सामग्री पर जाएँ

सार्धद्विसाहस्रिकाप्रज्ञापारमिता

विकिस्रोतः तः
सार्धद्विसाहस्रिकाप्रज्ञापारमिता
[[लेखकः :|]]


सुविक्रान्तविक्रामिपरिपृच्छा नाम सार्धद्विसाहस्रिका प्रज्ञापारमिता

    * १ निदानपरिवर्तः
    * २ आनन्दपरिवर्तो द्वितीयः
    * ३ तथतापरिवर्तस्तृतीयः
    * ४ औपम्यपरिवर्तश्चतुर्थः
    * ५ सुभूतिपरिवर्तः पञ्चमः
    * ६ चर्यापरिवर्तः षष्ठः
    * ७ अनुशंसापरिवर्तः सप्तमः

सुविक्रान्तविक्रामिपरिपृच्छा नाम सार्धद्विसाहस्रिका प्रज्ञापारमिता।

१ निदानपरिवर्तः।

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म वेणुवने कलन्दकनिवापे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः, अप्रमेयासंख्यैश्च बोधिसत्त्वैर्महासत्त्वैः नानाबुद्धक्षेत्रसंनिपतितैरेकजातिप्रतिबद्धैः। तेन खलु पुनः समयेन भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म॥

अथ खलु तस्यामेव पर्षदि सुविक्रान्तविक्रामी नाम बोधिसत्त्वो महासत्त्वः संनिपतितोऽभूत्संनिषण्णः। स उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेद् भगवानवकाशं कुर्यात् पृष्टश्च प्रश्नव्याकरणाय। एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-पृच्छ त्वं सुविक्रान्तविक्रामिंस्तथागतमर्हन्तं सम्यक्संबुद्धं यद्यदेवाकाङ्क्षसि। अहं ते तस्य तस्यैव प्रश्न(स्य) व्याकरणेन चित्तमाराधयिष्यामि॥

एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्नुच्यते। कियता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रज्ञापारमितेत्युच्यते ? कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमिताभावना परिपूरिं गच्छति ? कथं भगवन् बोधिसत्त्वस्य प्रज्ञापारमितां भावयतो मारः पापीयानवतारं (न) लभते, सर्वमारकर्माणि चावबुध्यते ? कीदृग्रूपैश्व भगवन् प्रज्ञापारमिताविहारैर्विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति ?

एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-साधु साधु सुविक्रान्तविक्रामिन्, यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धं प्रज्ञापारमितां परिपृच्छसि बोधिसत्त्वानां महासत्त्वानामर्थाय, यथापि नाम त्वं बहुजनहिताय प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, एतर्ह्यनागतानां च बोधिसत्त्वानां महासत्त्वानामालोकं कर्तुकाम इति॥

अथ खलु भगवान् जानन्नेव सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वं परिपृच्छति स्म-किं त्वं सुविक्रान्तविक्रामिन् अर्थवशं संपश्यंस्तथागतमेतदर्थं परिपृच्छसि ? एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-सर्वसत्त्वानां वयं भगवन्नर्थाय तथागतमेतमर्थं परिपृच्छामः सर्वसत्त्वहिताय सर्वसत्त्वानुकम्पायै। तत्कस्माद्धेतोः ? प्रज्ञापारमिता भगवन् सर्वधर्माणां ग्राहिका यदुत श्रावकप्रत्येकबुद्धबोधिसत्त्वसम्यक्संबुद्धधर्माणाम्। अतो भगवंस्तथागतविषयं तथागतज्ञानं च निर्दिशतु। तत्र ये सत्त्वा नियताः श्रावकयाने भविष्यन्ति, ते क्षिप्रमनास्रवां भूमिं साक्षात्करिष्यन्ति। ये प्रत्येकबुद्धयाने नियता भविष्यन्ति, ते क्षिप्रं प्रत्येकबुद्धयानेन निर्यास्यन्ति। ये अनुत्तरां सम्यक्संबोधिं संप्रस्थिताः, ते क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। ये च अनवक्रान्तसम्यक्त्वनियामा अनियतास्तिसृषु भूमिषु, ते श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति। सर्वसत्त्वानां च भगवन् कुशलमूलसंजननं कृतं भविष्यति तथागतेन इमं प्रज्ञापारमिताप्रश्नं विसर्जयता। न च वयं भगवन् हीनाधिमुक्तिकानां सत्त्वानां कृतशस्तथागतं परिपृच्छामः, न दरिद्रचित्तानाम्, न दरिद्रमानससमन्वागतानाम्, न कुसीदानाम्, न कौसीद्याभिभूतानाम्, न दृष्टिपङ्कावसन्नानाम्, न मारपाशबद्धानाम्, नानपत्रपाणाम्, नासंलेखसमन्वागतानाम्, न मुषितस्मृतीनाम्, न भ्रान्तचित्तानाम्, न कामपङ्कमग्नानाम्, न शठानाम्, न मायाविनाम्, नाकृतज्ञानाम्, न पापेच्छानाम्, न पापसमाचाराणाम्, न शीलविपन्नानाम्, नापरिशुद्धशीलानाम्, न दृष्टिविपन्नानाम्, न मारगोचरचारिणाम्, नात्मोत्कर्षकाणाम्, न परपंसकानाम्, न लाभसत्कारगुरुकाणाम्, न पात्रचीवराध्यवसितानाम्, न कुहकानाम्, न लपकानाम्, न नैमित्तिकानाम्, न नैष्पेषिकाणाम्, न लाभेन लाभचिकीर्षुकाणाम्। न वयं भगवन् एवंरूपाणां सत्त्वानां कृतशस्तथागतं परिपृच्छामः। ये पुनर्भगवन् सत्त्वाः सर्वज्ञज्ञानं प्रार्थयन्ति, असङ्गज्ञानं स्वयंभूज्ञानमसमज्ञानमनुत्तरज्ञानं प्रार्थयन्ते, ये नात्मानमुपलभन्ते न परम्, कुतः पुनरात्मानमुत्कर्षयिष्यन्ति परं वा पसंयिष्यन्ति, तेषां निहतमानानां वयं भगवंश्छिन्नविषाणवृषभोपमानां बोधिसत्त्वानां महासत्त्वानामाव्रीढशल्यानां नीचमानसानां चण्डालकुमारकोपमचित्तानां पृथिव्यप्तेजोवाय्वाकाशसमचितानां भगवन् सत्त्वानामर्थाय तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानाम्। ये धर्ममपि नोपलभन्ते नाभिनिविशन्ते कुतः पुनरधर्मम्, तेषां वयं भगवन्नर्थाय तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानामाशयशुद्धानामशठानाममायाविनामृजुकानां समचित्तानां सर्वसत्त्वहितामुकम्पकानां समादापकानां समुत्तेजकानां संप्रहर्षकाणां महाभारवाहिकानां महायानसमारूढानां महाकृत्येन प्रत्युपस्थितानां महाकारुणिकानां सर्वसत्त्वहितसुखावहानां नायकानां विनायकानां परिणायकानां सर्वधर्मानिश्रितविहारिकाणां सर्वोपपत्त्यायतनानर्थिकानां सर्वमारपाशविनिर्मुक्तानां छन्दिकानां वीर्यवतामप्रमत्तानां सर्वधर्मपरमपारमिप्राप्तानां सर्वसंशयच्छेदनकुशलानाम्। (तेषां) वयं भगवन् सत्त्वानां कृतशस्तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानाम्। ये ते भगवन् सत्त्वा बोधिज्ञानमपि न मन्यन्ते नाभिनिविशन्ते नाध्यवसाय तिष्ठन्ति, सर्वमन्यनासमतिक्रान्ता मार्गस्थिता मार्गप्रतिपन्ना मार्गदैशिकाः, तेषां वयं भगवन् सत्त्वानां कृतशस्तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानां च। सर्वसत्त्वानां वयं भगवन्नर्थाय हिताय सुखाय योगक्षेमाय तथागतं परिपृच्छामः, सर्वसत्त्वानां वयं भगवन् सुखमुपसंहर्तुकामा अनुत्तरसुखं निरुत्तरसुखं निर्वाणसुखं बुद्धसुखमसंस्कृतसुखम्। तेन वयं भगवन् सर्वसत्त्वानां संशयच्छित्त्यर्थं तथागतं परिपृच्छामः। निःसंशया वयं भगवन् भवितुकामाः, निःसंशयाश्च भगवन् सर्वसत्त्वेभ्यः संशयप्रहाणाय धर्मं देशयितुकामाः। तत्कस्माद्धेतोः ? सर्वसत्त्वा हि भगवन् सुखकामा दुःखप्रतिकूलाः, सर्वसत्त्वाः सुखेनार्थिकाः। न च वयं भगवन् सर्वसत्त्वानां किंचिदन्यत्सुखं समनुपश्यामोऽन्यत्र प्रज्ञातः। न चान्यत्किंचिद्भगवन् सर्वसत्त्वानां सुखमस्ति अन्यत्र बोधिसत्त्वयानान्महायानात्। तेन वयं भगवन् इममर्थवशं संपश्यन्तः सत्त्वानां सुखमुपसंहर्तुकामाः प्रज्ञापारमितां परिपृच्छामः। बोधिसत्त्वानां चैतमर्थं भगवन् समनुपश्यद्भिरस्माभिस्तथागत एतमर्थं परिपृष्टः॥

एवमुक्ते भगवाम् सुविक्रान्तविक्रामिणं बोधिसत्त्वां महासत्त्वमेतदवोचत्-साधु साधु सुविक्रान्तविक्रामिन्। गुणानां ते न सुकरः पर्यन्तोऽधिगन्तुम्, यस्त्वं तथागतं महतो जनकायस्यानुकम्पया इमां प्रज्ञापारमितां परिपृच्छसि। तेन हि त्वं सुविक्रान्तविक्रामिन् शृणु, साधु च सुष्ठु च मनसिकुरु, भाषिष्येऽहं ते। साधु भगवन्निति सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्॥

भगवानेतदवोचत्-यत्त्वं सुविक्रान्तविक्रामिन् एवं वदसि-प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्नुच्यते, कियता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितेत्युच्यत इति, न हि सुविक्रान्तविक्रामिन् केनचिद्धर्मेण प्रज्ञापारमिता वचनीया। सर्ववचनातिक्रान्ता हि प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता शक्यते वक्तुम्-इयं सा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमिता, अनेन वा प्रज्ञापारमिता, अस्माद्वा प्रज्ञापारमिता। अपारमितैषा सुविक्रान्तविक्रामिन् सर्वधर्माणाम्, तेनोच्यते प्रज्ञापारमितेति। प्रज्ञैव सुविक्रान्तविक्रामिंस्तथागतेन न लब्धा, नोपलब्धा, कुतः पुनः प्रज्ञापारमितामुपलप्स्यते ? प्रज्ञेति सुविक्रान्तविक्रामिन् अज्ञैषा सर्वधर्माणाम्, अजाननैषा सर्वधर्माणाम्, तेनोच्यते प्रज्ञेति। कतमा च सुविक्रान्तविक्रामिन् अजानना सर्वधर्माणाम् ? अन्यथैते सर्वधर्मा अन्यथाभिलप्यन्ते, न चाभिलापविनिर्मुक्ताः सर्वधर्माः। या च अज्ञा सर्वधर्माणाम्, या च अजानना सर्वधर्माणाम्, न सा शक्या वाचा वक्तुम्। अपि तु यथा सत्त्वा अजाननाः, तेनोच्यते प्रज्ञेति। प्रज्ञाप्तिरित्येवोच्यते, तेनोच्यते प्रज्ञेति। सर्वधर्माश्च सुविक्रान्तविक्रामिन् अप्रज्ञपनीयाः, अप्रवर्त्याः, अनिर्देश्याः अदृश्याश्च। यैवमजानना, इयमुच्यते अजाननेति। प्रज्ञेति सुविक्रान्तविक्रामिन् नैषा अज्ञा नाप्यनज्ञा, नाप्यज्ञानज्ञा, ततस्तेनोच्यते प्रज्ञेति। (न) ज्ञानगोचर एष सुविक्रान्तविक्रामिन्, नाज्ञानगोचरः। नाज्ञानविषयो नापि ज्ञानविषयः। अविषयो हि ज्ञानम्। सचेदज्ञानविषयः स्यात, अज्ञानं स्यात्। न ज्ञानमज्ञानतः, नापि ज्ञानतोऽज्ञानम्, नापि ज्ञानमज्ञानम्, नाप्यज्ञानं ज्ञानम्। नाज्ञानेन ज्ञानमित्युच्यते, नापि ज्ञानेन ज्ञानमित्युच्यते।

अज्ञानेन हि ज्ञानमित्युच्यते, न तु तत्र किंचिदज्ञानं यच्छक्यमादर्शयितुम्-इदं तज्ज्ञानम्, अस्य वा तज्ज्ञानम्, अनेन वा तज्ज्ञानम्। तेन तज्ज्ञानं ज्ञानत्वेन न संविद्यते, नापि तज्ज्ञानं तत्त्वेनावस्थितम्, नाप्यज्ञानं ज्ञानमित्युच्यते। सचेदज्ञानेन ज्ञानमित्युच्येत, ततः सर्वे बालपृथग्जना ज्ञानिनो भवेयुः। अपि तु ज्ञानाज्ञानानुपलब्धितो ज्ञानाज्ञानं यथाभूतपरिज्ञा। तदेव ज्ञानमित्युच्यते, न पुनर्यथोच्यते तथा तज्ज्ञानम्। तत्कस्मात् ? न हि ज्ञानं वचनीयम्, नापि ज्ञानं कस्यचिद्विषयः। सर्वविषयव्यतिक्रान्तं हि ज्ञानम्, न च ज्ञानं विषयम् (यः ?)। अयं सुविक्रान्तविक्रामिन् ज्ञाननिर्देशः, अदेशोऽप्रदेशः, येन ज्ञानेनासौ ज्ञानिनां ज्ञानीति संख्यां गच्छति। यैवं सुविक्रान्तविक्रामिन् प्रजानना अनुबोधना अजानना, इयमुच्यते प्रज्ञेति। य एवं सुविक्रान्तविक्रामिन् अभिसमयः, साक्षात्क्रिया, इयमुच्यते लोकोत्तरा प्रज्ञेति, न पुनर्यथोच्यते लोकोत्तरा प्रज्ञेति। तत्कस्माद्धेतोः ? लोक एव नोपलभ्यते, कुतः पुनर्लोकोत्तरा प्रज्ञा ? कः पुनर्वादो यो लोकान् समनुत्तरिष्यति लोकोत्तरया प्रज्ञया ? तत्कस्य हेतोः ? न हि सा लोकमुपलभते, तेन न किंचिदुत्तारयति, तेनोच्यते लोकोत्तरा प्रज्ञेति। लोक इति सुविक्रान्तविक्रामिन् प्रज्ञप्तिर्लोकसमतिक्रमः। सर्वप्रज्ञप्तिसमतिक्रान्तं लोकोत्तरमित्युच्यते। न च पुनर्लोकोत्तरमुत्तरणम्, अनुत्तरणं लोकोत्तरम्। तत्कस्य हेतोः ? अणुरपि तत्र धर्मो न संविद्यते य उत्तर्तव्यो येन चोत्तर्तव्यः। तेनोच्यते लोकोत्तरमिति। लोकोत्तरे हि न लोको विद्यते न लोकोत्तरम्, अनुत्तरस्यानुत्तर(ण) मिति, तेनोच्यते लोकोत्तरमिति। अयमुच्यते सुविक्रान्तविक्रामिन् लोकोत्तरायाः प्रज्ञाया निर्देशः, न पुनर्यथोच्यते लोकोत्तरा प्रज्ञेति। तत्कस्माद्धेतोः ? न हि या लोकोत्तरा सा वचनीया, उत्तीर्णा सा। न तत्र भूयः किंचिदुत्तर्तव्यम्, तेनोच्यते लोकोत्तरा प्रज्ञेति॥

तत्र सुविक्रान्तविक्रामिन् या निर्वेधिका प्रज्ञा, किं सा प्रज्ञा निर्विध्यति ? नात्र किंचिन्निर्वेद्धव्यम्। सचेत्किंचिन्निर्वेद्धव्यमभविष्यत्, प्रज्ञप्येत - इयं सा प्रज्ञा या निर्विध्यतीति। न केनचिद्विध्यते नाविध्यते, न कस्यचिदुत्तरमुपलभ्यते यद्विध्येत। निर्विध्यतीति नात्र किंचिद्विध्यति नाविध्यति, नात्र किंचिद्विध्यते नाविध्यते, तेनोच्यते निर्विध्यतीति। नात्र कश्चिदन्तं प्रयाति नापि मध्यम्, तेनोच्यते निर्विध्यतीति। निर्विध्यति निर्वेधिका प्रज्ञेत्युच्यते निर्विध्यति न क्वचिद्धावति, न विधावति, न संधावति, तेनोच्यते निर्वेधिकेति। अपि तु सुविक्रान्तविक्रामिन् निर्वेधिका प्रज्ञेति किं निर्विध्यति ? यत्किंचिद्दर्शनम्, तत्सर्वं निर्विध्यति। केन निर्विध्यति ? प्रज्ञया निर्विध्यति। किमिति प्रज्ञया निर्विध्यति ? प्रज्ञप्तिलक्षणमिति निर्विध्यति। यत्किंचित्प्रज्ञप्तिलक्षणम्, तत्सर्वमलक्षणमिति, अलक्षणं प्रज्ञप्तिलक्षणमिति। यः सुविक्रान्तविक्रामिन् एवंरूपया प्रज्ञया समन्वागतो विध्यति, स त्रैधातुकं विध्यति। कथं विध्यति ? अधातुकं त्रैधातुकमिति निर्विध्यति। न ह्यत्र कश्चिद्धातुं विध्यति, स त्रैधातुकमधातुकमिति निर्विध्यति। येनैवं त्रैधातुकं निर्विद्धम्, अयमुच्यते नैर्वेधिक्या प्रज्ञया समन्वागत इति। कथं च नैर्वेधिक्या प्रज्ञया समन्वागतः ? न हि किंचिन्निर्वेद्धव्यमकुशलम्, स सर्वं कुशलमिति निर्विध्यति, नैर्वेधिक्या प्रज्ञया अतिक्रामति। स एवं नैर्वेधिक्या प्रज्ञ्या समन्वागतो यत्किंचित्पश्यति शृणोति जिघ्रति आस्वादयति स्पृशति विजानीते वा, तत्सर्वं निर्विध्यति। कथं निर्विध्यति ? अनित्यतो दुःखतो गण्डतो रोगतः शल्यतः शून्यतो अघत आघाततः परतः (प्रलोपतः) प्रलोपधर्मतश्चलतः प्रभङ्गुरतोऽनात्मतोऽनुत्पादतोऽनिरोधतोऽलक्षणत इति। अयमुच्यते सुविक्रान्तविक्रामिन् शीतीभूतोविशल्य इति। तद्यथापि नाम सुविक्रान्तविक्रामिन् विशल्या नाम भैषज्यजातिः। सा यस्मिन् स्थाप्यते ततः सर्वशल्यान्यपनयति निर्विध्यति, एवमेव एवंरूपैर्धर्मैः समन्वागतो भिक्षुर्विशल्यः शीतीभूतो नैर्वेधिक्या प्रज्ञया समन्वागतः संसारात्यन्तविहारी नैर्वेधिकप्रज्ञोविरक्तः सर्वत्रैधातुकात्, अतिक्रान्तः सर्वमारपाशेभ्यः। तद्यथापि नाम सुविक्रान्तविक्रामिन् वज्रं यस्मिन्नेव निक्षिप्यते निर्वेधनार्थम्, तत्तदेव निर्विध्यति, एवमेव भिक्षुर्वज्रोपमसमाधिनैर्वेधिक्या प्रज्ञया परिगृहीतं(चित्तं ? ) यत्र स्थापयति येषु च प्रचारयति, तान् सर्वान्निर्विध्यति। स नैर्वेधिक्या प्रज्ञया समन्वागतो लोकोत्तरया सम्यग्दुःखक्षयगामिन्यानुलिप्तस्त्रविद्य इत्युच्यते।विद्येति सुविक्रान्तविक्रामिन् अविद्योपशमस्यैतदधिवचनम्, अविद्यापरिज्ञेति दुःखस्कन्धव्युपशमस्यैतदधिवचनम्। तद्यथापि नाम सुविक्रान्तविक्रामिन् वैद्यः पण्डितो व्यक्तो मेधावी तन्त्रौपयिकया मीमांसया समन्वागतः स्यात् सर्वभैषज्यकुशलः सर्वव्याध्युत्पत्तिकुशलः सर्वदुःखप्रमोचनकः। स यं यमेव ग्लानं चिकित्सति तं तमेव मोचयत्।तत्कस्माद्धेतोः ? तथा हि स सर्वभैषज्यकुशलः सर्वव्याध्युत्पत्तिकुशलः सर्वरोगविमोचनकः। एवमेव सुविक्रान्तविक्रामिन् तृतीया विद्या सर्वाविद्योपशमाय संवर्तते, सर्वदुःखनिर्यातनाय संवर्तते, सर्वजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासानामुपशमाय संवर्तते। इयमुच्यते सुविक्रान्तविक्रामिन् लोकोत्तरा प्रज्ञा निर्वेधगामिनीति॥

इदं च मे सुविक्रान्तविक्रामिन् संघाय भाषितम् -

प्रज्ञा श्रेष्ठा हि लोकस्य येयं निर्वेधगामिनी।

यया सम्यक् प्रजानाति भवजातिपरिक्षयम्॥ इति॥

भवजातिपरिक्षय इति सुविक्रान्तविक्रामिन् कस्यैतदधिवचनम् ? उदयास्तंगमप्रतिवेधस्यैतदधिवचनम्। कतमश्च उदयास्तंगमप्रतिवेधः ? यत्किंचित्समुदयधर्मि, तत्सर्वं निरोधधर्मि इत्येवं समुदयास्तंगमं प्रतिविध्यति। समुदय इति सुविक्रामिन् उत्पादस्यैतदधिवचनम्, अस्तंगम इति निरोधस्यैतदधिवचनम्, न पुनर्यथोच्यते तथोदयास्तंगमः। यः कश्चित्सुविक्रान्तविक्रामिन् समुदयः, न स उदयधर्मः। न हि सुविक्रान्तविक्रामिन् समस्य कश्चिदुदयः, नापि तत्समुदागच्छति। समतानुयातमेव तत्। तेनोच्यते समुदय इति। समतानुयातमिति सुविक्रान्तविक्रामिन् नात्र कश्चिदुदयति न समुदागच्छति। न तस्य यः स्वभावः स स्वयं संभवः, स निरोधः। तत्र च न कस्यचिन्निरोधः, समुदयानन्तरनिरोधः। यत्रोत्पादो नास्ति, न तत्र निरोधः, स निरोधः। एवं सुविक्रान्तविक्रामिन् यः समुदयास्तंगमप्रतिवेधः अनुत्पादाय अनिरोधाय, सोऽस्तंगमप्रतिवेधः। तेनोच्यते उदयास्तंगमप्रतिवेध इति॥

प्रतिवेध इति सुविक्रान्तविक्रामिन् प्रतीत्यसमुत्पादस्यैषा परिज्ञा। यं प्रतीत्य यो धर्म उत्पद्यते, तमेव प्रतीत्य स धर्मो न संविद्यते। अयमुच्यते प्रतीत्यसमुत्पादप्रतिवेधः। सैषा सुविक्रान्तविक्रामिन् प्रतीत्यसमुत्पादस्य परिज्ञा यथाभूतता अनुत्पादेन सूच्यते। अनुत्पादो हि प्रतीत्यसमुत्पादः। समोऽनुत्पादः। तेनोच्यते प्रतीत्यसमुत्पाद इति। यत्र नास्त्युत्पादः, तत्र कुतो निरोधः ? अनिरोधो निरोधः प्रतीत्यसमुत्पादस्यावबोधः। असमुत्पादः प्रतीत्यसमुत्पाद इत्युच्यते। योऽसमुत्पादः सोऽनुत्पादः। योऽनुत्पादः, स नातीतो न अनागतो न प्रत्युत्पन्नः। तस्य निरोधो न संविद्यते। यस्य निरोधो न संविद्यते, तदुच्यतेऽनुत्पादज्ञानमिति। येन च अनुत्पादो ज्ञातः, स न भूय उत्पादयति, न च निरोधं साक्षात्करोति। यो नोत्पादयति, स न निरोधयति। उत्पादस्य हि सतो निरोधः प्रज्ञायते। येनोत्पादयति, तेन निरुद्धा एव सर्वधर्मा ज्ञाता दृष्टाः प्रतिविद्धाः साक्षात्कृताः। तेनोच्यते निरोधः साक्षात्कृत इति॥

क्षयज्ञानमिति सुविक्रान्तविक्रामिन् क्षीणमज्ञानम्। तेनोच्यते क्षयज्ञानमिति। केन क्षीणम् ? अक्षयतया क्षीणम्। क्षयमस्य न समनुपश्यति। अज्ञानविगम एष सुविक्रान्तविक्रामिन्। तेनोच्यते क्षयज्ञानमिति। अज्ञानपरिज्ञैषा सुविक्रान्तविक्रामिन्। तेनोच्यते अज्ञानक्षयः क्षयज्ञानमिति। न हि अज्ञानं क्षयो वा अक्षयो वा। विगम एष सुविक्रान्तविक्रामिन् ज्ञास्यते। तेनोच्यते क्षयज्ञानमिति। यथाभूतपरिज्ञैषा सुविक्रान्तविक्रामिन्। तेनोच्यते विगम इति। न किंचिदन्यदुपलभ्यते इदं तज्ज्ञानविगम इति। ज्ञानमेव नोपलभ्यते, कुतः पुनरज्ञानम्। यस्य कस्यविद्विमुक्ति, तेनोच्यते क्षयज्ञानमिति, न पुनर्यथोच्यते। यस्य पुनः क्षयज्ञानम्, तस्य न कश्चिद्व्यवहारः। अपि तु निर्देश एषः अज्ञानक्षय इति वा क्षय(ज्ञान)मिति। इयं सुविक्रान्तविक्रामिन् अक्षयक्षयज्ञानपरीक्षा सर्वधर्माणां येनावबुद्धा स क्षयज्ञानविगतः, अक्षयकोटिमनुप्राप्तः। अकोटिर्निवाणकोटिः, न पुनर्यथोच्यते। अवचनीयं निर्वाणं सर्वव्यवहारसमुच्छिन्नम्। अयं सुविक्रान्तविक्रामिन् निर्वाणधातुनिर्देशः, न पुनर्यथा निर्दिष्टः। अनिर्देश्यो हि निर्वाणधातुः सर्वनिर्देशसमतिक्रान्तः सर्वनिर्देशसमुच्छिन्नो निर्वाणधातुः। अयमुच्यते लोकोत्तराया निर्वेधिकायाः प्रज्ञाया निर्देशः, योऽयं निर्वाणधातुरिति। न च सुविक्रान्तविक्रामिन् निर्वाणधातुर्देशस्थो न प्रदेशस्थः। एषोऽस्य निर्देश इति॥

तत्र कतमा सुविक्रान्तविक्रामिन् प्रज्ञापारमिता ? न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमितायाः किंचिदारं वा पारं वा। सचेत्सुविक्रान्तविक्रामिन् प्रज्ञापारमिताया आरं वा पारं वा उपलभ्येत, निर्दिशेत्तथागतः प्रज्ञाया आरं वा पारं वा। न च सुविक्रान्तविक्रामिन् प्रज्ञापारमिताया आरमुपलभ्यते, तेनास्याः पारं न निर्दिश्यते। अपि तु सुविक्रान्तविक्रामिन् प्रज्ञापारमितेति पारमेतत्सर्वधर्माणां ज्ञानकर्मणाम्, तेनोच्यते प्रज्ञापारमितेति, न पुनर्यथोच्यते। न हि वाचा न कर्मणा प्रज्ञापारमिता प्रत्युपस्थिता। अनिर्देश्या हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता। सर्वधर्माणामेषोऽनुबोधः। यश्चानुबोधः, सोऽविरोधः। तत्कस्माद्धेतोः ? न हि तत्र किंचिदनुबुद्धम्, न प्रतिविद्धम्। अनुबोधप्रतिवेधसमता हि बोधिः सर्वधर्मानुबोधाद्बोधिरित्युच्यते। कथं च सर्वधर्मानुबोधः ? नात्र काचिद्बोधिर्नाप्यत्र कश्चि(दनु)बोधः। तत्कस्माद्धेतोः ? सचेत् सुविक्रान्तविक्रामिन् बोधिरुपलभ्येत, लब्धा स्याद्बोधौ बोधिः। न च सुविक्रान्तविक्रामिन् बोधौ बोधिः संविद्यते। एवमेषा बोधिरभिसंबोद्धव्या। अननुबोधादप्रतिवेधादनुबुध्येत्युच्यते, न पुनर्यथोच्यते सर्वधर्मा ह्यननुबुद्धा अप्रतिविद्धाः। न च पुनर्धर्मो धर्मस्वभावेन संविद्यते अनेनानुबोधेन। इयमुच्यते बोधिरिति। न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिरुपलब्धा, नापि तथागतेन बोधिर्विज्ञप्ता। अविज्ञपनीया अप्रज्ञपनीया बोधिः। न च तथागतेन बोधिर्ज्ञाता न जनिता। अजाता अनभिनिर्वृत्ता हि बोधिः। न च बोधिः कस्यविद्विषयः, न च बोधौ कश्चित्सत्त्वो वा सत्त्वप्रज्ञप्तिर्वा। यत्र नस्ति सत्त्वो वा सत्त्वप्रज्ञप्तिर्वा, कथं वक्तव्योऽयं बोधिसत्त्वः, इयं बोधिसत्त्वस्य प्रज्ञापारमितेति ? न हि सुविक्रान्तविक्रामिन् बोधौ बोधिः, न च बोधौ कश्चित्सत्त्वः। अतिक्रान्ता ह्येषा बोधिः, अनुत्पन्नैषा बोधिः, अनभिसंवृत्तैषा बोधिः, अलक्षणैषा बोधिः। न चास्यां सत्त्वः संविद्यते, नोपलभ्यते। न बोधिः सत्त्वतया प्रज्ञप्ता। निःसत्त्वानुबोधो हि बोधिरित्युच्यते। बोधि(र)सत्त्वतेति येन ज्ञाता, स उच्यते बोधिसत्त्व इति। तत्कमाद्धेतोः ? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वः सत्त्वसंज्ञाप्रभावितः। सत्त्वसंज्ञाविभावनाद्बोधिसत्त्व इत्युच्यते, न पुनर्यथोच्यते। तत्कस्माद्धेतोः ? अवचनीयो हि बोधिसत्त्वः, सत्त्वस्वभावविगतो हि बोधिसत्त्वः, सत्त्वसंज्ञाविगता हि बोधिः। येनैवं बोधिर्ज्ञाता, स बोधिसत्त्व इत्युच्यते। किमिति बोधिर्ज्ञाता ? अतिक्रान्तैषा बोधिः, अकरणीयैषा बोधिः, अनुत्पादानिरोधो ह्येषा बोधिः। न बोधिर्बोधिं विज्ञापयति, नापि बोधिर्विज्ञापनीया। अविज्ञापनीया अप्रज्ञपनीया अनभिनिर्वर्तनीया बोधिरित्युच्यते। येन च अनुबुद्धा प्रतिबुद्धा अविकल्पा कल्पसमुच्छेदाय, तेनोच्यते बोधिसत्त्व इति, न पुनर्यथोच्यते। तत्कस्मात् ? निःसत्त्वत्वात्। यदि बोधिसत्त्वः समुपलभ्येत, लब्धा स्याद्बोधिः - इयं सा बोधिः, अस्यामयं सत्त्वा इति। असत्त्वनिःसत्त्वसत्त्वावगमानुबोधाद्बोधिसत्त्व इत्युच्यते। निःसत्त्वतया सत्त्वसंज्ञाविभावनतया असत्त्वसंज्ञाविभावनतया बोधिसत्त्व इत्युच्यते। तत् कस्मात् ? सत्त्वधातुरित्यसत्त्वताया एतदधिवचनम्। न हि सत्त्वः सत्त्वे संविद्यते, असंविद्यमानत्वात्सत्त्वधातोः। यदि सत्त्वे सत्त्वः स्यात्, नोच्येत सत्त्वधातुरिति। अधातुनिदर्शनमेतत् सत्त्वधातुरिति। अधातुको हि सत्त्वधातुः। यदि सत्त्वधातौ सत्त्वधातुर्भवेत्, सजीवस्तच्छरीरं भवेत्। अथ सत्त्वधातुनिर्मुक्तो धातुर्भवेत्, अधातुको हि सत्त्वधातुः। धातुः संकेतेन व्यवहारपदं गच्छति। न हि सत्त्वधातौ धातुः संविद्यते, नाप्यन्यत्र सत्त्वधातोः सत्त्वधातुः संविद्यते। अधातुका हि सर्वधर्माः। इदं च मे संधाय भाषितम्-न सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते। तत्कस्माद्धेतोः ? असत्त्वात् सत्त्वधातोः, विविक्तत्वात्सत्त्वधातोः। यथा च सत्त्वधातोर्नोनत्वं न पूर्णत्वं प्रज्ञायते, एवं सर्वधर्माणामपि नोनत्वं न पूर्णत्वं प्रज्ञायते। सर्वधर्माणां हि न काचित्परिनिष्पत्तिः, येनैषामूनत्वं वा पूर्णत्वं वा भवेत्। य एवं सर्वधर्माणामनुबोधः, स उच्यते सर्वधर्मानुबोध इति। इयं च मया संधाय वाग्भाषिता–यथा सत्त्वधातोर्नोनत्वं न पूर्णत्वं प्रज्ञायते, एवं सर्वधर्माणामपि नोनत्वं न पूर्णत्वं प्रज्ञायत इति। यच्च सर्वधर्माणामनूनत्वमपूर्णत्वम्, तदपरिनिष्पत्तियोगेन, तदेव बुद्धधर्माणामपि अनूनत्वमपूर्णत्वम्। एवं सर्वधर्माणामनुबोधाद्बुद्धधर्माणामनूनत्वमपूर्णत्वम्। सर्वधर्माणामनूनत्वादपूर्णत्वाद्बुद्धधर्मा इति। तेन तद्बुद्धधर्माणामधिवचनम्। न हि बुद्धधर्माः केनचिच्छक्या ऊना वा पूर्णा वा कर्तुम्। तत्कस्माद्धेतोः ? सर्वधर्मानुबोध एषः। यश्च सर्वधर्मानुबोधः, तत्र न कस्यचिद्धर्मस्य ऊनत्वं वा पूर्णत्वं वा। सर्वधर्मा इति धर्मधातोरेतदधिवचनम्। न च धर्मधातोरूनत्वं वा पूर्णत्वं वा। तत्कस्य हेतोः ? अनन्तो हि धर्मधातुः। न हि सत्त्वधातोश्च धर्मधातोश्च नानात्वमुपलभ्यते, नापि सत्त्वधातोर्वा धर्मधातोर्वा ऊनत्वं वा पूर्णत्वं वोपलभ्यते वा संविद्यते वा। य एवमनुबोधः, इयमुच्यते बोधिरिति। तेनोच्यते-न बुद्धधर्माणामूनत्वं वा पूर्णत्वं वा प्रज्ञायत इति। अनूनत्वपूर्णत्वमिति सुविक्रान्तविक्रामिन् यथावदविकल्पस्य यथाभूतदर्शनस्यैतदधिवचनम्। न तत्र शक्यं केनचिदुत्क्षेप्तुं वा प्रक्षेप्तुं वा। य एवमनुबोधः, इयमुच्यते बोधिरिति। (बोधिरिति) सुविक्रान्तविक्रामिन् बुद्धलक्षणमेतत्। कथं बुद्धलक्षणम् ? सर्वधर्मलक्षणान्यलक्षणम्, एतद्बुद्धलक्षणम्। अलक्षणा हि बोधिर्लक्षणस्वभावविनिवृत्ता। य एवमनुबोधः, इयमुच्यते बोधिरिति, न पुनर्यथोच्यते। एषां हि सुविक्रान्तविक्रामिन् धर्माणामनुबोधत्वाद्बोधिसत्त्व इत्युच्यते। यो हि कश्चित् सुविक्रान्तविक्रामिन् इमान् धर्मानप्रजानन्ननवबुध्यमानो बोधिसत्त्व इत्यात्मानं प्रतिजानीते, दूरे तस्य बोधिसत्त्वस्य बोधिसत्त्वभूमिः, दूरे बोधिसत्त्वधर्माः, विसंवादयति सदेवमानुषासुरं लोकं बोधिसत्त्वनाम्ना। सचेत्पुनः सुविक्रान्तविक्रामिन् वाङ्मात्रेण बोधिसत्त्वो भवेत्, तेन सर्वसत्त्वा अपि बोधिसत्त्वा भवेयुः। नैतत्सुविक्रान्तविक्रामिन् वाङ्मात्रं यदुत बोधिसत्त्वभूमिरिति। न च वाचा शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। न हि वाक्कर्मणा बोधिः प्राप्यते, नापि बोधिसत्त्वधर्माः। सर्वसत्त्वाः सुविक्रान्तविक्रामिन् बोधाय चरन्ति, न च जानन्ति न बुध्यन्ते। ते न बोधिसत्त्वा इत्युच्यन्ते। तत्कस्माद्धेतोः ? न हि सत्त्वा असत्त्वमिति प्रजानन्ति। सचेदेवं ते जानीयुः, आत्मचरितैर्बोधिसत्वा भवेयुः। विपर्यस्ताः पुनः सत्त्वाः स्वचर्यां स्वविषयं स्वगोचरं न प्रजानन्ति। सचेदात्मचर्यां प्रजानीयुः, न ते भूयः कस्मिंश्चिद्विकल्पे चरेयुः। ताभिर्विकल्पचर्याभिः सर्वबालपृथग्जना अभूतारम्बणे चरन्ति। ते बोधिमपि आरम्बणीकृत्य मन्यन्ते। तेषामारम्बणचरितानां विकल्पचरितानां कुतो बोधिः, कुतो बोधिसत्त्वधर्माः ? य एवं धर्मं प्रजानन्ति, न ते भूयोऽभूतारम्बणे चरन्ति। न ते भूयः कंचिद्धर्मं मन्यन्ते। तेनोच्यते - अचर्या बोधिसत्त्वचरेति। न बोधिसत्त्वाः कल्पे न विकल्पे चरन्ति। यत्र च न कल्पो न विकल्पः, न तत्र काचिच्चर्या। यत्र चाविकल्पः, न तत्र कस्यचिच्चर्या। बुद्धबोधिसत्त्वानां सर्वचर्या अविकल्पचर्येति। सर्वा मन्यना असारम्बणा। स एवं सर्वधर्मान् प्रजानन् न भूय आरम्बणे वा विकल्पे वा चरति विचरति वा। इयं बोधिसत्त्वानां चर्या अचर्यायोगेन। एवं हि सुविक्रान्तविक्रामिन् धर्मानवबुध्यन्ते प्रतिबुध्यन्ते, तेनोच्यन्ते बोधिसत्त्वा इति॥

