सामग्री पर जाएँ

साङ्ख्यकारिका (माठरवृत्तिसहिता)

विकिस्रोतः तः
साङ्ख्यकारिका (माठरवृत्तिसहिता)
[[लेखकः :|]]

॥ श्रीः ॥
साङ्ख्यकारिका माठरवृत्तिसहिता

सर्वविद्याविधातारं आदित्यस्थं सनातनम् ।
नतोऽस्मि परया भक्त्या कापिलं ज्योतिरीश्वरम् ॥ १ ॥
कपिलाय नमस्तस्मै येनाविद्योदधौ जगति मग्ने ।
कारुण्यात्साङ्ख्यमयी नौरिह विहिता प्रतरणाय ॥ २ ॥
नमस्कृत्य तु तं तस्य वक्ष्ये ज्ञानस्य कारणम् ।
हिताय सर्वशिष्याणां अल्पग्रन्थसमुच्चयम् ॥ ३ ॥

_________________________________________________________



दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ कारिका १ ॥

अस्या आर्याया उपोद्घातः क्रियते

स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् ।
सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते ॥

इह हि भगवान्महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यैश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुजिघृक्षया प्रजापतेः कर्दमस्य पुत्रः स्वायम्भुवस्य मनोर्दुहितरि देवहूत्यां कपिलो नाम बभूव । स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिषया हस्तावलम्बेनेव, कालाहिदन्दश्यमानजगतः सुधामणिनेव, दुश्चिकित्स्यस्य भवव्याधेरपनयनाय सम्यगौषधेनेव, अविद्यान्धकारप्रध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षविव्रश्चनकुठारेणेवामुनावबोधेन सम्पन्नोऽन्धे तमसि मज्जज्जगदिदं अद्राक्षीत् । तदवलोक्यास्य कारुण्यं उदपादि । अहो खल्विदं जगदनादिकालसम्बद्धं निसर्गादेव अन्धे तमसि वर्तत इति ।
अथासौ महायोगी कथं अस्य वराकस्य अन्धे तमसि वर्तमानस्य विश्वस्यानुग्रहः कार्य इति समुत्पन्नकारुण्यो मनसि चिन्तां आपेदे । स(प्.१) एवं विचिन्तयनासुरिसगोत्रं ब्राह्मणविशेषं वर्षसहस्रयाजिनं अधिकारिणं अवगत्य ब्रह्मोपदेशविद्यया अतन्द्रितो भूत्वा वाचं इत्युवाच "भो भो आसुरे३ रमसे गृहस्थधर्मेण" इति । स तं उवाच "रमे भो" इति । स एवं उक्तो मुनिरीषदनिष्पन्नविवेकवैराग्योऽयं इति व्यवस्य निर्गम्य भूयोऽपि द्वितीये वर्षसहस्रे पूर्णे प्रत्यागत्य तथैवाभ्युवाच "भो भो आसुरे३ रमसे गृहस्थधर्मेण" इति । स तं उवाच "रमे भो" इति । अथासौ महायोगीन्द्रस्तथैव निर्गम्य तृतीये वर्षसहस्रे सम्पूर्णे अभ्येत्योवाच "भो भो आसुरे३ रमसे गृहस्थधर्मेण" इति । स तं उवाच "न रमे भो" इति । अथ स भगवता उक्तः कथं इति । पुनराह आसुरिः "दुःखत्रयाभिघातात्" इति । अथाह कपिलः तात उत्सहसे ब्रह्मचर्यवासं वस्तुं यदि तदामीषां दुःखत्रयाणां प्रतीकारं वयं उपदेक्ष्यामः । सोऽब्रवीत् "भगवन्बाढं शक्तोऽहं भगवतां आदेशं अनुगन्तुम्" इति । स एवं गृहस्थधर्मं अपहाय पुत्रदारादिकं च, प्रव्रजितो भगवतः किल कपिलाचार्यस्य योगिनः प्राणाः(?) शिष्यो बभूव ।
तत्र यदि कश्चिदेवं ब्रूयात् कुतोऽस्य जिज्ञासा समुत्पन्ना ययासौ गुरुकुलं अभिगत इति । तत्रायं प्रतिवादः । दुःखत्रयाभिघाताज्जिज्ञासा समुत्पन्ना । कं इह परं, किं याथात्म्यं, किं निःश्रेयसं, किं कृत्वा कृतार्थः स्यां इति मत्वासौ गुरुकुलं अभिगत इति । तथा हि

