सामग्री पर जाएँ

साङ्ख्यसारः

विकिस्रोतः तः
साङ्ख्यसारः
[[लेखकः :|]]

साङ्ख्यसारः ।
पूर्वभागः ।
प्रथमः परिच्छेदः ।

महदाख्यः स्वयम्भूर्यो जगदङ्कुर ईश्वरः ।
सर्वात्मने नमस्तस्मै विष्णवे सर्वजिष्णवे ॥ १ ॥
साङ्ख्यकारिकया लेशादात्मतत्त्वं विवेचितम्‌ ।
साङ्ख्यसारविवेकोऽतो विज्ञानेन प्रपञ्च्यते ॥ २ ॥
प्रायः सङ्कलिता साङ्ख्यप्रक्रिया कारिकागणे ।
साऽतोऽत्र वर्ण्यते लेशात्‌ तदनुक्तांशमात्रतः ॥ ३ ॥
साङ्ख्यभाष्ये प्रकृत्यादेः स्वरूपं विस्तरान्‌ मया ।
प्रोक्तं तस्मात्‌ तदप्यत्र सङ्क्षेपादेव वक्ष्यते ॥ ४ ॥
आत्मानात्मविवेकसाक्षात्कारात् कर्तृत्वाद्यखिलाभिमाननिवृत्त्या तत्कार्यरागद्वेषधर्माधर्माद्यनुत्पादात्‌ पूर्वोत्पन्नकर्मणां चाविद्यारागादिसहकार्युच्छेदरूपदानेन विपाकानारम्भकत्वात्‌ प्रारब्धसमाप्त्यनन्तरं पुनर्जन्माभावेन त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीति श्रुतिस्मृतिडिण्डिमः । तत्र श्रुतयः । अथाकामयमानो योऽकामो निष्कामो न तस्य प्राणा उत्क्रामन्तीहैव समवलीयन्ते ।
आत्मानं चेद्विजानीयादयमस्तीति पूरुषः ।
किमिच्छन्‌ कस्य कामाय शरीरमनुसञ्चरेत्‌ ॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥
कामान्‌ यः कामयते मन्यमानः
स कर्मभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वे प्रविलीयन्ति कामाः ॥
इत्याद्याः । स्मृतयश्च कौर्माद्याः । यथा कौर्मे ।
रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।
कार्यो ह्यस्य भवेद्दोषः पुण्यापुण्यमिति श्रुतिः ॥
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
इति । मोक्षधर्मे च ।
इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतर्षुलम्‌ ।
हीनश्च करणैर्देही न देहं पुनरर्हति ॥
तस्मात्‌ तर्षात्मकाद्‌ रागाद्‌ बीजाज्जायन्ति जन्तवः ।
इति । ननु रागाभावेऽपि केवलकर्मवशान्नरकादिप्राप्तेः कथं रागस्य कर्मसहकारित्वं विपाकारम्भ उपपन्नम्‌ । नरकादौ विशेषतो रागाभावेऽपि सामान्यतो रागसत्त्वात्‌ । निषिद्धस्त्र्यादिगामिनां स्त्र्यादिरागादेव तप्तलोहमयनारीसमालिङ्गनादिरूपनरकोत्पत्तेः । यद्यप्यविद्यास्मितारागद्वेषभयाख्यं क्लेशपञ्चकमेव जन्मादिविपाकारम्भे कर्मणां सहकारि भवति ।
तदेव सक्तः सह कर्मणैति
लिङ्गं मनो यत्र निषिक्तमस्य ।
इति श्रुतावभिमानरागद्वेषादिजन्यस्य विषयवासनाख्यसङ्गसामान्यस्यैव जन्मादिविपाकारम्भे कर्मसहकारित्वसिद्धेः ।
यत्र यत्र मनो देही धारयेत्‌ सकलं धिया ।
स्नेहाद्द्वेषाद्भयाद्वाऽपि याति तत्तत्सरूपताम्‌ ॥
इत्यादिस्मृतेश्च । तथा च क्लेशमूलः कर्माशयः । सति मूले तद्विपाको जात्यायुर्भोगा इति योगसूत्राभ्यामप्यदृष्टे तद्विपाकारम्भे च क्लेशानां हेतुत्ववचनाच्च । तथाऽप्यविद्यास्मितासत्त्वे रागस्यावश्यकत्वाद्द्वेषभययोश्च रागमूलकत्वाद्राग एव मुख्यतो जन्मादिहेतुतया यथोक्तवाक्यैर्निर्दिश्यत इति । ननु ।
क्षीयन्ते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे ।
इत्यादिश्रुतेर्ज्ञानस्य प्राचीनकर्मनाशकत्वमेवोचितं दाहकत्वं कथमिष्यत इति चेन्न ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।
इत्यादिवाक्यैर्दाहस्यापि श्रवणेन लाघवाद्दाहपरत्वस्यैव नाशादिवाक्येष्वपि कल्पनौचित्यात्‌ । कर्मणां दाहश्च क्लेशाख्यसहकार्युच्छेदेन नैष्फल्यम् । कर्मणां नाशस्तु प्रारब्धभोगान्ते चित्तनाशादेव भविष्यति । अतो लोकसिद्धेनाविद्यानाशेनैव द्वारेण कर्मफलानुत्पत्तिसम्भवान्न ज्ञानस्य कर्मनाशकत्वं गौरवादित्यादिकं योगवार्त्तिके प्रप्रञ्चितमस्माभिरिति दिक्‌ । तस्माद्विवेकसाक्षात्कारादविद्यास्मितारागादिक्लेशनिवृत्तौ त्रिविधदुःखात्यन्तनिवृत्तिरूपपरमपुरुषार्थः सिद्ध्यतीत्युपपन्नम्‌ । तथा च योगसूत्रद्वयम्‌ । हेयं दुःखमनागतम्‌ । विवेक्ख्यातिरविप्लवा हानोपाय इति ।

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारेऽभ्यर्हितत्त्वादादौ विवेकख्यातिफलस्य परमपुरुषार्थस्य परिच्छेदः ॥ * ॥



अथ द्वितीयः परिच्छेदः

अथात्मानात्मविवेकज्ञानस्य किं स्वरूपं तदुच्यते । आत्मा तावत्‌ सुखदुःखाद्यनुभवितेति सामान्यतो लोकप्रसिद्धिः अनात्मा च प्रकृत्यादिर्जडवर्गः तयोरन्योन्यवैधर्म्येण परिणामित्वापरिणामित्वादिरूपेण दोषगुणात्मकेन हेयोपादेयतया पृथक्त्वेन ज्ञानं विवेकज्ञानम्‌ । तथा च श्रुतिः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यतीत्यादि । स्मृतिश्च ।
सोऽथ प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः ।
स्वतोऽन्यां विक्रियां मौढ्यादास्थितामञ्जसैक्षत ॥
अथासौ प्रकृतिर्नाहमियं हि कलुषात्मिका ।
शुद्धबुद्धस्वभावोऽहमिति त्यजति तां विदन्‌ ॥
एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते ।
निखिला सविकारेयं त्यक्तप्रायाऽहिचर्मवत्‌ ॥
इति । सूत्रं च । एवं तत्त्वाभ्यासान्नेति नेतीति त्यागाद्विवेकसिद्धिरिति । तत्त्वज्ञानस्य लक्षणं च मात्स्ये कृतम्‌ ।
अव्यक्ताद्ये विशेषान्ते विकारेऽस्मिंश्च वर्णिते ।
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ॥
इति । यद्यप्यन्योन्यभेदज्ञानमेव विवेकज्ञानं तथाप्यात्मविशेष्यकमेव तन्मोक्षकारणं भवति । आत्मा वाऽरे द्रष्टव्य इत्यादि श्रुतिस्मृतिभ्यः । नन्वनात्मन्यात्मबुद्धिरूपा याऽविद्या पातञ्जलादिषूक्ता तस्याः कथमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदादिति चेन्न । तादृशाविद्याया अनात्मविशेष्यकविवेकज्ञानद्वारेणात्मविशेष्यकविवेकज्ञाननाश्यत्वादिति । यच्च योगेन निर्विकल्पकमात्मज्ञानं जायते तद्विवेकज्ञानद्वारैव मोक्षकारणं भवति न तु साक्षादविद्यानिवर्तकत्वाभावात्‌ । अहं गौरः कर्ता सुखी दुःखीत्यादि ज्ञानमेव ह्यविद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्तिका नाहं गौर इत्यादिरूपा विवेकख्यातिरेव भवति । समाने विषये ग्राह्याभावत्वप्रकारकग्राह्याभावज्ञानत्वेनैव विरोधात्‌ । अन्यथा शुक्तनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः । किञ्च यतोक्ताभावज्ञाने ग्राह्यज्ञानविरोधित्वस्यावश्यकतया निर्विकल्पकज्ञानस्य भ्रमनिवर्तकत्वं न पृथक्‌ कल्प्यते गौरवात्‌ । अपि चाथाऽत आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्‌ परमस्तीत्यादिश्रुत्या विवेकोपदेशापेक्षयोत्तमोपदेशो नास्तीत्युच्यते ।
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्‌ ॥
इति गीतादिवाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमुच्यते । अतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः । योगेन केवलात्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयोपाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राहयति ततोऽविद्यानिवृत्तिरिति । एतेन सर्वभूतेषु समताज्ञानमात्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेकज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम्‌ । ज्ञानान्तराणां साक्षादभिमानानिवर्तकत्वात्‌ । ब्रह्ममीमांसायां त्वयं विशेषो यत्‌ परमात्मविवेकशेषत्वम्‌ । साङ्ख्यशास्त्रे तु सामान्यात्मविवेकशेषत्वमिति दिक्‌ । ननु यथोक्तविवेकख्यातितोऽप्यत्यन्तमविद्योच्छेदो न घटते । विवेकख्यातेरविद्याप्रतिबन्धकत्वमात्रत्वेन विवेकख्यातिनाशोत्तरं पुनरभिमानसम्भवात्‌ । शुक्तिरजतविवेकदर्शिनोऽपि कालान्तरे शुक्तौ रजतभ्रमवदिति । मैवम्‌ । दृष्टान्तवैषम्यात्‌ । शुक्त्यादिषु जातेऽपि साक्षात्कारे दूरत्वादिरूपविषयदोषाणां पटलादिरूपकरणदोषाणां चोत्पत्तिसम्भवेन पुनर्भ्रमो युक्तः । अनात्मन्यात्माभिमाने त्वनादिवासनैव दोषः सर्वास्तिकसम्मतः जातमात्रस्याभिमाने दोषान्तरानुपलब्धेः । सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराजन्यदृढवासनोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोच्यते । तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्याप्यात्मनि भावात् तस्यां च विवेकख्यातिनिष्ठायां जातायां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावादिति तु महद्वैषम्यम्‌ । यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिबिम्बनादिकमविवेककारणं दोष इष्यते तदा तु तद्दोषं बाधित्वैव विवेकसाक्षात्कार उदित इति न तस्य पुनर्भ्रमहेतुत्वं फलबलेन योगजधर्मासहकृतस्यैव तस्य दोषत्वकल्पनासम्भवादिति । विवेकख्यातिनिष्ठा च गीतादिषु लक्षिता ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
इति । गुणातीतो निवृत्तगुणाभिमानः । अधिकं तु ज्ञानिलक्षणमग्रे वक्ष्यामः । नन्वेवमपि विवेकप्रतियोगिपदार्थानामानन्त्येन प्रातिस्विकरूपैः सर्वपदार्थेभ्यो विवेकग्रहासम्भवात्‌ कथं विवेकख्यातेर्मोक्षहेतुत्वमिति चेन्न । दृश्यत्वपरिणामित्वादिसामान्यरूपैर्विवेकग्रहसम्भवात्‌ । तथा हि । द्रष्टा स्वसाक्षात्प्रकाशेभ्यो भिन्नः प्रकाशकत्वाद्यो यस्य प्रकाशकः स तस्माद्भिन्नः यथा घटादालोको वृत्तिप्रकाश्याच्च वृत्तिरित्यनुमानेनादावन्तर्दृश्येभ्यो बुद्धिवृत्तितदारूढार्थेभ्यो विवेकतो बुद्धीसाक्षी सिध्यति । कर्मकर्तृविरोधश्चानुकूलस्तर्कः । अत्र आत्मनि व्यभिचारवारणाय साक्षात्पदम्‌ । वृत्तिद्वारैवात्मनः स्वविषयत्वात्‌ । नन्वत्रानुमाने बुद्धिवृत्तिमात्राद्विवेकः सिध्यतु । तस्या एव साक्षदात्मदृश्यत्वात्‌ न प्रकृत्यादिभ्य इति चेन्न । वृत्तीनामज्ञातसत्त्वाभावेन ह्यत्रानुमाने लाघवाद्वक्ष्यमाणतर्कगणाच्चाखिलवृत्तीनां द्रष्टा विभुकूटस्थनित्यैकज्ञानस्वरूपतयैव सिध्यति । यथा नैयायिकानां क्षितिः सकर्तृका कार्यत्वादित्यनुमाने लाघवात्‌ कर्तुरेकत्वनित्यत्वादिकं तद्वत्‌ । तत्र विभुत्वं परिच्छिन्नभिन्नत्वं कूटस्थत्वादिकत्वं च परिणामिभिन्नत्वादिकमतो बुद्ध्यात्मनोर्दृग्दृश्यरूपतो विवेकग्रहे सति तदुत्तरानुमानेन परिणामित्वापरिणामित्वादिरूपैः सामान्यतोऽप्यात्मानात्मविवेकग्रहो घटत इति । अतएव पातञ्जले सत्त्वपुरुषान्यताख्यातिरेव मोक्षहेतुतया स्थले स्थले व्यासभाष्ये प्रोक्ता । सत्त्वपुरुषान्यताख्यातिरूपदृग्दृश्यविवेकग्रहोत्तरं यथोक्तरीत्या प्रकृत्यादिविवेकग्रहात्‌ । तत्र च सत्त्वशब्दे बुद्धिस्थत्वेन बुद्धिसत्त्वमुक्तमिति । एवं च प्रकृत्यादिपदार्थानां विशिष्यज्ञानाभावेऽपि तद्विवेकज्ञानं घटते । एतेन दृग्दृश्यविवेकादविद्यानिवृत्तिरिति प्राचां प्रवादोऽप्युपपादितः । किञ्चात्मा प्रकृतितत्कार्येभ्यो भिन्नोऽपरिणामित्वादित्याद्यनुमानैरपि सामान्यतो दृश्यविवेको द्रष्टरि सम्भवतीति । यत्त्वाधुनिका वेदान्तिब्रुवा दृश्यत्वेनैव प्रकृत्यादीनां द्रष्टृत्वेन च प्रकृत्याद्यखिलजडेभ्य आत्मविवेकं मन्यन्ते ।
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।
देहद्रष्टा तथा देहो नाहमित्यादिरूपतः ॥
तन्न । आत्मा वाऽरे द्रष्टव्य इत्यादिश्रुतिभिरात्मनोऽपि दृश्यत्वात्‌ साक्षाद्दृश्यत्वविवक्षया च प्रकृत्यादेरसङ्ग्रहात्‌ करणद्वारैव तद्दर्शनात्‌ । अथैवं कल्पनीयं आत्मनो वृत्तिव्याप्यत्वमेव दृश्यत्वं श्रुत्यादिभिर्विधीयते न तु प्रकाश्यत्वरूपफलव्याप्यत्वम्‌ । स्वयम्प्रकाशस्वरूपस्य प्रकाशापेक्षाविरहात्‌ । अतोऽत्र दृश्यत्वं प्रकाश्यत्वं तच्चात्मनि नास्तीति तदपि तुच्छम्‌ । यथा ह्यहमित्यनुभूयमानोऽप्यात्मा चैतन्याख्यफलव्याप्यो न भवतीति भवद्भिरुच्यते तथैव बौद्धैरपीष्यते सुखदुःखादिमत्त्वेनापि बुद्धिः स्वप्रकाशतया चैतन्यव्याप्या न भवतीति । तथा चात्मनीव बुद्धावपि दृश्यत्वासिद्ध्या दृश्यत्वेन रूपेण बुद्धिविवेकोऽत्यन्तापेक्षितोऽपि न सिध्यतीति भाष्यादिषु चान्यान्यत्र दूषणान्युक्तानीति दिक्‌ । ननु सम्भवत्येवं सामान्यरूपेण विवेकग्रहः । तथापि सामान्यान्येव बहूनि सन्ति परिणामित्वसंहत्यकारित्वसुखदुःखमोहात्मकत्वचतुर्विंशतितत्त्वत्वादीन्यतस्तैस्तै रूपैर्विवेकग्रहाणां मोक्षहेतुत्वेऽननुगमदोष इति चेन्न । अभिमानप्रतिबन्धकज्ञानत्वेनैवानुगमादिति । अथैवं सामान्यरूपेण विवेकस्यैव सर्वाभिमाननिवर्तकतया नाहं देहो नेन्द्रियाणित्यादिप्रत्येकरूपैर्विवेकग्रहाणां मोक्षहेतुत्वं श्रुतिस्मृत्योरुच्यमानं कथं घटेतेति चेन्न । अवान्तरविवेकानां सामान्यविवेकप्रपञ्चमात्रत्वादिति ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे मोक्षहेतुविवेकज्ञानस्य स्वरूपस्य परिच्छेदः ॥ * ॥



