सामग्री पर जाएँ

सारमञ्जरी (सारदीपिकाव्याख्यासहिता)

विकिस्रोतः तः
सारमञ्जरी (सारदीपिकाव्याख्यासहिता)
[[लेखकः :|]]

अथ काव्यव्‍याकरणतर्कतीर्थविद्यावारिधि-
श्री कालीपदतर्काचार्य्यकृता सारदीपिकानाम्नी-व्‍याख्‍या
मङ्गलाचरणम्
नानायोगविधानतो मुनिगणैराराधितामन्‍वहं
सर्वार्थप्रतिदानकल्‍पलतिकां सङ्ग्रामलीलावतीम्।
कैलासेश्वरविभ्रमप्रणयिनीं व्‍यामोहविध्‍वंसिनीं
शक्तिं कामपि भक्तियुक्तमनसा नित्‍यं भजे शाश्वतीम्॥
नत्‍वा शक्तिपदद्वन्‍द्वमप्रतिद्वन्द्वि सुन्‍दरम्।
अज्ञानतिमिरध्वंसि कंससूदनवन्दितम्।।
तर्कतीर्थोपाधिकश्रीहरिदासद्विजात्‍मज:।
कोटालिपार नगरप्रभव: काश्‍यपान्‍वय:।
श्रीकालीपदशर्म्मायं तर्काचार्योपनामक:॥
व्‍याख्‍यां प्रतनुते सारमञ्जर्य्या: सारदीपिकाम्॥
हे सन्‍त: करुणाधीना दीनस्‍य वचनेष्‍वमी।
पदे पदे सतो दोषान् कृपया ज्ञापयन्‍तु न:॥
प्रारिप्सितवस्‍तुसमाप्तिप्रतिबन्धकीभूतविघ्नविध्‍वंसनकारणीभूतां गणपत्‍यात्‍म-कस्‍य परमेश्वरस्‍य प्रणतिं शिष्‍याणामवधानाय प्रतिज्ञारूपां ग्रन्‍थकृत् निबध्नाति - हेरम्‍बेत्‍यादि। विघ्नेति - विघ्न: अभीष्टवस्‍तुसिद्धिप्रत्‍यूहभूतदुरितरूप:, तस्‍य नाशकरं ध्‍वंसकारणम्। एतेन प्रणामे हेतुर्दर्शितः, अभीष्टवस्‍तुसिद्धिप्रतिबन्‍धकीभूत-विघ्ननाशस्‍यापि इष्टत्‍वात् तत्‍साधकतया हेरम्बचरणद्वन्‍द्वस्‍य तत्‍प्रणामेऽपि प्रवृत्ति: सफला प्रणामविषयतया एव हेरम्‍बचरणद्वन्‍द्वस्‍य अभीष्टसाधकत्‍वात् न स्‍वरूपत एवेति।
ननु कथमन्‍यान् देवान् परित्‍यज्‍य हेरम्बचरणस्‍तुति: प्रस्‍तुतेत्‍याकाङ्क्षायामाह - परमिति। परम् उत्‍कृष्टम्। तथाहि - विघ्ननाशं प्रति देवतान्‍तरापेक्षया स्‍वातन्‍त्र्येण विघ्नराजस्‍य हेरम्‍बस्‍यैव समुत्‍कर्षात् तत्‍प्रणाम एव सप्रयोजन इति। हेरम्‍बचरणद्वन्‍द्वं गणपतिपादद्वयम्। ननु हेरम्‍बस्‍य एकमपि चरणमर्च्यमानम् अभीष्टफलनिर्व्वर्त्तकं भवितुमर्हति, किं पादद्वयप्रणामेन इत्‍याकाङ्क्षायां केचिदाहुः। ग्रन्‍थसम्‍पादने विघ्न-ध्‍वंस: तद्द्वारा समाप्तिश्चेति द्वे एव अभीष्टफले, तत्र द्वयोरेव प्रकृते अभीष्टत्‍व-मभिव्‍यज्‍यते, पादद्वयेन अर्च्यमानेन फलद्वयी साधयिष्‍यत इति भाव:।
प्रणम्‍य स्‍वावधिकोत्कर्षवत्तया ज्ञापयित्‍वा, प्रपूर्व्‍वनमधात्‍वर्थस्‍य स्‍वावधि-कोत्‍कर्षवत्तया ज्ञापनरूपत्‍वात्, द्वितीयाया विषयत्‍वं विषयित्‍वं वा अर्थ:। तस्‍य च निरूपकत्‍वसम्‍बन्‍धेन स्‍वरूपेण वा प्रणामपदार्थैकदेशे ज्ञाने अन्‍वय:। ल्यप्‍प्रत्‍ययस्‍य आनन्‍तर्य्यमर्थ:। तथा च उक्तविशेषणद्वयविशिष्टहेरम्‍बचरणद्वन्‍द्वविषयकस्‍वावधिको-त्कर्षप्रकारकज्ञानानुकूलव्‍यापारानन्‍तरमित्‍यर्थ:।
जयकृष्‍णेन तदाख्‍येन पण्डितेन मयेति ऊह्यम्। सारमञ्जरी तदाख्‍यो ग्रन्‍थ: क्रियते निरूप्‍यते, कृधातोर्धात्‍वर्थसामान्‍यवाचित्‍वात् निरूपणमर्थ:, अथवा सारमञ्जर्य्या: ग्रन्‍थरूपत्‍वात् शब्‍दमय्या उत्‍पादनमेव ज्ञानानुकूलव्‍यापार:, शब्‍दमय-वस्‍तूत्‍पादनस्‍य शाब्‍दोच्‍चारणरूपतायामेव पर्य्यवसानात्। क्रियते इत्‍यत्र भविष्‍यत्‍सामीप्‍ये वर्त्तमानता, करिष्‍यते निरूपयिष्‍यते इत्‍यर्थ:। एतेन शिष्यावधान-फलिका प्रतिज्ञा दर्शिता, प्रतिज्ञा हि उत्तरकालकर्त्तव्‍यत्‍वप्रकारकबोधानुकूल-व्‍यापार:। एतद्वाक्‍योच्चारणेन सारमञ्जरीनिरूपणमुत्तरकालकर्त्तव्‍यमित्‍याकारक-बोधोदयात् उच्‍चारणोच्चार्यमाणयोरभेदविवक्षया च एतद्वाक्यस्‍य प्रतिज्ञावाक्‍यत्‍व-मव्‍याहतम्।
सारस्‍य स्थिरांशस्‍य उत्‍कृष्टभागस्‍य इत्यर्थ:, मञ्जरी कारणीभूतवस्‍तुविशेष:, तथाहि यथा प्रथमतो मञ्जरी जाता अनन्‍तरं क्रमेण सैव वृक्षस्‍य सारवत्तामनुकूलयति तथैव अयं ग्रन्‍थ: व्‍युत्‍पत्तिविशेषलाभे उपयोगितां गमिष्‍यतीति नामतात्‍पर्य्यम्।
ननु अकृतप्रणामस्‍य ग्रन्‍थकर्त्तुरपि ग्रन्‍थे दृष्टा निर्विघ्नपरिसमाप्तिः नापि च दृष्टा सकलदेवतानमस्‍कारकर्त्तुरपि बाणभट्टादेर्ग्रन्‍थे सा इति प्रणामस्‍य अन्‍वयव्यभिचार-तो व्‍यतिरेकव्‍यभिचारतश्च न समाप्तिं प्रति विघ्नध्‍वंसं प्रति वा कारणत्‍वमुपपद्यते इति चेन्न। यत्र सत्‍यपि नमस्‍कारे नाभिप्रेतसिद्धि: तत्र विघ्नप्राचुर्य्यं कल्‍प्यते। यत्र च असति नमस्‍कारे समाप्तिर्दृश्‍यते तत्र जन्‍मान्‍तरीयशुभादृष्टपरम्परा समाप्तिहेतु: कल्प्यते। तदिदं निष्‍कृष्टं यद् विघ्नध्‍वंसद्वारा नमस्‍कारादयः ग्रन्‍थसमाप्तिं प्रति कारणं, स्‍वत: सिद्धविघ्नविरहस्‍थले च विघ्नशङ्कया तदाचरणम्। आदिपदग्राह्यं क्रियान्तरञ्च अदृष्टद्वारेण तत्र कारणं, केचित्तु विघ्नात्‍यन्‍ताभावेन समाप्तिसाधनं ब्रुवते तेषां न काप्‍यनुपपत्तिरिति। नमस्‍कारश्लोकस्‍य निष्‍कृष्टशाब्‍दबोधो यथा - उत्‍कर्षविशिष्ट-विघ्नध्‍वंसहेतुभूतहेरम्‍बचरणद्वन्‍द्वविषयकस्‍वावधिकोत्‍कर्षप्रकारकबोधानुकूलव्‍यापा-रानन्‍तरत्‍वविशिष्टजयकृष्‍णवृत्तिकृतिप्रयोज्‍यशिष्‍यसमवेतबोधानुकूलव्‍यापारविषय-तावती सारमञ्जरीति।
तत्र सारमञ्जरीनिबद्धविषयाणां मध्‍ये प्रथमत: ग्रन्‍थस्‍य प्रवृत्तिकाले, आद्य-कृताविति यावत्। कालत्रयस्‍य अतीतवर्त्तमानभविष्‍यदुपाधिभेदात् त्रिधा विभक्तस्य कालाख्‍यपदार्थस्य निरूपणं ज्ञापनम्। एकस्‍यापि कालस्‍य अतीतत्‍वादिविलक्षण-धर्म्मवत्तया भेदात् त्रयेत्‍याख्‍यानम्। अत एव निरुक्तविभाग उपपद्यते “सामान्य-धर्म्मावच्छिन्नानां परस्‍परविरुद्धतद्व्याप्‍यधर्म्मप्रकारेण ज्ञापनस्‍य” विभाग-पदार्थत्‍वात्।
तत्रेत्‍यत्र निर्द्धारणे सप्तमी, न तु अधिकरणे, वाक्‍यरूपस्‍य सारमञ्जरीग्रन्‍थस्‍य प्रकृतनिरूपणविषयात्‍मककालाधिकरणत्‍वायोगात्। उद्देश्‍यतावच्‍छेदकशून्‍ये सामान्‍य-धर्म्मावच्छिन्ने विधेयाभाववत्त्‍वरूपनिर्द्धारणार्थस्‍तु उपपद्यत एव प्रथमनिरूपण-विषयत्‍वरूपस्‍य विधेयस्‍य उद्देश्‍यतावच्‍छेदकशून्‍ये कालत्रयातिरिक्ते सारमञ्जरीग्रन्‍थ-प्रतिपाद्यविषये सामान्यधर्म्मावच्छिन्‍ने अभावात्।
लडादीनां वर्त्तमानकालादौ शक्ततया तदर्थनिरूपणं कालत्रयनिरूपण-सापेक्षमिति, प्रथमत: सामान्‍येन कालत्रयनिरूपणम्, एषापि शिष्‍यावधानफलिका प्रतिज्ञैवेति क्रियत इत्‍यस्‍य अध्‍याहारेण तत्‍सामञ्जस्‍यात् पूर्व्ववत्।
वर्त्तमानेत्‍यादि - वर्त्तमान: वर्त्तमानक्षणवृत्ति: यो ध्‍वंस: तत्‍प्रतियोगित्‍वम् अतीतत्‍वम्। अतीतोपाधिकस्‍य खण्‍डकालस्‍य वर्त्तमानक्षणे नाशसत्त्‍वात् तत्‍कालस्‍य अतीतत्‍वम्। अत्रेदमवधेयं - यथा यस्‍य अभाव: स एव प्रतियोगी, अभावश्च आदौ द्विविध:, संसर्गाभावान्‍योन्‍याभावभेदात्, अनन्‍तरञ्च संसर्गाभावोऽपि त्रिविध:। प्रागभावध्‍वंसाभावात्‍यन्‍ताभावभेदात्, जन्‍यस्‍य वस्‍तुन: उत्‍पत्ते: पूर्व्वं योऽभाव: स प्रागभाव: तस्‍य प्रतियोगि भविष्‍यदुत्‍पत्तिकं तद्वस्‍तु एव, यश्च घटो नष्ट इत्‍यादिव्‍यवहारविषयोऽभाव: स ध्‍वंसाभाव: तस्‍य च प्रतियोगी घटो नष्ट इत्‍यादौ घटादिरेव, तत् यस्‍य नाश: भवति स एव ध्‍वंसाभावप्रतियोगीति स्‍पष्टम्। अत्‍यन्‍ताभावश्च सदातनाभाव:, भूतले घटो नास्ति इत्‍यादिप्रतीतिवषय:, तस्‍य च प्रतियोगी प्रकृते घट इत्‍येवम्। वर्त्तमाने क्षणे अतीतक्षणानां ध्‍वंसो वर्त्तते क्षणानां तत्तदनन्‍तरक्षणेष्‍वेव नाशात्, अत एव तत्तत्‍क्षणानन्‍तरक्षणमपेक्ष्‍य तत्तत्‍क्षणानाम् अतीतत्‍वं सिद्धम्। वर्त्तमानत्‍वं ध्‍वंसविशेषणं, वर्त्तमानत्‍वञ्च वक्ष्‍यमाणं, ध्‍वंसस्‍य च निरूपितत्‍वसम्‍बन्‍धेन प्रतियोगितायाम् अन्‍वय:, तदयं लक्षणार्थबोध: - स्‍वावच्छिन्नकालवृत्तित्‍वविशिष्टध्‍वंसनिरूपितप्रतियोगित्‍वमतीतत्‍वमिति।
वर्त्तमानप्रागभावेति - वर्त्तमानत्‍वं प्रागभावविशेषणम्। वर्त्तमानो य: प्रागभाव:, तन्निरूपितं प्रतियोगित्‍वं भविष्‍यत्त्‍वं, तथाहि - यद्वस्‍तु नाद्य वर्त्तते, परं भविष्‍यत्‍काले भविष्‍यति, तस्‍य प्रागभावो वर्त्तमान: तत्‍प्रतियोगित्‍वञ्च भविष्‍यदुत्‍पत्‍स्‍यमान-पदार्थवृत्तिः। अत एव वर्त्तमानक्षणमपेक्ष्‍य अनन्‍तरजातस्‍य क्षणस्‍य प्रागभावो वर्त्तमानक्षणे वर्त्तत इति अनन्‍तरक्षणस्‍य भविष्‍यत्त्‍वं, भविष्‍यत्त्‍वेन वर्त्तमानक्षणापेक्षया अनन्‍तरक्षणानां सर्व्वेषां तुल्‍यत्‍वेऽपि अद्य घटो भविष्‍यति श्वो घटो भविष्‍यती-त्‍यादिव्‍यवहारेषु कालवाचकपदप्रतिपाद्यार्थस्‍य उत्‍पत्तौ अन्‍वयात्। अर्थवैलक्षण्यं वैपरीत्‍येन व्‍यवहारबाधश्च बाधज्ञानस्‍य तादृशव्‍यवहारप्रतिबन्धकत्‍वात्।
अथ अतीतत्‍वभविष्‍यत्त्‍वलक्षणघटकीभूतवर्त्तमानपदार्थ: क इत्‍याकाङ्क्षायां तल्लक्षणमाह - स्‍वावच्छिन्नेत्‍यादि। स्‍वपदं लक्ष्‍यपरम्। तथा च स्‍वावच्छिन्नकाल-वृत्तिर्यः स एव वर्तमानः। अयम्भावः – यस्मिन् क्षणे यद् वर्तते, स क्षणः तस्य वर्तमानः क्षणः। स एव च स्वावच्छिन्नोऽपि स्वविशिष्ट इति तदर्थः। तथा च घटस्य सत्ताकाल एव घटावच्छिन्नकालः, तत्र वृत्तित्‍वं घटस्‍य अव्‍याहतमिति घटस्‍य वर्त्तमानत्‍वम्। वर्त्तमानलक्षणानां वर्त्तमानत्‍वन्‍तु स्‍वावच्छिन्नकालपदेन शब्‍दादि-रूपस्‍य क्षणस्‍य आदानात् समन्‍वेतव्‍यम्। कालवृत्तित्‍वमित्‍यत्र वृत्तित्‍वं कालिक-सम्‍बन्‍धेन बोध्‍यम्। सम्‍बन्‍धान्‍तरेण तत्‍स्‍वीकारे अतीतादिक्षणानामपि परम्‍परया वर्त्तमानकालवृत्तित्‍वात् वर्त्तमानत्‍वापत्ते:। तदेवं कालत्रयविमर्शो हि प्रकृतोपयोगी, लडादिषु व्‍याख्यातव्‍येषु कालत्रयस्‍यैव आदानात् पूर्व्वाचार्य्यसिद्धत्‍वात्।
अथेत्‍यादि - अथशब्‍द आनन्‍तर्य्ये, अथेति कालनिरूपणानन्‍तरमित्‍यर्थ:। लकारादे: लट्प्रभृतिविभक्ते: शक्ते: ईश्वरेच्‍छाविषयत्‍वरूपाया वृत्ते: निरूपणं ज्ञानानुकूलव्‍यापार:, तथा च लट्प्रभृ‍तीनां वर्त्तमानत्‍वादौ शक्तिरिति प्रस्‍तोष्‍यते, तत्‍प्रतिज्ञेयं शिष्‍याणामवधानसम्‍पादनाय।
लडादिभेदेन आख्‍यातस्‍य दशविधत्‍वम्, आख्‍यातत्‍वञ्च स्वेतरप्रथमान्‍तनामार्थ-धर्म्मिकस्‍वार्थसङ्ख्‍याप्रकारकान्‍वयबोधजनकप्रत्‍ययत्‍वम्, स्‍वपदम् आख्‍यात-परम्, तथाहि - ‘देवदत्त: पचति’ इत्‍यादौ आख्‍यातप्रत्‍ययस्‍य वर्त्तमानत्‍वं सङ्ख्‍या कृतिश्च अर्था:, स्‍वेतरप्रथमान्‍तनामार्थ: देवदत्तपदार्थ: तद्धर्मिकः तद्विशेष्‍यक: स्‍वार्थसङ्ख्‍याप्रकारक: तिप्रत्‍ययार्थैकत्‍वप्रकारक: य: अन्वयबोध: तज्‍जनक-प्रत्‍यय: तिप्रत्‍यय एव प्रकृते, प्रत्‍ययार्थसङ्ख्‍याया: कर्त्तृवाच्‍ये कर्त्तरि कर्म्‍मवाच्‍ये च कर्म्‍मण्येव अन्‍वयात् तथात्‍वम्। अत एव कर्त्तृवाच्‍ये च कर्त्रनुगता कर्म्‍मवाच्‍ये कर्म्‍मानुगतैव धातूत्तरप्रत्‍ययवचनव्‍यवस्‍था। यथा जन: पचति, जनौ पचत: जन: दृश्‍यते, जनौ दृश्‍येते इत्‍यादि। तत्रेत्‍यस्‍य निर्द्धारणार्थकत्‍वं पूर्व्‍ववत्।
विधिलिङः लिङ्विभक्ते: भविष्‍यत्त्‍वं वर्त्तमानप्रागभावप्रतियोगित्‍वरूपं पूर्व्वोक्तं, विधि: - न प्रवर्त्तकवाक्यमात्रं, ‘तरति मृत्‍युं, तरति ब्रह्महत्‍याम्’ इत्‍याद्यर्थवादस्‍यापि प्रवर्त्तकवाक्यत्‍वात्। यद्यपि इष्टसाधनताबोधकवाक्‍यस्‍यैव विधित्‍वस्‍वीकारे प्रागुक्तदोषविरहस्‍तथापि ‘पङ्गु: समुद्रं तरेत्’ इत्‍यस्‍यापि इष्ट-साधनताबोधकवाक्‍यत्‍वात् विधित्वप्रसक्तिरिति कृतिसाध्‍यत्‍वबलवदनिष्टाननु-बन्धित्‍वयोस्‍तत्र निवेश: कर्त्तव्‍य:। तथाहि - बलवदनिष्टाननुबन्धित्‍वे सति कृति-साध्‍येष्टसाधनताबोधकवाक्यत्‍वमेव विधित्‍वमिति न दोष:। ‘पङ्गु: समुद्रं तरेदि’त्‍यत्र समुद्रतरणस्‍य कृतिसाध्‍यत्‍वाभावात् न विधित्‍वम्। ‘परदारान् गच्‍छेदि’त्‍यस्‍य बलवदनिष्टाननुबन्धित्‍वविरहात् न तथात्‍वम्। ‘स्वर्गकामो यजेत अश्वमेधेन’ इत्‍यादे: बलवदनिष्टाननुबन्धित्‍वात् कृतिसाध्‍येष्टसाधनताबोधजनकत्‍वाच्‍च विधित्‍वम् इति। कर्त्तव्‍यतोपदेश इत्‍यत्र तव्‍यप्रत्‍ययस्‍यापि उक्तार्थविशेष:।
सम्‍भावनेति - सम्‍भावनात्‍वाख्य: विषयताविशेष: तद्विशिष्टं ज्ञानं सम्‍भावना तदेव कल्‍पनं सा च विषयता एककोट्यंशे औत्‍कट्यरूपा, सैव सामान्‍यसंशयादस्‍य पदार्थस्‍य वैलक्षण्‍यं सम्‍पादयति, तदेवं त्रयोऽर्था लिङ्विभक्ते:। आशी: दृष्टविषयिणी इच्‍छा, शुभचिन्‍तनमपि तदेव, प्रेरणं प्रवर्त्तनं प्रवृत्तानुकूलव्‍यापार:।
वक्तृपरोक्षत्‍वं प्रयोगकर्त्तुः प्रत्‍यक्षाविषयत्‍वम्, यत्‍क्रियावाचकपदोत्तरं लिट् प्रत्‍यय: तत्‍क्रिया यदि प्रयोक्तु: प्रत्‍यक्षविषयो न स्‍यात् तदा तदुत्तरं लिड् विभक्ति:। यथा कथकेन प्रयुक्ते ‘जघान कंसं किल वासुदेव’ इति वाक्‍ये जघानेति पदोत्तरम्। कंसवधस्‍य युगान्‍तरे जातत्‍वात् वर्त्तमानयुगवर्त्तिन: कथकस्‍य न तत्र प्रत्‍यक्षविषयता इति तत्र लिड् विभक्त्युपपत्ति:।
वैगुण्‍यात् प्रतिबन्‍धात्, अनिष्‍पत्ति: सिद्धिविरह: यथा ‘एधांश्चेदलप्स्यत ओदनमपक्ष्‍यत्’ इत्‍यत्र एधलाभक्रियाविरहरूपप्रतिबन्‍धकात् ओदनपाकरूप-क्रियायाः सिद्धिविरहः प्रतीयते, अत एव तद्वाचकधातूत्तरं लृङ् विभक्ति:, केचित् भविष्‍यदर्थेऽपि क्रियातिक्रमे लृङ् प्रयोगमिच्‍छन्ति।
आदौ तिङर्थं निर्णीय यङादीनामपि अर्थान् निर्व्‍वक्ति - यङ इत्‍यादिना। यङ: यङ्प्रत्‍ययस्‍य मतान्‍तरे चे‍क्रीयितादिसंज्ञाभाज: प्रत्‍ययस्‍य इत्‍यर्थ:। क्रियासमभिहार: क्रियाया: पौन:पुन्‍यं, तत्स्वरूपञ्च प्रकृतधात्‍वर्थजातीयक्रियोत्तरतादृशक्रियानन्‍तर्यं, तथाहि ‘पापच्‍यते’ इत्‍यादौ प्रकृतधात्‍वर्थजातीयक्रिया पाकक्रिया एव तदुत्तरवर्त्तिनी तादृशक्रियापि पाकक्रिया तदानन्‍तर्य्यम्, अत एव पाकक्रियाया एव उत्तरोत्तरप्रवृत्तौ पापच्‍यते इत्‍यादिव्‍यवहारसिद्धि:। उक्तमानन्‍तर्यं च पाककृतौ अन्‍वेति तथाचाय-मन्‍वयबोध: यथा पाकोत्तरकालवृत्तिपाकोत्तरपाककर्त्ता इति।
सन: सन्प्रत्‍ययस्‍य धात्‍वर्थविषयिणीच्‍छा, यादृशक्रियावाचकपदोत्तरं सन्प्रत्‍यय: तादृशक्रियागोचरा या इच्‍छा तत्‍समानकर्त्तृकत्‍वे अभिधानम्, इच्‍छासमानकर्त्तृक-धात्‍वर्थवाचकतुमन्‍तपदोत्तरमेव सन्प्रत्‍ययस्‍य विधानात्। तद्यथा- पक्तुमिच्‍छतीति वाक्‍यात् पचधातूत्तरं सन्प्रत्‍ययेन पाकविषयकेच्‍छासमानकर्त्तृकत्‍वं धात्‍वर्थस्‍य प्रत्याय्यते, अत एव न ‘परस्य भोजनमिच्छति’ इत्यादौ भुजादिधातुभ्यः सन्प्रत्ययः, इच्छया धात्वर्थस्य समानकर्त्तृकत्‍वाभावात्। उदाहरणं यथा - पिपक्षति इति। अत्र (स्‍वनिष्ठकृतिप्रयोज्‍य) पाकविषयकेच्‍छावानिति तात्‍पर्य्यम्, ‘पाकं चिकीर्षति’ इत्‍यादौ इच्‍छामात्रं सन्प्रत्‍ययार्थ: कृधात्‍वर्थस्‍य अतिरिक्तस्‍य अन्‍वयबोधे अप्रवेशात्, सन्प्रत्‍ययप्रतिपाद्येच्‍छायाञ्च द्वितीयान्‍तपदप्रतिपाद्यस्‍य पाकविशेष्‍यताकत्‍वस्‍य स्‍वरूपेण अन्‍वय:, धात्‍वर्थस्‍य कृत्‍यादे: स्‍वसाध्‍यत्‍वप्रकार-वन्निष्ठस्‍वसमानकर्त्तृकत्‍वसम्‍बन्‍धेन अन्‍वयात् उक्तसम्‍बन्‍धेन कृतिविशिष्टा पाक-विशेष्यिका या इच्‍छा तद्वान् इति शाब्‍दबोध:। अत्र धात्‍वर्थस्‍य इच्‍छाकर्म्‍मत्‍वे सत्‍येव विधिरयम्। अत एव ‘स्‍थातुं गृहमिच्‍छतीत्‍यादि’ वाक्यस्‍थले इच्‍छाया धात्‍वर्थविषयकत्‍वाभावात् न तादृशार्थे सन्प्रत्‍यय:, ‘गृहे स्‍थातुमिच्‍छती’‍त्‍यादि वाक्यप्रतिपद्यर्थतात्‍पर्य्यस्‍थले तु भवत्‍येव सन् प्रत्‍यय:, स्‍थाधातोरर्थस्‍य इच्‍छा-गोचरत्‍वात् इति प्राहु:। मुमूर्षति इत्‍यादौ मरणेच्‍छादेरारोपात् प्रयोगो न विरुध्‍यते।
फलसाधनयोग्‍य: पदार्थो लौकिको हेतु:, स नात्र गृह्यते, ‘अध्‍ययनेन वसति’ इत्‍यादौ अध्‍ययनादे: वासादिरूपफलसाधनयोग्‍यतासत्त्‍वात् अनिष्टप्रसङ्गात्, शास्‍त्रीयो हेतुश्च “कारयति य: स हेतुश्च” 1 इत्‍यादि संज्ञाविषय:, अत्र तु णिच् प्रत्‍ययस्‍य हेतुकर्त्तृव्‍यापार एव अर्थ:, तथा च णिच्प्रत्‍ययप्रकृतिभूतधात्‍वर्थस्‍य प्रयोजकीभूतस्य कर्त्तुर्व्व्यापार एव स इत्‍यर्थ:। तथा च ‘कटं कारयति’ इत्‍यादौ द्वितीयार्थो विषयत्वं, ज्ञानेच्‍छाकृतिद्वेषा: सविषयका इति नियमेन कृधात्‍वर्थ-निरूपितकर्म्मत्‍वस्‍य विषयतारूपत्‍वस्‍वीकारात्, कृतिर्मूलधात्‍वर्थ: तस्‍य अनुकूलता-सम्‍बन्‍धेन णिच्प्रत्‍ययार्थे व्‍यापारे तस्‍य च अनुकूलतासम्‍बन्‍धेन तिप्रत्‍ययार्थकृतौ तस्‍याश्च आश्रयतया कर्त्तरि अन्‍वय:, तथा च कटविषयककृतिविशिष्टव्‍यापारानु-कूलकृत्‍याश्रय: कर्त्ता इति बोध:। अपदार्थस्‍य शाब्‍दबोधे सम्‍ब‍न्‍धविधया एव भाननियमात् अनुकूलत्‍वस्‍य उभयत्रैव सम्‍बन्‍धविधया भानम्। उक्तञ्च “प्रेषणाध्‍येषणे कुर्व्वन् तत्‍समर्थानि वाचरन्। कर्त्तैव विहित: शास्‍त्रे‍ हेतुसंज्ञां प्रपद्यते” 2 इति। अत एव यथाकथञ्चित् परम्‍परया वा साक्षाद्वा प्रयोजकव्‍यापार एव णिच्प्रत्‍ययार्थ:, तेन ‘भिक्षा वासयति, कारीषोऽध्‍यापयति’ इत्‍यादावपि णिच्प्रत्ययेन अन्‍वयबोधसिद्धि:। चुरादि गणीयधातूत्तरविहितस्‍य णिच्प्रत्‍ययस्‍य न प्रयोजक-व्‍यापारोऽर्थ:, किन्‍तु स्‍वरूपमात्रमेव, णिजन्‍तचुरादिधातूत्तरं णिच: प्रयोजकव्‍यापार-रूपार्थो भवत्‍येव, अत: चोरयति इत्‍यादौ चोर्य्यक्रियाश्रय इत्‍यन्‍वयबोध:, ‘चोर: पुत्रेण धनं चोरयति’ इत्‍यादौ तु णिच: चौर्य्यक्रियाप्रयोजकव्‍यापारानुकूलकृत्‍याश्रय-श्चोर इत्‍यन्‍वयबोध:।
तृच: वर्त्तमानत्‍वं तृच्प्रत्‍ययप्रकृतिभूतधात्वर्थविशिष्टकालवृत्तित्‍वम् अर्थ इति शेष:। तद्यथा पक्ता भोक्ता इत्‍यादि, उक्तस्‍थलेषु पाकादिक्रियाणां स्‍वावच्छिन्नकाल-वृत्तित्‍वं प्रतीतिविषय:। ननु ‘योद्धारो गच्‍छन्ति’ इत्‍यादौ योधनक्रियाया गमनकाले अवृत्तित्‍वात् का गतिरिति चेत् यथा ‘अपचन्नपि सूपकार: पचनयोग्‍यतया पाचक’ इत्‍युच्‍यते, तथा तादृशस्‍थलेष्‍वदोष:।
शतृशानचोरिति शतृप्रत्‍ययस्‍य शानच्प्रत्‍ययस्‍य च इत्‍यर्थ:। एककर्त्तृकत्‍वं शतृशानचो: प्रकृतिभूता ये धातव: तदर्थेन मुख्‍यक्रियाया अभिन्नकर्त्तृकत्‍वम्। एककालीनत्‍वम् उभयोरेव क्रिययोरेककालवृत्तित्‍वं, “धातुसम्‍बन्‍धे प्रत्‍यया” 3 इत्‍यनुशासनप्रमाणात्। तथा च ‘हसन् गच्‍छति’ इत्‍यादौ शतृप्रकृतिभूतहस्धातोर-र्थस्‍य हासस्‍य गतिक्रियायाश्च एक एव कर्त्ता, उभयोरेव च वर्त्तमानकालवृत्तित्‍वेन एककर्त्तृकत्‍वम् एककालीनत्‍वञ्च। ननु एककालीनत्वमित्‍युक्तावेव सामञ्जस्ये किमिति पुन: शतृशानचो: वर्त्तमानत्‍वरूपमर्थं स्‍वीकुर्म्‍महे इति चेत्?