"तत्तपः स जपः सा धीस्तज्ज्ञानं सा च वैदुषी ।
यतो नैव निपातः स्यादन्तःसंसारसागरम्" ॥
इति श्रवणात् ।

किञ् च

इहोपपत्तिर्मम केन कर्मणा क्व च प्रयातव्यं इतो भवादिति ।
विचारणा यस्य न जायते क्षितौ कथं स धर्मप्रवणो भविष्यति ॥
तस्मात्समीचीनं इदं यदस्येतिजिज्ञासा समुदपादि ।

किं पुनस्तद्दुःखत्रयं, तदाह आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं । तत्र प्रथमं द्विविधं, शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेष्मणां देहधातूनां वैषम्याद्यद्दुःखं आत्मानं देहं अधिकृत्य ज्वरातीसारादि प्रवर्तते । मानसं प्रियवियोगादप्रियसंयोगाच्च द्विविधं । एतदाध्यात्मिकं दुःखं अभिहितं । आधिभौतिकं तु भूतान्यधिकृत्य यत्प्रवर्तते मानुषपशुपक्षिसरीसृपस्थावरनिमित्तं । आधिदैविकं तु दिवं अधिकृत्य यत्प्रवर्तते शीतोष्णवातवर्षादिकं । एवं एतैस्त्रिभिर्दुःखैरभिहतस्यासुरिसगोत्रस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । क्व विषये?(प्.२) तदभिघातके हेतौ । तेषां त्रयाणां दुःखानां अभिघातको विनाशको योऽसौ हेतुस्तत्र । तां जिज्ञासां आह । किं अमूनि दुःखानि वपुषः, आहोस्वित्तद्व्यतिरिक्तोऽस्ति कश्चिदन्यः पुरुषो यस्येमानि त्रीणि दुःखानि जायन्ते, उतामीषां प्रतीकारोपायोऽप्यस्ति न वा । यद्यस्ति तदानीं तं एवास्थास्यामः । नो चेत्प्रथमप्रावृडासारं षण्ढ[?] इवामूनि निमीलितनेत्रा वयं सोढारः । वृश्चिकादिदष्ट एव विषप्रतीकाराय जाङ्गुलिकं गवेषयति नो वा विषभवपीडासहः । एवं असह्यदुःखाभिभूतस्यासुरेस्तदभिघातके हेतौ जिज्ञासा समुत्पन्ना । स च समुत्पन्नदुःखाभावं जिज्ञासुस्तत्प्रतीकारकुशलं भगवन्तं कपिलाचार्यं शरणं अभ्युपगतः, अयं मदभिलषितदुःखप्रतीकारोपायं वक्ष्यतीति ।
ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषां एवाभावाय कारणत्वं उपयाति । न हि जनयित्रीसकाशादुत्पन्नस्तनयस्तस्या एव व्यापादनं कुरुते । सत्यं । इह लोके यद्यस्मादुत्पद्यते तत्तस्यापि विपत्तिकारणं दृश्यते । यथा कर्कटकोऽश्वतरो वा जनयित्र्याः समुत्पन्नस्तां एव व्यापादयति । यद्वा यथा कश्चिदाशीविषः शुष्कतृणबहुलप्रदेशे स्थितः प्रतिसर्पं दृष्ट्वा क्रुद्धस्तस्य मुखनिःश्वासनिर्गतो वह्निस्तृणानि तं वापि सर्पं ददाह । अमुना न्यायेन दुःखेभ्य एव जिज्ञासा निष्पन्ना दुःखानां एवाभावं करिष्यतीत्यर्थसङ्गतिः ।
अत्रोच्यते । दृष्टे सापार्था चेत् । चेदित्ययं निपातः शङ्कायां वर्तते । इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारोऽस्त्येव, किं तदर्थं कपिलोपसर्पणेनेति भावः । तं एव हेतुं दृष्टं दर्शयति । शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधीनां सन्त्येवागदङ्कारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्यशलाकाविषोन्मादक्लीबजराकुमारचिकित्सानिपुणाः । मानसस्याध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगादप्रियस्य दूरतः परिहरणाच्च । आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहाणोपपत्तिः । आधिदैविकस्याभिवातयातप्रावरणावरणादिभिः । अतस्तदभिघातकारणात्किं कपिलोपसर्पणेनेति भावः । तथा च लौकिकानां आभाणकः

अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्य लीलया सिद्धौ को विद्वान्यत्नं आश्रयेत् ॥