अथ तृतीयः परिच्छेदः ।

अथ के ते प्रकृत्यादयो येभ्यः पुरुषो विवेचनीय इत्युच्यते ।
प्रकृतिर्बुद्ध्यहङ्कारौ तन्मात्रैकादशेन्द्रियम्‌ ।
भूतानि चेति सामान्याच्चतुर्विंशतिरेव ते ॥
एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः । तत्र प्रकृतित्वं साक्षात्‌ परम्परयाऽखिलविकारोपादानत्वं प्रकृष्टाकृतिः परिणामरूपाऽस्या इति व्युत्पत्तेः । प्रकृतिः शक्तिरजा प्रधानमव्यक्तं तमो मायाऽविद्येत्यादयः प्रकृतेः पर्यायाः ।
ब्राह्मीति विद्याऽविद्येति मायेति च तथा परे ।
प्रकृतिश्च परा चेति वदन्ति परमर्षयः ॥
इति स्मृतेः । सा च साम्यावस्थयोपलक्षितं सत्त्वादिद्रव्यत्रयम्‌ । कार्यसत्त्वादिवारणायोपलक्षितान्तम्‌ । साम्यावस्था च न्यूनाधिकभावेनासंहननावस्था अकार्यावस्थेति यावत्‌ । महदादिकं तु कार्यसत्त्वादिकं न कदाऽप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः । वैषम्यावस्थायामपि प्रकृतित्वसिद्धय उपलक्षितमित्युक्तम्‌ । अकार्यमिति तूपलक्षितान्तस्य निष्कृष्टार्थः । सत्त्वादिगुणवती सत्त्वाद्यतिरिक्ता प्रकृतिरिति न शङ्कनीयम्‌ । सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति साङ्ख्यसूत्रेण सत्त्वादीनां प्रकृतिस्वरूपहेतुना प्रकृतिधर्मत्वप्रतिषेधात्‌ । योगसूत्रतद्भाष्याभ्यामपि गुणानामेव प्रकृतित्ववचनाच्च । गुणेभ्य एव कार्योत्पत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्याच्च । प्रकृतेर्गुणा इत्यादिवाक्यं तु वनस्य वृक्षा इतिवद्‌ बोध्यम्‌ ।
सत्त्वं रजस्तम इति प्रकृतेरभवन्‌ गुणाः ।
इति सत्त्वादीनां प्रकृतिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरमेव । महदादिसृष्टिर्हि गुणवैषम्यात्‌ श्रूयते । तच्च वैषम्यं सजातीयसवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति । एतेनाष्टाविंशतितत्त्वपक्षोऽप्युपपादितो मन्तव्यः । वैषम्य एव सत्त्वादिव्यवहारश्च श्रुतौ दृश्यते । यथा तम एवेदमग्र आस तत्परेणेरितं विषमत्वं प्रयात्येतद् वै रजसो रूपं खल्वीरितं विषमत्वं प्रयात्येतद्‌ वै सत्त्वस्य रूपमिति । सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणवत्तया । संयोगविभागादिमत्तयाऽनाश्रितत्वोपादानत्वादिना च द्रष्टव्येऽपि पुरुषोपकरणत्वात्‌ पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते । इन्द्रियादिवत् । गुणानां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात्‌ । मनसः सङ्कल्पात्मकत्ववत्‌ । तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकं प्राधान्यतस्तु सुखात्मकमुच्यते । एवं रजोऽपि दुःखकालुष्यप्रवृत्त्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते । तथा तमोऽपि मोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते । त एव धर्मास्तेषां लक्षणानि भवन्ति । सत्त्वादिसञ्ज्ञा चान्वर्था । सतो भावः सत्त्वमुत्तमत्वमिति व्युत्पत्त्या हि धर्मप्राधान्येनोत्तमं पुरुषोपकरणं सत्त्वशब्दार्थः । मध्यमं च रजःशब्दार्थो रागयोगात्‌ । अधमं च तमःशब्दार्थः । अधर्मावरणयोगात्‌ । तानि च सत्त्वादीनि प्रत्येकमसङ्ख्यव्यक्तयः । लघुत्वादिधर्मैरन्योन्यसाधर्म्यं वैधर्म्यं च गुणानामिति साङ्ख्यसूत्रात्‌ । अत्र हि सूत्रे लघुत्वादिना बहूनां सत्त्वानां साधर्म्यं तेनैव रजस्तमोभ्यां वैधर्म्यम्‌ । एवं चलत्वादिना गुरुत्वादिना च बहूनां रजसां बहूनां च तमसां तदुभयमुक्तमिति । किञ्च यदि सत्त्वादित्रयमेकैकव्यक्तिरेव स्यात्‌ तत्‌ त्रयं विभ्वेव वक्तव्यम्‌ । एकदाऽनेकब्रह्माण्डादिसृष्टिश्रवणात्‌ । तथा च कार्याणामनन्तवैचित्र्यं न घटते । न च संयोगवैचित्र्याद्वैचित्र्यं स्यादिति वाच्यम्‌ । विभूनां त्रयाणां गुणानां स्वतः संयोगवैचित्र्यासम्भवात्‌ । द्रव्यान्तरस्य चावच्छेदकीभूतस्याभावादिति । तस्मात्‌ सत्त्वादीन्यसङ्ख्यव्यक्तिकान्येव द्रव्याणि । तेषु त्रित्ववचनं तु सत्त्वत्वादिविभाजकोपाधित्रयेण वैशेषिकाणां नवद्रव्यवचनवदिति सिद्धम्‌ । तानि च सत्त्वादीनि यथायोग्यमणुविभुपरिमाणकानि । अन्यथा रजसश्चलस्वभावत्ववचनविरोधात्‌ । आकाशकारणत्वस्य च विभुत्वौचित्यात्‌ । सर्वेषां कारणद्रव्याणां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तेश्च । नन्वेवं वैशेषिकोक्तान्येव पार्थिवाण्वादीनि प्रकृतिरित्यायायमिति चेन्न । गन्धादिगुणशून्यत्वेन कारणद्रव्येषु पृथिवीत्वाद्यभावतोऽस्माकं विशेषात्‌ । तदुक्तं विष्णुपुराणादिषु ॥
अव्यक्तं कारणं यत्‌ तत्‌ प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम्‌ ॥
शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम्‌ ।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्‌ ॥
इत्यादिना ।
वैशेषिकाणां कारणद्रव्येषु गन्धाद्यनुमानं तु भाष्येऽस्माभिर्निराकृतम्‌ । अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरुपत्वेऽपरिच्छिन्नत्वैकत्वाक्रियत्वसिद्धान्तक्षतिरिति मैवम्‌ । कारणद्रव्यत्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनात्‌ । गन्धत्वेन गन्धानां पृथिवीव्यापकतावत्‌ । आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्धान्तोपपत्तेश्च । तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैवैकशब्दार्थत्वात्‌ । अजामेकामिति श्रुतितस्तथाऽवगमात्‌ । अथाध्यवसायाभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वात्‌ । अन्यथा श्रुतिस्मृतिषूक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति । प्रकृतिगताश्चापरे विशेषा भाष्ये द्रष्टव्याः । प्रकृत्यनुमानं चेदम्‌ । सुखदुःखमोहात्मकं महदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुःखमोहात्मकत्वात्‌ वस्त्रादिकार्यशय्यादिवदिति । श्रुतिस्मृती चात्रानुग्राहकस्तर्कः । एवं सामान्यतोऽनुमितायाः प्रकृतेर्विशेषाः शास्त्राद्योगाच्चावगन्तव्याः । अनुमानस्य सामान्यमात्रविषयकत्वात्‌ । नन्वन्तरेव सुखादिकमुपलभ्यते बाह्यवस्तुषु सुखादौ किं प्रमाणं येन दृष्टान्तता स्यादिति । उच्यते । अन्तःकरणस्य सुखादिहेतुतया विषयेषु सुखादिकं सिध्यति । न च रूपादिगतोत्तमत्वादिकमेव सुखाद्युत्पादने नियामकम्‌ । उत्तमत्वादेर्जातिरूपत्वे नीलत्वपीतत्वादिना जातिसाङ्कर्यापत्तेः । कालादिभेदैरेकस्या एव रूपव्यक्तेः सुखदुःखोत्पादकत्वाच्च । अतः सुखादिमत्त्वमेवोत्तमत्वादिकम्‌ । किञ्च घटरूपमिति प्रत्ययवत्‌ स्त्रीसुखं चन्दनसुखमित्यादिप्रत्ययादपि विषये सुखाद्युचितम्‌ । अधिकं तु भाष्ये द्रष्टव्यम्‌ । तदेवं प्रकृतिर्निरूपिता । महत्तत्त्वं निरूप्यते । प्रकृतेः सकाशाद्बुद्ध्याख्यं महत्तत्त्वं जायते । तस्य धर्मादिरूपप्रकृष्टगुणयोगान्‌ महत्सञ्ज्ञा तदेव च लक्षणम्‌ । महान् बुद्धिः प्रज्ञेत्यादयश्च तस्य पर्यायाः । तथा चोक्तमनुगीतायाम्‌ ।
महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान्‌ ।
बुद्धिः प्रज्ञोपलब्धिश्च तथा ब्रह्मा धृतिः स्मृतिः ॥
पर्यायवाचकैरेतैर्महानात्मा निगद्यते ।
सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः ॥
सर्वतः श्रुतिमांल्लोके सर्वं व्याप्य स तिष्ठति ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः ।
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत ।
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥
इति । अत्र सत्त्वाद्यंशत्रयेण महतो देवतात्रयोपाधित्वात्‌ तदविवेकेन ब्रह्मविष्णुशिवत्ववचन‌म्‌ । तदुक्तं विष्णौ ।
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान्‌ ।
इति । मात्स्ये च ।
सविकारात्‌ प्रधानात्‌ तु महत्तत्त्वमजायत ।
महानिति यतः ख्यातिर्लोकानां जायते सदा ॥
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो देवा विजज्ञिरे ।
एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
