साधनपश्चकम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
साधनपश्चकम्
शङ्कराचार्यः
१९५३

॥ साधनपश्चकम् ॥

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मनस्त्यज्यताम् । पापौघः परिभूयतां भवसुखे दोषोनुसन्धीयता- मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ सङ्गस्सत्सु विधीयतां भगवतो भक्तिर्दृढा धीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् । सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुके सेव्यतां ब्रह्मै- वाक्षरमर्थ्यतां श्रुतिशिरो वाक्यं समाकर्ण्यताम् ॥ २ वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षस्समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोनुसन्धीयताम् । ब्रह्मैवास्मि विभाव्यतामहरहो गर्वः परित्यज्यतां देहोहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ क्षुब्द्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्य- तां स्वाद्वन्नं न च याच्यतां विधिवशात्प्राप्तेन सन्तुष्यसाधनपश्चकम् ५१३

ताम् । शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यतामौदासन्यिमभीप्स्यतां जनकृपानेष्ठुर्यमुत्सृ- ज्यताम् ॥ ४ एकान्ते सुखमास्यतां परतरे चेतस्समाधीयतां पूर्णात्मानुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् । प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परं ब्रह्मात्मना स्थीयताम् ॥ ॥ फलश्रुतिः॥ यः श्लोकपञ्चकमिदं पठते मनुष्यः सञ्चिन्तय त्यनुदिनं स्थिरतामुपेत्य । तस्याशु संसृतिदवानलती- व्रघोरताप: प्रशान्तिमुपयाति चितिप्रभावात् ॥ ६ इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्कर- भगवत्पादाचार्यविरचितं साधनपञ्चकम् ॥