नैकप्रकाराः प्राचीनमातृकासु प्राप्यन्ते, तासु एको नाम पर्यायिवर्णपद्धतिः। अस्यामेकस्य वर्णस्य स्थानेऽपरवर्णस्योपयोगः क्रियते।
पुण्यपत्तनस्थवैदिकसंशोधनमण्डले एतादृशाः नैकाः मातृकाः सन्ति यासु मुख-मल-पुष्पिकापृष्ठेषु "माषाशञेम सिगिपं", "किबं तुल्पअं बप्पं", "खडाममार्तञनल्पु" एतादृशानि निरर्थकानि वाक्यानि प्राप्यन्ते। नैतानि निरर्थकानि अपि तु कूटपद्धत्या लिखितानि सन्ति।
राजस्थानराज्ये उदयपुरे "धरोहर"संस्थायाः "सङ्ग्रह"विभागे संस्कृत-पाण्डुलिपि-सूचीकारत्वेन कार्यं कुर्वता मया (ढापरे इत्युपाह्वेन श्रीमता मेहेरालोकमहोदयेन) अस्य रहस्यभेदः अवगतः। स एवास्मिन् लेखद्वारा प्रस्तूयते।
अस्याः पद्धतेर्नियमाः -
१) अनुस्वारः, विसर्गः स्वरमात्राः च मूलशब्दे यथा सन्ति तथैव दीयन्ते।
२) केवलमेकस्य वर्णस्य स्थाने अन्यवर्णस्य उपयोगः क्रियते।
३) एष उपयोगः परस्परस्थाने क्रियते।
वर्णोपयोजनम् -
-> स्वराणां स्थाने 'क्'वर्णस्य तत्तत्स्वरमात्रासहितरूपम् उपयुज्यते। 'क्'वर्णस्य स्थाने तस्य स्वरमात्रानुसारं स्वरस्य उपयोगः भवति।
यथा - (काकः इत्यर्थे आअः)
-> 'ख्'वर्णस्य 'ग्'वर्णस्य च उपयोगः परस्परस्थाने भवति।
यथा - (खगः इत्यर्थे गखः) (अंग इत्यर्थे कंख)
-> 'घ्'वर्णस्य 'ङ्'वर्णस्य च उपयोगः परस्परस्थाने भवति।
यथा - (अघं इत्यर्थे कङं)
-> 'चु' अर्थात् 'च्'वर्गस्य 'टु' अर्थात् 'ट्'वर्गस्य च उपयोगः परस्परस्थाने भवति।
यथा - (चटका इत्यर्थे टचआ) (कंचुकी इत्यर्थे अंटुई)
-> 'तु' अर्थात् 'त्'वर्गस्य 'पु' अर्थात् 'प्'वर्गस्य च उपयोगः परस्परस्थाने भवति।
यथा - (कपाटक इत्यर्थे अताचअ) (भौमः इत्यर्थे धौनः)
-> 'य्-र्-ल्-व्' एतेषाम् अन्तस्थव्यञ्जनानां 'श्-ष्-स्-ह्' एतेषाम् ऊष्मव्यञ्जनानां च उपयोगः परस्परस्थाने भवति।
यथा - (रामायण इत्यर्थे षानाशञ) (काश्यप इत्यर्थे आय्शत)
-> 'क्ष्'वर्णस्य 'ळ्'वर्णस्य च उपयोगः परस्परस्थाने भवति।
यथा - (पक्षी इत्यर्थे तळी) (अक्षय्य इत्यर्थे कळश्श)
एतन्नियमानुसारम् -
१) "माषाशञेम सिगिपन्" = नारायणेन लिखितम्।
२) "किबं तुल्पअं बप्पं" = इदं पुस्तकं दत्तं।
३) "खडाममाष्तञनल्पु" = गजाननार्पणमस्तु।