इति । अणिमेत्यादिभावनिर्देशो धर्मधर्म्यभेदात्‌ । ब्रह्मशङ्करापेक्षयाऽप्यादौ विष्णुरूपेणैव महानाविर्भवतीति विष्णुरेवेत्यर्धेनोक्तम्‌ । एकमेव महत्तत्त्वमंशतो रजस्तमःसम्भेदेन परिणतं सद्‌ व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति । महदुपरागाद्विपरीतमिति साङ्ख्यसूत्रात्‌ । महत्तत्त्वस्य प्राधान्येनासाधारण्येन चाध्यवसायो वृत्तिः । महदहङ्कारमनस्त्रितयात्मकस्यान्तःकरणस्य महत्तत्त्वं बीजावस्थेति । अत्र प्रकृतेर्महान्‌ महतोऽहङ्कार इत्यादिसृष्टिक्रमे शास्त्रमेव प्रमाणम्‌ । अनुमानेन सामान्यतः कार्याणां सकारणकत्वमात्रसिद्धेः न तु सृष्टौ भूतादिक्रमो वाऽन्तःकरणादिक्रमो वेत्येकतरवधारकमनुमानं सम्भवति । स्पष्टलिङ्गाभावात्‌ । श्रुतिस्मृत्यनुगृहीतं यथाकथञ्चिल्लिङ्गं तु महदादिक्रमेऽस्तीति भाष्येऽस्माभिः प्रदर्शितम्‌ । महत्तत्त्वं निरूपितम्‌ । अहङ्कारो निरूप्यते । महत्तत्त्वादहङ्कार उत्पद्यते । अङ्कुरात्‌ शाखावत्‌ । तस्य चाभिमानवृत्तिकत्वादहङ्कारसञ्ज्ञा । कुम्भकारसञ्ज्ञावत्‌ । तदेव लक्षणम्‌ । तस्य च पर्यायाः कौर्मे प्रोक्ताः ।
अहङ्कारोऽभिमानञ्च कर्ता मन्ता च संस्मृतः ।
आत्मा च प्रकुलो जीवो यतः सर्वाः प्रवृत्तयः ॥
इति । स चाहङ्कारस्त्रिविधतया त्रिविधकार्यहेतुः । तदुक्तं कौर्मे ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहङ्कारो महतः सम्बभूव ह ॥
तैजसादिन्द्रियाणि स्युर्देवा वैकारिकाद्दश ।
एकादशं मनश्चात्र स्वगुणेनोभयात्मकम्‌ ॥
भूततन्मात्रसर्गस्तु भूतादेरभवन्‌ प्रजाः ।
इति । वैकारिकः सात्त्विकः । तैजसो राजसः । स्वगुणेनिन्द्रियवृत्तिषु साहाय्यरूपेणोत्कर्षेण । उभयात्मकं ज्ञानकर्मोभयेन्द्रियात्मकम्‌ । अन्यत्रमना अभूवं नाऽश्रौषमित्यादिश्रुत्या मनसो ज्ञानकर्मोभयेन्द्रियसहकारित्वसिद्धेरिति । एकादशेन्द्रियदेवाश्च ।
दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।
चन्द्रश्च
इति । अहङ्कारो निरूपितः । इन्द्रियादीनि निरूप्यन्ते । अहङ्कारादादौ मन उत्पद्यते ।
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः ।
रूपरागात्‌ तथा चक्षुर्घ्राणं गन्धजिघृक्षया ॥
इत्यादिना मोक्षधर्मादाविन्द्रियादीनां मनोवृत्तिरागादिकार्यत्वश्रवणात्‌ । ततश्चाहङ्कारात्‌ सङ्कल्पपूर्वकं दशेन्द्रियाणि पञ्चतन्मात्रानि चोत्पद्यन्ते । इन्द्रियतन्मात्रयोश्च कार्यकारणभावस्याभावात्‌ क्रमनियमो नास्ति । तत्रेन्द्रियेषु नास्त्यवान्तरकार्यकारणभावः प्रमाणाभावात्‌ । तन्मात्रेषु त्वस्ति । स यथा । शब्दतन्मात्राद्वक्ष्यमाणक्रमेण स्पर्शतन्मात्रं शब्दस्पर्शोभयगुणकमेवं क्रमेणैकैकगुणवृद्ध्या परतन्मात्रत्रयं पूर्वपूर्वतन्मात्रेभ्य उत्पद्यते पातञ्जलभाष्ये तन्मात्रेषु क्रमेणैकैकगुणवृद्धिवचनात्‌ । ततश्च पञ्चतन्मात्रेभ्यः पञ्चभूतानि जायन्ते । तत्राहङ्कारात्‌ पञ्चतन्मात्राणां तद्द्वारा भूतानां चोत्पत्तौ क्रमः कूर्मविष्ण्वादिपुराणेषूक्तः । यथा कूर्मे ।
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम्‌ ॥
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
वायुरुत्पद्यते तस्मात्‌ तस्य स्पर्शो गुणो मतः ॥
इत्यादिक्रमेणेति । नन्वेवमाकाशादिभूतचतुष्टयस्यापि तत्त्वान्तरारम्भकत्वेन प्रकृतित्वापत्त्या केवलविकृतित्वसिद्धान्तक्षतिरिति चेन्न । आकाशादीनां स्पर्शादितन्मात्रेष्वहङ्कारोपष्टम्भमात्रेण कारणत्वस्य पुराणेषूक्तत्वादिति । तदेवं त्रयोविंशतितत्त्वानामुत्पत्तिरुक्ता । तत्र पञ्चभूतानि वर्जयित्वाऽहङ्कारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति वह्नेरिन्धनवदात्मनोऽभिव्यक्तिस्थानत्वात्‌ । तच्च सर्वपुरुषाणां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति । तेनैव चेहलोकपरलोकयोः संसरणं जीवानां भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात्‌ पृथङ्‌ निर्दिश्यते । तस्य लिङ्गशरीरस्य सूक्ष्माणि पञ्चभूतान्याश्रयश्चित्रादिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात्‌ । इदं च लिङ्गशरीरमादौ स्वयम्भुव उपाधिभूतमेकमेव जायते । तस्यैव विराडाख्यवक्ष्यमाणस्थूलशरीरवत्‌ । ततश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते । पितुर्लिङ्गशरीरात्‌ पुत्रलिङ्गशरीरवत्‌ । तदुक्तं सूत्रकारेण । व्यक्तिभेदः कर्मविशेषादिति । मनुनाऽप्युक्तम्‌ ।
तेषां त्ववयवान्‌ सूक्ष्मान्‌ षण्णामप्यमितौजसाम्‌ ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥
इति । षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम्‌ । तथा च स्वयम्भूः स्वलिङ्गशरीरावयवान्‌ सूक्ष्मान्‌ अल्पान्‌ आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेत्यर्थः । लिङ्गशरीरं निरूपितम्‌ । स्थूलशरीरोत्पत्तिरुच्यते । दशगुणितमहत्तत्त्वमध्येऽहङ्कारोऽहङ्कारस्यापि दशगुणितस्य मध्ये व्योम व्योम्नोऽपि दशगुणितस्य मध्ये वायुर्वायोरपि दशगुणितस्य मध्ये तेजः तेजसोऽपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथिवी समुत्पद्यते । सैव स्थूलशरीरस्य बीजम्‌ । तदेव च पृथिवीरूपं बीजमण्डरूपेण परिणमते । तस्यापि दशगुणितस्याण्डरूपस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवं स्थूलशरीरं तत्सङ्कल्पादेवोत्पद्यते । तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । तदुक्तं मनुना स्वयम्भुवं प्रकृत्य ।
सोऽभिध्याय शरीरात्‌ स्वात्‌ सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु बीजमवासृजत्‌ ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्‌ ।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥
आपे नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
इत्यादिनेति । तत एव चादिपुरुषात् व्यष्टिपुरुषाणां विभागादन्ते च तत्रैव लयात्‌ स एव चैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते । अतो न व्यवहारपरतया नारायण एव सर्वभूतानामात्मेति श्रुतिस्मृतिविरोध इति । ततश्च स नारायणो विराट्‌ शरीरी स्वनाभिकमलकर्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखाख्यस्वयम्भुवं सृष्ट्वा तद्द्वाराऽन्यानपि व्यष्टिशरीरिणः स्थावरान्तान्‌ ससर्ज । तथा च स्मर्यते ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह ।
क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥
इति । यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दैनन्दिनसर्गेष्वेव कल्पभेदेन मन्तव्यम्‌ । दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद्घटते न त्वादिसर्गेषु । दैनन्दिनप्रलय एव लीलाविग्रहेण शयनादिति । तदेवं सङ्क्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिरूपं प्रयोजनं चोक्तम्‌ । तत्र यद्यस्माज्जायते तस्य तदापूरणेनैव स्थितिः ततस्तस्य संहारोऽपि तत्रैव भवति ।
यद्यस्माज्जायते तत्त्वं तत्तत्र प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्‌ ॥
इति भारतादिभ्य इति । एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्चतुर्विंशतितत्त्वानां कूटस्थपुरुषविवेकाय प्रदर्शिताः । सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मर्यन्ते । तथा ।
नित्यदा ह्यङ्गभूतानि भवन्ति न भवन्ति च ।
कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥
इति । अतश्च सर्वं जडवस्तु परमार्थतः सर्वदैवासदुच्यते । ततश्च तस्माद्विरज्यात्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः । तदुक्तमनुगीतायाम्‌ ।
अव्यक्तबीजप्रभवो बुधिस्कन्धमयो महान्‌ ।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥
महाभूतप्रशाखश्च विशेषप्रतिशाखवान्‌ ।
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥
आजीवः सर्वभूतानां ब्रह्मवृत्तः सनातनः ।
एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परमासिना ॥
छित्त्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी ।