अत्राहु: - वर्त्तमानत्‍वमिति वस्‍तुकथनमेव नातिरिक्त: अर्थ:, अथवा “धातुसम्‍बन्‍धे प्रत्‍यया” 1 इति सूत्रस्‍य विषयत्‍वमेव तादृशार्थनिर्द्देशेन स्‍फुटीकृतमिति न दोष:। क्तप्रत्‍ययस्‍य क्तवतुप्रत्‍ययस्‍य च अतीतत्‍वं वर्त्तमानकालवृत्तिध्वंसप्रति-योगित्‍वमर्थ इत्‍यन्‍वयशेष:। यथा - ‘हरिणा कंसो हत:, हरि: कंसं हतवान्’ इत्‍यादौ क्तप्रत्‍ययस्‍य अर्थान्तरेऽपि प्रवृत्तिर्द्दृश्यते, यथा अनुशासनं “ञ्यनुबन्‍धमतिबुद्धि-पूजार्थेभ्‍य: क्त:” 2 इति “आदिकर्म्‍मणि क्त” 3 इति च, अत एव कदाचित् वर्त्तमानत्‍वमपि क्तप्रत्‍ययार्थ:, उदाहरणं यथा ‘राज्ञां मतम्’ इत्‍यादि, तदर्थे विहितक्त-प्रत्‍ययान्‍तधातोरेव कर्त्तरि षष्ठ्या: श्रवणात्।
तुम्प्रत्‍ययस्‍य वुण्प्रत्‍ययस्‍य च, क्रियार्था क्रियाफलिका क्रिया, क्रियाफलक-त्‍वमिति भाव:, तस्‍य च उपपदीभूतक्रियायामन्‍वय:, एककर्त्तृकत्‍वम् उपपदीभूत-क्रियाया: फलीभूतक्रियाया: च समानकर्त्तृकत्‍वम्, यथा ‘पक्तुं गच्‍छति, पाचको गच्‍छति’ इत्‍यादि, अत्र स्‍वकर्त्तृकपाकफलगमनाश्रय इति वाक्यार्थबोध: इति केचित्। सारमञ्जरीकृतस्‍तु इत्याचक्षते- उद्देश्‍यतासम्‍बन्‍धेन इत्‍यादि क्रियार्थेति पदार्थ:। तथा च उद्देश्‍यतया क्रियाया गमनादिक्रियाया निमित्तीभूता क्रिया पाकादि-क्रिया एव, एतन्‍मते क्रियार्थत्‍वस्‍य पाकादिक्रियायामेव अन्‍वय:, तुम्वुणो: भविष्‍यत्त्‍वमप्‍यर्थ:, तुल्‍यवित्तिवेद्यतया गमनफलीभूतपाकक्रियाया: प्रयोजकत्‍वस्‍य गमने प्रत्‍ययात् भविष्‍यत्‍कालवृत्तिपाकप्रयोजकसमानाधिकरणगमनाश्रय इत्‍येवं बोध:।
क्तिन्प्रभृतीनां कालसामान्‍य: अविशेषेण अतीतवर्त्तमानभविष्‍यतामन्‍यतम: काल एव अर्थ:। तथा च क्तिन्प्रभृतिप्रत्‍ययान्‍तै: शब्दैः साधारण्येन कालत्रयवृत्तय एव भावाः प्रत्याय्यन्ते, क्रियान्तरसाहचर्य्यस्थले तु साहचर्य्यवशात् कालविशेष-प्रतिपत्ति:। धात्‍वर्थ इति - धातुर्हि स्‍वोत्तरजातकृत्प्रत्‍ययविरहप्रयोज्‍यस्‍वार्थे सुबर्था-न्‍वयबोधं प्रति अयोग्‍य: शब्‍द:। स च धातुश्चतुर्धा विभज्‍यते, गणोक्त-सौत्रिकयोगलभ्यार्थकप्रत्‍ययान्‍तभेदात्, तत्‍स्‍वरूपं यथा “मूलधातुर्गणोक्तो य: सौत्र: सूत्रैकदर्शित:। योगलभ्‍यार्थको धातु: प्रत्‍ययान्‍त उदाहृत:”॥ भाव इति - भूधातूत्तरं घञ्प्रत्‍यये सत्‍येव तदर्थे सुप्प्रत्ययस्‍य अन्‍वय:, नतु घञ् विनिर्मुक्तावस्‍थायाम् इति भूप्रकृतेर्धातुत्वसिद्धि:।
क्त्वाच्ल्‍यपोरित्‍यादि - भाव: धात्‍वर्थ:, आनन्‍तर्यम् उत्तरत्‍वं यत्क्रियावाचक-पदोत्तरं क्त्वाच्प्रत्‍ययो ल्यप्प्रत्‍ययश्च तदानन्‍तर्य्यमर्थ:। क्वचिच्च तत्क्रिया-समानकालीनत्‍वमपि, क्रमेण उदाहरणं यथा - भुक्त्वा गच्‍छति इत्यादि। अत्र भोजनार्थवाचकपदोत्तरं क्त्वाच् प्रत्‍ययो जात इति भोजनानन्‍तर्य्यं गमने अन्‍वेति, क्रियासमानकर्त्तृकत्‍वं मुख्‍यक्रियाया: क्त्वान्‍तप्रतिपाद्यक्रियायाश्च एककर्तृकत्‍वम्, तथा च प्रकृते भोजनस्‍य गमनस्‍य च अभिन्न: कर्त्ता इति। समानकालीनताया उदाहरणं यथा - मुखं व्‍यादाय स्‍वपिति इत्‍यादि। अत्र निद्रासमानकाल एव मुखस्य व्‍यादानं, नतु निद्रानन्‍तरमिति आनन्‍तर्य्यस्‍य बाधसत्त्‍वात् समानकालीनत्‍वमपि ल्यप्प्रत्‍ययार्थ:। अ‍थ यदि सर्व्वत्र समानकर्त्तृकत्‍वं क्त्वाल्‍यप्प्रत्‍ययार्थ:, तदा ‘मृतं दृष्ट्वा दु:खं स्‍यात्, पुत्रं वीक्ष्‍य सुखं स्‍यात्’ इत्‍यादौ का गति:, दर्शनक्रियाया अस्तिक्रियायाश्च कर्त्रोभेदात्? अत्राहु: - अस्तिक्रियाया दर्शनक्रियायाश्च भिन्नकर्त्तृकत्‍वेऽपि यत्क्रियामपेक्ष्‍य आनन्‍तर्य्यं विवक्षितं, तया अध्‍याहृतस्थित्‍यादि-क्रियया दर्शनक्रियाया एककर्त्तृकत्‍वम् अबाधितमेव, तथा च ‘मृतं दृष्ट्वा स्थितस्य दु:खं स्‍यात्’ इत्यादिवाक्‍यम्।
तिङां त्‍यादिविभक्तीनाम् आख्‍यातपदवाच्‍यत्‍वम् आख्यातपदप्रतिपाद्यत्‍वं, स च पूर्व्वोद्दिष्ट: आख्‍यात: तिङादि:, त्रिविध: त्रिधा विभक्त:, उद्देश्‍यतावच्‍छेदक-समनियतवस्‍तुमदन्‍यसङ्ख्यावत्त्‍वम् (सङ्ख्यापर्य्याप्ताधिकरणधर्म्मावच्छिन्न) एवं-विधप्रत्ययार्थः। वस्तुमदन्यत्वघटकीभूतवस्तुमत्त्वञ्च स्‍ववृत्तित्‍वस्‍वभिन्नस्‍व-समानाधिकरणवृत्तित्‍वोभयसम्‍बन्धेन, समनियतत्‍वञ्च व्‍याप्यत्‍वे सति व्‍यापकत्‍वं, व्‍याप्‍यत्‍वं व्‍याकत्‍वञ्च स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेन, उद्देश्यतावच्छेदक-वृत्तिव्याप्यत्वं व्यापकत्वञ्च स्‍वरूपसम्‍बन्‍धेनैव, सङ्ख्यावत्त्‍वमपि स्‍वाश्रयाश्रयत्‍व-रूपपरम्‍परासम्‍बन्‍धेनैव। समनियतत्‍वं सङ्ख्याविशेषणं, तथा च प्रकृते उद्देश्‍यता-वच्‍छेदकम् आख्यातत्‍वं स्‍वाश्रयत्‍वसम्‍बन्‍धेन तत्‍समनियतसङ्ख्याकर्त्तृविहितत्‍व-कर्म्‍मविहितत्‍वभावविहितत्‍वेति त्रितयगतं त्रित्‍वमेव, स्‍वाश्रयाश्रयत्‍वसम्‍बन्‍धेन तत्‍सङ्ख्याविशिष्ट: कर्म्‍मविहितप्रत्‍ययादिरेव, कर्म्‍मविहितप्रत्‍ययादीनां यत्किञ्चिद् व्यक्तिगततद्व्यक्तित्‍ववृत्तिकर्म्‍मविहितत्‍वकर्त्तृविहितत्‍वभावविहितत्‍ववृत्तिचतुष्टयम्आदाय आख्यातस्य चतुर्व्विधत्‍ववारणाय वस्‍तुमदन्‍येति सङ्ख्याविशेषणम्। तथा च चतुष्टयत्‍वसङ्ख्याया: स्‍ववृत्तित्‍वेत्‍याद्युभयसम्‍बन्‍धेन तद्व्यक्तित्‍वरूप-वस्तुमत्त्‍वात् न वस्‍तुमदन्‍यत्‍वम् इति चतुर्व्विधत्‍ववारणम्। तथा च आख्यातत्व-समनियतवस्‍तुमदन्‍यत्रित्‍वसङ्ख्याविशिष्टम् आख्यातम् इति बोध:।
आख्‍यातत्‍वञ्च धात्‍वर्थावच्छिन्नस्‍वार्थयत्नविधेयकान्वयबोधयोग्‍यशब्‍दत्‍वम् इति मतम्। तथा च आख्यातस्‍य कृतौ शक्तिरिति वक्ष्‍यते, तस्‍याञ्च कृतौ अनुकूलतासम्‍बन्‍धेन धात्‍वर्थस्‍य विशेषणत्‍वं यत्नापराख्या कृतिरेव शाब्‍दबोधे विधेयत्‍वाख्यविषयतावती, तद्योग्‍यशब्‍द: तिङ् प्रत्‍ययादि:।
तत्रेति निर्द्धारणे सप्तमी नत्‍वाधारे पूर्व्वदोषात्। तत्र तेषु कर्म्‍मविहितकर्त्तृ-विहितभावविहिताख्यातेषु मध्‍ये, कर्त्तृविहिताख्यातस्य कृतौ यत्ने शक्ति:। शक्तिश्च “अस्‍माच्‍छब्‍दादयमर्थो बोद्धव्‍य” इत्‍याकारकेश्वरेच्‍छा तन्निरूपितविषयत्‍वं वा। उक्तशक्तिज्ञानञ्च स्‍थलभेदेन व्‍याकरणादिबहुपदार्थेभ्‍य एव भवति, तदुक्तं “शक्तिग्रहं व्‍याकरणोपमानकोषाप्तवाक्याद्व्‍यवहारतश्च। वाक्यस्‍य शेषाद्विवृतेर्व्वदन्ति सान्निध्‍यतः सिद्धपदस्‍य वृद्धा:” 1 इति। तद्यथा दाक्ष्‍यादिपदानां दक्षस्‍यापत्‍यम् इत्‍याद्यर्थे “दक्षादिशब्‍दादिण्” 1 प्रत्‍ययपर्य्यालोचनेन दक्षापत्‍यरूपाद्यर्थस्‍य व्‍याकरणात् बोध:, गोसदृशपिण्‍डदर्शनात् गोसदृशो गवयपदवाच्‍य: इत्‍यतिदेश-वाक्यार्थस्मरणात् अयं गवयपदवाच्य इत्याकारकबोधः उपमानात्, विनायक-शब्दात् गणपतिरूपार्थप्रतीतिस्तु “विनायको विघ्नराजद्वैमातुरगणाधिपा” 2 इत्‍यादि - कोषात्, अयं गोपदवाच्‍य इत्यादिवाक्याद् यः बोध: स: आप्तवाक्यात्। उत्तम-वृद्धमध्यमवृद्धयोर्व्व्यवहारतो य: अर्थबोध: स व्‍यवहारत:। यवादिशब्‍दात् दीर्घ-शूकादिरूपार्थविशेषप्रतिपत्ति: वाक्यशेषात्। ‘अयं प्रभिन्नकमलोदरे मधूनि मधुकर: पिबति’ इत्‍यादौ ‘प्रभिन्नकमलोदरे मधूनि पिबति’ इति पदान्‍तरसान्निध्‍यत: मधुकरशब्‍दात् य: भ्रमररूपार्थस्‍य बोध:, न तु मक्षिकादे: स एव सान्निध्‍यात्। उक्तञ्चान्‍यदन्‍यत्रापि “संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्‍दस्‍यान्‍यस्‍य सन्निधि:। सामर्थ्‍यमौचिती देश: कालो व्‍यक्ति: स्‍वरादय:। शब्‍दार्थस्‍यानवच्‍छेदे विशेषस्मृतिहेतव:”॥3 इति। यथा - सशङ्खचक्रो हरिरित्यत्र शङ्खचक्रसम्‍बन्‍धबोधकतया हरिपदेन विष्णुरेव अभिधीयते इत्‍येवमन्‍यदनुसन्‍धेयम्।
ननु आख्यातस्‍य कृतिमति एव कथं न शक्ति: कल्‍प्यते, कथं वा तत्परित्यागेन कृतावित्याकाङ्क्षायां शक्यतावच्‍छेदकस्य लाघवमेव विनिगमकमाह कृतित्‍व इत्‍यादिना। यदि आख्‍यातस्‍य कृतिमति शक्ति: स्‍यात्, तदा अननुगतायाः कृते: शक्यतावच्‍छेदकत्‍वे गौरवम्। कृतौ शक्तिकल्‍पने अनुगतस्‍य कृतित्‍वस्‍य जाति-रूपस्‍य शक्यतावच्‍छेदकत्‍वे लाघवम्, अत एव लाघवज्ञानाधीनम् आख्‍यातस्‍य कृतौ शक्तिकल्‍पनम्। तत्र आख्‍यातं कि‍ञ्चिद्धर्म्‍मावच्छिन्नशक्यताकं साधुपदत्‍वादि-त्‍यनुमानेन किञ्चिद्धर्म्‍मशक्यतावच्‍छेदकत्‍वस्‍य सामान्‍यतो ग्रहात्, कृते: शक्यताव-च्‍छेदकत्‍वे गौरवं कृतित्‍वस्‍य शक्यतावच्‍छेदकत्‍वे च लाघवमिति लाघवगौरवप्रति-सन्‍धानात् कृतित्‍वावच्छिन्नशक्यतावच्छेदकत्‍वकल्‍पनम्। शक्यतावच्‍छेदककृतेरिति शक्यतावच्‍छेदकतया अभिमताया: कृते: अननुगमात् प्रतिव्‍यक्तिभेदेन कृतीनां यत्नरूपाणां भेदात् बहुषु शक्यतावच्‍छेदकत्‍वकल्‍पनं गौरवग्रस्‍तम्। न कर्त्तरि इति विशेषेण एवकारार्थविवरणम्। ननु प्रसक्तस्‍य एव विषयस्‍य निषेध: कर्त्तव्‍य:, तत् किमिति कर्त्तरि अप्रसक्ताया अपि शक्तेर्निषेध:, आदौ कुत्रापि आख्‍यातस्‍य शक्तेरनिरूपणात् इति चेत् अत्र नव्‍या: -आख्‍यातं किञ्चिद्धर्म्‍मावच्छिन्नशक्यताकम् इति सामान्‍यतोऽनुमानेन पदार्थमात्रेष्‍वेव आख्‍यातशक्ते: प्रसजन्‍त्या निषेधो न विरुध्‍यते इति प्राहु:।
परे तु “कर्त्तरि परस्‍मैपद” 1 मित्‍यनुशासनात् कृतिमति तिङ: शक्तिर्लभ्‍यते अत एव प्रसक्तायास्‍तस्या निषेध:। अथ तर्हि बाधात् कथं तदनुशासनार्थबोध इति चेत् लाघवज्ञानात् कृतौ आख्यातस्य शक्तिनिर्णयेन विरोधखण्‍डनाय कर्त्तृपदस्य धर्म्‍मपरत्‍वस्‍वीकारेण सामञ्जस्यम्।
नचेत्‍यादि - अत्रेदमवधातव्‍यं यथा- “अनभिहिते कर्त्तरि तृतीया” 2 इत्‍यादि सूत्रै: अनभिहितकर्त्तृप्रभृतिषु अर्थेषु तृतीयादीनां विधानात् यत्र कर्त्तृप्रभृतीनां तिङ् प्रभृतिप्रत्‍ययैरभिहितत्‍वं तत्र न कर्त्रादिभ्‍यस्‍तृतीयादय: - तथाहि - ‘चैत्र: पचति’ इत्‍यत्र तिप्रत्‍ययेन प्रतिपिपादयिषितस्‍यार्थस्य अभिधानात् न चैत्रपदात् तृतीया, किन्‍तु 3लिङ्गार्थमात्रे प्रथमैव, ‘चैत्रेण पच्‍यते ओदन’ इत्‍यादौ च कर्म्‍मविहितप्रत्‍ययेन कर्म्‍मणि विहिताया विभक्तेरर्थस्‍य एव उक्तत्‍वात् कर्म्‍मवाचकपदोत्तरं न कर्म्‍म-विभक्ति:, कर्त्तुरनभिहितत्‍वाच्च कर्त्तृवाचकपदोत्तरं तृतीया इत्‍यादि। अत एव नचेत्‍याद्यशङ्काया अवतार:। आख्यातेन यदि कर्त्ता एव नाभिधीयते, तर्हि “अनभिहिते कर्त्तरि तृतीया” 2 इत्‍यनुशासनस्‍य चैत्रः पचतीत्‍यादिस्‍थलेऽपि प्रसक्ति:, लकारस्‍य कृतौ शक्तिकल्‍पनया कृतिमति तृतीयार्थे शक्तिविरहेण लकारेण तस्‍य बोधयितुमशक्यत्‍वात्।
कर्त्तृगतेत्‍यादि नचेत्‍यादिना उद्भावितस्‍य प्रश्नस्‍य उत्तरम्। कर्त्तृगता या सङ्ख्‍या तस्‍या: अभिधानं प्रतिपादनम् अनभिधानं प्रतिपादनविरह:, तृतीयादे: कर्त्तृविहिता-यास्तृतीयादिविभक्ते:, व्‍यवस्‍थापितत्‍वात् नियमनात्। तथाहि-कर्त्तरि विहितास्तिङ: कर्तृसङ्ख्यानुयायिनः कर्म्मविहितास्तिङः कर्म्मसङ्ख्यानुयायिनो भवन्ति, प्रत्ययेन कर्त्तृविहितेन कर्त्तृगतसङ्ख्याया अनभिधाने तृतीया, अभिधाने च न तृतीया, अपितु उक्तार्थकत्‍वात् तृतीयाया: अप्रयोगेण लिङ्गार्थमात्रे प्रथमैव, “अनभिहिते कर्त्तरि तृतीया” 1 इति सूत्रस्‍यैव तादृशार्थपरतया व्‍याख्यातत्‍वादिति। ननु मास्तु आख्यातस्‍य कर्त्तरि शक्ति:, व्‍यापारे शक्तिकल्‍पने कोऽन्‍तराय इत्‍याकाङ्क्षाया आह एवमित्‍यादि, एवं कृतौ यथा अननुगमात् न आख्यातशक्‍यतावच्‍छेदकत्‍वं तथा व्‍यापारत्‍वस्‍य अननुगमात् शक्यतावच्‍छेदकम् अनन्‍तं कल्‍पनीयमिति महद्गौरवमेव।
अथ आख्यातार्थस्य कृत्‍यादे: कस्‍य पदार्थस्‍य किमंशे शाब्दबोधे भानमित्‍याकाङ्क्षयामाह - तत्रेत्‍यादिना। कृतावेवेति कृत्‍यंशे एव वर्त्तमानत्‍वादिकं प्रतीयते विशेषणीभूय भासत इत्‍यर्थ:। एवकारेण व्‍यापारो व्‍यवच्छिद्यते, अन्‍यथा कृत्‍यादिनाशदशायामपि अनुकूलक्रियाया: सत्त्वात् कृत्‍यसत्त्‍वदशायामपि चैत्र: पचतीति प्रयोग: स्‍यात् व्‍यापारे वर्त्तमानत्‍वस्‍य तदानीमबाधात्, कृतावन्‍वयस्‍वीकारे वर्त्तमानत्‍वस्‍य तत्र तदानीं बाधात् न तादृशप्रयोगापत्तिरिति भाव्यम्।
एकत्‍वादिकमित्‍यादि एकत्‍वादिसङ्ख्‍या इत्‍यर्थ:। कर्त्तर्य्येव अत्र एवकारेण कृत्‍यादयो व्‍यवच्छिद्यन्‍ते, कृतेर्यत्नरूपाया गुणस्‍वरूपत्‍वात् गुणे गुणस्‍य सत्ताऽसम्‍भवाच्‍च, गुणे कृतौ गुणस्य एकत्‍वादिसङ्ख्यायाः बाधात् नोपपत्तिरिति तद्व्‍यवच्‍छेद:। कर्त्तृविहितप्रत्‍ययानां वचनव्‍यवस्‍थापि तथैव कर्त्तुं शक्यते यदि सङ्ख्‍या कर्तुगतत्वेन प्रतीयते, अन्यथा किमनुरुध्य वचनव्यवस्था तत्र स्यात्, वचनव्यवस्थायाः कर्त्तृगतसङ्ख्‍यानुगतत्‍वेनैव सिद्धे:।
ननु एकपदोपात्तपदार्थयोर्न विशेष्‍यविशेषणभावेन अन्वयबोध इति नियमस्‍य विरोध: स्‍याद्यदि आख्‍यातप्रतिपाद्यकृत्‍यादिपदार्थानां विशेष्‍यविशेषणभावेन मिथोऽन्‍वय: स्‍याद् इति शङ्कायामाह - एकेत्‍यादि, एकपदोपात्तयो: एकस्‍मादेव पदात् गृहीतयो: पदार्थयो:, प्रकृते एकस्‍मादेव आख्‍यातवाचकपदात् उपस्थितयो: कृतिवर्त्तमानत्‍वयो: पदार्थयो:। इति उक्तरूपायाः व्युत्पत्तेः नियमस्य अस्वीकारात्। ननु यदि नानुभवविरोधः तदा कथमस्‍वीकार इत्‍याशङ्कायामाह - अननुभवाच्चेति, तथा च अनुभवविरोधात् न तादृशनियम: स्‍वीक्रियत इति भाव:। अत एव प्रकृतस्‍थले एकपदोपात्तयोरपि कृतिवर्त्तमानत्‍वयो: परस्‍परं विशेष्‍यविशेषण-भावेनान्‍वये न दोष:।
कर्म्‍मविहिताख्यातस्‍य कर्म्‍मणि अनुशिष्‍टस्‍य तेप्रत्‍ययादे: फले अनुकूलता-सम्‍बन्‍धेन धात्‍वर्थांशे प्रकारीभूते पच्‍यते इत्‍यादौ विक्लित्त्‍यादिरूपे पदार्थे शक्ति:, न कर्म्‍मणि धात्‍वर्थतावच्‍छेदकीभूतफलाश्रये, पूर्व्ववत् गौरवात् लाघवाच्च फले शक्तिरिति, विशेषेण पूर्व्ववत् आलोच्‍यम्। धात्वर्थतावच्‍छेदकमनुकूलत्‍व-सम्‍बन्‍धेन धात्‍वर्थांशे प्रकारीभूतं, यथा पच्यत इत्‍यादौ अनुकूलत्‍वसम्‍बन्‍धेन विक्लित्तिविशिष्टो व्‍यापारो धात्‍वर्थ:, तत्र अनुकूलत्‍वसम्‍बन्‍धेन विक्लित्तिरूपं फलं प्रकार:, तच्च फलं कर्म्‍मणि अन्‍वेति।
फलावच्छिन्नव्‍यापारबोधकत्‍वं सकर्म्‍मकत्‍वं - यथा पच्धातु: अनुकूलत्‍व-सम्‍बन्‍धेन विक्लित्तिविशिष्टं व्यापारं बोधयति, अत एव तस्‍य सकर्म्‍मकत्‍वम्, अनुकूलत्‍वसम्‍बन्‍धेन फलविशिष्टव्‍यापारबोधकस्यैव धातो: सकर्म्‍मकत्‍वात्। तादृशसम्‍बन्‍धेन फलानवच्छिन्नव्‍यापारबोधकस्‍य च अकर्म्‍मकत्‍वम् - यथा भवति इत्‍यादौ सत्तामात्रं धात्‍वर्थ:। वर्त्तमानत्‍वं कर्म्‍मविहिताख्‍यातप्रतिपाद्यं स्‍वावच्छिन्न-कालवृत्तित्‍वमित्‍यर्थ:। फले कर्म्‍माख्‍यातप्रतिपाद्ये धात्‍वर्थतावच्‍छेदके, एकत्‍वादिकं कर्म्‍मविहिताख्‍यातप्रतिपाद्यसङ्ख्‍या, फलाश्रये कर्म्‍मणि तदंश एव प्रतीयते, एवकारेण फलं व्‍यवच्छिद्यते कर्म्‍मगतसङ्ख्‍याप्रतिपादनतदप्रतिपादनाभ्यामेव कर्म्‍मोत्तरप्रथमाद्वितीयाप्रतिपत्ते:, फलस्‍य बहुष्‍वेव स्‍थलेषु गुणादिरूपतया बाधेन तदंशे सङ्ख्यारूपस्‍य गुणभूतस्‍य एकत्‍वादेरन्‍वयासम्‍भवोऽपि द्रष्टव्‍य:। कर्म्‍मगत-सङ्ख्‍याया: प्रकृते तण्‍डुलगतैकत्‍वसङ्ख्‍याया: अभिधानेन कर्म्‍मविहितप्रत्‍ययेन प्रतिपादनेन इत्‍यर्थ:। द्वितीयाया बाधितत्‍वात् अनभिहिते कर्म्‍मण्‍येव द्वितीयाया: शास्‍त्रसिद्धत्‍वात्, अत एव कर्म्‍मगतैकत्‍वादे: कर्म्‍मप्रत्‍ययेन प्रतिपत्तौ लिङ्गार्थमात्रे तण्‍डुलपदात् प्रथमा।
कर्त्तृविहितस्‍य कर्म्‍मविहितस्‍य च आख्‍यातस्‍य शक्तिं प्रतिपाद्य भावविहितप्रत्‍ययस्‍य शक्तिं निर्व्वक्ति अथेत्‍यादिना, धात्‍वर्थे यत्क्रियावाचकपदोत्तरं भावप्रत्‍ययो विहित: तत्‍क्रियामात्रे शक्ति: यथा भूयते इत्‍यादौ तेप्रत्‍ययस्‍य सत्तामात्रे। ननु यदि भावविहितप्रत्‍ययस्‍य क्रियामात्रमर्थ: तदा कथं तत्र सङ्ख्‍याया अन्‍वय: कर्म्‍मणो निर्गुणत्‍वाद् धात्वर्थे सङ्ख्‍याया अन्‍वयस्‍य असम्‍भवाद् इत्‍याकाङ्क्षायामाह - अत्रेत्‍यादि। सङ्ख्‍या अनन्विता, तत्रैव हेतुमाह - तत्रेत्‍यादि। तत्र भावविहिता-ख्यातप्रत्‍ययान्‍तपदघटिते वाक्ये, प्रथमान्‍तपदाभावात्, अत्र घटितत्वसम्‍बन्‍धेन प्रथमान्‍तपदाभावो बोध्‍य:।
ननु अस्‍तु प्रथमान्‍तपदाभाव: का तत्र हानिरित्‍याकाङ्क्षायामाह – आख्‍यातेनेत्‍यादि। प्रथमान्‍तपदेन वाक्यघटकीभूतप्रथमाविभक्त्यन्‍तपदेन उपस्‍थाप्‍य: तज्‍जन्‍यप्रतीतिविषय: पदार्थ:, तदन्वितत्‍वेन क्लृप्तत्‍वात्, नियमेन आख्यातोक्ता सङ्ख्‍या प्रथमान्‍तपदोपस्‍थाप्‍य एवार्थे अन्‍वेति इति, अत्र प्रथमान्‍तपदविरहात् न सङ्ख्‍यान्‍वय:। ननु सङ्ख्‍याया अनन्‍वये किमर्थं सङ्ख्‍याप्रतिपादकवचनप्रयोग इत्‍याकाङ्क्षायामाह - एकवचनन्‍तु इत्‍यादि, तु किन्‍तु, यद्यपि सङ्ख्‍या अनन्विता तथापीत्‍यर्थ:। एकवचनं एकत्‍वसङ्ख्‍याप्रतिपादकं प्रयोगसाधुत्‍वार्थं “नापदं प्रयुञ्जीत” इति नियमेन अपदस्‍य प्रयोगनिषेधात् पदत्‍वसिद्धये तत् एकवचनन्‍तु औत्सर्गिकं, तथा च कौमारे- “भाव: सत्ता औत्सर्गिकमेकवचनमे-वासङ्ख्यत्‍वात्” 1 इति।
अथ कर्त्तृविहिताख्यातस्‍य कृतौ शक्तिकल्‍पने यत्र धात्वर्थ: कृत्‍यादिस्‍तत्र का गति: कृते: ज्ञानादेश्च कृतिप्रयोज्‍यत्‍वविरहात् कृतौ अनुकूलत्वसम्बन्धेन कृत्यादेरन्वयायोगात् इति चेत् अत्र समाधानम्, सविषयकपदार्थाभिधायिनो ये धातव: कृप्रभृतय:, “ज्ञानेच्‍छाकृतिद्वेषा: सविषयका” इति नियमेन कृधातो: स-विषयकपदार्थाभिधायित्‍वश्रवणात्, तदुत्तरकर्त्तृविहिताख्यातस्‍य आश्रयत्‍वे लक्षणा, अत एव कृतौ कृत्यन्‍वयासम्भवात् नानुपपत्तिलेशोऽपीति, तथा च करोति इत्‍यादौ उत्‍पत्त्‍यनुकूलकृत्‍याश्रय: कर्त्ता इत्‍यादिबोध:। ननु सविषयकपदार्थाभिधायक-धातुस्‍थले तथा उपपत्तावपि कृतेश्चेतनधर्म्मतया अचेतने रथे कथं गमनकर्त्तृत्‍व-बोध:, तत्र तद्बाधात् इत्‍याकाङ्क्षायामाह एवमित्‍यादि। तथाहि आख्यातस्‍य अचेतन-कर्त्तृकस्‍थले व्‍यापाराश्रयत्‍वे लक्षणा, तेन रथस्‍पन्‍दादे: उत्तरदेशसंयोगानुकूल-व्‍यापारत्‍वात् तदाश्रयत्‍वस्‍य रथादौ अक्षतत्‍वमिति।
ननु तथापि नश्‍यति इत्‍यादौ कथमुपपत्ति:? आख्यातस्‍य आश्रयत्‍वार्थकत्‍वे नश्‍यतीत्‍यस्‍य नाशाश्रयरूपार्थकत्‍वे ‘घटो नश्‍यती’त्‍यादौ घटस्‍य कर्त्तृत्‍वानुपपत्ति:, तत्रैव ‘कपालं नश्‍यती’ति प्रयोगापत्तेश्च प्रतियोगिसमवायिदेशे एव नाशस्‍य वर्त्तमानत्‍वात्। अत्रैव समाधानमाह प्रतियोगित्‍वे लक्षणा इति, तथा च नाशस्‍य धात्‍वर्थस्‍य अभावरूपत्‍वात् तन्निरूपितं प्रतियोगित्‍वं घटे, तेन नाशप्रतियोगी घट इत्‍याद्यर्थबोध इति। अत एव आख्यातस्‍य प्रतियोगित्‍वे लक्षणात एव वर्त्तमानत्‍वादिकम् आख्यातप्रतिपाद्यवर्त्तमानकालवृत्तित्‍वादिकं, प्रतियोगित्‍वे लक्षणया प्रतिपाद्ये, न तु धात्‍वर्थे नाशे इति एवकारव्‍यवच्‍छेद्यम्। नाशांशे तदन्‍वये ‘अतीतो घटो नश्‍यती’त्‍यपि प्रयोग: स्‍यात् नाशस्‍य वर्त्तमानकालेऽपि सत्त्‍वात् प्रतियोगित्‍वान्‍वये च प्रतियोगिनोऽभावेन प्रतियोगित्‍वस्‍यापि अभावात् नानिष्ट-प्रयोगा:।
वाक्‍यार्थबोधं प्रति शब्‍दार्थबोधस्‍य हेतुत्‍वात् प्रथमत: शब्‍दार्थान् निरूप्‍य वाक्यार्थानां परस्‍परमन्‍वयं प्रदर्शयितुं शिष्‍यावधानाय प्रतिज्ञां प्रस्‍तौति- अथेत्‍यादिना। कथ्यते इति भविष्‍यत्सामीप्‍ये वर्त्तमाना, प्रदर्शयिष्‍यते इत्‍यर्थ:, तथाहि शाब्‍दबोधप्रकारप्रदर्शनं मत्कर्त्तव्‍यमिति बोध:, तेनैव उत्तरकालकर्त्तव्‍यत्त्वप्रकारक-बोधानुकूलव्‍यापाररूपत्‍वादस्‍य प्रतिज्ञात्‍वम्, उत्तरकालकर्त्तव्‍यत्वप्रकारकबोधानुकू-लव्‍यापारस्यैव प्रतिज्ञास्‍वरूपत्‍वव्‍यवस्थापनात्।
तण्‍डुलपदार्थोपस्थिति: तण्‍डुलरूपवस्‍तुस्‍मरणं तण्‍डुलत्‍वावच्छिन्‍ने एव तण्‍डुलपदस्‍य शक्ते:, द्वितीयया तण्‍डुलपदोत्तरद्वितीयाविभक्त्या, कर्म्‍मतारूपस्‍य फलस्‍य विक्लत्त्यादे: उपस्थिति: क्रियाजन्‍यफलवत्त्‍वस्यैव कर्म्‍मतास्‍वरूपत्‍वात्, वृत्तित्‍वं संसर्ग: तेन च संसर्गेण तण्‍डुलस्‍य फले अन्‍वय:, फलाश्रस्यैव कर्म्‍मतया वृत्तित्‍वसम्‍बन्‍धेन फले तण्‍डुलस्‍य अन्‍वयात्। तेन उक्तशब्‍दानां तादृशार्थकत्‍वेन परस्‍परं तथा अन्‍वयेन च इत्‍यर्थ:। अवान्‍तरबोध: - महावाक्यार्थबोधं प्रति अवान्‍तरवाक्यार्थज्ञानस्‍य कारणत्‍वात् अवान्‍तरवाक्यार्थबोध एव प्राक्प्रदर्शित इति बोद्धव्‍यम्। पाकस्‍य व्‍यापारस्‍य उपस्थिति: व्‍यापारस्‍यैव धात्‍वर्थत्‍वात्। तत्र पाक-रूपधात्‍वर्थे तादृशकर्म्‍मत्‍वस्‍य तण्‍डुलवृत्तिकर्म्‍मत्‍वस्‍य, तेन पच्धात्‍वर्थेन द्वितीयान्‍त-पदार्थस्‍य तथा अन्‍वयस्‍वीकारेण, अन्‍यांशस्‍यापि अर्थं निर्व्‍वक्ति तत इति, तत: तादृशावान्‍तरबोधानन्‍तरं तत्र कृतौ तादृशस्‍य पाकस्‍य तण्‍डुलवृत्तिकर्म्‍मतानुकूल-पाकस्‍य इत्‍यर्थ:, अन्‍वय: - तत: इति, एतदपि अवान्‍तरवाक्यार्थबोधप्रदर्शनाय उक्तम्। तत्र चैत्रपदार्थकर्त्तरीत्‍यर्थ:। तादृशकृते: तण्डुलवृत्तिकर्म्‍मतानुकूलपाकानुकू-लकृतेरित्‍यर्थ:। तेनेत्‍यादि अयं सकलांशस्‍य मिलित्‍वा बोध:।