असत्त्वेति बोधिसत्त्वस्यैतदधिवचनम्। बिभाविता हि तेन सत्त्वाः सर्वसंज्ञाः। तत्कस्माद्धेतोः ? ज्ञाता हि तेन भूताः सर्वसत्त्वाः, असत्त्वाः सर्वसत्त्वाः विपर्याससत्त्वाः सर्वसत्त्वाः, परिकल्पितसत्त्वाः सर्वसत्त्वाः, अभूतारम्बणसत्त्वाः सर्वसत्त्वाः, स्वचर्याविप्रनष्टसत्त्वाः सर्वसत्त्वाः, अविद्यासंस्कारसत्त्वाः सर्वसत्त्वा इति। तत्कस्य हेतोः ? ये धर्माः सर्वसत्त्वानां न संविद्यन्ते, तान् धर्मानभिसंस्कुर्वन्ति। तेनोच्यते सर्वसत्त्वा अविद्यासंस्कारसत्त्वा इति। कतमो धर्मो न संविद्यते ? अहमिति वा ममेति वा अहमस्मीति वा न कश्चिद्धर्मो विद्यते। सचेत्कश्चिद्धर्मः स्यात्-अहमिति वा ममेति वा अहमस्मीति वा, तेन भूताः सत्त्वा अभविष्यन्। यस्मात्तर्हि सुविक्रान्तविक्रामिन् न स कश्चिद्धर्मः, यः अहमिति वा ममेति वा अहमस्मीति वा, तेनोच्यते-अभूताः सर्वसत्त्वा इति, अविद्यासंस्कारसत्त्वाः सर्वसत्त्वा इति। न हि कश्चित् सुविक्रान्तविक्रामिन् सत्त्वो नाम धर्मः संविद्यते यस्य स्यादहमिति वा ममेति वा अहमस्मीति वा। यस्माच्च न संविद्यते, तस्मादभूताः सत्त्वा इत्युच्यन्ते। अभूता इति असत्त्वानामेतदधिवचनम्। यथा वा पुनरभूतायां सत्त्वसंज्ञायामभिनिविष्टाः, तस्मादुच्यते अभूताः सत्त्वा इति। अभूतमिति सुविक्रान्तविक्रामिन् नात्र किंचिद्भूतं न संभूतम्। सर्वधर्मा हि अभूता असंभूताः। तत्र सत्त्वा अभूता अध्यवसिता विनिबध्यन्ते, तेनोच्यन्ते अभूतारम्बणाः सत्त्वा इति। तां ते स्वचर्यामप्रजानन्तः अभूतसत्त्वा इत्युच्यन्ते। अपरिबोधना पुनर्यस्याश्चर्यावबोधाद्बोधिसत्त्वा इत्युच्यते॥

य एवं सुविक्रान्तविक्रामिन् धर्मानवबुध्यते, स उच्यते बोधिसत्त्व इति। बोधिसत्त्व इत्यनुबुद्धसत्त्वस्यैतदधिवचनम्, येन सर्वधर्मा बुद्धा ज्ञाताः। कथं ज्ञाताः ? अभूता असंभूता अवितथाः, नैते तथा यथा बालपृथग्जनैः कल्पिताः। नैते तथा यथा बालपृथग्जनैर्लब्धाः। तेनोच्यन्ते बोधिसत्त्वा इति। तत्कस्य हेतोः ? अकल्पिता अविकल्पिता हि बोधिः, अविठपिता हि बोधिः, अनुपलम्भा हि बोधिः। न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिर्लब्धा। अलम्भात्सर्वधर्माणामनुपलम्भात्सर्वधर्माणां बोधिरित्युच्यते। एवं बुद्धबोधिरित्युच्यते, न पुनर्यथोच्यते। येन सुविक्रान्तविक्रामिन् बोधाय चित्तमुत्पादयन्ति-इदं चित्तं बोधायोत्पादयिष्याम इति बोधिं मन्यन्ते, अस्त्यसौ बोधिर्यस्यां वयं चित्तमुत्पादयिष्याम इति, न ते बोधिसत्त्वा इत्युच्यन्ते, उत्पन्नसत्त्वास्त उच्यन्ते। तत्कस्माद्धेतोः ? तथा हि उत्पादाभिनिविष्टाश्चित्ताभिनिविष्टा बोधिमभिनिविशन्ते। ये बोधाय चित्तमुत्पादयन्ति, ते बोधिचित्ताभिनिविष्टा बोधिसत्त्वा इत्युच्यन्ते। यस्मादभिसंस्कुर्वन्ति, तस्मात्ते बोधाय चित्तमुत्पादयन्ति। तेनोच्यन्ते। अभिसंस्कारसत्त्वा इति। न ते बोधिसत्त्वाः। तत्कस्य हेतोः ? उत्पन्नसत्त्वास्त उच्यन्ते। न हि सुविक्रान्तविक्रामिन् शक्यं बोधाय चित्तमुत्पादयितुम्। अनुत्पन्ना हि बोधिः, अचित्ता हि बोधिः। उत्पादमेव ते सुविक्रान्तविक्रामिन् अभिनिविशन्ते। न तेऽनुत्पादं प्रजानन्ति। या पुनः सुविक्रान्तविक्रामिन् उत्पादसमता, सा भूतता। या च चित्तसमता या च भूतसमता, या च भूतसमता या च समता सा बोधिः। यत्र च यथाभूतता, न तत्र कश्चिद्विकल्पः। ते पुनर्विकल्प्य चित्तं बोधिं चाभिनिविश्य द्वयतो बोधाय चित्तमुत्पादयन्ति। न हि सुविक्रान्तविक्रामिन् अन्यच्चित्तमन्या बोधिः, न च चित्ते बोधिः, नापि बोधौ चित्तम्। या च बोधिर्यच्च चित्तम्, सा यथाभूतता यथावत्ता। नात्र बोधिर्न च चित्तम्, न च बोधिरुपलब्धा, नोत्पादो नानुत्पादः। तेन स बोधिसत्त्व इत्युच्यते, यथाभूतसत्त्व इत्युच्यते, महासत्त्व इत्युच्यते। तत्कस्माद्धेतोः ? या ह्यभूतता, सा तेन ज्ञाता। कतमा च सा अभूतता ? स सर्वलोको ह्यभूतः, अभूतपर्यापन्नोऽभूतोऽसंभूतो बतायं लोकसंनिवेशः। किमित्यभूतस्य संभवः ? नाभूतस्य कश्चित्संभवः। असंभूतं ह्यभूतम्। तेनोच्यते अस्वभावा अभूताः सर्वधर्मा इति। येनैवं ज्ञातः, स उच्यते यथाभूतसत्त्व इति। न भूते भूतमभिनिविशते, तेनोच्यते यथाभूतसत्त्व इति, न पुनर्यथोच्यते। तत्कस्य हेतोः ? न हि यथाभूते कश्चित्सत्त्वो वा महासत्त्वो वा। यो हि महायानमवगाहते, स उच्यते महासत्त्व इति॥

कतमच्च महायानम् ? सर्वं ज्ञानं महायानम्। कतमच्च सर्वं ज्ञानम् ? यत्किंचित्संस्कृतं ज्ञानम्, लौकिकं ज्ञानम्, तेन महासत्त्व इत्युच्यते। तत्कस्माद्धेतोः ? महती हि तस्य सत्त्वसंज्ञा विगता, तेनोच्यते महासत्त्व इति। महानस्य अविद्यास्कन्धो विगतः, तेनोच्यते महासत्त्वः। महानस्य संस्कारस्कन्धो विगतः, तेनोच्यते महासत्त्वः। महानस्य अज्ञानस्कन्धो विगतः, तेनोच्यते महासत्त्वः। महानस्य दुःखस्कन्धो विगतः, तेनोच्यते महासत्त्व इति। यैर्हि सुविक्रान्तविक्रामिन् महासत्त्वसंज्ञा विगर्हिता, न च चित्तमुपलभन्ते न च चैतसिकान् धर्मान्, चित्तप्रकृतिं च प्रजानन्ति, न च बोधिमुपलभन्ते, न च बोधिपक्षिकान् धर्मान्, बोधिप्रकृतिं च प्रजानन्ति, ते नाज्ञातचित्तेन बोधिं च पश्यन्ति, न चान्यत्र बोधेश्चित्तं पश्यन्ति, न बोधौ चित्तं पश्यन्ति, न चित्ते बोधिं पश्यन्ति। य एवं विभावयन्ति, न ते च भावयन्ति न विभावीकुर्वन्ति, ते भावानपि नोपलभन्ते न मन्यन्ते नाभिनिविशन्ते, ते हि बोधाय चित्तमुत्पादयन्ति। ये च सुविक्रान्तविक्रामिन् एवं बोधाय चित्तमुत्पादयन्ति, ते बोधिसत्त्वा इत्युच्यन्ते, न च ते बोधेर्विवर्तन्ते। तत्कस्माद्धेतोः ? बोधावेव ते स्थिताः, य एवं न बोधेः, न चित्तस्य, न नोत्पादस्य, न निरोधस्य नानाकरणं समनुपश्यन्ति। न ह्यत्र कश्चित्समनुपश्यति, न कश्चिदभिनिविशते, न कश्चिद्विकल्पमापद्यते। य एवं सुविक्रान्तविक्रामिन् अधिमुक्तिविमुक्तिचित्तमुत्पादयन्ति, ते भूता बोधिसत्त्वा इत्युच्यन्ते। ये पुनः सुविक्रान्तविक्रामिन् (चित्तसंज्ञितो) बोधिसंज्ञिनश्च बोधाय चित्तमुत्पादयन्ति, दूरे ते बोधेः, न तेऽभ्यासन्ना बोधेः। ये पुनः सुविक्रान्तविक्रामिन् बोधेर्नापि दूरे नाभ्यासन्ने समनुपश्यन्ति, ते बोधेरासन्नाः, तैश्च बोधाय चित्तमुत्पादितम्। एतच्च मे संधाय भाषितम्-यो हि अद्वयमात्मानं प्रजानाति, स बुद्धं धर्मं च प्रजानाति। तत्कस्य हेतोः ? आत्मभावं स भावयति सर्वधर्माणाम्, येन अद्वयपरिज्ञया सर्वधर्माः परिज्ञाताः। आत्मस्वभावनियता हि सर्वधर्माः। यो हि अद्वयधर्मं प्रजानीते, स बुद्धधर्मान् प्रजानीते। अद्वयधर्मपरिज्ञया बुद्धधर्मपरिज्ञा, आत्मपरिज्ञया सर्वत्रैधातुकपरिज्ञा। आत्मपरिज्ञेति सुविक्रान्तविक्रामिन् पारमेतत्सर्वधर्माणाम्। कतमच्च पारं सर्वधर्माणाम् ? यो हि नैव आरमुपलभते न पारं मन्यते न पारमभिनिविशते, तस्य परिज्ञया पारगत इत्युच्यते, न पुनर्यथोच्यते। एवमेषां सुविक्रान्तविक्रामिन् बोधिसत्त्वभूमिरनुगन्तव्या। सा बोधिसत्त्वप्रज्ञापारमिता, यत्र अण्वपि न किंचिद्गन्तव्यं वा अधिगन्तव्यं वा। न ह्यत्र आगमनं वा गमनं वा प्रज्ञायते। इति॥

आर्यप्रज्ञापारमिता(यां) निदानपरिवर्तः प्रथमः॥

२ आनन्दपरिवर्तो द्वितीयः।

अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत् -उत्त्रसिष्यन्ति भगवन् अस्मिन्निर्देशे अधिमानिका निमित्तचारिण इति। अथ खल्वायुष्मान् शारद्वतीपुत्र आयुष्मन्तमानन्दमेतदवोचत्-अगतिरत्रायुष्मन् आनन्द अधिमानिकानाम्,अविषयः। न ते पुनरत्रोत्त्रसिष्यन्ति। तत्कस्माद्धेतोः ? उत्त्रस्ता एते ये पापमित्रहस्तगताः। अगतिस्तेषामत्र, अविषयः। ये पुनरायुष्मन्नानन्द अधिमानप्रहाणाय प्रतिपन्ना अधिमानप्रहाणायोद्युक्ताः, ते ह्यत्र उत्त्रसिष्यन्ति। तत्कस्माद्धेतोः ? अधिमानप्रज्ञया निरधिमानतां गवेषन्ते मानप्रहाणं च गवेषन्ते। ये पुनरायुष्मान्नानन्द मानं नोपलभन्ते न समनुपश्यन्ति न मन्यन्ते नाभिनिविशन्ते, न ते क्वचिदुत्त्रसिष्यन्ति, नापि क्वचिदुत्त्रासमाप्स्यन्ते। न च आयुष्मान्नानन्द अधिमानिकानामर्थाय इयं धर्मदेशना प्रवृत्ता। अनवकाशो ह्यत्र आयुष्मन्नानन्द अधिमानिकानाम्, ये च अधिमानप्रहाणायोद्युक्ता व्यावच्छन्ते। अधिमान इत्यायुष्मन्नानन्द अधिकारसमारोपस्यैतदधिवचनम्। येऽधिमाने चरन्ति, अधिकारसमारोपे ते चरन्ति। न ते समचारिणः। समचारिणोऽप्यस्मिन् धर्मे संशयः॥

ये पुनरायुष्मन्नानन्द नापि सममुपलभन्ते न विषमम्, नापि समं मन्यन्ते न विषमम्, एवं न सममभिनिविशन्ते न विषमम्, न ते क्वचिदुत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते॥

अगतिरत्रायुष्मन्नानन्द सर्वबालपृथग्जनानाम्, अविषयः। नात्र आयुष्मन्नानन्द सर्वबालपृथग्जना गतिमपि विन्दन्ति। श्रावकयानीयानामप्यानन्द अगतिरत्र। ये च प्रत्येकबुद्धयानीया गम्भीरेषु धर्मेषु चरन्ति, तेषामप्यत्रागतिः। येऽप्यायुष्मन्नानन्द बोधिसत्त्वयानीया निमित्तचारिणः कल्याणमित्रापरिगृहीताः पापमित्रहस्तगताः, तेषामप्येषु धर्मेषु निरुपलेपेषु अगतिरविषयः। स्थापयित्वा आयुष्मन्नानन्द दृष्टसत्यं श्रावकयानीयं (बोधिसत्त्वयानीयं) च कल्याणमित्रोपस्तब्धं गम्भीरधर्माधिमुक्तम्, य एषां धर्माणामनुलोमं चरन्ति, य एषां धर्माणा**मवगाहन्तेऽवतरन्ति च। ये पुनरायुष्मन्नानन्द बोधिसत्त्वा निमित्तापगता अनिमित्तचारिणोऽनानात्वचारिणो गम्भीरेषु धर्मेष्वत्यन्तमेव निर्याताः, ये नैवं चित्तमुपलभन्ते न बोधिम्, न कस्यचिद्धर्मस्य नानात्वं कुर्वन्ति, न समनुपश्यन्ति, तेषामेषु एवंरूपेषु धर्मेषु न धन्धायितत्वं न काङ्क्षायितत्वम्। तत्कस्माद्धेतोः ? सर्वधर्माणां हि तेऽनुलोमं स्थिताः, न विलोमम्। ते यतो यतो धर्मान् पृच्छ्यन्ते, ततस्तत एव अनुलोमं विसर्जयिष्यन्ति, अनुलोमं च संधयन्ति॥

अथ खलु भगवानायुष्मन्तमानन्दमेतदवोचत्-एवमेतदानन्द यथायं शारद्वतीपुत्रो निर्दिशति। अभूमिरानन्द अस्यां धर्मदेशनायामधिमानिकानाम्, अविषयो हि अवतर्तुमस्यां बुद्धबोधौ। अनुलोमेयमानन्द बुद्धबोधिः। न हि आनन्द हीनाधिमुक्तिकानां सत्त्वानामुदारेषु धर्मेषु बुद्धधर्मेषु चित्तं क्रामति। हीनाधिमुक्तिका हि आनन्द आभि(धि ?)मानिकाः प्रतिलोममवस्थिता बुद्धबोधेः। तेऽधिमानस्य वशेन गच्छन्ति। शुद्धेयमानन्द पर्षत् पूर्वजिनकृताधिकारा अवरोपितकुशलमूला बहुबुद्धपर्युपासिता गम्भीरधर्माधिमुक्तिका गम्भीरधर्मचरिता। विश्वस्तो हि आनन्द तथागतोऽस्यां पर्षदि प्रसह्य धर्मं देशयति, न च कंचिदनुरक्ष्यं धर्मं देशयति। सारेयमानन्द पर्षदपगतपर्पटशर्कतकठल्या बहुबुद्धशतसहस्रपर्युपासिता सारे प्रतिष्ठिता। शर्करकठल्यमित्यानन्द बालपृथग्जनानामेतदधिवचनम्, येषामेषु धर्मेषु नास्त्यवकाशः। पर्पटमित्यानन्द आधिमानिकानां पुद्गलानामेतदधिवचनम्। निरभिमानेयमानन्द पर्षद् महद्भिः कुशलमूलैरभ्युद्गता॥

तद्यथापि नाम आनन्द यदा अनवतप्तो नागराजः प्रमुदितो भवति प्रीतिसौमनस्यजातः, तदा स्वभवने पञ्चभिः कामगुणैः परिचारयति, स्वभवनेऽभिप्रमुदितो महावृष्टिमुत्सृजति अष्टाङ्गोपेतस्य पानीयस्य। तदा येऽपि तस्य पुत्रा भवन्ति, तेऽपि प्रमुदिताः स्वेषु स्वेषु भवनेषु पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्तो महावृष्टिमुत्सृजन्ति, एवमेव आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य महाधर्मवृष्टिमुत्सृजतो य इमे ज्येष्ठपुत्रा बोधिसत्त्वा महासत्त्वाः, तेऽपि इह लोकधातौ स्वकस्वकानि च बुद्धक्षेत्राणि गत्वा इमं धर्मसमुदयमारभ्य तेषां तथागतानां पुरस्तान्महाधर्मवृष्टिमुत्सृजन्ति, महाधर्मवर्षं चाभिवर्षन्ति। तद्यथापि नाम आनन्द सागरो नागराजो यदा प्रमुदितो भवति, तदा स्वभवने महावर्षधाराः प्रमुञ्चति। ये च तत्र भवने नैवासिका नागा भवन्ति, ते ता वर्षधाराः संप्रतीच्छन्ति, तुष्टाश्च भवन्ति, ताभिश्च ते वर्षधाराभिः सुखं च संजानन्ते। येऽपि तस्य पुत्रा भवन्ति, तेऽपि ता वर्षधाराः सहन्ते, ताभिश्च वर्षधाराभिः प्रामोद्यं प्रतिलभन्ते। तत्कस्माद्धेतोः ? असह्या हि आनन्द ता वर्षधारा अन्यैर्नागैः। नाप्यन्ये नागाः सुखं संजानीरंस्ताभिर्वर्षधाराभिः, न च तुष्टा भवेयुः। एवमेवानन्द ये तथागतस्य धर्मरत्नमध्यावसन्ति, ये च तथागतस्य ज्येष्ठपुत्रा बोधिसत्त्वा महासत्त्वाः कृतकुशलमूला उदाराशया गम्भीरधर्मनयनिर्जाताः, ते इमां महाधर्मनयवृष्टिं तथागतस्य प्रसहन्ते, श्रुत्वा उदग्राः प्रीताः प्रहर्षिताः सुखं संजानन्ते। इदमानन्द तथागतोऽर्थवशं संप्रतीत्य शुद्धायां पर्षदि महासिंहनादं नदति, महाधर्मवृष्टिमुत्सृजति॥

तद्यथा आनन्द राजा चक्रवर्ती बहुरत्नकोशसंनिचयः। बहवश्चास्य पुत्रा भवेयुर्जातिमन्तो मातृशुद्धाः। तान् सर्वानानयित्वा रत्नगञ्जं समं संविभजेदनुप्रयच्छेत्, न च कंचित्पुत्रं वञ्चयेत्। ते खलु एवं संविभक्तास्तस्य राज्ञश्चक्रवर्तिनोऽन्तिके भूयस्या मात्रया अधिकं प्रेम च प्रसादं च संजनयेयुः, समानार्थतां च राज्ञश्चक्रवर्तिनः आत्मसु संजानीरन्। एवमेव आनन्द तथागतोऽपि धर्मराजा धर्मस्वामी स्वयंभूरिमान् पुत्रान् संनिपात्य इमं धर्मरत्नगञ्जं संविभजति एभ्यः पुत्रेभ्यः, न कंचिद्वञ्चयति, ते ममान्तिके भूयस्या मात्रया प्रेम च प्रसादं च गौरवं चोत्पादयन्ति, समानार्थतायां च बुद्धवंशस्यानुच्छेदाय तिष्ठन्ति॥

न शक्यमानन्द अन्यैः सत्त्वैरिदं धर्मरत्नं हीनाधिमुक्तिकैरधिमानिकैर्दृष्टिचरितैर्निमित्तचरितैरुपलम्भदृष्टिचरितैरस्मिमानहतै रागद्वेषमोहाभिभूतैरुत्पथप्रयातैः। न हि आनन्द हीनाधिमुक्तिकानां सत्त्वानां चक्रवर्तिधनं रोचते। ये एव आनन्द चक्रवर्तिपुत्रा भवन्ति, तेषामेव चक्रवर्तिधनं रोचते। किमानन्द दरिद्रसत्त्वानां चक्ररत्नेन वा हस्तिरत्नेन वा अश्वरत्नेन वा मणिरत्नेन वा स्त्रीरत्नेन वा गृहपतिरत्नेन वा परिणायकरत्नेन वा उदारैर्वा वस्त्रैः, उदारैर्वा सुवर्णमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतैस्तैः प्रयोजनम्, यानि लब्ध्वापि प्रीता न शक्नुवन्ति परिभोक्तुम्। समर्घं वा विक्रीणन्ति, अकौशल्याच्च उज्झन्ति। तत्कस्मात् ? न हि ते रत्नकोविदाः। नाप्यानन्द दरिद्रसत्त्वा रत्नान्यपि प्रजानन्ति - अस्य रत्नस्येदं नामेति। एवमेव आनन्द ये तथागतस्य पुत्रा दृष्टसत्या बोधिसत्त्वाश्च महासत्त्वाः, ते खल्वस्य धर्मरत्नकोशस्य प्रत्येषकाः। तेभ्यश्चेदं धर्मरत्नमनुपलम्भशून्यताप्रतिसंयुक्तं बुद्धधर्मप्रतिसंयुक्तंरोचते क्षमते च। ते एव अनेन कार्यं कुर्वन्ति। किमानन्द दरिद्रसत्त्वाः श्रुतविहीनाः श्रुतविप्रतिपन्ना बाला अचक्षुष्मन्तः अनेन धर्मरत्नकोशेन करिष्यन्ति ? लब्ध्वा चोज्झिष्यन्ति अन्येभ्योऽपि वा दातव्यं मंस्यन्ते। न हि आनन्द चण्डाला वा पुक्कसा वा वेणुकारा वा, ये वा केचिदन्ये दरिद्रजीविनः सत्त्वाः उदारं रत्नं लब्ध्वा स्वयं परिभुञ्जते। ते समर्धं वा विक्रीणन्ति उज्झन्ति वा। दरिद्रसत्त्वा इत्यानन्द सर्वतीर्थ्यकराणामेतदधिवचनम्, ये चान्यतीर्थिकाः श्रावकाः। दरिद्रसत्त्वा इत्यानन्द सर्वबालपृथग्जनानामेतदधिवचनं दृष्टिपङ्कनिमग्नानामौपलम्भिकानां बन्धाभिनिविष्टानां निमित्तचरितानामुत्पथप्रयातानाम्, ये खलु आनन्द इदं धर्मरत्नं लब्ध्वा न शक्नुवन्ति परिभोक्तुम्, उज्झन्ति वा, मुधा वा अन्येभ्यः प्रयच्छन्ति। ये पुनरानन्द धर्मरत्नं प्राप्नुवन्ति बुद्धपुत्रा बुद्धगोचरचारिणस्तथागतवंशानुच्छेदस्थिताः, ते खल्विमं (दं ?) धर्मरत्नं परिभुञ्जते। ते लब्ध्वा च न विप्रणाशयन्ति, रत्नसंज्ञिनश्चात्र भवन्ति। न हि आनन्द शृगालः सिंहनादं परिभुङ्क्ते। ये पुनरानन्द सिंहपोतका भवन्ति महासिंहेनोत्पादिताः, ते तं महासिंहनादं परिभुञ्जते। एवमेव आनन्द शृगालोपमाः सर्वबालपृथग्जना मिथ्यादृष्टयः। ते न समर्था तथागतमहासिंहनादं परिभोक्तुम्, महासिंहस्य सम्यक्संबुद्धस्य धर्मम्। ये पुनरानन्द सम्यक्संबुद्धस्य पोतकाः महाबुद्धसिंहेन स्वयं भुञ्जानेनोत्पादिताः, ते इमं सम्यक्संबुद्धमहासिंहनादं परिभुञ्जते, परिभोक्ष्यन्ते इति॥

अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत्परिशुद्धेयं तथागतस्य पर्षत् संनिपतिता। परमाश्चर्यं भगवन् परिशुद्धेयं तथागतस्य पर्षत्, स्वयंभूपर्षदनवमृद्यपर्षद् वज्रोपमपर्षद् अचलाकम्प्याक्षोभ्यपर्षदियं भगवन्। एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-गुणांस्त्वं शारद्वतीपुत्र पर्षदः परिकीर्तयसि। आह-न ह्यस्या भगवन् पर्षदो मया शक्या गुणाः परिकीर्तयितुम्। तत्कस्माद्धेतोः ? सुमेरुकल्पेयं भगवन् पर्षदनन्तगुणसमन्वागता। भगवानाह-एवमेव शारद्वतीपुत्र अनन्तगुणसमन्वागतेयं पर्षत्। न ह्यस्याः पर्षदो गुणानामन्तः शक्योऽधिगन्तुं सम्यक्संबुद्धैरपि, प्रागेव अन्यैः सत्वैः। नेयं शारद्वतीपुत्र पर्षत्तथागतेन संनिपतिता, नाप्यस्यां तथागतस्य किंचिदौत्सुक्यमासीद्वा। स्वेनैव कुशलमूलेन इयं मम नामधेयं श्रुत्वा पर्षत् संनिपतिता। नास्यां पर्षदि तथागतेन कश्चिद्व्यापारितो नाप्यधीष्टः। स्वेनैव कुशलमूलेनैते संचोदिताः यदस्यां पर्षद्यागताः। धर्मतैषा। अवश्यं हि एवंरूपायां धर्मदेशनायामेवंरूपाणां महासत्त्वानां संनिपातो भवति। येऽप्यन्ये शारद्वतीपुत्र बुद्धा भगवन्तः इमं सर्वसंशयोच्छेदनं बोधिसत्त्वपिटकं संप्रकाशयिष्यन्ति, तेषामप्येवंरूपः पर्षत्संनिपातो भविष्यति, एवंरूपमेव पर्षन्मण्डलमवश्यं भावनीयमस्यां धर्मदेशनायाम्। एषा धर्मतेति॥

आर्यप्रज्ञापारमितायामानन्दपरिवर्तो नाम द्वितीयः॥


३ तथतापरिवर्तस्तृतीयः।

अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-प्रज्ञापारमिता प्रज्ञापारमितेति सुविक्रान्तविक्रामिन् कतमा बोधिसत्त्वस्य प्रज्ञापारमिता ? या पारमिता सर्वधर्माणाम्, न सा शक्या निर्देष्टुम्। यथा पुनर्युष्माकमाजानना भविष्यति, तथा निर्देक्ष्यामि, यथा प्रज्ञापारमितायां व्यवहारपदान्यागमिष्यन्ति। न रूपं प्रज्ञापारमिता। पेयालम्। एवं न वेदना, न संज्ञा, न संस्काराः, न विज्ञानं प्रज्ञापारमिता। नाप्यन्यत्र रूपात्प्रज्ञापारमिता, यावत् नान्यत्र विज्ञानात्प्रज्ञापारमिता। तत्कस्माद्धेतोः ? यद्धि सुविक्रान्तविक्रामिन् रूपस्य पारम्, न तद्रूपम्। पेयालम्। एवं यद्वेदनायाः संज्ञायाः संस्काराणाम्, यद्विज्ञानस्य पारम्, न तद्विज्ञानम्। यथा व रूपस्य पारम्, तथा रूपम्। एवं यथा वेदनायाः संज्ञायाः संस्काराणाम्, यथा च विज्ञानस्य पारम्, तथा विज्ञानम्। यथा च विज्ञानस्य पारम्, तथा सर्वधर्माणां पारम्। यच्च सर्वधर्माणां पारम्, न ते सर्वधर्माः। यथा च सर्वधर्माणां पारम्, तथा सर्वधर्माः। तत्र सुविक्रान्तविक्रामिन् "यद्रूपस्य पारं न तद्रूपम्" इति रूपविसंयोगो ह्येष निर्दिष्टः। "यथा रूपस्य पारं तथा रूपम्" इति रूपस्वभावनिर्देशो ह्येष निर्दिष्टः। रूपयथावत्तैषा निर्दिष्टा, रूपप्रकृतिरेषा निर्दिष्टा, रूपानुपलब्धिरेषा निर्दिष्टा। एवं वेदना संज्ञा संस्काराः। "यद्विज्ञानस्य पारं न तद्विज्ञानम्" इति विज्ञानविसंयोगो ह्येष निर्दिष्टः।"यथा विज्ञानस्य पारं तथा विज्ञानम्" इति विज्ञानस्वभावनिर्देश एष निर्दिष्टः, विज्ञानयथावत्ता विज्ञानप्रकृतिर्विज्ञानानुपलब्धिरेषा निर्दिष्टा। "यच्च सर्वधर्माणां पारं न ते सर्वधर्माः" इति सर्वधर्माणामेष विसंयोगो निर्दिष्टः। "यथा च सर्वधर्माणां पारं तथा सर्वधर्माः" इति सर्वधर्मस्वभावनिर्देश एष निर्दिष्टः, सर्वधर्मयथावत्ता सर्वधर्मप्रकृतिः सर्वधर्मानुपलब्धिरेषा निर्दिष्टा। यथा च सर्वधर्मयथावत्ता सर्वधर्मप्रकृतिः सर्वधर्मानुपलब्धिः, तथा प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता रूपनिश्रिता, न वेदनानिश्रिता, न संज्ञानिश्रिता, न संस्कारनिश्रिता, न विज्ञाननिश्रिता। नापि प्रज्ञापारमिता रूपस्याध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विप्रकृष्टा स्थिता। न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्याध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विप्रकृष्टा स्थिता॥