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे विवेकप्रतियोगिनां प्रकृत्यादीनां स्वरूपपरिच्छेदः ॥ * ॥
इति साङ्ख्यसारस्य पूर्वभागः ॥



अथोत्तरभागः ॥

प्रथमः परिच्छेदः ॥

अथ शिष्यैः सुखेनैव ग्रहीतुं पद्यमालया ।
विवेकस्यानुयोग्यात्मा पुरुषाख्यो निरूप्यते ॥ १ ॥
तत्र सामान्यतः सिद्धो जानेऽहमिति धीबलात्‌ ।
द्रष्टाऽतो नित्यविभ्वादिधर्मैरेव स साध्यते ॥ २ ॥
भोक्ता नित्यस्तदर्थत्वात्‌ तत्कर्मोत्पादितत्वतः ।
महदादिविकाराणां सर्वेषामविशेषतः ॥ ३ ॥
अपि चादृष्टसंस्काराधारत्वाद्बीजरूपतः ।
धीरनादिरतोऽस्याश्च सिद्धा भोक्तुरनादिता ॥ ४ ॥
स्वस्वामिभावानादित्वमृते भोक्तृव्यवस्थितेः ।
स्वभक्तवृत्तिसंस्कारवत्त्वं स्वत्वं तु बुद्धिषु ॥ ५ ॥
स्वाम्यं स्वनिष्ठसंस्कारहेतुवृत्तेश्च भोक्तरि ।
अतश्च घटते स्वत्वनाशे कैवल्यमात्मनः ॥ ६ ॥
भोक्तुश्चानादिभावस्य विनाशे हेत्वसम्भवात्‌ ।
न नाशो भोक्तुरस्तीति भोक्ता नित्यो हि सिध्यति ॥ ७ ॥
जन्यो ज्ञानप्रकाशोऽस्य नित्यत्वे तु न युज्यते ।
न ह्यप्रकाशे कुत्रापि प्रकाशोत्पत्तिरीक्ष्यते ॥ ८ ॥
कार्ये प्रकाशाख्यगुणेऽवयवानां हि तद्गुणः ।
कारणं तेन नानित्यः प्रकाशो नित्यवस्तुनि ॥ ९ ॥
प्रकाशाश्रयसंयोगात्‌ प्रकाशभूम इन्धने ।
आदर्शे चावृतेर्भङ्गात्‌ प्रकाशोत्पत्तिविभ्रमः ॥ १० ॥
तस्मान्नित्यात्मनो ज्ञानं नित्यं वाच्यं तथा सति ।
लाघवाज्ज्ञानमेवात्मा निराधारः प्रकल्प्यते ॥ ११ ॥
अनाश्रिततया द्रव्यं संयोगादेश्च तन्मतम्‌ ।
अतो ज्ञानेऽहमित्यादिबुद्धिरप्युपपद्यते ॥ १२ ॥
पिण्डेऽहन्धीर्हि मूढानां ध्रुवैवानादिदोषतः ।
संयोगात्तत्र पिण्डे तु ज्ञानवत्त्वमतिः प्रमा ॥ १३ ॥
सन्तु वाऽऽधेयताऽल्पत्वजन्मनाशादिबुद्धयः ।
श्रोत्रस्य नभसीवार्थज्ञानस्य ज्ञानमात्रके ॥ १४ ॥
तस्माल्लाघवतर्केण बाधकाभावतस्तथा ।
श्रुत्यादिभिश्च नित्यात्मा चिद्रूपेणैव सिध्यति ॥ १५ ॥
तज्ज्ञानं विभु नित्यत्वाद्देहव्यापितयाऽपि च ।
मध्यत्वे नाशिता हि स्यादणुत्वे वाऽल्पदेशता ॥ १६ ॥
विभुत्वेऽपि स्वधीवृत्तेरेव साक्षान्निरीक्षणात्‌ ।
न सर्वत्र सदा सर्वभानं ज्ञाने प्रसज्यते ॥ १७ ॥
अर्थभानं चितावर्थप्रतिबिम्बो मतो बुधैः ।
वृत्तेरेव चित्तौ साक्षात्प्रतिबिम्बनयोग्यता ॥ १८ ॥
अतोऽसङ्गेऽपि कूटस्थचैतन्ये विभुनि ध्रुवे ।
वृत्तिद्वारकमेवान्यभानं फलबलान्‌ मतम्‌ ॥ १९ ॥
अन्वयव्यतिरेकाभ्यां वृत्तिजन्यतयाऽखिलः ।
वृत्यैकाधिकरण्येन कामादिर्धीषु नात्मसु ॥ २० ॥
अतोऽन्तःस्वविकाराणां स्वस्वबुद्धिष्ववस्थितेः ।
कूटास्थ एव सर्वोऽपि चिदाकाशगणः समः ॥ २१ ॥
नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरञ्जनः ।
स्वप्रकाशो निराधारः प्रदीपः सर्ववस्तुषु ॥ २२ ॥
नन्वेवमेकतैवास्तु लाघवादात्मनां स्ववत्‌ ।
धीष्वेव सुखदुःखादिवैधर्म्यादिति चेन्न तत्‌ ॥ २३ ॥
भोगाभोगादिवैधर्म्येणैकरूपेऽपि चिद्गणे ।
श्रुतिस्मृतिभ्यामुक्तेन भेदसिद्धेः परस्परम्‌ ॥ २४ ॥
सुखादिप्रतिबिम्भात्मा भोगोऽप्यस्य न वस्तुतः ।
तथाऽप्यस्य चितौ भावाभावौ स्यातां हि भेदकौ ॥ २५ ॥
औपाधिकौ यथा श्यामरागौ स्फटिकभेदकौ ।
स्वदृष्टान्तश्च विषमो वैधर्म्यासिद्धितोऽम्बरे ॥ २६ ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे पुरुषस्वरूपपरिच्छेदः ॥ * ॥


अथ द्वितीयः परिच्छेदः ॥

अथात्मानात्मवैधर्म्ये गुणदोषात्मके तयोः ।
वक्ष्ये विस्तारतो येन विवेकोऽतिस्फुटो भवेत्‌ ॥ १ ॥
सामान्यात्मघनाकाशे सान्निध्येरितशक्तिभिः ।
जायते लीयते भूत्वा भूयोऽयं जगदम्बुदः ॥ २ ॥
त्रिगुणात्मकशक्तीनां परिणामैरतश्चितिः ।
आधारविधया विश्वोपादानमविकारतः ॥ ३ ॥
यथाऽऽधरतया तोयं धरोपादानमिष्यते ।
स्वस्थपार्थिवतन्मात्रद्वारेणैवं चितिर्मता ॥ ४ ॥
अतो जगदुपादानमपि ब्रह्माविकारतः ।
कूटस्थनित्यपर्यायपरमार्थसदुच्यते ॥ ५ ॥
स्वार्थत्वात्‌ स्वानुभूत्या च सिद्धत्वात्‌ परमार्थसत्‌ ।
स्वतः स्थित्या स्वतः सिद्ध्या लोकैः सन्निति हीर्यते ॥ ६ ॥
प्रतिक्षणविकारेण तैस्तै रूपैरपायतः ।
प्रकृत्यादिरसत्‌ सर्वो जडार्थोऽब्धौ तरङ्गवत्‌ ॥ ७ ॥
यत्तु कालान्तरेणापि नान्यसञ्ज्ञामुपैति वै ।
परिणामादिसम्भूतां तद्वस्त्वित्यादिकस्मृतेः ॥ ८ ॥
परार्थाधीनसत्त्वाच्च परदृष्ट्या च सिद्धितः ।
परतः सन्नसन्नेव तत्परापेक्षया मतः ॥ ९ ॥
सतोऽस्तित्वं तु नासत्ता नास्तित्वे सत्यता कुतः ।
इति गारुडतश्चैवं सदसत्त्वव्यवस्थितेः ॥ १० ॥
अतो न सन्नासदिदं जगत्‌ सदसदात्मकम्‌ ।
असद्विषयकत्वाच्च तस्य धीस्तात्त्विको भ्रमः ॥ ११ ॥
जगद्वृक्षस्य चैतन्यं सारोऽसारस्तथेतरत्‌ ।
प्रपञ्चस्य स्थिरांशो हि चितिरेवाविकारतः ॥ १२ ॥
तदन्यदखिलं तुच्छमसारत्वादुदीर्यते ।
तथाऽनृतमसच्चापि तदपेक्षास्थिरत्वतः ॥ १३ ॥
एवंविधैवात्मसत्ता अन्यासत्ता च दर्शिता ।
वासिष्ठादौ विस्तरतो यथा लेशात्तदुच्यते ॥ १४ ॥
स्वप्नो जाग्रत्यसद्रूपः स्वप्ने जाग्रदसद्वपुः ।
मृतिर्जन्मन्यसद्रूपा मृतौ जन्माप्यसन्मयम्‌ ॥ १५ ॥
जगन्मयी भ्रान्तिरिति न कदापि न विद्यते ।
विद्यते न कदाचिच्च जलबुद्बुदवत्‌ स्थितम्‌ ॥ १६ ॥
आत्मैवास्ति परं सत्यं नान्याः संसारदृष्टयः ।
शुक्तिकारजतं यद्वद्यथा मरुमरीचिका ॥ १७ ॥
अस्ति सर्वगतं शान्तं परमात्मघनं शुचि ।
अचिन्त्यचिन्मात्रवपुः परमाकाशमाततम्‌ ॥ १८ ॥
तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम्‌ ।
यत्र यत्र यथोदेति यथाऽऽस्ते तत्र तत्र वै ॥ १९ ॥
आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः ।
स्फुरन्त्यतितते यस्मिन्‌ मराविव मरीचयः ॥ २० ॥
असतेव सती तोयनद्येव लहरी चला ।
मनसेवेन्द्रजालश्रीर्जागती प्रवितन्यते ॥ २१ ॥
ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा ।
मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ २२ ॥
यो ह्यशुद्धमतिर्मूढो रूढो न वितते पदे ।
वज्रसारमिदं तस्य जगदस्त्यसदेव सत्‌ ॥ २३ ॥
अव्युत्पन्नस्य कनके कानके कटके यथा ।
कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः ॥ २४ ॥
तथाऽज्ञस्य पुरागारनगनागेन्द्रभासुरा ।
इयं दृश्यदृगेवास्ति न त्वन्या परमार्थदृक्‌ ॥ २५ ॥
इत्यादिवाक्यैर्वासिष्ठे नात्यन्तासत्यतोदिता ।
जगतोऽपरवाक्यैर्हि सत्कार्यं प्राकृतं मतम्‌ ॥ २६ ॥
नामरूपविनिर्मुक्तं यस्मिन्‌ सन्तिष्ठते जगत्‌ ।
तमाहुं प्रकृतिं केचिन्‌ मायामेकेऽपरे त्वणून्‌ ॥ २७ ॥
सुषुप्तावस्थया चक्रपद्मरेखाशिलोदरे ।
यथा स्थिता चितेरन्तस्तथेयं जगदावली ॥ २८ ॥
प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला ।
इत्यादिवाक्यैः साङ्ख्यीयसत्कार्याद्युपवर्णनात्‌ ॥ २९ ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोः सत्यत्वासत्यत्ववैधर्म्यपरिच्छेदः ॥ * ॥