शाब्‍दबोधे बहूनि कारणान्यपेक्ष्‍यन्ते, तद्यथा आसत्तिज्ञानं योग्‍यताज्ञानं आकाङ्क्षाज्ञानं तात्‍पर्य्यज्ञानञ्च इति तत्र आसत्ति: यत्‍पदार्थेन यत्पदार्थस्‍य अन्‍वयोऽपेक्षितस्‍तयोरव्‍यवधानं, तेन ‘गिरिर्भुक्तमग्निमान् देवदत्तेन’ इत्‍यादौ आसत्तिविरहात् न शाब्‍दबोध:।
योग्‍यता - एकपदार्थे अपरपदार्थसम्‍बन्‍ध:, योग्‍यताज्ञानस्‍य अकारणत्‍वे ‘वह्निना सिञ्चति’ इति वाक्यादपि सेके वह्निकरणकत्‍वरूपार्थस्य बोधः स्यात्। योग्यताज्ञानस्य कारणत्वे च उक्तस्थले सेके वह्निकरणकत्वाभावरूपायोग्‍यता-निश्चयेन प्रतिबन्‍धात् न शाब्‍दबोध:। तदभावनिश्चयस्‍य लौकिकसन्निकर्षाजन्‍य-दोषविशेषाजन्‍यतज्‍ज्ञानमात्रे प्रतिबन्‍धकत्‍वात् शाब्‍दबोधं प्रत्‍यपि प्रतिबन्‍धकत्‍वं सिद्धम्। ननु तर्हि भ्रमरूपस्य शाब्‍दबोधस्‍य अनुपपत्ति: इति चेन्न। तत्रापि योग्यताभ्रमेण भ्रमात्‍मकशाब्‍दबोधस्य उपपत्त्‍या सामञ्जस्‍यात्।
यत्‍पदेन विना यस्‍य पदस्‍य अन्‍वयाननुभावकत्‍वं तेन सह तस्‍य आकाङ्क्षा, यथा ‘घटमानय’ इत्‍यादौ घटपदोत्तरद्वितीयाविभक्तिं विना घटस्‍य अन्‍वयानुभवो नास्ति प्रकृते, अत एव द्वितीयया घटपदस्‍य आकाङ्क्षा, घटकर्म्‍मताबोधं प्रति घटपदोत्तरं द्वितीयारूपाकाङ्क्षाज्ञानं कारणम्, तेन घट: कर्म्‍मत्‍वमानयनं कृतिरित्‍यादौ न शाब्‍दबोध:, तत्र आकाङ्क्षाविरहात्। तात्‍पर्य्यन्‍तु वक्तुरिच्‍छा एव ‘अयं शब्‍द इममर्थं बोधयतु’ इत्‍याकारिका तज्ज्ञानस्‍य अकारणत्‍वे ‘सैन्‍धवमानय’ इति वाक्यात् अनियमेन अश्वलवणप्रभृतीनामर्थानां बोध: स्‍यात्, तज्‍ज्ञानस्‍य कारणत्वे वक्ता यम् अर्थमुद्दिश्‍य शब्‍दं प्रयुक्तवान् तदर्थस्‍यैव बोध इति नानियम:। तात्‍पर्य्यग्राहक-प्रकरणादीनां तत्तदर्थप्रतिपत्तिहेतुत्‍वकल्‍पनन्‍तु अननुगमदोषादेव निरस्‍तमिति, नैयायिकास्‍तु तात्‍पर्य्यज्ञानार्थमवश्‍यं प्रकरणादिज्ञानस्‍यापेक्षणेन प्रकरणादिज्ञानमेव प्रयोजकमाहुरिति सङ्क्षेप:।
वक्त्रेत्‍यादि। पश्चात् शब्‍द: प्रयुज्‍यत इति शब्‍दप्रयोगात्‍मकव्‍यवहारं प्रति व्‍यवहार्य्यज्ञानस्‍य हेतुत्‍वात्। अथ शाब्‍दबोधे क: पदार्थो विशेषणविधया कश्च मुख्यविशेष्‍यविधया कुत्र अन्‍वयं लभेत इत्‍याकाङ्क्षायां मुख्‍यविशेष्‍यविधया अन्‍वय-योग्‍यं निर्व्वक्ति सर्व्वत्रेत्‍यादिना, सर्व्वत्र कर्त्तृविहितप्रत्‍ययस्‍थले कर्म्‍मविहित-प्रत्‍ययस्‍थले च इत्‍यर्थ:। प्रथमान्‍तपदोपस्‍थाप्‍यपदार्थस्‍य एव न तु तृतीयान्‍ता-द्युपस्‍थाप्‍यपदार्थस्‍य इत्‍यर्थ:। मुख्यविशेष्‍यत्‍वं विशेषणतानात्‍मकविशेष्‍यत्‍वम् इत्‍यर्थ:। मुख्यविशेष्‍यत्‍वस्‍य विशेषणत्‍वासमानाधिकरणत्‍वेन तदनात्मकत्‍वात् समानाधिकरणविषयतयोरेव ऐक्यात्।
क्रियाया: प्राधान्‍येन कर्त्तृसापेक्षत्‍वात् कर्त्तृविहिताख्‍यातघटितवाक्यार्थ-बोधप्रकारं प्रदर्श्‍य कर्म्‍मविहिताख्‍यातघटितवाक्यार्थबोधं प्रदर्शयति - एवमित्‍यादिना। वृत्तित्‍वं संसर्ग इति शब्‍दानुपस्‍थाप्‍यार्थस्‍य संसर्गविधया एव भाननियमात् वृत्तित्‍वं संसर्गविधया एव अन्‍वेति। एवं वक्ष्‍यमाणजन्यत्‍व‍मपि। शाब्‍दबोधे प्रथमान्‍तपदार्थस्‍यैव मुख्यविशेष्‍यतास्‍वीकारात् कर्म्‍मविशेष्‍यक एव कर्म्‍मविहिताख्यातघटितवाक्यार्थबोध: इति तण्‍डुलस्‍य मुख्‍यविशेष्‍यत्‍वम्। अभिमत: प्रयोक्तुरभिप्रेतः य: देश: ‘गृहे घटमानय’ इत्‍यादौ गृहादि:।
करोतीत्‍यत्र कृधातुना कृत्युपस्थिति:, आख्यातेन तिप्रत्‍ययेन आश्रयत्‍वस्‍य उपस्थिति:, न तु कृते: पूर्व्वमेव तत्‍समाधानात्। एवमित्‍यादि, द्वेष्टि इत्‍यत्र द्वेष:, यतते इत्‍यत्र यत्न:, जानाति इत्‍यत्र ज्ञानम्, इच्‍छति इत्‍यत्र च इच्‍छा धात्‍वर्थ: इत्‍येव विशेष:, अन्‍यांशे करोतिवद् अनुसन्‍धेयम्। तद्यथा ‘विषं द्वेष्टि’ इत्‍यादौ विषयत्वरूपं कर्म्‍मत्‍वं द्वितीयार्थ:, तस्‍य निरूपकतासम्‍बन्‍धेन द्वेषे धात्वर्थे विषयतायाञ्च वृत्तित्‍वसंसर्गेण विषयस्‍य धात्‍वर्थस्‍य तिप्रत्‍ययार्थे आश्रयत्‍वे आश्रयत्‍वस्‍य आश्रयत्‍वेन कर्त्तरि अन्‍वय इत्‍येवम्। पूर्व्वदेशविभागानुकूलक्रिया पूर्व्वदेश-विभागानुकूलव्‍यापार:, पूर्व्वदेशविभाग: फलं तदाश्रयत्‍वेनैव ‘वृक्षं त्‍यजति खग’ इत्‍यदौ वृक्षादीनां कर्म्‍मत्‍वम्। शक्त्येति, आख्यातस्‍य कृतावेव लाघवत: शक्तिनिरूपणात्। तत्र कृतौ तादृशक्रियाया: फलानुकूलक्रियाया:।
पत्धातुनेति, ननु यदि अधस्संयोगानुकूलव्‍यापार: पत्‍धात्‍वर्थ:, तदा ‘भूमौ पर्णं पतति’ इत्‍यादौ क्रियाजन्‍यफलशालित्‍वेन भूमे: कर्म्‍मत्‍वापत्तिरिति चेन्न, क्रियाजन्‍यधातुवाच्‍यफलभागित्‍वस्‍यैव कर्म्‍मत्‍वरूपत्‍वात्। प्रकृते अधस्संयोगस्‍य धातुवाच्‍यत्‍वास्‍वीकाराच्‍च न क्षति:, तथाचाहु: सुषेणाचार्य्या:- “अत्र च वृद्धिपतनयोरुत्तरदेशसंयोगो धातुवाच्‍यफलत्‍वेन न प्रतीयत इति” अत एव प्रकृते अधस्संयोगो न धातुवाच्‍यफलत्‍वेन विवक्षित:, धात्‍वर्थस्‍तु केवलव्‍यापार एव। मेध्‍या नाडीविशेष:, तस्‍या: मनसि संयोग:, मेध्‍यामनस्संयोगस्‍यैव निद्रापदार्थत्‍वम्। इति धीरिति उक्ताकारक: शाब्‍दबोध:। अपरत्रापि एवमेव शाब्‍दबोधप्रणाली अणिजन्‍तस्‍थलेषु अवसेया।
अणिजन्‍तधातूनां शाब्‍दबोधप्रकारमुपदर्श्‍य सम्प्रति णिजन्‍तधातूनां शाब्‍दबोध-प्रकारमाह एवमित्‍यारभ्य। पूर्व्ववत् इति पूर्व्वत्र यथा वृत्तित्‍वं द्वितीयार्थ: तथा अत्र वृत्तित्‍वं तृतीयार्थ इति अन्‍यत्र तु तुल्‍यता प्रत्‍ययानामपि। मैत्रस्येत्‍यादि यथा मैत्रस्‍तण्‍डुलं पचतीत्‍यादौ तथा। कर्त्तरि तृतीयाविधानात् कर्त्तृत्वमपेक्ष्य तृतीयायाः कर्म्मणि द्वितीयाविधानात् कर्म्मत्वमपेक्ष्य द्वितीयायाश्च प्रसक्तौ एकत्र एकदा उभयासम्‍भवात् विकल्‍पेन उभयोरेव सम्पत्ति:। णिजन्‍तधातो: कर्म्‍मप्रत्‍ययेन साक्षात् तन्निरूपितकर्म्‍मताया एव अभिहितत्‍वात् तद्विशिष्‍टपदार्थवाचकमैत्रादिपदोत्तरं न द्वितीया, अपितु प्रथमा लिङ्गार्थमात्रे पदसाधुत्‍वार्था, शाब्‍दबोधस्‍य च प्रथमान्‍त-पदार्थमुख्यविशेष्‍यकत्‍वनियमात् मैत्रविशेष्‍यक एव शाब्‍दबोध:। इत्‍थमेवान्‍यत्रापि रीतिरवसेया।
विषयता संसर्ग इति, सा च विषयता इच्‍छानिरूपिता। लक्षणया इति, सन्प्रत्ययस्‍य इच्‍छारूपपदार्थाभिधायित्‍वात् सन्नन्‍तधातो: सविषयकपदार्थाभि-धायित्‍वमिति पूर्व्वोक्तसविषयकपदार्थाभिधायिधातूत्तराख्यातस्‍य नियमेन आश्रयत्‍वे लक्षणाश्रयणात् तथात्‍वम्। एवमित्‍यादि, - सन्नन्‍तपठ्धातो: पाठविषयिणी इच्‍छा अर्थ:, तृतीयार्थ: वृत्तित्‍वं, तस्‍य च धात्‍वर्थे इच्‍छायां तस्‍याश्च विषयतया पाठे धात्‍वर्थैकदेशे, तस्‍य जन्‍यतासम्‍बन्‍धेन फले कर्म्‍मप्रत्‍ययार्थे तस्‍य च आश्रयतया प्रथमान्‍तपदार्थे शास्‍त्रे अन्‍वय:।
आख्यातप्रत्‍ययस्य शक्तिं प्रतिपाद्य तज्ज्ञानाधीनपदार्थधीमूलकशाब्‍दबोध-प्रकारञ्च प्रदर्श्‍य सम्प्रति कृत्प्रत्‍ययानां शक्त्यादिकं निर्व्वक्ति - अथेत्‍यादिना। तत्र प्रथमत: प्रागुक्तहेतुनैव कर्त्तृविहितकृत्‍प्रत्‍ययशक्तिनिरूपणम्। कृत्‍याश्रये कृति‍मति। ननु आख्‍यातस्‍य यथा लाघवात् कृतौ शक्ति: तथैव कृत्प्रत्‍ययस्‍यापि कृतौ शक्ति: कल्‍प्यतां, न कृतिमति, तत्र शक्तिकल्‍पनस्‍य गौरवज्ञानेन प्रतिबन्‍धात् इति चेदत्राहु:, ‘अन्नस्‍य पक्ता’ इत्‍यादौ तृच्प्रत्‍ययस्‍य यदि कृतिरर्थ: स्‍यात्, तदा आश्रयत्‍वादि- सम्‍बन्‍धेनैव तदन्‍वय: कर्त्तरि अभ्युपेय:, अभेदसम्‍बन्‍धेन तदन्‍वयस्‍य कर्त्तरि बाधात्, स च असम्भव एव प्रथमाविभक्तेरभेदसम्‍बन्‍धेन अन्‍वयग्राहकत्‍वात्, अत एव कृत्‍प्रत्ययस्‍य कृतिमति शक्तिकल्‍पनेन अभेदसम्‍बन्‍धेन तदन्‍वय: कर्त्तरि स्‍वीकार्य्य: लाघवमात्रस्‍य अकि‍ञ्चित्‍करत्‍वात्। षष्‍ठ्या: कर्म्‍मत्‍वमिति, यथा कर्म्‍मणि द्वितीया विहिता तथैव कृत्प्रत्‍यययोगे कर्म्‍मणि षष्ठी अपीति षष्ठ्या: कर्म्‍मत्‍वं द्वितीया-प्रतिरूपत्‍वञ्च।
एवम् अन्नस्‍य पाचक इति - अत्रापि षष्ठ्या: कर्म्‍मत्‍वम् इत्‍यादि पूर्व्ववत् शाब्‍दबोधोऽपि तथा, कर्त्तृविहितकृत्‍प्रत्‍ययस्‍थलमात्र एव एवं गतिराश्रयणीया। यथा ‘ग्रामं गत’ इत्‍यत्र कृत्प्रत्‍यययोगस्‍थले द्वितीयार्थ: कर्म्‍मत्‍वं तस्मिन् ग्रामस्‍य वृत्तित्‍वसम्‍बन्‍धेन, संयोगानुकूलव्‍यापारो धात्‍वर्थ: कृत्प्रत्‍ययस्‍य कृत्‍याश्रय: अर्थ:, तदेकदेशकृतौ अनुकूलत्‍वसम्‍बन्‍धेन धात्‍वर्थस्‍य, कर्त्तरि अभेदेन कृत्‍याश्रयस्‍य च अन्वय:, तेन ग्रामवृत्तिकर्म्‍मतानुकूलव्‍यापारानुकूलकृत्‍याश्रयाभिन्न: कर्त्ता इति बोध:।
कर्त्तृविहितकृत्‍प्रत्‍ययस्‍य शक्त्यादिकं निरूप्‍य कर्म्‍मभावविहितकृत्‍प्रत्‍यययो: शक्त्यादिकं निरूपयति अथेत्‍यादिना। भाव: धात्‍वर्थ:, भावविहितकृत्‍प्रत्‍ययस्य शक्तौ भावविहिताख्‍यातापेक्षया न वैलक्षण्‍यं तस्‍यापि भावमात्रे शक्तत्‍वात्। कर्म्‍मविहितकृत्प्रत्‍ययस्‍य तु कर्म्‍मणि शक्ति:, कर्म्‍मपदेन फलाश्रय: बोध्‍यते, निष्ठया निष्ठाक्तप्रत्‍ययेन फलशालित्‍वोपस्थिति: फलाश्रयत्‍वबोध:। भावस्‍थले तु इत्‍यादि, - ननु पक्वमित्‍यत्र क्तप्रत्‍ययस्‍य धात्‍वर्थबोधकत्‍वे कथमन्‍वयबोध:। धात्‍वर्थेन क्तप्रत्ययार्थस्‍य अभेदात्, उद्देश्‍यतावच्छेदकविधेयतावच्‍छेदकयोरैक्ये अभेद-सम्‍बन्‍धेन शाब्‍दबोधस्‍वीकारात् यथा “घटो घट इति वाक्यात्” न शाब्‍दधी:, इति चेन्न “सम्‍भेदेनान्‍यतरवैयर्थ्‍यम्” इति न्‍यायेन उभयोरेकपदार्थतास्‍थले अन्‍यतर-वैयर्थ्‍यस्‍वीकारात् प्रतीते: नानुपपत्ति:। ननु यदि एकस्‍य वैयर्थ्‍यं तत्‍कथं भावविहितकृत्‍प्रत्‍ययस्‍य वृथा प्रयोग इत्‍याकाङ्क्षायामाह भावेत्‍यादि, प्रयोगे व्‍यवहारे साधुतामात्रं तथा च प्रत्‍ययव्‍यतिरेकेण धातूनां प्रयोक्तुमशक्यत्‍वात् घञादि-साहचर्य्येण एव प्रयोगार्हत्‍वम् “नापदं प्रयुञ्जीत” इति नियमात्। ननु घञन्‍तपदात् क्रियामात्रप्रतीतौ पदसाधुत्‍वार्थम् एकवचनं तस्‍मात् भवतु, किन्‍तु पाकौ पाका इत्‍यादौ द्विवचनादिकं तु कथमुत्‍पद्यत इत्‍याकाक्षाङ्क्षायामाह - द्विवचनादिकन्‍तु इत्‍यादि। तदुक्तं “क्रियाया: साध्‍यतावस्‍था सिद्धता च प्रकीर्त्तिता। सिद्धता द्रव्यमिच्‍छन्ति तत्रैवेच्‍छन्ति घञ्विधिम्।” 1 इति।
एककर्म्‍मकाणां धातूनां शक्त्यादिकं निरूप्‍य द्विकर्म्‍मकाणां तन्निरूपणं प्रतिजानीते अथेत्‍यादिना। कर्त्तव्‍य इत्‍यध्‍याहारात् द्विकर्म्‍मकविचारस्‍य उत्तर-कालकर्त्तव्‍यताज्ञापनात्। द्विकर्म्‍मकाश्च दुहादिनीवहादय:, तद्यथा “दुहिर्व्वदत्‍यर्थ-जिदण्डिमन्‍थ:, प्रच्‍छार्थनार्थौ नयनार्थशासू। कृषीरुधिश्‍चिञ् च तथार्थवृत्तौ, द्विकर्म्‍मकोऽयं कथितो दुहादि:॥” इति तत्र दुहादि:। नीवहादीनाञ्च कर्म्‍मविहितप्रत्‍ययेन उक्ताया वैलक्षण्‍यं परत: प्रतिपादयिष्‍यते। नीवहादयस्‍तु “नयतिर्व्वहतिश्चैव हरति: कर्षतिस्‍तथा”।
“दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्व्वविधौ। ब्रुविशासिगुणेन च यत् सचते तदकी‍र्त्तितमाचरितं कविना”॥ (म.भा.1.4.51)इत्‍यपि। उदाहरणं यथा अजां नयति ग्राममित्‍यादि, द्विकर्म्‍मणां धातूनां फलावच्छिन्नव्‍यापारानुकूल-व्‍यापारवाचित्‍वादेव द्विकर्म्‍मकता, तथा च मुख्‍यव्‍यापारजन्‍यफलीभूत-व्‍यापाराश्रयत्‍वेन अजाया: फलीभूतव्‍यापारजन्‍यसंयोगरूपफलाश्रयत्‍वेन च ग्रामस्‍य कर्म्‍मता, नीधातो: संयोगानुकूलव्‍यापारानुकूलव्‍यापारार्थकत्‍वात्, नीयत इत्‍यादौ द्विकर्म्‍मणोऽपि नयते: प्रधानस्‍यैव कर्म्‍मण उक्तार्थता, तथाचानुशासनवचनं “दुहादेर्गौणकं कर्म्‍म नीवहादे: प्रधानकम्” इत्‍यादि। प्राधान्‍याप्राधान्‍यञ्च कर्म्‍मणाम् एवं मन्तव्‍यं यथा, “अपादानादिकं कर्त्तुं शक्‍यते यस्‍य कर्म्‍मण:। दुहादे: कर्म्‍मणां मध्‍ये तस्‍याप्राधान्‍यमुच्‍यते”॥ इति। ‘दुह्यते गौ: क्षीरं गोपालकेन’ इत्‍यादौ दुहादि-धातुघटितवाक्यस्‍थले गौणकर्म्‍मण एव उक्तार्थता, तेन कर्म्‍मविहितप्रत्‍यययोगे नीवहादे: प्रधानकर्म्‍मवाचकपदात् दुह्यादेश्‍च अप्रधानकर्म्‍मवाचकपदात् प्रथमा इति स्थितम्। स्नुत्‍यनुकूलव्‍यापारो दुहधात्‍वर्थ: स्नुतिश्च अध:क्षरणानुकूलव्‍यापार:।
ननु यदि धात्‍वर्थतावच्‍छेदकफलशालिन: कर्म्‍मत्‍वमङ्गीक्रियते, तदा ‘आकाशे लोष्‍टमुत्क्षिपति’ इत्‍यादौ उत्‍पूर्व्वस्‍य क्षिपे: ऊर्द्ध्वसंयोगानुकूलव्‍यापारानुकूल-व्‍यापारार्थकतया संयोगरूपफलाश्रयत्‍वेन आकाशस्‍य कर्म्‍मत्‍वापत्तिवारणाय मुख्‍य-धात्‍वर्थतावच्‍छेदकफलशालित्‍वस्यैव कर्म्‍मत्‍वं विवक्षणीयम्, एवं दुहधातो: व्‍यापार-रूपफलाश्रयस्‍य गो: दुहधातो: कथं कर्म्‍मत्‍वमुपपादनीयम्, इत्‍याकाङ्क्षायामाह कर्म्‍मत्‍वातिदेश इति, कर्म्‍मसंज्ञाविधानं, कर्म्‍मत्‍वातिदेश:, चैत्रस्‍य पाक इत्‍यत्र कृत्प्रत्‍यययोगे कर्त्तरि षष्ठीविधानात् तृतीयावत् कर्त्तृत्‍वस्‍यैव प्रतिपादयितव्‍यत्‍वात् तृतीयाप्रतिनिधित्‍वं, ‘समुद्रस्‍य बन्‍ध’ इत्‍यत्र कर्म्‍मणि षष्‍ठ्या: द्वितीयाप्रतिनिधित्‍वम्। ‘अधीती व्‍याकरणे’ इत्‍यादौ सप्तम्‍या: कर्म्‍मत्‍वमर्थ:, तस्‍य अध्‍ययने अन्‍वय:, इन्प्रत्‍ययस्‍य सम्‍बन्धित्‍वमर्थ: व्‍याकरणविषयकाध्‍ययनसम्‍बन्‍ध्यभिन्न इत्‍यन्‍वय-बोध:। उक्तसप्तम्‍या: कर्म्‍मार्थ एव अनुशासनात् सप्तम्‍या: द्वितीयाप्रतिपाद्यार्थ-परत्‍वमक्षतम्।
चर्म्‍मणीत्‍यादि अत्र सप्तम्‍यर्थ उद्देश्‍यत्‍वं, तस्‍य निरूपकत्‍वेन हनने, द्वीपिनमित्यत्र द्वितीयार्थ: कर्म्‍मत्‍वं, तस्‍यापि निरूपकत्‍वेन हनने अन्‍वय:। तिप्रत्‍ययार्थ: कृति: तस्‍याश्च कर्त्तरि अन्‍वय:, तथा च चर्म्‍मोद्देश्‍यकद्वीपिकर्म्‍मक-हननानुकूलकृतिमान् इति बोध:। एवमन्‍यत्रापि कर्म्मसंयोगे कर्म्‍मणा सह सम्‍बन्‍धे, स चात्र सम्‍बन्‍ध: समवायरूप: कर्म्‍मनिमित्तयोरवयवावयविभावसत्त्‍व एव निमित्त-भूतवस्‍तुवाचकपदात् सप्तम्‍या: शिष्टप्रयोगानुगतत्‍वात्। केचित्तु संयोगपदेन विशिष्ट-संयोगो व्‍यवस्‍थाप्‍यते, स च अवष्टम्‍भाख्‍यसंयोग:, तस्‍य संयोगस्‍य च दन्‍तकेशत्‍व-गादिषु सत्त्‍वं, तथा च “अवष्टम्भाख्‍यसंयोगो दन्‍तकेशत्‍वगादिषु” इति। सोऽपि समवायतुल्‍य एवेति नानुपपत्ति:। दन्‍तकेशत्‍वगादिषु एव तादृशसम्‍बन्‍धस्‍वीकारेण ‘मुक्ताफलाय करिणं हरिणं पलाय’ इत्‍यादौ कर्म्‍मणा सह निमित्तस्‍य तादृश-संयोगासत्त्‍वात् न सप्तमीति प्राहु:।
सतिसप्तम्‍या इत्‍यादि - सामानाधिकरण्‍यं समानाधिकरणवृत्तित्‍वं, “यस्‍य च भावेन भावलक्षणमि” 2 ति सूत्रानुशिष्टा सप्तमी सतिसप्तमी, तदर्थो यथा - यस्‍य भावेन भाव: अन्‍यस्‍य क्रिया लक्ष्‍यते तद्वाचकपदात् सप्तमी, तथाहि - ‘गोषु दुह्यमानासु आगत’ इत्‍यत्र वक्ता प्रतिपाद्यपुरुषेण ज्ञातां दोहनक्रियां चिह्नतया विज्ञाप्‍य आगमनक्रियाया: कालं निर्द्दिशति, अत एव कर्म्‍मतासम्‍बन्‍धेन दोहन-विशिष्‍टवाचकपदात् सप्तमी विशेष्‍यविशेषणयो: समानविभक्तिकत्‍वानुरोधाच्‍च पदान्‍तरात्। उक्तस्‍थले सामानाधिकरण्‍यम् उभयो: क्रिययो: कालिकसम्‍बन्‍धेन, क्वचित् ‘दुह्यमानास्‍वागत’ इत्‍यादौ कालिकं सामानाधिकरण्‍यम् एकाधिकरण-निरूपितकालिकसम्‍बन्‍धावच्छिन्‍नवृत्तित्‍वं, दैशिकं सामानाधिकरण्‍यम् एकाधिकरण-निरूपितं संयोगसमवायाद्यवच्छिन्‍नवृत्तित्‍वम्।
कालिकसामानाधिकरण्यस्‍थलं प्रदर्श्‍य दैशिकं दर्शयति, द्रव्‍यमित्‍यादिना- अत्र द्रव्‍यत्‍वसाध्‍यकगुणकर्म्‍मान्‍यत्‍वसमानाधिकरणसत्त्‍वहेतु: सद्धेतु:, नतु सामानाधिकर-ण्‍यांशपरित्‍यागेन, शुद्धसत्त्‍वस्‍य गुणकर्म्‍मणोरपि वर्त्तमानत्‍वात्, तत्र द्रव्‍यत्‍वस्‍य अभावाच्‍च व्यभिचारात्। अत: प्रकृते विवक्षितं सामानाधिकरण्‍यं सप्तम्‍या अर्थ:। अत्रेदमवधेयम् - यथा सप्तसु पदार्थेषु मध्‍ये द्रव्‍यगुणकर्म्‍मसु त्रिष्‍वेव सत्ताख्‍या जाति-र्व्वर्त्तते, तथाचोक्तं “द्रव्‍यादित्रिकवृत्तिस्‍तु सत्ता परतयोच्‍यते” (कारिकावली) इति। गुणकर्म्‍मातिरिक्ते द्रव्‍ये च द्रव्‍यत्‍ववति गुणकर्म्‍मान्‍यत्‍वं वर्त्तते सामानाधिकरण्‍य-सम्‍बन्‍धेन तद्विशिष्‍टं सत्त्‍वं, तत्‍सामानाधिकरण्‍यविशिष्‍टसत्त्‍वञ्च द्रव्‍यमात्रे एव, नतु गुणे कर्म्‍मणि वा, विशिष्‍टपदार्थस्‍य यदन्‍तर्भावेण वैशिष्‍ट्यं तस्‍य तदन्‍तर्भावेणैव सत्तास्‍वीकारात्, अत्र सामानाधिकरण्‍यघटकीभूतं अधिकरणत्‍वं स्‍वरूपेण, अन्‍यत्‍वस्‍य भेदरूपत्‍वात् स्‍वरूपेणैव वृत्ते:, वृत्तित्‍वञ्च समवायेन, समवायस्‍यैव जाते: द्रव्‍यवृत्तित्‍वनियामकत्‍वात्।
अन्‍यत्रापीति ‘अग्निष्टोमयाजी पुत्रो जनिता’ इत्‍यादौ अपि भविष्‍यत्‍कालोत्‍पत्तिक: पुत्र: अवश्‍यं अग्निष्टोमेन यक्ष्‍यति इत्‍यर्थ:। “धातुसम्‍बन्‍धे प्रत्‍यया:” 1 इति, अत्र कौमारा धात्‍वर्थानां सम्‍बन्‍धे विशेष्‍यविशेषणभावलक्षणे स्‍वं कालं त्‍यक्त्वा विशेष्‍यस्‍य धात्‍वर्थस्‍य काले कृत्संज्ञका: प्रत्‍यया: साधव: भवन्ति, न तु त्‍यादय: साध्‍यविहितत्‍वात्। अत्र प्रकरणबलात् कृतो लब्‍धा:, प्रत्‍ययग्रहणं सामान्‍यार्थम्, अत एव ‘गोमान् आसीत्’ इत्यादौ वर्त्तमाने 1मन्‍तुरासीदित्‍यनेन सम्बन्धे अतीते सिद्ध:। प्रकृते तु जनितेत्‍यनेन सम्‍बन्‍धे अतीते णिनिप्रत्‍ययान्‍तस्‍यापि भविष्‍यत्‍कालवृत्तितया प्रतीते: साधुत्‍वम्। एवमन्‍यदप्‍यनुसन्‍धेयम्।
शिष्‍यावधानाय कारकनिरूपणं प्रतिजानीते - अथेत्‍यादिना। क्रियत इति शेष:। अथ जिज्ञासाव्‍यतिरेकेण निरूपणमसङ्गतम्, असङ्गतमभिधानञ्च न ग्राह्यं, अत एव सामान्‍यमप्रतीतवतो विशेषजिज्ञासानुदयात् सामान्‍यधर्म्‍मावच्छिन्‍नजिज्ञासाया उदयाच्च प्रथमत: सामान्‍यलक्षणाभिधानमेव न्‍याय्यमिति आदौ कारकसामान्‍य-लक्षणमाह क्रियेत्‍यादिना। तद्धर्म्‍मावान्‍तरधर्म्‍मप्रकारकज्ञानगोचरेच्‍छां प्रति स्‍वात-न्‍त्र्येण इष्टसाधनताज्ञानधर्म्मितावच्‍छेदकसम्‍पादकतया वा तद्धर्म्‍मज्ञानस्‍य हेतुत्‍वादपि सामान्‍यलक्षणज्ञानम् अपेक्षितमित्‍याहु:।
करोति साक्षात् परम्‍परया वा क्रियाम् अनुकूलयति इति कारक:, कृञो वुणि कर्त्तृवाच्‍ये प्रत्‍ययात् क्रियां प्रति प्रयोजकत्‍वं गम्‍यते तेन क्रियानिमित्तत्‍वं कारकत्‍वम् इति प्राप्तम्। ननु यदि क्रियानिमित्तत्‍वमेव कारकत्‍वं तदा कथं उद्देश्‍यतावच्‍छेदक-विधेयतावच्‍छेदकयोरैक्ये अभेदेन शाब्‍दबोध:? उद्देश्‍यतावच्‍छेदकतासम्‍बन्‍धेन अभेदसम्‍बन्‍धावच्छिन्नप्रकारशाब्‍दबोधं प्रति स्‍वरूपेण विधेयतावच्‍छेदकत्‍वस्‍य तादात्‍म्येन विधेयतावच्‍छेदकस्‍य वा प्रतिबन्‍धकत्‍वनियमात्। येन घटत्‍वम् उद्देश्‍यता-वच्‍छेदकीकृत्‍य तादात्‍म्येन घटप्रकारकशाब्‍दबोधो न स्‍यात् ‘घटो घट’ इति चेदत्राहु: - कारकपदमत्र न क्रियानिमित्‍तमात्रपरं किन्‍तु कारकपदप्रतिपाद्यपरं, तथाहि क्रियानिमित्तत्वं कारकत्‍वपदप्रतिपाद्यमित्‍यर्थकरणात् उद्देश्‍यतावच्‍छेदक-विधेयतावच्‍छेदकयो: ऐक्याभावात् न शाब्‍दबोधस्‍य अनुपपत्ति:। प्रकृते क्रिया-निमित्तत्‍वमुद्देश्‍यं तद्वृत्त्युद्देश्‍यतावच्‍छेदकञ्च क्रियानिमित्तत्‍वत्‍वं विधेयतावच्‍छेदकन्‍तु न तत्, परं कारकत्‍वपदप्रतिपाद्यत्‍वम् एव, अतो न दोष:। इत्‍थमेव सर्व्वत्र लक्षणनिरूपणावसरे समाधानस्‍य पन्‍था अवलम्‍बनीय इति।
वैयाकरणा इति वदन्ति कारकलक्षणमिति शेष:। तदुक्तं कौमारे “क्रियानिमित्तं कारकं लोकत: सिद्धम्” 1 इति। तत्र ‘देवदत्तो घटं करोति’ इत्‍यादौ कर्त्तृर्देवदत्तादे: मुख्‍यभावेन एव धात्‍वर्थं प्रति जनकत्‍वम्, तस्‍य घटक्रियां प्रति अनन्‍यथासिद्धत्‍वात् नियतपूर्ववर्त्तित्‍वाच्‍च। अन्‍यथासिद्धत्‍वञ्च “येन सह पूर्वभाव: कारणमादाय वा यस्‍य। अन्‍यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम्। जनकं प्रति पूर्ववृत्तितामपरि-ज्ञाय न यस्‍य गृह्यते। अतिरिक्तमथापि यद्भवेन्नियतावश्‍यकपूर्वभाविन” 2 इत्‍युक्तेषु पदार्थेषु अवसेयम्।“नियतपूर्व्ववर्त्तित्‍वञ्च कार्य्याव्‍यवहितप्राक्क्षणावच्‍छेदेन कार्य्य-समानाधिकरणात्‍यन्‍ताभावप्रतियोगितानवच्‍छेदकधर्म्‍मवत्त्‍वम्” इति। ईदृशमेव कारणत्‍वं कर्त्तरि।
कर्म्‍मणस्‍तु कार्य्याव्‍यवहितप्राक्क्षणे सत्त्‍वाभावात् न तादृशकारणत्‍वनिर्वाह इति न तत्र जनकत्‍वलक्षणं कारकत्‍वम्, किन्‍तु उद्देश्‍यत्‍वमात्रेण प्रयोजकत्‍वरूपमिति निमित्तपदस्‍य प्रयोजकमात्रपरता। करणस्‍य तु संयोगादिव्‍यापारं द्वारीकृत्‍य कार्य्या-व्‍यवहितप्राक्क्षणावच्‍छेदेन कार्य्याधिकरणावृत्तित्वात् मुख्यमेव जनकत्‍वलक्षणं निमितत्‍वम्।
सम्प्रदानस्‍य अनुमत्‍यादिप्रकाशनद्वारा क्रियां प्रति निमित्तत्‍वं, तदपि जनकत्‍व-लक्षणमेव, तदनुमत्‍यादिसत्त्‍वेनैव दानादीनां प्रवृत्तेस्‍तदनुमत्‍याद्यभावेन तदभावाच्‍च, अन्‍वयव्‍यतिरेकाभ्यां क्रियां प्रति जनकत्‍वात्। अपादानस्‍यापि तथात्‍वं, वृक्षादे: स्‍वसत्त्‍वेनैव क्रियां प्रत्‍यनुकूलत्‍वात् यदि वृक्षादयो न स्यु:, तदा कुतो वा पर्णादिकं विभजेत।