न हि सुविक्रान्तविक्रामिन् रूपसंयुक्ता प्रज्ञापारमिता, नापि रूपविसंयुक्ता। न वेदनासंयुक्ता न संस्कारसंयुक्ता, न विज्ञानसंयुक्ता प्रज्ञापारमिता। नापि विज्ञानविसंयुक्ता प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता केनचिद्धर्मेण संयुक्ता वा विसंयुक्ता वा॥

या पुना रूपस्य तथता अवितथता अनन्यतथता यथावत्तथता, इयं प्रज्ञापारमिता। एवं या वेदनासंज्ञासंस्कारविज्ञानतथता अवितथथा अनन्यतथता यथावत्तथाता, सा प्रज्ञापारमिता॥

रूपमिति सुविक्रान्तविक्रामिन् रूपापगतमेतत्। तत्कस्माद्धेतोः ? न हि रूपे रूपं संविद्यते। या च असंविद्यमानता, सेयं प्रज्ञापारमिता। एवं वेदना संज्ञा संस्काराः। विज्ञानमिति सुविक्रान्तविक्रामिन् विज्ञानापगतमेतत्। तत्कस्माद्धेतोः ? न हि विज्ञाने विज्ञानं संविद्यते। या च असंविद्यमानता, सेयं प्रज्ञापारमिता॥

रूपस्वभावापगतं हि सुविक्रान्तविक्रामिन् रूपम्। एवं वेदना संज्ञा संस्काराः। विज्ञानस्वभावापगतं हि विज्ञानम्। या च अपगतस्वभावता, इयं प्रज्ञापारमिता। रूपास्वभावं हि रूपम्। एवं वेदना संज्ञा संस्काराः। विज्ञानास्वभावं हि विज्ञानम्। या च अस्वभावता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य रूपं गोचरः। न वेदना न संज्ञा न संस्काराः। न विज्ञानस्य विज्ञानं गोचरः। अगोचर इति सुविक्रान्तविक्रामिन् न रूपं रूपं संजानीते वा पश्यति वा। या च रूपस्य अजानना अपश्यना, इयं प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् वेदना संज्ञा संस्काराः न विज्ञानं (विज्ञानं) संजानीते वा पश्यति वा। या च विज्ञानस्य अजानना अपश्यना, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं रूपस्वभावं जहाति। न वेदना, न संज्ञा, न संस्काराः। न विज्ञानं विज्ञानस्वभावं जहाति। या च अस्वभावपरिज्ञा, इयमुच्यते प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् रूपं रूपं संयोजयति न विसंयोजयति। या च रूपवेदनासंज्ञासंस्कारविज्ञाना(ना)मसंयोजना, अविसंयोजना, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं हीयते वा वर्धते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं हीयते वा वर्धते वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामहानिरवृद्धिः, इयं सा प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं संक्लिश्यते वा व्यवदायते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं संक्लिश्यते वा व्यवदायते वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामसंक्लेशता अव्यवदानता, इयमुच्यते प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं विशुद्धधर्मि नाविशुद्धधर्मि। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं विशुद्धधर्मि नाविशुद्धधर्मि। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न विशुद्धधर्मता नाविशुद्धधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं संक्रामति वा अवक्रामति वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं संक्रामति वा अवक्रामति वा। या च रूपवेदनासंस्कारविज्ञानानामसंक्रान्तिरनवक्रान्तिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं संयुज्यते वा विसंयुज्यते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं संयुज्यते वा विसंयुज्यते वा। यश्च रूपवेदनासंज्ञासंस्कारविज्ञानानामसंयोगोऽविसंयोगः, इयं सा प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं च्यवते वा उपपद्यते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं च्यवते वा उपपद्यते वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामच्युतिरनुपपत्तिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं जायते वा म्रियते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञान जायते वा म्रियते वा। या च रूपवेदनासंज्ञासंस्कारवेदनाविज्ञानानामजातिरमरणम्, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं संसरति वा संसरणधर्मि वा। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं संसरति वा संसरणधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामसंसरणता असंसरणधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं क्षीयते वा क्षयधर्मि वा। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं क्षीयते वा क्षयधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामक्षयता अक्षयधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं समुदयधर्मि न निरोधधर्मि। एवं वेदना संज्ञा संस्काराः। न विज्ञानं समुदयधर्मि न निरोधधर्मि। या च रूपवेदनासंस्कारविज्ञानानामसमुदयधर्मता अनिरोधधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपमुत्पादधर्मि वा व्ययधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानमुत्पादधर्मि वा व्ययधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामनुत्पादधर्मता अव्ययधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं विपरिणामधर्मि न अविपरिणामधर्मि। एवं वेदना संज्ञा संस्काराः। न विज्ञानं विपरिणामधर्मि न अविपरिणामधर्मि। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न विपरिणामधर्मता न अविपरिणामधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं नित्यं वा अनित्यं वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं नित्यं वा अनित्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न नित्यता नाप्यनित्यता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं सुखं वा दुःखं वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं सुखं वा दुःखं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि सुखता नाप्यसुखता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपमात्मा वा अनात्मा वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानमात्मा वा अनात्मा वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नाप्यात्मता नाप्यनात्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं रागधर्मि वा विरागधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं रागधर्मि वा विरागधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न रागधर्मता नापि विरागधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं द्वेषधर्मि वा अद्वेषधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं द्वेषधर्मि वा अद्वेषधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न द्वेषधर्मता नापि विगतद्वेषधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं मोहधर्मि वा विगतमोहधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं मोहधर्मि वा विगतमोहधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न मोहधर्मता नापि विगतमोहधर्मता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चित्कर्ता वा कारयिता वा। एवं वेदनासंज्ञासंस्काराणाम्। न विज्ञानस्य कश्चित्कर्ता वा कारयिता वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामकर्तृता अकारयितृता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिदुत्थापको वा समुत्थापको वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य कश्चिदुत्थापको वा समुत्थापको वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नोत्थापना व समुत्थापना, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिज्ज्ञाता वा ज्ञापको वा। एवं न वेदनासंज्ञासंस्काराणाम्। न विज्ञानस्य कश्चिज्ज्ञाता वा ज्ञापको वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामज्ञातृता अज्ञापकता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिद्वेदको वा वेदयिता वा। एवं न वेदनासंज्ञासंस्काराणाम्। न विज्ञानस्य कश्चिद्वेदको वा वेदयिता वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामवेत्तृता अवेदनता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिज्जानको वा पश्यको वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य कश्चिज्जानको वा पश्यको वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामजाननां अपश्यना, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्योच्छेदता वा शाश्वतता वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्योच्छेदता वा शाश्वतता वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामनुच्छेदता अशाश्वतता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य अन्तो वा अनन्तो वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य अन्तो (वा) अनन्तो वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामन्तता नाप्यनन्तता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं दृष्टिगतं न दृष्टिगतप्रहाणम्। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानं दृष्टिगतं न दृष्टिगतप्रहाणम्। यच्च रूपवेदनासंज्ञासंस्कारविज्ञानानां न दृष्टिगतं न दृष्टिगतप्रहाणम्, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं तृष्णा न तृष्णाप्रहाणम्। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं तृष्णा न तृष्णाप्रहाणम्। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न तृष्णा न तृष्णाप्रहाणता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपं कुशलं वा अकुशलं वा। एवं न वेदना संज्ञा संस्काराः। न विज्ञानं कुशलं वा अकुशलं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न कुशलता नाकुशलता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपस्य गमनं वा आगमनं वा प्रज्ञायते। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य गमनं वा आगमनं वा प्रज्ञायते। यत्र च रूपवेदनासंज्ञासंस्कारविज्ञानानां न गतिर्नागतिः प्रज्ञायते, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानां स्थितिर्वा अस्थितिर्वा। या च रूपवेदनासंज्ञासंस्कारवेदनानां न स्थितिर्नाप्यस्थितिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानामारं वा पारं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नाप्यारता न पारता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि शीलं वा दौःशील्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामशीलता अदौःशील्यता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि अनुनयो वा प्रतिघो वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामननुनयता अप्रतिघता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ददति वा प्रतिगृह्णाति वा। या च रूपवेदनासंस्कारविज्ञानानामदानता अप्रतिग्रहता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि क्षान्तिर्वा अक्षान्तिर्वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि क्षान्तिर्नाप्यक्षान्तिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि वीर्यं वा कौसीद्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामवीर्यता अकौसीद्यता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानां समाधिर्न विक्षिप्तचित्तता। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न समाधिर्न विक्षिप्तचित्तता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि प्रज्ञा वा दौष्प्रज्ञ्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि प्रज्ञता नापि दौष्प्रज्ञता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानानि विपर्यासा वा अविपर्यासा वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि विपर्यासता नाप्यविपर्यासता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि स्मृत्युपस्थानानि वा अस्मृत्युपस्थानानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि स्मृतिर्नाप्यस्मृतिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि सम्यक्प्रहाणानि वा असम्यक्प्रहाणानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि सम्यक्प्रहाणता नाप्यसम्यक्प्रहाणता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ऋद्धिपादा वा अप्रमाणानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि ऋद्धिपादता नाप्यप्रमाणता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि इन्द्रियाणि वा बलबोध्यङ्गमार्गं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नेन्द्रियता न बलबोध्यङ्गमार्गता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि विद्या वा विमुक्तिर्वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न विद्यता न विमुक्तिता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ध्यानविमोक्षसमाधिसमापत्त्यभिज्ञा वा नाप्यनभिज्ञा वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न ध्यानविमोक्षसमाधिसमापत्तिता नाप्यभिज्ञता नाप्यनभिज्ञता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि शून्यता वा अनिमित्तं वा अप्रणिहितं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न शून्यता नानिमित्तता नाप्रणिहितता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि संस्कृतानि वा असंस्कृतानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि संस्कृतता नाप्यसंस्कृतता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि सङ्गो वा असङ्गो वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि सङ्गता नाप्यसङ्गता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ज्ञानं वा अज्ञानं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि ज्ञानता नाप्यज्ञानता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि मन्यना वा स्पन्दना वा प्रपञ्चना वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामन्यनता अस्पन्दनता अप्रपञ्चता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि संज्ञा नासंज्ञा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि संज्ञता नाप्यसंज्ञता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि उपशान्तानि वा अनुपशान्तानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नाप्युपशान्तिर्नाप्यनुपशान्तिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानां निर्वृत्तिर्न अनिर्वृत्तिः। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि निर्वृत्तिर्नाप्यनिर्वृत्तिः, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः पञ्चानां स्कन्धानामभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनः पञ्चस्कन्धानामभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यो धात्वायतनप्रतीत्यसमुत्पादाभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनर्धात्वायतनप्रतीत्यसमुत्पादाभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यो विपर्यासनीवरणाभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनर्विपर्यासनीवरणाभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः षट्त्रिंशत्तृष्णाचरिताभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनः षट्त्रिंशत्तृष्णाचरिताभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यो ध्यानविमोक्षसमाधिसमापत्तिनिर्देशः, सा प्रज्ञापारमिता। या पुनर्ध्यानविमोक्षसमाधिसमापत्तिनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः पञ्चानामभिज्ञानां निर्देशः, सा प्रज्ञापारमिता। या पुनः पञ्चानामभिज्ञानां निर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः संस्कृतपर्यापन्नानां लौकिकानां सर्वेषां कुशलाकुशलानां धर्माणामभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनस्तेषां निर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यश्चतुरार्यसत्यनिर्देशः, सा प्रज्ञापारमिता। या पुनश्चतुरार्यसत्यनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनविशुद्धिनिर्देशः, सा प्रज्ञापारमिता। या पुनः शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनविशुद्धिनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् योऽसंस्कृतपर्यापन्नानां लोकोत्तराणामनिश्रितानामनास्रवानां धर्माणां निर्देशः, सा प्रज्ञापारमिता। या पुनरसंस्कृतपर्यापन्नानां लोकोत्तराणामनिश्रितानामनास्रवाणां धर्माणां निर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यः शून्यतानिमित्ताप्रणिहितानुत्पादानभिसंस्कृतधर्मस्य निर्देशः, सा प्रज्ञापारमिता। या पुनः शून्यतानिमित्ताप्रणिहितानुत्पादानभिसंस्कृतधर्मनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् यो विद्याविमुक्तिविरागनिरोधनिर्वाणनिर्देशः, सा प्रज्ञापारमिता। या पुनर्विद्याविमुक्तिविरागनिरोधनिर्वाणनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् रूपपर्यापन्ना प्रज्ञापारमिता। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानपर्यापन्ना प्रज्ञापारमिता। न पृथिव्यप्तेजोवाय्वाकाशपर्यापन्ना प्रज्ञापारमिता। न कामधातु-न रूपधातु-नारूपधातुपर्यापन्ना प्रज्ञापारमिता। न संस्कृतासंस्कृतधर्मपर्यापन्ना प्रज्ञापारमिता। न लौकिकलोकोत्तरसास्रवानास्रवधर्मपर्यापन्ना प्रज्ञापारमिता। न कुशलाकुशलधर्मपर्यापन्ना प्रज्ञापारमिता। न सत्त्वधातुपर्यापन्नानासत्त्वधातुपर्यापन्ना प्रज्ञापारमिता। नाप्येभिर्धर्मैर्विनिर्मुक्ता प्रज्ञापारमिता॥

न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता कस्मिंश्चिद्धर्मे पर्यापन्ना नाप्यपर्यापन्ना। या च पर्यापन्नापर्यापन्नानां धर्माणां तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥

तथतेति सुविक्रान्तविक्रामिन् कस्यैतदधिवचनम् ? न ह्येते सुविक्रान्तविक्रामिन् तथा धर्मा यथा बालपृथग्जनैरुपलब्धाः, न चान्यथा। यथा धर्मास्तथागतैस्तथागतश्रावकैर्बोधिसत्त्वैश्च दृष्टाः, तथैव ते सर्वधर्माः, तथता अवितथता अनन्यतथता यावत्तथता, तेनोच्यते तथतेति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितानिर्देशः॥

न खलु पुनरियं सुविक्रान्तविक्रामिन् प्रज्ञापारमिता कस्यचिद्धर्मस्य हानाय वा विवृद्धये वा प्रत्युपस्थिता, नापि कस्यचिद्धर्मस्य संयोगाय वा विसंयोगाय वा, ऊनत्वाय वा पूर्णत्वाय वा, अपचयाय वा उपचयाय वा, संक्रान्तये वा अवक्रान्तये वा, उत्पादाय वा निरोधाय वा, संक्लेशाय वा व्यवदानाय वा, प्रवृत्तये वा निवृत्तये वा, समुदयाय वा अस्तंगमाय वा, सलक्षणाय वा अलक्षणाय वा, समतायै वा विसमतायै वा, संवृत्यै वा परमार्थाय वा, सुखाय वा दुःखाय वा, नित्यतायै वा अनित्यतायै वा, शुभतायै वा अशुभतायै वा, आत्मतायै वा अनात्मतायै वा, सत्यतायै वा मृषतायै वा, कर्तृत्वेन वा अकर्तृत्वेन वा, कारणत्वेन वा अकारणत्वेन वा, संभवाय वा असंभवाय वा, स्वभावतायै वा अस्वभावतायै वा, च्युतये वा उपपत्तये वा, जायते वा अजायते वा, अभिनिर्वृत्तये वा अनभिनिर्वृतये वा, उपपत्तये वा उपपत्तिसमुच्छेदाय वा, सामग्र्यै वा विसामग्र्यै वा, सरागाय वा विरागाय वा, सदोषाय वा विगतदोषाय वा, समोहाय वा विगतमोहाय वा, विपर्यासाय वा अविपर्यासाय वा, आरम्बणाय वा अनारम्बणाय वा, क्षयाय वा अक्षयाय वा, ज्ञानाय वा अज्ञानाय वा, नीचत्वाय वा उच्चत्वाय वा, उपकाराय वा निरूपकाराय वा, गमनाय वा आगमनाय वा, अस्तित्वाय वा नास्तित्वाय वा, अनुनयाय वा प्रतिघाय वा, आलोकाय वा अन्धकाराय वा, कौसीद्याय वा वीर्यारम्भाय वा, शून्यतायै वा अशून्यतायै वा, निमित्ततायै वा अनिमित्ततायै वा, प्रणिधानाय वा अप्रणिधानाय वा, अभिसंस्काराय वा अनभिसंस्काराय वा, अन्तर्धानाय वा अनन्तर्धानाय वा, विद्यायै वा विमुक्तये वा, शान्ततायै वा अनुपशान्ततायै वा, निर्वृत्तये वा अनभिनिर्वृत्तये वा, योनिशाय वा अयोनिशाय वा, परिज्ञायै वा अपरिज्ञायै वा, निर्याणाय वा अनिर्याणाय वा, विनयाय वा अविनयाय वा, शीलाय वा दौःशील्याय वा, विक्षिप्ततायै वा अविक्षिप्ततायै वा, प्रज्ञतायै वा दुष्प्रज्ञतायै वा, विज्ञानाय वा अविज्ञानाय वा, स्थितये वा अस्थितये वा, सभागतायै वा विसभागतायै वा, भवाय वा विभवाय वा, प्राप्तये वा अप्राप्तये वा, अभिसमयाय वा अनभिसमयाय वा, साक्षात्क्रियायै वा असाक्षात्क्रियायै वा, प्रतिवेधाय वा अप्रतिवेधाय वा प्रत्युपस्थिता इति॥

(प्रज्ञापारमितायां) तथतापरिवर्तो नाम तृतीयः॥


४ औपम्यपरिवर्तश्चतुर्थः।

अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-तद्यथापि नाम सुविक्रान्तविक्रामिन् स्वप्नदर्शी पुरुषः स्वप्नस्वभावनिर्देशं च निर्दिशति, न च स्वप्नस्वभावनिर्देशः कश्चित्संविद्यते। तत्कस्माद्धेतोः ? स्वप्न एव न संविद्यते, कुतः पुनः स्वप्नस्वभावनिर्देशो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमितायाः स्वभावश्च निर्दिश्यते, न च प्रज्ञापारमितायाः स्वभावः कश्चित्संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् स्वप्नो न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थितः। एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् मायादर्शी पुरुषो मायास्वभावनिर्देशं च निर्दिशति, न च मायायाः स्वभावनिर्देशः कश्चित्संविद्यते, कुतः पुनर्मायास्वभावनिर्देशस्य स्वभावो भविष्यति ? एवमेव प्रज्ञापारमिता च निर्दिश्यते, न च प्रज्ञापारमितायाः स्वभावनिर्देशः कश्चित्संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् माया न कस्यचिद्धर्मस्य अभिनिर्वृत्तये प्रत्युपस्थिता, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य अभिनिर्वृत्तये प्रत्युपस्थिता॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् प्रतिभासदर्शी पुरुषः प्रतिभासस्वभावनिर्देशं च निर्दिशति, न च कश्चित्प्रतिभासस्वभावः संविद्यते, कुतः पुनः प्रतिभासस्वभावनिर्देशो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च निर्दिश्यते, न च कश्चित्प्रज्ञापारमितास्वभावः संविद्यते, कुतः पुनः प्रज्ञापारमितास्वभावनिर्देशो भविष्यति ? तद्यथापि नाम सुविक्रान्तविक्रामिन् प्रतिभासो न कस्यचिद्धर्मस्य निर्दशनेन प्रत्युपस्थितः, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् मरीचिदर्शी पुरुषो मरीचिदर्शनं च निर्दिशति, न च मरीचिदर्शन (स्वभावः कश्चित्) संविद्यते, कुतः पुनर्मरीचिदर्शनस्वभावो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता न निर्दिश्यते, न च पुनः प्रज्ञापारमितायाः स्वभावनिर्देशः कश्चित्संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् मरीचिर्न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् प्रतिश्रुत्कागोचरस्थः पुरुषः प्रतिश्रुत्कायाश्च शब्दं शृणोति, न च तं समनुपश्यति। यदा पुनः स्वयमेवानुभाषते, तदा तं शब्दं शृणोति। एवमेव प्रज्ञापारमितानिर्देशपदं चाधिगच्छति श्रवणाय, न च कस्यचिद्धर्मस्य निर्देशश्रवणाय गच्छति अन्यत्र यदाभिभाष्यते तदा आज्ञायते, श्रवणपथं चाधिगच्छति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् फेनपिण्डदर्शी पुरुषः फेनपिण्डस्वभावं च निर्दिशति, न च फेनपिण्डस्वभाव उपलभ्यते अध्यात्मं वा बहिर्धा वा, कुतः पुनस्तन्निर्देशस्वभावोपलब्धिर्भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च निर्दिश्यते, न च प्रज्ञापारमितास्वभाव उपलभ्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् फेनपिण्डो न कस्यचिद्धर्मस्य अभिनिर्वृत्तिस्वभावमुपैति, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य अभिनिर्वृत्तस्वभावमुपैति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् बुद्बुददर्शी पुरुषो बुद्बुदस्वभावं च निर्दिशति, न च बुद्बुदस्वभावः संविद्यते, कुतः पुनर्बुद्बुदस्वभावनिर्देशो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च निर्दिश्यते, न च प्रज्ञापारमितायाः स्वभावः संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् बुद्बुदो न कस्यचिद्धर्मस्य अभिनिर्वृत्तिस्वभावेन प्रत्युपस्थितः, एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता न कस्यचिद्धर्मस्य अभिनिर्व्ऱ्इत्तिस्वभावेन प्रत्युपस्थिता॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुषः कदल्याः सारं पर्येषमाणो नोपलभते, अथ च तस्याः पत्रैः कार्यं करोति, एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमितायाः सारं न संविद्यते, प्रज्ञापारमिताया निर्देशः कार्यं च करोति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुष आकाशनिदर्शनेन व्यवहारति, न चाकाशस्य किंचिन्निदर्शनम् संविद्यते। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमितेति व्यवहारः क्रियते, न च कस्यचिन्निदर्शनेन व्यवह्रियते। तद्यथापि नाम सुविक्रान्तविक्रामिन् नाकाशं न व्यवह्रियते, न च कस्यचिद्धर्मस्य निदर्शनेन वा परिनिष्पत्त्या वा व्यवह्रियते। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च व्यवह्रियते, न च कस्यचिद्धर्मस्य निदर्शनेन वा परिनिष्पत्त्या वा व्यवह्रियते॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् छायेति चातपश्चेति व्यवह्रियते, न च तौ कस्यचिद्धर्मस्य परिनिष्पत्तये प्रत्युपस्थितौ, अवभासश्च विज्ञायते। एतमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता व्यवहारपदं गच्छति, न च कस्यचिद्धर्मस्य निदर्शनेन व्यवहारपदमागच्छति, अवभासं च करोति सर्वधर्माणाम्॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् मणिरत्नमुत्तप्तं महतावभासेन प्रत्युपस्थितं भवति, न च सोऽवभासोऽध्यात्मं वा बहिर्धा वा दर्शनमुपैति। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता अवभासकृत्येन प्रत्युपस्थिता, न च सोऽवभासोऽध्यात्मं वा बहिर्धा वा दर्शनमुपैति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् तैलप्रद्योतस्य ध्मायतो नास्यार्चिषो मुहूर्तमपि संतिष्ठन्ते, अवभासं च कुर्वन्ति, तेनावभासेन रूपाणि दर्शनमागच्छन्ति। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता न कस्मिंश्चिद्धर्मेऽवतिष्ठते, धर्माणां चावभासं करोति, तेन चावभासेन सर्वधर्मा यथाभूतदर्शनमागच्छन्त्यार्याणाम्॥

अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् प्रज्ञापारमिता च निर्दिष्टा, प्रज्ञापारमितायाश्च अपरिनिष्पत्तिर्निर्दिष्टा। एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-एवमेतच्छारद्वतीपुत्र, एवमेतत्। अपरिनिष्पन्ना प्रज्ञापारमिता रूपापरिनिष्पत्तितः। वेदनासंज्ञासंस्कारविज्ञानापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। अविद्यापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। एवं संस्कारापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। विज्ञानापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। नामरूपापरिनिष्पत्तितः, षडायतनापरिनिष्पत्तितः, स्पर्शापरिनिष्पत्तितः, वेदनापरिनिष्पत्तितः, तृष्णापरिनिष्पत्तितः, उपादानापरिनिष्पत्तितः, भवापरिनिष्पत्तितः, जात्यपरिनिष्पत्तितः, जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। धात्वायतनानित्यदुःखानात्मशान्तविपर्याशनीवरणदृष्टिविचरिताचयोपचयापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। सुखदुःखादुःखासुखापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। उदयव्ययस्थित्यन्यथात्वापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। समुदयास्तंगतात्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयितृज्ञातृज्ञापकानिष्पत्तितोऽपरिनिष्पना प्रज्ञापारमिता। सत्यमृषासंस्कृतासंस्कृतगमनागमनसनिदर्शनानिदर्शनाध्यात्मबहिर्धापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। पृथिव्यप्तेजोवायुकामरूपारूप्याकाशविज्ञानधर्मधात्वपरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। कर्मविपाकहेतुप्रत्ययोच्छेदशाश्वतातीतानागतप्रत्युत्पन्नपूर्वान्तापरान्तमध्यान्तशीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यान-विक्षेपप्रज्ञादौष्प्रज्ञ्यचित्तमनोविज्ञानानन्तरायच्युत्युपपत्तिसंक्लेशव्यवदानस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्या-प्रमाणध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाशून्यतानिमित्ताप्रणिहितकुशलाकुशलसास्रवानास्रवलौकिकलोकोत्तरसावद्यानवद्यसंस्कृतासंस्कृत-व्याकृताव्याकृतकृष्णशुक्लाकृष्णशुक्लपर्यापन्नापर्यापन्नहीनप्रणीतमध्यरागद्वेषमोहदृष्टश्रुतमतविज्ञातमन्यनास्थितवितर्कविचारारम्बण-

मायेर्ष्यामात्सर्यसंयोगद्वयलक्षणानुत्पादानभिसंस्कारशमथविदर्शनाविद्याविमुक्तिक्षयविरागनिरोधसर्वोपधिप्रतिनिसर्गसंवृतिपरमार्थ-

श्रावकभूमिप्रत्येकबुद्धभूमिसर्वज्ञानाज्ञानासङ्गज्ञानस्वयंभूज्ञानासमसमज्ञानबोधिसत्त्वप्रणिधानश्रावकप्रत्येकबुद्धसंपदप्रमाणपर्यापन्ना-

समसमसर्वज्ञज्ञानसर्वधर्मयथावदनिदर्शनसर्वधर्मज्ञानदर्शनापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापामिता। सत्त्वपरिपाकापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। लक्षणसंपद्बुद्धक्षेत्रपरिशुद्धिबुद्धबलवैशारद्याष्टादशावेणिकबुद्धधर्मापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। निर्वाणापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता, यावत् सर्वधर्मकुशलाकुशलापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। सर्वमेतद्विस्तरेण कर्तव्यम्॥

तद्यथापि नाम शारद्वतीपुत्र आकाशमरूप्यनिदर्शनमभावोऽपरिनिष्पन्नम्, एवमेव प्रज्ञापारमिता अरूपिण्यनिर्दर्शना अभावोऽपरिनिष्पन्ना। तद्यथापि नाम शारद्वतीपुत्र इन्द्रायुधं नानारङ्गविचित्रं च संदृश्यते, न चास्य काचिद्रङ्गनिष्पत्तिः संविद्यते नोपलभ्यते, एवमेव प्रज्ञापारमिता नानानिदर्शनैश्च प्रत्युपस्थिता, न चास्या निदर्शनस्वभाव उपलभ्यते। तद्यथापि नाम शारद्वतीपुत्र आकाशे न जातु केनचित्पञ्चाङ्गुलिपरिनिष्पत्तिर्दृष्टपूर्वा, शारद्वतीपुत्र न जातु केनचित्प्रज्ञापारमितापरिनिष्पत्तिस्वभावो दृष्टपूर्वः॥

एवमुक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-दुर्दृशेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र न कस्यचिद्दर्शनमुपैति। आह-दुरनुबोधा भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र नास्यां कश्चिदुपलभ्यते योऽभिसंबुद्धः। आह-अनिदर्शनेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता। आह-अस्वभावेयं भगवन् प्रज्ञापारमिता। आह-रूपवेदनासंज्ञासंस्कारविज्ञानास्वभावत्वात् शारद्वतीपुत्र अस्वभावेयं प्रज्ञापारमिता। धात्वायतनप्रतीत्यसमुत्पादास्वभावतोऽस्वभावा प्रज्ञापारमिता। विपर्यासनीवरणदृष्टिगततृष्णाविचरितास्वभावतोऽस्वभावा प्रज्ञापारमिता।

आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयित्रस्वभावतोऽस्वभावा प्रज्ञापारमिता। पृथिव्यप्तेजोवाय्वाकाशविज्ञानधर्मधात्वस्वभावतोऽस्वभावा प्रज्ञापारमिता। कामरूपारूप्यधात्वस्वभावतोऽस्वभावा प्रज्ञापारमिता। शीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यास्वभावतोऽस्वभावा प्रज्ञापारमिता। बोधिपक्षधर्मास्वभावतोऽस्वभावा प्रज्ञापारमिता। आर्यसत्यशमथविदर्शनाभिज्ञाध्यानविमोक्षसमाधिसमापत्त्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। विद्याविमुक्त्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। क्षयविरागनिरोधास्वभावतोऽस्वभावा प्रज्ञापारमिता। अनुत्पादज्ञाननिरोधज्ञानास्वभावतोऽस्वभावा प्रज्ञापारमिता। निर्वाणास्वभावतोऽस्वभावा प्रज्ञापारमिता। श्रावकभूमिप्रत्येकबुद्धभूमिबुद्धभूम्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। परमार्थज्ञानदर्शनसंवृत्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। असङ्गज्ञानसर्वज्ञज्ञानास्वभावतोऽस्वभावा प्रज्ञापारमिता॥

एवमुक्ते आयुष्मान् शारद्वतीपुत्र भगवन्तमेतदवोचत्-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य परिनिष्पत्तये प्रत्युपस्थिता न निरोधाय। आह- तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य उत्पादाय वा परिनिष्पत्तये वा निरोधाय वा आत्मतायै वा अनात्मतायै वा प्रत्युपस्थिता। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य आरम्बणयोगेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र निरारम्बणाः सर्वधर्माः। तथा हि त एव धर्मा न संविद्यन्ते, यत्रारम्बणं भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य हानये वा वृद्धये वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति, यो धर्मो हीयते वा वर्धते वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य समतिक्रमाय प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यं समतिक्रामेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य अपचयाय वा उपचयाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य अपचयो वा उपचयो वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संयोगाय वा विसंयोगाय वा प्रत्युपस्थिता। आह- तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यं धर्मं संयोजयेद्वा विसंयोजयेद्वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य नये वा विनये वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मो नेतव्यो वा विनेतव्यो वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य उपकाराय वा अपकाराय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य उपकारं वा अपकारं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संभवाय वा असंभवाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संभवेद्वा न संभवेद्वा। आह - नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संप्रयोगाय वा विप्रयोगाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संप्रयुज्यते वा विप्रयुज्यते वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संवासाय वा असंवासाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संवसेद्वा न संवसेद्वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य प्रवृत्तये वा अप्रवृतये वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य प्रवृत्तिर्वा अप्रवृत्तिर्वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य क्रियया वा करणेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य क्रिया वा करणं वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य समतया वा विषमतया वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः समो वा विषमो वा स्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संग्रहाय वा असंग्रहाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संग्रहीतव्यो वा उत्स्रष्टव्यो वा स्यात्। आह-नेयं भगवन् प्रज्ञापारमिता केनचित्कार्येण प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः कार्यकरः स्यात्॥

आह-गम्भीरेयं भगवन् प्रज्ञापारमिता। आह-रूपगम्भीरतया शारद्वतीपुत्र गम्भीरा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्कारविज्ञानगम्भीरतया शारद्वतीपुत्र गम्भीरा प्रज्ञापारमिता। अविद्यागम्भीरतया गम्भीरा प्रज्ञापारमिता।

संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासगम्भीरतया गम्भीरा प्रज्ञापारमिता। विपर्यासगम्भीरतया गम्भीरा प्रज्ञापारमिता। पञ्चनीवरणगम्भीरतया गम्भीरा प्रज्ञापारमिता। दृष्टिगम्भीरतया गम्भीरा प्रज्ञापारमिता। आत्मगम्भीरतया गम्भीरा प्रज्ञापारमिता। सत्त्वगम्भीरतया गम्भीरा प्रज्ञापारमिता। प्रपञ्चगम्भीरतया गम्भीरा प्रज्ञापारमिता। अप्रपञ्चगम्भीरतया गम्भीरा प्रज्ञापारमिता। शीलदौःशील्यगम्भीरतया गम्भीरा प्रज्ञापारमिता।

क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्येन्द्रियबलबोध्यङ्गस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासार्याष्टाङ्गमार्ग-दुःखसमुदयनिरोधमार्गविमुक्तज्ञानदर्शनातीतानागतप्रत्युत्पन्नत्र्यध्वसमतागम्भीरतया गम्भीरा प्रज्ञापारमिता। चतुर्वैशारद्यर्द्धिपादाभिज्ञागम्भीरतया गम्भीरा प्रज्ञापारमिता। अतीतानागतप्रत्युत्पन्नासङ्गज्ञानगम्भीरतया गम्भीरा प्रज्ञापारमिता।

बुद्धधर्मगम्भीरतया गम्भीरा प्रज्ञापारमिता। क्षयज्ञानानुत्पादज्ञाननिरोधज्ञानाभिसंस्कारज्ञानविरागज्ञानगम्भीरतया गम्भीरा प्रज्ञापारमिता। नीवरणगम्भीरतया गम्भीरा प्रज्ञापारमिता॥

तद्यथापि नाम शारद्वतीपुत्र समुद्रो गम्भीरो विपुलोऽप्रमेयः, एवमेव प्रज्ञापारमिता गम्भीरा विपुला अप्रमेया। गम्भीरेति शारद्वतीपुत्र अप्रमेयधर्मरत्नसंचयभूता, यस्या गाधो न लभ्यते। गम्भीरेति शारद्वतीपुत्र नास्या गतिर्लभ्यते। गम्भीरेति शारद्वतीपुत्र नास्या गुणपर्यन्तोऽधिगम्यते। तद्यथापि नाम शारद्वतीपुत्र समुद्रो महासागरः सर्वरत्नसंनिचयोऽप्रमेयरत्नभरितो महारत्नपरिपूर्णः, एवमेव प्रज्ञापारमिता सर्वधर्मरत्नसंनिचया महाधर्मरत्नसंनिचया अप्रमेयधर्मरत्नसंनिचया। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्योपलम्भेन प्रत्युपस्थिता, यं धर्मं निदर्शयेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य ज्ञानेन वा अज्ञानेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य ज्ञानं वा अज्ञानं वा स्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य आरक्षायै वा गुप्त्यै वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य आरक्षां वा गुप्तिं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संग्रहाय वा परिग्रहाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य संग्रहं वा परिग्रहं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य निश्रयेण वा अनिश्रयेण वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति, यस्य धर्मस्य निश्रयं वा अनिश्रयं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य आलयेन वा विलयेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्मिन् आलयं वा विलयं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य अभिनिवेशेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्मिन्नभिनिवेशं कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य अध्यवसानेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, न समनुपश्यति, यस्मिन्नध्यवसानं कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संवासेन वा असंवासेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, येन धर्मेण सार्धं वसेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संधिना वा विसंधिना वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संधातव्यो वा विसंधातव्यो वा। आह-नेय भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य रागेण वा विरागेण वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्मिन् धर्मे रज्येत वा विरज्येत वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य द्वेषेण वा अद्वेषेण वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्म सद्वेषो वा विगतद्वेषो वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य मोहेन वा विगतमोहेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मो मूढो वा स्याद्विगतमोहो वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य ज्ञापयित्री वा अज्ञापयित्री वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते न समनुपश्यति, यं धर्मं जानीयात् यस्य वा धर्मस्य ज्ञापयित्री वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य प्रकृत्या वा अप्रकृत्या वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य प्रकृतिं वा समनुपश्यति। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य शुद्ध्या वा विशुद्ध्या वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति, यं धर्मं शोधयेद्वा विशोधयेद्वा॥

आह-प्रकृतिपरिशुद्धेयं भगवन् प्रज्ञापारमिता। आह-रूपपरिशुद्धितः शारद्वतीपुत्र परिशुद्धा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्कारविज्ञानपरिशुद्धितः शारद्वतीपुत्र परिशुद्धा प्रज्ञापारमिता। अविद्यापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता, संस्कारपरिशुद्धितो विज्ञानपरिशुद्धितो नामरूपपरिशुद्धितः षडायतनपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता, स्पर्शवेदनातृष्णोपादानभवजातिजरामरणपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता, शोकपरिदेवदुःखदौर्मनस्योपायासपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। विपर्यासनीवरणदृष्टिगतपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। रागद्वेषमोहपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारककारयितृवेदयित्रुत्थापकसमुत्थापकज्ञातृदर्शकपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। उच्छेदशाश्वतपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अन्तानन्तपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। दानपारमितापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। शीलक्षान्तिवीर्यध्यानप्रज्ञापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। मैत्रीकरुणामुदितोपेक्षापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। स्मृत्युपस्थानसम्यक्प्रहाणपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अविपर्यासपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। दुःखसमुदयनिरोधमार्गपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अभिज्ञापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। मार्गपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। श्रावकभूमिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। प्रत्येकबुद्धभूमिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। बुद्धभूमिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। बुद्धधर्मसंघपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। श्रावकधर्मपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। प्रत्येकबुद्धधर्मपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अतीतानागतप्रत्युत्पन्नदर्शनपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। असङ्गज्ञानदर्शनपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अष्टादशावेणिकबुद्धधर्मपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। कामधातुपरिशुद्धितो रूपधातुपरिशुद्धितः आरूप्यधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। पृथ्वीधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अप्तेजोवायुधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। सत्त्वधातुपरिशुद्धितो धर्मधातुपरिशुद्धितः आकाशधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता॥

एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत् प्रकृतिपरिशुद्धा प्रज्ञापारमिता। आह-आकाशपरिशुद्धितः शारद्वतीपुत्र प्रज्ञापारमिता। आह-अरूपिण्यनिदर्शना भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य रूपपरिनिष्पत्त्या वा निदर्शनेन वा प्रत्युपस्थिता। आह-अप्रतिहतेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति यस्मिन् प्रतिहन्येत। आह-अकृतेयं भगवन् प्रज्ञापारमिता। आह-कारकानुपलब्धितः शारद्वतीपुत्र। आह-असमवसरणेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं येन धर्मेण सार्धं समवसरेत्। आह-अप्रज्ञपनीयेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते येन धर्मेण प्रज्ञप्येत। आह-असाधारणेयं भगवन् प्रज्ञापारमिता। (आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते येन धर्मेण साधारणा भवेत्।) आह-अलक्षणेयं भगवन् प्रज्ञापारमिता। आह-लक्षणानुपलब्धितः शारद्वतीपुत्र। आह-अप्रतिभासेयं भगवन् प्रज्ञापारमिता। आह-प्रतिभासानुपलब्धितामुपादाय। आह-अनन्तपारमितेयं भगवन् प्रज्ञापारमिता। आह-रूपानन्ततया शारद्वतीपुत्र अनन्तपारमितेयम्। एवं वेदनासंज्ञासंस्कारविज्ञानानन्ततया अनन्तपारमितेयम्। विपर्यासानन्ततया अनन्तपारमितेयम्। नीवरणानन्ततया अनन्तपारमितेयम्। अविद्यानन्ततया संस्कारानन्ततया विज्ञाननन्ततया नामरूपानन्ततया षडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासानन्ततया अनन्तपारमितेयम्। दृष्टिगतानन्ततया रागद्वेषमोहानन्ततया उच्छेदशाश्वतानन्ततया पूर्वान्तकोट्यनन्ततया अनन्तपारमितेयम्। अपरान्तकोट्यनन्ततया अनन्तपारमितेयम्। दानानन्ततया शीलानन्ततया क्षान्त्यनन्ततया वीर्यानन्ततया ध्यानानन्ततया प्रज्ञानन्ततया अनन्तपारमितेयं प्रज्ञापारमिता। स्मृत्युपस्थानानन्ततया सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानन्ततया अविपर्यासानन्ततया अनन्तपारमितेयम्। ध्यानविमोक्षसमाधिसमापत्त्यनन्ततया अनन्तपारमितेयम्। आरम्बणानन्ततया अनन्तपारमितेयम्। विद्याविमुक्तिज्ञानदर्शनानन्ततया अनन्तपारमितेयम्। श्रावकभूमिप्रत्येकबुद्धभूमिबुद्धभूम्यनन्ततया अनन्तपारमितेयम्। श्रावकधर्मप्रत्येकबुद्धधर्मबुद्धधर्मानन्ततया अनन्तपारमितेयम्। आत्मसत्त्वानन्ततया अनन्तपारमितेयम्। कामधात्वनन्ततया अनन्तपारमितेयम्। रूपधात्वनन्ततया अनन्तपारमितेयम्। आरूप्यधात्वनन्ततया अनन्तपारमितेयम्। अभिज्ञानन्ततया अनन्तपारमितेयम्। नीवरणानन्ततया अनन्तपारमितेयम्। अतीतानागतप्रत्युत्पन्नज्ञानदर्शनानन्ततया अनन्तपारमितेयम्। असङ्गानन्ततया आकाशानन्ततया धर्मधात्वनन्ततया अनन्तपारमितेयम्॥

न ह्यस्याः शारद्वतीपुत्र प्रज्ञापारमिताया अन्तो वा मध्यं वा पर्यवसानं वा उपलभ्यते, नापि केनचिदुपलब्धाः। अनन्तापर्यन्तपारमितेयं शारद्वतीपुत्र यदुत प्रज्ञापारमिता। तद्यथापि नाम शारद्वतीपुत्र आकाशस्यान्तो नोपलभ्यते, एवमेव प्रज्ञापारमिताया अन्तो नोपलभ्यते। पृथिवीधात्वनन्ततया शारद्वतीपुत्र प्रज्ञापारमितानन्तता द्रष्टव्या। अब्धात्वनन्ततया तेजोधात्वनन्ततया वायुधात्वनन्ततया विज्ञानधात्वनन्ततया प्रज्ञापारमितानन्तता अनुगन्तव्या। अनन्तमध्यपर्यन्तता हि शारद्वतीपुत्र प्रज्ञापारमिता अनुबोद्धव्या। न हि शारद्वतीपुत्र प्रज्ञापारमिता देशस्था न प्रदेशस्था। रूपापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पेयालम्। एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। अविद्यापर्यन्ततया संस्कारापर्यन्ततया विज्ञानापर्यन्ततया नामरूपषडायतनापर्यन्ततया यावत् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। विपर्यासापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। नीवरणापर्यन्ततया दृष्टिगतापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। आत्मानन्ततया सत्त्वानन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। दानानन्ततया शीलानन्ततया क्षान्त्यनन्ततया वीर्यानन्ततया ध्यानानन्ततया प्रज्ञानन्ततया शारद्वतीपुत्र प्रज्ञापारमितानन्तता अनुगन्तव्या। स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादापर्यन्ततया प्रज्ञापारमितानन्तता अनुगन्तव्या।

इन्द्रियबलबोध्यङ्गमार्गध्यानविमोक्षसमाधिसमापत्त्यपर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। दुःखसमुदयनिरोधमार्गापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। अभिज्ञापर्यन्ततया विमुक्त्यपर्यन्ततया विमुक्तिज्ञानदर्शनापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पृथग्जनधर्मापर्यन्ततया श्रावकधर्मापर्यन्ततया प्रत्येकबुद्धधर्मापर्यन्ततया बुद्धधर्मापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। विद्यापर्यन्ततया विमुक्त्यपर्यन्ततया विमुक्तिज्ञा[नदर्श]नापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पर्यन्तानुपलब्धितः शारद्वतीपुत्र प्रज्ञापारमितापर्यन्ततेत्युच्यते, अन्तानुपलब्धितोऽनन्तेत्युच्यते। अनन्तेति शारद्वतीपुत्र अपर्यन्तवचनमेतत्। आत्मानुपादानतः शारद्वतीपुत्र सर्वधर्मानन्तता अनुगन्तव्या। आकाशानन्ततया शारद्वतीपुत्र सर्वधर्मानन्तापर्यन्ता अनुगन्तव्या।

एवमुक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-कीदृशानां भगवन् बोधिसत्त्वानामेषु धर्मेषु विषयः ? भगवानाह-ये ते शारद्वतीपुत्र बोधिसत्त्वा धर्ममपि नोपलभन्ते प्रागेवाधर्मम्, मार्गमपि नोपलभन्ते प्रागेवामार्गम्, शीलमपि नोपलभन्ते न मन्यन्ते प्रागेव दौःशील्यम्, अपर्यापन्नाश्च सर्वत्रैधातुके, अपर्यापन्नाश्च सर्वभवगतिच्युत्युपपत्तिषु, अनध्यवसिताश्च काये जीविते च प्रागेव बाह्येषु वस्तुषु, कृतपर्यन्ताश्च संसारस्रोतसः, उत्तीर्णाश्च महाभवार्णवात्, समुत्तीर्णाश्च महासंग्रामात्, तेषां शारिपुत्र बोधिसत्त्वानां महासत्त्वानामेषु धर्मेषु विषयश्च गतिश्च, सर्वविषया अविषया इति च येषां परिजानन्ते (परिज्ञानम् ?), ते तथारूपाः सत्पुरुषाः सर्वविषयेष्वनध्यवसिताः, ते महासिंहाः। ते सर्वविषयेष्वनध्यापन्नाः, ते तद्रूपाः सत्पुरुषाः। सर्वविषयनिरुपलिप्तास्ते, तेऽसंसृष्टाः। सर्वविषयसमतिक्रान्तास्ते, ते महासार्थवाहाः। येषां शारद्वतीपुत्र एषु धर्मेषु विषयो गतिश्च। नाहं शारद्वतीपुत्र अस्यां पर्षदि समनुपश्यामि एकमपि बोधिसत्त्वम्, यस्य नैषु धर्मेषु विषयो वा अधिमुक्तिर्वा, यो वा एषु धर्मेषु साकाङ्क्षो वा सविचिकित्सो वा। निष्काङ्क्षेयं शारद्वतीपुत्र पर्षदेषु धर्मेषु निर्विचिकित्सा निर्वैमतिका। नास्ति शारद्वतीपुत्र एषां बोधिसत्वानामेषु धर्मेषु विमतिः। विमतिसमुद्धाताय शारद्वतीपुत्र एते सत्पुरुषाः सर्वसत्त्वानां स्थिताः। निःसंशया ह्येते शारद्वतीपुत्र एष्वेवंरूपेषु धर्मेषु संशयसमतिक्रान्ताः॥

येऽपि ते शारद्वतीपुत्र पश्चिमे काले पश्चिमे समये इमां धर्मदेशनां श्रोष्यन्ति, तेऽपि निःसंशया भविष्यन्ति सर्वधर्मेषु, सर्वसत्त्वानां च संशयच्छेदनाय प्रतिपन्ना भविष्यन्ति, निःसंशयाश्च ते धर्मं देशयिष्यन्ति। नाहं शारद्वतीपुत्र परीत्तकुशलमूलानां सत्त्वानामेषु धर्मेष्वधिमुक्तिं वदामि। नापि तेषामेषु धर्मेष्ववकाशः, नापि तेषामिदं धनम्। नापि ते शारद्वतीपुत्र सत्त्वाः परीत्तकुशलमूलसमन्वागता भविष्यन्ति, येषामियं धर्मदेशनां श्रोत्रपथमप्यागमिष्यति किमङ्ग पुनर्ये उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति। नियतास्ते बुद्धधर्मेषु, व्याकृतास्ते बुद्धैर्भगवद्भिः। एवं च ते सिंहनादं नदिष्यन्ति यथाहमेतर्हि सिंहनादं नदामि अस्तम्भितनादं महापुरुषनादं स्वयंभूनादम्। ये एषु धर्मेष्वत्यन्तशः श्रद्धां जनयित्वा छन्दं जनयिष्यन्ति अनुत्तरायां सम्यक्संबोधौ, तेषामपि त एव व्याकरणं भविष्यन्ति। तत्कमाद्धेतोः ? दुर्लभा हि शारद्वतीपुत्र ते सत्त्वाः, य इमान् गम्भीरान् धर्मान् श्रुत्वा प्रीतिं च विन्दन्ति, प्रामोद्यं च जनयन्ति, अधिमुञ्चन्ते च। अतः शारद्वतीपुत्र दुर्लभतमास्ते सत्त्वाः, ये गम्भीरान् धर्मान् श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति, छन्दं च जनयन्ति महाकुशलमूलसमन्वागताः। नाहं शारद्वतीपुत्र तान् सत्त्वान् महासंसारसंप्रस्थितानिति वदामि येषामयं प्रज्ञापारमितानिर्देशः श्रवणपथमप्यागमिष्यति, श्रुत्वा च (ये) पठिष्यन्ति अधिमोक्ष्यन्ति उदारं च प्रीतिसौमनस्यं जनयिष्यन्ति, एषु धर्मेषु छन्दं जनयिष्यन्ति पुनः पुनः श्रवणायापि, कः पुनर्वादः उद्देष्टुं वा स्वाध्यातुं वा परेभ्यो देशयितुं वा। व्याकरोम्यहं शारद्वतीपुत्र अनवक्रान्तनियामान् अनियतान् श्रावकप्रत्येकबुद्धयाने अनुत्तरायां सम्यक्संबोधौः। नाहं शारद्वतीपुत्र हीनधर्मसमन्वागतानां सत्त्वानामग्रतो धर्मेष्ववकाशं समनुपश्यामि। उदारेयं शारद्वतीपुत्र बुद्धबोधिः। यद्भूयसा च सत्त्वा हीनाधिमुक्तिका हीनधर्मसमन्वागता अकृतकल्याणाः। अकुशला एष्वेवंरूपेषु गम्भीरेषु धर्मेषु निरुपलेपेषु। ये पुनस्ते शारद्वतीपुत्र उदाराः सत्त्वा उदारधर्माधिमुक्ता महायानसंप्रस्थिताः सुपरिप्राप्तकार्याः सुसंनाहसंनद्धाः सुविचित्रार्था महामार्गेण संप्रस्थिता अविषमेण ऋजुना, अगहनेन समेन अपगतखाणुकण्टकेन अपगतश्वभ्रप्रपातेन शुचिना अपगतकिल्बिषेण अकुटिलेन अवङ्केन, ये लोकहिताय संप्रस्थिता लोकसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय व देवानां च मनुष्याणां च, अवभासकरास्तीर्थभूताः सत्त्वानाम्, महाकारुणिका हितानुकम्पका हितकामाः सुखकामा योगक्षेमकामाः, सर्वसत्त्वानां सुखोपधानाय प्रत्युपस्थिताः, तेषां शारद्वतीपुत्र तथारूपाणां सत्त्वानां बोधिसत्त्वानां महासत्त्वानामिदं महाधनम्। त एव च शारद्वतीपुत्र महासत्त्वा अस्य धर्मरत्नस्य प्रत्येषकाः। तेषां चैतद्धनमुदारधनम्। तत्कस्य हेतोः ? न हि शारद्वतीपुत्र अकृतपुण्यानां सत्त्वानामकृतकल्याणानां हीनाधिमुक्तिकानां श्रद्धाविहीनानामस्मिन्नुदारे धनेऽधिमुक्तिर्जायते। एतच्च मे शारद्वतीपुत्र संधाय भाषितम्-धातुशः सत्वाः संस्यन्दन्ति हीनाधिमुक्तिका हीनाधिमुक्तिकैः, उदाराधिमुक्तिका उदाराधिमुक्तिकैरिति॥

अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-किंगोचरा भगवन् प्रज्ञापारमिता ? एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-अनन्तविषयगोचरा शारद्वतीपुत्र प्रज्ञापारमिता। तद्यथापि नाम शारद्वतीपुत्र वायुधातुरनन्तविषयगोचरः, एवमेव प्रज्ञापारमिता अनन्तविषयगोचरा। तद्यथापि नाम शारद्वतीपुत्र वायुधातुराकाशधातुविषयगोचरः, एवमेव प्रज्ञापारमिता आकाशधातुविषयगोचरा। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुश्च न क्वचित्संदृश्येते, न कस्यचिद्धर्मस्य अभिनिर्वृत्तिलक्षणेन प्रत्युपस्थितौ, एवमेव शारद्वतीपुत्र प्रज्ञापारमिता न क्वचिद्धर्मे संदृश्यते, न कस्यचिद्धर्मस्य अभिनिर्वृत्तिलक्षणेन प्रत्युपस्थिता। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुश्च अग्राह्यापरिनिष्पत्तितो न वर्णनिमित्तेन संख्यां गच्छतः, एवमेव शारद्वतीपुत्र प्रज्ञापारमिता अग्राह्यानिष्पत्तितो न केनचिद्वर्णनिमित्तेन संख्यां गच्छति वा उपैति वा। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुश्च न कस्यचिद्धर्मस्य परिनिष्पत्तिदर्शनेनोपयातौ, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य परिनिष्पत्तिदर्शनेनोपैति॥

आह-किंलक्षणेय भगवन् प्रज्ञापारमिता ? भगवानाह-अलक्षणेयं शारद्वतीपुत्र प्रज्ञापारम्तिआ। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुश्च वायुधातुश्च न कस्यचिद्धर्मस्य परिचिष्पत्तिलक्षणेनोपगच्छतः, एवमेव शारदव्तीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य परिनिष्पत्तिलक्षणेनोपैति। आह-किंलक्षणेयं बह्गवन् प्रज्ञापारमिता ? भगवानाह-अलक्षणा हि शारद्वतीपुत्र प्रज्ञापारमिता, यतो त्न सङ्गलक्षणेन संविद्यते। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुध्च न कस्यचिद्धर्मस्य परिनिष्पत्तिलक्षणेनोपगच्छतः, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य परिनिष्पत्तिलक्षणेनोपैति। अलक्षणा हि शारद्वतीपुत्र प्रज्ञापारमिता, यतो न संविद्यते। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्न क्वचित्सज्जति, एवमेव प्रज्ञापार्मैता न क्वचित्सज्जति, ते नोच्यते असङ्गलक्षणेति। न च शारद्वतीपुत्र असङ्गस्य किंचिल्लक्षणम्, अपि तु खलु व्यवहारपदमेतत्। तेनोच्यते असङ्गलक्षणा प्रज्ञापारमित्ति। तदेवितत् शारद्वतीपुत्र असङ्गलक्षणं निर्दिश्यते। न च असङ्गस्य लक्षणं न निमित्तम्। असङ्ग इति शारद्वतीपुत्र सङ्गपरिज्ञैषा, सङ्गानुपलब्धिरेषा, सङ्गयथाभूततैषा, सङ्गविपर्यासपरिज्ञैषा। न हि शारद्वतीपुत्र सङ्गे सङ्गो चिद्यते, तेनोच्यते सङ्गयथा भूतता सङ्गानुपलब्धिः। असङ्गतेति शारद्वतिपुत्र इयं प्रज्ञापारमिता, असङ्गलक्षणज्ञाननिर्देश एषः। सर्वधर्मा हि शारद्व्तीपुत्र असङ्गलक्षणाः। यद्यस्य धर्मस्य लक्षणम्, तदलक्षणम्। न हि तल्लक्षणाभिनित्वॄत्तये कश्चिद्धर्मः प्रत्युपस्थितः। यत्र च लक्षणं न संविद्यते, तदुच्यते अलक्षणमिति। यच्चालक्षणम्, तत्र नास्ति सङ्गः। सचेद्धर्मलक्षणमभविष्यत्, सङ्गोऽभविष्यत्सर्वधर्माणाम्। यस्मात्तर्हि सर्वधर्मा इति, न पुनर्यथोच्यते। यदसंङ्गलक्षणम्, न तच्छक्य्स्ं प्रव्याहर्तुम्। तत्कस्य हेतोः ? असत्त्वादसङ्गलक्षणस्य, विविक्तत्वादसङ्गलक्षणस्य, अनुपलब्धेरसङ्गलक्षणस्य। यो गि शारदव्तीपुत्र धर्मोऽसङ्गलक्षणः, स न केनचिन्निदर्शन प्रत्युपस्थितः, न सङ्गदर्शनेन, अपि तु खलु पुनः सत्त्वानामेतदसङ्गलक्षणनिदर्शनं कृतम्। यद्धि शारद्वतीपुत्र संक्लेशस्य लक्षणम्, तदलक्षणम्। न हि लक्षणेन संक्लेशः पर्त्युपस्थितः, विपर्यासेन शारद्वगीपुत्र संक्लेशः प्रत्युपस्थितः। यश्च विपर्यास्ः, तदलक्षाणम्। यदलक्षणम्, न तद्व्यवहारेणापि लक्षणम्। अलक्षणमेतत्। यदपि शारद्वतीपुत्र व्यवदानम्, तस्यापि नास्ति लक्षणम्। तत्कस्माद्धेतोः ? संक्लेश एव च तावच्चारद्वतीपित्र अलक्षणः, प्राग्र्व व्यव्दानम्। या शारद्वतीपुत्र संक्लेशस्य परिज्ञा, सा यथाभूता। न तस्याः कश्चित्संकेल्शः। विपर्यस्तास्तु सत्त्वाः स्ंक्लिश्यन्ते। यश्च विपर्यास्ः, सोऽभूतः । योऽभूतः, तत्र भूतस्य परिनिष्पत्तिर्वा लक्षणं वा नास्ति। यविं शारद्वतीपुत्रम् परिज्ञा, तद्व्यवदानमित्युच्यते। संक्लेश एवालक्षणः, प्रागेव व्यव्दानम्। उभावेतौ शारद्वतीपुत्र धर्मावलक्षणौ अपरिनिष्पत्तिः, इयमसङ्गतेत्युच्यते। असङ्गलक्षणाह् सर्वधर्मा इति। सर्वधर्माणां हि सङ्गो न संविद्यते। असङ्गलक्षणेषु हि शार्द्व्तीपुत्र सज्जन्ति सर्वबालपृथग्जनाः। अयं शारद्व्तीपुत्र सर्वधर्माणामसङ्गलक्षणज्ञानगोचरनिर्देशः। अयं च शारद्वतीपुत्र प्रज्ञापारमिता गोचरः। असङ्गलक्षण्स्ज्ञानगोचरा हि शारद्वतीपुत्र पर्ज्ञापारमिता। तेनोच्यते अनन्तगोचरा प्रज्ञापारम्तेति। या असङ्गता, सा अनन्तविषयज्ञानगोचरा। गोचर इति शारद्वतीपुत्र अगोचरस्यैतदधिवचनम्। न् अहि शारद्व्तीपुत्र गोचरनिदर्शनलक्षणेन प्रज्ञापारमिता भाव्यते। विषय इति शारद्वतीपुत्र अविषय ए ष धर्माणाम् एषा यथाभूतता, यथावत्ता। सर्वधर्मा हि अविषयाः, अविषयत्वात्। यैवं धर्माणां परिज्ञा, अयमुच्यते विषय्गोचर इति, न पुनर्यथोच्यते। य एवं सर्वदह्र्मपरिज्ञया न क्वचित्सङ्गः, इदमुच्यते असङ्गलक्षणमिति। तेनोच्यते असङ्गलक्षणा प्रज्ञापारम्तिआ इति॥

एष्वेवंरूपेषु शारद्वतीपुत्र धर्मेषु न बहवः सहायकाः प्रतिलभ्यन्ते। तथागतज्ञानविषयनिर्देश एषः, यैवं धर्माणां सूचना संप्रकाशना विभाजना। न ह्येषु शारद्वतीपुत्र धर्मेषु कश्चिदन्यः सहायः, अन्यत्र दृष्टसत्यैः श्रावकैरविनिवर्तनीयैर्वा बोधिसत्त्वैर्महासत्वैर्दृष्टिसंपन्नैर्वा पुद्गलैरप्रत्युदावर्तनीयैः। तेषामपि तावच्छारद्वतीपुत्र दृष्टिसंपन्नानामेषु धर्मेषु चरितानां संशयः स्यात्। निःसंशयः शारद्वतीपुत्र कायसाक्षी च बोधिसत्त्वश्च प्रतिलब्धक्षान्तिकः। अभूमिरेषु शारद्वतीपुत्र धर्मेषु बालपृथग्जनानाम्। नायं शारद्वतीपुत्र प्रज्ञापारमितानिर्देशो हीनाधिमुक्तिकानां सत्त्वानां हस्तं गमिष्यति। परिशुद्धकुशलमूलसमन्वागतास्ते शारद्वतीपुत्र सत्त्वा भविष्यन्ति बहुबुद्धपर्युपासिताः, येषामयं प्रज्ञापारमितानिर्देशो हस्तं गमिष्यति। अवरोपितकुशलमूलास्ते सत्त्वा भविष्यन्ति कल्याणाशयाः, कृताधिकारा बुद्धेषु भगवत्सु बोधायावरोपितबुद्धबीजा बुद्धयानसमारूढा बुद्धानां भगवतामासन्नस्थायिनो योनिशः प्रश्नपृच्छकाः, येषामयं प्रज्ञापारमितानिर्देशो हस्तं गमिष्यति। आसन्नास्ते क्षान्तिप्रतिलम्भस्य, क्षान्तिप्रतिलब्धा वा भविष्यन्ति, येषामयं प्रज्ञापारमितानिर्देशो हस्तं गमिष्यति। ये च व्याकृताः, ते क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते स्थापयित्वा प्रणिधानवशात्। ये न व्याकृताः, ते क्षिप्रं संमुखं व्याकरणं प्रतिलप्स्यन्ते, अथ च शारद्वतीपुत्र व्याकृता एव ते मन्तव्याः संमुखव्याकरणेन। न हि शारद्वतीपुत्र अपरिपक्वकुशलमूलानां सत्त्वानामयं सूत्रान्तः श्रोत्रपथमप्यागमिष्यति, किमङ्ग पुनर्यदेतं सूत्रान्तं प्रतिलभेरन् वा लेखयेयुर्वा आराधयेयुर्वा उद्दिशेयुर्वा ध्यायेरन् वा, परेभ्यो वा विस्तरेण संप्रकाशयेयुः, नैतत्स्थानं विद्यते। परिपक्वकुशलमूलास्ते शारद्वतीपुत्र सत्त्वाः, य इमं सूत्रान्तं श्रोष्यन्ति लिखिष्यन्ति वाचयिष्यन्ति स्वाध्यास्यन्ति। किंचापि शारद्वतीपुत्र उत्तप्तकुशलमूलानां सत्त्वानामयं धर्मपर्यायो हस्तं गमिष्यति। अपि तु खलु पुनः शारद्वतीपुत्र आरोचयामि ते, प्रतिवेदयामि ते। न तेन कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानीयेन वा श्रावकयानीयेन वा इमान् धर्मान् प्रतिलभ्य अल्पोत्सुकेन भवितव्यम्, कुसीदेन वा मिद्धबहुलेन वा असंप्रज्ञेन वा अनुपस्थितस्मृतिना वा विक्षिप्तचित्तेन वा आमिषगृद्धेन वा लोलेन वा मुखरेण वा तुन्देन वा प्रगल्भेन वा प्राकृतेन्द्रियेण वा। किंचापि शारद्वतीपुत्र कुशलमूलानि कृतानि न विसंवादयन्ति। अपि तु खलु इमान् धर्मान् लब्ध्वा बोधिसत्त्वेन भूयस्या मात्रया अप्रमादश्च वीर्यं च उत्साहश्च छन्दश्च अकौसीद्यं च संवृतेन्द्रियता च अमुखरता चासेवितव्या, स्मृत्युपस्थानेषु बाहुश्रुत्येषु च योगः करणीयः। आरब्धवीर्येण चैषामेवंरूपाणां गुणानां परिपूरये व्यायन्तव्यम्। नैतच्छारद्वतीपुत्र एवंरूपाणां धर्माणां श्रवणफलम्, यद्बोधिसत्त्वो वा श्रावकयानिको वा एवंरूपान् धर्मान् श्रुत्वा प्रमादमापद्येत, विश्वासं वा गच्छेत्, छन्दं वा परिहीयेत, वीर्यं वा हापयेत्, शैथिल्यं वोपदर्शयेत्, व्यापादबहुलो वा भवेत्। नैतत्सफलं भवेत्, नापि तेन इमे एवंरूपा धर्माः श्रुता भवेयुः। श्रुतमपि शारद्वतीपुत्र भूतप्रतिपत्तेरेतदधिवचनम्, न विप्रतिपत्तेः। न हि शारद्वतीपुत्र विप्रतिपन्नेन अयं धर्मः श्रुतो भवति। श्रुतार्थकुशलैः शारद्वतीपुत्र युष्माभिर्भवितव्यं प्रतिपत्तिस्थितैः। नास्ति शारद्वतीपुत्र विप्रतिपन्नानामानुलोमिकी क्षान्तिः। प्रतिपत्तिरेषा शारद्वतीपुत्र अस्मिन् धर्मे उच्यते, यो यथानिर्दिष्टेषु धर्मेषु प्रतिपद्यते। क्षान्तिसंपन्नस्य शारद्वतीपुत्र पुद्गलस्य प्रतिपत्तिस्थितस्य न भूयोऽपायगमनं भवति, क्षिप्रं चैषु धर्मेषु समुदागच्छति। न अवरमात्रकेण कुशलमूलेन विश्वासमापत्तव्यम्। अनिक्षिप्तधुरेणापि विश्वासो न कर्तव्यः, यावदेषु धर्मेषु परिनिष्पत्स्यत इति। यः शारद्वतीपुत्र एषु धर्मेषु परिनिष्पन्नः शिक्षितो लब्धक्षान्तिर्न भूयसा अपायगमनसंवर्तनीयं कर्म कुर्यात्। न चास्य भूयः कौसीद्यं वा हीनभागीयं वा भवेत्। नापि तस्य प्रत्युदावर्तनभयं भवेत्। नापि शैथिल्यमापद्येत। तत्कस्य हेतोः ? परिज्ञातो हि शारद्वतीपुत्र तेन भवति संक्लेशश्च व्यवदानं च, दृष्टं च तेन यथाभूतं भवति-सर्वधर्मा विपर्याससमुत्थिता अभूता इति। स एवं सम्यग्दर्शी क्षान्तिसंपन्नो भवति सूरतोऽमन्दवान् (?) शीलविशुद्धिस्थित आचारगोचरचारित्रसंवरसंपन्नः। देवा अपि शारद्वतीपुत्र तथारूपेभ्यः स्पृहयन्ति प्रागेव मनुष्याः। देवानामपि ते तथारूपाः सत्त्वाः स्पृहणीया भवन्ति प्रागेव मनुष्याणाम्। देवानामपि ते सत्कारार्हा भवन्ति प्रागेव मनुष्याणाम्। देवैरपि ते रक्षणीया भवन्ति प्रागेव मनुष्यैः। देवनागयक्षराक्षसगरुडगन्धर्वैरपि ते रक्षणीया भवन्ति, तेषां च रक्षावरणगुप्तये समुत्सुका भवन्तीति॥