अथ तृतीयः परिच्छेदः ॥

तदेवात्मनः सत्ता दर्शिताऽन्यविलक्षणा ।
अथ चिद्रूपतां वक्ष्ये बुद्धिवृत्तिविलक्षणाम्‌ ॥ १ ॥
अनुभूतिश्चितिर्बोधो वेदनं चोच्यते पुमान्‌ ।
वेद्यं जडं तमोऽज्ञानं प्रधानादिकमुच्यते ॥ २ ॥
वेदनं वेद्यसम्बन्धादेव वेत्त्रभिधीयते ।
यथा प्रकाश्यसम्बन्धात्‌ प्रकाशोऽपि प्रकाशकः ॥ ३ ॥
यथा वाऽर्थोपरागेण भानमर्थस्य भासकम्‌ ।
एवं वेद्योपरक्तस्यास्वांशस्याधारतांऽशिनि ॥ ४ ॥
असङ्गायां चितौ वेद्योपरागोऽयं न धीष्विव ।
किन्तु साक्षाद्द्वारतो वा चिति तत्प्रतिबिम्बनम्‌ ॥ ५ ॥
बाह्यं वृत्त्याख्यकरणाभावादनुपरागतः ।
चितिर्नैवेक्षते चेत्यं विभुत्वेऽपि च सर्वतः ॥ ६ ॥
तथा चिदपि वृत्त्याख्यकरणाभावतोऽर्थवत्‌ ।
स्वगोचरां वृत्तिमृते तिष्ठत्यज्ञातसत्तया ॥ ७ ॥
तदेवं चिन्निराकारा प्रकाशाकाशरूपिणी ।
तिष्ठत्यव्यक्तरूपा च मोक्षादौ वृत्त्यभावतः ॥ ८ ॥
बुद्धिवृत्तिस्तु साकारा परिच्छिन्ना च दीपवत्‌ ।
व्यक्ता च सर्वदा तद्वदसङ्ख्या क्षणभङ्गुरा ॥ ९ ॥
जडा च परदृश्यत्वाद्घटदीपादिवन्‌ मता ।
वृत्तेः प्रकाशता त्वर्थाकारत्वादक्षतैव हि ॥ १० ॥
यथाऽस्याकारतार्हत्वादादर्शस्तत्प्रकाशकः ।
सर्वाकारत्वयोग्यत्वात्‌ सैवं सर्वप्रकाशिका ॥ ११ ॥
न पुनर्वृत्तिद्रष्टृत्वं चितस्तद्भिन्नद्रष्टृता ।
वृत्तेर्यतो गौरवं स्याद्द्वयोर्ज्ञातृत्वकल्पने ॥ १२ ॥
बुद्ध्यारूढं त्वन्यवस्तु तद्द्वारा प्रतिबिम्बितम्‌ ।
पश्यत्यनुभवो नान्यो द्रष्टा बुद्ध्यादिकोऽखिलः ॥ १३ ॥
इत्येवं बुद्धिवृत्तिभ्यो वैलक्षण्यं चितीरितम्‌ ।
चिदचित्त्वाख्यवैधर्म्यं देहादिभ्यः स्फुटन्त्विदम्‌ ॥ १४ ॥
अन्योन्यप्रतिबिम्बेन सारूप्याद्वृतिबोधयोः ।
बोधव्यवहृतिर्वृत्तौ लोहेऽग्निव्यवहारवत्‌ ॥ १५ ॥
नैवाल्पबुद्ध्याशक्योऽयं विवेको वृत्तिबोधयोः ।
तार्किका यत्र सम्मूढाः साङ्ख्यानां श्रेष्ठता यतः ॥ १६ ॥
विज्ञानवादिनो बौद्धा वृत्तिबोधाविवेकतः ।
ज्ञातात्मत्वश्रुतौ मूढा मेनिरे क्षणिकां चितिम्‌ ॥ १७ ॥
सत्त्वपुंसो विवेकोऽयं वृत्तितद्बोधरूपयोः ।
नाशक्यः सुधियां यद्वद्धंसानां क्षीरनीरयोः ॥ १८ ॥
एतदन्तश्च संसारो मोक्षास्तत्रैव संस्थितः ।
यद्वृत्तिभ्यो विवेकेन तद्बोधस्यावधारणम्‌ ॥ १९ ॥
सर्वोऽप्यनुभवं वेद न कश्चिदपि वेदताम्‌ ।
विवेकमात्रमस्मिन्‌ हि भासमानेऽप्यपेक्षते ॥ २० ॥
आत्मा विवेक्तुं बाह्यार्थे न शक्यो वृतिमिश्रणात्‌ ।
अतो वृत्तौ विवेक्तव्यो वृत्तिबोधतयैव सः ॥ २१ ॥
यथा बुद्ध्या विवेकार्हो नाग्निरङ्गारमिश्रणात्‌ ।
सोऽङ्गारे तु विवेकार्हो काष्ठदग्धृतया स्फुटम्‌ ॥ २२ ॥
अतएव श्रुतौ स्वप्ने दृश्यवृत्तिविवेकतः ।
स्वयंज्योतिःस्वरूपेण तस्या द्रष्टा प्रदर्शितः ॥ २३ ॥
साक्षात्‌ प्रकाशो यो यस्य स तद्भिन्नो मतो बुधैः ।
घटादिभ्यो यथाऽऽलोक आलोकाच्चापि वृत्तयः ॥ २४ ॥
वृत्तेः साक्षात्‌ प्रकाशत्वादतोऽनुभवरूपकः ।
वृत्तिभ्यो भिन्न आत्मेति शीघ्रो मार्गः स्वदर्शने ॥ २५ ॥
एवमादिप्रकारेण बुद्धिसत्त्वप्रकाशतः ।
विलक्षणतया सिद्धश्चित्प्रकाशोऽस्य भासकः ॥ २६ ॥
स्वप्नदेहादिदृष्टान्तैस्तस्माच्छ्रुत्यादिदर्शितैः ।
जाग्रद्देहेन्द्रियार्थेभ्यश्चितिर्भिन्नतया मता ॥ २७ ॥
स्वप्ने देहादिकं सर्वं चिद्भिन्नं चिति भासते ।
जाग्रत्येवं विशेषस्तु यद्बाह्यमपि भासते ॥ २८ ॥
स्वप्ने मनोमयत्वाच्च साक्षाच्चिद्विषयोऽखिलम्‌ ।
करणद्वारतो बाह्यं चितो जाग्रति गोचरः ॥ २९ ॥
सर्वं देहादिकं स्वप्नजाग्रतोरेकरूपतः ।
भाति चिद्व्योम्नि नात्रार्थबाह्यान्तर्भेदतो भिदा ॥ ३० ॥
चिद्व्योम्नि वासनातो धीः प्रमाणाद्वाऽर्थरूपिणी ।
ततश्चितोऽर्थभानं यत्‌ तत्‌ समं स्वप्नजाग्रतोः ॥ ३१ ॥
तदिदं स्वानुभूत्यैव प्रोच्यते न परोक्षतः ।
स्वप्नदृष्टान्तसदृशो नोपायोऽस्त्यात्मदर्शने ॥ ३२ ॥
सुषुप्तौ हि यथा स्वप्ने स्वात्मन्येवेक्षतेऽखिलम्‌ ।
आत्मानं चैकदेशस्थं मन्यते जागरे तथा ॥ ३३ ॥
सुषुप्तिरात्मनस्तत्त्वं स्वरूपावस्थितेस्तदा ।
जाग्रत्स्वप्नौ मायिकौ तु मृषासारूप्यतो धिया ॥ ३४ ॥
बुद्धेः सुषुप्तिस्तमसाऽऽवरणं तद्विलक्षणा ।
चितेः सुषुप्तिर्वृत्त्याख्यदृश्यावरणशून्यता ॥ ३५ ॥
पूर्णः कूटस्थनित्यश्च स्वस्वधीमात्रवृत्तिदृक्‌ ।
वृत्त्याख्यदृश्यविरहात्‌ सर्वदा नेक्षते पुमान्‌ ॥ ३६ ॥
वृत्तिदेशे यथा बोधस्तथा सर्वत्र सर्वदा ।
वृथैव तप्यते मूढैर्व्ययनाशादिनाऽऽत्मनः ॥ ३७ ॥
दुःखभोगमहारोगनिदानं देहगेहिनी ।
बुद्धिर्न त्यज्यते मूढैर्महानिद्रासुखं यतः ॥ ३८ ॥
अनादिबुद्धिगार्हस्थ्यं विवेकस्त्यज्यते न चेत्‌ ।
न मोक्षो बाह्यसन्न्यासादिहामुत्रासुखं परम्‌ ॥ ३९ ॥
समचिन्मात्ररूपेषु स्वपरात्मसु सर्वदा ।
बुद्धिमात्रविवेकेन स्वपरादिभिदा मृषा ॥ ४० ॥
चिन्मात्रे निर्गुणे स्वामिन्यारोप्यैवात्मकर्तृताम्‌ ।
स्वाम्यवज्ञापराधेन वध्यते धीः स्वकर्मभिः ॥ ४१ ॥
साध्वी तु धीः पतिं दृष्ट्वा याथातथ्येन तत्परा ।
इहानन्दमयी चान्ते पतिदेहे लयं व्रजेत्‌ ॥ ४२ ॥
नाहं कर्ता सुखी दुःखी चिन्मात्राकाशरूपकः ।
एवं नाथं चिन्तयन्ती न पत्युर्दुःखभोगदा ॥ ४३ ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोश्चिदचित्त्ववैधर्म्यपरिच्छेदः ॥ * ॥