एवमधिकरणमपि ‘देवदत्त: कटे आस्‍ते’ इत्‍यादौ देवदत्तादे: स्थितिं प्रति कारणीभवत् कारकसंज्ञां भजते। तदुक्तम् ‘उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्‍मृत” 1 मिति।
एवं सर्वेषामेव कारकाणां क्रियानिमित्तत्‍वस्‍य अव्‍याहतत्‍वात् वैयाकरणोक्तं कारकलक्षणं सर्व्वत्र सोपपत्तिकम्। अथ वुण्प्रत्ययस्‍य कर्त्तर्य्येव विधानात् कृ-धातूत्तरवुण्प्रत्‍ययेन कारकशब्‍दनिष्‍पत्त्‍या कृत्‍यर्थकधातूत्तरकर्त्तृप्रत्‍ययस्‍य च आश्रयत्‍वे लक्षणया कारकशब्‍देन कृत्‍याश्रयो बोध्‍यते, तत्त्‍वञ्च केवलं कर्त्तर्य्येव वर्तेत नान्‍यत्र कर्म्‍मादौ कारके। उक्‍तं हि ‘सविषयकपदार्थाभिधायिधातूत्तरकर्त्तृविहि-ताख्‍यातस्‍य आश्रयत्‍वे लक्षणा’ इति स्‍वयमेव। अथाङ्गीकृतमेव ‘कारकशब्‍दस्‍य कर्त्तृप्रत्‍ययनिष्‍पन्नस्‍य कृत्‍याश्रयरूपोऽर्थ’ इति, किन्‍तु आश्रयाश्रयिभाव: सम्‍बन्‍धमन्‍तरेण न भवति, सम्‍बन्‍धविशेषश्चात्र यदि न निरुच्‍यते, तदैव येन केनापि सम्‍बन्‍धेन कृत्‍याश्रयत्‍वव्‍याख्‍यानात् सर्वत्रैव निष्‍पत्ति: स्‍यात् इति चेत् कृत्‍याद्यर्थक-धातूत्तरतिङ्प्रत्‍ययार्थाश्रयत्‍वं समवायसम्‍बन्‍धेनैव स्‍वीकर्त्तव्‍यम्, अन्‍यथा ‘घटो जानाति’ इत्‍यादि प्रतीतिरपि प्रमा स्‍यात् कालिकसम्‍बन्‍धेन घटे ज्ञानाश्रयत्‍वस्‍य अव्‍याघातात्। अत: “कारकशब्‍दोऽयमव्‍युत्‍पन्नो निमित्तपर्य्याय: स्‍वभावात् नपुंसक-लिङ्ग:, यत् क्रियानिमित्तमात्रं प्रधानमप्रधानं वा तत् कारकमुच्‍यते” इत्‍यादि कौमारव्‍याकरणप्रोक्तदिशा समाधेयम्। कैयटोऽपि क्रियानिर्व्वर्त्तकस्‍यैव कारक-संज्ञामाह। अत एवाह क्रियानिमित्तत्‍वं कारकत्‍वमिति। तथा च ‘ओदनं पचती’त्‍यादौ विक्लित्‍यवच्छिन्ना क्रिया पचेरर्थ: तत्र अनुकूलत्वसम्‍बन्‍धेन विशेषणीभूते विक्लित्तिरूपार्थे निमित्तत्त्‍वेन ओदनादीनां क्रियानिमित्तत्‍वरूपं कारकत्‍वमव्‍याहतम्। ननु यदि क्रियानिमित्तत्वमेव कारकत्‍वमुच्‍यते तदा व्‍यापाररूपक्रियाया अपि कारकत्‍वापत्ति:, फलात्‍मकक्रियायां तस्‍या मुख्‍यतयैव निमित्तत्‍वादिति चेत् तत्तत्‍क्रियाभिन्नत्‍वे सति क्रियानिमित्तत्‍वं कारकत्‍वमिति वाच्‍यम्। ‘विप्राय धनं ददाति’ इत्‍यादौ तु दानात्‍मकक्रियां प्रति अनुमतिप्रकाशनद्वारा निमित्त्‍वात् सम्प्रदानादेः कारकत्‍वम्।
अथ उक्तलक्षणस्‍य दोषमवतारयति - तत्रेत्‍यादिना। सम्‍बन्धिनि स्‍वामित्‍व-सम्‍बन्‍धवति मैत्रे तण्‍डुलसम्‍पादनद्वारा पाकनिमित्तत्‍वात्, तथाहि - यदि मैत्रो न तण्डुलसम्‍पादनादिकमकरिष्‍यत्, तदा पाक एव नाभविष्‍यत् इति मैत्रस्‍य तत्‍सम्‍पादनादिद्वारा निमित्तत्‍वमव्‍याहतम्, अतस्‍तस्मिन् कारकलक्षणातिव्‍याप्ति: स्‍यादिति अन्‍यथैव कारकलक्षणं निर्व्वाच्‍यम्, ‘सम्‍बन्‍ध: कारकाद् भिन्न एवे’ति नियमात्।
अत्र केचित्। क्रियायां शक्तेरेव कारणत्‍वम्, अन्‍वयतो व्‍यतिरेकतश्च तस्‍या एव कारणत्‍वव्‍यवस्थिते:, तदुक्तं हरिणा, “स्‍वाश्रये समवेतानां तद्वदेवाश्रयान्‍तरे। क्रियाणामभिनिष्पत्तौ सामर्थ्‍यं साधनं विदुः” 1 इति। सामर्थ्‍यस्‍य कारकत्‍वश्रुतावपि सामर्थ्‍यसामर्थ्‍यवतोरभेदविवक्षया शक्तिमतो द्रव्‍यस्‍यापि कारकत्‍वम्। क्रियाजनकत्‍व-लक्षणतुल्‍यतायामपि सर्व्वेषां स्‍वस्‍वावान्‍तरव्‍यापारविवक्षया भेदेन विलक्षण-कारकत्‍वम्। तदुक्तम् हरिणा “निष्‍पत्तिमात्रे कर्त्तृत्‍वं सर्व्वत्रैवास्ति कारके। व्‍यापार-भेदापेक्षायां करणत्‍वादिसम्‍भव:”॥2 इति।
अवान्‍तरव्‍यापारभेदो यथा, कारकान्‍तरप्रवर्त्तनव्‍यापार: कर्त्तृतायां प्रयोजक:, क्रियाजनकाव्‍यवहितव्‍यापार: करणत्‍वप्रयोजक:, क्रियाफलेनोद्देश्‍यत्‍वव्‍यापार: कर्म्‍मत्‍वे, कर्त्तृकर्म्‍मव्‍यवहितक्रियाधारणव्‍यापारश्च अधिकरणत्‍वे, प्रेरणानुमत्‍यादि-व्‍यापार: सम्प्रदानत्‍वे, अवधिभावोऽपगमव्‍यापार: अपादानत्‍वे प्रयोजक इति।
अथ दोषनिर्मुक्तं नैयायिकाभिमतं लक्षणमाह - विभक्त्येत्‍यादिना। विभक्त्यर्थ-द्वारा विभक्त्यर्थमन्‍तराकृत्‍य, क्रियान्‍वयित्‍वं धात्‍वर्थसम्‍बन्‍धत्‍वं, विभक्त्यर्थद्वारा अन्‍वयित्‍वमात्रोक्तौ रक्तो घट इत्‍यादौ विशेषणवाचकपदोत्तरविहितप्रथमा-विभक्त्‍यर्थाभेदरूपं सम्‍बन्‍धमन्‍तराकृत्‍य रक्तपदार्थस्‍य घटे अन्‍वयेन कारकत्‍वापत्ति-वारणाय क्रियापदं, तथा च उक्तस्‍थले रक्तपदार्थस्‍य अभेदसम्‍बन्‍धेन नामार्थान्‍व-यित्‍वं, न तु क्रियान्‍वयित्‍वमपीति न दोष इति मतम्।
अत एवेत्‍यादि - नामार्थधात्‍वर्थयो: प्रातिपदिकार्थक्रिययो: भेदेन भेदसम्‍बन्‍धेन अभेदातिरिक्तसम्‍बन्‍धेन इत्‍यर्थ:। साक्षात् विभक्त्यर्थम् अनन्‍तराकृत्‍य अन्‍वयस्‍य अव्‍युत्‍पन्नत्‍वात् तद्द्वारीभूतविभक्त्यर्थोपस्थिते: विभक्त्यर्थज्ञानस्‍य तन्‍त्रत्‍वं प्रयोज-कत्वं कल्‍प्यम्। क्वचिदित्‍यादि - यथा घटं जानाति इत्‍यादौ द्वितीयार्थविषयित्‍व-सम्‍बन्‍धेन ज्ञाने धात्‍वर्थे घटरूपनामार्थस्‍य तिप्रत्ययार्थमाश्रयत्‍वं द्वारीकृत्‍य कर्त्तरि धात्‍वर्थस्य अन्‍वय: सम्‍भवति। अथ विभक्त्यर्थद्वारेत्‍यंशं परित्‍यज्‍य क्रियान्‍वयित्‍व-मात्रं लक्षणमुच्‍यतां, तावता का हानिरित्‍याकाङ्क्षायामाह स्‍तोकमित्‍यादि। तथाहि तत्र द्वितीयाविभक्ते: पाके स्‍तोकशब्‍दार्थान्‍वयोपयोगी अभेदो नार्थ:, द्वितीयाया: साधुत्‍वमात्रप्रयोजनकत्‍वात्, अभेदसम्‍बन्‍धेन क्रियान्‍वयित्‍वं तु स्‍तोकपदार्थस्‍य अस्‍त्‍येव इति अतिप्रसङ्गसम्‍भव:। सम्‍बन्धिन: षष्ठीप्रकृतिप्रतिपाद्यस्‍य मैत्रस्‍य तण्‍डुलादिरूपनामार्थान्‍वयित्‍वमेव प्रकृते, अत एव क्रियान्‍वयित्वदलमत्रातिप्रसङ्ग-वारणप्रयोजनकम्।
ननु गुरुविप्रेत्‍यादौ षष्ठ्यन्‍तस्‍य प्रतिपूर्व्वककृधात्‍वर्थान्‍वयित्‍वात् अतिव्‍याप्ति: इति तद्वारणमाह नामाध्‍याहार इत्‍यादिना। नामाध्‍याहार: रोगमित्‍यादिपदाध्‍याहार: कर्त्तव्‍य:, तेन रोगादिपदार्थेनैव षष्ठ्यन्‍तान्‍वय:, नतु क्रियया इति न दोष:। परे तु तत्र षष्ठ्या: कारकत्‍वमस्‍त्‍येव, “प्रत्‍यनूपेभ्य: करोते: कर्म्‍मणि षष्ठी” ति कर्म्‍मण्येव षष्ठी-विधानात्, षष्ठ्या एव कर्म्‍मत्‍वार्थकत्‍वात्। ननु मम प्रतिभाति इत्‍यादौ षष्ठ्यन्‍तस्‍य निष्ठत्‍वरूपषष्ठीविभक्त्यर्थद्वारा प्रतिपूर्व्वकभाधात्‍वर्थे अन्‍वयेन कारकलक्षणयोगाद-तिव्‍याप्ति: कथं परिहरणीया इति चेदत्र निपुणा: - विभक्त्यर्थद्वारा क्रियान्‍वयित्‍व-मित्यत्र षष्ठीविभक्तिभिन्नत्वं विभक्तौ निवेश्‍यम्, तेन षष्ठीविभक्त्यन्‍तपदप्रतिपाद्य-स्‍थलमात्रस्यैव व्‍यावृत्तिरिति।
करोति स्‍वातन्‍त्र्येण क्रियां य: स: कर्त्ता, तथा च पाणिनिः “स्‍वतन्‍त्र: कर्त्ते” 1 ति। अथ किमिदं स्‍वातन्‍त्र्यं? न तावत् पराप्रयोज्‍यत्‍वं प्रयोज्‍यकर्त्तृ: कर्त्तृत्‍वानुपपत्ते:, नापि क्रियाश्रयत्‍वं कर्म्‍मस्‍थक्रियाधातूनां कर्म्‍मणि कर्त्तृत्‍वापत्ते:, “कर्म्‍मस्‍थ: पचतेर्भाव: कर्म्‍मस्‍था च भिदेः क्रिया” इत्‍यनुशासनात्। अत्राहु: प्राधान्‍येन धातु-वाच्‍यव्‍यापारवत्त्‍वं स्‍वतन्‍त्रत्‍वं, तदेव च कर्त्तृत्‍वमिति, तथा च पच्धातो: विक्लित्यनु-कूलव्‍यापरोऽर्थो वाच्‍य:, तद्ववत्वञ्च कर्त्तर्य्येव, न कर्म्‍मणि, विक्लित्तिरूपस्‍य फलस्‍यैव कर्म्‍मणि वृत्ते: तदुक्तं “धातुनोक्तक्रिये नित्‍यं कारके कर्त्तृतेष्यते। व्‍यापारे च प्रधानत्‍वात् स्‍वतन्‍त्र इति घोष्‍यते”। इति। स च कर्त्ता द्विविध: स्‍वतन्‍त्र: तत्‍प्रयोजकश्चेति, स्‍वतन्‍त्र: ‘देवदत्तो गच्‍छति’ इत्‍यादौ देवदत्तादि: प्रयोजकश्च ‘देवदत्तो यज्ञदत्तेन अन्नं पाचयती’त्‍यादौ हेतुकर्त्ता। क्रियानुकूलकृतिमत एव मुख्‍य-कर्त्तृत्‍वात् अचेतनादौ ‘रथो गच्‍छती’त्‍यादौ कर्त्तृत्‍वं भाक्तं रथे गमनानुकूलकृतिमत्त्‍वा-भावात् मुख्‍यकर्त्तृत्‍वानुपपत्ते:।
अथ क्रियानुकूलकृतिमत्त्‍वं कर्त्तृत्‍वमिति कर्त्तृलक्षणघटकीभूता क्रिया का इति शिष्‍यजिज्ञासानन्‍तरं क्रियालक्षणं निरूपयितुं शिष्‍यावधानाय प्रतिजानीते अथ क्रियालक्षणमिति। कर्त्तृस्‍था कर्त्तृसमवायिनी, कर्म्‍मस्‍था कर्म्मसमवायिनी। गमधातोरर्थ: उत्तरदेशसंयोगानुकूलव्‍यापार:, स च पादविहरणादि: कर्त्तृनिष्ठ एव। तथा च “उत्‍क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कर्म्‍माण्येतानि पञ्च च।” (कारिकावली) इत्‍युक्तपञ्चविधकर्म्‍माणि कर्त्तृगतान्‍येव, तदतिरिक्ता क्रिया कर्म्‍मस्‍था। कर्म्‍मस्‍थानां क्रियाणाम् उदाहरणं यथा - ओदनं पचति, काष्ठं भिनत्ति इत्‍यादि। अत्रेदम् अवधेयम् - यत्र कर्म्‍मदर्शनेन क्रियाया अवगमो भवति तत्रैव कर्म्‍मस्‍था क्रिया, कर्त्तृदर्शनेन यत्र क्रियाप्रतीतिस्‍तत्र कर्त्तृस्‍था क्रिया पूर्व्वोदाहृतेषु तथात्‍वमनुसन्‍धेयम्।
अथ क्रिया द्विविधा - कर्त्तृस्‍था कर्म्‍मस्‍था चेत्‍युक्तं, तत्र किं नाम कर्म्‍म इत्‍याकाङ्क्षायामाह- अथ कर्म्‍मलक्षणमिति। परसमवेत: कर्म्‍मभिन्‍ने समवाय-सम्‍बन्‍धेन वृत्तिमान् य: धात्‍वर्थ: क्रिया तज्जन्‍यं यत्फलम् अनुकूलत्‍वसम्‍बन्‍धेन धात्‍वर्थांशे प्रकारीभूतो धर्म्म: तद्वत्वं कर्म्मत्‍वम्। तथा च ‘ग्रामं गच्‍छति’ इत्‍यादौ उत्तरदेशसंयोगानुकूलव्‍यापारस्‍य पादविहरणात्‍मकस्‍य ग्रामभिन्ने कर्त्तरि समवेतस्‍य जन्‍यं फलं संयोग: तद्वत्‍वं ग्रामे। यद्यपि संयोगस्‍य द्विष्ठतया तादृशफलवत्त्‍वं कर्त्तर्य्यपि, तथापि परशब्‍देन लक्ष्‍यत्‍वेनाभिमतप्रतियोगिकभेदवतो बोधनात् जनकक्रियाया: कर्त्तृभिन्ने असमवायात् नातिव्‍याप्ति:। संयोगफलिका इति संयोग-जनिका क्रिया व्‍यापारात्मिका। ननु यदि लक्ष्‍यत्‍वेनाभिमतप्रतियोगिकभेदवान् परपदेन बोध्‍यते, तदा चैत्रश्चैत्रं गच्छति इत्‍यादिप्रयोगापत्ति:, चैत्रेऽपि चैत्रघटोभय-प्रतियोगिकभेदसत्त्‍वात्, यदि च प्रकृत्‍यर्थतावच्‍छेदकावच्छिन्नप्रतियोगिकभेदवान् तत्‍पदेन बोध्‍य:, तर्हि ‘द्रव्‍यं गच्‍छति खग’ इत्‍यादौ कर्म्‍मत्‍वानुपपत्ति:, प्रकृत्‍यर्थ-तावच्‍छेदकद्रव्‍यत्‍वावच्छिन्नप्रतियोगिकभेदस्‍य खगे असत्त्वात्। तदयं निष्‍कर्ष: प्रकृत्‍यर्थानुयोगिकभेदप्रतियोगित्‍वम् एव परत्‍वं प्रकृते वाच्‍यं, समवेतत्‍वं च तादृश-भेदनिरूपितसमवायसम्‍बन्‍धावच्छिन्नावच्‍छेदकत्‍वमिति।
तथा च ‘ग्रामं गच्‍छति’ इत्‍यादौ संयोग: भेदश्च ग्रामपदोत्तरद्वितीयार्थ:, तत्र च आधेयतया ग्रामस्‍य अन्‍वय:, संयोगस्‍य अनुकूलत्‍वसम्‍बन्‍धेन भेदस्‍य च प्रति-योगितावच्‍छेदकत्‍वसम्‍बन्‍धेन क्रियायामन्‍वय:, क्रियायाश्च अनुकूलत्‍वसम्‍बन्‍धेन तिप्रत्‍ययार्थे कृतौ तस्‍याश्च कर्त्तरि समवायेन अन्‍वय:, एवञ्च आधेयतया ग्राम-विशिष्‍ट: यो भेद: प्रतियोगितावच्‍छेदकतासम्‍बन्‍धेन तद्विशिष्टत्‍वे सति आधेयतया ग्रामविशिष्ट: य: संयोग: तद्विशिष्टा या क्रिया तदनुकूलकृतिमानिति अर्थ: व्‍युत्‍पत्ति-वैचित्र्यबललभ्य:। पूर्व्वमेव कर्त्तृस्‍थत्‍वकर्म्‍मस्‍थत्‍वरूपधर्म्मद्वयभेदेन क्रियाया द्वै-विध्‍यमुक्तम्, कर्त्तृस्‍थक्रियाया: क्रियाजन्‍यत्‍वाभावात् मुख्‍यत्‍वं कर्म्‍मस्‍थक्रियायास्तु क्रियाजन्‍यत्‍वात् गौणत्‍वम्।
एवमित्‍यादि - यत्र शक्यार्थमादाय तात्‍पर्य्यं नोपपद्यते, तत्र लक्षणा स्‍वीक्रियते, तथा च नैयायिका:, “लक्षणा शक्यसम्‍बन्‍धस्‍तात्‍पर्य्यानुपपत्तित” इति। सा च लक्षणा, जहत्स्‍वार्थादिभेदेन बहुप्रकारा, तल्‍लक्षणं यथा शक्यावृत्ति-धर्म्मरूपेण लक्षणा जहत्स्‍वार्था, यथा ‘गङ्गायां घोष’ इत्यत्र भगीरथरथ-खातावच्छिन्नजलप्रवाहरूपे अर्थे घोषस्‍य वासो वक्तृतात्‍पर्य्यविषय: असम्‍भव: तत्‍सम्‍बन्धिनि तीरे लक्षणामनुकूलयति, गङ्गासम्‍बन्धितीरत्‍वञ्च शक्यार्थे गङ्गायाम् अवृत्ति:, इति जहत्‍स्‍वार्था लक्षणा। शक्यलक्ष्‍योभयवृत्तिधर्म्‍मरूपेण लक्षणा अजहत्स्‍वार्था, यथा ‘काकेभ्यो दधि रक्ष्‍यतां’, अत्र काकरूपशक्‍यार्थेभ्‍य: तत्सदृशेभ्योऽपरेभ्‍योऽपि दध्‍युपघातकेभ्यो दध्नो रक्षा वक्तृतात्‍पर्य्यविषय इति अजहत्‍स्‍वार्था। अस्‍या अपि लक्षितलक्षणाद्या भेदा वर्त्तन्‍ते तेषामुदाहरणानि यथासम्‍भवमूह्यानि।
तत् प्रागुक्तं त्रिविधं त्रिधा विभक्तम्। विधप्रत्‍ययार्थस्‍तु उद्देश्यतावच्‍छेदक-समनियतवस्‍तुमदन्‍यसङ्ख्‍यावत्त्‍वं प्रागेव प्रतिपादितम्। त्रैविध्‍यमेव दर्शयति प्राप्‍यमित्‍यादिना, अत्र हरिकारिका यथा - “निर्व्वर्त्त्यञ्च विकार्य्यञ्च प्राप्‍यञ्चेति त्रिधा मतम्। तच्‍चेप्सिततमं कर्म्‍म चतुर्धान्‍यत्तु कल्पितम्। औदासीन्‍येन यत् प्राप्‍तं यच्‍च कर्त्तुरनीप्सितम्। संज्ञान्‍तरैरनाख्यातं यद् यच्‍चाप्‍यन्‍यपूर्व्वकम्।” 1 इत्‍यादि। तेषामेकैकशो लक्षणं यथा दौर्गे “यदसञ्जायते पूर्व्वं जन्‍मना यत् प्रकाशते। तन्निर्व्वत्त्‍यं विकार्य्यञ्च कर्म्‍मद्वेधा व्‍यवस्थितम्।। प्रकृत्‍युच्‍छेदसम्‍भृतं किञ्चित् काष्ठादिभस्‍मवत्। किञ्चिद्गुणान्‍तरोत्‍पत्त्या सुवर्णादिविकारवत्।। क्रियाकृतविशेषाणां, सिद्धिर्यत्र न गम्‍यते। दर्शनादनुमानाद्वा तत्प्राप्‍यमिति कथ्‍यते।” 2
प्राप्यं यथा गोयीचन्‍द्र: - कर्त्तु: क्रियाव्‍याप्तिमात्रं, न निष्‍पत्तिर्नच विकृतिः तत् प्राप्यम्। क्रियागतासाधारणधर्म्मप्रकारकप्रतीतिविषयतानाश्रयत्‍वे सति क्रियाजन्‍य-फलवत्त्‍वेन उद्देश्‍यत्‍वमिति व्‍युत्‍पत्तिबलत:। ‘ग्रामं गच्छति’ इत्‍यादिस्‍थले ग्रामादे: प्राप्यकर्म्‍मत्‍वं संयोगरूपफलाश्रयत्‍वेन ग्रामस्‍य उद्देश्‍यत्‍वात्।
निर्व्वर्त्त्यकर्म्मत्‍वं यथा - प्रकृतिवाचकपदासमभिव्याहृतपदोपस्‍थाप्‍यत्‍वे सति क्रियाजन्‍योत्‍पत्तिफलवत्त्‍वम्। तथा च ‘घटं करोति’ इत्‍यादौ घटस्‍य क्रिया-जन्‍योत्‍पत्तिफलवत्त्‍वं घटप्रकृतिभूतमृदादिवाचकपदासमभिव्‍याहृतत्‍वञ्च, अत एव निर्व्वर्त्त्यकर्म्‍मत्‍वं तस्‍य। अत्रैव यदि ‘मृत्तिकां घटं करोति’ इति प्रयोग:, तदा विकार्य्यकर्म्‍मता। निर्व्वर्त्त्यम् उत्‍पाद्यमिति पद्मनाभ:। उत्‍पत्तिराद्यक्षणसम्‍बन्‍ध: - आद्यक्षणश्च स्‍वाधिकरणसमयध्‍वंसाधिकरणसमयध्‍वंसानधिकरणत्‍वे सति स्‍वाधि-करणसमयध्वंसाधिकरणसमय:। अथवा प्रथमप्रकाश उत्‍पत्ति:, एतन्‍मते असत: उत्‍पत्त्‍यभावपक्षस्‍य आदृतत्‍वात्। तदुक्तं ‘नासदुत्‍पद्यते न च सद् विनश्‍यति’, उत्‍पत्तिविनाशयोराविर्भावतिरोभावस्‍वरूपत्‍वादिति टीकाकार:।
“सती वाऽविद्यमाना वा प्रकृति: परिणामिनी। यस्‍य नाश्रीयते तस्‍य निर्व्वर्त्त्यत्‍वं प्रचक्षते॥” 1 इति प्राचीनकारिकैकवाक्यतया प्रकृतिवाचकेत्‍यादि।
विकार्य्यमाह - यत्र प्रकृत्‍युच्‍छेदेन स्‍वरूपतो वा पूर्वरूपतो वा नाशेन रूपान्‍तर-मुत्‍पद्यते तत्र विकार्य्यकर्म्‍मता, तदिदं लक्षणं यथा प्रतीयमानप्रकृतिविकृतिभावत्‍वे सति क्रियानिर्व्वाह्यविशिष्टासत्त्‍वोत्‍पत्तिरूपान्यतरफलशालित्‍वं विकार्य्यत्‍वम्।
अत्र ‘काष्ठं भस्‍म करोति’ इत्‍यादौ काष्ठस्य स्‍वरूपनाशात् विशिष्टासत्त्‍ववत्त्‍वात् भस्‍मनश्च स्‍वरूपनाशहेतुकरूपान्‍तरवत्त्‍वाल्लक्षणसमन्‍वय:, ‘दुग्‍धं दधि करोति’ इत्‍यादौ एकान्‍तत: स्‍वरूपस्‍य अनुच्छिन्नत्‍वात् पूर्व्वरूपमात्रनाशेन रूपान्‍तरलाभात् द्वितीय: प्रकार इति कश्चित्। मूलकारमते तु विकार्य्यकर्म्‍मलक्षणस्‍य रूपान्‍तरवन्‍मा-त्रपरत्‍वमिति स्थितम्।
ननु यदि काष्ठादीनां न विकार्य्यता तत्किमिति तद्वाचकशब्‍दोत्तरं द्वितीया जाता इत्‍याकाङ्क्षायां प्राह - काष्‍ठादीत्‍यादि।
एवम् उक्तरूपेण ‘काष्ठं भस्‍म करोति’ इति स्‍थानीयशाब्‍दधीवदित्‍यर्थ:। अन्‍यत्र परोक्तेषु ‘दुग्‍धं दधि करोति, तण्‍डुलान् ओदनं पचति’ ‘सुवर्णं कुण्‍डलं करोति’ इति स्थलेषु इत्‍यर्थ:। तथा च दुग्‍धसम्‍बन्‍ध्यभिन्नदधिविषयककृत्‍याश्रय: इत्‍यादिरेव तत्र शाब्‍दधीरिति।
अत्र केषाञ्चिन्मते “यल्लब्‍धसत्ताकं वस्‍तु अवस्‍थान्‍तरमापद्यते तद्विकार्य्यम्” इति विकार्य्यलक्षणात् ‘काष्ठं भस्‍म करोति’ इत्‍यादौ काष्ठं भस्‍म चेत्‍युभयमेव विकार्य्यलक्षणलक्ष्‍यं भवति। तथा च यत् लब्‍धसत्ताकं काष्ठादिवस्‍तु यत् अवस्‍थान्‍तरं भस्‍मादिरूपं रूपान्‍तरम् आपद्यते तदुभयमेव विकार्य्यम् इति। एतन्‍मते काष्ठपदोत्तरद्वितीयोत्‍पत्तौ न पर्य्यनुयोग:। यद्यपि विकार्य्यत्‍वं प्रकृतेरेव सम्‍भवतीति प्रकृतौ काष्ठादौ लक्षणसमन्‍वयस्‍तथापि अभेदविवक्षया प्रकृतिविकृत्‍योरुभयोरेव विकार्य्यपदार्थता इति नानुपपत्ति:।
अत्र विकार्य्यस्‍थले ‘काशा: कटं क्रियन्‍ते’ इति प्रयोगस्‍तु प्रकृत्‍यपेक्षया विकारस्‍य गौणत्‍वेन अनुक्तत्‍वमधिकृत्‍य, अत एव कटमित्‍यत्र द्वितीया। विकार्य्यकर्म्‍मकक्रियया दुहादीनामिव द्विकर्म्‍मकत्‍वसिद्ध्या प्रधानकर्म्‍मणा प्रकृतेरेव उक्तत्‍वव्‍याख्‍यानात्। कुलचन्‍द्रस्‍यापि मतमेतत्। अपरे तु यथा मुख्‍ये कर्म्‍मणि प्रत्‍यय: तथा गौणेऽपि कर्म्‍मणीति ‘काशा: कट: क्रियन्‍ते’ इत्‍येव प्रयुञ्जते। क्रियाया वचनन्‍तु प्रकृत्‍यनुगतमेव विकार्य्यकर्म्‍मस्‍थले स्‍वारसिकं सर्व्वेषाम्। ‘प्रकृति-विकृत्‍यो: प्रकृतिवच्‍च’ इति न्‍यायात्, यथा - एको वृक्ष: पञ्च नौका भवतीत्‍यादौ।
अथ किं करणमिति जिज्ञासायां करणलक्षणमाह - साधकतमं करणमिति सूत्रेण, “साधकतमं करणमि” 1 ति पाणिनिसूत्रम्। तमप्रत्‍ययेन साधकस्‍य प्रकृष्टत्‍वं विवक्ष्‍यते, तथा च साधकानां मध्‍ये य: प्रकृष्ट: तत्‍करणम्। तथा च कौमारे त्रिलोचन: “क्रियासिद्धौ यद्यपि बहूनि साधनानि व्‍याप्रियन्‍ते, तथापि तेषु मध्‍ये अनेनैतत् करोमीति कर्त्रा यत् प्रकृष्टोपकारकमन्‍तरङ्गं विवक्षितं तत् करणम्”। तथाचोक्तम्, “कारकाव्‍यवधानेन क्रियानिष्‍पत्तिकारणम्। यद्वै विवक्षितं तेषु करणन्‍तत् प्रकीर्त्तितम्॥” प्रकृष्टत्‍वञ्च करणस्‍य कारकान्‍तराव्‍यवधानेन क्रियाया: साधकत्‍वम्। तदुक्तं - “करणं खलु सर्व्वत्र कर्त्तृव्‍यापारगोचरम्। तिरोदधाति कर्त्तारं प्राधान्‍यं तन्निबन्‍धनम्॥” इति। तच्‍च करणं द्विविधं बाह्यम् आभ्‍यन्‍तरञ्च, बाह्यं करणं यथा - ‘परशुना छिनत्ति वृक्षम्’, आभ्यन्‍तरं करणं यथा - ‘मनसा पाटलिपुत्रं गच्‍छति’ इत्‍यादि वक्ष्‍यमाणम्।
अथ साधकतमं करणमिति सूत्रघटकीभूतसाधकतमपदार्थमाह - कारके-त्‍यादिना। कारकान्‍तरस्‍य स्‍वभिन्नकारकस्य व्‍यापारम् अनुत्‍पाद्य अजनयित्‍वा फल-हेतुत्‍वम्। केवलं फलहेतुत्‍वमित्‍युक्तौ कर्त्तुरपि फलहेतुतया करणलक्षणातिव्‍याप्ति:, अतो विशेषणदलम्, तथा च कर्त्तु: स्‍वभिन्‍नकरणकारकव्‍यपारमुत्‍पाद्य फलजनक-त्‍वात् नातिव्‍याप्ति:। कारणं हि द्विविधं - स्‍वरूपसत् फलोपधायकञ्च, स्‍वरूपसत् कारणं हि कारणतावच्‍छेदकधर्म्‍मवन्‍मात्रं, फलोपधायकञ्च कारणम् अव्यवहित-पूर्वत्वसम्बन्धेन फलविशिष्टं, यत्र फलोपधायकत्वरूपं कारणत्वं तत्रैव करणसंज्ञा-विषयत्‍वं, यत्र च स्‍वरूपसत्त्‍वमात्रं तत्र न करणसज्ञाविषयत्‍वं किन्‍तु हेत्‍वर्थ इति सूत्रादेस्‍तत्र तत्र विषयता।
तत्र प्रथमत: ‘परशुना छिनत्ति’ इत्‍यादौ फलोपधायकत्‍वरूपं करणसंज्ञा-निर्व्वाहकं हेतुत्‍वम् उदाहरणेन प्रतिपाद्य स्‍वरूपसन्‍मात्रस्‍थलमपि उदाहरति - अथेत्‍यादिना। धनेन कुलम् इत्‍यादि, अत्र तृतीयार्थ: हेतुत्‍वं, तस्‍य च स्‍वनिरूपित-जन्‍यतावत्त्‍वेन कुले अन्‍वय:, तथा च धननिष्ठजनकतानिरूपितजन्‍यतावत् कुलमिति बोध:। ‘विद्यया यश’ इत्‍यत्रापि पूर्ववत्।
एवमित्‍यादि - धूमपदं धूमज्ञानपरम्, तृतीयार्थ: हेतुत्‍वं वह्निपदं वह्निज्ञानपरम्, तथा च धूमज्ञाननिष्ठजनकतानिरूपितजन्‍यताविशिष्टम् अथवा तृतीयार्थहेतुत्‍वस्‍य स्‍वनिरूपितजन्‍यताविशिष्टज्ञानविषयत्‍वसम्‍बन्‍धेन वह्न्यादौ अन्‍वय:, एवं ‘कृत-कत्‍वेन अनित्‍य’ इत्‍यत्रापि। अत्र केचित् धूमेन इत्‍यादौ पञ्चम्‍यन्‍तपाठं समीचीनं मन्‍यन्ते, तदस्‍माकं न मनोरमम्, करणप्रस्‍तावे तृतीयार्थविवेचनमेव युक्तं, न तु पञ्चम्यर्थविवेचनम् अप्रस्तुतत्वात्, कृतकत्‍वं कार्य्यत्वं तत् हेतूकृत्‍य अनित्‍यत्व-साधनम्।
अथ धूमपदेन धूमज्ञानस्‍य लक्षणया बोधे, पञ्चम्‍येव युज्‍यते “गुणे हेता” वि‍ति अनुशासनात्, अत: किं धूमेन वह्निरित्‍यादिस्‍थले तृतीयार्थसमन्‍वयार्थं तदुपन्‍यास इति शङ्कायां पञ्चम्‍या वैकल्पिकत्‍वात् पक्षे तृतीयोत्‍पत्तेरबाधितत्‍वात् अर्थजिज्ञासायां तन्निरूपणम्। तृप्त्यर्थकधातुयोगे करणे षष्‍ठ्यपि विहितेति षष्ठ्या अपि स्‍थलभेदेन हेतुत्‍वमर्थ:। तथा च प्राचीनप्रयोग: - ‘नाग्निस्‍तृप्‍यति काष्ठानामि’त्‍यादि।