आर्यप्रज्ञापारमितायामौपम्यपरिवर्तो नाम चतुर्थः॥

५ सुभूतिपरिवर्तः पञ्चमः।

अथ खल्वायुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किमायुष्मन् सुभूते तूष्णींभावेनातिनामयसि ? किं न प्रतिभाति ते प्रज्ञापारमितामारभ्य अयं शास्ता स्वयं संमुखीभूतः, इयं च पर्षद् भाजनीभूता गम्भीराया धर्मदेशनायाः ? शुद्धेयमायुष्मन् सुभूते पर्षत्, आकाङ्क्षति च गम्भीरं धर्मं श्रोतुम्॥

एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेवमाह-नाहं तमायुष्मन् धर्मं समनुपश्यामि यं मे आरभ्य प्रतिभायात्-न चाहमायुष्मन् शारद्वतीपुत्र प्रज्ञापारमितां समनुपश्यामि, न च बोधिसत्त्वं नापि प्रतिभानम्, नापि यत्प्रतिभायात्, नापि येन प्रतिभायात्, नापि यतः प्रतिभायात्। एवं समनुपश्यन् नाहमायुष्मन् शारद्वतीपुत्र प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां यच्च प्रतिभायात्, येन च प्रतिभायात्, यतश्च प्रतिभायात्, यस्य च प्रतिभायात्, किमिति निर्देक्ष्यामि, किं मे आरभ्य प्रतिभास्यति। एषैवात्र आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता योऽव्याहारः, अनुदाहारः, अनभिहारः, अनभिलापः। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता शक्योदाहार्तुं वा, प्रव्याहर्तुं वा, अभिलपितुं वा। यैवं विसर्जना, इयं प्रज्ञापारमिता। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता अतीता वा अनागता वा प्रत्युत्पन्ना वा। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता अतीतलक्षणा वा शक्या निर्देष्टुम्, अनागतलक्षणा वा प्रत्युत्पन्नलक्षणा वा। अलक्षणा अव्यवहारा एषा आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता। नाहमायुष्मन् शारद्वतीपुत्र प्रज्ञापारमिताया लक्षणं समनुपश्यामि, येन लक्षणेन प्रज्ञापारमिता निर्दिश्येत। न हि आयुष्मन् शारद्वतीपुत्र यद्रूपस्य अतीतलक्षणं वा अनागतलक्षणं वा प्रत्युत्पन्नलक्षणं वा, सा प्रज्ञापारमिता। नापि यद्वेदनासंज्ञासंस्कारविज्ञानानामतीतलक्षणं वा अनागतलक्षणं वा प्रत्युत्पन्नलक्षणं वा सा प्रज्ञापारमिता। यच्च आयुष्मन् शारद्वतीपुत्र अतीतानागतप्रत्युत्पन्नरूपलक्षणस्य तथता अवितथता अनन्यतथता यावत्तथता, सा प्रज्ञापारमिता। या च अतीतानागतप्रत्युत्पन्नानां वेदनासंज्ञासंस्कारविज्ञानानां तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता। या च आयुष्मन् शारद्वतीपुत्र अतीतानागतप्रत्युत्पन्नस्य रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणस्य तथता अवितथता अनन्यतथता यावत्तथता, सा न शक्या प्रज्ञपयितुं वा उदाहर्तुं वा अभिलपितुं वा वाक्कर्मणा वा विसर्जयितुम्। य आयुष्मन् शारद्वतीपुत्र एवं प्रज्ञापारमितानिर्देशमवतरति, स प्रज्ञापारमितां बुध्यते। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य निर्देशलक्षणेन प्रत्युपस्थिता, न रूपनिदर्शनलक्षणेन प्रत्युपस्थिता, न वेदनासंज्ञासंस्कारविज्ञाननिर्देशलक्षणेन प्रत्युपस्थिता, न संस्कारनिर्देशलक्षणेन, न प्रतीत्यसमुत्पादनिर्देशलक्षणेन, न नामरूपलक्षणेन, नात्मलक्षणेन, न सत्त्वलक्षणेन, न धर्मधातुलक्षणेन, न संयोगलक्षणेन, न विसंयोगलक्षणेन, न हेतुलक्षणेन, न प्रत्ययलक्षणेन, न दुःखलक्षणेन, न सुखलक्षणेन, न व्यवस्थानलक्षणेन नाव्यवस्थानलक्षणेन, नोत्पादलक्षणेन न व्ययलक्षणेन, न संक्लेशलक्षणेन न व्यवदानलक्षणेन, न प्रकृतिलक्षणेन, (न) संवृतिलक्षणेन न परमार्थलक्षणेन, न सत्यलक्षणेन न मृषालक्षणेन, न संक्रान्तिलक्षणेन नावक्रान्तिलक्षणेन प्रत्युपस्थिता। तत्कस्य हेतोः ? सर्वलक्षणविगता हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता। सा न कस्यचिद्दर्शनमुपैति-इयं वा प्रज्ञापारमिता, इह वा प्रज्ञापारमिता, अनेन वा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमितेति॥

नाहमायुष्मन् शारद्वतीपुत्र तं धर्मं समनुपश्यामि येन धर्मेण प्रज्ञापारमिता निर्दिश्येत। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य निदर्शनमुपैति वा उत्पश्यति वा। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता रूपस्य निदर्शनमुपैति, न वेदनासंज्ञासंस्कारविज्ञानानां निदर्शनमुपैति, न चक्षुःश्रोत्रघ्राणजिह्वाकायमनसां निदर्शनमुपैति। नापि धात्वायतनानां निदर्शनमुपैति, न प्रतीत्यसमुत्पादस्य निदर्शनमुपैति, नापि विद्याविमुक्त्योर्निदर्शनमुपैति। यापि सा आयुष्मन् शारद्वतीपुत्र प्रज्ञा लोकोत्तरा निर्वेधगामिनी, तस्या अपि प्रज्ञापारमिता निदर्शनं नोपैति। तद्यथा आयुष्मन् शारद्वतीपुत्र धर्मो निदर्शनं नोपैति कस्यचिद्धर्मस्य, कथं तस्या एव उदाहारनिर्देशो भविष्यति ? अपि तु खलु आयुष्मन् शारद्वतीपुत्र य एवं धर्माणां धर्मनयं प्रजानन्ति, ते प्रज्ञापारमितानिर्देशं प्रजानन्ति॥

न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य संदर्शनेन प्रत्युपस्थिता, नापि निदर्शनेन्। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता रूपस्य संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन्। न वेदनासंज्ञासंस्कारविज्ञानानां संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न नामरूपस्य संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न संक्लेशस्य न व्यवदानस्य संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न प्रतीत्यसमुत्पादस्य संदर्शनेन् प्रत्युपस्थिता, न निदर्शनेन। न विपर्यासानां संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न सत्त्वधातोः, नात्मधातोः संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न पृथिवीधातोः, न अप्तेजोवायुधातोः संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न कामधातोः, न रूपधातोः, न आरूप्यधातोः संदर्शनेन प्रत्युत्पस्थिता, न निदर्शनेन। न दानमात्सर्यशीलदौःशील्यसंदर्शनेन प्रत्युपस्थिता न निदर्शनेन। न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाप्रमाणेन्द्रियबलबोध्यङ्गविमोक्षसमाधिसमापत्त्यभिज्ञासंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न सत्यमार्गफलसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न श्रावकप्रत्येकबुद्धबोधिसत्त्वभूमिसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न श्रावकधर्म न प्रत्येकबुद्धधर्म, न बोधिसत्त्वधर्म, न बुद्धधर्मसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। नापि कस्यचिद्धर्मस्य ज्ञानेन वा अज्ञानेन वा संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थिता। नाप्यनुत्पादज्ञानस्य वा क्षयज्ञानस्य वा निरोधज्ञानस्य वा संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थिता। नापि निर्वाणस्य संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थिता। तद्यथा आयुष्मन् शारद्वतीपुत्र न कस्यचिद्धर्मस्य संदर्शनेन वा प्रत्युपस्थिता निदर्शनेन वा, कथं तस्या व्यवहारं निर्देक्ष्यामि ? अपि तु खलु आयुष्मन् शारद्वतीपुत्र य एवं निर्देशमवबुध्यते- न प्रज्ञापारमिता कस्यचिद्धर्मस्य संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थितेति, स प्रज्ञापारमितां जानीते, प्रज्ञापारमितानिर्देशं च प्रजानीते। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य योगाय वा वियोगाय वा प्रत्युपस्थिता। तत्कस्माद्धेतोः ? न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता रूपं संयोजयति न विसंयोजयति। एवं न वेदनासंज्ञासंस्कारविज्ञानानि संयोजयति न विसंयोजयति। न प्रतीत्यसमुत्पादं संयोजयति न विसंयोजयति। न कामधातुं न रूपधातुं नारूप्यधातुं संयोजयति न विसंयोजयति। न पृथिवीधातुं नाब्धातुं न तेजोधातुं न वायुधातुं संयोजयति न विसंयोजयति। न सत्त्वधातुं नात्मधातुं न धर्मधातुं नाकाशधातुं संयोजयति न विसंयोजयति। न दानं न मात्सर्यं न शीलं न दौःशील्यं न क्षान्तिं न व्यापादं न वीर्यं न कौसीद्यं न ध्यानं न विक्षेपं न प्रज्ञां न दौष्प्रज्ञ्यं संयोजयति न विसंयोजयति। न स्मृत्युपस्थानानि न सम्यक्प्रहाणानि न ऋद्धिपादाप्रमाणानि नेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाः संयोजयति न विसंयोजयति। न मार्गं न मार्गफलं न दुःखं न दुःखसमुदयं न निरोधं संयोजयति न विसंयोजयति। न श्रावकभूमिं न प्रत्येकबुद्धभूमिं न बोधिसत्त्वभूमिं न बुद्धभूमिं संयोजयति न विसंयोजयति। न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् न बोधिसत्त्वधर्मान् न बुद्धधर्मान् संयोजयति न विसंयोजयति। नातीतानागतप्रत्युत्पन्नत्र्यध्वसमतां संयोजयति न विसंयोजयति। नासङ्गतानुत्पादज्ञानं न क्षयज्ञानं न निर्वाणं संयोजयति न विसंयोजयति। तद्यथा आयुष्मन् शारद्वतीपुत्र धर्मो न कस्यचिद्धर्मस्य संयोगाय वा विसंयोगाय वा प्रत्युपस्थितः, कथं तस्य निर्देशो भविष्यति ? इदमायुष्मन् शारद्वतीपुत्र अर्थवशं संपश्यन्नहमेवं वदामि-नाहं तं धर्मं समनुपश्यामि यो मे धर्मः प्रतिभायात्, येन मे प्रतिभायात्, यतो मे प्रतिभायात्, यं मे आरभ्य प्रतिभायादिति॥

आर्यप्रज्ञापारमितायां सुभूतिपरिवर्तः पञ्चमः॥

६ चर्यापरिवर्तः षष्ठः।

अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-इह खलु सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न क्वचिद्धर्मे चरति। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् विपर्याससमुत्थिताः, अभूता असन्तो मिथ्या वितथाः। तद्यथा सुविक्रान्तविक्रामिन् कस्मिंश्चिद्धर्मे चरति, विपर्यासे स चरति। विपर्यासे चरन् न भूते चरति। न च सुविक्रान्तविक्रामिन् बोधिसत्त्वो विपर्यासचर्याप्रभावितः, अभूतचर्याप्रभावितो वा। नापि विपर्यासे वा अभूते वा चरन् बोधिसत्त्वः प्रज्ञापारमितायां चरति। यश्च विपर्यासः, सोऽभूतः। न तत्र काचिच्चर्या, तेन तत्र बोधिसत्त्वो न चरति। विपर्यास इति सुविक्रान्तविक्रामिन् वितथः। एष बालपृथग्जनैर्गृहीतः। न तथा यैस्ते ते धर्माः। ये च न तथा यथा गृहीताः, स उच्यतेऽविपर्यासोऽत्र भूत इति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वो विपर्यासे वा अभूते वा चरति। भूतवादीति सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽविपर्यासचारी। यत्र च भूतमविपर्यासः, तत्र च न काचिच्चर्या। तेनोच्यते- अचर्या बोधिसत्त्वचर्येति। सर्वचर्यासमुच्छिन्ना हि सुविक्रान्तविक्रामिन् बोधिसत्त्वचर्या। सा न शक्या आदर्शयितुम्-इयं वा बोधिसत्त्वचर्या, अनेन वा बोधिसत्त्वचर्या, इह वा बोधिसत्त्वचर्या, इतो वा बोधिसत्त्वचर्येति। नैवं बोधिसत्त्वचर्या प्रभाविता। सर्वचर्याविनिवृत्तये हि बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्ति पृथग्जनचर्याविनिवृत्तये श्रावकचर्याविनिवृतये प्रत्येकबुद्धचर्याविनिवृत्तये। येऽपि ते सुविक्रान्तविक्रामिन् बुद्धधर्माः, तेष्वपि बोधिसत्त्वा न चरन्ति नाभिनिविशन्ते-इमे वा ते बोधिसत्त्वधर्माः, इह वा ते बोधिसत्त्वधर्माः, अनेन वा ते बोधिसत्त्वधर्माः, अस्य वा ते बोधिसत्त्वधर्मा इति। एवमपि सुविक्रान्तविक्रामिन् बोधिसत्त्वो न चरति। सर्वा एषां सुविक्रान्तविक्रामिन् विकल्पचर्या। न बोधिसत्त्वो विकल्पे चरति नाविकल्पे। सर्वविकल्पप्रहीणा हि बोधिसत्त्वचर्या। कल्प इति सुविक्रान्तविक्रामिन् विकल्पनैषा सर्वधर्माणाम्। न हि शक्याः सर्वधर्माः कल्पयितुम्। अकल्पिता हि सर्वधर्माः। तद्यो धर्मं कल्पयति, स विकल्पयति। न हि सुविक्रान्तविक्रामिन् धर्मः कल्पो वा विकल्पो वा। कल्प इति सुविक्रान्तविक्रामिन् एष एकोऽन्तः, विकल्प इति द्वितीयोऽन्तः। न च सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽन्ते चरति, नाप्यनन्ते। यो नैव अन्ते न अनन्ते चरति, स मध्यं न समनुपश्यति। मध्यमपि सुविक्रान्तविक्रामिन् समनुपश्यन् मध्ये चरन् अन्त एव चरति। न हि सुविक्रान्तविक्रामिन् मध्यस्य काचिच्चर्या (वा किंचि)द्दर्शनं वा (निदर्शनं वा)। मध्यमिति सुविक्रान्तविक्रामिन् नापि आर्याष्टाङ्गमार्गस्यैतदधिवचनम्। न च सुविक्रान्तविक्रामिन् आर्याष्टाङ्गो मार्गः कस्यचिद्धर्मस्योपलम्भेन प्रत्युपस्थितः, नापि कस्यचिद्धर्मस्य समनुपश्यनतया॥

अपि तु यस्मिन् समये सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कंचिद्धर्मं भावयति न विभावयति, तदा प्रतिप्रस्रब्धमार्ग इत्युच्यते। स सर्वधर्मान् न भावयन्न विभावयन् भावनासमतिक्रान्तो धर्मसमतामनुप्राप्नोति, यया धर्मसमतया मार्गसंज्ञाप्यस्य न प्रवर्तते, कुतः पुनर्मार्गं द्रक्ष्यति ? प्रतिप्रस्रब्धमार्ग इति सुविक्रान्तविक्रामिन् अर्हतः क्षीणास्रवस्यैतद्भिक्षोरधिवचनम्। तत्कस्माद्धेतोः ? विभावितो हि स मार्गो न भावितो न विभावितः। तेनोच्यते विभावित इति। विभावनापि तत्र नास्ति, तेनोच्यते विभावित इति। विगता तस्य भावना, तेनोच्यते विभावनेति। सचेत्खलु पुनः सुविक्रान्तविक्रामिन् भावना स्याद्विभावना वा, सा पुनरुपलभ्यते, नास्या विभावना स्यात्। विभावनेति सुविक्रान्तविक्रामिन् विगता अस्यां भावनेति विभावना, भावोऽस्या विगत इति, तेनोच्यते विभावनेति, न पुनर्यथोच्यते। तत्कस्मात् ? अव्याहारा हि विभावना, विगम एष विभावना। कतमो विगमः ? यतो विपर्यासस्य असमुत्थानं यदभूतस्यासमुत्थानम्। न हि सुविक्रान्तविक्रामिन् विपर्यासो विपर्यासं समुत्थापयति। असमुत्थित एष विपर्यासः। न हि तत्र किंचित्समुत्थानम्। यदि तत्र किंचित्समुत्थानमभविष्यत्, नोच्येत। यस्मादभूतसमुत्थितः, तस्मादुच्यते विपर्यास इति। अविपर्यास्ता हि सुविक्रान्तविक्रामिन् सर्वधर्मा बोधिसत्त्वेनानुबुद्धाः। तत्कस्माद्धेतोः ? ज्ञातो हि तेन विपर्यासोऽभूत इति। न विपर्यासे विपर्यासः संविद्यते। येन विपर्यासोऽभूतो ज्ञातः, न विपर्यासे विपर्यासः संविद्यते, तेन अविपर्यस्ताः सर्वधर्माः समनुबुद्धाः। यश्च अविपर्यासस्यानुबोधः, न तत्र भूयो विपर्यासः। यत्र (न) कश्चिद्विपर्यासः, तत्र न काचिच्चर्या। सर्वा हि सुविक्रान्तविक्रामिन् चर्या सा चर्यासमुत्थाना। चर्याविकल्पाद्विपर्यासः। बोधिसत्त्वस्तु चर्यायां न विकल्पयति। तेन सार्धमविपर्यासः स्थित इत्युच्यते। यश्च अविपर्यस्तः, स न क्वचिद्भूयश्चरति। तेनोच्यते अचर्या बोधिसत्त्वचरेति। अचर्येति सुविक्रान्तविक्रामिन् यन्न क्वचिद्धर्मे चरति न विचरति न चर्यालक्षणं संदर्शयति, इयमुच्यते बोधिसत्त्वचर्येति। य एवं चरति, स चरति प्रज्ञापारमितायाम्॥

न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो रूपारम्बणे चरंश्चरति प्रज्ञापारमितायाम्, न वेदनासंज्ञासंस्कारविज्ञानारम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तेन विविक्तानि विज्ञातानि। यश्च विवेकः, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चक्षुरारम्बणे चरंश्चरति प्रज्ञापारमितायाम्, न श्रोत्रघ्राणजिह्वाकायमनआरम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतो? सर्वारम्बणानि हि तेन अभूतानि ज्ञातानि। यश्च सर्वारम्बणानि अभूतानीति जानाति, नासौ क्वचिच्चरति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो रूपशब्दगन्धरसस्प्रष्टव्यधर्मारम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तेन विपर्याससमुत्थितानि ज्ञातानि। यश्च विपर्यासः, सोऽभूतः परिज्ञातः। येन विपर्यासः अभूतः परिज्ञातः, स न कस्मिंश्चिदारम्बणे चरति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो नामरूपारम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तेन अनारम्बणानीत्यनुबुद्धानि। येन च सर्वारम्बणानि अनारम्बणानीत्यनुबुद्धानि, स न क्वचिदारम्बणे चरति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधि(सत्त्वा महासत्त्वाः) सत्त्वारम्बणे (च आत्मारम्बणे) च चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञाता हि तैः सत्त्वसंज्ञा च आत्मसंज्ञा च-अभूतैषा सत्त्वसंज्ञा च आत्मसंज्ञा चेति। यैश्च अभूता सत्त्वसंज्ञा च आत्मसंज्ञा च ज्ञाता, न ते कस्यांचिच्चर्यायां चरन्ति। ये न कस्याचिच्चर्यायां चरन्ति, तेन च चर्या अपगता। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। ये न सुविक्रान्तविक्रामिन् बोधिसत्त्वा जीवसंज्ञायां वा पोषपुरुषपुद्गलमनुजमानवोत्थापकसमुत्थापककारककारयितृवेदकवेदयितृसंज्ञायां ज्ञातृज्ञापकसंज्ञायां चरन्तः प्रज्ञापारमितायां चरन्ति। तत्कस्माद्धेतोः ? विभाविता हि तैः सर्वसंज्ञाः। यैश्च विभाविताः सर्वसंज्ञाः, न ते भूयः कस्यांचित्संज्ञायां चरन्ति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा विपर्यासैर्वा दृष्टिगतैर्वा नीवरणैर्वा चरन्तश्चरन्ति प्रज्ञापारमितायाम्। नापि विपर्यासदृष्टिगतनीवरणारम्बणेषु चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातानि हि तैर्विपर्यासदृष्टिगतनीवरणारम्बणानि। या च परिज्ञा, सा अचर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः प्रतीत्यसमुत्पादारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातो हि तैः प्रतीत्यसमुत्पादः, परिज्ञातं प्रतीत्यसमुत्पादस्यारम्बणम्। या च परिज्ञा प्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादारम्बणस्य च, तत्र न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः कामधात्वारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। न रूपारूप्यधात्वारम्बणे वा चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः कामधातुरूपधात्वारूप्यधात्वारम्बणानि। या च कामधातुरूपधात्वारूप्यधात्वारम्बणविभावना, न तस्याः काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा दानमात्सर्यशीलदौःशील्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्य हेतोः ? परिज्ञातं हि तैर्दानमात्सर्यशीलदौःशील्यारम्बणम्। या च परिज्ञा दानमात्सर्यशीलदौःशील्यारम्बणस्य, तस्यां न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातानि हि तैः सर्वारम्बणानि। या च परिज्ञा सर्वारम्बणानाम्, तत्र न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा अविपर्याससम्यक्प्रहाणस्मृत्युपस्थानाप्रमाणारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तैर्वशिकानि ज्ञातानि। या च वशिका आरम्बणपरिज्ञा, तस्या न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा इन्द्रियबलबोध्यङ्गध्यानसमाधिसमापत्त्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैरिन्द्रियबलबोध्यङ्गध्यानसमाधिसमापत्त्यारम्बणानि। या च विभावना, तस्या न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा दुःखसमुदयनिरोधमार्गारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैर्दुःखसमुदयनिरोधमार्गारम्बणानि। या च विभावना, न तस्यां काचिद्भावना, न च तस्यां भूयः काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा विद्याविमुक्त्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितं हि तैर्विद्याविमुक्त्यारम्बणम्। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा अनुत्पादारम्बणे वा क्षयारम्बणे वा अनभिसंस्कारारम्बणे वा चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितं हि तैरनुत्पादक्षयानभिसंस्कारारम्बणम्। या च विभावना, न तत्र काचिद्भूयश्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः पृथिव्यप्तेजोवाय्वाकाशारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः पृथिव्यप्तेजोवाय्वाकाशारम्बणानि। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः श्रावकप्रत्येकबुद्धभूम्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः श्रावकप्रत्येकबुद्धभूम्यारम्बणानि। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः श्रावकप्रत्येकबुद्धधर्मारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः श्रावकप्रत्येकबुद्धधर्मारम्बणानि। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् निर्वाणारम्बणे बोधिसत्त्वाश्चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातं हि तैर्भवति निर्वाणारम्बणम्। या च परिज्ञा, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा लक्षणपरिशुद्ध्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्, न बुद्धक्षेत्रपरिशुद्ध्यारम्बणे चरन्तः, न श्रावकसंपदारम्बणे चरन्तः, न बोधिसत्त्वसंपदारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैर्लक्षणपरिशुद्ध्यारम्बणम्, बुद्धक्षेत्रपरिशुद्ध्यारम्बणम्, श्रावकसंपदारम्बणम्, बोधिसत्त्वसंपदारम्बणम्। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। एवं चरन्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वाश्चरन्ति प्रज्ञापारमितायाम्। इयं बोधिसत्त्वस्य प्रज्ञापारमितायां चरतः सर्वारम्बणपरि(ज्ञा)चर्या, सर्वारम्बणविभावनाचर्या यदुत प्रज्ञापारमिताचर्या॥

एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो रूपारम्बणपरिशुद्धावपि न चरति। एवं वेदनासंज्ञासंस्कारविज्ञानारम्बणपरिशुद्धावपि न चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन रूपारम्बणं परिज्ञातम्। एवं वेदनासंज्ञासंस्कारविज्ञानारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न चक्षुरारम्बणविशुद्धौ चरति, न श्रोत्रघ्राणजिह्वाकायमनआरम्बणविशुद्धौ चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन यावन्मनआरम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपशब्दगन्धरसस्प्रष्टव्यधर्मारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन यावद्धर्मारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न नामरूपारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन नामरूपारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नात्मसत्त्वारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? परिज्ञाता हि तेन आत्मसत्त्वारम्बणप्रकृतिपरिज्ञा। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न जीवभवपुद्गलकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयितृद्रष्ट्रारम्बणपरिशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन जीवभवपुद्गलकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयितृद्रष्ट्रारम्बणं परिज्ञातम्। या एवं चर्या, बोधिसत्त्वस्येयं प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न विपर्यासदृष्टिगतारम्बणपरिशुद्धावपि चरति। तत्कस्य हेतोः ? प्रकृतिपरिशुद्धं हि तेन विपर्यासदृष्टिगतारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न नीवरणारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि नीवरणारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न प्रतीत्यसमुत्पादारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन प्रतीत्यसमुत्पादारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कामधातुरूपधात्वारूप्यधात्वारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन कामधातुरूपधात्वारूप्यधात्वारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न दानमात्सर्यशीलदौःशील्यारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन दानमात्सर्यशीलदौःशील्यारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नातीतानागतप्रत्युत्पन्नारम्बणविशुद्धपि चरति। तत्कस्माद्धेतोः? प्रकृतिपरिशुद्धानि हि तेन अतीतानागतप्रत्युत्पन्नारम्बणानि परिज्ञातानि। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नासङ्गावरणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन असङ्गारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नाभिज्ञारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेनाभिज्ञारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न सर्वज्ञतारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन सर्वज्ञतारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्, यन्न कस्यांचिदारम्बणविशुद्धौ चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धत्वात्सर्वारम्बणानाम्। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य सर्वारम्बणप्रकृतिपरिशुद्धिः प्रज्ञापारमितायां चरतः॥

एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः इदं रूपमिति न समनुपश्यति, अनेन रूपमिति न समनुपश्यति, अस्य रूपमिति न समनुपश्यति, अस्माद्रूपमिति न समनुपश्यति। स एवं रूपमसमनुपश्यन् न रूपमुत्क्षिपति न निक्षिपति, न रूपमुत्पादयति न निरोधयति, न रूपे चरति न विचरति, न रूपारम्बणे चरति न विचरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्। एवमिमे वेदनासंज्ञासंस्काराः, इदं विज्ञानमिति न समनुपश्यति, अनेन विज्ञानमिति न समनुपश्यति, अस्य विज्ञानमिति न समनुपश्यति, अस्माद्विज्ञानमिति न समनुपश्यति। स एवं विज्ञानमसमनुपश्यन् न विज्ञानमुत्क्षिपति न निक्षिपति, न विज्ञानमुत्पादयति न निरोधयति, न विज्ञाने चरति न विचरति, न विज्ञानारम्बणे चरति न विचरति। एवं सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्॥

पुनरपरं सुविक्रान्तविक्रामिन् एवं चरन् बोधिसत्त्वो न रूपमतीतमिति चरति, न रूपमनागतमिति चरति, न रूपं प्रत्युत्पन्नमिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानमतीतमिति चरति, न अनागतम्, न प्रत्युत्पन्नम्॥

न रूपमात्मेति चरति, न रूपमात्मीयमिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानमात्मेति चरति, न विज्ञानमात्मीयमिति चरति। न रूपं दुःखमिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानं दुःखमिति चरति। न रूपं मम नान्येषामिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानं मम नान्येषामिति चरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपसमुदये चरति, न रूपनिरोधे चरति, न रूपं गम्भीरमिति चरति, न रूपमुत्तानमिति चरति, न रूपं शून्यमिति चरति, न रूपमशून्यमिति चरति, न रूपं निमित्तमिति चरति, न रूपमनिमित्तमिति चरति, न रूपं प्रणिहितमिति चरति, रूपमप्रणिहितमिति चरति, न रूपमभिसंस्कारमिति चरति, न रूपमनभिसस्ंकारमिति चरति। एवं वेदनासंज्ञासंस्काराः। न विज्ञानसमुदये चरति, न विज्ञाननिरोधे चरति, न विज्ञानं गम्भीरमिति चरति, न विज्ञानमुत्तानमिति चरति, न विज्ञानं शून्यमिति चरति, न विज्ञानमशून्यमिति चरति, न विज्ञानं निमित्तमिति चरति, न विज्ञानमनिमित्तमिति चरति, न विज्ञानं प्रणिहितमिति चरति, न विज्ञानप्रणिहितमिति चरति, न विज्ञानमभिसंस्कारमिति चरति, न विज्ञानमभिसंस्कारमिति चरति। तत्कस्माद्धेतोः? सर्वाण्येतानि सुविक्रान्तविक्रामिन् मन्यितानि स्पन्दितानि प्रपञ्चितानि तृष्णागतानि। अहं चरामीति स्पन्दितमेतत्, इह चरामीति प्रपञ्चितमेतत्, अनेन चरामीति तृष्णागतमेतत्, अस्मिंश्चरामीति मन्यितमेतत्। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वाः सर्वाण्येतानि मन्यितस्पन्दितप्रपञ्चितानि तृष्णागतानि ज्ञात्वा सर्वाज्ञानसमुद्धातान् न कंचिद्धर्मं मन्यन्ते, अमन्यमाना न क्वचिच्चरन्ति, न क्वचिदालीयन्ते। ते अनालया असंयोगा अविसंयोगा न क्वचिदुत्थापयन्ति, न समुत्थापयन्ति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वमन्यनासमुद्धातः प्रज्ञापारमितायां चरतः॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं प्रज्ञापारमितायं चरन् न रूपं नित्यं नानित्यमिति चरति, न रूपं शून्यं नाशून्यमिति चरति, न रूपं मायोपममिति चरति, न रूपं स्वप्नोपममिति चरति, न रूपं प्रतिभासोपममिति चरति, न रूपं प्रतिश्रुत्कोपममिति चरति। एवं वेदना संज्ञा संस्काराः। न विज्ञानं नित्यं नानित्यमिति चरति, न विज्ञानं शून्यं नाशून्यमिति चरति, न विज्ञानं मायोपममिति चरति, न विज्ञानं स्वप्नोपममिति चरति, न विज्ञानं प्रतिभासोपममिति चरति, न विज्ञानं प्रतिश्रुत्कोपममिति चरति। तत्कस्य हेतोः ? सर्वाण्येतानि सुविक्रान्तविक्रामिन् वितर्कितानि विचरितानि चरितविचरितानि। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः एतानि सर्वाणि वितर्कितानि विचरितानि चरितविचरितानि ज्ञात्वा सर्वचर्यासमुद्धाताय सर्वचर्यापरिज्ञायै प्रज्ञापारमितायां चरति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वचर्यानिर्देशः॥

एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो भगवन्तोमेतदवोचत्-अचिन्त्येयं भगवन् बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। भगवानाह-एवमेतत् सुविक्रान्तविक्रामिन्। रूपाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं वेदनासंज्ञासंस्कारविज्ञानाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। नामरूपाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। प्रतीत्यसमुत्पादाचिन्त्यतया संक्लेशाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। कर्मविपाकाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। साराचिन्त्यतया अचिन्त्येयं बोधि(सत्त्व)स्य प्रज्ञापारमिताचर्या। विपर्यासाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या, दृष्टिगताचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। कामधात्वचिन्त्यतया, रूपधात्वचिन्त्यतया, आरूप्यधात्वचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। आत्माचिन्त्यतया, सत्त्वाचिन्त्यतया, दानाचिन्त्यतया, मात्सर्याचिन्त्यतया, शीलाचिन्त्यतया, दौःशील्याचिन्त्यतया, क्षान्त्यचिन्त्यतया, व्यापादाचिन्त्यतया, वीर्याचिन्त्यतया, कौसीद्याचिन्त्यतया, ध्यानाचिन्त्यतया विक्षेपाचिन्त्यतया, प्रज्ञाचिन्त्यतया, दौष्प्रज्ञ्याचिन्त्यतया अचिन्त्या बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। रागद्वेषमोहाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। स्मृत्युपस्थानाचिन्त्यतया सम्यक्प्रहाणाविपर्यासर्द्धिपादाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। इन्द्रियबलबोध्यङ्गसमाधिसमापत्त्यचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। गत्यचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। दुःखसमुदयनिरोधमार्गाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। विद्याविमुक्त्यचिन्त्यतया, क्षयज्ञानानुत्पादज्ञानाभिसंस्कारज्ञानाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। श्रावकभूमिप्रत्येकबुद्धभूम्यचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। श्रावकप्रत्येकबुद्धधर्माचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। अभिज्ञाचिन्त्यतया, अतीतानागतप्रत्युत्पन्नज्ञानाचिन्त्यतया अचिन्त्या बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। असङ्गज्ञानाचिन्त्यतया, निर्वाणाचिन्त्यतया, बुद्धधर्माचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताचर्या चित्तजनिका, तेनोच्यते अचिन्त्येति॥