अथ चतुर्थः परिच्छेदः ॥

इत्येवमात्मनः प्रोक्तो बुद्ध्यादिभ्यो विलक्षणः ।

चित्प्रकाशोऽधुनाऽऽनन्दरूपता वक्ष्यते तथा ॥ १ ॥
दुःखं कामसुखापेक्षा सुखं दुःखसुखात्ययः ।
इति स्मृतेः सुखात्मत्वं नित्यनिर्दुःखताऽऽत्मनः ॥ २ ॥
परिभाषाबलाद्रूढिबाधः सर्वत्र सम्मतः ।
अन्यथा परिभाषेयं मोक्षशास्त्रे भवेद्वृथा ॥ ३ ॥
यद्वा परोक्षवादेन परमप्रियताप्तये ।
रूपिका सुखगीः पुंसि विभुत्वाप्त्यै स्वशब्दवत्‌ ॥ ४ ॥
नानन्दं न निरानन्दमित्यादिश्रुतिभिः स्फुटम्‌ ।
आत्मन्यानन्दरूपत्वनिषेधाद्युक्तिसंयुतात्‌ ॥ ५ ॥
उपासाद्यर्थशून्यत्वान्नेति नेति श्रुतेस्तथा ।
निषेधवाक्यं बलवद्विधिवाक्यादिति स्थितिः ॥ ६ ॥
निर्निरानन्दमिति च स्वोपाध्यानन्दभोक्तृताम्‌ ।
स्वामित्वरूपिणीं वक्ति न निर्धन इतीव हि ॥ ७ ॥
प्रेयोऽन्यस्माच्च सर्वस्मादिति श्रुत्या सुखादपि ।
उक्त आत्मा प्रियस्तस्य सुखत्वोक्तिश्च नोचिता ॥ ८ ॥
आनन्दाद्याः प्रधानस्य इति वेदान्तसूत्रतः ।
वेदान्तेऽपि न सिद्धान्त आत्मनः सुखरूपता ॥ ९ ॥
विस्ताराद्ब्रह्ममीमांसाभाष्येऽस्माभिः परीक्षितम्‌ ।
चितेरसुखरूपत्वं प्रेमा व्याख्यायतेऽधुना ॥ १० ॥



मा न भूवमहं शश्वद्भूयासमिति रूपकः ।
निर्निमित्तोऽनुरागो यः स प्रेमा परमश्चिति ॥ ११ ॥
अन्याशेषतया बुद्धेः स्नेहोऽयं न सुखेष्वपि ।
अतः प्रियतमः स्वात्मा नान्योऽतो ह्यधिकः प्रियः ॥ १२ ॥
आत्मत्वेनात्मनि प्रेमा न सुखत्वाद्यपेक्षते ।
अहं स्यामिति चेद्यस्मात्‌ सुखं स्यामिति नेष्यते ॥ १३ ॥
तथा च सुखतादुःखाभावते वाऽऽत्मताऽपि च ।
प्रेम्णि प्रयोजिका सिद्धा स्वतःप्रेमात्मतैव तु ॥ १४ ॥
तस्माद्वस्तुत आत्मैव प्रियो नैपाधिकत्वतः ।
औपाधिकीतरप्रीतिरस्थिरत्वान्न तात्त्विकी ॥ १५ ॥
प्रीतिरन्यत्र चानित्याविवेकाद्यैः सुखादिषु ।
आत्मप्रीतिस्तु नित्याऽतो नित्यानन्दः पुमान्‌ मतः ॥ १६ ॥
आत्मनः प्रियतां बुद्धिर्यदि पश्येत्‌ समाहिता ।
सर्वातिशायिनीं तर्हि सुखाब्धौ किं न मज्जति ॥ १७ ॥
प्रियदर्शनतो बुद्धेः सुखं लोकेषु दृश्यते ।
अतोऽनुमेयं परमप्रियदृष्ट्या परं सुखम्‌ ॥ १८ ॥
आत्मार्थत्वेन सर्वत्र प्रीतिरात्मा स्वतः प्रियः ।
इति शश्वच्छ्रुतिः प्राह आत्मदृष्टिविधित्सया ॥ १९ ॥
ततोऽप्यनुपमं ज्ञेयं प्रियात्मेक्षणतः सुखम्‌ ।
भुञ्जते तत्‌ सुखं धीरा जीवन्मुक्ता महाधियः ॥ २० ॥
अन्तरात्मसुखं सत्यमविसंवादि योगिनम्‌ ।
अपश्यन्‌ कृपणो बाह्यसुखार्थी वञ्चितो जनः ॥ २१ ॥
सुखाशया बहिः पश्यन्‌ देही हीन्द्रियरन्ध्रकैः ।
वातायनैर्गृहीत्वाऽन्तः सुखं वेत्ति न बाह्यदृक् ॥ २२ ॥
दुखलभ्यान्‌ दुःखमयान्‌ परिणामेऽतिदुःखदान्‌ ।
विषयोत्थान्‌ सुखाभासान्‌ धिक्‌ स्वात्मसुखरोधकान्‌ ॥ २३ ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मानात्मनोः प्रियाप्रियत्ववैधर्म्यपरिच्छेदः ॥ * ॥



अथ पञ्चमः परिच्छेदः ।

परिच्छेदत्रयेणोक्तं सच्चिदानन्दरूपकम्‌ ।
गीयमानं श्रुतिस्मृत्योरात्मनो लक्षणत्रयम्‌ ॥ १ ॥
तद्वैपरीत्यमन्येषां लक्षणं चेरितं स्फुटम्‌ ।
आभ्यां तु गुणदोषाभ्यां विवेको दोषहृत्‌ परः ॥ २ ॥
नैर्गुण्यसगुणत्वादिवैधर्म्याण्यपराण्यपि ।
बहूनि वक्ष्ये सङ्क्षेपात्‌ पुम्प्रकृत्योरतः परम्‌ ॥ ३ ॥
धियोऽर्थाकारया वृत्त्या जनितत्वात्‌ सुखादयः ।
सामानाधिकरण्येन कल्प्यन्ते लाघवाद्‌ धियाम्‌ ॥ ४ ॥
महदादेर्जडत्वेन तद्धेतुश्च जडो मतः ।
कार्यकारणसाजात्यं दृष्टं लोके हि सर्वतः ॥ ५ ॥
अत आत्मा बोधमात्रतया सिध्यति लाघवात्‌ ।
गुणाः सर्वे प्रकृत्यादेर्विकाराश्चेतरेऽखिलाः ॥ ६ ॥
आत्मा तु निर्गुणस्तद्वत्‌ कूटस्थश्च मतो बुधैः ।
चितेः कूटस्थसञ्ज्ञा तु स्थिरत्वाद्‌ गिरिकूटवत्‌ ॥ ७ ॥
लेपश्चेतरसम्बन्धे तद्रूपैरुपरक्तता ।
यथा विषयसम्बन्धाद्बुद्धौ भवति वासना ॥ ८ ॥
भाण्डादौ द्रव्ययोगाच्च तत्तद्द्रव्यस्य वासना ।
लेपहेतुश्च सम्बन्धः सङ्गः सम्बन्धि चाञ्जनम्‌ ॥ ९ ॥
अतो निरञ्जनोऽसङ्गो निर्लेपश्चोच्यते पुमान्‌ ।
नभःपुष्करपत्रादिदृष्टान्तैः परमर्षिभिः ॥ १० ॥
चिन्मात्रानन्तशक्त्यब्धौ पुमर्थपवनेरिताः ।
सत्त्वादिशक्तयो यान्ति विश्वबुद्बुदरूपताम्‌ ॥ ११ ॥
अत ईशश्चिदात्मैव जगतः सन्निधानतः ।
मणिवत्‌ प्रेरकत्वेन जडानामयसामिव ॥ १२ ॥
पुमानेव जगत्कर्ता जगद्भर्ताऽखिलेश्वरः ।
स्वाम्यर्थे मृत्यवद्यस्माज्जडवर्गः प्रवर्तते ॥ १३ ॥
करणानि च देहेषु राजार्थमधिकारिवत्‌ ।
भोग्यजातं मनोमन्त्रिण्यर्पयन्ति स्वभावतः ॥ १४ ॥
तैर्भोग्यैर्युक्तमात्मानमावेदयति धीश्चिति ।
ईक्षामात्रेण तद्भुङ्क्ते राजेवात्माऽखिलेश्वरः ॥ १५ ॥
धनादेरीश्वरो देहो देहस्येन्द्रियमीश्वरम्‌ ।
इन्द्रियस्येश्वरी बुद्धिर्बुद्धेरात्मेश्वरः परः ॥ १६ ॥
कूटस्थस्येश्वरस्यान्यो नास्ति प्रेरक इत्यतः ।
ईश्वरस्यावधित्वेन द्रष्टा वै परमेश्वरः ॥ १७ ॥
अन्यस्यागन्तुकैश्वर्यं बहुव्यापारसङ्कुलम्‌ ।
निर्व्यापारस्य निर्दोषमनाद्यैश्वर्यमात्मनः ॥ १८ ॥
सर्वशक्तिमयो ह्यात्मा शक्तिमण्डलताण्डवः ।
संसारं तन्निवृत्तिं च माययाऽऽप्नोति हेलया ॥ १९ ॥
सर्वातिशायि निर्दोषमैश्वर्यमिदमात्मनः ।
पश्यतो योगिनो ब्राह्ममप्यैश्वर्यं तृणायते ॥ २० ॥
बाह्यस्यात्मोच्यते देहो देहस्यात्मेन्द्रियाणि च ।
बुद्धिरात्मेन्द्रियान्तस्य बुद्धेरात्मा तु चिन्नभः ॥ २१ ॥
अत आत्मावधित्वेन परमात्मोच्यते चितिः ।
तथाऽन्तःकरणैर्योगाज्जीव इत्युच्यते चितिः ॥ २२ ॥
अविद्याकार्यरहितः परमात्मनि च स्मृतिः ।
यस्य यद्व्यापकं तस्य तद्ब्रह्माऽतो धरादिकम्‌ ॥ २३ ॥
प्रकृत्यन्तं भवेद्ब्रह्म स्वस्वकार्याद्यपेक्षया ।
सेश्वरे साङ्ख्यवादेऽपि चितेरेवानुमन्यते ॥ २४ ॥
परे वा परमात्मत्वादिकं तु न जडे क्वचित्‌ ।
अध्यक्षव्यापकत्वाभ्यां परं ब्रह्म तु चेतनः ॥ २५ ॥
तस्याध्यक्षं व्यापकं च न हेतुविधयाऽस्ति हि ।
असङ्ख्यात्मा नभोराशिरविभक्तैकरूपकः ॥ २६ ॥
सोऽतश्चिद्घनविज्ञानघनात्मघनसंज्ञकः ।
प्रकाशस्यानपेक्षत्वात्‌ स्वस्य द्रष्टृतयाऽपि च ॥ २७ ॥
स्वप्रकाशः पुमानुक्त इतरे तद्विलक्षणाः ।
भोगोऽभ्यवहृतिः सा च कूटस्थे नास्ति धीष्विव ॥ २८ ॥
धीवृत्तिप्रतिबिम्बाख्यगौणभोगा तु भोक्तृता ।
साक्षाद्धीवृतिद्रष्टृत्वाद्‍ बुद्धिसाक्ष्युच्यते पुमान्‌ ॥ २९ ॥
विना विकारं द्रष्टृत्वात्‌ साक्षी तूक्तोऽखिलस्य सः ।
चैत्योपरागरूपत्वात्‌ साक्षिताऽप्यध्रुवा चितः ॥ ३० ॥
उपलक्षणमेवेदमपि व्यावृत्तये जडात्‌ ।
अतः पुमाननिर्देश्योऽणुश्च सूक्ष्मश्च कथ्यते ॥ ३१ ॥
विना दृश्यमदृश्यत्वादव्यक्तश्चोच्यते सतः ।
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना ॥ ३२ ॥
अदृश्यं चास्यमादर्शे चित् तथा स्वस्वबुद्धिषु ।
चिति विश्वस्य सङ्गश्चेद्‌ विश्वं भासेत सर्वदा ॥ ३३ ॥
विश्वाधारोऽप्यतः शून्यमिति चिद्गीयते खवत्‌ ।
दृश्यदोषान्‌ मृषाबुद्धिर्दृष्ट्यारोप्य निर्मले ॥ ३४ ॥
आदर्शे मलवद्व्योम्नि दोषदृष्ट्या तु तप्यते ।
वस्तुतश्चिति नास्त्येव मलो दृश्याश्रितः सदा ॥ ३५ ॥
अतश्च निर्मलः स्वस्थो निर्दोषश्चोच्यते पुमान्‌ ।
सजातीयेषु वैधर्म्यलक्षणा नास्ति यद्भिदा ॥ ३६ ॥
अत आत्मा समः प्रोक्त ऐकरूप्याच्च सर्वदा ।
देहाध्यक्षतया देही पुर्यभिव्यक्तितः पुमान्‌ ॥ ३७ ॥
एकाकिएवादद्वितीयः केवलश्चोच्यते तु सः ।
चिच्छक्त्यप्रतिबन्धेन प्रोच्यतेऽनावृतः पुमान्‌ ॥ ३८ ॥
सर्वस्वामितया चात्मा क्षेत्रज्ञः क्षेत्रवेदनात्‌ ।
हृत्सरोवरधीपद्मदलवृत्तिषु लीलया ॥ ३९ ॥
चरन्निवानन्दमीनान्‌ भुञ्जानो हंस उच्यते ।
हकारेण बहिर्याति सकारेण विशन्‌ पुनः ॥ ४० ॥
प्रानवृत्त्याऽनय चापि प्राण्यात्मा हंस उच्यते ।
शरीरागरिहृद्द्यामगुहायां बुद्धिभार्यया ॥ ४१ ॥
व्यज्यमानस्तया सार्धं स्वपन्निव गुहाशयः ।
त्रिगुणात्मकमायां स्वां सान्निध्यात्‌ परिणामयन्‌ ॥ ४२ ॥
मायीति कथ्यते चात्मा तत्कृतानृतवेषधृक्‌ ।
स्वान्येकादश भूतानि पञ्चैतानि तु षोडश ॥ ४३ ॥
पुंसः कलास्तत्त्वतस्तु निरंशत्वात्‌ स निष्कलः ।
अहंशब्दः स्वामिवाची स्वामी साक्षी तु चेतसः ॥ ४४ ॥
अतोऽहमिति शब्देन चिन्मात्रं प्रोच्यते बुधैः ।
सर्वेश्वरः सर्ववेत्ता सर्वकर्ताऽद्वयः पुमान्‌ ॥ ४५ ॥
सामान्यादुच्यते यद्वद्‍ राजा सर्वनराधिपः ।
आत्माद्वैतस्य सूत्रेण जातिमात्रेण वर्णनात्‌ ॥ ४६ ॥
प्रलये हि विजातीयद्वैतशून्यत्वमात्मनाम्‌ ।
असङ्गत्वान्नित्यशुद्धो नित्यबुद्धश्च चित्त्वतः ॥ ४७ ॥
नित्यमुक्तस्तथा नित्यनिर्दुःखत्वात्‌ पुमान्‌ मतः ।
इत्यादुगुरुशास्त्रोक्तदिशा स्वानुभवेन च ॥ ४८ ॥
वैधर्म्यादात्मनोऽनात्मविवेकः क्रियतां बुधैः ।
परिच्छेदचतुष्केण पुम्प्रकृत्योः सुविस्तरात्‌ ।
वैधर्म्यगण उक्तोऽयं ध्यायिनामाशु मुक्तिदः ॥ ४९ ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे आत्मवैधर्म्यगणपरिच्छेदः ॥ * ॥