अथ सम्‍प्रदानलक्षणमाह - कर्म्‍मणेत्‍यादिना। सम्यक् प्रकर्षेण दीयते यस्‍मै तत् सम्‍प्रदानम् इति व्‍युत्‍पत्त्या स्‍वस्‍वत्‍वपरित्‍यागपूर्वकपरस्‍वत्‍वापादनरूपो धात्‍वर्थो लभ्यते। अथ स्‍वस्‍वत्वपरित्‍यागपूर्वकपरस्‍वत्‍वापादनस्‍य ददात्‍यर्थत्‍वे कथं ब्राह्मणादे: सम्‍प्रदानत्‍वमुपपद्यते, यत: आदौ गवादे: स्‍वस्‍वत्‍वत्‍यागे जाते सति गवादौ दानकर्त्तु: पूर्वस्‍वामिन: औदासीन्‍यात् परस्‍वत्‍वापादनमशक्यमेव, स्‍वत्‍वे स्थितेऽपि एकस्‍वत्‍वस्‍य अपरस्‍वत्वप्रतिबन्‍धकत्‍वात् ब्राह्मणादे: स्‍वत्‍वं दुर्घटम्। तदुक्तं - “स्‍वस्‍वत्‍वे विद्यमाने तु परस्‍वत्‍वं न विद्यते। परित्‍यज्‍य च स्‍वस्‍वत्‍व-मौदासीन्‍यात् न सिध्‍यति॥” इति। अत एव दोषात् स्‍वस्‍वत्‍वध्‍वंसपूर्व्व-केत्‍याद्यर्थमुक्त्वापि पुनरथवा पक्षं सारमञ्जरीकृत: संश्रयन्ति स्‍म, कर्म्‍मणा इत्‍यादि-सूत्रस्‍य निष्‍कर्षक्रम: कर्म्मणा कर्म्‍मकारकेण करणभूतेन यमभिप्रैति सम्‍बध्नाति तत् सम्‍प्रदानमिति।
तच्‍च सम्‍प्रदानं त्रिविधं - अनुमन्‍तृ, अनिराकर्त्तृ, प्रेरकमिति भेदात्, तदुक्तं “अनुमन्त्रनिराकर्त्तृप्रेरकं त्‍यागकारणम्। व्‍याप्‍येनाप्तं ददातेस्‍तु सम्‍प्रदानं प्रकीर्त्तितम्॥ सम्‍प्रदानं तदेव स्‍यात् पूजानुग्रहकाम्‍यया। दीयमानेन संयोगात् स्‍वामित्‍वं लभते यदि॥” अनुमन्‍तरि उदाहरणं यथा ‘गुरवे गां ददाति’ अत्र गुरुर्द्दानाय अभ्‍यर्थित: दीयतामिति अनुमन्‍यते इति तस्‍य अनुमन्‍तृत्‍वम्। अनिराकर्त्तृ यथा- ‘सूर्य्याय अर्घ्यं ददाति’ सूर्य्यो हि यद्यपि न याचते, तथापि अर्घ्यं पूजकप्रदत्तं न निराकरोति। प्रेरकं यथा - ‘ब्राह्मणाय गां ददाति’ ब्राह्मणो हि धनिनमुपसृत्‍य मह्यम् एकां गां देहीति प्रेरयति। तदयं निकृष्टार्थ: - त्‍यागजन्‍यस्‍वत्वफलभागित्‍वं सम्‍प्रदानत्‍वम् इति त्‍यागस्‍तु परस्‍वत्वफलिका इच्‍छा, इदं ब्राह्मणस्‍य भवतु इत्‍याद्याकारा इच्‍छा त्‍याग-पदार्थ:। मूले उद्देश्‍यत्‍वं स्‍वत्‍वनिरूपकतया तादृशेच्‍छाविषयत्‍वं, तथा च गौरियं ब्राह्मणस्‍य भवतु इति इच्‍छायां भासमानस्‍य षष्ठ्यर्थस्‍य स्‍वत्‍वस्‍य निरूपकतया ब्राह्मणो भासत इति ब्राह्मण उद्देश्‍य:। उद्देश्‍यगतेत्‍यादि - अनेन इच्‍छामात्रेणैव सम्‍प्रदानत्‍वनिष्‍पत्ति: प्राप्ता।
ननु अस्‍तु दानार्थकधातुयोगे सम्प्रदानत्‍वनिर्वाह: कथं “देवदत्ताय रोचते मोदक” इत्‍यादौ उक्तरूपत्‍यागाद्यर्थाभावेन चतुर्थीसम्‍पत्तिरित्‍याकाङ्क्षायां रुच्‍यादि- धातुयोगे सूत्रान्‍तरं सम्प्रदानसंज्ञाविधायकं प्रस्तौति - “रुच्‍यर्थानाम् प्रीयमाण” 1 इति। नारदाय रोचते कलह इत्‍यत्र सम्‍बन्धित्‍वं चतुर्थ्‍यर्थ:, तस्‍य च रुचधात्‍वर्थे अन्‍वय:, तथा च नारदसम्‍बन्धिरुचिविषय: कलह इत्‍युक्त एव शाब्‍दबोध:। ननु “रुच्‍यर्थानां धातूनां योगे य: प्रीयमाण: स सम्‍प्रदानम्” इत्‍युक्तौ “स्‍फुरदधरसीधवे तव वदनचन्‍द्रमा रोचयति लोचनचकोरम्” इत्‍यत्र रुच्‍यर्थधातुयोगे प्रीयमाणलोचनचकोरवाचकपदात् न कथं सम्प्रदाने चतुर्थी प्राप्ता, तथा च ‘वदनचन्‍द्रमा अधरसीधुं लोचनचकोराय रोचयति’ इत्‍येव स्‍यात् इति चेत् रुचिरत्र आस्वादनार्थ:, ततश्च लोचनचकोरस्‍य आस्‍वादकर्त्तृत्‍वं विवक्षितं, रुच्‍यर्थानां प्रीयमाण इति सूत्रन्‍तु षष्ठ्या: कर्म्‍मणो वा बाधकमिति कलापटीकायामुक्तत्‍वात् नास्‍यात्र विषय इति। सीधवे इत्‍यत्र तादर्थ्‍ये चतुर्थीति न दोष:।
‘नृपाय श्लाघते’ इति श्लाघा च बोधविषयगुणवत्त्‍वप्रतिपादकशब्‍दप्रयोग: नृपं बोधयितुम् आत्‍मानं गुणवत्त्‍वेन रूपेण स्तौतीत्‍यर्थ:।
विप्राय इत्‍यादि - ऋणतया ग्रहणं धारिधातोरर्थः, सम्‍बन्धित्‍वं चतुर्थ्‍यर्थ:। तस्‍य शतपदार्थे अन्‍वय:, द्वितीयार्थ: कर्म्‍मत्‍वं, तस्‍य च धारिधात्‍वर्थे ग्रहणे अन्‍वयः, ग्रहणस्‍य च तेप्रत्‍ययार्थकृतौ अनुकूलत्‍वसम्‍बन्‍धेन तस्‍याश्च कर्त्तरि शूद्रे अन्‍वय:, तेन विप्रसम्‍बन्धिशतकर्म्‍मक-ऋणग्रहणानुकूलकृतिमान् शूद्र इति बोध:। ‘पुष्‍पाय स्‍पृहयति’ इत्‍यत्र ईप्सितकर्म्‍मत्‍वमिति वस्‍तुकथनं, विषयत्‍वरूपं कर्म्‍मत्‍वमेवार्थ:। स्‍पृहा इच्‍छामात्रं तस्‍याश्च विषयत्वरूपमेव कर्म्‍मत्‍वं “ज्ञानेच्‍छा-कृतिद्वेषा: सविषयका” इति नियमात्।
अथ सम्प्रदाननिरूपणानन्‍तरं क्रमप्राप्तस्‍य अपादानस्‍य निरूपणं प्रस्‍तौति - अथेति। अपादीयते पृथक्क्रियते यस्‍मात् तत् अपादानं विभागस्‍य अवधिभूतं वस्‍तु, अपपूर्व्वस्‍य दाधातो: अर्थ: विभाग: कृत्‍प्रत्‍ययस्‍य अपादाने विधानात् अवधित्‍वम् अर्थ:, तथा च अपाये विभागविषये यत् ध्रुवं निश्चलं तत् अपादानम्। अत्र दौर्गा: “यतोऽपैति भयमादत्ते वा तदपादानमि” 2 ति सूत्रं ब्रुवते, तन्‍मतेऽपि आख्‍यातस्‍य क्रियाप्रधानतया अपैतीत्यनेन अपाय एव वाच्‍य:, यत इत्‍यनेन अवधिर्बोध्‍यते, दौर्गाणां ‘चलमचलञ्च’ इत्‍यादिसूत्रस्‍य प्रयोजनाभावेन लाघवम्, परेषान्‍तु ‘अपसरतो मेषादपसरति मेष’ इत्‍यादौ उभयोरेव चलत्‍वात् अपादानसंज्ञाप्रतिपत्तये चलमचलञ्च इति सूत्रमवश्‍यं वक्तव्‍यम्। “ध्रुवमपाये” 1 इत्‍यादिसूत्रस्‍याविषयत्‍वात् इति दौर्गा दूषयन्ति। ध्रुवमित्‍यस्‍यार्थ: विभागजनकक्रियाशून्‍यमिति। विभागजनिका क्रिया वृक्षात् पर्णं पततीत्‍यादौ पर्णगतस्‍पन्‍दनादि:, तच्‍छून्‍यं वृक्षादि अपादान-कारकम् अपादानसंज्ञकं भवति, एतदभिप्रायकमेव कलापटीकायां सुषेणवचनं “विभागजनकीभूतस्‍पन्‍दनादिक्रियानाश्रयत्‍वे सति विभागाश्रयत्‍वम् अवधित्‍वम्” इति। संयोगविभागयोर्द्विष्ठतया विभागाश्रयत्‍वं वृक्ष इव पर्णेऽपि अस्ति इति पर्णस्‍यापि अपादानत्‍वं प्रसक्तं, तद्वारणार्थं सत्‍यन्‍तदलं, तथा च पर्णस्‍य विभागा-श्रयत्‍ववत् विभागजनकस्‍पन्दनक्रियाया आश्रयत्‍वान्न अपादानत्‍वम्। सत्‍यन्‍तदल-मात्रनिवेशेन विशेष्‍यदलपरित्‍यागे उदासीने घटपटादौ तादृशस्‍पन्‍दनादिक्रियानधि-करणे अतिव्‍याप्तिरिति विशेष्‍यदलम्, विभागजनकीभूतेत्यनुपादाय स्पन्‍दनादि-क्रियानाश्रयत्‍वे सतीति सत्‍यन्‍तदलोक्तौ ‘चलतो वृक्षात् पर्णं पतती’त्‍यादौ स्‍पन्‍दन-क्रियाश्रयस्‍य वृक्षस्‍य स्‍पन्‍दनादिक्रियाश्रयत्‍वेऽपि सा क्रिया न विभागजनिका इति नाव्‍याप्ति:, एवमन्‍यदप्यूह्यम्। एतदभिप्रायकमेव परकीयेत्यादि नैयायिकलक्षणमपि।
अत्र परकीयत्‍वं न लक्ष्‍यतावच्‍छेदकावच्छिन्नप्रतियोगिकभेदवत्‍प्रतियोगिकत्‍वं पर्णद्वयादिविभागस्‍थले ‘पर्णात् पर्णं पतती’त्‍यादिप्रयोगानुपपत्ते:, किन्‍तु लक्ष्‍यप्रति-योगिकभेदवत्‍प्रतियोगिकत्‍वं तेन ‘पर्णात् पर्णं पतती’त्‍यादौ अपादानत्‍वाश्रयतत्तत्‍पर्ण-व्‍यक्तिप्रतियोगिकभेदवत्‍पर्णान्‍तरव्‍यक्तिप्रतियोगिकक्रियाजन्‍यविभागाश्रयत्‍वमपा-दानीभूतपर्णव्‍यक्ताविति नानुपपत्ति:, ‘वृक्षात् पर्णं पतती’त्यादौ तु न अनुपपत्ति-सम्भावनापि। दुर्गोक्तलक्षणस्यापि अयमेव निष्कर्षः। ‘वृक्षात् पर्णं पतती’त्यत्र पञ्चम्‍यर्थ: अवधित्‍वम् अधस्संयोगानुकूलव्‍यापार: धात्‍वर्थ:, तिप्रत्‍ययार्थ: आश्रयत्‍वम्। अचेतनस्‍थले ‘रथो गच्‍छती’त्‍यादिस्‍थलवत् आश्रयत्‍वे आख्‍यातस्‍य लक्षणास्‍वीकारात्, पञ्चम्‍यर्थस्‍य अवधित्‍वस्‍य धात्‍वर्थैकदेशे अधस्संयोगनिरूप-कत्‍वेन, आश्रयत्‍वस्‍य तिप्रत्‍ययार्थस्‍य कर्त्तरि पर्णे अन्‍वय:, तथा च “वृक्षवृत्त्य-वधितानिरूपकाधस्संयोगानुकूलव्‍यापाराश्रयत्‍वाश्रय” इति शाब्‍दबोध:।
अत्रेदमवधातव्‍यम् - एकस्‍य वृक्षस्‍य पत्रं यदि वृक्षान्‍तरसंयुक्तं सत् वाय्वाघातादिवशात् पतितं तदैव पञ्चमी, तदुक्तं “काकादिभि: समानीतं वृक्षात् पर्णं पतेद् यदि। तदापादानसिद्धि: स्‍यात् षष्ठी स्‍यात् समवायिन:” इति। समवायिस्‍थले तु वृक्षस्‍य पर्णं पततीत्‍येव प्रयोग इति सम्‍प्रदाय:।
निर्दिष्टविषयादिभेदेनापि अपादानस्‍य त्रैविध्‍यमाह भर्त्तृहरि: यथा - “निर्दिष्‍ट-विषयं किञ्चिदुपात्तविषयं तथा। अपेक्षितक्रियञ्चेति त्रिधापादानमिष्‍यते”॥ 1 इति। निर्दिष्ट: शब्‍दत: प्रतिपन्न: विषय: तथाभूतं, यथा ‘वृक्षात् पर्णं पतति’ इत्‍यत्र पतनस्‍य शब्‍दत एव निर्देश:, उपात्त: क्रियान्‍तररूपेण गृहीत: विषय: यस्‍य तत् यथा - ‘बलाहकाद् विद्योतते विद्युत्’ इत्‍यादि, अत्र निस्सरणरूपक्रियान्‍तरम् उपात्तं तदपेक्षया एव बलाहकस्‍य अवधित्‍वप्रत्‍यय:, अपेक्षिता क्रिया यत्र तथाभूतं यथा ‘कुतो भवान्’ इति प्रश्नानन्‍तरं ‘पाटलिपुत्रात्’ इत्‍युत्तरे कृते प्रश्नोत्तरवाक्ययो: क्रियावाचकपदार्थानुसन्‍धानं विना नान्‍वयबोध:, अत एव आगमनादिक्रियाया: समनुसन्‍धानम् इति अपेक्षितक्रियम्, उपात्तविषयस्‍थले क्रियाया: मुख्‍याया: क्रियान्‍तरं विशेषणतया प्रतीयते अपेक्षितक्रियास्‍थले मुख्‍यापि किया न शब्‍दत उपास्‍यत इति।
चलाचलभेदेन द्विविधस्‍य अपादानस्‍य प्रत्‍येकं पुनर्निर्द्दिष्टविषयादिभेदेन त्रिधाभेदात् षड्विधत्‍वव्‍यवस्‍थितिरिति न द्विधा भेदमुक्त्वा पुनस्त्रिधाभेदकथनं विरुद्धवचनम्।
ननु अपाय: विभाग: तन्निरूपितावधिताकस्‍य अपादानसंज्ञा चेत् ‘हिमवतो गङ्गा प्रभवति’ इत्‍यत्र हिमवता सह गङ्गाया अपायाभावात् कथं हिमवत: अपादानत्वम्? तदेतदर्थं पुनरनुशासनान्‍तरमपेक्षणीयमित्‍याह- तत्र “भुव: प्रभव” 1 इति। अवच्‍छेदकत्‍वं स्वरूपसम्‍बन्‍धविशेष:। प्रभवशब्‍दो नोत्पत्तिमात्रार्थ: “जनिकर्त्तु: प्रकृति:” 2 इत्‍यनेनैव तत्प्रतिपाद्यसिद्धे:, अत एव प्रभवशब्‍दस्‍य अर्थविशेषं दर्शयति - प्रभव आद्यप्रकाश इति। गङ्गाया आद्यप्रकाशनं हिमालयाव-च्‍छेदेनेति, आद्यप्रकाशो गङ्गाया हिमवदवच्छिन्न: एवमन्‍यत्र वल्‍मीकाग्रादि- त्‍यादावपि इत्‍यर्थ:। तथा च वल्‍मीकाग्रावच्छिन्नाद्यप्रकाशवदाखण्‍डलसम्‍बन्धि-धनु:खण्‍डमिति बोध:।
आद्यप्रकाश: प्रथम: बाह्यदेशसम्‍बन्‍ध:, तथा च हिमालयावच्छिन्नप्रथम-बहिर्द्देशसम्‍बन्‍धाश्रयीभूता गङ्गा इति निकृष्टार्थ:।
सामग्रीत इत्‍यादि - सामग्रीत: कारणकूटात्, फलं कार्य्यं जायते, जनिकर्तुरिति जने: उत्‍पत्ते: कर्त्तु: न तु जनधातोरेव कर्त्तुरिति ‘प्राक् केकयीतो भरतस्‍ततोऽभू’ दित्‍यादिस्‍थलेषु जनधातो: प्रयोगाभावेन तस्‍य अव्‍याप्ते:, तथा च सामग्रीत इत्‍यत्र पञ्चम्‍यर्थ: हेतुत्‍वं तस्‍य निरूपकत्‍वसम्‍बन्‍धेन धात्‍वर्थे उत्‍पत्तौ तस्‍य च निरूपित-त्‍वसम्‍बन्‍धेन प्रत्‍ययार्थे प्रतियोगित्‍वे तस्‍य च कर्त्तरि अन्‍वय:, तेन सामग्री-हेतुकोत्‍पत्तिप्रतियोगि फलमिति बोध:।
असोढ़ इति अशक्यत्‍वज्ञानविषय:, तथा च प्रकृते अध्‍ययनम् अशक्यमिति ज्ञाने अशक्यत्‍वं प्रकारत्‍वाख्‍यविषयतावत् अध्‍ययनञ्च विशेष्‍यत्‍वाख्‍यविषयतावत्, प्रकृते च विशेष्‍यत्‍वाख्‍यविषयताया एव उपादानात् अध्‍ययनमेव तादृशविषय इति तद्वाचकपदात् अपादानार्थे पञ्चमी। सर्व्वत्रैवात्र असोढ़त्‍वम् अशक्‍यतया ज्ञातत्‍वम् बोध्‍यम्। ननु पराजयो यदि निवृत्तिस्‍तत् कथम् उपपद्यते इत्‍याकाङ्क्षायां केचिदाहु:, निवृत्तिरत्र न केवला अपि तु विशिष्टैव, तथाहि अशक्यत्‍वज्ञानपूर्व्विका निवृत्तिरेव धात्वर्थः। तेन अध्ययनात् पराजयत इत्यादौ अध्ययनधर्म्मिकाशक्यत्वज्ञान-पूर्व्वकनिवृत्तिमान् इति बोधः। निवृत्तिरपि तात्‍पर्य्यत: अध्‍ययनावधिका एव इति भाव्‍यम्। अथ यदि परापूर्व्वजिधातोर्य्योगे असोढ: अपादानम्, तर्हि शत्रून् पराजयत इत्‍यादौ शत्रुपदार्थस्‍य न कथमपादानत्‍वम् इत्‍याकाङ्क्षायामाह - शत्रून् इत्‍यादि। तथाहि उक्तस्‍थले न पूर्व्वोक्तो धात्‍वर्थ:, किन्‍तु अन्‍यथैव, अत एव तद्व्‍याप्यतया कर्म्‍मत्‍वम्, न असोढ़त्‍वज्ञानविषयतया अपादानत्‍वं शत्रोरसोढ़त्‍वाभवात्। अवसाद-विशेषानुकूलव्यापार: पराजेरर्थ: इति निपुणा:, तेन अवसादरूपफलाश्रयत्‍वेन शत्रूणां कर्म्‍मत्‍वमुपपन्नम्। न पञ्चमीति अपादानत्‍वप्रसक्तावेव तदर्थे पञ्चमीविधानात् पञ्चमी स्‍यात् प्रकृते अपादानत्‍वमेव नास्‍तीति तदर्थे विहितपञ्चम्‍यपि न शत्रुप्रभृतिवाचकपदोत्तरम्, अपितु व्‍याप्‍यतया कर्म्‍मत्वात् कर्म्‍मविहिता द्वितीया एव इति परिष्‍कार:।
कूपादित्‍यादि - अत्र वारणम् अभावानुकूलव्‍यापार: अनुकूलत्‍वं प्रयोजकत्‍वं न तु जनकत्‍वम् अभावस्‍य नित्‍यतया तज्‍जनकव्‍यापारस्‍य असम्‍भवात्। कूपादिति पञ्चम्यर्थ: आधेयत्‍वं, तस्‍य धात्‍वर्थैकदेशे अभावे, द्वितीयार्थ: प्रतियोगित्‍वं तस्‍य निरूपकतया अभावे, व्‍यापारस्‍य कृतौ, कृतेश्च कर्त्तरि अन्‍वय:। अभावश्च पञ्चम्‍यन्‍तकूपादिपदसाहचर्य्येणपतनसम्‍बन्‍धेन ग्राह्य:, तथा च पतनसम्‍बन्‍धेन कूपवृत्ति: य: अन्धप्रतियोगिकोऽभाव: तदनुकूलकृतिमानिति बोध:। ननु कथमेतदर्थं प्रयासान्‍तरं स्‍वीक्रियते? “ध्रुवमपाये” 2 इत्‍यादिसूत्रस्‍यापि समन्‍वयसम्‍भवात् इति चेन्न। विभागो हि संयुक्तयोरेव पदार्थयो: नत्‍वसंयुक्तयो:। तत्कूपेन अन्‍धस्‍य संयोगात् पूर्व्वमेव वारणात् संयुक्तताविरहेण विभागाभावात् न पूर्वेण सिद्धिरिति। अथ कूपादित्‍यादिवाक्यघटकीभूतान्यपदार्थमाह - अन्‍धत्‍वमित्‍यादिना, विद्यमानो-भयगोलकस्‍य चक्षुरिन्द्रियासत्त्‍व इव गोलकसामान्‍यशून्‍यस्‍यापि अन्‍धत्‍वोप-पत्‍यर्थम् अन्‍यतरनिवेश:। अत्र क्वचिद्ग्रन्‍थे गोलकवत्त्‍वे सति क्वचिच्च गोलका-भाववत्त्‍वे सति इति सत्‍यन्‍तदलं समुपलभ्यते। तदुभयोर्गतिश्चिन्‍तनीया निपुणधीभि:। काणत्‍वमिति, चक्षुर्युक्तैकगोलकमात्रवत्त्‍वमित्‍यत्र मात्रपदं चक्षुर्युक्त-गोलकद्वयवतां कारणत्‍वनिराकरणाय, अन्‍यथा चक्षुर्युक्तैकगोलकमन्‍तरेण तादृश-गोलकद्वयसत्त्‍वस्‍य अनुपपत्त्‍या प्रकृतलक्षणस्‍य दीप्तनेत्रद्वययुक्तेऽपि प्रसक्तिरिति अन्‍धत्‍वकारणत्‍वयोरिदं वैलक्षण्यमनुसन्‍धेयम्।
भीत्रार्थानामित्‍यादि - अत्र भाविनोऽनिष्टस्‍य अप्रतिकार्य्यताशङ्का भयं, तच्च ज्ञानात्‍मकं, ‘व्‍याघ्रात् बिभेति’ इत्‍यादौ प्रयोज्‍यत्‍वं पञ्चम्यर्थ:, तच्‍च भीधात्‍वर्थैक-देशे अनिष्टे अन्‍वेति, तथा च व्‍याघ्रप्रयोज्‍यभाव्‍यनिष्ठविषयकाप्रतिकार्य्यताशङ्कावान् कर्त्ता इति बोध:, ‘उपाध्‍यायादन्‍तर्द्धत्ते’ इत्‍यादौ स्‍वविषयकप्रत्‍यक्षविरोधिव्‍यापार: अन्‍तर्दधातेरर्थ:, पञ्चम्यर्थ: सम्‍बन्धित्‍वं तस्‍य धात्‍वर्थैकदेशे प्रत्यक्षे अन्‍वय:, तथा च उपाध्‍यायसम्‍बन्धिस्‍वविषयकप्रत्‍यक्षविरोधिव्‍यापारानुकूलकृतिमान् इति बोध इति कारकचक्रादौ परिष्‍कार:। आत्‍मसङ्गोपनमेव स्‍वविषयकप्रत्‍यक्षविरोधिव्‍यापार:। ननु यदि धात्‍वर्थस्‍तथा, तदा कथं तथाचेत्‍यादिबोध इत्‍यन्‍तग्रन्‍थसङ्गति:? इच्‍छाया: धात्‍वादिप्रतिपाद्यत्‍वविरहात् वाक्‍यार्थबोधे अभानात् इति चेत् उक्तग्रन्‍थो न प्रकृतशाब्‍दबोधाभिप्रायक: किन्‍तु आदौ अन्तर्धाने इच्‍छा तदनन्‍तरम् अन्‍तर्धानमिति कृतलक्षणे अपेक्षणीयाया अन्‍तर्धानेच्‍छाया बोधनार्थमेव वस्‍तुकथनं, शाब्‍दबोधस्‍तु इच्‍छामविषयीकृत्‍यैवेति। तथैव कारकचक्रादौ शाब्‍दबोधप्रदर्शनात्।
‘उपाध्‍यायाद् अधीते’ इति अध्‍ययनं हि नियमपूर्व्वकविद्याग्रहणं नियमश्च ‘स्नात्‍वा नत्‍वा गुरुभिरनुज्ञातेन शिष्‍येण प्रवर्त्तितव्‍य’मित्‍यादिप्रतिपाद्य: उपयोग-शब्‍दस्‍यापि नियमपूर्व्वकविद्याग्रहणमर्थ:, आख्‍याता वक्ता अध्‍यापयिता इत्‍यर्थ:।
अथ कारकेषु निरुच्‍यमानेषु अपादानकारकनिर्णयानन्‍तरं कारकत्‍वेन अधिकरणस्‍यैव क्रमप्राप्तता न तु सम्‍बन्‍धस्‍य, सम्‍बन्‍ध: कारकाद् भिन्न इति श्रवणात्, अत: क्रमप्राप्तमधिकरणं निर्णेतुं प्रतिजानीते - अथेत्‍यादिना। अथेत्‍यनेन सर्व्वत्र सङ्गति: प्रदर्शिता, ‘नासङ्गतं प्रयुञ्जीत’ इति नियमेन निरूपयिष्‍यमाणपदार्थे निरूपितपदार्थनिरूपितसङ्गतिमत्त्‍वस्‍यापेक्षणात्।
अथ कि‍मिदमधिकरणत्‍वम्? न तावत् धर्म्मसम्‍बन्‍ध:, सम्‍बन्‍धस्‍य संयोगरूपस्‍य द्विष्‍ठत्‍वेन कुण्‍डे बदरमित्‍यादौ बदरादेरपि कुण्‍डाद्याधारतापत्ते:, न च कुण्‍डं न बदरधर्म्‍म: इति वाच्‍यं, तर्हि स्‍वधर्म्‍मसम्‍बन्‍धोऽधिकरणत्‍वमिति पर्य्यवसितम्, स्‍वधर्म्‍मत्‍वञ्च स्‍वाधेयत्‍वं, तच्च यदि स्‍वनिरूपिताधिकरणसम्‍बन्धित्‍वं तदा अन्‍योन्‍याश्रय:, अन्‍यादृशञ्च दुर्व्वचम्, इत्‍थं नानाविधमभिसन्‍धाय लक्षणदोष-परिजिहासया नैयायिकसम्‍मतं लक्षणमाह - कर्त्तृकर्म्‍मेत्यादिना कर्त्तृकर्म्‍मणो: लक्षणे प्रागुक्तेः, अन्‍यतरत्‍वञ्च भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्त्‍वम्, प्रकृते तु कर्त्तृभिन्नं सत् यत् कर्म्‍मभिन्‍नं तत्‍प्रतियोगिकभेदवत्त्‍वम्, क्रियाश्रयत्‍वे सति स्‍वाश्रयकर्त्तृ-कर्म्‍मान्‍यतरवत्त्‍वसम्‍बन्‍धेन क्रियावत्त्‍वे सतीत्‍यर्थ:, तत्‍क्रियोपकारकत्‍वं तथा च यत्र कर्त्तृस्‍था क्रिया तत्र स्‍वाश्रयकर्त्राश्रयत्‍वरूपपरम्‍परासम्‍बन्‍धेन, यत्र च कर्म्‍मस्‍था क्रिया तत्र स्‍वाश्रयकर्म्‍माश्रयत्‍वलक्षणपरम्‍परासम्‍बन्‍धेन अधिकरणलक्षणसमन्‍वयो बोध्‍य:। बहुषु स्‍थलेषु दृश्‍यते कर्म्‍मस्‍थक्रियाधातुस्‍थलेऽपि ‘गृहे स्‍थाल्‍यामोदनं पचती’त्‍यादौ कर्त्राश्रयस्‍य कर्म्‍माश्रयस्‍य च अधिकरणत्‍वमिति तत् कथं पूर्व्वोक्तं न विरुध्‍यते इति चेत् तादृशस्‍थलेषु कर्त्तृस्‍थाया: स्थित्‍यादिक्रियायाः तात्‍पर्य्यगत्‍या प्रत्‍ययात् नानुपपत्ति:, न वा विरोध: इति निपुणा:।
अथ आध्रियन्‍ते क्रिया यस्मिन् इत्‍याधार इति व्‍युत्‍पत्त्‍या क्रियाश्रयमात्रस्‍यैव अधिकरणत्‍वप्रत्‍ययात् प्रतीतार्थमात्रं परिहाय कथं सत्‍यन्‍तदलेन लक्षणविशेषणम् इत्‍याकाङ्क्षायामाह - अत्रेत्‍यादि, तथा च कर्त्तृस्‍थक्रियाश्रयत्‍वेन कर्त्तु: कर्म्‍मस्‍थ-क्रियाश्रयत्‍वेन कर्म्‍मणश्च तत्र तत्र मुख्‍यतया एव क्रियाश्रयत्‍वात् परम्‍परया क्रियाधारत्‍वं न तयो: किन्‍तु कर्त्तृकर्म्‍मणोराश्रयस्‍यैव इति नातिप्रसङ्ग:। ननु अस्तु कर्त्तृकर्म्‍मणोरधिकरणसंज्ञा तावतापि द्वयो: कारकयोरेकत्र प्रसक्तौ परस्‍यैव प्राप्तेरधिकरणकारकयोग्यविभक्तेस्‍ततोऽनुत्पाद: सिद्ध इति चेत् तथापि लक्षणं यत् कर्त्तव्‍यं तदतिव्‍याप्त्यादिदोषरहितमेव कर्त्तव्‍यमिति नियमेन अतिव्‍याप्तिर्लक्षणदोष: स्‍यात् इति। ‘पीठे स्थित्‍वा गृहे स्‍थाल्‍याम् ओदनं पचति’ इत्‍यादौ स्थितिक्रियाया: परम्‍परया कर्त्तृद्वारा आश्रयत्‍वेन पीठस्‍य, गेहस्‍य तु विक्लित्त्‍यनुकूलव्‍यापाररूप-क्रियाया कर्त्तृद्वारा आश्रयत्‍वेन, स्‍थाल्यास्‍तु फलीभूतविक्लित्तिरूपक्रियाया: कर्म्‍मद्वारा आश्रयत्‍वेन अधिकरणत्‍वमनुसन्‍धेयम्। तदुक्तं “कर्त्तृकर्म्‍मव्‍यवहिताम-साक्षात् धारयत् क्रियाम्। उपकुर्व्वत् क्रियासिद्धौ शास्‍त्रेऽधिकरणं स्‍मृतम्”॥ 1 इति। अधिकरणस्‍य क्रियोपकारकत्‍वञ्च कर्त्तृकर्म्मान्‍यतरधारणद्वारा इति भाव्‍यम्।
तच्च अधिकरणं त्रिविधम् औपश्लेषिकम् अभिव्‍यापकं वैषयिकञ्चेति। तदुक्तम् - “औपश्लेषिको वैषयिकश्चाभिव्‍यापक एव च। आधारस्त्रिविधो ज्ञेय: कटाकाश-तिलादिषु॥” इति। आधाराधेययोरन्‍यत्र सिद्धयो: संयोग उपश्लेष:, तत्र भव औप-श्लेषिक:, - उदाहरणं यथा कटे आस्‍ते चैत्र:। अत्र कटचैत्रयो: भिन्नदेशवर्त्तिनो: कादाचित्कसंयोगत: कटस्‍य औपश्लेषिकाधारत्‍वम्। आधाराधेययोस्‍तुल्यजन्‍म अपृथग्देशभागानभिव्‍याप्य तिष्ठतीत्‍यभिव्‍यापक:, उदाहरणं यथा ‘तिलेषु तैलम् अस्ति’। अत्र आधारास्तिला:, आधेयं तैलं तयोर्युगपदेव जन्‍म अपृथग्देशवर्त्तितया अभिव्‍याप्य स्थितिश्च, अत एव तिला अभिव्‍यापकाधारा:। परे तु आधाराधेययो-स्‍तुल्यजन्‍मा य: शक्तिविशेष: स एव अभिव्‍यापकाधिकरणमिति स्‍वीकृत्‍य शक्ति-शक्तिमतोरभेदात् शक्तिमतस्तिलादे: अभिव्‍यापकाधारत्‍वं व्‍याचक्षते। विषयोऽनन्‍यत्र-भाव:, न विद्यते अन्‍यत्र भावो यस्‍मात् स विषय: यस्‍मादन्‍यत्र आधेयस्‍य सम्‍बन्धो न विद्यते, यथाहि चक्षुरादीनाम् इन्द्रियाणां रूपादिकं विहाय अन्‍यत्र अवर्त्तमानत्‍वात् चक्षुरादीनां विषया रूपादय इति तथैव दिवि इत्‍यादौ दिवोऽन्यत्र देवानां स्थित्‍यभावात् देवानां द्यौरेव विषय उच्‍यते। सामीपिकादिभेदेन चातुर्व्विध्‍यादिकमपि अधिकरणस्‍य केचित् स्‍वीकुर्व्वते, यत: गङ्गायां घोष इत्‍यादौ गङ्गया सह घोषस्‍य संयोगादेरभावात् औपश्लेषिकाद्यन्‍तर्गतत्‍वं न स्‍यात्, अत: अधिकभेद: स्‍वीकार्य इति तन्न। गङ्गापदेन गङ्गातीरबोधनात्, औपश्लेषिकाधिकर-णत्‍वमेव युक्तं, तयोरन्यत्र सिद्धयो: संयोगस्‍य अबाधात्, ‘अङ्गुल्‍यग्रे करिशतमि’ति मतभेदात् औपचारिकस्‍थलेऽपि औपश्लेषिकेणैव अर्थसिद्धिरिति।
अथ कारकाणाम् अधिकरणान्‍तानां निरूपणानन्‍तरम् अवसरप्राप्तान् समासान् निरूपयितुं प्रतिजानीते - अथेत्‍यादिना, समासत्‍वमखण्‍डोपाधिविशेष इति स्‍वयमेव वक्ष्‍यते, तत् तादृशाखण्‍डधर्म्‍मवत्त्‍वमेव समासत्‍वमिति। वाद: कथनं ज्ञानानुकूल-व्‍यापार: निरूपणमिति यावत्, इय‍मपि प्रतिज्ञा शिष्‍यावधानफलिका इति।