चित्तस्योत्पाद इति सुविक्रान्तविक्रामिन् विपर्यास एषः। चित्तं चित्तजमिति सुविक्रान्तविक्रामिंश्चेतसः प्रतिषेध एषः। न हि सुविक्रान्तविक्रामिन् या चित्तस्य प्रकृतिः सा उत्पद्यते जा जायते वा। विपर्याससंप्रयुक्तं सुविक्रान्तविक्रामिंश्चित्तमुत्पद्यते। तत्र चित्तमपि विवृतम्, येन विपर्यासेनोत्पद्यते तदति विवृतम्। न पुनः सुविक्रान्तविक्रामिन् बालपृथग्जना जानन्ति विवृतं चित्तमिति। यत्राप्युत्पद्येत तदपि विवृतम्, येनाप्युत्पद्येत तदपि विवृतमिति। ते चित्तविवेकमजानन्तः, आरम्बणविवेकमजानन्तः अभिनिविशन्ते - अहं चित्तम्, मम चित्तम्, अस्य चित्तम्, अस्माच्चित्तमिति। ते चित्तमभिनिविश्य कुशलमिति वा अभिनिविशन्ते, अकुशलमिति वा अभिनिविशन्ते। सुखमिति वा अभिनिविशन्ते, दुःखमिति वा अभिनिविशन्ते। उच्छेद इत्यभिनिविशन्ते, शाश्चत इत्यभिनिविशन्ते, दृष्टिगत इत्यभिनिविशन्ते, नीवरण इत्यभिनिविनिशन्ते। दानमात्सर्यशीलदौःशील्यमित्यभिनिविशन्ते। धर्मधातुकामधातुरूपधात्वारूप्यधातुमित्यभिनिविनिशन्ते, प्रतीत्यसमुत्पादमित्यभिनिविशन्ते, नामरूपमित्यभिनिविशन्ते, रागद्वेषमोहमित्यभिनिविशन्ते। ईर्ष्यामात्सर्यमित्यभिनिविशन्ते। अस्मिमानमित्यभिनिविशन्ते। दुःखमित्यभिनिविशन्ते। समुदयमित्यभिनिविशन्ते। निरोधमित्यभिनिविशन्ते। मार्गमित्यभिनिविशन्ते। स्मृत्युपस्थानमित्यभिनिविशन्ते। सम्यक्प्रहाणाविपर्यासर्द्धिपादेन्द्रियबलबोध्यङ्गानीत्यभिनिविशन्ते। ध्यानविमोक्षसमाधिसमापत्तीनप्यभिनिविशन्ते। अनुत्पादक्षयानभिसंस्कारमित्यभिनिविशन्ते। श्रावकप्रत्येकबुद्धभूमिमभिनिविशन्ते। श्रावकप्रत्येकबुद्धधर्मानप्यभिनिविशन्ते। मार्गमित्यभिनिविशन्ते। अभिज्ञामप्यभिनिविशन्ते। निर्वाणमप्यभिनिविशन्ते। बुद्धज्ञानमप्यभिनिविशन्ते। लक्षणान्यप्यभिनिविशन्ते। प्रत्येकबुद्धसंपदमप्यभिनिविशन्ते। बोधिसत्त्वसंपदमप्यभिनिविशन्ते॥

तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः इमानेवंरूपानभिनिवेशान् सत्त्वानां विपर्यासचित्तजान् समनुपश्यन् न क्वचिद्विपर्यासे चित्तमुत्पादयति। तत्कस्माद्धेतोः ? चित्तापगता हि प्रज्ञापारमिता। या च चित्तस्य प्रकृतिप्रभास्वरता प्रकृतिपरिशुद्धता, तत्र न काचिच्चित्तस्योत्पत्तिः। आरम्बणे सति सुविक्रान्तविक्रामिन् बालपृथग्जनाश्चित्तमुत्पादयन्ति। तत्र बोधिसत्त्वोऽप्यारम्बणं प्रजानन्नपि चित्तस्योत्पत्तिं प्रजानाति - कुतश्चित्तमुत्पद्यते ? स एवं प्रत्यवेक्षते-प्रकृतिप्रभास्वरमिदं चित्तम्। तस्यैवं भवति-आरम्बणं प्रतीत्य चित्तमुत्पद्यते इति। स आरम्बणं परिज्ञाय न चित्तमुत्पादयति नापि निरोधयति। तस्य तच्चित्तं प्रभास्वरं भवति असंक्लिष्टं कमनीयं परिशुद्धम्। स चित्तानुत्पादस्थितो न कंचिद्धर्ममुत्पादयति न निरोधयति। इयं सुविक्रान्तविक्रामिन् चित्तानुत्पादपरिज्ञा प्रज्ञापारमितायां चरतः। य एवं चरति बोधिसत्त्वः, स प्रज्ञापारमितायां चरति। तस्यैवं चरतो नैवं भवति-अहं चरामि प्रज्ञापारमितायाम्, अस्यां चरामि प्रज्ञापारमितायाम्, अनेन चरामि प्रज्ञापारमितायाम्, अस्माच्चरामि प्रज्ञापारमितायामिति। सचेत्पुनः संजानीते-इयं प्रज्ञापारमिता, अनेन प्रज्ञापारमिता, अस्य वा प्रज्ञापारमितेति, न चरति प्रज्ञापारमितायाम्। अथ तामपि प्रज्ञापारमितां न समनुपश्यति नोपलभते-अहं चरामि प्रज्ञापारमितायामिति न चरति, चरति प्रज्ञापारमितायाम्॥

एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-अनुत्तरेयं चर्या भगवन् बोधिसत्त्वस्य यदुत प्रज्ञापारमिताचर्या। प्रभास्वरेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या। निरुत्तरेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या। अत्यद्भुतेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या। अनवक्रान्तेयं भगवन् बोधिसत्त्वस्य चर्या मारेण वा मारपर्षद्भिर्वा अन्यैर्वा पुनः कैश्चिन्निमित्तचरितैरुपलम्भचरितैरात्मदृष्टिभिः सत्त्वदृष्टिभिर्जीवदृष्टिभिः पुद्गलदृष्टिभिर्भवदृष्टिभिर्विभवदृष्टिभिरुच्छेददृष्टिभिः शाश्चतदृष्टिभिः सत्कायदृष्टिभिः स्कन्धदृष्टिभिर्धातुदृष्टिभिरायतनदृष्टिभिर्बुद्धदृष्टिभिर्धर्मदृष्टिभिः संघदृष्टिभिर्निर्वाणदृष्टिभिः प्राप्तसंप्रज्ञैर्वा अधिमानिकैर्वा रागद्वेषमोहचरितैर्वा विपर्यासचरितैर्वा उत्पथोन्मार्गप्रस्थितैर्वा अनाक्रमणीया। सर्वलोकाभ्युदयचर्येयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या॥

एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-एवमेतत् सुविक्रान्तविक्रामिन्, एवमेतत्। अनवक्रान्तचर्येयं बोधिसत्त्वस्य मारेण वा मारकायिकैर्वा देवपुत्रैर्मारपर्षदा वा, अन्तशो निर्वाणदृष्टिकैरपि निर्वाणाभिनिविष्टैर्वा अनाक्रमणीया सर्वबालपृथग्जनैर्वा। या बोधिसत्त्वानामियं सुविक्रान्तविक्रामिंश्चर्या, नेयं चर्या बालपृथग्जनानाम्। नापीयं चर्या शैक्षाशैक्षाणां श्रावकयानीयानाम्, नापि प्रत्येकबुद्धयानीयानाम्। सचेत् सुविक्रान्तविक्रामिन् इयं चर्या श्रावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा अभविष्यत्, न तेषां कश्चिद्व्यवहारोऽभविष्यत्-श्रावकयानीया वा प्रत्येकबुद्धयानीया वेति। बोधिसत्त्वा एवाभविष्यन्, तेऽपि तथागता वा चतुर्वैशारद्यप्राप्ता अभविष्यन्। यस्मात्तर्हि सुविक्रान्तविक्रामिन् न श्रावकयानीयानां व प्रत्येकबुद्धयानीयानामियं चर्या, तस्मात्ते न बोधिसत्त्वा इति संख्यां गच्छन्ति, न च तथागता भवन्ति चतुर्वैशारद्यप्राप्ताः। वैशारद्यभूमिरियं सुविक्रान्तविक्रामिन् धर्मे, नेयं प्रज्ञापारमिताचर्या। एवं चरन्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वाः क्षिप्रं चतुर्वैशारद्यतामनुप्राप्नुवन्ति, अनभिसंबुद्धा एव यावदनुत्तरां सम्यक्संबोधिं प्रणिधानवशेन च बुद्धानां च भगवतामधिष्ठानवशेन। न हि सुविक्रान्तविक्रामिन् श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा चतुर्वैशारद्यं भवति, नापि तथागतस्तेषां चतुर्वैशारद्यमधितिष्ठति। बोधिसत्त्वभूमिरेषा सुविक्रान्तविक्रामिन् यस्यां चतुर्वैशारद्यमनुप्राप्यते प्रणिधानवशेन। तत्कस्माद्धेतोः ? प्रज्ञापारमितायां सुविक्रान्तविक्रामिंश्चरन्तो बोधिसत्त्वाः चतस्रः प्रतिसंविदोऽनुप्राप्नुवन्ति। कतमाश्चतस्रः ? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम्। आभिश्चतसृभिः प्रतिसंविद्भिः समन्वागता अनभिसंबुद्धा एव प्रणिधानवशेन वैशारद्यानि प्रतिगृह्णन्ति। तथागता अपि तान् कुशलमूलसमन्वागतानिति विदित्वा प्रज्ञापारमिताभूम्यनुप्राप्तानिति विदित्वा अधितिष्ठन्ति चतुर्वैशारद्येन। तस्मात्तर्हि सुविक्रान्तविक्रामिन् बोधिसत्त्वेन चतस्रः प्रतिसंविदोऽनुप्राप्तुकामेन क्षिप्रं चतुर्वैशारद्यकुशलेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं चरितव्यम्॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माणां हेतुं च समुदयं च अस्तंगमं च निरोधं च प्रविध्यति न कंचिद्धर्मम्, यत्प्रज्ञापारमितायां न योजयति। सर्वधर्माणां हेतुसमुदयनिरोधमार्गलक्षणं प्रजानाति। तेषां हेतुसमुदयनिरोधमार्गलक्षणं प्रजानन् न रूपं प्रभावयति न विभावयति। एवं वेदनासंज्ञासंस्कारान्। न विज्ञानं भावयति न विभावयति। न नामरूपं भावयति न विभावयति। न संक्लेशव्यवदानं भावयति न विभावयति। न विपर्यासदृष्टिगतनीवरणानि भावयति न विभावयति। न रागद्वेषमोहान् भावयति न विभावयति। न कामधातुं न रूपधातुं नारूप्यधातुं भावयति न विभावयति। न सत्त्वधातुं नात्मधातुं भावयति न विभावयति। नोच्छेददृष्टिं न शाश्वतदृष्टिं भावयति न विभावयति। न दानमात्सर्यं भावयति न विभावयति। न शीलदौःशील्यं भावयति न विभावयति। न क्षान्तिव्यापादं भावयति न विभावयति। व वीर्यकौसीद्यं न ध्यानविक्षेपं न प्रज्ञादौष्प्रज्ञ्यं भावयति न विभावयति। न स्मृत्युपस्थानसम्यक्प्रहाणाविपर्यासर्द्धिपादाप्रमाणानि भावयति न विभावयति। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीर्भावयति न विभावयति। न प्रतीत्यसमुत्पादं भावयति न विभावयति। न दुःखसमुदयनिरोधमार्गान् भावयति न विभावयति। नानुत्पादज्ञानं न क्षयज्ञानं नाभिसंस्कारज्ञानं भावयति न विभावयति। न पृथग्जनभूमिं भावयति न विभावयति। न श्रावकभूमिं न प्रत्येकबुद्धभूमिं भावयति न विभावयति। न पृथग्जनधर्मान् न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् (न बोधिसत्त्वधर्मबुद्धधर्मान्) भावयति न विभावयति। न शमथं न विदर्शनां भावयति न विभावयति। न निर्वाणं भावयति न विभावयति। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनं भावयति न विभावयति। न सङ्गतां भावयति न विभावयति। नासङ्गतां भावयति न विभावयति। न बुद्धज्ञानं भावयति न विभावयति। न बुद्धवैशारद्यानि भावयति न विभावयति। तत्कस्माद्धेतोः ? अभाव्यानि हि सुविक्रान्तविक्रामिन् रूपवेदनासज्ञासंस्कारविज्ञानानि। अभाव्यानि नामरूपविपर्यासदृष्टिगतस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासाप्रमाणेन्द्रियबलबोध्यङ्गसमाधिसमापत्त्यभिज्ञाक्षयज्ञानाभिसंस्कारज्ञानानि। अभाव्या पृथग्जनभूमिः, अभाव्याः श्रावकप्रत्येकबुद्धबोधिसत्त्वभूमयः, अभाव्याः पृथग्जनश्रावकप्रत्येकबुद्धधर्माः, अभाव्यं निर्वाणम्, अभाव्यमतीतानागतप्रत्युत्पन्नज्ञानदर्शनम्, अभाव्यमसङ्गज्ञानदर्शनम्, अभाव्यमनासङ्गज्ञानदर्शनम्, अभाव्यं सम्यक्संबुद्धज्ञानम्। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् काचिदस्ति भावपरिनिष्पत्तिः। अभूता ह्येते सर्व एव व्यवहाराः। नात्र कश्चित्स्वभावः। अभावस्वभावा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, अभूता असंभूताः। तत्कस्माद्धेतोः ? यो हि विपर्यासः सोऽभूतः। विपर्याससमुत्थिताः सर्वधर्माः। यो हि विपर्यासः, सोऽभावः। भावापगता हि सुविक्रान्तविक्रामिन् सर्वधर्माः। भावो नोपलभ्यतेऽस्वभावत्वात्। अभाव इति सुविक्रान्तविक्रामिन् अभूतः। सोऽसंभूतः, तेनोच्यते अभाव इति। असत्परिदीपनैषा सुविक्रान्तविक्रामिन् अभाव इति। यश्च अभाव, तत्र न भावना न विभावना। विपर्याससमुत्थिततया हि सुविक्रान्तविक्रामिन् सत्त्वा भावयन्ति च विभावयन्ति च। न तत्र किंचिद्भाव्यम्। तत्कस्माद्धेतोः ? अभावस्वभावा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, भावापगता वस्त्वसत्त्वात्। न तत्र किंचिद्भाव्यम्। यस्मिन् समये सुविक्रान्तविक्रामिन् बोधिसत्त्व एवं धर्मेषु धर्मानुदर्शी विहरन् प्रज्ञापारमितायां चरन् न कंचिद्धर्मं भावयति न विभावयति, इयमुच्यते प्रज्ञापारमिताभावनेति। एवं चरत एवं विहरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न रूपसंप्रयोगनिमित्तं चित्तमुत्पद्यते। न वेदना, न संज्ञा, न संस्कारः। न विज्ञानसंप्रयोगनिमित्तं चित्तमुत्पद्यते। न खिलसहगतं चित्तमुत्पद्यते। न व्यापादसहगतं चित्तमुत्पद्यते। न मात्सर्यसहगतं चित्तमुत्पद्यते। न संक्लेशसहगतं चित्तमुत्पद्यते। न कौसीद्यसहगतं चित्तमुत्पद्यते। न विक्षेपसहगतं चित्तमुत्पद्यते। न दौष्प्रज्ञ्यसहगतं चित्तमुत्पद्यते। न कामसहगतं चित्तमुत्पद्यते। न रूपारम्बणाभिनिवेशसहगतं चित्तमुत्पद्यते। नाभिध्यासहगतं चित्तमुत्पद्यते। न पैशुन्यसहगतं चित्तमुत्पद्यते। न मिथ्यादृष्टिसहगतं चित्तमुत्पद्यते। न भोगाभिनिवेशसहगतं चित्तमुत्पद्यते। नैश्वर्याभिष्वङ्गसहगतं चित्तमुत्पद्यते। न महाकुलोपपत्त्यभिष्वङ्गसहगतं चित्तमुत्पद्यते। न देवोपपत्त्यभिष्वङ्गसहगतं चित्तमुत्पद्यते। न कामधात्वभिष्वङ्गसहगतं चित्तमुत्पद्यते। न रूपारूप्यधात्वभिष्वङ्गसहगतं चित्तमुत्पद्यते। न श्रावकभूमौ चित्तमुत्पद्यते। न प्रत्येकबुद्धभूमौ चित्तमुत्पद्यते। न बोधिसत्त्वचर्याभिनिवेशाभिष्वङ्गसहगतं चित्तमुत्पद्यते। नान्तशो नीवरणदृष्टिसहगतमपि चित्तमुत्पद्यते। सोऽनया चित्तविशुद्ध्या समन्वागतः सत्त्वान् मैत्र्या स्फरति करुणया मुदितयोपेक्षया। सत्त्वसंज्ञा चानेन विभाविता भवति, न च सत्त्वसंज्ञायां तिष्ठति, न चैनांश्चतुरो ब्राह्म्यान् विहारानभिनिविशते, प्राज्ञश्च भवत्युपायकौशल्यसमन्वागतः। तस्यैभिर्धर्मैः समन्वागतस्य प्रज्ञापारमितायां चरतः क्षिप्रं प्रज्ञापारमिताभावना परिपूरिं गच्छति। स एवं प्रज्ञापारमितां भावयन् न रूपमुपैति, नोपादत्ते। न वेदनां न संज्ञां न संस्कारान्। न विज्ञानमुपैति, नोपादत्ते। न विपर्यासनीवरणदृष्टिगतान्युपैति, नोपादत्ते। न कामधातुं न रूपधातुं नारूप्यधातुमुपैति, नोपादत्ते। नोच्छेदशाश्वतमुपैती, नोपादत्ते। न प्रतीत्यसमुत्पादमुपैति, नोपादत्ते। न पृथिव्यप्तेजोवायुधातुमुपैति, नोपादत्ते। न रागद्वेषमोहानुपैति, नोपादत्ते। ना दानमात्सर्यशीलदौःशील्यमुपैति, नोपादत्ते। न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यमुपैति, नोपादत्ते। न स्मृत्युपस्थानसम्यक्प्रहाणाविपर्यासाप्रमाणर्द्धिपादानुपैति, नोपादत्ते। नेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमापत्तीरुपैति, नोपादत्ते। नाभिज्ञामुपैति, नोपादत्ते। न दुःखसमुदयनिरोधमार्गानुपैति, नोपादत्ते। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानान्युपैति, नोपादत्ते। नात्मधातुं न सत्त्वधातुं न धर्मधातुमुपैति नोपादत्ते। न पृथग्जनश्रावकप्रत्येकबुद्धसम्यक्संबुद्धभूमिमुपैति, नोपादत्ते। न पृथग्जनधर्मान्, न श्रावकधर्मान् न प्रत्येकबुद्धधर्मानुपैति, नोपादत्ते। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनमुपैति, नोपादत्ते। नासङ्गज्ञानदर्शनमुपैति, नोपादत्ते। न बुद्धज्ञानबलवैशारद्यान्युपैति, नोपादत्ते। न नीवरणान्युपैति, नोपादत्ते। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् अनुपगता अनुपादत्ताः, न केनचिदुपगताः। न हि सुविक्रान्तविक्रामिन् कश्चिद्धर्म उपादातव्यो नापि केनचिदुपादत्तः। तत्कस्माद्धेतोः ? नात्र किंचिदुपादातव्यं नोपादानीयं वा। तत्कस्माद्धेतोः ? असारका हि सुविक्रान्तविक्रामिन् सर्वधर्मा मायोपमतया। वशिता हि सर्वधर्माः सारानुपलब्धितः। प्रतिभाससमा हि सर्वधर्मा अग्राह्यतामुपादाय। रिक्तका हि सर्वधर्माः स्वभावासत्त्वात्। फेनपिण्डोपमा हि सर्वधर्मा अविमर्दनक्षमत्वात्। बुद्बुदोपमा हि सर्वधर्मा उत्पन्नभङ्गविलीनतामुपादाय। मरीच्युपमा हि सर्वधर्मा विपर्याससमुत्थानतामुपादाय। कदलीगर्भोपमा हि सर्वधर्माः सारासत्तामुपादाय। उदकचन्द्रसदृशा हि सर्वधर्मा अग्राह्यतामुपादाय इन्द्रायुधरङ्गसदृशा हि सर्वधर्मा असत्परिकल्पनतामुपादाय। निरीहका हि सर्वधर्मा असमुत्थापनतामुपादाय। रिक्तमुष्टिसमा हि सर्वधर्मा वशिकस्वभावलक्षणतया। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं सर्वधर्मान् समनुपश्यन् न कंचिद्धर्ममुपैति नोपादत्ते, नाधितिष्ठति, नाध्यवसाय तिष्ठति। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मश्रद्दधानता अनधिष्ठानता अनध्यवसानता अनभिष्वङ्गता प्रज्ञापारमितायां चरतः। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति॥

पुनरपरं सुविक्रान्तविक्रामिन् एवं शिक्षमाणो बोधिसत्त्वो न रूपे शिक्षते, न रूपसमतिक्रमाय शिक्षते। न वेदनायां न संज्ञायां न संस्कारेषु। न विज्ञाने शिक्षते न विज्ञानसमतिक्रमाय शिक्षते। न रूपोत्पत्तौ शिक्षते, न रूपनिरोधे शिक्षते। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानोत्पत्तौ शिक्षते, न विज्ञाननिरोधे शिक्षते। न रूपविनयाय शिक्षते नाविनयाय। एवं न वेदनासंज्ञासंस्कारविज्ञानविनयाय शिक्षते नाविनयाय। न रूपस्य संक्रान्तये शिक्षते नावक्रान्तये। न स्थितये शिक्षते नास्थितये। एवं न वेदनासंज्ञासंस्कारविज्ञानानां संक्रान्तये शिक्षते नावक्रान्तये, न स्थितये शिक्षते नास्थितये। एवं शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपनित्यतायां शिक्षते, न रूपसुखतायां शिक्षते, न रूपदुःखतायां शिक्षते न रूपशुभतायाम्, न रूपानात्मतायां शिक्षते। न वेदनासंज्ञासंस्काराः, न विज्ञाननित्यतायां शिक्षते, न विज्ञानसुखतायां शिक्षते, न विज्ञानदुःखतायाम्, न विज्ञानशुभतायां न विज्ञानात्मतायां शिक्षते। एवं शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपातीतारम्बणे चरति, रूपानागतारम्बणे चरति, न रूपप्रत्युत्पन्नारम्बणे चरति। न वेदना, न संज्ञा, न संस्काराः। न विज्ञानातीतारम्बणे चरति, नानागतारम्बणे चरति, न प्रत्युत्पन्नारम्बणे चरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽतीतं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते-यदतीतं तच्छून्यम्, एवं शान्तमनात्मेति। एवमपि [न] चरति। अनागतं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते-यदतीतं तच्छून्यं शान्तमनात्मेति। एवमपि (न) चरति। प्रत्युत्पन्नं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते-यत्प्रत्युत्पन्नं तच्छून्यं शान्तमनात्मेति। एवमपि (न) चरति। अतीतं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वा, एवमपि न चरति। अनागतं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वा, एवमपि न चरति। प्रत्युत्पन्नं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वेति, एवमपि न चरति। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य मारः पापीयानवतारं न लभते। एवं चरन् सर्वमारकर्माणि बुध्यते, न च तैर्मारकर्मभिः संह्रियते॥

पुनरपरं सुविक्रान्तविक्रामिन् एवं चरन् बोधिसत्त्वो न रूपमालम्बते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानमालम्बते। न नामरूपमालम्बते, न विपर्यासदृष्टिगतमालम्बते, नात्माभिनिवेशमालम्बते, न सत्त्वाभिनिवेशमालम्बते, नोच्छेदशाश्वतमालम्बते, नान्तं नानन्तमालम्बते। न रूपशब्दगन्धरसस्पर्शधर्मानालम्बते। न कामधातुं न रूपधातुं नारूप्यधातुमालम्बते। न प्रतीत्यसमुत्पादमालम्बते। न पृथिव्यप्तेजोवाय्वाकाशधातूनालम्बते। न सत्यं न मृषां आलम्बते। न संयोगं न विसंयोगमालम्बते। न रागद्वेषमोहानालम्बते। न रागद्वेषमोहप्रहाणमालम्बते। न दानमात्सर्यशीलदौःशील्यमालम्बते। न क्षान्तिव्यापादमालम्बते। न वीर्यकौसीद्यमालम्बते। न ध्यानविक्षेपमालम्बते। न प्रज्ञादौष्प्रज्ञ्यमालम्बते। न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासानालम्बते। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीरालम्बते। न मैत्रीकरुणामुदितोपेक्षा आलम्बते। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानान्यालम्बते। न पृथग्जनश्रावकप्रत्येकबुद्धभूमीरालम्बते। न पृथग्जनश्रावकप्रत्येकबुद्धधर्मानालम्बते। न दुःखसमुदयनिरोधमार्गानालम्बते। नाभिज्ञाज्ञानदर्शनमालम्बते। न विमुक्तिमालम्बते। न विमुक्तिज्ञानदर्शनमालम्बते। न निर्वाणमालम्बते। नातीतानागतप्रत्युत्पन्न(ज्ञानदर्शन)मालम्बते। नासङ्गज्ञानमालम्बते। न बुद्धज्ञानमालम्बते। न बुद्धबलवैशारद्यान्यालम्बते। न बुद्धक्षेत्रपरिशुद्धिमालम्बते। न लक्षणपरिशुद्धिमालम्बते। न श्रावकसंपदमालम्बते। न प्रत्येकबुद्धसंपदमालम्बते। न बोधिसत्त्वसंपदमालम्बते। तत्कस्माद्धेतोः ? निरालम्बना हि सुविक्रान्तविक्रामिन् सर्वधर्माः। न हि सर्वधर्माणां किंचिद्ग्रहणं संविद्यते यत्रैषामालम्बनं भवेत। यावत् सुविक्रान्तविक्रामिन् आलम्बनम्, तावदध्यवसानम्, तावदभिनिवेशः, तावदुपादानम्। यावदुपादानम्, यावदालम्बनम्, तावदुःखदौर्मनस्यम्, तावद्गाढाः शोकशल्योपायासपरिदेवाः संभवन्ति। यावत् सुविक्रान्तविक्रामिन् आलम्बनं तावद्बन्धनम्। यावदालम्बनं तावन्नास्ति मार्गः, तावद्दुःखदौर्मनस्यम्। यावदालम्बनं तावन्मन्यना स्पन्दना प्रपञ्चना। यावदालम्बनं तावदधिकरणविग्रहविवादाः। यावदालम्बनं तावदविद्यान्धकारमोहाः। यावदालम्बनं तावद्भयानि, तावद्भैरवाणि। यावदालम्बनं तावन्मारपाशमारविध्वंसनानि। यावदालम्बनं तावद्दुःखप्रतिपीडना सुखपर्येषणा च। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्व इमानादीनवान् संपश्यन् न कंचिद्धर्ममालम्बते। सोऽनालम्बमानो न कंचिद्धर्मं परिगृह्णाति। स नाप्युद्ग्रहाय नाग्रहाय स्थितः सर्वधर्माणां तामपि निरालम्बनवशिकतां न मन्यते। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वो न कंचिद्धर्ममभिनिविशते नाभिवदति, न कंचिद्धर्ममध्यवसाय तिष्ठति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मालम्बनविसंयोगः प्रज्ञापारमितायां चरतः। एवं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य चरतः प्रज्ञापारमिताभावना परिपूतिं गच्छति। न चास्य मारः पापीयान् अन्तरायं शक्नोति कर्तुम्, न मारकायिका देवताः, न मारपर्षत्, न माराधिष्ठिताः। न चास्य तेऽवतारं लभन्ते यत्रास्य विहेठान् कुर्युः, यत्रैनं गृहीत्वा धर्षयेयुः। नित्यं च सर्वाणि मारकर्माण्यवबुध्यन्ते। न च मारकर्मवशगो भवति। सर्वाणि च मारभवनानि ध्यामीकरोति। सर्वान्यतीर्थिकानां च निग्रहाय स्थितो भवति, सर्वाश्चान्यतीर्थिकांश्चरकपरिव्राजकानभिभवति। अनवमर्दनीयश्च भवति सर्वपरप्रवादिभिः॥

एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपकल्पनायां स्थितो भवति न रूपविकल्पनायाम्। एवं न वेदनासंज्ञासंस्कारविज्ञानकल्पनायां स्थितो भवति न विकल्पनायाम्। नापि रूपं कल्पयति न विकल्पयति। एवं न वेदनासंज्ञासंस्कारविज्ञानानि कल्पयति न विकल्पयति। न नीवरणदृष्टिगतानि कल्पयति न विकल्पयति। नोच्छेदशाश्वतं कल्पयति न विकल्पयति। न कामधातुरूपधात्वारूप्यधातून् कल्पयति न विकल्पयति। न रागद्वेषमोहान् कल्पयति न विकल्पयति। न सत्यं कल्पयति न विकल्पयति। न मृषा कल्पयति न विकल्पयति। न पृथिव्यप्तेजोवाय्वाकाशधातुं कल्पयति न विकल्पयति। न संयोगं कल्पयति न विकल्पयति। न विसंयोगं कल्पयति न विकल्पयति। न प्रतीत्यसमुत्पादं कल्पयति न विकल्पयति। नात्मसंज्ञां कल्पयति न विकल्पयति। न सत्त्वसंज्ञां कल्पयति न विकल्पयति। न जीवसंज्ञां कल्पयति न विकल्पयति। न पुद्गलसंज्ञां कल्पयति न विकल्पयति। न दानमात्सर्यशीलदौःशील्यं कल्पयति न विकल्पयति। न क्षान्तिव्यापादौ कल्पयति न विकल्पयति। न वीर्यकौसीद्यं कल्पयति न विकल्पयति। न ध्यानविक्षेपौ कल्पयति न विकल्पयति। न प्रज्ञादौष्प्रज्ञ्ये कल्पयति न विकल्पयति। नाविपर्याससम्यक्प्रहाणर्द्धिपादस्मृत्युपस्थानानि कल्पयति न विकल्पयति। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीः कल्पयति न विकल्पयति। न दुःखसमुदयनिरोधमार्गान् कल्पयति न विकल्पयति। न मैत्रीकरुणामुदितोपेक्षाः कल्पयति न विकल्पयति। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानानि कल्पयति न विकल्पयति। न पृथग्जनधर्मान् न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् न बुद्धधर्मान् कल्पयति न विकल्पयति। न पृथग्जनभूमिं न श्रावकभूमिं न प्रत्येकबुद्धभूमिं न बुद्धभूमिं कल्पयति न विकल्पयति। न नीवरणानि कल्पयति न विकल्पयति। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनं कल्पयति न विकल्पयति। नासङ्गज्ञानं कल्पयति न विकल्पयति। न विद्याविमुक्तिं कल्पयति न विकल्पयति। न मुक्तिं न विमुक्तिज्ञानदर्शनं कल्पयति न विकल्पयति। न बुद्धज्ञानवैशारद्यानि कल्पयति न विकल्पयति। न लक्षणपरिशुद्धिं कल्पयति न विकल्पयति। न बुद्धक्षेत्रपरिशुद्धिं कल्पयति न विकल्पयति। न श्रावकसंपदं कल्पयति न विकल्पयति। न प्रत्येकबुद्धसंपदं कल्पयति न विकल्पयति। न बोधिसत्त्वसंपदं कल्पयति न विकल्पयति। तत्कस्माद्धेतोः ? कल्पनायां सुविक्रान्तविक्रामिन् सत्यां विकल्पो भवति। यत्र पुनः सुविक्रान्तविक्रामिन् कल्पना नास्ति, न तत्र विकल्पना। सर्वबालपृथग्जना हि सुविक्रान्तविक्रामिन् कल्पनासमुत्थिताः। तेषां संज्ञा विकल्पसमुत्थिताः। ते कल्पयन्ति विकल्पयन्ति च। कल्पनेति सुविक्रान्तविक्रामिन् एष एकोऽन्तः, विकल्पनेति द्वितीयोऽन्तः। यत्र नास्ति कल्पो वा विकल्पो (वा), तत्र नास्ति अन्तो वा मध्यं वा। मध्यमिति सुविक्रान्तविक्रामिन् कल्पयतः स एवान्तो भवति। यावत्कल्पना, तावद्विकल्पना। नास्त्यत्र विकल्पनासमुच्छेदः। यत्र पुनः सुविक्रान्तविक्रामिन् न कल्पना न विकल्पना, तत्र कल्पसमुच्छेदः। कल्पसमुच्छेद इति सुविक्रान्तविक्रामिन् नात्र कस्यचिच्छेदः। तत्कस्माद्धेतोः ? अन्तो हि सुविक्रान्तविक्रामिन् कल्पो विकल्पो विकल्पसमुत्थितः। तेषां यो व्युपशमः, सोऽविपर्यासः। योऽविपर्यासः, न तत्र कश्चिच्छेदः। समुच्छेद इति सुविक्रान्तविक्रामिन् दुःखसमुच्छेदस्यैतदधिवचनम्। न च दुःखस्य कश्चित्समुच्छेदः। स्याद्दुःखसमुच्छेदः, यदि दुःखस्य काचित्परिनिष्पत्तिः स्यात्। अपरिनिष्पत्तिदर्शनमेतत् दुःखसमुच्छेद इति। दुःखपरिज्ञानमेतत्, यदिदं दुःखसमुच्छेद इति। यो दुःखं नैव कल्पयति न विकल्पयति, अयं दुःखव्युपशमः, अयं दुःखस्यानुत्पादोऽप्रादुर्भावः। स एवं पश्यन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कंचिद्धर्मं कल्पयति न विकल्पयति। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्व(कल्प)विकल्पपरिज्ञा प्रज्ञापारमितायां चरतः। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति। न चास्य मारः पापीयानन्तरायस्थितो भवति, न च मारपर्षत्। उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते। न चोत्पन्नोत्पन्नानां मारकर्मणां वशं गच्छति। मारस्य च पापीयसः पराजयं करोति ध्यामीकरोति च। एवमल्पपक्षीकरोति विगतभयभैरवश्च भवति। न च मारैराक्रमणीयो भवति। प्रस्रब्धानि चास्य संभवन्ति सर्वाण्यपायगमनानि। पिथिताश्च भवन्ति कुमार्गाः। सर्वौघोत्तीर्णश्च भवति, विगतमोहान्धकारश्च भवति, प्रतिलब्धचक्षुरालोकभूतश्च भवति सर्वसत्त्वानाम्, स्थितश्च भवत्युनुच्छेदाय बुद्धवंशस्य, प्रतिलब्धमार्गश्च भवति मार्गसमतायाम्, अनुकम्प(क)श्च भवति सर्वसत्त्वानाम्, विशुद्धं चक्षुर्भवति धर्मेषु, वीर्यसंपन्नश्च भवत्यकुसीदः, क्षान्तिबलप्रतिलब्धश्च भवत्यव्यापन्नचित्तः, ध्यायी च भवत्यनिश्रितध्यायी, प्रतिलब्धप्रज्ञश्च भवति निर्वेधिकप्रज्ञासमन्वागतः, विगतकौकृत्यश्च भवति अपगतनीवरणः, विसंयुक्तश्च भवति सर्वमारपाशैः, छिन्नबन्धनश्च भवति सर्वतृष्णाजालवियोगात्, उपस्थितस्मृतिश्च भवत्यसंप्रमोषधर्मतया, विशुद्धशीलश्च भवति शीलविशुद्धिपारमिताप्राप्तः, परमगुणप्रतिष्ठितश्च भवति सर्वदोषनिर्घाताय, प्रज्ञाबलाधानप्राप्तश्च भवत्यप्रकम्प्यतया, अनाक्षिप्तश्व भवति सर्वमारपरवादिभिः, अपरिहीणधर्मा च भवति सर्वधर्मविशुद्धिप्राप्ततया, विशारदश्च भवति सर्वधर्मदेशनायाम्, अमङ्कुश्च भवति पर्षदुपसंक्रमणाय, अनागृहीतश्च भवति मुक्तत्यागो धर्मदानम् (?), प्रतिविशोधितमार्गश्च भवति मार्गसमतया, विभावितभावनश्च भवति कुमार्गापरिज्ञतया, वासितवासनश्च भवति विशुद्धधर्मतया, शोधितशोधनश्च भवति विशुद्धप्रज्ञतया, गम्भीरप्रज्ञश्च भवति सागरोपमतया, दुरवगाहश्च भवति अस्तम्भिततया, अप्रमेयश्च भवति धर्मसागराप्रमेयतया। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः एभिश्चान्यैश्च गुणैः समन्वागतो भवति येषां गुणानां न पर्यन्तः शक्योऽधिगन्तुम्॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं प्रज्ञापारमितायां चरन् नेन्द्रियविकलो भवति। स न रूपविकलो भवति, न भोगविकलो भवति, न परिवारविकलो भवति, न जातिविकलो भवति, न कुलविकलो भवति, न देशविकलो भवति, न च प्रत्युन्तेषु जनपदेषूपपद्यते, न चाक्षणप्राप्तो भवति, न चापरिशुद्धैः सत्त्वैरपरिशुद्धकर्मान्तैः संसर्गजातो भवति, न च स्वचित्तं हापयति, न च प्रज्ञाया हीयते। स यान् धर्मान् परतः शृणोति, तान् सर्वधर्मसमतायां संस्यन्दयति, स्थितश्च भवति बुद्धवंशस्य सर्वज्ञतावंशस्यानुपच्छेदाय। स आलोकलब्धश्च भवति बुद्धधर्मेषु, अत्यासन्नश्च भवति सर्वज्ञतायाम्। तं सचेन्मारः पापीयान् उपसंक्रामति विहेठनार्थम्, स तन्मारपर्षदं भस्मीकरोति छिन्नप्रतिभानाम्, सर्वांश्च मारपाशांश्छिनत्ति, सर्वैर्मारकायिकैर्मारकोटिभिश्चाधृष्यो भवति। ततो मारा भीतास्त्रस्ताः पलायन्ते। एवं च मारस्य पापीयसो भवति-अतिक्रान्तविषयोऽयं मम, नायं मम भूयो विषये चरति, नायं मम भूयो विषये स्थितः, नायं मम भूयो विषयमाक्रमिष्यतीति, अन्यांश्च सत्त्वान् मम विषयान्मोचयिष्यतीति, उत्तारयिष्यतीति। तत्र मारः पापीयान् शोचति क्रन्दति परिदेवते-अल्पपक्षीकरिष्यति अयं बोधिसत्त्वो मामिति। दौर्बल्यं चास्य विशति, दुःखितश्च भवति दुर्मना विप्रतिसारी। यस्मिंश्च समये सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगमापद्यते, सर्वमारभवनानि तस्मिन् समये ध्यामीभवन्ति अल्पतेजस्कानि, माराश्च पापीयांसो दुःखिता दुर्मनसो भवन्ति शोकशल्यसमर्पिता महाशोकशल्यविद्धाः-अतिवाहयिष्यत्ययं बत सत्त्वानस्मद्विषयात्, उत्तारयिष्यत्ययं सत्त्वानस्मद्विषयात्, परिमोचयिष्यत्ययं सत्त्वानस्मद्विषयात्, अभ्युद्धरिष्यत्ययं बत सत्त्वानस्मद्विषयात्, छेदयिष्यत्ययं सत्त्वान् मारपाशात्, समुत्क्षेप्स्यत्ययं सत्त्वान् कामपङ्कलग्नान्, मोचयिष्यत्ययं सत्त्वान् दृष्टिजालेभ्यः, उत्तारयिष्यत्ययं सत्त्वान् नीवरणपथात्, प्रतिष्ठापयिष्यत्ययं सत्त्वान् सन्मार्गे, उत्तारयिष्यत्ययं सत्त्वान् दृष्टिगहनादिति। इममर्थवशं सुविक्रान्तविक्रामिन् संपश्यन्तस्ते मारा दुःखिता भवन्ति दुर्मनसः शोकशल्यविद्धाः। तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुषो महता धनस्कन्धेन विपन्नेन दुःखितो वेदनात्त(र्त)मना महता दुःखदौर्मनस्येन समन्वागतः। एवमेव मारः पापीयान् दुःखितो भवति दुर्मना विप्रतिसारी शोकशल्यविद्धः। न च स्वके आसने रमते, यस्मिन् समये बोधिसत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगमापद्यते। पुनरपरं सुविक्रान्तविक्रामिन् ते माराः पापीयांसः एकतः समागम्य चिन्तयन्ति-कथं करिष्यामः, किं नु करिष्यामः। कथंकथाशोकशल्यविद्धा भवन्ति। ते कथंकथाशोकशल्यविद्धा भूत्वा उपसंक्रामन्ति बोधिसत्त्वस्यावतारगवेषिणः प्रज्ञापारमितायां चरतः। तत्र बोधिसत्त्वस्य रोमापि न हृष्यति, न पुनः कायस्यान्यथात्वं भविष्यति चित्तस्यान्यथात्वं वा। विगतभयरोमहर्षश्च मारः पापीयानिति संबुध्यते। बुद्ध्वा चाधिष्ठानं करोति। ततो मारः पापीयानधिष्ठितो दुर्बलो भवति लीनचित्तो भयमापन्नः। न चास्य शक्नोत्यवतारं लब्धुम्। तस्यैवं भवति-अहमेवास्य न शक्तोऽवतारं लब्धुम्, किं पुनर्मम पर्षत्, किं पुनर्यदन्येऽधिष्ठास्यन्ति। ततस्ते मारा(स्त्रस्ता उत्साहप)रिहीणाः स्वभवनानि गत्वा दुःखदौर्मनस्यजाताः प्रध्यायन्तस्तिष्ठन्ति, न च शक्नुवन्ति बोधिसत्त्वस्य प्रज्ञापारमितायां चरतोऽच्छटामात्रमपि चित्तस्य मोहनं कर्तुम्, प्रागेवास्यान्तरायम्। इयं(दं) सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां चरतो (बोधिसत्त्वस्य) एवंरूपं प्रज्ञाबलाधिष्ठानं भवति, एवंरूपेण च प्रज्ञाबलाधिष्ठानेन समन्वागतो भवति। सचेद्ये सर्वस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे मारा भवेयुः, ते सर्वे महतीभिर्मारपर्षद्भिः सार्धं तं बोधिसत्त्वं प्रज्ञापारमितायां चरन्तमुपसंक्रमेयुर्विहेठाभिप्रायाः। तेऽपि सर्वे सुविक्रान्तविक्रामिन् माराः पापीयांसो न प्रभवन्त्यन्तरायं कर्तुम्। तत्कस्माद्धेतोः ? तथारूपेण हि प्रज्ञाबलाधानेन प्रज्ञाखड्गेन प्रज्ञाशस्त्रेण तस्मिन् समये बोधिसत्त्वः समन्वागतो भवति। अचिन्त्यया सुविक्रान्तविक्रामिन् प्रज्ञया अप्रमेयया असमसमया बोधिसत्त्वस्तदा समन्वागतो भवति। तेन तं न प्रतिबलो भवति मारः पापीयानभिभवितुम्। महाशस्त्रं ह्येतत्सुविक्रान्तविक्रामिन् यदुत प्रज्ञाशस्त्रम्, महाखड्गो ह्येष सुविक्रान्तविक्रामिन् यदुत प्रज्ञाखड्गः, यत्रागतिरविषयो माराणां पापीयसाम्, अभूमिर्माराणां पापीयसाम्। येऽपि तावत्सुविक्रान्तविक्रामिन् बाह्या ऋषयश्चतुर्णां ध्यानानां लाभिनः, चतसृणां वा आरूप्यसमापत्तीनाम्, ये मारविषयं कामधातुमतिक्रम्य ब्रह्मलोके चोपपद्यन्ते चतुर्षु च आरूप्येषु सदेवनिकायेषु, तेषामपि तावदगतिरविषयः यदुत एवंरूपायां प्रज्ञायाम्, या बोधिसत्त्वस्य प्रज्ञा प्राकृता, किं पुनर्या प्रज्ञापारमितायां चरतः प्रज्ञा, कः पुनर्वादो माराणां पापीयसां येषामविषयो रूपरूप्यधातौ। बलाधानप्राप्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्तस्मिन् समये भवति महाबलाधानसमन्वागतो यदुत प्रज्ञापारमिताबलेन। ये खलु केचित् सुविक्रान्तविक्रामिन् प्रज्ञापारमिताबलेन समन्वागता भवन्ति तीक्ष्णेन प्रज्ञाशस्त्रेण, अधृष्यास्ते भवन्ति मारैः पापीयोभिरनाक्रमणीयाः। ये केचित् सुविक्रान्तविक्रामिन् प्रज्ञाबलेन समन्वागता भवन्ति तीक्ष्णेन च प्रज्ञाशस्त्रेण, न ते क्वचिन्निश्रयं कुर्वन्ति, अनिश्रितास्ते भवन्ति। तत्कस्माद्धेतोः ? निश्रये हि सुविक्रान्तविक्रामिन् सति चलितं भवति, चलिते सति स्पन्दना भवति, स्पन्दनायां सत्यां प्रपञ्चना भवति। येषां केषांचित् सुविक्रान्तविक्रामिन् निश्रयश्च भवति चलितं च भवति स्पन्दितं च भवति प्रपञ्चना (च) भवति, ते मारस्य पापीयसो वशगता भवन्ति, अपरिमुक्ताश्च भवन्ति ते मारविषयात्। येऽपि तावत् सुविक्रान्तविक्रामिन् यावद् भवाग्रोपपन्नाः सत्त्वा निश्रिता निश्रयनिबद्धा निश्रयाध्यासिताः, तेऽप्यागमिष्यन्ति पुनर्मारविषयम्। अपरिमुक्ताश्च ते मारपाशेभ्यः, अनुगतसूत्राश्च ते मारपाशैः। तद्यथा उद्रकश्च रामपुत्रः आराडश्च कालामः, ये वा पुनरन्येऽपि केचिन्निश्रिता आरूप्येषु निश्रयविनिबद्धा निश्रयाध्याश्रिताः। बोधिसत्त्वस्तु पुनः सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयन् प्रज्ञापारमितायां योगमापद्यमानः न क्वचिन्निश्रयं करोति, अनिश्रितो भवति सर्वत्र। यस्मिन् खलु पुनः समये सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमिताभावनायोगमनुयोक्तो विहरति, तस्मिन् समये न रूपनिश्रितो भवति, न वेदनासंज्ञासंस्कारविज्ञाननिश्रितो भवति, न विपर्यासनीवरणदृष्टिगतनिश्रितो भवति, न नामरूपनिश्रितो भवति, न कामरूपारूप्यधातुनिश्रितो भवति, नात्मसत्त्वसंज्ञानिश्रितो भवति, न जीवपुद्गलधात्वायतननिश्रितो भवति, न पृथिव्यप्तेजोवाय्वाकाशविज्ञानेनैवसंज्ञानासंज्ञायतननिश्रितो भवति, न तृष्णानिश्रितो भवति, न भवतृष्णानिश्रितो भवति, नोच्छेदतृष्णानिश्रितो भवति, नान्तानन्तनिश्रितो भवति, न प्रतीत्यसमुत्पादनिश्रितो भवति, न दानमात्सर्यनिश्रितो भवति, न शीलशौःशील्यनिश्रितो भवति, न क्षान्तिव्यापादनिश्रितो भवति, न वीर्यकौसीद्यनिश्रितो भवति, न ध्यानविक्षेपनिश्रितो भवति, न प्रज्ञादौष्प्रज्ञ्यनिश्रितो भवति, नाविपर्याससम्यक्प्रहाणाप्रमाणस्मृत्युपस्थाननिश्रितो भवति, नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तिनिश्रितो भवति, न दुःखसमुदयनिरोधमार्गनिश्रितो भवति, नानुत्पादज्ञानक्षयज्ञानानभिसंस्कारज्ञाननिश्रितो भवति, न विद्याविमुक्तिनिश्रितो भवति, न विमुक्तिज्ञानदर्शननिश्रितो भवति, न पृथग्जनश्रावकप्रत्येकबुद्धभूमिनिश्रितो भवति, न पृथग्जनश्रावकप्रत्येकबुद्धसम्यक्संबुद्धधर्मनिश्रितो भवति, न नीवरणनिश्रितो भवति, नातीतानागतप्रत्युत्पन्नासङ्गतानिश्रितो भवति, न त्र्यध्वसमतानिश्रितो भवति, न बुद्धज्ञानबलवैशारद्यनिश्रितो भवति, न सर्वज्ञज्ञाननिश्रितो भवति, न लक्षणसंपत्तिनिश्रितो भवति, बुद्धक्षेत्रसंपन्निश्रितो भवति, न श्रावकव्यूहसंपन्निश्रितो भवति, न बोधिसत्त्वव्यूहसंपन्निश्रितो भवति। स सर्वधर्मैश्चानिश्रितो न चलति न संचलति, निश्रयाश्च तेन सर्वे विभाविता भवन्ति। अनिश्रितश्च स मार्गमपि नाभिनिविशते, अनिश्रयं न मन्यते। सोऽयं निश्रय इति नोपलभते, इह निश्रय इति नोपलभते, अस्य निश्रय इति नोपलभते न मन्यते, अस्मान्निश्रय इति नोपलभते न मन्यते। सर्वनिश्रयानमन्यमानोऽनुपलभमानोऽनभिनिविशमानः न क्वचिन्निश्रयमुपैति नोपदिशति नाभिनन्दति नाध्यवसाय तिष्ठति। स सर्वनिश्रयानुपलिप्तोऽसक्तः सर्वधर्मनिश्रयविशुद्धिमनुप्राप्नोति। इदं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मनिश्रयविशुद्धिज्ञानदर्शनं प्रज्ञापारमितायां चरतः, येनास्य माराः पापीयांसोऽवतारं न लभन्ते, अनाक्रमणीयश्च भवति सर्वमारैः पापीयोभिः, अभिभवति च मारान् पापीयस इति॥
आर्यप्रज्ञापारमितायां चर्यापरिवर्तः षष्ठः॥

७ अनुशंसापरिवर्तः सप्तमः।

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्व आदित एव अनुत्तरायां सम्यक्संबोधावुत्पन्ने चित्ते बहुकुशलमूलसंभारसमुदागतश्च भवति, बहुबुद्धपर्युपासितश्च भवति, बहुबुद्धपरिपृच्छकश्च भवति, कृताधिकारश्च भवति बुद्धानां भगवताम्, अध्याशयसंपन्नश्च भवति, दानसंविभागरतश्च भवति, शीलविशुद्धिगुरुकश्च भवति, क्षान्तिसौरत्यसंपन्नश्च भवति, वीर्यवांश्च भवति, वीर्यविशुद्धिगुरुकः, ध्यानविशुद्धिगुरुकश्च भवति, प्रज्ञावांश्च भवति, प्रज्ञाविशुद्धिगुरुकः। सोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य प्रज्ञापारमितायामभियुक्तो मारान् पापीयसोऽधितिष्ठति तेन प्रज्ञाबलेन च-यथा मे माराः पापीयांसोऽवतारं न लभेरन्, मा च मे विहेठां कुर्युः। तस्याधिष्ठाने मारा अवतारं न लभन्ते, न चास्यान्तरायाय प्रत्युपस्थिता भवन्ति, नापि चित्तमुत्पादयन्ति-किमिति वयमस्य बोधिसत्त्वस्य अवतारं गवेषामहे, विहेठनां कुर्यामह इति। सचेत्तेषां चित्तमुत्पद्यतेऽन्तरायाय, ततो महाव्यसनमात्मनः संजानते, भयं च तेषां महत्प्रत्युपस्थितं भवति, संविग्नाश्च भवन्ति-मा वयं सर्वेण सर्वं न भविष्याम इति। ते तद्विहेठनाचित्तं पुनरपि प्रतिसंहरन्ति। पुनरपि तेषां ते चित्तोत्पादा अन्तर्धीयन्ते। अनेनापि सुविक्रान्तविक्रामिन् पर्यायेण बोधिसत्त्वस्य माराः पापीयांसोऽन्तरायाय प्रयुपस्थिता अवतारं न लभन्ते॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायां छन्दश्च अध्याशयश्च गौरवं व चित्रीकारश्च शास्तृसंज्ञा च उत्पादिता भवति। न च षट्पारमितासंयुक्तायां कथायां भाष्यमाणायां काङ्क्षा वा विमतिर्वा विचिकित्सा वा उत्पादिता भवति, नापि गम्भारान् धर्मान् श्रुत्वा काङ्क्षायितत्वं वा धन्धायितत्वं वा विचिकित्सायितत्वं वा उत्पादितं भवति, नाप्यनेन जातु धर्मव्यवसनसंवर्तनीयं कर्मोपचितं भवति, नाप्यनेन जातु धर्मव्यसनसंवर्तनीयं चित्तमुत्पादितं भवति। अन्ये च बहवः सत्त्वाः प्रज्ञापारमितायां समादापिता भवन्ति, सर्वासु षट्पारमितासु संहर्षिता भवन्ति समुत्तेजिताः। तस्य पूर्वाशयचित्तविशुद्धितया पूर्वाशयासंक्लिष्टतया न माराः पापीयांसोऽन्तरायाय प्रत्युपस्थिता भवन्ति, नापि तस्य माराः पापीयांसोऽवतारं लभन्ते। सर्वाणि च मारकर्माण्युत्पन्नोत्पन्नानि बुध्यते। न च मारकर्मभिः संह्रियते, न च मारकर्मवशगो भवति। अनेनापि सुविक्रान्तविक्रामिन् पर्यायेण बोधिसत्त्वस्य माराः पापीयांसो न विहेठाय प्रत्युपस्थिता भवन्ति॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपयोगनिमित्ते चरति, न रूपविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानविसंयोगनिमित्ते चरति। न रूपलक्षणयोगनिमित्ते चरति, न रूपलक्षणविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानलक्षणसंयोगनिमित्ते चरति। न लक्षणविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानलक्षणसंयोगनिमित्ते चरति। न रूपविशुद्धिनिमित्ते चरति, न रूपविशुद्ध्यनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानविशुद्धिनिमित्ते चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानविशुद्धिनिमित्ते चरति। न रूपारम्बणविशुद्धिनिमित्ते चरति, न रूपारम्बणविशुद्ध्यनिमित्ते चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणविशुद्धिनिमित्ते चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणविशुद्ध्यनिमित्ते चरति। रूपसंभवविशुद्धिसंयोगे चरति, न रूपसंभवविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानसंभवविशुद्धिसंयोगे चरति, न विज्ञानसंभवविशुद्धिविसंयोगे चरति। न रूपारम्बणस्वभावविशुद्धिसंयोगे चरति, न रूपारम्बणस्वभावविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बण-स्वभावविशुद्धिसंयोगे चरति, न विज्ञानारम्बणस्वभावविशुद्धिविसंयोगे चरति। न रूपप्रकृतिविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानप्रकृतिविशुद्धौ चरति। न रूपारम्बणप्रकृतिविशुद्धिसंयोगे चरति, न रूपारम्बणप्रकृतिविशुद्धिविसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणप्रकृतिविशुद्धिविसंयोगे चरति। न रूपातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धौ चरति। न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धौ चरति। न रूपातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न रूपातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे चरति। न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे चरति। एवं चरन् न रूपेण संयुज्यते न विसंयुज्यते। न वेदनासंज्ञासंस्कारविज्ञानैः संयुज्यते न विसंयुज्यते। न नामरूपेण संयुज्यते न विसंयुज्यते। न विपर्यासदृष्टिगतैः संयुज्यते न विसंयुज्यते। न कामरूपारूप्यधातुभिः संयुज्यते न विसंयुज्यते। न रागद्वेषमोहैः संयुज्यते न विसंयुज्यते। नात्मसत्त्वजीवपुद्गलभावाभावसंज्ञया संयुज्यते न विसंयुज्यते। नोच्छेदशाश्वतेन संयुज्यते न विसंयुज्यते। न धात्वायतनैः संयुज्यते न विसंयुज्यते। न पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातुभिः संयुज्यते न विसंयुज्यते। न प्रतीत्यसमुत्पादेन संयुज्यते न विसंयुज्यते। न पञ्चभिः कामगुणैः संयुज्यते न विसंयुज्यते। न संक्लेशव्यवदानेन संयुज्यते न विसंयुज्यते। न दानमात्सर्येण संयुज्यते न विसंयुज्यते। न शीलदौःशील्येन संयुज्यते न विसंयुज्यते। न क्षान्तिव्यापादेन संयुज्यते न विसंयुज्यते। न वीर्यकौसीद्येन संयुज्यते न विसंयुज्यते। न ध्यानविक्षेपेण संयुज्यते न विसंयुज्यते। न प्रज्ञादौष्प्रज्ञ्यचित्ततया संयुज्यते न विसंयुज्यते। नाविपर्याससम्यक्प्रहाणस्मृत्युपस्थानर्द्धिपादैः संयुज्यते न विसंयुज्यते। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तिभिः संयुज्यते न विसंयुज्यते। न दुःखसमुदयनिरोधमार्गैः संयुज्यते न विसंयुज्यते। न शमथविदर्शनाभ्यां संयुज्यते न विसंयुज्यते। न विद्याविमुक्तिभ्यां संयुज्यते न विसंयुज्यते। न विमुक्तिज्ञानदर्शनेन संयुज्यते न विसंयुज्यते। नाभिज्ञाभिः संयुज्यते न विसंयुज्यते। न पृथग्जनश्रावकप्रत्येकबुद्धभूमिभिः संयुज्यते न विसंयुज्यते। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानैः संयुज्यते न विसंयुज्यते। न संसारनिर्वाणाभ्यां संयुज्यते न विसंयुज्यते। न बुद्धज्ञानबलवैशारद्यैः संयुज्यते न विसंयुज्यते। न लक्षणसंपदा संयुज्यते न विसंयुज्यते। न बुद्धक्षेत्रव्यूहैः संयुज्यते न विसंयुज्यते। न दुःखसमुदयनिरोधमार्गैः संयुज्यते न विसंयुज्यते। न श्रावकप्रत्येकबुद्धबोधिसत्त्वसंपदा संयुज्यते न विसंयुज्यते। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् न संयुक्ता न विसंयुक्ताः। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् सर्वधर्माः संयोगेन प्रत्युपस्थिता न विसंयोगेन। संयोग इति हि सुविक्रान्तविक्रामिन् शाश्वतपदमेतत्, विसंयोग इत्युच्छेद एषः। सर्वधर्माणां हि सुविक्रान्तविक्रामिन् न कश्चिदवबोधः येन संयुज्येरन् वा विसंयुज्येरन् वा। सर्वधर्माणां हि सुविक्रान्तविक्रामिन् न कश्चित्संयोगाय प्रत्युपस्थितो न विसंयोगाय। सचेत् सुविक्रान्तविक्रामिन् धर्माणां कश्चित्संयोजयिता वा विसंयोजयिता वा अभविष्यत्, लब्धोऽभविष्यद्धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता (वा), वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा। प्रज्ञापयेत्तथागतः-अयमसौ धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता वा, वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा। यस्मात्तर्हि विक्रान्तविक्रामिन् सर्वधर्माणां न कश्चित्संयोगाय प्रत्युपस्थितो न विसंयोगाय, तस्मान्न कश्चिद्धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता वा, वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा समुपलभ्यते। अनुपलभ्यमाने वा तथागतः प्रज्ञपयति। विपर्याससमुत्थिता हि सुविक्रान्तविक्रामिन् सर्वधर्माः। न च विपर्यासः केनचित्संयुक्तो वा विसंयुक्तो वा। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् विपर्यासस्य वस्तूपलभ्यते, नापि संभव उपलभ्यते। तत्कस्माद्धेतोः ? अभूतो हि सुविक्रान्तविक्रामिन् विपर्यासः, वितथो मृषाधर्मस्तुच्छः। न चात्र कश्चिद्धर्म उपलभ्यते योऽसौ विपर्यास इत्युच्येत। विपर्यास इति सुविक्रान्तविक्रामिन् विप्रतिलम्भ एष सत्त्वानाम्, उल्लापनैषा सत्त्वानाम्, अभूतपरिकल्प एष सत्त्वानाम्, मन्यना स्पन्दना प्रपञ्चनैषा सत्त्वानाम्। तद्यथापि नाम सुविक्रान्तविक्रामिन् बालदारको रिक्तेन मुष्टिनोल्लापितः संजानाति भूतमिति, एवमेव सुविक्रान्तविक्रामिन् बालपृथग्जना उच्छेदेन विपर्यासेनोल्लापिता मूढा एवं मन्यन्ते-भूतमेतदिति। ते अभूते भूतसंज्ञिनो विपर्यासग्रस्ता दुर्मोच्या भवन्ति तस्माद्विपर्यासात्। एवं सुविक्रान्तविक्रामिन् सर्वबालपृथग्जना असंयुक्ता अविसंयुक्ता बन्धनबद्धाः संधावन्ति। ते संयोग इति मन्यन्ते, ते संयोग इत्युपलभन्ते, संयोग इति स्थापितं पश्यन्ति, संयोग इत्यभिनिविशन्ते। यत्र सुविक्रान्तविक्रामिन् संयोगः, तत्र विसंयोगः। यः पुनः संयोगं नोपलभते न मन्यते नाभिनिविशते, न विसंयोगमपि स मन्यते, सोऽत्यन्तविमुक्तः। सचेद्विसंयोगं मन्येत वा उपलभेत वा अभिनिविशेत वा, संयुक्त एवासौ भवेन्न विसंयुक्तः। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्व इममर्थवशं संपश्यन् न केनचिद्धर्मेण संयुज्यते न विसंयुज्यते, नापि कस्यचिद्धर्मस्य संयोगाय प्रत्युपस्थितो भवति न विसंयोगाय। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य संयोगविसंयोगपरिज्ञा प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वधर्माणां पारमधिगच्छति॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपासङ्गतायां चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गतायां चरति। न रूपासङ्गविशुद्धौ चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानसङ्गविशुद्धौ चरति। न रूपासङ्गारम्बणे चरति, न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गारम्बणे चरति। न रूपासङ्गतासंयोगे चरति, न रूपासङ्गताविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गतासंयोगे चरति, न विज्ञानासङ्गताविसंयोगे चरति। न रूपासङ्गताविशुद्धिसंयोगे चरति, न रूपासङ्गताविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानासङ्गताविशुद्धिसंयोगे चरति, न विज्ञानासङ्गताविशुद्धिविसंयोगे चरति। न रूपारम्बणविशुद्धिसंयोगे चरति, न रूपारम्बणविशुद्धिविसंयोगे चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानारम्बणविशुद्धिसंयोगे चरति, न विज्ञानारम्बणविशुद्धिविसंयोगे चरति। तत्कस्माद्धेतोः ? सर्वाणि ह्येतानि सुविक्रान्तविक्रामिन् न इञ्जितानि निमित्तानि स्पन्दितानि चरितानि विचरितानि बोधिसत्त्वेन परिज्ञातानि। स न क्वचिद्भूयश्चरति विचरति॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपातीतानागतप्रत्युत्पन्नसङ्गतायां चरति, न रूपातीतानागतप्रत्युत्पन्नासङ्गतायां चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नसङ्गतायां चरति, न विज्ञानातीतानागतप्रत्युत्पन्नसङ्गनायां चरति। न रूपातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न रूपातीतानागतप्रत्युत्पन्नाविशुद्धौ चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न विज्ञानातीतानागतप्रत्युत्पन्नाविशुद्धौ चरति। न रूपातीतानागतप्रत्युत्पन्नासङ्गारम्बणविशुद्धौ चरति, न रूपातीतानागतप्रत्युत्पन्नासङ्गारम्बणाविशुद्धौ चरति। न वेदना-न संज्ञा-न संस्कार-न विज्ञानातीतानागतप्रत्युत्पन्नासङ्गारम्बणविशुद्धौ चरति, न विज्ञानातीतानागतप्रत्युत्पन्नासङ्गारम्बणाविशुद्धौ चरति। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरंश्चर्यां समनुपश्यति। अचर्येयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वचर्या। प्रज्ञाप्रवेशश्चैष प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्वः प्रज्ञापारमितायां चरन् न रूपं विवृतमिति चरति, न रूपमविवृतमिति चरति। न वेदना व संज्ञा न संस्काराः। न विज्ञानं विवृतमिति चरति, न विज्ञानमविवृतमिति चरति। न रूपं शान्तमिति चरति, रूपमशान्तमिति चरति। न वेदना न संज्ञा न संस्काराः। न विज्ञानं शान्तमिति चरति, न विज्ञानमशान्तमिति चरति। न रूपं प्रकृतिविवृतमिति चरति, न रूपं प्रकृत्यविवृतमिति चरति। न वेदना व संज्ञा न संस्काराः। न विज्ञानं प्रकृतिविवृतमिति चरति, न विज्ञानं प्रकृत्यविवृतमिति चरति। न रूपं प्रकृतिशान्तमिति अशान्तमिति चरति। न वेदना न संज्ञा न संस्काराः। न विज्ञानं प्रकृतिशान्तमिति अशान्तमिति चरति। न रूपमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृतिशान्तं वा चरति। न रूपमतीतानागतप्रत्युत्पन्नं प्रकृत्यविविक्तं चा प्रकृत्यशान्तं वा चरति। न वेदना न संज्ञां न संस्काराः। न विज्ञानमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृतिशान्तं वा चरति, न विज्ञानमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृत्तिशान्तं वा चरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् रूपं न मन्यते। एवं न वेदनां न संज्ञां न संस्कारान्। न विज्ञानं मन्यते। रूपविशुद्धिं न मन्यते, रूपारम्बणविशुद्धिं न मन्यते। एवं वेदना संज्ञा संस्काराः। विज्ञानविशुद्धिं न मन्यते, विज्ञानारम्बणविशुद्धिं न मन्यते॥

पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः (प्रज्ञापारमितायां चरन्) रूपं नाभिनिविशते। एवं वेदनां संज्ञां संस्कारान्। विज्ञानं नाभिनिविशते। रूपविशुद्धिं नाभिनिविशते। एवं वेदना-संज्ञा-संस्काराः। विज्ञानविशुद्धिः नाभिनिविशते। रूपारम्बणविशुद्धिं नाभिनिविशते। एवं वेदना-संज्ञा-संस्काराः। विज्ञानारम्बणविशुद्धिं नाभिनिविशते। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिं गच्छति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो भवति दशानां तथागतबलानाम्, चतुर्णां तथागतवैशारद्यानाम्, अष्टादशानामावेणिकानां बुद्धधर्माणाम्, महामैत्र्या महाकरुणाया महामुदिताया महोपेक्षायाः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो द्वात्रिंशतां महापुरुषलक्षणनाम्। आसन्नो भवति सुवर्णवर्णच्छवितायाः। आसन्नो भवति तथागतानन्तप्रभतायाः। आसन्नो भवति नागावलोकितस्य। आसन्नो भवत्यनवलोकितमूर्धतायाः। आसन्नो भवत्यतीतानागतप्रत्युत्पन्नसङ्गज्ञानदर्शनस्य। आसन्नो भवति तथागतानुवादानुशासनीप्रातिहार्यस्य। आसन्नो भवति अतीतानागतप्रत्युत्पन्नासङ्गज्ञानदर्शनव्याकरणस्य। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वबुद्धधर्मपरिपूरिमधिगच्छति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं बुद्धक्षेत्रपरिशुद्धिमधिगच्छति। क्षिप्रं श्रावकबोधिसत्त्वव्यूहसंपदं परिगृह्णाति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपे प्रतिष्ठते, न वेदनासंज्ञासंस्कारविज्ञानेषु प्रतिष्ठते। न नामरूपे प्रतिष्ठते। न विपर्यासनीवरणदृष्टिगतेषु प्रतिष्ठते। न कामरूपारूप्यधातौ प्रतिष्ठते, नात्मधातौ, न सत्त्वधातौ प्रतिष्ठते। न पुद्गलजीवसंज्ञायां प्रतिष्ठते। न पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातौ प्रतिष्ठते। न धात्वायतनेषु प्रतिष्ठते। न संक्लेशव्यवदाने प्रतिष्ठते। न प्रतीत्यसमुत्पादे प्रतिष्ठते। न त्यागमात्सर्ये प्रतिष्ठते। न शीलदौःशील्ये प्रतिष्ठते। न क्षान्तिव्यापादे प्रतिष्ठते। न वीर्यकौसीद्ये प्रतिष्ठते। न ध्यानविक्षेपे प्रतिष्ठते। न प्रज्ञादौष्प्रज्ञ्ये प्रतिष्ठते। न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु प्रतिष्ठते। न ध्यानविमोक्षसमाधिसमापत्तिषु प्रतिष्ठते। न दुःखसमुदयनिरोधमार्गेषु प्रतिष्ठते। न क्षयानुत्पादाभिसंस्कारज्ञानेषु प्रतिष्ठते। न शमथविदर्शनायां प्रतिष्ठते। नाभिज्ञासु प्रतिष्ठते। न विद्याविमुक्तौ प्रतिष्ठते। न श्रावकप्रत्येकबुद्धसम्यक्संबुद्धभूमिषु प्रतिष्ठते। न पृथग्जनश्रावकप्रत्येकबुद्धधर्मेषु प्रतिष्ठते। न निर्वाणे प्रतिष्ठते। न बुद्धज्ञानबलवैशारद्येषु प्रतिष्ठते। नासङ्गज्ञाने प्रतिष्ठते। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनेषु प्रतिष्ठते। न बुद्धक्षेत्रसंपदि प्रतिष्ठते। न श्रावकव्यूहसंपदि प्रतिष्ठते। न बोधिसत्त्वव्यूहसंपदि प्रतिष्ठते। तत्कस्माद्धेतोः ? अप्रतिष्ठिता हि सुविक्रान्तविक्रामिन् सर्वधर्माः। न हि सुविक्रान्तविक्रामिन् सर्वधर्माणां प्रतिष्ठानं विद्यते। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् अनालयाः। अनालयत्वान्न प्रतिष्ठन्ते। सचेत्सुविक्रान्तविक्रामिन् धर्माणां प्रतिष्ठानमभविष्यत्, आलयो वा कूटस्थो वा धर्माणामभविष्यत्, नि(न्य ?) दर्शयिष्यत्तथागतो धर्माणां प्रतिष्ठानम्-इदं धर्माणां प्रतिष्ठानम्, अयं धर्माणामालयः, अयं धर्माणां संचय इति। यस्मात्तर्हि सुविक्रान्तविक्रामिन् सर्वधर्मा अप्रतिष्ठिताः अनालयाः असंचयाः, तस्मान्न कश्चिद्धर्मः कूटस्थः। तस्मात्तथागतो धर्माणां प्रतिष्ठानं वा आलयं वा संचयं वा न निर्दिशति। न हि सुविक्रान्तविक्रामिन् धर्माः परिनिष्पन्नाः, नापि स्वभावः कश्चित्, असंभवादपरिनिष्पत्तितो धर्माणां न कश्चिदवतिष्ठते। तेनोच्यते अप्रतिष्ठिताः सर्वधर्मा इति। अस्थानयोगेन अनधिष्ठानयोगेन सुविक्रान्तविक्रामिन् अप्रतिष्ठिताः सर्वधर्माः। नास्ति सुविक्रान्तविक्रामिन् सर्वधर्माणां स्थितिः। तद्यथापि नाम सुविक्रान्तविक्रामिन् चतसृणां महानदीनामनवतप्तात् सरसः प्रस्रवन्तीनां नास्त्यधिष्ठानमन्यत्र महासमुद्रात्, एवमेव सुविक्रान्तविक्रामिन् सर्वधर्माणां नास्ति स्थितिः, यावदनभिसंस्कारं न क्षपयन्ति। अनभिसंस्कार इति सुविक्रान्तविक्रामिन् न तत्र स्थानं नास्थानं नाधिष्ठानम्, सर्वत्रैषा गणना नास्ति। स्थानमिति वा अधिष्ठानमिति वा अस्थानमिति वा अभिसंस्कार इति सुविक्रान्तविक्रामिन् गणनैषा निर्दिष्टा। यथासत्त्वप्रवृत्तिसंदर्शनमेतत्कृतमस्थानं वा स्थानं वा प्रतिष्ठानं वा। नानभिसंस्कारे काचिद्भूय इयं गणना। तेनोच्यते अप्रतिष्ठिताः सर्वधर्मा इति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्माप्रतिष्ठानयोगः प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञधर्मान् परिपूरयति, आसन्नश्च भवत्यनुत्तरायां सम्यक्संबोधौ, क्षिप्रं च बोधिमण्डमुपसंक्रामति, क्षिप्रं च सर्वज्ञज्ञानं प्रतिलभते, क्षिप्रं च अतीतानागतप्रत्युत्पन्नज्ञानपरिपूरिमधिगच्छति, क्षिप्रं च सर्वसत्त्वचित्तचरितविस्पन्दितानां पारं गच्छति॥

तस्मात्तर्हि सुविक्रान्तविक्रामिन् बोधिसत्त्वेन महासत्त्वेन अर्थं कर्तुकामेन, सर्वसत्त्वानां दानं दातुकामेन, सर्वसत्त्वान् धर्मदानेन संतर्पयितुकामेन, सर्वसत्त्वानामविद्याण्डकोशं भेत्तुकामेन, सर्वसत्त्वानां महाज्ञानं बुद्धज्ञानमुपसंहर्तुकामेन, सर्वसत्त्वानामनुकम्पकेन भवितुकामेन, सर्वसत्वानां हितैषिणा भवितुकामेन, सर्वसत्त्वानां धर्मसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां भोगसुभिक्षं कर्तुकामेन, सर्वसत्त्वां शीलभिक्षं कर्तुकामेन, सर्वसत्त्वानां क्षान्तिसौरत्यसुभिक्षं कर्तुकामेन, सर्वसत्त्वां वीर्यसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां ध्यानभिक्षं कर्तुकामेन, सर्वसत्त्वानां प्रज्ञासुभिक्षं कर्तुकामेन, सर्वसत्त्वानां विमुक्षिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां स्वर्गोपपत्तिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां विद्याविमुक्तिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां वुमुक्तिज्ञानदर्शनसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां नीवरणसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां बुद्धधर्मसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां सर्वगुणसंपत्सुभिक्षं कर्तुकामेन, धर्मचक्रं प्रवर्तयितुकामेन अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा अन्येन वा पुनः केनचिल्लोकेन सहधर्मेण, धर्मसांकथ्यं कर्तुकामेन, बुद्धभूमौ व्याकर्तुकामेन, श्रावकभूमौ व्याकर्तुकामेन, प्रत्येकबुद्धभूमौ व्याकर्तुकामेन, सर्वसत्त्वानां पूर्वप्रणिधानकुशलमूलानि संचोदयितुकामेन अस्यां प्रज्ञापारमितायां शिक्षितव्यं घटितव्यं व्यायच्छितव्यं प्रज्ञापारमिताभावनायोगमनुयुक्तेन भवितव्यम्। नाहं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य कंचिद्धर्ममेवं क्षिप्रं परिपूरिकरं समनुपश्यामि सर्वधर्माणां यथेह प्रज्ञापारमितायां यथानिर्दिष्टायामभियोगः प्रतिपत्तिः अस्य विहारस्यानुत्सर्गः यदुत प्रज्ञापारमिताविहाराय॥

ये केचित्सुविक्रान्तविक्रामिन् बोधिसत्त्वा अस्यां प्रज्ञापारमितायां चरन्ति, निष्ठा तत्र गन्तव्या-आसन्ना इमे बोधिसत्त्वा अनुत्तरायां सम्यक्संबोधिविति। येषां केषांचित् सुविक्रान्तविक्रामिन् इयं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति, श्रुत्वा चाधिमोक्ष्यन्ति अभिनन्दिष्यन्ति, भूतसंज्ञां चोत्पादयिष्यन्ति, तेषामप्यहं कुशलमूलमनुत्तरायाः सम्यक्संबोधेराहारकं वदामि-निष्ठा च तत्र गन्तव्या-महाप्रज्ञासंभारोपचिता ह्येते कुलपुत्रा वा कुलदुहितरो वा, अन्यानि च कुशलमूलानि परिगृह्णन्तीति। येषां च सुविक्रान्तविक्रामिन् बोधिसत्त्वानामयं प्रज्ञापारमितोपायकौशल्यपरिवर्तनिर्देशो हस्तं गमिष्यति, किंचापि तत्र केचिन्न व्याकृता भविष्यन्ति संमुखं बुद्धैर्भगवद्भिः, अथ च पुनर्वेदितव्यमेतत्-आसन्ना ह्येते व्याकरणस्य, नचिरेणैते संमुखं व्याकरणं प्रतिलप्स्यन्त इति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तन्ते, निष्ठा तत्र गन्तव्या-आसन्ना ह्येते सत्त्वा उत्तरकुरुषूपपत्तेः। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता हस्यं गमिष्यति, वेदितव्यमेतत्-आसन्नोऽयमनुत्तरायाः सम्यक्संबोधेरिति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दानं प्रयच्छन्ति मुक्तत्यागाश्च भवन्ति, सत्त्वांश्च दानेन प्रियवद्यतया अर्थचर्यया समानार्थतया च संगृह्णन्ति, शीलं च रक्षन्ति, निहतमानाश्च भवति, निष्ठा तत्र गन्तव्या-क्षिप्रमिमे सत्त्वा महाभोगा भवन्त्युच्चकुलीनाश्च॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दानशीलाश्च भवन्ति शीलसंपन्नाश्च भवन्ति, क्षान्तिसंपन्नाश्च भवन्ति, वीर्यध्यानप्रतिष्ठिताः प्रज्ञया समन्वागताश्च भवन्ति, मैत्री च सत्त्वानामन्तिके उत्पादयन्ति, सत्त्वांश्च शीले समादापयन्ति, अधिपतिसंवर्तनीयं च कर्मोपचिन्वन्ति, वेदितव्यमेतत्-अचिरादेते चक्रवर्तिराज्यं कारयिष्यन्ति इति। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता हस्तगता भविष्यति, वेदितव्यमेतत्-क्षिप्रमयं बोधिमण्डमुपसंक्रमिष्यतीति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् यस्य राज्ञः क्षत्रियस्य पूर्णायां पूर्णमास्यां पञ्चदश्यां पुरतोऽर्थकरणे संनिषण्णस्य चक्ररत्नं प्रादुर्भवति, तत्रैवं वेदितव्यम्-चक्रवर्ती चायं भविष्यति, क्षिप्रं चास्य सप्त रत्नानि प्रादुर्भविष्यन्तीति। एवमेव सुविक्रान्तविक्रामिन् यस्य बोधिसत्त्वस्य अयं प्रज्ञापारमितापरिवर्तो हस्तं गमिष्यति, वेदितव्यमिदम्-क्षिप्रमयं सर्वज्ञतारम्बणैः समन्वङ्गीभविष्यति इति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा उत्कृष्टकुशलमूलसमन्वागताश्च भविष्यन्ति शोभनसमाचाराश्च भविष्यन्ति, उदाराधिमुक्तिकाश्च भविष्यन्ति, प्रतिकूलसंज्ञा चैषां मानुष्यके आत्मभावे संतिष्ठते, शीलसंपन्नाश्च भवन्ति, महाजनस्य च कृत्यकारिणो भवन्ति, देवोपपत्तिं चाकाङ्क्षन्ति, वेदितव्यमेतत्-क्षिप्रमेते चातुर्महाराजिकानां देवानां सहव्रतायोपपत्स्यन्ते, तत्र चाधिपत्यं कारयिष्यन्ति। ये केचित्सुविक्रान्तविक्रामिन् परिशुद्धतरैः कुशलमूलैः समन्वागता उत्कृष्टकुशलमूलाश्च पूर्वं च दान ददति पश्चात्स्वयं भुञ्जते, प्राक् चान्येषां सत्त्वानां कृत्यानि कुर्वन्ति पश्चादात्मनः, न चाधर्मरागरक्ता भवन्ति, न विषमरागरक्ता भवन्ति, देवैश्वर्याधिपत्यं चाकाङ्क्षन्ति, वेदितव्यमेतत्-अचिरादेते अप्रकम्प्यं देवानां त्रायस्त्रिंशतामैश्वर्याधिपत्यं करिष्यन्ति, शक्राश्च भविष्यन्ति देवानामिन्द्रा इति। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता उपनंस्यते, निष्ठा तत्र गन्तव्या-क्षिप्रमयं सर्वधर्मैश्वर्याधिपतिवशवर्तितामनुप्राप्स्यतीति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वाश्चतुर्णां ब्रह्मविहाराणां लाभिनो भवन्ति, वेदितव्यमेतत्-क्षिप्रमेते ब्रह्मलोके उपपत्स्यन्त इति। एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद् बोधिसत्त्वस्य अयं प्रज्ञापारमितानिर्देश उपनंस्यते, वेदितव्यमिदम्-क्षिप्रमयं धर्मचक्रं प्रवर्तयिष्यतीति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् वार्षिकेषु मासेषु प्रत्युपस्थितेषु इयं महापृथिवी मेघान् प्रतीत्य स्निग्धा भवति, अनुपूर्वेण च प्रवर्षति, देवेनाभिष्यन्दमाना उपर्युपरि उदकं प्रवर्षन्ति, येनोत्साहं बहवोऽनुगच्छन्ति। ये चास्या महापृथिव्यास्तलं संतर्पयन्ति। एवमियं महापृथिवी अभ्यन्तरा च अभिष्यन्दिता स्निग्धा च भवति, उपरिष्टाच्च उदकमुह्यते, यथा निम्नानि च स्थलानि संतर्पयति, एवमियं महापृथिवी उपरिष्टान्मेघैरभिष्यन्दिता सती तृणगुल्मौषधिवनस्पतीनाभिष्यन्दयति। तेऽभिष्यन्दिताः सन्तो बहून् शाखापत्रपलाशान् मुञ्चन्ति बहुपुष्पफलाश्च भवन्ति, तदा चेयं महापृथिवी मनोज्ञगन्धमुत्सृजति। एवमियं महापृथिवी पुष्पफलोत्ससरस्तडागैस्तस्मिन् समये उपशोभिता भवति। ततश्च तुष्टा भवन्ति मनुष्याश्च अमनुष्याश्च तानि पुष्पफलानि परिभुञ्जमानास्तं च गन्धं जिघ्रन्तः। एवमेव सुविक्रान्तविक्रामिन् यदा बोधिसत्त्वस्य इयं प्रज्ञापारमिता अभिमुखी भवति, अस्यां च प्रज्ञापारमितायां योगमापद्यते, वेदितव्यमेतत् सुविक्रान्तविक्रामिन् अचिरेणायं बोधिसत्त्वोऽभिष्यन्दितः सर्वज्ञज्ञानेन, सर्वज्ञज्ञानं विवरिष्यति, सर्वज्ञज्ञानं प्रकाशयिष्यति, तेन च सत्त्वानार्द्रीकरिष्यत्यनुत्तरधर्मरत्नप्रकाशनतायै॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् येऽनवतप्तस्य नागराजस्य भवने सत्त्वा उपपन्नाः, ते चत्वारो महानदीरुत्सृजति या महासमुद्रं संतर्पयन्ति। एवमेव सुविक्रान्तविक्रामिन् येषां बोधिसत्त्वानामियं प्रज्ञापारमिता हस्तमुपनंस्यति, अस्यां न शिक्षिष्यन्ते, सर्वे ते महाधर्मधाराः प्रवर्षन्ति, याभिः सर्वसत्त्वान् धर्मदानेन संतर्पयिष्यन्ति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् ये केचित्सत्त्वाः सुमेरोः पर्वतराजस्यान्तिकमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णा भवन्ति। एवमेव सुविक्रान्तविक्रामिन् येषां बोधिसत्त्वानामयं प्रज्ञापारमितानिर्देशो हस्तगतो भविष्यति, सर्वे ते एकां गतिं गमिष्यन्ति यदुत तथागतगतिं सर्वज्ञतागतिम्॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् सागरो महासमुद्रः सर्वोदकसंधारयिता, नित्यं तत्र सर्वमुदकं समवसरति, एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य अयं प्रज्ञापारमितानिर्देशो हस्तगतो भविष्यति, निष्ठा तत्र गन्तव्या-क्षिप्रमयं सर्वधर्मसागरतां सर्वधर्मभाजनतां सर्वधर्मसमवसरणतामनुप्राप्स्यति, क्षिप्रं च धर्मसंकेतेन अक्षोभ्यो भविष्यतीति॥

तद्यथापि नाम सुविक्रान्तविक्रामिन् सूर्यमण्डलमभ्युद्गच्छत् सर्वा दिशः प्रभाध्यामीकरोति, एवमेव सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽस्यां प्रज्ञापारमितायां चरन् सर्वसत्त्वानां धर्मावभासकृत्येन प्रत्युत्पस्थितो भवति, इहाभ्युद्गच्छन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः सर्वसत्त्वानां कुशलमूलावभासेन प्रत्युपस्थितो भवति, सर्वसत्त्वानां च दक्षिणीयतां गच्छति, सर्वसत्त्वानां च पुण्यक्षेत्रविशुद्धिं गच्छति, सर्वसत्त्वानां चाभिगमनीयो भवति, सर्वसत्त्वानां च पूज्यो भवति प्रशंसनीयः॥

अस्यां सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वोऽग्रतायां शिक्षते, सर्वसत्त्वानां च निर्वाणपथशोधनाय शिक्षते। तत्कस्माद्धेतोः ? एषा हि सुविक्रान्तविक्रामिन् अग्रा शिक्षा ज्येष्ठा वरा प्रवरा अनुत्तरा निरुत्तरा येयं प्रज्ञापारमिताशिक्षा। अस्यां शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वः सर्वशिक्षापारमितां प्राप्नोति, सर्वशिक्षाश्च समादाय अभ्युद्गच्छति, सर्वशिक्षाणां च देशयिता भवति, सर्वशिक्षाणां च अभिवाहयिता भवति, अस्यां हि सुविक्रान्तविक्रामिन् शिक्षायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वचर्यायां चरन्तः शिक्षिताः शिक्षिष्यन्ते शिक्षन्ते च। अस्यां च शिक्षायां सुप्रतिष्ठिता बुद्धा भगवन्तः सर्वसत्त्वेभ्योऽनुत्तरां शिक्षापरिशुद्धिं संप्रकाशितवन्तः, संप्रकाशयन्ति च। तत्कस्माद्धेतोः ? सर्वलोकाभ्युद्गतशिक्षा ह्येषा सुविक्रान्तविक्रामिन् यदुत प्रज्ञापारमिताशिक्षा। सर्वलोकविशिष्टा शिक्षा सर्वलोकस्वयंभूशिक्षा यदुत प्रज्ञापारमिताशिक्षा। प्रज्ञापारमितायां शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कस्मिंश्चिद्धर्मे शिक्षितो भवति लौकिके वा लोकोत्तरे वा, संस्कृते वा असंकृते वा, सास्रवे वा अनास्रवे वा, सावद्ये वा अनवद्ये वा। न क्वचित्सङ्गं जनयति, सर्वधर्मासङ्गविहारी भवति। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् असक्ता अबद्धा अमुक्ताः। नापि कस्यचिद्धर्मस्य सङ्गेन प्रत्युपस्थिता न बन्धनेन। रूपं हि सुविक्रान्तविक्रामिन् असक्तमबद्धममुक्तम्। वेदनासंज्ञासंस्कारविज्ञानमसक्तमबद्धममुक्तम्। नामरूपमसक्तमबद्धममुक्तम्। विपर्यासदृष्टिगतनीवरणान्यसक्तानि अबद्धानि अमुक्तानि। रागद्वेषमोहा असक्ता अबद्धा अमुक्ताः। षडाध्यात्मिकान्यायतनानि असक्तानि अबद्धानि अमुक्तानि। षड्बाह्यायतनानि असक्तानि अबद्धानि अमुक्तानि। कामरूपारूप्यधातवोऽसक्ता अबद्धा अमुक्ताः। आत्मधातुः सत्त्वधातुश्च असक्तोऽबद्धोऽमुक्तः। प्रतीत्यसमुत्पादोऽसक्तोऽबद्धोऽमुक्तः। संक्लेशव्यवदानमसक्तमबद्धममुक्तम्। एवं त्यागमात्सर्यशीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यानि असक्तानि अबद्धानि अमुक्तानि। दुःखसमुदयनिरोधमार्गा असक्ता अबद्धा अमुक्ताः। स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाप्रमाणाविपर्यासा अमुक्ताः। इन्द्रियबलबोध्यङ्गसमाधिसमापत्तयोऽसक्ता अबद्धा अमुक्ताः। पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातवोऽसक्ता अबद्धा अमुक्ताः। अनुत्पादक्षयाभिसंस्कारज्ञानानि असक्तानि अबद्धानि अमुक्तानि। अविद्याविमुक्ति असक्ते अबद्धे अमुक्ते। अभिज्ञासङ्गता असक्ता अबद्धा अमुक्ता। विद्याविमुक्तिज्ञानदर्शनमसक्तमबुद्धममुक्तम्। पृथग्जनश्रावकप्रत्येकबुद्धधर्मा असक्ता अबद्धा अमुक्ताः। निर्वाणमसक्तमबद्धममुक्तम्। बुद्धज्ञानबलवैशारद्यानि असक्तानि अबद्धानि अमुक्तानि। अतीतानागतप्रत्युत्पन्नासङ्गज्ञानदर्शनमसक्तमबद्धममुक्तम्। तत्कस्माद्धेतोः ? सर्वधर्माणां हि सुविक्रान्तविक्रामिन् बन्धनं नोपलभ्यते। असङ्गा अबद्धा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, तेन तेषां विमुक्तिर्नोपलभ्यते। असक्ता इति सुविक्रान्तविक्रामिन् न तेषां कश्चिन्मोचयिता, अपि तु यदेवं सर्वधर्माणां दर्शनम्, इदमुच्यते असङ्गज्ञानदर्शनमिति। असङ्ग इति सुविक्रान्तविक्रामिन् सङ्गानुपलब्धिः। असङ्गोऽसङ्गतया, असङ्गोऽसङ्गभूततया असङ्ग इत्युच्यते। नात्र कश्चिदुपलभ्यते, यः संयुज्येत वा बध्येत वा। यतश्च नोपलभ्यते यः संयुज्यते वा बध्येत वा, तेन असङ्ग इत्युच्यते। अबद्ध इति सुविक्रान्तविक्रामिन् बन्धाननुपलब्धितः, बन्धनाभूततया अबद्ध इत्युच्यते। न हि तत्र किंचिद्बन्धनं विद्यते, नापि तत्र कश्चिदुपलभ्यते यो बद्धः। यतश्च नोपलभ्यते यो बद्धः, तेन अबद्ध इत्युच्यते। यश्च असक्तोऽबद्धः, कुतस्तस्य मुक्तिः ? यश्च न सज्जते न बध्यते, मुक्तोऽसौ विसंयुक्तः शीतीभूतो विप्रमुक्तः। तत्र न काचिद्भूयो बन्धना। तेनोच्यते विमुक्त इति। मोक्षोऽस्य भूयो न संविद्यते। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मासक्ताबद्धामुक्तज्ञानदर्शनप्रवेशः प्रज्ञापारमितायां चरतः। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो भवत्यनुत्तरायाः सम्यक्संबोधेः। क्षिप्रं च स सर्वज्ञज्ञानं प्रतिलभते। इमामहं सुविक्रान्तविक्रामिन् मुद्रां स्थापयामि बोधिसत्त्वानां संशयच्छेदाय प्रज्ञापारमितामभियुक्तानां प्रज्ञापारमितायां चरताम्। स्वयमिमं सुविक्रान्तविक्रामिन् मुद्रानिर्देशमधिष्ठास्यामि, न प्रतिबला मम श्रावका इमां प्रज्ञापारमितामुद्रां पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां धारयितुम्॥

अथ खलु भगवान् भद्रपालसुसार्थवाहपूर्वंगमानि पञ्चमात्राणि बोधिसत्त्वशतान्यामन्त्रयते स्म सुविक्रान्तविक्रामिणं च बोधिसत्त्वम्-शक्यथ यूयं कुलपुत्रास्तथागते परिनिर्वृते पश्चिमे काले पश्चिमे समये पश्चिमिकायां पञ्चशत्यां सद्धर्मान्तर्धानकालसमये सद्धर्मविप्रलोपे वर्तमाने संक्षीणकाले इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रसमुदानीतं धर्मरत्नकोषं प्रज्ञापारमितापूर्वंगमं प्रज्ञापारमिताप्रभवं प्रज्ञापारमिताप्रतिष्ठानं धारयितुम्, परेभ्यश्च विस्तरेण संप्रकाशयितुम् ? एवमुक्ते बोधिसत्त्वा भगवन्तमेतदवोचत्-शक्यामो वयं भगवन् इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रसमुदानीतमनुत्तरं धर्मरत्नकोषं प्रज्ञापारमितापूर्वंगमं प्रज्ञापारमिताप्रभवं प्रज्ञापारमिताप्रतिष्ठानं धारयितुम्, परेभ्यश्च विस्तरेण संप्रकाशयितुम्। किंचापि भगवन् स कालो महाभयो महाकान्तारो महाघोरश्च भविष्यति, यद्भूयसा च तस्मिन् समये सत्त्वाः सद्धर्मव्यवनसंवर्तनीयेन कर्मणा समन्वागता भविष्यन्ति, विषमलोभलुब्धा विषमरागरक्ता अधर्मरागरक्ता ईर्ष्यालोभपरीतचेतसः क्रोधनाश्चण्डाः परुषाः दुर्वचसः शठाः कुहका मायाविनोऽधर्मचारिणः कलहभण्डनविवादविग्रहबहुला असंवरस्थिताः लुब्धा लोभाभिभूताः कुसीदाः हीनवीर्या मुषितस्मृतयोऽसंप्रज्ञास्तुण्डाः मुखराः प्रगल्भा अन्तर्हृदयप्रतिच्छन्नपापकर्माणः उत्सदरागद्वेषमोहा अविद्याण्डकोषतमोमोहान्धकाराभिभूता मारपक्षानुकूलचारिणः प्रत्यर्थिकाश्च भविष्यन्ति, अस्य गम्भीरस्य धर्मविनयस्य धर्मरत्नकोषस्य अप्रत्युद्गतमनःशीलाश्च भविष्यन्ति, अथ च पुनरुत्सहामहे वयं भगवन् इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रकुशलमूलसमुदानीतमनुत्तरं धर्मरत्नकोषं धारयितुं वाचयितुम्, ये च तस्मिन्नन्तकाले परीत्तपरीत्ता अपि सत्त्वा भविष्यन्ति एभिर्धर्मैरर्थिकाः, एषु धर्मेषु शिक्षितुकामा, अशठा ऋजवोऽमायाविनः, ये जीवितमपि परित्यजेयुः, न पुनरेषां धर्माणां प्रत्यर्थिका भवेयुः, नापीमान् धर्मान् प्रतिक्षिपेयुः, नोप्येभ्यो धर्मेभ्यः पराङ्मुखा भवेयुः, तेषामर्थं करिष्यामः, उत्साहं च दास्यामः, एष्वेवंरूपेषु धर्मेषु संदर्शयिष्यामः, समुत्तेजयिष्यामः संप्रहर्षयिष्यामः॥

अथ खलु भगवांस्तस्यां वेलायामिदं धर्माधिष्ठानं प्रज्ञापारमितानिर्देशमधितिष्ठिति स्म, मारस्य च पापीयसोऽस्मिन् धर्मपर्याये मारपाशानां छेदाय अधिष्ठानमकरोत्। अथ खलु भगवान् स्मितं प्राविष्करोति स्म, यथायं त्रिसाहस्रमहास्राहस्रो लोकधातुर्महतावभासेन स्फुटोऽभूत्। देवा अपि मनुष्यान् पश्यन्ति स्म, मनुष्या अपि देवान्। ये तत्र संनिपतिता देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः, ते सर्वे दिव्यैः पुष्पैर्भगवन्तमभ्यवकिरन्ति स्म, दिव्यानि च चीवराणि क्षिपन्ति स्म, महान्तं च निर्नादनिर्घोषमकार्षुः-महाधिष्ठानं बतेदं तथागतेनाधिष्ठितं यत्रागतिर्माराणां पापीयसाम्। सर्वमारपाश हि च्छिन्ना अनेन धर्माधिष्ठानेन च। तेषां कुलपुत्राणां कुलदुहितृणां च भूयो मारेभ्यः पापीयोभ्योऽभयं प्रतिकाङ्क्षितव्यम्। ये इमं धर्मपर्यायं धारयिष्यन्ति वाचयिष्यन्ति परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, उत्तीर्णास्ते बोधिसत्त्वा भविष्यन्ति। मारं च ते पापीयांसं ससैन्यं पराजयिष्यन्ति ये इमं धर्मपर्यायं धारयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति॥

अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वमेतदवोचत्-एवमेतत्सुविक्रान्तविक्रामिन्, एवमेतत्, यथैते देवपुत्रा वाचो भाषन्ते। बद्धसीमा सुविक्रान्तविक्रामिन् माराणां पापीयसामस्मिन् धर्मपर्याये भाष्यमाणे तथागतेन। येऽत्र खलु पुनः सुविक्रान्तविक्रामिन् कुलपुत्रा वा कुलदुहितरो वा इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, अगतिस्तत्र मारस्य पापीयसो भविष्यति, अनाक्रमणीयाश्च ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति मारैः पापीयोभिः। निहतमारप्रत्यर्थिकाश्च ते भविष्यन्ति उत्तीर्णसंग्रामाश्च, ये इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति। न खलु पुनः सुविक्रान्तविक्रामिन् अयं धर्मपर्यायः संक्लिष्टानां सत्त्वानां हस्तं गमिष्यति, नापि मारपाशबद्धानां। आजानेयभूमिरियं सुविक्रान्तविक्रामिन्, नेयमनाजानेयानामनाजानेयभूमिः। तद्यथापि नाम सुविक्रान्तविक्रामिन् ये ते भविष्यन्ति हस्त्याजानेया वा अश्वाजानेया वा, न ते कोट्टराज्ञां परिचर्यां कुर्वन्ति, नापि ते क्रूरजनानां दर्शनमुपयान्ति। चक्रवर्तिनां सुविक्रान्तविक्रामिंस्तथारूपा हस्त्याजानेया अश्वाजानेयाश्च दर्शनमुपयान्ति, तेषां च अभ्युद्गच्छन्ति परिभोगाय उपस्थानपरिचर्यायै, चक्रवर्तिनां हि राज्ञां परिभोगाय भवन्ति। एवमेव सुविक्रान्तविक्रामिन् मनुष्याजानेयानां सत्त्वानामिमे एवंरूपा धर्मपर्यायाः परिभोगाय हस्तं गमिष्यन्ति। तद्यथापि नाम सुविक्रान्तविक्रामिन् उपोषधो नागराजः सुप्रतिष्ठितश्च नागराजः ऐरावणो नागराजः। न ते मनुष्याणामुपभोगाय संक्रामन्ति, नापि ते मनुष्याणां दर्शनायोपसंक्रामन्ति, नापि ते अन्येषां देवानामुपभोगाय परिभोगाय संक्रामन्ति, देवाजानेयानां ते नागराजानः परिभोगाय संक्रामन्ति। यथा यथा च शक्रो देवानामिन्द्रोऽभिक्रामति व्यूहं कृत्वा, तथा तथा चापि नागराजानस्तादृशमेव व्यूहं कृत्वा उपसंक्रामन्ति परिभोगाय। एवमेव सुविक्रान्तविक्रामिन् ये ते भविष्यन्ति मनुष्येन्द्राः पुरुषेन्द्राः तेषामिमे धर्मपर्याया उपभोगपरिभोगाय भविष्यन्ति, यदुत वाचनतया देशनतया संप्रकाशनतया, तेषां चेमे धर्मपर्याया महाव्यूहा महाविष्कारा महाधर्मालोका भविष्यन्ति, महतीं च धर्मप्रीतिमेषु धर्मपर्यायेषु तेऽनुभविष्यन्ति। महता च प्रीतिप्रामोद्येन समन्वागता भविष्यन्ति, अस्य धर्मपर्यायस्य एकं नयं ये धारयिष्यन्ति, कः पुनर्वादो ये सकलसमाप्तं लेखयित्वा धारयिष्यन्ति पूजयिष्यन्ति वैस्तारिकं च करिष्यन्ति, ते ते मनुष्येन्द्रा मनुष्याजानेयाः। परिगृहीतास्ते खलु पुनः सुविक्रान्तविक्रामिन् अनेन धर्मपर्यायेण भविष्यन्ति। अगतिरस्मिन्ननाजानेयानाम्। एतदप्यहं सुविक्रान्तविक्रामिन् सर्वसंशयच्छेदाय वदामि॥

अस्मिन् खलु पुनर्धर्मपर्याये भगवता भाष्यमाणे अनेकैरप्रमेयैर्बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत्। अप्रमेयासंख्येयाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति। नियताश्च ते तथागतेन निर्दिष्टा अभूवन् बोधाय॥

इदमवोचद्भगवान्। आत्तमनाः सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वः, चतस्रः पर्षदः, सदेवमानुषनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगश्च लोको भगवतो भाषितमभ्यनन्दन्॥ इति॥

आर्य प्रज्ञापारमितायामनुशंसापरिवर्तः सप्तमः॥

आर्यसुविक्रान्तविक्रामिपरिपृच्छा प्रज्ञापारमितानिर्देशः॥

सार्धद्विसाहस्रिका भगवती आर्यप्रज्ञापारमिता समाप्ता॥

या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्

या मार्गज्ञतया जगद्धितकृतां लोकार्थसंपादिका।

सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगता-

स्तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः॥ १॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोधो एवं वादी महाश्रमणः॥ २॥