अथ षष्ठः परिच्छेदः ।

विवेकमेव सद्युक्त्या मत्वा तदनुभूयते ।
राजयोगं यथा कुर्यात्‌ समासेन तदुच्यते ॥ १ ॥
अशक्तो राजयोगस्य हठयोगेऽधिकारवान्‌ ।
वासिष्ठे च वसिष्ठाय भुसुण्डेनैवमीरितम्‌ ॥ २ ॥
ज्ञानावृत्ती राजयोगे प्राणायमासने हठे ।
मुख्ये तेऽङ्गतयाऽन्योन्यं सेव्ये शक्त्यनुसारतः ॥ ३ ॥
विषयेऽनन्तदोषा ये श्रुतिस्मृतिसमीरिताः ।
त आदौ परिद्रष्टव्याश्चित्तस्थैर्याय योगिभिः ॥ ४ ॥
कामबीजान्यनन्तानि सम्प्ररोहन्ति यद्धृदि ।
तत्राटवीनिभे ज्ञानपुण्यसस्यं न वर्धते ॥ ५ ॥
दोषदृष्ट्यग्निसन्दग्धे कामबीजे तु चेतसि ।
गुरुशास्त्रहलैः कृष्टे सुक्षेत्रे तद्विवर्धते ॥ ६ ॥
सत्येष्वसत्तां प्रचुरां तथा रम्येष्वरम्यताम्‌ ।
सुखेषु प्रचुरं दुःखं पश्यन्‌ धीरो विरज्यते ॥ ७ ॥
ब्रह्मलोकोऽपि नरको विनाशामेध्यपूरितः ।
युक्तश्च स्वाधिकैरन्यैस्त्रैगुण्यादपि दुःखयुक्‌ ॥ ८ ॥
तत्रत्यैरपि मुक्त्यर्थं यत्यते जन्मभीरुभिः ।
अतो ज्ञेयः समासेन लोकः सर्वोऽपि दुःखयुक्त्‌ ॥ ९ ॥
इदं मे स्यादिदं मा स्यादितीच्छाव्यथितं मनः ।
स्वभावात्‌ तेन विज्ञेयं दुःखं चित्तेन सङ्गतिः ॥ १० ॥
सुखं सुषुप्तिः परमा दुःखं विषयवेदनम्‌ ।
सुखदुःखसमासोऽयं किमन्यैर्बहुभाषितैः ॥ ११ ॥
तस्मादनर्थानर्थाभान्‌ परीक्ष्य विषयान् सुधीः ।
उत्सृजेत्‌ परमार्थार्थी बालरम्यानहीनिव ॥ १२ ॥
इत्यादिकानन्तदोषदृष्ट्या रागस्य तानवे ।
मायाविवेकतः शुद्धमात्मानं चिन्तयेत्‌ सदा ॥ १३ ॥
इदं तदिति निर्देष्टुं गुरुणाऽपि न शक्यते ।
उदासीनस्यात्मतत्त्वं स्वयमेव प्रकाशते ॥ १४ ॥
बुद्धिबोधात्मको बुद्धिसाक्षी बुद्धेः परो विभुः ।
कूटस्थोऽहं चिदादित्य इत्येकाग्रोऽनुचिन्तयेत्‌ ॥ १५ ॥
वृत्तिबोधो घटच्छिद्रमिव नाश्यल्प ईक्ष्यते ।
वस्तुतो वृत्तिबोधोऽहं पूर्णो व्योमवदक्षयः ॥ १६ ॥
अन्तर्यद्‌ दृश्यते सर्वं तद्बुद्धेर्वृत्तिरुच्यते ।
तेभ्यो दुःखात्मकेभ्योऽहं साक्षात्‌ तद्वीक्षिता पृथक्‌ ॥ १७ ॥
कर्मकर्तृविरोधो हि वृत्त्या वृत्तिप्रकाशने ।
वृत्तिधाराकल्पने च गौरवादिति निश्चितम्‌ ॥ १८ ॥
हर्षशोकभयक्रोधलोभमोहमदैस्तथा ।
द्वेषाभिमानकार्पण्यनिद्रालस्यस्मरादिभिः ॥ १९ ॥
धर्माधर्मैश्च सम्पूर्णा बुद्धिर्दुःखमयी तु मे ।
आत्मानं दर्शयत्येव भास्करायेव रोगिणः ॥ २० ॥
अहं सर्वगतं शान्तं परमात्मघनं शुचि ।
अचिन्त्यचिन्मात्रनभो विश्वदर्पणमक्षयम्‌ ॥ २१ ॥
निरञ्जनं निराधारं निर्गुणं निरुपद्रवम्‌ ।
निर्विशेषं सजातीयात्‌ समस्तार्थावभासकम्‌ ॥ २२ ॥
ब्रह्मविष्णुमहेशाद्याः स्थावरान्ताश्च चेतनाः ।
अवैधर्म्यात्मकाभेदादहमित्यनुचिन्तयेत्‌ ॥ २३ ॥
अहमन्ये च पुरुषाः समचिद्व्योमरूपिणः ।
अत आत्मैक एवाऽहमिति श्रुतिषु गीयते ॥ २४ ॥
इति पश्यन्‌ स्वभोगैश्च योगी विश्वं प्रपूजयेत्‌ ।
आत्मयोगोऽप्ययं प्रोक्तः श्रुत्युक्तः साङ्ख्ययोगिनाम्‌ ॥ २५ ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ २६ ॥
इत्येवं मनुनाऽप्यात्मयागो ज्ञानाङ्गमीरितः ।
तस्मादभयदानेन स्वभोगाद्यर्चनेन च ॥ २७ ॥
सम्मानयन्‌ भूतजातमात्मानमनुचिन्तयेत्‌ ।
ब्रह्मविष्णुशिवादीनां भोगे रागश्च हीयते ॥ २८ ॥
तेषां स्वसाम्यदृष्ट्याऽतः साम्यं योगी विचिन्तयेत्‌ ।
उत्पत्तौ प्रलये चैव सर्वावस्थासु सर्वदा ॥ २९ ॥
सर्वेषामेकरूपत्वं द्रष्टू रागादिकं कुतः ।
विष्ण्वादयो महैश्वर्यं भुञ्ज ना अपि नाधिका ॥ ३० ॥
मत्तोऽतोऽलं तदैश्वर्यैरविवेकिजनप्रियैः ।
गुणकर्मादिभिः किञ्चिन्निरीक्ष्याधिकमात्मनः ॥ ३१ ॥
तदर्थं यतते लोको नाहं पश्यामि मेऽधिकम्‌ ।
तथा न्यूनं न पश्यामि यदतिक्रमशङ्कया ॥ ३२ ॥
देवा दैत्यजयायेव यतिष्ये तज्जयाशया ।
अहं यथा तथैवान्ये आब्रह्मा नारका जनाः ॥ ३३ ॥
दृश्यन्ते स्वात्मवत्‌ प्रेम्णा पितृभ्रातृसुतादिवत्‌ ।
क ईश ईशितव्यो वा कः श्रेष्ठः कोऽधमोऽपि वा ॥ ३४ ॥
अभिन्ने भेददृष्ट्या स्यान्मृत्योर्भयमिति श्रुतिः ।
चिद्व्योमस्वेकरूपेषु ईशानीशादिरूपकः ॥ ३५ ॥
रूपभेदो ह्यसन्‌ सर्वः स्फटिके रूपभेदवत्‌ ।
धियां रूपैः पुमानेको बहुरूप इवेयते ॥ ३६ ॥
वृकचर्मादिरूपाद्यैर्मायीव बहुरूपधृक्‌ ।
मामालिङ्ग्य निराकारं विविधाकारधारिणी ॥ ३७ ॥
मायैवैका हि नृत्यन्ती मोहयत्यखिला धियः ।
पुंसां भेदो बुद्धिभेदादम्बुभेदाद्यथा रवेः ॥ ३८ ॥
व्योम्नश्च छिद्ररूपेण भेदः कुम्भादिभेदतः ।
अतः शुद्धो बुद्धमुक्तः सर्वदा सर्वगोऽव्ययः ॥ ३९ ॥
अहमन्ये च तत्राऽहो शत्रुमित्रादिधीर्मृषा ।
ब्रह्मणीशे हराविन्द्रे सर्वभूतगणे तथा ॥ ४० ॥
उत्तमाधममध्यत्वविभागो मायया मृषा ।
त्रिगुणात्मकमायायास्त्रैविध्यादात्मनोऽपि हि ॥ ४१ ॥
उत्तमाधममध्यत्वत्रैविध्यं नैव हि स्वतः ।
यथा देहे तथाऽन्यत्र चित्प्रकाशोऽयमव्ययः ॥ ४२ ॥
व्यक्तताव्यक्ततामात्रभेदो ह्यन्तरबाह्ययोः ।
एवमन्येऽपि पुरुषा बद्धमुक्ताविशेषतः ॥ ४३ ॥
ईशानीशाविशेषाच्च पुरुषार्थो न मेऽस्त्यतः ।
महानिद्रैव मे साध्वी दुःखभोगहरा प्रिया ॥ ४४ ॥
अप्रिया मूढचित्तानामसाध्वी धीहतात्मनाम्‌ ।
चिदादर्शे मयि धियो यद्यपि प्रतिबिम्बनम्‌ ॥ ४५ ॥
तत्त्वतो नैव दोषाय तथाऽपि त्याज्यमेव तत्‌ ।
स्वभावादस्य हेयत्वं स्वानुभूत्या हि सिध्यति ॥ ४६ ॥
यथा कोऽपि परस्यापि वैरूप्यं न दिदृक्षति ।
स्वामिन्यारोप्यात्मदोषान्‌ साध्वीयमनुतप्यते ॥ ४७ ॥
निर्दोषं स्वामिनं दृष्ट्वा निर्दोषा स्यात् पतिव्रता ।
एवमस्या रूपभेदेऽप्येकरूपोऽस्मि सर्वदा ॥ ४८ ॥
भुञ्जानो वाऽप्यभुञ्जानस्तां मदर्थामनन्यगाम्‌ ।
यथैकरूपतोपाधियोगायोगदशास्वहो ॥ ४९ ॥
आदर्शस्यामलस्यैव चिन्नभोदर्पणस्य मे ।
दृश्यबुद्धिगता दोषाः साक्षात्तद्द्रष्टरि प्रभौ ॥ ५० ॥
न सन्ति मयि मोहाद्या भास्करे भास्यदोषवत्‌ ।
दुःखैर्बद्धा स्वमात्मानं त्यक्त्वा मद्भावमागता ॥ ५१ ॥
मुच्यते दुःखबन्धाद्धीर्न मे मोक्षो न बन्धनम्‌ ।
कूटस्थासङ्गचिद्व्योम्नि धीदुःखप्रतिबिम्बनम्‌ ॥ ५२ ॥
योऽन्यो बन्धो भोगरूपः सोऽपि चिद्दर्पणे मृषा ।
जाग्रदादित्रयावस्थासाक्षी ताभिर्विवर्जितः ॥ ५३ ॥
अहं पूर्णश्चिदादित्य उदयास्तविवर्जितः ।
दर्पणे मुखवद्विश्वं मयि बोधे न तात्त्विकम्‌ ॥ ५४ ॥
विभुत्वे च बाह्यान्तः सुषुप्त्यादावदर्शनात्‌ ।
मयि वाऽन्यत्र वा पुंसि केवलानुभवे विभौ ॥ ५५ ॥
भाति यत्तद्विवर्त्तो धीप्रतिबिम्बात्मकत्वतः ।
शुक्तौ रजतवद्‌ विश्वमतो मयि न दोषकृत्‌ ॥ ५६ ॥
मरीचौ तोयवत्‌ तद्वद्व्योमादौ नगरादिवत्‌ ।
कालत्रयेऽपि नास्त्येव मयि विश्वं सनातने ॥ ५७ ॥
अन्यत्रास्त्वथवा माऽस्तु बुद्ध्यादौ मम तेन किम्‌ ।
मयि सर्वं यथा व्योम्नि सर्वत्राहं यथा नभः ॥ ५८ ॥
न सर्वं मयि सर्वत्र नाहं चालेपतः खवत्‌ ।
अत एवाविभागाख्याभेदेन क्षीरनीरवत्‌ ॥ ५९ ॥
ज्ञानात्मकमिदं विश्वं गायन्ति परमर्षयः ।
जगन्मम मदर्थत्वान्मच्छरीरसुखादिवत्‌ ॥ ६० ॥
यथ मम तथाऽन्येषां ममैवेति धियो भ्रमः ।
वस्तुतस्तु न कस्यापि किमपि व्यभिचारतः ॥ ६१ ॥
स्वामित्वस्याध्रुवत्वेन पान्थस्यावासगेहवत्‌ ।
एकं चिन्मात्रमस्तीह शुद्धं शून्यं निरञ्जनम्‌ ॥ ६२ ॥
सूक्ष्मात्‌ सूक्ष्मतरं तत्र न जगन्न जगत्क्रिया ।
दृश्यते सर्वदृश्याढ्या स्वस्वबुद्धिपरम्परा ॥ ६३ ॥
चिन्मण्डलमहादर्शे प्रतिबिम्बमुपागता ।
क्वचिद्व्यक्तं क्वचित्‌ सूक्ष्मं नभः सर्वत्र तिष्ठति ॥ ६४ ॥
यथा तथा चिदाकाशं धीदेशेऽन्यत्र च स्थितम्‌ ।
चिदाकाशमयं विश्वं यतोऽतो धीरितस्ततः ॥ ६५ ॥
भ्रमन्ती तत्र तत्रैव भासतेऽर्के घटादिवत्‌ ।
धर्माधर्मौ जन्ममृत्यू सुखदुःखादि चाखिलम्‌ ॥ ६६ ॥
जाग्रत्यपि मृषा स्वप्न इव जन्मादिकं मम ।
दृश्ययोगवियोगाभ्यां चितो जन्मविनाशधीः ॥ ६७ ॥
अभिव्यक्त्यनभिव्यक्तिदोषाभ्यां शशिनो यथा ।
महासुषुप्तौ भवजन्ममृत्यु-
दुःस्वप्नधाराः क्षणभङ्गुरा धियः ।
पश्याम्यहं ताभिरलिप्तरूपो
घनैरूर्तैर्विगतै रवेः किम्‌ ॥ ६८ ॥
इत्येवं सततं ध्यायन्नेकाग्रमनसा सुधीः ।
साक्षात्करोत्यात्मतत्त्वं वागगोचररूपतः ॥ ६९ ॥
स्वरूपं निर्मलं शान्तं मनस्त्यजति चेत्‌ क्षणम्‌ ।
तदैव दृश्यसंस्कारशेषात्‌ सङ्क्षुभ्यतीन्द्रियम्‌ ॥ ७० ॥
उत्थितनुत्थितांस्तत्र इन्द्रियारीन्‌ पुनः पुनः ।
विवेकेनैव वज्रेण हन्यादिन्द्रो गिरीनिव ॥ ७१ ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे राजयोगप्रकारपरिच्छेदः ॥ * ॥