शब्‍दो हि द्वेधा भवति, साधुरपभ्रंशश्च, वृक्षादय: साधुशब्‍दा: विभक्ति-सहयोगात् प्रयोगमर्हन्ति, अपभ्रंशाश्च आधुनिका ‘गाछ् माछ्’ इत्‍यादिशब्‍दा न प्रयोगार्हा:। साधुशब्‍दो हि सार्थक: स च प्रकृतिप्रत्‍ययनिपातादिनानाविधं भेदम् अधितिष्ठति, नाम्नां धातूनाञ्च प्रकृतिसंज्ञा तिङादीनां प्रत्‍ययसंज्ञा, नञादीनामव्‍यय-गणीयानां निपातसंज्ञा। नामरूपा: प्रकृतयो हि रूढलाक्षणिकयोगरूढ़यौगिकभेदेन चतुर्धा विभक्ता:, डित्थादिशब्‍दो रूढ्या अर्थोपस्‍थापक एव रूढ:, गङ्गायां घोष इत्‍यादौ लक्षणाशक्त्या गङ्गातीरादिरूपमर्थं बोधयन् गङ्गादिशब्‍दो लाक्षणिक:, पङ्कजसरसिजादिशब्‍दा व्‍युत्‍पत्त्‍या रूढ्या च अर्थोपस्‍थापका एव योगरूढा:, पाचक-प्रभृतिशब्‍दा: व्‍युत्‍पत्तिमात्रपर्य्यालोचनया अर्थोपस्‍थापका एव यौगिका इति। स च यौगिक: समासान्‍तादिभेदेन बहुधा भिन्न:, तत्र समासजिज्ञसया समासनिर्व्वचनम्। स च समास: षोढ़ा भिद्यते, तदुक्तं “सुपां सुपा तिङां नाम्ना धातूनामतिङां तिङा। सुबन्‍तेनेति विज्ञेय: समास: षड्विधो बुधै:॥” 1 सुपां सुपेत्‍यस्‍य सुबन्‍तयोरुभयपदयो: समासे एक: प्रकार:, एवमुत्तरत्रापि, क्रमेण उदाहरणं यथा - राज्ञ: पुरुष इति वाक्ये उभयो: सुबन्‍तपदयो: षष्ठीतत्‍पुरुष इति, सुपां तिङा समासे एक: प्रभेद:, उदाहरणं यथा - प्रभवतीत्‍यादि। अत्र सुबन्‍तेन अव्‍ययेन उपसर्गेण प्रपदेन तिङ: समास:, “गतिमतोदात्तवता तिङापि समास” इति वार्त्तिकोक्ते:। सुपां नाम्नेत्‍यस्‍य उदाहरणं यथा ‘कुम्‍भकार:’ इत्‍यादि। अत्र कुम्‍भम् इति सुबन्‍तपदेन कार इति नाम्न: समासे सुपां नाम्ना समास:। “उपपदमतिङ्” 2 इत्‍युक्ते समास:, “गतिकारकोपपदानां कृद्भि: समासवचनं प्राक् सुबुत्‍पत्ते” 3 रिति परिभाषाबलात् सुबुत्‍पत्ते: प्रागेव नाम्ना सह समास: सिद्ध:। अन्‍यथा कर्म्‍मकृत् इत्‍यादौ न लोपस्‍य अनुपपत्ते:। सुपां धातुनेत्‍यस्‍य उदाहरणं यथा, कटप्रूरित्‍यादि, उत्तरपदं धातुमात्रं न तिङन्तम्, “क्विब्विची” त्‍यादिना वार्त्तिकवचनेन समास:। तिङां तिङा यथा, ‘पिबतखादत’ इत्‍यादि, “आख्‍यातमाख्‍यातेन” इत्‍यादि सूत्रेण समास:, तिङां सुबन्‍तेन यथा - जहिस्‍तम्‍भ: इत्‍यादि, “जहिकर्म्‍मणा बहुलमाभीक्ष्ण्ये कर्त्तारञ्चाभिदधाति” इति मयूरव्‍यंसकादि गणीयानुशासनात् समास:।
ननु केचित् कर्म्‍मधारयादिषट्कान्‍यतमत्‍वमिति समासलक्षणम् अभिदधति, तत् परित्‍यज्‍य कथमन्‍यथा वक्तुं समासत्‍वमखण्डोपाधि: स्वीक्रियते इत्‍याह - न तु इति। आत्‍माश्रयत्‍वादिति आत्‍माश्रयत्‍वञ्च स्‍वज्ञानसापेक्षज्ञानकत्‍वम्, आत्‍माश्रय: उत्‍पत्ति-स्थितिज्ञप्तिभेदात् त्रिधा, तद्यथा समासत्‍वं यदि समासत्‍वजन्‍यं स्यात् तदा समास-त्‍वानधिकरणक्षणाव्‍यवहितोत्तरं न स्‍यात्, द्वितीयं यथा समासत्‍वं यदि समासत्‍ववृत्ति स्‍यात् तदा समासत्‍वव्‍याप्‍यं न स्‍यात्, तृतीयं यथा समासत्‍वं यदि समासत्‍वज्ञान-सामग्रीजन्‍यं स्‍यात् तदा समासत्‍वभिन्नं स्‍यात् इत्‍यादितर्क एव आत्‍माश्रयस्य दूषकत्‍वम्। निष्‍कर्षस्‍तु समासत्‍वज्ञानस्‍य यदि समासज्ञानापेक्षणीयता तदा पूर्व्वपूर्व्व-क्रमेण समासत्‍वज्ञानस्‍य प्रयोजनीयतया समासत्‍वज्ञानमेव असम्‍भवं स्‍यादिति।
नैयायिकाः वाक्यशक्तिं नाङ्गीकुर्व्वन्ति, पदशक्तिमात्रेणैव परस्परमन्‍वयेन वाक्या-र्थावगमस्‍य यथायथं सम्‍भवात्। अत एव समासस्‍यापि वाक्यत्‍वेन शक्तिलक्षणयो: न स्‍वीकार इत्‍याह नवेत्‍यादि। पदनिष्ठ एवेति एवकारेण वाक्यगतत्‍वव्‍यवच्‍छेद:। ननु यदि शक्तिलक्षणयो: पदगतत्‍वमेव तदा कथं समासस्‍थले विशिष्टार्थबोध:, राजपुरुष इत्‍यादौ राजपदेन राजत्वविशिष्ट: पुरुषपदेन च पुरुषत्‍वावच्छिन्नरूप: अर्थ उपस्‍थाप्‍यते, सम्‍बन्‍धस्‍य कस्‍यापि पदस्‍य अवाच्‍यत्‍वात् कथं राजसम्‍बन्धिपुरुषप्रतीतिरित्‍याकाङ्क्षायामाह - तदर्थावगति-स्‍त्विति, क्वचिदित्‍यादि। तथा च ‘राजपुरुष’ इत्‍यादौ तत्‍पुरुषसमासे पूर्व्वपदे राजपदादौ लक्षणया राजसम्‍बन्ध्यभिन्न: पुरुष इत्‍यर्थबोध:।
क्वचित् अव्‍ययीभावे समासे कुम्‍भस्‍य समीपमित्यर्थे ‘उपकुम्‍भमि’त्‍यादौ उत्तरपदे लक्षणया कुम्‍भसम्‍बन्‍ध्यभिन्नसमीपरूपार्थबोध:। क्वचिद् बहुव्रीहिस्‍थले ‘आरूढ़ो वानरो यमि’त्‍यादि वाक्यात् समासे उभयपदलक्षणया स्‍वकर्म्‍मकारोहण-कर्त्तृवानरसम्‍बन्धिवृक्षबोध:। ननु समास एव कथं स्‍वीक्रियते विनापि समासम् अर्थबोधनस्‍य सुकरत्‍वात् इत्‍याकाङ्क्षायामाह समासकरणञ्चेति, पदानां समास-घटकानां संस्‍कारार्थं साधुत्‍वसम्‍पादनार्थं, तथा च ‘राजपुरुष’ इत्‍याकारकः शब्‍द: समासं विना स्‍वरूपतो नोपपन्न:, अथ च राजपुरुष इत्‍यादय: शिष्टप्रयोगा उपलभ्‍यन्‍ते, तेषां साधुत्‍वसम्‍पादनाय गतिरवलम्‍बनीया इति समास एव सा गतिरिति। यद्यपि समासान्‍तर्गतलिङ्गसङ्ख्‍ययो: कथं समस्‍तपदेन बोध्यत्‍वम्, समस्‍तपदे शक्तिविरहात्, तथापि प्रकरणादिवशात् तयोर्बोध इति न शक्त्य-स्‍वीकारेऽपि दोष:। यत्र तु लिङ्गादिप्रत्‍यायकं किमपि वर्त्तते, तत्र तु न प्रकरणादि-मात्रस्‍यापि बोधकत्‍वम्, अपि तु स्‍त्रीत्‍वादिबोधकस्‍य एव, यथा ‘चित्राजरद्गुरि’-त्‍यादि। अत्र स्त्रियां चित्रशब्‍दात् परम् आप्रत्‍ययस्‍यैव लिङ्गप्रतिपादकत्‍वं समासा-न्‍तर्गतशब्‍दघटकस्‍यापि इति। ‘अक्षपरि, शलाकापरि’ इत्‍यादौ सङ्ख्यादेरपि प्रत्‍यायकत्‍वं तदुक्तं “सङ्ख्‍या तु व्‍यञ्जकाभावादव्‍यक्ता प्रातरादिवत्। यत्र तु व्‍यञ्जकं किञ्चित्तत्र सङ्ख्‍या प्रकाशते॥ शलाकापरि हस्‍तं च पूर्व्वकायोऽर्ध्दपिप्पली॥” इति तदेतद्विस्‍तरेण शब्‍दशक्तिप्रकाशिकायामनुसन्‍धेयम्।
समासव्‍यासयो: समासार्थोपस्थितिजनकत्‍वे अनुभवानुरोधात् समानपदार्थोप-स्थितिजनकत्‍वं प्रतिपादयति किन्त्वित्‍यादिकमुपक्रम्‍य व्‍यासेत्‍यादिसमासघटकी-भूतवाक्यदशाभावादिति व्‍यासकालीन इत्‍यस्‍यार्थ:। तत्तद्वाक्यार्थबोध: राज्ञ: पुरुष इत्‍यादि वाक्यार्थविषयकज्ञानम्, तदनुकूला तत्तत्‍पदार्थानां राज्ञ: - प्रभृतिपदार्थानाम् उपस्थिति: क्लृप्तशक्तिकानि तत्तत्‍पदानि राजत्‍वावच्छिन्नाद्यर्थे शक्तानि राजपुरुष इति समासघटकीभूतानि राजादिपदानि।
ननु नित्‍येत्‍यादि - समासो हि नित्‍यानित्‍यभेदेन द्विधा, तदुक्तं “विभक्तिमात्र-प्रक्षेपान्निजान्‍तर्गतनामसु। स्‍वार्थस्‍याबोधबोधाभ्‍यां नित्‍यानित्‍यौ समासकौ”॥ इति। तथा च नित्‍यसमासस्‍थले यदि समासभावं परिहाय वाक्यरूपता विभक्तिप्रक्षेपेण सम्‍पाद्यते, तदा तादृशविजातीयार्थ एव नोपतिष्ठते, तद्यथा कृष्णसर्प इत्‍यादौ वैजात्‍यावच्छिन्नसर्पबोध:, तत्रैव कृष्ण: सर्प इत्‍युक्तौ न तादृशवैजात्‍यावच्छिन्नसर्प-बोध:, अपि तु कृष्‍णवर्णविशिष्टसर्पमात्रप्रत्‍यय: इति कृष्णसर्प इत्‍यस्‍य नित्‍य-समासता। अनित्‍यसमासस्‍थले तु समासेऽपि यादृशार्थप्रतीति: व्‍यासावस्‍थायां विभक्तिप्रक्षेपेऽपि तथैवार्थबोध इति। यथा राजपुरुष इत्‍यत्र समासस्‍थले राजसम्‍बन्धिपुरुषबोध:, राज्ञ: पुरुष इत्‍यत्र व्‍यासावस्‍थायामपि राजसम्‍बन्धिपुरुष-रूपार्थबोध एवेति नित्‍यानित्‍यसमासयो: वैलक्षण्‍यम्। अत एव नित्‍यसमास्‍थले अवयवार्थस्‍य समस्‍तपदार्थाघटकतया कथं पूर्वोक्तनियमरक्षा इत्‍यभिप्रेत्‍य पृच्‍छति नन्वित्‍यादिना। का गति: प्रकृतार्थबोधस्‍य क उपाय: स्‍यादिति भाव:। कथमित्‍याका-ङ्क्षायामाह - तत्रेत्‍यादि, तत्र नित्‍यसमासस्‍थले, व्‍यासाभावेन समासनिर्म्‍मुक्तावस्‍था-विरहेण क्लृप्तशक्तिकपदाभावात्, तथाहि- यदि अत्र व्‍यासावस्‍था स्‍यात् तदैव व्‍यासकालीनार्थोपस्थितिसाम्येन समासघटकानां पदानाम् अर्थोपस्‍थापकता निर्व्वाचयितुं शक्या स्‍यात्, किन्‍तु अत्र न तथा।
तत्र अगत्‍येत्‍यादि - उभयो: नित्‍यानित्‍यसमासवतो: समाधानस्‍य साम्‍यात् तौल्यात्। तथाहि- अनित्‍यसमासस्‍थले यथा अवयवशक्त्या अर्थबोध: तथा नित्‍य-समासस्‍थलेऽपि तत्तदर्थे तत्तत्‍पदस्‍यैव शक्तिकल्‍पनात् अर्थबोध: नित्‍यसमासस्‍थले समुदायस्‍यैव शक्तिमत्त्‍वात्, तदेवाह - तथाहीत्‍यादिना, समुदाये पङ्कजेत्‍यादि समस्तपदे शक्त्यनुरोधात् शक्तिकल्‍पनात्। पदैकदेशस्‍य इत्‍यादि, तथा च यदि अनित्‍यसमासस्‍थले भवतापि पदैकदेशस्‍य पदत्वं स्‍वीकर्त्तुं शक्यते तदा नित्‍यसमासस्‍थले कथं समुदाये शक्ति: कल्‍पयितुं न शक्यतामिति।
एष: समाससामान्‍यलक्षणविचार:, अत: परं भेदेन कर्म्‍मधारयादिसमासा: प्रति-पादनीया:, तत्र प्रथमत: समासलक्षणप्रस्‍तावे निराकृतेन पक्षेण स्‍मारितस्‍य कर्म्‍मधारयस्य लक्षणमेव प्राक् निर्व्वचनीयमिति तदुपक्रम: परस्‍ताद् भविष्‍यति।
अथ कर्म्‍मधारयलक्षणमाह द्विग्वित्‍यादि, समानाधिकरणपदघटितत्‍वं द्विगु-समासे कर्म्‍मधारये च, अत एव समानेत्‍यादि मात्रस्‍य लक्षणत्‍वे द्विगुसमासे अति-व्‍याप्तिरिति द्विगुभिन्नत्‍वे सतीति दलम्। द्विगुभिन्नत्‍वे सति समानविभक्तिमत्पद-प्रकृतिकत्‍वं द्वन्‍द्वसमासेऽपि, अतः घटश्च पटश्च मठश्च ते घटपटमठा इत्‍यादि द्वन्‍द्व-समासे अतिव्‍याप्तिवारणाय अभेदबोधकत्‍वदलम्। द्वन्‍द्वस्‍थले समासस्‍य अभेद-बोधकत्‍वाभावान्नातिव्‍याप्ति:।
अभेदाख्‍यसंसर्गद्वारेति - अपदार्थस्‍य संसर्गतया शाब्‍दे भाननियमात् अपदार्थस्‍य अभेदस्‍य संसर्गतया एव भानमिति। ननु यथा नीलमुत्पलमित्‍यादौ नीलाभिन्नमुत्‍पलं बुध्‍यते तथा भिन्नविभक्तिस्‍थलेऽपि न कथम् अभेद: प्रतीयताम् इत्‍याकाङ्क्षायामाह - विरुद्धविभक्तिराहित्‍यस्‍य विजातीयविभक्तिशून्‍यत्‍वस्‍य अभेदा-न्‍वयबोधं प्रति कारणत्‍वम् अत एव भिन्नविभक्तिकस्‍थले विरुद्धविभक्तिराहित्‍या-भावात् न तादृशाभेदान्‍वयधीरिति। प्रकृते विरुद्धत्‍वं स्‍वसजातीयत्‍वाभाववत्त्‍वम्। साजात्‍यञ्च स्‍ववृत्तिसुब्विभाजकप्रथमात्‍वादिरूपेण न तु स्‍ववृत्तिसुप्त्‍वादिरूपेण, अत एव ‘वेदा: प्रमाणं, स्‍मृतय: प्रमाण’ मित्‍यादौ विरुद्धविभक्तिराहित्‍यस्‍य अक्षत-तया अभेदबोधकत्‍वमव्‍याहतम्, अन्‍यथा वेदा इत्‍यत्र बहुवचनस्‍य प्रमाणमित्‍येक-वचनस्‍य च परस्‍परं वैजात्‍येन विरुद्धविभक्तिराहित्‍यं न स्‍यात्।
असमानेत्‍यादिना तत्‍पुरुषलक्षणं क्रमपरिप्राप्ततया वक्ति। तथा च कर्म्‍मधारयेण सह समासघटकीभूतपदानां समानविभक्तिमत्त्‍वम् असमानविभक्तिमत्त्‍वञ्च आदाय वैलक्षण्‍यम्, अभेदबोधांशे तु साम्‍यमेव उभयो:, तद्यथा - ‘राजपुरुष’ इत्‍यत्र पूर्व्वपदे लक्षणया राजसम्‍बन्धिरूपार्थ: प्रतीयते तस्‍य अभेदेन पुरुषे अन्‍वयात् राजसम्‍बन्‍ध्यभिन्न: पुरुष: इत्‍येव शाब्‍दबोध:।
अत्र विभक्तिं द्वारीकृत्‍यैव तादृशार्थबोध:, न तु विभक्त्यर्थमद्वारीकृत्‍य, नामार्थयो: साक्षात् भेदान्‍वयस्‍य अव्‍युत्‍पत्ते:। उत्तरपदार्थप्रधान इति, तथा च उत्तरपदार्थस्‍य कर्म्‍मधारये अर्थानवबोधकत्‍वं विशेष्‍यतया ज्ञानं, यदि अत्र पुरुषपदे लक्षणा स्‍यात्, तदा पुरुषपदार्थस्‍य गौणतया अप्राधान्‍यात् पूर्व्वपदस्‍य राजादिपदस्‍य निरर्थकत्‍वं, नामार्थयोरभेदान्‍वये उभयोर्वाचकपदयो: समानविभक्तिमत्त्‍वमपेक्षितम्। ननु यदि षष्ठीतत्‍पुरुषस्‍थले परपदे लक्षणया राजसम्‍बन्‍ध्यभिन्नरूप: पुरुष: प्रतीयते तदा राजपदस्‍य स्‍वीयार्थमात्रमुद्दिश्‍य प्रकृते: केवलतात्‍पर्य्यापर्य्यालोचनया एव समाधेयम्।
अथ द्विगुलक्षणमाह - समानेत्‍यादि। कर्म्‍मधारयेण द्विगुसमासस्‍य सङ्ख्‍या-पूर्व्वपदत्‍वरूपमेव वैलक्षण्‍यमिति प्रागेवोक्तम्। अत्रापि तदनुसारि एव लक्षणमिति। अथ कर्म्‍मधारयसमासनिष्‍पन्नपञ्चाम्रादिपदे द्विगुलक्षणातिव्‍याप्ति:, तस्‍यापि सङ्ख्‍या-पूर्व्वपदत्‍वादिति, तद्वारणाय संज्ञानवबोधकत्‍वे सतीति विशेषणं देयं, तथा च पञ्चाम्रादिशब्‍दानां पारिभाषिकार्थबोधकरूपसंज्ञाशब्‍दत्‍वात् न संज्ञानवबोधकत्वम् इति नातिप्रसङ्ग:। विशेष्‍यांशे तत्‍पुरुषत्‍वमपि निवेशनीयम्, अन्‍यथा ‘द्विमूर्द्धा, त्रिमूर्द्धा’ इत्‍यादौ बहुव्रीहावपि द्विगुलक्षणातिप्रसक्तेरिति तन्निवेशे च बहुव्रीहेस्‍तत्‍पुरुष-त्‍वाभावात् न दोष:। कर्म्‍मधारयस्‍यापि “तत्पुरुषावुभौ” इति नियमेन तत्‍पुरुषत्‍वात् न तन्‍मात्रेण वारणमिति पञ्चाम्रादिशब्‍दवारणाय गत्‍यन्‍तराश्रयणम्।
पञ्चपुलीत्‍यादि - पञ्चानां पुलानां समाहार इति समाहारार्थे द्विगु:, तथाहि द्विगुरयं त्रिषु प्रवर्तते, तदुक्तं कौमारे - “तद्धितार्थोत्तरपदसमाहारेषु संज्ञेयमि” (कातन्त्र. चतुष्टय. 264) ति। तद्धितार्थे इति समासगतसप्तमीयम् अर्थवशात् द्वेधा भिद्यते - तद्धितार्थे अभिधेये, तद्धितार्थे विषयभूते च, यत्र तद्धितार्थे अभिधेये द्विगुसमास: तत्र समासेनैव तद्धितार्थस्‍य उक्तत्‍वात् न तद्धितप्रत्‍यय:, यथा पञ्चसु कपालेषु संस्‍कृत ओदन इति वाक्ये पञ्चकपाल ओदन इति संस्‍कृतार्थस्‍य समासेन उक्तत्‍वात् न तद्धितम्। यत्र तु तद्धितार्थे विषयभूते समास: तत्र समासेन तद्धितार्थस्‍य अनुक्तत्‍वात् न तद्धितप्रत्‍ययाभाव:, अपि तु समासानन्‍तरम् अपि तद्धितम्, यथा – पञ्चानां गर्गाणां भूतपूर्व्वो गर्गः पञ्चगर्गरूप्यः, पञ्चसु ब्राह्मणेषु साधुः पञ्चब्राह्मण्य इत्‍यादि। उक्तस्‍थले समासेन तत्तदर्थस्‍य वचनयोग्‍यतायामपि न उक्ति: परं तद्धितार्थविषये एव समास: परतश्च तद्धितप्रत्‍यय:।
उत्तरपदे उदाहरणं यथा - पञ्च गावो धनमस्‍य पञ्चगवधन:, समाहारे तु पञ्चपुलीत्‍यादि।
ननु ‘पञ्चपुलीमानय’ इत्‍यादौ समाहारस्‍य अपेक्षाबुद्धिविशेषविषयत्‍वरूपत्‍वात् कथं क्रियया सह कर्म्‍मतासम्‍बन्‍धेन अन्‍वय:, उक्तसमाहारस्‍य आनयने बाधात् इति चेन्न। यद्यपि समाहारार्थे विहितेन द्विगुना प्राधान्‍यत: तादृशविषयत्‍वमेव प्रतिपाद्यते, तथापि क्रियान्‍वय: समा‍ह्रियमाणपदार्थैरेव भविष्‍यति इति अनुभवानुरोधात् कल्‍प्यते। समाहारे विहितस्‍य द्विगोर्नदादित्‍वस्‍वीकारात् पञ्चपुलीत्‍यादि ईप्प्रत्‍यय:, तदुक्तं कौमारे- “अपात्रादिरदन्‍तोऽयं स्त्र्यादन्‍तो वा द्विगुस्‍तथा। अनन्‍तश्च समाहारो नदादिषु निगद्यते”। 1 इति पात्रादीनान्‍तु अदन्‍तानां समाहारे द्विगावपि नदादि-त्‍वनिषेधात् द्विपात्रं त्रिभुवनमित्‍यादिसिद्धि:। ननु समाहारो हि अपेक्षाबुद्धिविशेष-विषयत्‍वं बहूनामेव न तु एकस्‍य तत् कथं एकपुलीति समाहार: इति चेत्, तत्र असतोऽपि समाहारस्‍य आरोपात् पदसाधुत्‍वमिति अवगन्‍तव्‍यम्।
अथ द्विगुलक्षणानन्‍तरम् अन्‍यपदार्थप्रधानबहुव्रीहिलक्षणमाह - नञ्तत्‍पुरुष इत्‍यादिना। नञ्तत्‍पुरुषनिष्‍पन्ने अब्राह्मण इत्‍यादावपि उत्तरपदे ब्राह्मणशब्‍दादौ तत्‍सदृशे लक्षणया अर्थप्रतीतेस्‍तस्‍यापि उत्तरपदलाक्षणिकत्‍वात् बहुव्रीहिलक्षणाति-व्‍याप्तिवारणाय सत्‍यन्‍तदलमिति स्‍वयमेव प्रतिपादयिष्यति, नञ्तत्‍पुरुषभिन्नत्‍वं कर्म्‍मधारयादौ समासान्‍तरे अतिव्‍याप्तमिति लाक्षणिकोत्तरपदत्‍वमिति विशेष्‍यदलेन तन्निरास:, तथा च कर्म्‍मधारयादे: पूर्व्वपदादौ लक्षणया लाक्षणिकोत्तरपदत्‍वाभावात् नातिव्‍याप्तिरिति।
स चायं बहुव्रीहिर्द्विविध: - तद्गुणसंविज्ञानातद्गुणसंविज्ञानभेदात्, यो बहुव्रीहि: स्‍वार्थस्‍य स्‍वार्थघटकपदार्थस्‍य क्रियादौ अन्‍वयानुकूल: स तद्गुणसंविज्ञान:, स्‍वघटकपदार्थस्‍य क्रियादौ अन्‍वये अननुकूलश्च अतद्गुणसंविज्ञान इति। तथा च जगदीश: - ‘यो बहुव्रीहि: स्‍वार्थस्‍य अन्‍वयिनि स्‍वार्थघटकस्‍यापि अर्थस्‍य अन्‍वयबोधने समर्थ:, स तयोस्‍तद्गुणसंविज्ञान: इत्‍यादि’ प्राह। उदाहरणं यथा तद्गुणसंविज्ञानस्‍य - दीर्घग्रीवं पश्‍य, दीर्घकेशमानय इत्‍यादि। एषु दर्शनादे: ग्रीवा-विशिष्टेन ग्रीवया च अन्‍वय आनुभविक: ग्रीवामन्‍तरेण विशिष्टव्‍यक्तेर्दर्शनादेर-सम्‍भवात् तथात्‍वम्। अतद्गुणसंविज्ञानस्‍य उदाहरणं यथा - दृष्टसागरमानय इत्‍यादि। अत्र सागरादेरानयनक्रियायामन्‍वय: सुतरामसम्‍भव एव, किन्‍तु केवलं स्‍वार्थस्‍य एव अन्‍वय:, तदुक्तं प्राचीनै: - “तद्गुणोऽतद्गुणश्चैव बहुव्रीहिर्द्विधा मत:। प्रथमे लम्‍बकर्णादिर्द्वितीये दृष्टसागर:॥” इति
स चायं बहुव्रीहि: पुन: समानाधिकरणव्‍यधिकरणभेदेन द्विविध:, यद् बहुव्रीहि-घटकपदानां परस्‍परं समानविभक्तिमत्तया विशेष्‍यविशेषणभावप्रत्‍यायकता स: समानाधिकरणबहुव्रीहि:, यद् बहुव्रीहिघटकपदानां विग्रहे परस्‍परं विभिन्‍नविभक्ति-मत्तया विशेष्‍यविशेषणभावप्रत्‍यायकता स व्‍यधिकरणबहुव्रीहि:। आद्योदाहरणं यथा - दीर्घा ग्रीवा यस्‍य स दीर्घग्रीव इति। अत्र समासघटकीभूतपदयो: विग्रहदशायां समानविभक्तिमत्तया विशेष्‍यविशेषणभावप्रतीतिरिति। द्वितीयोदाहरणं यथा - शूलपाणिरित्‍यादि अत्र यद्यपि “विशेष्‍यस्‍य विशेषेण मिलितं युक्तमुच्‍यते” 2“नाम्नां समासो युक्तार्थ” 3 इति च नियमेन शूलं पाणौ यस्‍य इति वाक्यार्थपर्य्यालोचनया भिन्नविभक्तिमत्त्‍वस्‍थलेऽपि विशेष्‍यविशेषणभावो वर्त्तते समासघटकीभूतपदार्थानां, तथापि वाक्यघटकविशेषणविशेष्‍ययो: समानविभक्तित्‍वविरहेण न समानाधिकरण-बहुव्रीहित्‍वम् अपि तु विसदृशविभक्तिकतया व्‍यधिकरणबहुव्रीहित्‍वमेव।
चित्रगुरित्‍यत्रेति चित्रा गौ: यस्‍य इति वाक्यम्। गोपदमिति इदन्‍तु एतत्समासस्‍य उत्तरपदलाक्षणिकत्‍वप्रदर्शनाय।
अथवेति पक्षस्‍तु “पदार्थ: पदार्थेनान्‍वेति” इत्‍याद्युक्त्या सबीज: परकल्‍पे चित्र-पदार्थस्य पदार्थैकदेशे गवि अन्‍वयाभावात्।
नञ्तत्‍पुरुषस्‍थले तु इत्‍यादि - नञ: सादृश्‍यादय: षडर्था:, प्रकृते सादृश्‍यार्थ एव विवक्षित:। तदुक्तं - “तत्‍सादृश्‍यमभावश्च तदन्‍यत्‍वं तदल्‍पता। अप्राशस्‍त्‍यं विरोधश्च नञर्था: षठ् प्रकीर्त्तिता:” इति। अत्र उदाहरणानि सादृश्‍ये यथा - अब्राह्मण इति। अभावे घटस्‍य अभाव इत्‍यर्थे - अघटम्। तदन्यत्‍वं भेद: अन्‍योन्‍याभाव:, तदुदाहरणं यथा - घटो न पट:, अत्र पटे घटत्‍वावच्छिन्न-प्रतियोगिताकभेदप्रतीति:। तदल्‍पत्‍वे यथा- ‘अनुदरा कन्या’, अत्र उदरस्‍य न अभाव: किन्‍तु अल्‍पत्‍वमेव क्षीणोदरा इति तदर्थ:। ‘यो न वीर: स न पुमान्’ इत्‍यादौ द्वितीयनञ: अप्राशस्‍त्यम्। असुखमित्‍यादौ विरोध इति। नञो विशेषविवृति: स्‍वयमेव इत:परं करिष्‍यते।
केचित् ‘अब्राह्मण’ इत्‍यादौ कर्म्‍मधारयं स्‍वीकुर्व्वते, ब्राह्मणसदृशक्षत्रियादि-वाचकत्‍वात् नञश्च तद्भिन्नवाचित्‍वात्, तन्न, नञः प्रकृते सादृश्यमर्थः, सादृश्यञ्च तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वं, तेन तदन्‍तर्गतभेदांशे प्रतियोगित्‍वसम्‍बन्‍धेन ब्राह्मणपदार्थान्‍वयात् भेदस्‍य च अनुयोगिनि क्षत्रियादौ अनुयोगितया अन्‍वयात् ब्राह्मणपदार्थेन तुल्‍याधिकरणत्‍वाभावात् न तथात्‍वम्, अपितु तत्‍पुरुष एव इति।
द्विपदवत् त्रिचतुरादिभिरपि बहुव्रीहिर्भवति, बहुपदे बहुव्रीहिरेवेति नियमात्, अन्‍यथा यदि समानाधिकरणबहुपदघटितसमासस्‍थले आदौ कर्म्‍मधारयसमासेन बहुव्रीहि: द्वाभ्यां पदाभ्यां क्रियते तदा चित्राजरद्गुरित्‍यादौ पूर्व्वपदस्‍य पुंवद्भावापत्त्या अनिष्टापत्ति: स्‍यात्, जरतीशब्‍दस्‍य कर्म्‍मधारयसमासे उत्तरपदतया तस्मिन् परत: पुंवद्भावस्‍य अनुशासनसत्त्‍वात्। एकस्‍य बहुव्री‍हे: स्‍वीकारे तु जरतीशब्‍दो न समासे उत्तरपदं किन्‍तु गोपदमेवेति पुवंद्भावविधिर्नास्‍ति, पुंवद्भावविधौ समासान्‍त्यपदस्‍य एव उत्तरपदत्‍वव्‍याख्‍यानात्।
अथ द्वन्‍द्वलक्षणमाह - पदेत्‍यादि। “चार्थे द्वन्‍द्व” 1 इति पाणिनि:, चकारो भेदार्थक इति स्‍वयमेव वक्ष्यते। पदेति पदानि द्वन्‍द्वसमासघटकीभूतानि तज्‍जन्‍या या प्रतिपत्ति: ज्ञानं तद्विषया: पदार्था: पदार्थतावच्‍छेदकाश्च तेषां भेद: मिथो भिन्नत्‍वं तद्बोधकत्‍वे सतीत्‍यर्थ:। तदुक्तं - “पदार्थानां प्रधानत्‍वात् परस्‍परविभेदत:। एकदैक-क्रियायोगाद् भवति द्वन्‍द्वसंज्ञक:” इति। यथा घटपटौ इत्‍यादौ समासघटकीभूत-घटपटपदयो: अर्थौ परस्‍परं भिन्नौ इति तद्वाचकयोर्द्वन्‍द्व:।
अथ यदि द्वन्‍द्वे स्‍वघटकीभूतपदार्थानां भेदोऽपेक्षित: तदा बहुषु स्‍थलेषु द्वन्‍द्वानुपपत्तिरिति समाधातुं भूमिकामारचयति - तत्रेत्‍यादिना। तथा च पदजन्‍यप्रति-पत्तिविषयपदेन किं पदार्थ: पदार्थतावच्‍छेदको वा गृहीत इति प्रश्नतात्‍पर्य्यम्, आद्य: पदार्थभेदे शक्तिरूप:। ‘प्रमाणप्रमेय’ इत्‍यादौ प्रमाणत्‍वं प्रमाकरणत्‍वं, प्रमेयत्‍वञ्च प्रमाविषयत्‍वं प्रमेयत्‍वस्‍य केवलान्‍वितया यावत्स्‍वेव पदार्थेषु सत्त्वात् प्रमाणेऽपि तत्‍सत्त्‍वमिति प्रमेयभेद: प्रमाणे दुर्घट एव, केवलान्‍वयिधर्म्मावच्छिन्नप्रतियोगिताक-भेदस्‍य अप्रसिद्धतयापि अनुपपत्तिरिति।
