सामग्री पर जाएँ

सिगिपम्

विकिस्रोतः तः

नत्वा देवं गुरूंश्चैव विदुषः समुपस्थितान्।

सिगिपं-कूटलेखस्य गुह्यं व्याक्रियते मया॥१॥

स्वरमात्रा तु वर्णस्य यथावद्धि प्रयुज्यते।

विसर्गोऽप्यनुस्वारोऽपि मूलवद्दीयते सदा॥२॥

स्वरस्थाने ककारस्य स्वरमात्रोपयोजनम्।

खकारे गकारस्यैव घस्थाने ङस्य योजनम्॥३॥

चौ टोस्तौ पोस्तथा नित्यमन्तस्थेषूष्मणां क्रमात्।

क्षे ळस्यैवं प्रयुज्यन्ते सिगिपेऽर्णाः परस्परम्॥४॥

(- ढापरे इत्युपाह्वः मेहेरालोकः)


कूटलेखनस्य नैकप्रकाराः प्राचीनमातृकासु प्राप्यन्ते, तासु एको नाम पर्यायिवर्णपद्धतिः। अस्यामेकस्य वर्णस्य स्थानेऽपरवर्णस्योपयोगः क्रियते।

पुण्यपत्तनस्थवैदिकसंशोधनमण्डले एतादृशाः नैकाः मातृकाः सन्ति यासु मुख-मल-पुष्पिकापृष्ठेषु "माषाशञेम सिगिपं", "किबं तुल्पअं बप्पं", "खडाममार्तञनल्पु" एतादृशानि निरर्थकानि वाक्यानि प्राप्यन्ते। नैतानि निरर्थकानि अपि तु कूटपद्धत्या लिखितानि सन्ति।

राजस्थानराज्ये उदयपुरे "धरोहर"संस्थायाः "सङ्ग्रह"विभागे संस्कृत-पाण्डुलिपि-सूचीकारत्वेन कार्यं कुर्वता मया (ढापरे इत्युपाह्वेन श्रीमता मेहेरालोकमहोदयेन) अस्य रहस्यभेदः अवगतः। स एवास्मिन् लेखद्वारा प्रस्तूयते।


अस्याः पद्धतेर्नियमाः -

१) अनुस्वारः, विसर्गः स्वरमात्राः च मूलशब्दे यथा सन्ति तथैव दीयन्ते।

२) केवलमेकस्य वर्णस्य स्थाने अन्यवर्णस्य उपयोगः क्रियते।

३) एष उपयोगः परस्परस्थाने क्रियते।


वर्णोपयोजनम् -

-> स्वराणां स्थाने 'क्'वर्णस्य तत्तत्स्वरमात्रासहितरूपम् उपयुज्यते। 'क्'वर्णस्य स्थाने तस्य स्वरमात्रानुसारं स्वरस्य उपयोगः भवति।

यथा - (काकः इत्यर्थे आअः)

-> 'ख्'वर्णस्य 'ग्'वर्णस्य च उपयोगः परस्परस्थाने भवति।

   यथा - (खगः इत्यर्थे गखः) (अंग इत्यर्थे कंख)

-> 'घ्'वर्णस्य 'ङ्'वर्णस्य च उपयोगः परस्परस्थाने भवति।

   यथा - (अघं इत्यर्थे कङं)

-> 'चु' अर्थात् 'च्'वर्गस्य 'टु' अर्थात् 'ट्'वर्गस्य च उपयोगः परस्परस्थाने भवति।

   यथा - (चटका इत्यर्थे टचआ) (कंचुकी इत्यर्थे अंटुई)

-> 'तु' अर्थात् 'त्'वर्गस्य 'पु' अर्थात् 'प्'वर्गस्य च उपयोगः परस्परस्थाने भवति।

   यथा - (कपाटक इत्यर्थे अताचअ) (भौमः इत्यर्थे धौनः)

-> 'य्-र्-ल्-व्' एतेषाम् अन्तस्थव्यञ्जनानां 'श्-ष्-स्-ह्' एतेषाम् ऊष्मव्यञ्जनानां च उपयोगः परस्परस्थाने भवति।

   यथा - (रामायण इत्यर्थे षानाशञ) (काश्यप इत्यर्थे आय्शत)

-> 'क्ष्'वर्णस्य 'ळ्'वर्णस्य च उपयोगः परस्परस्थाने भवति।

   यथा - (पक्षी इत्यर्थे तळी) (अक्षय्य इत्यर्थे कळश्श)


एतन्नियमानुसारम् -

१) "माषाशञेम सिगिपन्" = नारायणेन लिखितम्।

२) "किबं तुल्पअं बप्पं" = इदं पुस्तकं दत्तं।

३) "खडाममाष्तञनल्पु" = गजाननार्पणमस्तु।

"https://sa.wikisource.org/w/index.php?title=सिगिपम्&oldid=409661" इत्यस्माद् प्रतिप्राप्तम्