अथ सप्तमः परिच्छेदः ।

एवमात्मानुभविनो जीवन्मुक्तस्य लक्षणम्‌ ।
स्पष्टं वक्ष्ये भवेद्येन ज्ञानाज्ञानपरीक्षणम्‌ ॥ १ ॥
श्रवणान् मननाद्वाऽपि अन्यथाऽऽत्मज्ञताभ्रमात्‌ ।
कुर्याद्गुरुमविद्वांसं स्याच्चाज्ञो ज्ञाभिमान्यपि ॥ २ ॥
नैश्वर्यानागतज्ञत्वादिकं ज्ञानस्य लक्षणम्‌ ।
तदृतेऽपि हि कैवल्यं योगभाष्यकृतेरितम्‌ ॥ ३ ॥
श्रौतस्मार्तानि वाक्यानि ज्ञानिनो मोक्षभागिनः ।
लक्षकाण्येव लिख्यन्ते विश्वासातिशयाय वै ॥ ४ ॥
यत्र सर्वाणि भूतानि आत्मैवाभूद्‍ विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ५ ॥
यः सर्वत्रानभिस्नेहस्तत्‌ तत्‌ प्राप्य शुभाशुभम्‌ ।
नाभिनन्दन्ति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६ ॥
न विस्मरति सर्वत्र यथा सततगो गतिम्‌ ।
न विस्मरति निश्चेत्यं चिन्मात्रं प्राज्ञधीस्तथा ॥ ७ ॥
नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।
यथापूर्वस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ८ ॥
यो जागर्त्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ९ ॥
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ १० ॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
कुर्वतोऽकुर्वतो वाऽपि स जीवन्मुक्त उच्यते ॥ ११ ॥
अपि शीतरुचावर्के अत्युष्णेऽपीन्दुमण्डले ।
अप्यधःप्रसवत्यग्नौ जीवन्मुतो न चान्यधीः ॥ १२ ॥
चिदात्मन इमा नित्यम्प्रस्फुरन्तीह शक्तयः ।
इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम्‌ ॥ १३ ॥
परव्यसनिनी नारी व्यग्राऽपि गृहकर्मणि ।
तदेवास्वादयत्यन्तर्नरसङ्गरसायनम्‌ ॥ १४ ॥
एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।
तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि ॥ १५ ॥
यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी ।
गम्भीरश्च प्रसन्नश्च गिराविव महाहृदः ॥ १६ ॥
परानन्दरसाक्षुब्धो रमते स्वात्मनाऽऽत्मनि ।
सर्वकर्मपरित्यागी नित्यहृष्टो निरामयः ॥ १७ ॥
न पुण्येन न पापेन नेतरेणापि लिप्यते ।
येन केन चिदाच्छन्नो येन केन चिदाशितः ॥ १८ ॥
यत्र क्वचन शायी च स सम्राडिव राजते ।
वर्णधर्माश्रमाचारशास्त्रमन्त्रनयेप्सितः ॥ १९ ॥
निर्गच्छति जगज्जालात्‌ पञ्जरादिव केसरी ।
वाचामतीतविषमो विषयाशादृशेक्षितः ॥ २० ॥
कामप्युपगतः शोभां शरदीव नभस्तलम्‌ ।
निःस्तोत्रो निर्नमस्कारः पूज्यपूजाविवर्जितः ॥ २१ ॥
संयुक्तो वा वियुक्तो वा सदाचारनयक्रमैः ।
एतावदेव खलु लिङ्गमलिङ्गमूर्त्तेः
संशान्तसंसृतिचिरभ्रमनिर्वृत्तस्य ।
तद्यस्य यन्मदनकोपविषादलोभ-
मोहापदामनुदिनं निपुणं तनुत्वम्‌ ॥ २२ ॥
तुर्यविश्रान्तियुक्तस्य प्रतितीपस्य भवार्णवात्‌ ।
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ॥ २३ ॥
तनुं तयजतु वा तीर्थे श्वपचस्य गृहेऽथवा ।
ज्ञानसम्प्राप्तिसमये मुक्त एवामलाशयः ॥ २४ ॥
न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
सर्वाशासङ्क्षये चेतःक्षयो मोक्ष इति श्रुतेः ॥ २५ ॥
जीवन्मुक्तपदं त्यक्ता स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ २६ ॥
अनाप्ताखिलशैलादिप्रतिबिम्बे हि यादृशी ।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥ २७ ॥
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात्‌ तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे ॥ २८ ॥
चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम्‌ ।
अनादिमध्यनिलयं यदनाधि निरामयम्‌ ॥ २९ ॥
न शून्यं नापि चाकारं न दृश्यं न च दर्शनम्‌ ।
अनाख्यमनभिव्यक्तं तत् किञ्चिदवशिष्यते ॥ ३० ॥

इति श्रीविज्ञानभिक्षुविरचिते साङ्ख्यसारे जीवन्मुक्तिपरममुक्त्योः परिच्छेदः ॥ * ॥

इति साङ्ख्यसारस्योत्तरभागः । साङ्ख्यसाराख्यं प्रकरणं समाप्तम्‌ ।

"https://sa.wikisource.org/w/index.php?title=साङ्ख्यसारः&oldid=398145" इत्यस्माद् प्रतिप्राप्तम्