‘अप्‍येकदन्‍त’ इत्‍यादावपि सर्व्वेषामेव पदानां गणपतिवाचकतया पदार्थभेदो नोपपद्यते, ‘नीलघटयोरभेद’ इत्‍यत्र नीलपदस्य नीलगुणविशिष्‍टघटपरतया मिथोऽभिन्नपदार्थबोधकत्‍वात् कथं पदार्थभेद:? अथ आद्यकल्‍पपरित्‍यागेन द्वितीयकल्‍पादरेण सर्व्वत्रैव उक्तस्‍थलेषु उपपत्तिर्भवति तत् कथं स एव पक्ष: न स्‍वीक्रियते इत्‍याकाङ्क्षायामन्तिममपि दूषयितुम् उपन्‍यस्‍यति - नान्‍त्य इत्‍यादिना। अन्‍त्य: द्वन्‍द्वस्‍य पदार्थतावच्‍छेदकभेदबोधकत्‍वरूप:, न, तत्रैव हेतुमाह स्‍वरूपैक-शेषे इत्‍यादि, तथा च घटा इत्‍यत्र बहुवचनानुमेयबहुघटपदार्थतावच्‍छेदकघटत्‍वस्‍य एकस्‍यैव भेदोऽनुपपन्न:, परन्‍तु स्‍वरूपैकशेषस्‍य द्वन्‍द्वापवादकतया द्वन्‍द्वविषय एव तत्‍प्रवृत्ते: कथं द्वन्‍द्वलक्षणायोगे तत्‍प्रवृत्तिः? अथ घटा इत्‍यादौ न स्‍वरूपैकशेष:, बहुत्‍वबोधस्‍तु एकघटपदोत्तरं बहुवचनविधानेनापि भवति, तत् किमर्थं तदर्थं द्वन्‍द्वस्‍य पदार्थतावच्‍छेदकभेदबोधकत्‍वस्‍वीकारे अनुपपत्तिं कल्‍पयाम इति चेन्न। “सकृदुच्चरित: शब्‍द: सकृदर्थं गमयती” ति न्‍यायात् एकेन घटपदेन बहुघटबोधना-सम्‍भवात्, बहुत्‍वस्‍य च एकस्मिन् घटे बाधात् शाब्‍दवैकल्यम्। अत एव घटा इत्‍यस्‍य यथा बहुघटपदप्रकृतिकत्‍वं स्‍यात् तथा निर्व्वाच्‍यमिति स्‍वरूपैकशेषो बहुघटपदप्रकृतिक: स्‍वीक्रियते। परे तु “सकृदुच्चरित: शब्‍द” इत्‍यादि व्‍युत्‍पत्तिमनादृत्‍य स्‍वरूपैकशेषं नैव स्‍वीकुर्व्वते तथा चानुमितौ भट्टाचार्य्यग्रन्‍थ: “नेष्‍यत एव एकशेष: सकृदित्‍यादि व्‍युत्पत्तेरनभ्‍युपगमा” दिति।
क्वचित् इत्‍यादि - तथा च भिन्नघटतात्‍पर्य्येण प्रयुक्तयो: घटपदयो: समासस्‍थले पदार्थभेद आवश्‍यक:, तत्र एकस्‍यैव घटत्‍वस्‍य पदार्थतावच्‍छेदकत्‍वात् पदार्थतावच्‍छेदकभेदमात्रे द्वन्‍द्वस्‍वीकारे अनुपपत्ते:, पदार्थभेदमात्रे द्वन्‍द्वस्‍वीकारे मेयवाच्‍ययोरभेद इत्‍यादौ द्वन्‍द्वानुपपत्तिरिति पदार्थतावच्‍छेकभेद: स्‍वीकार्य्य:, तत्‍स्‍वीकारे च प्रकृते मेयपदार्थवाच्‍यपदार्थयोरभेदेऽपि मेयत्‍ववाच्‍यत्‍वयोर्भेदात् द्वन्‍द्वोपपत्तिरिति। अथ तथापि ‘गगनाकाशयोरभेद’ इत्‍यादौ कथं पदार्थपदार्थावच्‍छे-दकयोर्भेदविरहात् द्वन्‍द्व उपपद्यते इति चेत् गगनाकाशपदयोर्गगनाकाशपद-वाच्‍यत्‍वाभिप्रायेण प्रयुक्ततया गगनपदवाच्‍यत्‍वाकाशपदवाच्‍यत्‍वयो: मिथो भेदात् द्वन्‍द्व:। तदयं निष्‍कर्ष: - पदविशिष्टपदत्‍वं द्वन्द्वनियामकम्। वैशिष्ट्यञ्च स्‍वजन्‍यप्रति-पत्तिविषयतात्‍पर्य्यानुयोगितावच्‍छेदकरूपवृत्तिविषयताशालिज्ञानजनकत्‍वस्‍वघटित-द्वन्‍द्वघटकत्‍व एतदुभयसम्‍बन्‍धेन, विषयतायां रूपवृत्तित्‍वञ्च स्‍वीयपर्य्याप्त्यनु-योगितावच्‍छेदकत्‍वसम्‍बन्‍धेन। तथा च यत्र भिन्नघटतात्‍पर्य्येण बहुघटपदप्रयोग: तत्र तात्‍पर्य्यपर्य्यालोचनया तत्तद्घटपदात् तत्तद्घटरूपपदार्थोपस्थित्‍या तादृशोपस्थिति-विषयतापर्य्याप्तिस्‍तत्तद्घटे इति नैकविषयतापर्य्याप्त्यनुयोगितावच्‍छेदकरूप-वृत्तित्‍वात् अपरघटपदजन्‍यप्रतिपत्तिविषयतया द्वन्‍द्व उपपन्न:।
एकमेव घटमभिप्रेत्‍य यत्र घटपदद्वयप्रयोग: तत्र तत्र प्रत्‍येकमुभयघटपद-जन्‍यप्रतीतिविषयतापर्य्याप्त्यनुयोगितावच्‍छेदकमेव नतु भिन्नम्। अत एव तत्र कस्‍यापि घटपदस्‍य न पदविशिष्टत्‍वं तेन न द्वन्‍द्व:।
अथ यदि पदार्थयोरभेदेऽपि द्वन्‍द्व: तत्‍कथं द्वित्‍वबहुत्वादीनां अन्‍वय:, घटादिपदोत्तरद्विवचनादे: घटादौ अर्थबोधात् इत्‍याकाङ्क्षायामाह - तथाचेत्‍यादि। अत्र द्वन्‍द्वसमासस्‍थले, यद्भेदेन पदार्थपदार्थतावच्‍छेदकयो: ययो: भेदेन द्वन्‍द्व: द्वन्‍द्व-समास:, तत्रैव नतु तदतिरिक्ते मिथो भेदानापन्ने इत्‍यर्थ:। द्वित्‍व‍बहुत्‍वयो: अन्वय:, द्विवचनबहुवचनप्रतिपाद्ययो: द्वित्वबहुत्वयोः सङ्ख्‍ययो: सम्‍बन्‍ध: तथा च सति तत्तदंशे द्वित्‍वादेर्बाधाविरहात् न शाब्‍दबोधे प्रतिबन्‍ध:। तथाहि घटपटौ इत्‍यादौ द्वित्‍वस्‍य पदार्थद्वयांशे मेयवाच्‍ययोरभेद इत्‍यादौ च पदार्थतावच्‍छेदकद्वयांशे द्वित्‍वाद्यन्‍वय इति ज्ञेयम्। अनयो: द्वित्‍वबहुत्‍वयो:, भेदसापेक्षत्‍वात्, द्वित्‍वादि-सङ्ख्‍यानाम् अपेक्षाबुद्धिजन्‍यतया अपेक्षाबुद्धेश्च भेदाधीनतया परम्‍परया भेदाधीनत्‍वं द्वित्‍वादीनाम्।
स च द्वन्‍द्व: द्विविध: - विधप्रत्ययार्थ: विचारित:। इतरेतर इति - ‘धवखदिर-पलाशा’ इत्‍यादौ इतरेतरद्वन्‍द्व: ‘अहिनकुलम्’ इत्‍यादौ समाहार:। निरूपितत्‍वमत्रेति साहित्‍यस्‍य एकक्रियान्‍वयित्‍वरूपस्‍य मुख्‍यतया विभागनिरूपकत्‍वायोगात् निरूपितत्‍वं सामानाधिकरण्‍यं व्‍याख्‍यातम्, तथा च विभागस्‍य साहित्‍यस्‍य च धवादिवृत्तित्‍वेन सामानाधिकरण्‍यमक्षतम्।
ननु यदि इतरेतरस्‍थले साहित्‍यं विशेष्‍यं तदा ‘पुष्‍पफले जिघ्र भुङ्क्ष्व’ इत्‍यादौ साहित्‍यस्‍य कथमन्‍वय:, एकक्रियायाम् उभयोरन्‍वयाभावात् इत्‍याकाङ्क्षायामाह अथवेति।
अथेदानीमव्‍ययीभावं निर्व्वक्ति - समासेत्‍यादिना। नानाविभक्तिभिरेकरूपताव-त्‍पदत्‍वम् अव्ययमात्राणामेवेति अव्‍ययमात्राणामेव अव्‍ययीभावसमासत्‍वप्रसक्त्या तद्वारणाय समासग्रस्तत्वे सतीति विशेषणं, तथा च अव्‍ययमात्राणां न समासग्रस्‍तत्‍वम् अपि तु समासघटकीभूतपदानामेव। अव्‍ययीभावमेवं वैयाकरणा ब्रुवते - “पूर्व्वपदमव्‍ययं, परपदमनव्‍ययं तद्वशेन समुदायोऽनव्‍ययोऽव्‍ययो भवतीत्‍यव्ययीभाव” इति। स च नियम: प्रायिक: सर्व्वत्र अव्‍ययीभावसमास-घटकपदानां प्रथमस्‍य अव्‍ययत्‍वे द्वितीयस्‍य अनव्‍ययत्‍वे च नियमाभावात् अन्यथा ‘तिष्‍ठद्गु’ प्रभृतिषु अव्‍ययीभावसमासनिष्‍पन्नेषु अव्‍याप्ते:। स चायं पूर्व्वपदार्थप्रधान: तदुक्तं - “समासस्‍तु चतुर्थेति प्रायो वादस्‍तथापर:। योऽयं पूर्व्वपदार्थादि प्राधान्‍यविषय: स च”। (भूषणसारः) नानाविभक्तिभिरिति - एकरूपत्‍वञ्च विभक्तिलुग्‍वत्त्‍वेन, तदुक्तं - “सदृशं त्रिषु लिङ्गेशु सर्व्वासु च विभक्तिषु। वचनेषु च सर्व्वेषु यन्न व्‍येति तदव्‍ययम्” (सिद्धान्तकौमुदी) इति अव्‍ययीभावस्‍यापि कल्पिताव्‍ययत्‍वेन अव्‍ययकार्य्यभागित्‍वात् तथात्‍वम्। ननु अकारान्‍तानामव्‍ययी-भावानामुपकुम्‍भादीनां कथं तादृशलक्षणभागित्‍वम् अमादिना वैरूप्यात् इति चेन्न, बह्वीषु विभक्तिषु तेषामपि अमादेशवत्त्‍वेन एकरूपतायोगात् नाव्‍याप्ति:। समास-ग्रस्‍तत्‍वमात्रोक्तौ यावत्‍स्‍वेव समासेषु अतिव्‍याप्ति: इति समासान्‍तरव्‍यावर्त्तनाय विशेष्‍यदलम्।
अत्रेत्‍यादि - पूर्व्वपदार्थस्य समासघटकपदेषु प्रथमोच्चारिताव्‍ययपदार्थस्‍यैव नतु उत्तरवर्त्तितद्भिन्नपदार्थस्‍य। प्राधान्यं शाब्‍दबोधे विशेष्‍यत्‍वं, तथाहि- यत्र समासे यत् पदार्थ: प्राधान्‍येन निर्द्दिष्ट: तत्र तद्विशेष्‍यक एव शाब्‍दबोधः प्राधान्‍याप्राधान्ययो: शाब्‍दबोधे विशेष्‍यविशेषणभावरूपत्‍वात्। प्रकृते उपकुम्‍भमित्‍यादौ उपशब्‍दार्थ सामीप्‍यं पूर्व्वपदार्थ:, कुम्भपदार्थश्च उत्तरपदार्थ:, तदत्र कुम्‍भसम्‍बन्धिसमीपबोधे समीपरूपार्थ: विशेष्‍य: कुम्‍भपदार्थश्च विशेषणं तदंशे, विशेषणविशेष्‍यभावयो: शाब्‍दबोधे प्राक्प्रतीयमानत्‍वपरप्रतीयमानत्‍वरूपतया वैलक्षण्‍यात्। यथा - ‘गच्‍छति देवदत्तो ग्रामम्’ इत्‍यादौ ग्रामवृत्तिकर्म्‍मतानुकूलव्‍यापारानुकूलकृतिमान् इत्‍येव बोधो जायते, ग्रामस्‍य कर्म्‍मत्‍वांशे विशेषणत्‍वं कर्म्‍मतायाश्च क्रियाजन्‍यफलरूपाया अनुकूलत्‍वसम्‍बन्‍धेन कृतौ कृतेश्च कर्त्तरि इत्‍येवं रूपेण यदंशे यद्वविशेषणीभूय भासते तदपेक्षया तदर्थस्‍य अप्राधान्‍यं प्राधान्‍यञ्च तद्विशेष्‍यस्‍य तथा एव समासादि-स्‍थलेऽपि अवसेयम्।
अथ निर्द्धारणं व्‍यनक्ति - जात्‍यादीत्‍यादिना। अत्र कौमारा: - “निर्द्धार्य्यते पृथक्क्रियते यस्‍मात् समुदायात् एकदेशो जातिगुणक्रियाभिस्‍तन्निर्द्धारणम्”। “उद्देश्‍यतावच्‍छेदकशून्‍ये सामान्‍यधर्म्‍मावच्छिन्ने विधेयाभाववत्त्‍वम्” इति नैयायिका:, तदनुगामिन एव केचित् - विशेष्‍ये स्‍वभिन्नसामान्‍यव्‍यावृत्त-धर्म्मवत्त्‍वमिति ब्रुवते, तथा च ‘नराणां क्षत्रिय: शूर’ इत्‍यादौ उद्देश्‍यतावच्‍छेदकं क्षत्रियत्‍वं जाति: तच्‍छून्ये सामान्‍यधर्म्‍मनरत्वावच्छिन्ने विधेयस्‍य शूरत्‍वस्‍य अभाववत्त्‍वं बुध्‍यते, तेन क्षत्रियभिन्नो नरो न शूर इ‍त्‍यपि प्रतीति:।
तदेवाह - एवञ्चेत्‍यादिना, तथा च नराणां क्षत्रिय: शूर इत्‍यत्र नरपदसमभि-व्‍याहृता षष्ठी, तदुपस्‍थाप्‍य: य: तदन्‍यपदार्थ: उद्देश्‍यवाचकपदप्रतिपाद्यभिन्न: नरादि- पदार्थ: तत्‍समुदाये क्षत्रियादिभिन्ने तद्धर्म्‍मवत्त्‍वस्‍य विधेयधर्म्मवत्त्‍वस्‍य शौर्य्या‍देरभाव इति।
भावाभावान्‍वयबोध इति - ननु एकदा कथमुभयो: भावाभावयोरेकतो बोध इति चेत् प्राक् तादृशार्थ एव निर्द्धारणषष्ठ्या वृत्तिस्‍वीकारात्, उद्देश्‍यतावच्‍छेदक-शून्‍यसामान्‍यधर्म्मावच्छिन्नव्‍यावृत्तधर्म्‍मवत्त्‍वस्‍य निर्द्धारणषष्‍ठ्या बोधनात् एकक्रमे-णैव अभिप्रायसिद्धे:।
निर्द्धारणस्‍य बहूनामेकस्‍य पृथक्करणरूपत्‍वात् प्रायेण षष्ठ्यन्‍तानां पदानां बहुत्‍वभागित्‍वेऽपि कदाचित् जात्‍यादिपरत्‍वेन एकवचनप्रयोगोऽपि दृश्‍यते, यथा भाष्‍ये - ‘घटादेरामद्रव्यस्‍य परमाणौ पाक’ इति, स्‍वारसिकस्‍तु बहुवचनप्रयोग एव प्रायेण। ननु निर्द्धारणं पृथक्करणम् इति यद्युच्‍यते तदा तस्‍य उभयनिष्ठतया तस्मिन् द्योत्‍ये निर्द्धार्य्यभूतशूरादिशब्‍दादपि कथं न षष्ठी स्‍यात् इति चेत् एतदेवाभिप्रेत्‍य निद्धार्य्यते पृथक्क्रियते यस्‍मात् समुदायात् एकदेशस्‍तन्निर्द्धारणम् इति अपादानवाच्‍ये अनट् प्रत्‍ययस्‍य विधानात् नरत्‍वादिरूपसामान्‍यधर्म्मावच्छिन्नवाचकपदोत्तरमेव निर्द्धारणे विहिता विभक्ति: प्रवर्त्तिष्यते न तु क्षत्रियादिपदोत्तरं तस्‍मात् तु लिङ्गार्थमात्रे प्रथमैव भवतीत्‍यादिक्रियाध्‍याहारेण कर्त्तृत्‍वार्थस्‍य उक्तत्‍वात्।
‘यो भवतां चैत्र: स आगच्‍छतु’ इत्‍यादौ न निर्द्धारणं जातिगुणक्रियाभिरेव एकस्‍मादपरस्‍य निर्द्धारणे निर्द्धारणलक्षणलक्ष्‍यतास्‍वीकारात्, केचित्तु - ‘यो भवतां दण्‍डी’त्‍यत्रापि दण्‍डसम्‍बन्‍धरूपेण गुणेनैव निर्द्धारणमिति ब्रुवते।
अथेदानीमेवकारार्थविचार: प्रस्‍तूयते - तस्‍येत्‍यादिना। विशेषेत्‍यादि - एतावान् वक्ष्‍यमाणरूप: विशेष: वैलक्षण्‍यं - क्रियासमभिव्‍याहृतस्‍य क्रियान्‍वयार्थप्रति-पादकस्‍य अत्‍यन्‍तायोगव्‍यवच्‍छेदे इत्‍यस्‍य शक्तिर्बोध्‍या इति वक्ष्‍यमाणपदार्थेन अन्वय:। अत्‍यन्‍तायोगव्‍यवच्‍छेदश्च क्रियान्‍वयितावच्‍छेदकधर्म्मसामानाधिकरण्‍ये-न विधेयवत्त्‍वपर्य्यवसित:, तथा च उदाहरणं - सरोजं नीलं भवत्‍येव, अत्र सरोजत्‍वरूपस्‍य क्रियान्‍वयितावच्‍छेदकस्‍य सामानाधिकरण्येन नीलत्‍वं प्रतीयेत। यत: कतिचित् सरोजानि नीलानि कतिचित् रक्तानि कतिचित् वा श्वेतानि, तत्र सरोजत्‍वावच्‍छेदेन अत्‍यन्‍तनीलगुणयोगाभावव्‍यवच्‍छेदस्‍य एवकारेण प्रत्‍यायनात् तात्‍पर्य्यगत्‍या सरोजत्‍वसामानाधिकरण्‍येन नीलत्‍वबोध:।
द्वितीयस्‍य उदाहरणं यथा - ‘शङ्ख: पाण्डर एव’ इत्‍यादि, अत्र शङ्खत्‍वावच्‍छेदेन पाण्‍डरवत्त्‍वे तात्‍पर्य्यं, वाक्यार्थस्‍तु शङ्खे पाण्‍डरसम्‍बन्‍धविरह-व्‍यवच्‍छेद: तेनैव यत्‍कि‍ञ्चित् शङ्खेऽपि यदि पाण्‍डरसम्‍बन्‍धविरह: स्‍यात् तदापि शङ्खत्‍वावच्छेदेन पाण्‍डरवत्त्‍वं न स्‍यात् इति कुत्रापि शङ्खे न पाण्‍डरविरह इति प्रत्‍येयम्। तृतीयस्‍य उदाहरणं यथा - पार्थ एव धनुर्द्धर इति, अत्र पार्थादन्‍यस्मिन् धनुर्द्धरत्‍वाभावबोध:, प्रकृष्टधनुर्द्धरत्‍वं पार्थत्‍वव्‍याप्‍यमिति भाव:। अत्र धनुर्द्धरत्‍वं पार्थादन्‍यस्मिन् अपि सत्त्‍वेन पार्थादन्‍यस्मिन् धनुर्द्धरत्‍वाभावबोधात् शाब्‍दबोधानुप-पत्ति: वक्तृतात्‍पर्य्यमपि प्रकृष्टधनुर्द्धरे इति “लक्षणा शक्यसम्‍बन्‍धस्‍तात्‍पर्य्यानुपप-त्तित” इति लक्षणास्‍वीकार:। अथ समभिव्‍याहार: सङ्गति:, सा च तदुत्तरनिर्द्देश इति केचित् तथा सति धनुर्द्धरत्‍वं पार्थस्‍यैव इत्‍यादौ विशेषणादि सङ्गतस्‍यापि एवकारस्‍य अन्‍ययोगव्‍यवच्‍छेदप्रत्‍यायकतया, शङ्खस्‍य पाण्‍डरत्‍वमेव इत्‍यादौ विशेष्‍यादिसङ्गत-स्‍यापि एवकारस्‍य अयोगव्‍यवच्‍छेदप्रत्‍यायकतया, वायुर्वात्‍येव इत्‍यादौ क्रियासङ्गत-स्‍यापि एवकारस्‍य अयोगव्‍यवच्‍छेदप्रत्‍यायकतया च कथं पूर्व्वोक्तनियमानां रक्षा इति चेत्, अत्र केचित्, विशेषणत्‍वं विशेष्‍यत्‍वञ्च द्वेधा भेदेन अभेदेन च भवत:, तत्र अभेदेन यत्र विशेष्‍यविशेषणभावस्‍तत्र विशेष्‍यसङ्गतस्‍य, भेदेन यत्र विशेष्य-विशेषणभावस्तत्र विशेषणसङ्गतस्य एवकारस्‍य धर्म्मान्‍तरे तद्योगव्‍यवच्‍छेदरूपोऽर्थ इत्‍यादिना समाधेयम्।
सर्व्वनामपदानां घटत्‍वादिविशेषधर्म्मावच्छिन्ने शक्ति:, तमानय इत्‍यादौ प्रयोजकादेशानन्‍तरं प्रयोज्‍येन प्रकरणादिपर्य्यालोचनया घटादेरानयनात् आनयनस्‍य च आदेशवाक्यार्थज्ञानसापेक्षत्‍वात्। अथ तदादिपदानां घटत्‍वादिरूपेण शक्ति-विरहेऽपि बुद्धिविषयतया शक्तिग्रहेणापि घटपदार्थोपस्थित्‍या तेन रूपेण शाब्‍दबोध उपपद्यते, किमिति विशेषादर इत्‍याकाङ्क्षायामाह – घटत्‍वादि प्रकारत्‍वादिति, अथ बुद्धिविषयतया शक्तिग्रहात् तथैव पदार्थोपस्थित्‍या घटत्‍वप्रकारकशाब्‍दबोधे का क्षतिरित्‍याशङ्क्य प्राह - समानप्रकारकत्‍वेन इति, यादृशधर्म्मावच्छिन्ने शब्‍दस्‍य शक्तिग्रह:, शक्तिसम्‍बन्‍धेन तादृशधर्म्मावच्छिन्नस्‍य उपस्थिति: तादृशधर्म्मावच्छि-न्नप्रकारकशाब्‍दबोधे कारणमिति नियमात् एकधर्म्मावच्छिन्नविषयका एव शक्तिग्रहपदार्थोपस्थितिशाब्‍दबोधा भवेयुरिति नियम:।
अथ यदि तदादिपदानां घटत्‍वादिनानाधर्म्मावच्छिन्ने शक्ति: तत् कथं शक्यतावच्‍छेदकभेदे शक्तेरैक्यं तदभावे च हरिपदादिवत् तदादिपदानामपि नानार्थत्‍वापत्तिरिति शङ्कायामाह - बुद्धिविषयवृत्तित्‍वेन इत्‍यादि, तथा च बुद्धिविषय-वृत्तित्‍वरूपेण बहूनामपि शक्यतावच्‍छेदकानाम् अनुगमात् न शक्तिभेद: न वा नानार्थत्‍वापत्ति:।
तथाचेत्‍यादि – घटादिपदानां सङ्केतग्रहस्‍य प्रकारस्तु घटपदात् घटो बोद्धव्‍य इति अत्र सङ्केतग्रहे घटपदजन्‍यबोधविषयत्‍वं प्रकार: घटत्‍वावच्छिन्नश्च विशेष्‍य:, तथाच घटपदजन्‍यबोधविषयत्‍वप्रकारतानिरूपितघटत्‍वावच्छिन्नविषयताकत्वं सङ्केत-ग्रहस्य, परे च घटो घटपदजन्यघटत्वावच्छिन्नशाब्दबोधविषयतावान् भवतु इत्‍या-कारकसङ्केतज्ञानीयशाब्‍दबोधविषयतावच्‍छेदकत्‍वविषयतानिरूपितविषयत्‍वं शाब्‍द-बोधप्रकारतायां प्रयोजकं शाब्‍दबोधप्रकारतावच्‍छेदकतायाञ्च तादृशविषयता-वच्‍छेदकतावच्‍छेदकत्‍वविषयतानिरूपितविषयत्‍वं प्रयोजकम्, तद्यथा घटपदाद् घट इत्‍याकारक: पश्वादिपदाच्‍च लोमत्‍वावच्छिन्नलोमावच्छिन्नेत्‍याकारक: शाब्‍दबोधः इयं विशिष्टे शक्ति:। अथ आकाशपदात् कदाचित् शब्‍दाश्रयत्‍वेन कदाचित् अष्टद्रव्‍यातिरिक्तद्रव्‍यत्‍वेन वा उपस्थिति: कया रीत्‍या उपपादयितुं शक्या, सङ्केतो यदि आकाशपदात् शब्‍दाश्रयो बोद्धव्‍य इति तदा शब्‍दाश्रयत्‍वेनैव तदुपस्थिति: युक्ता, यदि अष्टद्रव्‍यातिरिक्तद्रव्‍यत्‍वेन तदा तथैव इति कीदृशं समाधानम् इति चेत्, अकाशपदस्‍य निरवच्छिन्ने शब्‍दाश्रये शक्ति:, शब्‍दाश्रयत्‍वादीनां गुरुधर्म्मतया अत्र अवच्छेदकत्‍वस्‍य कल्‍पयितुमशक्यत्‍वादिति अनियतधर्म्मप्रकारक एव आकाश-पदात् बोध इति उक्ता शक्तिरेव उपलक्षिते।
अथ निरवच्छिन्ने आकाशपदस्‍य शक्त्या येन केनापि धर्म्मेण आकाशस्‍य उपस्थितौ मेयत्‍वादिनापि तस्‍य उपस्थिति: कथं न स्‍यात् इति चेन्न, येन रूपेण यत्र शक्तिज्ञानं तेनैव रूपेण तत्र आकाशभानस्‍य नियमस्‍वीकारात् मेयत्‍वादिना शक्तिज्ञानाभावात् न तथा, शक्तिज्ञानविशेष्‍यतावच्‍छेदकतया गृहीतेन अनतिप्रसक्तधर्म्मेणैव तद्भानम्। दीधितिकारास्‍तु शाब्‍दबोधीयप्रकारतायां सङ्केतज्ञानीयविशेष्‍यतावच्‍छेदकत्‍वं तदवच्‍छेदकतायाञ्च तादृशविशेष्‍यता-वच्‍छेदकतावच्‍छेदकत्‍वं नियामकं, तेन शब्‍दाश्रयत्‍वरूपेण सङ्केतज्ञानस्‍वीकारात् शब्‍दाश्रयत्‍वावच्छिन्न एव आकाशपदशक्तिरिति कल्‍पयन्ति। हर्य्यादिपदानां सङ्केतस्‍तु “हरिपदात् विष्‍णुर्बोद्धव्‍य:, हरिपदात् सूर्य्यो बोद्धव्‍य:, हरिपदात् इन्‍द्रो बोद्धव्‍य” इत्‍यादि बहुविध एव प्रकरणादिनियन्त्रितार्थतया च नानार्थकशब्‍दस्‍य तत्तद्विशेषधर्म्मप्रकारेण तस्‍मादुपस्थिति:, तावत्‍पदार्थानुगतस्‍य अनतिप्रसक्तस्‍य लघुधर्म्मस्‍य अभावेन अगत्‍या तत्तद्धर्म्मेषु हरिपदशक्यतावच्‍छेदकभेदेन शक्तिभेदस्‍य आवश्‍यकतया नानार्थकत्‍वनिर्व्वाह: तत्तद्धर्म्मगतान्‍यतमत्‍वस्‍य अनुगतधर्म्मस्‍य सम्‍भवेऽपि गौरवादिदोषस्‍य परिहातुमशक्यतया न तद्रूपेण शक्त्यैक्यम्। निष्‍कर्षस्‍तु तदादिपदानां वक्तृबुद्धिप्रकारावच्छिन्ने शक्ति: वक्तृबुद्धिप्रकारत्‍वस्‍य च न शक्यतावच्‍छेदकतावच्‍छेदकतया भानं किन्‍तु शक्यता-वच्‍छेदकत्‍वसामानाधिकरण्‍येनैव, ‘तत्‍पदं बुद्धिप्रकारत्‍वाश्रयावच्छिन्नं बोधयतु’ इत्‍यादि सङ्केतज्ञाने प्रकारत्‍वस्‍य शाब्‍दबोधविषयतावच्‍छेदकत्‍वसामानाधिकरण्‍येन भानादेव शाब्‍दबोधप्रकारतावच्‍छेकतया नियामकस्‍य सङ्केतीयशाब्‍दबोधविषयता-वच्‍छेदकतावच्‍छेदकत्‍वविषयतानिरूपितविषयत्वस्‍य प्रकारत्‍वे विरहात् न तथात्‍वम्। अत एव ‘तमानय’ इत्‍युक्ते आनयनं घटकर्म्मकं न वेति विशेषधर्म्म-प्रकारकसंशयनिवृत्ति: सुघटा, ‘तमानय’ इति वाक्यादपि विशेषधर्म्मपुरस्‍कारेण आनयने घटकर्म्मकत्‍वप्रतीते:। विशेषधर्म्मप्रकारकसंशयस्‍य विशेषधर्म्म-पुरस्‍कारेण निश्चयादेव निवृत्ते:, प्रकारत्‍वस्‍य घटत्‍वाद्यंशे उपलक्षणतयैव निरवच्छिन्नघटत्‍वादिबोध: सुघट इति नानुपपत्ति:। केचित्तु इत्‍यादि - बुद्धिविषयत्‍वस्‍य शक्यतावच्‍छेदकत्‍वे बुद्धिविषयत्‍वरूपेणैव घटादिपदार्थानां तत्‍पदेन उपस्थितिर्भविष्‍यतीति विशेषधर्म्मप्रकारकसंशयनिवृत्ति: ततो न स्‍यात्, अत एव बुद्धिविषयत्‍वस्‍य शक्यतावच्‍छेदकत्‍वं न स्‍वारसिकमिति केचित्तु इत्‍यनेन सूचितम्।
अथ इवार्थविचारं व्‍यनक्ति - चन्‍द्र एव मुखमित्‍यादिना। सादृश्‍यपरमिति सादृश्‍यबोधेच्‍छया उच्चरितं, सादृश्‍यञ्च तद्भिन्नत्‍वे सति तद्गतभूयोधर्म्मवत्त्‍वम्, परशब्‍द: सर्व्वत्र बोधेच्‍छया उच्चरितार्थक:।
चन्‍द्रमुखयोरित्‍यादि अभेदसम्‍बन्‍धेन अन्‍वयिनोरेव पदार्थयोर्व्वाचकौ यौ शब्‍दौ तयोरेव समानविभक्तित्‍वनियमात्, अत एव प्रतियोगित्‍वसम्‍बन्‍धेन सादृश्‍ये चन्‍द्रादेर-न्‍वये न समानविभक्तिकत्‍वोपपत्तिरिति।
इवार्था बहव: - उपमा, उत्‍प्रेक्षा, वाक्यालङ्कार:, ईषदर्थश्च, तत्र उपमोदाहरणं यथा ‘चन्‍द्र इव मुखं भाति’, इवेन सह उपमानवाचकपदस्‍य नित्‍यसमास: विभक्तेश्चालोप:, तथा च वार्त्तिकम् ‘इवेन नित्‍यसमासः विभक्त्यलोपश्च’ इति।
उत्प्रेक्षोदाहरणं यथा ‘अपर: चन्‍द्र इव मुखं भाति’ इत्‍यादि।
वाक्यालङ्कारे तु ‘सर्व्वदा क इव वा सहिष्‍यते’ इति। ईषदर्थे ‘आवर्ज्जिता किञ्चिदिव स्‍तनाभ्‍यामि’ति। विभक्ते: साधुत्‍वमात्रार्थकतया प्रथमा एव प्रकृते।
अथ उद्देश्‍यविधेयभावं व्‍यनक्ति - तत्रेत्‍यादिना। उद्देश्‍यत्‍वं विधेयत्‍वञ्च विषयताविशेषौ, यद्धर्म्मावच्छिन्ने कि‍ञ्चित् साध्यते तत् उद्देश्‍यतावच्‍छेदकं यद्धर्म्मश्च साध्‍यते स विधेय:, सामानाधिकरण्‍यम् एकाधिकरणवृत्तित्‍वं ‘घटो नीलरूपवान्’ इत्‍यत्र घटत्‍वावच्छिन्ने नीलरूपं साध्‍यते इति घटत्‍वम् उद्देश्‍यतावच्‍छे-दकं नीलरूपञ्च विधेयम्। प्रागेवेति विधेयवाचकपदादिति शेष:। इदञ्च प्रायिकम्, अवयवग्रन्‍थे भट्टाचार्य्येण निरुक्तम्। उद्देश्‍यतया अभिसन्‍धानसत्त्‍वे विधेयवाचक-पदोत्तरनिर्द्दिष्‍टादपि पदादुद्देश्‍यप्रतीते:, यथा- “वह्निव्‍याप्‍यधूमवान् पर्व्वत:, तस्‍माद् वह्निमान्” इत्‍याद्युपनयनिगमनावयवयो:। नीलरूपविषयकेति विषयत्‍वं विधेयत्‍वा-ख्‍यम् अवगन्‍तव्‍यम्, घटत्‍वविषयकबोध इत्‍यत्रापि विषयत्‍वं विधेयत्‍वाख्‍यम्।
प्रकृतिविकृतिभावेऽपीति - अयं पूर्वोक्त: नियम: उद्देश्‍यतावच्‍छेदकविधेययो: सामानाधिकरण्‍यबोधक: उद्देश्‍यवाचकपदस्‍य पूर्व्वनिर्द्देशावेदकश्च इति। प्रकृति-विकृतिभावस्‍थलेऽपि प्रकृतौ उद्देश्‍यत्‍वस्‍य विकृतौ च विधेयत्‍वस्‍य भानात् उद्देश्‍य-विधेयभावस्‍थलनियमान्‍तर्गतत्‍वादिति।
उद्देश्‍यविधेयभावस्‍थले च असति बाधके उद्देश्‍यतावच्‍छेदकविधेयययो: प्रयोज्‍यप्रयोजकभावलाभोऽपि व्‍युत्‍पत्तिसिद्ध:, यथा ‘धान्‍येन धनवान् सुखी’ अत्र सुखरूपे विधेये धान्याभिन्नधनप्रयोज्‍यत्‍वबोध आनुभविक:। ‘अयं घट’ इत्‍यादौ उद्देश्‍यविधेयभावसत्त्‍वेऽपि घटत्‍वे विधेये इदन्‍त्वरूपोद्देश्‍यतावच्‍छेदकप्रयोज्‍यत्‍वस्‍य बाधसत्‍वात् न तथात्‍वम् इति।
अथ विशेष्‍यविशेषणयोरेका विभक्ति: समलिङ्गता च, तदुक्तं “विशेष्यस्‍य च यल्लिङ्गं विभक्तिवचने च ये” इत्‍यादि, तत् उद्देश्‍यविधेययोरपि विशेष्‍यविशेषण-भावात् कथं ‘एको वृक्ष: पञ्च नौका भवति’ इत्‍यादौ व्‍यभिचार: इति चेत्, लिङ्ग-सङ्ख्‍यादीनां न सर्व्वत्र तन्‍त्रता, परं “प्रकृतिविकृत्‍यो: प्रकृतिवच्‍च” इति नियमेन कदाचित् तन्नियमवैपरीत्‍यमपि विज्ञाप्‍यते, अन्‍यथा तादृशानुशासनस्‍य अनपेक्षणी-यत्‍वात्। ननु शाखापल्लवाद्यवच्छिन्न: पदार्थ एव वृक्षपदेन अभिधीयते नौकापदेन च शाखापल्लवादि शून्‍यवृक्षावयवप्रकृतिकसंस्‍थानविशेषवान् पदार्थ इति परस्‍परं कथम् उद्देश्‍यविधेयवाचकपदार्थयोरभेदान्‍वय: इत्‍याशङ्कायामाह- वृक्षपदं वृक्षारम्‍भकद्रव्‍य-परमिति, इदानीम् उभयोरभेदान्‍वयो न बाधित इति ध्‍येयम्।
एवमित्‍यादि। सुवर्णपदेन सुवर्णारम्भकद्रव्‍यं कुण्‍डलपदेन च कुण्‍डलारम्‍भक-द्रव्‍यं प्रतिपाद्यते, तेन तत्रापि नाशङ्का।
अथेत्‍यादि - चतुर्थ्या उद्देश्‍यत्‍वजनकत्‍वरूपार्थयो: व्‍युत्पत्तिवैचित्र्यादुभयत्र अन्‍वय:।
अथ उपसर्गाणां प्रकारानाह - तत्रेत्‍यादिना। उपसर्गस्‍येति - उपसर्गनिर्देशो यथा “प्रपरापसमन्‍ववनिदुरभिव्‍यधिसूदतिनिप्रतिपर्य्यपय:। उप आङि‍ति विंशतिरेष सखे उपसर्गविधि: कथित: कविना” इति। उक्तञ्च “निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादय:। द्योतकत्‍वात् क्रियायोगे लोकादवगता इमे” इति। वाचकत्‍वं शक्तिमत्त्‍वं, द्योतकत्‍वं तात्‍पर्य्यग्राहकत्‍वम्।
अन्‍येऽपि “द्योतका: प्रादयो ज्ञेया निपाताश्चादयस्‍तथा। उपास्येति हरिहरौ लकारो दृश्‍यते यथा” (वै.सि.का.42) इति। अत्र आसधातोरुपवेशने शक्ति: उपोपसर्गसम्‍बन्‍धाश्च विशिष्‍टार्थे लक्षणा, तत्रैव तात्‍पर्य्यग्राहकम् उपपदम्, अन्‍यथा आस्‍ते इत्‍यादावपि तादृशार्थे लक्षणास्‍वीकारसम्‍भवात् इति।
प्रकृत्‍यर्थेत्‍यादि - प्रकृतिश्च लकारस्‍य प्रकृते जिधातुरेव, तस्‍य प्रकृष्‍टजयरूपार्थविरहे प्रत्‍ययार्थेन प्रकृष्टजयरूपार्थस्‍य अनन्‍वये उक्तार्थबोधो न स्‍यात् प्रशब्‍दस्‍य प्रकृतप्रत्‍ययप्रकृतित्‍वाभावात्।
अथ क्त्वाप्रत्‍ययार्थनिरूपणम्। तस्‍य क्त्वाप्रत्‍ययस्‍य। आनन्‍तर्यस्‍य च ‘भुक्त्‍वा व्रजती’त्‍यादौ व्रजादिधात्‍वर्थे अन्‍वय:, “एककर्त्तृकयो: पूर्व्वकाले” (कातन्त्र. कृत्. 433) इत्‍याद्यनुशासनबलात् यत्क्रियावाचकपदोत्तरक्त्‍वाप्रत्‍यय: तस्‍या: पूर्व्व-वर्त्तित्‍वलाभात् अपरधात्‍वर्थस्‍य अनन्‍तरत्‍वनियमात्। तदेवोद्दिश्‍य व्रजनपूर्व्वकाले भोजनं वा अवगाहते इति उक्तम्।
अथ आनन्तर्य्यमात्रस्‍य क्त्वाप्रत्‍ययार्थत्‍वे कथं समानकर्त्तृकत्‍वम् अनुभवसिद्धं प्रतीयते इत्‍याकाङ्क्षायामाह - किन्‍तु इत्‍यादि। झनत्‍काराद्यनन्‍तरमपीति, पतनादीनां बहुक्षणवृत्तितया आदिमं क्षणं झनत्काराद्यधिकरणं परित्‍यज्‍य तदनन्‍तरक्षणीयपत-नादिग्रहेणैव आनन्‍तर्य्यस्‍यापि सामञ्जस्‍यात्। केचित्तु समानकालीनत्‍वमपि क्वचित् क्त्वाप्रत्‍ययार्थ: तदुदाहरणमेव ‘मुखं व्‍यादाय स्‍वपिति’ इत्‍यादि। आनन्‍तर्य्यमात्रार्थ-वादिनस्‍तु पूर्व्वोक्तरीत्‍या एव समाधानं कुर्व्वन्ति।
नञर्थान् व्‍यनक्ति - तत्र नञ इत्‍यादिना। संसर्गाभावस्त्रिविध: प्रागभावध्‍वंसा-भावात्‍यन्‍ताभावभेदात्। विनाश्‍यभाव: प्रागभाव:, जन्‍याभाव: ध्‍वंसाभाव:, सनातनसंसर्गाभावश्च अत्‍यन्‍ताभाव:, तदुक्तं - “प्रागभावस्‍तथा ध्‍वंसोऽप्‍य-त्‍यन्‍ताभाव एव च। एवं त्रैविध्‍यमापन्न: संसर्गाभाव इष्‍यते” इति भाषापरिच्‍छेदग्रन्‍थे। अन्‍योन्‍याभावस्‍तु एकविध एव, स च तादात्‍म्यसम्‍बन्‍धावच्छिन्न-प्रतियोगि‍ताकाभाव:, तत्र नामान्‍वयो नञर्थ: अन्‍योन्‍याभाव:, यथा न ब्राह्मण: अब्राह्मण:, न घट: अघट इत्‍यादि, अनयो: नञर्थस्य ब्राह्मणपदार्थेन घटपदार्थेन च अन्‍वयात् ब्राह्मणभिन्न: घटभिन्न इत्‍यर्थप्रतीते: अन्‍योन्‍याभावताप्रत्‍यय:।
धात्‍वर्थान्‍वयी नञर्थ: अत्‍यन्‍ताभाव: यथा ‘चैत्रस्‍य न पाक: न गति: न वा भोजनम्’ इत्‍यादौ अभावेन प्रतियोगितया क्रियाया अन्‍वयात् अभावस्‍य अत्‍यन्ता-भावत्‍वम्।
धात्‍वर्थान्‍वयी नञर्थ इव प्रत्‍ययार्थान्‍वय्यपि नञर्थ: अत्यन्ताभाव एव। यथा ‘इह भूतले घटो नास्ति, देवदत्तो न पश्यति’ इत्यादौ।
बहुव्रीहिसमासस्थले तु नामार्थान्वयिनोऽपि नञर्थस्य अत्‍यन्‍ताभावरूपत्‍वं, यथा ‘अघटं भूतलम्, अधनश्चैत्र’ इत्‍यादि, अत्र घटस्य धनस्‍य च भूतले चैत्रे च यथासङ्ख्‍यम् अभाव: प्रतीयते, एवम् अभावाधिकरणस्‍य सप्तम्या निर्द्देशे नामार्थान्‍वयित्‍वेऽपि नञर्थस्‍य अत्‍यन्‍ताभावरूपत्‍वमेव, यथा ‘भूतले न घट’ इत्‍यत्र इति केचित् वदन्ति। परे तु नात्र नञर्थस्‍य नामार्थान्‍वयित्‍वं, किन्‍तु ‘भूतले घटो नास्ति’ इत्‍येवमेव बोधात्, क्रियान्‍वयित्‍वमेव नञर्थस्‍य, क्रिया धात्‍वर्थ इत्‍याहु:।
प्रायेण उक्तार्थानुगतमेव ग्रन्‍थकारो निर्व्वक्ति - यत्रेत्‍यादि। विशेष्‍यविशेषणयो: नञर्थविनिर्म्मोकेण विशेष्‍यविशेषणभावापन्नयो: भावान्‍वये तयोरेव विशेष्‍य-विशेषणभावेन अन्‍वये, तत्रैव नतु अन्‍यत्र। यत्रेत्‍यादि - अनुयोगिनि अभावाधि-करणे नामार्थप्रतियोगिकसंसर्गाभावबोध: यथा ‘भूतले घटो नास्ति’ इत्‍यादौ – प्रत्‍ययार्थादिप्रतियोगिकसंसर्गाभावबोधस्‍थले तु न अनुयोगिनि सप्तम्यपेक्षा यथा ‘न पचति चैत्र’ इत्‍यादौ।
अन्‍वयितावच्‍छेदकावच्छिन्नप्रतियोगिताकत्‍वमिति - तथाहि ‘घटो नास्ति’ इत्‍यादौ अभावे प्रतियोगितासम्‍बन्‍धेन घटोऽन्‍वेति, अतो घटत्‍वमेव अन्‍वयिता-वच्‍छेदकं तदवच्छिन्नप्रतियोगितैव अभावे घटत्‍वावच्छिन्नस्‍य संसर्ग:, अन्‍यथा यदि धटत्‍वावच्छिन्नप्रतियोगित्‍वादीनां द्रव्‍यत्‍वाद्यवच्छिन्नसंसर्गता स्‍यात्, तदा पटाधिक-रणेऽपि घटाभाववद्भूतलादौ नियमेन द्रव्‍यं नास्ति इत्‍याद्यभावप्रत्ययापत्ति: अनु-योगिनि संसर्गसत्त्‍वस्‍य एव संसर्गिसत्त्‍वनियामकत्‍वात् इति।
एवमिति प्रतियोगितामात्रस्‍य संसर्गत्‍वस्‍वीकारे यत्कि‍ञ्चिद्घटप्रतियोगिक-भेदमादाय नीलघटेऽपि घटो न इति प्रतीतिर्दुष्‍परिहरा, अन्‍वयितावच्‍छेदकावच्छिन्न-प्रतियोगिताकत्‍वस्‍य अभावे भानोपगमे तु घटत्‍वावच्छिन्नप्रतियोगिताकभेदस्‍य नीलघटे बाधात् नातिप्रसङ्ग:, उक्तरीत्‍या च पीतघटवति नीलघटत्‍वावच्छिन्न-प्रतियोगिताकाभावस्‍य सत्त्‍वाच्च नानुपत्ति:, वैपरीत्ये तु अनुपपत्तिर्भवति, घट-सामान्‍याभावस्‍य तत्र सत्त्‍वात् अत एव अन्‍वयितावच्छेदकताया: पर्य्याप्तिरपि निवेश्‍या।
यत्र तु इत्‍यादि। सामान्‍ये सामान्‍यधर्म्मावच्छिन्ने अन्‍यूनवृत्तिधर्म्मावच्छिन्ने इत्‍यर्थ:, विशेषे विशेषधर्म्मावच्छिन्ने न्‍यूनवृत्तिव्‍याप्‍यधर्म्मावच्छिन्ने इत्‍यर्थ:, सामा-न्‍यस्‍य अन्‍यूनवृत्तिधर्म्मावच्छिन्नस्‍य विशेषेतरपरत्‍वं न्‍यूनवृत्तिव्‍याप्‍यधर्म्मावच्छिन्न-बोधेच्‍छया उच्चरितत्‍वम्। पदार्थान्‍तरसाकाङ्क्षमिति सामान्‍यसाकाङ्क्षपदार्थातिरिक्त-पदार्थसाकाङ्क्षमित्‍यर्थ:। तदितरं विशेषधर्म्मावच्छिन्नमेव सामान्‍यम् अन्‍वेति शाब्‍दबोधे भासते इति।
ब्राह्मणेभ्‍य इत्‍यादि - अत्र ब्राह्मणत्‍वं सामान्‍यधर्म्म:, तदवच्छिन्नेषु दधि-कर्म्मकदानस्‍य विधि:, कौण्डिन्‍यत्‍वं विशेषधर्म्म: तदवच्छिन्ने च दधिदानस्‍य निषेध: इति कौण्डिन्‍यत्‍वरूपविशेषधर्म्मावच्छिन्नभिन्नेभ्य एव ब्राह्मणत्‍वरूप-सामान्‍यधर्म्मावच्छिन्नेभ्‍यो दधिदानमनुभवसिद्धं, तच्च सामान्‍यधर्म्मावच्छिन्न-वाचकस्‍यापि ब्राह्मणपदस्‍य कौण्डिन्‍येतरवाचकत्‍वकल्पनात्। एतदेवाह - प्रकृते तु इत्‍यादिना। पदार्थान्‍तरसाकाङ्क्षमित्‍याद्युदाहरणमाह - ब्राह्मणेभ्‍यो दधि दीयतां, तक्रं कौण्डिन्‍याय इत्‍यादि।
निषेधो द्विविध: - प्रसज्‍यप्रतिषेध: पर्य्युदासश्च। प्रसज्‍यप्रतिषेधस्‍तु क्रियान्‍वयी अभाव: निषेधार्थप्रधानश्च, तदुक्तं - ‘अप्रधान्‍यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्‍यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्’। पर्य्युदासस्‍तु “प्राधान्‍यं हि विधेर्यत्र प्रतिषेधेऽप्रधानता। पर्य्युदास: स विज्ञेयो यत्रोत्तरपदेन नञ्।” इति। यथा ‘एकादश्‍यां न भुञ्जीत’ इत्‍यत्र भोजनरूपक्रियया अभावस्‍य अन्‍वय: भोजनप्रतिषेधस्‍य च प्राधान्‍यम्।
द्वितीयस्‍य उदाहरणं यथा - ‘अथ श्राद्धममावस्‍यायां पितृभ्‍यो दद्यात्’ इति, तदनन्‍तरं ‘रात्रौ श्राद्धं न कुर्व्वीत’ इति निषेधशास्‍त्रं, अत्र उभयोरेकवाक्यता-पर्य्यालोचनया सामान्‍यविशेषभावेन अमावस्‍यायां पर्य्युदासनञर्थस्‍य अन्‍वयात् रात्रिभिन्नामावस्‍यायां श्राद्धस्‍य कर्त्तव्‍यता प्रतीयते, ननु रात्र्यधिकरणकश्राद्धे कर्त्तव्‍यताभाव इति विधे: प्राधान्‍यं निषेधस्‍य च अप्राधान्‍यमिति।
अत्‍यन्‍ताभावस्‍य प्रसज्‍यप्रतिषेधरूपत्‍वात् तस्‍यैव प्रसज्‍यप्रतिषेध इति संज्ञा। अत्‍यन्‍ताभावस्‍यैव क्रियान्‍वयित्‍वात्, पर्य्युदासस्‍तु भेद एव इति।
अथ वैधहिंसां निर्व्वक्ति - मा हिंस्यादित्‍यादिना। सामान्‍यशास्‍त्रं प्राणिमात्राणा-मेव हिंसानिषेधबोधकं, विशेषशास्‍त्रं यत्किञ्चिज्‍यातीयप्राणिहिंसाबोधकमिति।
अत्र हिसांयामित्‍यादि - निषेधशास्‍त्रस्‍य सर्व्वभूतविषयकत्‍वात् श्वेतछागल-विषयकत्‍वमपीति, श्वेतछागलविषयकहिंसाविधिशास्‍त्रेण तद्विरोध:, एकत्रैव श्वेतच्‍छागले हिंसाकर्म्मत्‍वस्‍य तदभावस्‍य च असम्भवात्, अपवादविषयं परित्‍यज्‍य उत्‍सर्ग: प्रवर्त्तते इति नियमेन विशेषशास्‍त्रविषयं परित्‍यज्‍य सामान्‍य-शास्‍त्रस्‍य प्रवृत्तिर्व्वाच्‍या, विशेषशास्‍त्रविषयश्च श्वेतच्‍छागलविषयकालम्‍भनं तत्‍परिहारेण एव निषेधशास्‍त्रस्‍य प्रवर्त्तनात् श्वेतच्‍छागलेतरभूतविषयकहिंसा-निषेध: प्रतिपद्यते, सर्व्वशब्‍दस्‍यापि उद्देश्‍यतावच्‍छेदकव्‍यापकविधेयव्‍याप्‍ययावत्त्‍वा-वच्छिन्ने शक्तिकल्‍पनेऽपि भूतपदेन श्वेतछागलेतरभूतलाभात् श्वेतछागलेतर-भूतत्‍वव्‍यापकहिंसाकर्म्मत्‍वावबोधे न बाध:। निरवकाशा हि विधय: सावकाशान् विधीन् बाधन्‍ते इति।
अनर्थहेतुतेति, - अनिष्‍टजनकत्‍वम्, तदुक्तं - “दृष्टवदानुश्रविक: स ह्यविशुद्धिक्षयातिशययुक्त” इति, तदुक्तं पञ्चशिखाचार्य्यै: “स्‍वल्‍पसङ्कर: सपरिहार: सप्रत्‍यवमर्ष:” इति। स्‍वल्‍पसङ्कर इति - ज्‍योतिष्टोमप्रभृतियागजातस्‍य प्रधानस्‍य अपूर्व्वस्‍य स्‍वल्‍पेन पशुहिंसादिसम्‍भवेन अनिष्टसाधकेन अपूर्व्वेण सङ्कर:। सपरिहार इति - स्‍वल्‍पप्रायश्चित्तेनापि निराकरणयोग्य:, प्रमादाश्च अननुष्ठिते प्रायश्चिते कर्म्‍मविपाकदशायाम् अवश्‍यमेवानर्थसमुत्‍पाद:। सप्रत्यवमर्ष इति - प्रत्‍यवमर्षेण सहिष्‍णुतया सह वर्त्तमान:, यथोक्तम् - “मृष्यन्‍ते हि पुण्‍यसम्‍भारोपनीत-स्‍वर्गसुधामहाह्रदावगाहिन: कुशला: पापमात्रोपपादितां दु:खवह्निकणिकाम्” इति।
अत एवेत्‍यादि - क्रतूपकारकत्‍वनरकत्‍वजनकत्‍वयो: मिथोविरोधविरहात् तथा कल्‍पनं सङ्गच्‍छते, क्रतोरेव अश्वमेधादि यागस्‍यैव, स्‍वर्गजनकत्‍वं दु:खासम्भिन्न-सुखरूपस्‍वर्गहेतुत्‍वं, तत्तद्विशेषविधि: - ‘स्‍वर्गकाम: अश्वमेधेन यजेत’ इत्‍यादि स्‍वर्गफलाद्यावेदकविधि:।
अथ पदानां शक्तिं निरूपयति - तत्तदित्‍यादिकमारभ्य। भगवदिच्‍छा च घटपदात् घटो बोद्धव्य इत्‍याद्याकारिका, तत्र घटपदजन्यबोधविषयत्‍वं प्रकार: घटश्च विशेष्‍य:, ‘घटो घटपदजन्‍यबोधविषयतावान् भवतु’ इत्‍याकारो निष्‍कृष्ट:।
जातौ व्‍यक्तौ वैशिष्ट्ये च इत्‍यादि उक्तपदार्थत्रये एव पदानां शक्ति:, तथा च आश्रयत्‍वसम्‍बन्‍धावच्छिन्ना या घटपदजन्‍यबोधविषयत्‍वप्रकारता, तन्निरूपितविशे-ष्‍यत्‍वं घटे, अवच्‍छेदकत्‍वसम्‍बन्‍धावच्छिन्ना या तादृशबोधविषयत्‍वप्रकारता, तन्नि-रूपितविशेष्‍यत्‍वं घटत्‍वे, स्‍वनिरूपितावच्‍छेदकतावच्‍छेदकसंसर्गत्‍वसम्‍बन्‍धाव-च्छिन्ना तादृशबोधविषयत्‍वप्रकारता तन्निरूपितविशेष्‍यत्‍वं घटत्‍वप्रतियोगिकसमवाये इति पदार्थत्रये एव निरुक्तविशेष्यत्‍वरूपवाच्‍यत्‍वोपपत्ति:।
तेष्‍वेव इति प्रत्‍येकं तत्तद्वर्णेष्‍वेव, एकाक्षरकोषोक्तेति - “अकारो वासुदेव-स्स्‍यात् आकारस्‍य पितामह” इत्‍यादि कोषवचनबोधितेत्‍यर्थ:। पदज्ञानस्‍य कारण-त्‍वात् आदौ पदश्रवणं, ततः शक्तिधी:, तदनन्‍तरं व्‍यापार: पदार्थज्ञानं, तत: शाब्‍दबोध इति।
अथ शक्तिग्रहणकारणं निरूपयति - शक्तिग्रहमित्‍यादिना। पाचक इत्‍यादि - पचधातोर्व्विक्लित्त्‍यनुकूलव्‍यापारोऽर्थ:। वुण्प्रत्‍ययस्‍य कर्त्तृत्‍वं, तत्‍पर्य्यालोचनया पाककर्त्ता इति बोध:। उपमा यथा - गौरिव गवय इत्‍यादि। यत्र अरण्‍यस्‍थेन केनचित् ग्रामीणं प्रति उक्तं गोसदृशो गवयपदवाच्‍य इति, पश्चात् ग्रामीणेन क्वचिदरण्‍यादौ गवयो दृष्टस्‍तत्र गोसादृश्‍यदर्शनं यज्जातं तत् उपमितिकरणं, तदनन्‍तरं गोसदृशो गवयपदवाच्‍य इति, अतिदेशवाक्‍यार्थस्मरणं यज्जायते तदेव व्‍यापार:, तदनन्‍तरं तत्र गवयो गवयपदवाच्‍य इति ज्ञानं यज्जायते तदुपमिति:, नतु अयं गवयपदवाच्‍य इत्‍युपमिति:, गवयान्‍तरे शक्तिग्रहाभावप्रसङ्गादिति मुक्तावली।
शब्‍दान्‍तरेण तत्‍पर्य्यायेण अपशब्‍देन तदर्थकथनं तस्‍यैव अर्थविवरणम्, यथा - अत्र घटो नास्ति इत्युक्ते यत्र श्रोता प्रकृत्‍यर्थं धारयति तदनन्‍तरमेव कलसो नास्ति इत्‍युक्ते प्रकृतमर्थमनुधारयति तत्र घटपदस्‍यापि घटत्‍वावच्छिन्ने शक्तिरिति प्रतिपद्यते।
अथ शब्‍दं निरूपयति - स च इत्‍यादिना। द्विविध इति तदुक्‍तं- “शब्‍दोध्‍वनिश्च वर्णश्च मृदङ्गादिभवो ध्‍वनि:। काष्ठसंयोगादिजन्‍या वर्णास्‍ते कादयो मता:। सर्व्व: शब्‍दो नभोवृत्ति: श्रोत्रोत्पन्नस्‍तु गृह्यते”॥ इति
वर्णात्‍मक एवेति - एवकारो ध्‍वन्‍यात्‍मकशब्‍दव्‍यवच्‍छेदकशक्त्यादिज्ञानद्वारा अबाधबोधकत्‍वलक्षणसाधुत्‍वस्‍य व्‍याकरणपरिगृहीतत्‍वरूपसाधुत्‍वस्य वा ध्‍वन्‍या-त्‍मकशब्‍दे असत्त्‍वात्।
सोऽपि द्विविध इति वैयाकरणमते मुख्‍यलाक्षणिकादिभेदेन। शब्‍द: षोढ़ा कथ्यते, तद्यथा - “मुख्‍यो लाक्षणिको गौण: शब्‍द: स्‍यादौपचारिक:। यौगिको योगरूढश्च शब्‍द: षोढा निगद्यते”॥ इति।
पाचकादिरिति - पाचकपदस्‍य व्‍युत्‍पत्तिगतार्थ एव मुख्‍य:, नतु तदतिरिक्तस्‍तदर्थ:। गोपदस्‍य “गमेर्डोरि” 1 ति व्‍युत्‍पत्तिपर्य्यालोचनया गमनकर्त्तृ-रूपार्थ एव व्‍यवतिष्ठते। स च ‘गौ: शेते’ इत्‍यादौ अनुपयुक्त इति अवयवार्थ-परित्‍यागेन समुदाये अतिरिक्तोऽर्थ: कल्‍प्यते। द्रव्‍यगुणक्रियाजातिभेदादिति, तदुक्तं - “शब्‍दैरेभि: प्रतीयन्ते जातिद्रव्‍यगुणक्रिया:। चातुर्व्विध्‍यादमीषान्‍तु शब्‍द उक्तश्चतुर्व्विध”॥ इति।
अथ उक्तानां यौगिकादिभेदेन चतुर्व्विधानां शब्‍दानां लक्षणं पृथक् निर्व्वक्ति -समुदायेत्‍यादिना । प्रायेण एतत् स्‍पष्टं पूर्वलक्षणे व्‍याख्‍यातञ्च।
अथ वाचकसामान्‍यलक्षणमाह - साक्षादित्‍यादिना। सङ्केतितं सङ्केतेन विषयीकृतं सङ्केतनिरूपितविशेष्‍यताश्रयम् अर्थं, साक्षादित्‍यनेन लक्षकव्‍यवच्छेद:, लक्षणास्‍थले शक्यार्थस्‍य लक्ष्‍यार्थविशेषणतया उपस्थिते:। ईश्वरसङ्केतित: ईश्वरस्‍य इच्‍छया विषयीकृत:, तेन लाक्षणिकशब्‍देन तस्‍य लक्ष्यार्थस्‍य उपस्थिति: स्‍मृति: न तु मुख्‍यार्थस्‍य इत्‍यर्थ:। मुख्‍यार्थस्‍य बाधे एव लक्षणायाः प्रवृत्ते:। वृत्तिर्द्विविधा इति - आलङ्कारिकै: व्‍यञ्जनाख्‍या वृत्तिरपरा कल्प्यते, नैयायिकैस्‍तु व्‍यञ्जनाप्रतिपाद्यस्‍य अर्थस्‍य उदीच्‍यमानसम्बोधेनैव निर्व्वाह इति नाधिका वृत्ति: कल्‍प्यते। शक्ति: निरूपिता “अथ शक्तिनिरूपण” मिति प्रस्‍तावे इति शेष:।
सा च लक्षणेति “लक्षणा शक्यसम्‍बन्‍धस्‍तात्‍पर्य्यानुपपत्तित” इति नैयायिका:, “मुख्‍यार्थबाधे तद्योगे” इत्‍यादि च आलङ्कारिकसन्‍दर्भ:। सैव च लक्षणा मुख्‍यार्थसम्‍बन्‍ध एव इत्‍यनेन नैयायिकमतानुगतत्‍वं रक्षितम्।
अग्निर्माणवक इति अग्निसदृश: माणवक इत्‍यर्थ:। अत्र अग्निशब्‍दस्‍य अग्निसदृशे लक्षणा, गौर्वाहीक इत्‍यत्रापि वाहीकस्‍य जाड्यमान्द्यादिगुणसाधनेन गोसदृशत्‍वप्रत्‍यय इति गोसदृशे लक्षणा। अत्र रूढि़प्रयोजनयो: विरह:। अचेतनस्‍येति हेतुगर्भविशेषणमिदं, क्रोशनस्‍य सचेतनधर्म्मत्‍वादिति भाव:।
तात्‍पर्य्यानुपपत्त्या इति - “वक्तुरिच्‍छा तु तात्‍पर्य्य” मिति - वक्तुरिच्‍छया कुन्‍तधारिपुरुषप्रवेशविषयकत्‍वात् लक्षणां विना शक्यार्थमात्रमादाय तद्बोधानुपपत्ति:।
जहत्स्‍वार्थाजहत्‍स्‍वार्थयोर्व्विवरणं कृतपूर्व्वम्। यत्र शक्यार्थेऽपि क्रियाद्यन्‍वयो तत्र अजहत्स्‍वार्था, यत्र न शक्यार्थ: तथा तत्र जहत्स्‍वार्थेति समास:। तीरमेवेति - एवकारेण जलप्रवाहरूपशक्यार्थस्‍य व्‍यवच्‍छेदात् प्रकृतस्‍य जहत्स्‍वार्थत्‍वं प्रकटी-कृतम्। अथ यदि गङ्गादिपदेन तीरादिमात्रं प्रत्‍याय्यते तदा कथं गङ्गापदात् न सरोवर-तीरादिलाभ: स्‍यात्? यदि च गङ्गासम्‍बन्धितया, तदापि कथं जहत्स्‍वार्थत्‍वम्? विशेषणतया गङ्गादेरपि लक्ष्‍यार्थे अन्‍वयेन परम्‍परया क्रियान्‍वयात् इति चेत्? न, य-त्‍पदजन्‍यबोधे स्‍वार्थो न विशेष्‍यतया भात:, तस्‍यैव पदस्‍य जहत्स्‍वार्थाख्‍यलक्षणा-भ्‍युपगम:। प्रकृते गङ्गापदजन्‍यबोधे तत्‍सम्‍बन्धितीरं विशेषणतया भासते, नतु गङ्गा।
अथ वीप्सार्थं विचारयति - तत्र वीप्सेत्‍यादिना। गृहत्‍वसमानाधिकरणेत्‍यादि - अत्र व्‍यापकतया घटकात्यन्‍ताभावे प्रतियोगिवैयधिकरण्‍यं निवेश्‍यम्। अन्‍यथा यत्र गृहे अश्व: तत्रैव किञ्चिद्देशावच्‍छेदेन अश्वाभावस्‍यापि सत्त्‍वात् अश्वानां गृहत्‍व-समानाधिकरणात्‍यन्‍ताभावप्रतियोगित्‍वात् न व्‍यापकत्‍वमुपपद्यते, तन्निवेशे च अन्‍य-देशव्यवच्‍छेदेन सतोऽपि तदभावस्‍य न प्रतियोगिवैयधिकरण्‍यं प्रतियोगिनोऽश्व-स्‍यापि तदधिकरणे वृत्तेरित्‍यनुसन्‍धेयम्।
गृहपदादीनां गृहैकदेशादिपरत्‍वे तु न प्रतियोगिवैयधिकरण्‍यादिकमपि निवेश्‍यम्, अश्वावच्छिन्नदेशावच्‍छेदेन तद्भावस्‍य आवर्त्तमानत्‍वात्। एवमुत्तरत्रापि।
वीप्सास्‍थले व्‍यापकत्‍वबोधोऽनादिसिद्ध एव तात्‍पर्य्यग्राहकञ्च द्विर्वचनम्, यथा “यो यो धूमवान्, स स वह्निमान्” इत्‍यादौ वह्नौ धूमव्‍यापकत्‍वभानम्, तथा सर्व्वत्रैव वीप्सासम्‍भव इति।
आत्‍मन: पुत्रमिच्छतीत्‍यादि - अत्र कौमारे “नाम्नः आत्मेच्छायां यिन्” 1 इति सूत्रं, तत्र नाम्न इति कर्म्‍मणि षष्ठी, आत्‍मन इच्‍छा इति कर्त्तरि षष्ठ्यन्‍तात्‍मशब्‍देन समासाच्च आत्‍मवृत्तीच्‍छाव्‍याप्‍यकर्म्‍मभूतनामोत्तरं यिन् (क्यच्) प्रत्‍यय: श्रूयते। तेन दु:खमिच्‍छति अघमिच्‍छति इत्‍यादिषु न यिन्, नहि कश्चिदात्‍मनो दु:खं अघं वा इच्‍छति अपि तु परस्‍यैवेति। आत्‍मन: पुत्रीयति इत्‍यादिस्‍तु न प्रयोग: सापेक्षत्‍वात्, “न सापेक्षे समासश्च” इति नियमे चकारेण आख्‍यातप्रत्‍ययस्‍यापि निर्द्देशात्। परस्‍यापि राजीयति इत्‍यादौ साधनप्रणाली स्‍वस्‍वव्‍याकरणे अनुसन्‍धेया।
“उपमानादाचारे” इति - अत्र आचारो मननस्‍वरूप:, अत एव पुत्रीयति माणवकमित्‍यादौ सकर्म्‍मकत्‍वमनुसन्‍धेयम्। पुत्रशब्‍देन लक्षणया पुत्रसदृशरूपार्थो बोध्‍यते, इवशब्‍दो द्योतक:, ततश्च युक्तार्थत्‍वेन वा इवशब्‍दार्थस्‍य द्योतितत्‍वात् पुत्रीयति इत्‍यादाविव शब्‍दस्‍याप्रयोग एव, यथा शस्‍त्रीव श्‍यामा शस्‍त्रीश्‍यामा इत्‍यादौ।
अथ सङ्ख्‍यां विचारयति - एकमित्‍यादिना। दशवृद्ध्या यथोत्तरमिति - तथा च दशदशकेन शतं, दशशतकेन सहस्रं, दशसहस्रकेण अयुतं, दशायुतकेन लक्षम्, दशलक्षकेण नियुतम्, दशनियुतकेन कोटिः, दशकोटिभि: अर्ब्बुदम्, दशार्ब्बुदकेन बृन्दं, दशबृन्‍देन खर्व्वं, दशभि: खर्व्वै: निखर्व्व:, दशभि: निखर्व्वै: शङ्खः, दशभि: शङ्खै: पद्म:, दशभिः पद्मै: सागर:, दशभि: सागरै: अन्‍त्यं, दशभि: अन्‍त्यैः मध्‍यं, दशभि: मध्‍यै: परार्द्धमिति।
ऊनविंशत्‍यादेरिति। उभयत्रैव सङ्ख्‍याविशिष्टे च शक्तिरिति शेषः। सामानाधिकरण्‍येन इत्‍यादि - यथा ऊनविंशतिर्ब्राह्मणा इत्‍यादौ, अत्र सामानाधि-करण्‍येन ब्राह्मणपदार्थे ऊनविंशतिशब्‍दार्थस्‍य अन्‍वय:। ब्राह्मणानाम् ऊनविंशतिः इत्‍यत्र ऊनविंशतिसङ्ख्‍याया ब्राह्मणपदार्थस्‍य वैयधिकरण्‍येन अन्वय:, सामानाधि-करण्‍येनान्‍वयं प्रति समानविभक्तिमत्त्‍वस्‍य तन्‍त्रत्‍वात्। एषामित्‍यादि - “विंशत्‍याद्या: सदैकत्‍वे नित्‍यं सङ्ख्‍येयसङ्ख्‍ययो” रिति कोषवादात्। ऊनविंशत्‍यादीनां सङ्ख्‍यायां सङ्ख्‍येये च शक्तिरवसेया, विंशते: शब्‍दपरत्‍वनिर्द्देशेन ऊनविंशति-शब्‍दस्‍यापि लाभात्।
यत्र तु इत्‍यादि - यथा “ब्राह्माणानां द्वे विंशती भोज्य” इत्‍यादि:। एकादिचतुरन्‍तानां लिङ्गविशेषे वैषम्‍यमस्‍तीति त्रिषु तद्वृत्तित्‍वस्‍वीकार:। पञ्चादीनान्‍तु सर्वत्रैव लिङ्गे समरूपत्‍वात् न लिङ्गवैषम्यस्‍वीकारप्रयोजनम्। त्रयो ब्राह्मणा इति बहुवचने बहुत्‍वप्रतिपादनात् ब्राह्मणा इत्‍येतन्‍मात्रेण बहुत्‍वावच्छिन्नब्राह्मणबोध: स्‍यात् न तु विशेषत: त्रित्‍वादिकं, अत एव विशेषतस्त्रित्‍वादिबोधनाय त्रिशब्‍दादिकं तत्तत्‍स्‍थलेषु अपेक्ष्‍यते। द्वौ ब्राह्मणौ इत्यत्र यद्यपि ब्राह्मणौ इत्‍यनेनैव द्वित्‍वावच्छिन्न-ब्राह्मणबोध: जायते तथापि द्रुतं द्वित्‍वबोधाय तदिति निवेदितमेवेति व्‍याख्‍यायमानवस्‍तुसङ्क्षेप:॥
इति काव्यव्‍याकरणतर्कतीर्थविद्यावारिधि श्री कालीपदतर्काचार्य्यकृता
सारदीपिकानाम्नी सारमञ्जरीव्‍याख्‍या समाप्‍ता॥ ओं तत्‍सत्।