अत्रोच्यते न । न इत्ययं पूर्वपक्षवाक्यनिषेधे । नैवं वाच्यं इत्यर्थः । एकान्तात्यन्ततोऽभावात् । एकान्ततोऽवश्यं त्वदुक्तहेतुभिर्न प्रतीकारः । यतश्चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यततां अपि कदाचिज्जन्तुर्(प्.३) विपद्यते कदाचिज्जीवति । वैद्यगृहेऽपि वधूपुत्रकलत्रभ्रातृपितृपभृतीनां अपरिहार्यमरणदर्शनान्नायं ऐकान्तिकप्रतीकार आध्यात्मिकस्य । अपरम्, अत्यन्ततोऽपि नासौ प्रतीकारः । अगदेन नीरुजीकृतानां अपि ज्वरादीनां पुनः कतिपयदिवसैरुत्पत्तिदर्शनात् । अतः सर्वथा आत्यन्तिकोऽपि न दृष्टः प्रतीकार आध्यात्मिकदुःखापनयने समर्थः । वसन्तादीनां अपगतानां अपि पुनरागमनवत् । भवन्ति चात्र श्लोकाः

पुनर्दाहः समुत्पन्नः पुनर्जातश्च वेपथुः ।
बाधते च पुनर्हिक्का ज्वरश्च पुनरागतः ॥

अन्यच्च

पुष्पिताक्षः शलाकी च कुष्ठी कायचिकित्सकः ।
पृच्छन्ति बालभिषजं कथं ते दारका मृताः ॥

किञ् च नास्ति सम्यग्धातुपरिज्ञाननिपुणतया भैषज्यं । तथा हि

यानि कानि च मूलानि येन केन च पेषयेत् ।
यस्मै कस्मै च दातव्यं यद्वा तद्वा भविष्यति ॥

अन्यच्च कार्यार्थिजनद्रव्यभक्षणाय, स्वशक्तिख्यापनाय च स्वल्पं अपि रोगं पुरस्ताद्वर्धयन्ति भिषजः । ततश्च कदाचिदसौ तेषां एवासाध्यतां आयाति । तथा च

वैद्य वैद्य नमस्तुभ्यं क्षपिताशेषमानव ।
त्वयि विन्यस्तभारोऽयं कृतान्तः सुखं एधते ॥

एवं असौ दृष्टेनागदादिहेतुना, एकातन्तोऽवश्यम्, अत्यन्ततः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः । एवं मानसस्यापि शब्दादिप्रियसंयोगादपि कदाचिन्न निवृत्तिः । एवं आधिभौतिकं अप्युपायैः कदाचिद्व्यपैति, कदाचिच्च नेति । एवं आधिदैविकं अपि कदाचिद्व्यपैति कदाचिच्च न । किञ् च व्यपगतिरपि दुःखस्य पुनरुत्पादादनर्थिकेति । अस्य तु शिष्यस्यैकान्तिक आत्यन्तिकश्च दुःखव्यपगमे हेतुरिष्टः । तस्माद्युक्तं तदर्थं गुरूपसर्पणं इति ॥ टिका १ ॥


_________________________________________________________



यद्येवं तदा दृष्टव्यतिरेकेणाप्यानुश्रविकः श्रुतिप्रणीतः स्वर्गादिसाधनरूपो यज्ञादिर्हेतुरस्तु । नाकपृष्ठेऽपि तापत्रयासम्भवात् । तत्रैकान्तिकं आत्यन्तिकं वानुश्रवे वेदे श्रूयते । गुरुणोक्तं पश्चाद्वेदं शृण्वन्ति शिष्या इत्यनुश्रवो वेदः । तत्र भव आनुश्रविकः । श्रौतो यज्ञादिरूपोऽयं दुःखत्रयप्रतीकारहेतुरुचितोऽस्ति । एवं ह्याह "तरति मृत्युं, तरति शोकं, तरति पाप्मानं, तरति ब्रह्महत्यां योऽश्वमेधेन यजते" [शतपथब्राह्मण १३ ।३ ।१ ।१] इति । यच्चैनं देवाः पुनरप्याहुः (प्.४)

"अपाम सोमं अमृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनं अस्मान्कृणवदरातिः किं उ धूर्तिरमृत मर्त्यस्य" ॥
[ऋग्वेदसंहिता ८ ।४८ ।३] इति ।

इह श्रुतावैकान्तिकं आत्यन्तिकं च फलं श्रूयते । अत्रास्य व्याख्या
कदाचित्किलेन्द्रो देवानुपस्थितान्निशम्य इत्यवोचत् भो भो देवत्वादन्यदपि किं अप्यस्ति सुखं । ततस्ते देवा ऊचुः नास्त्यन्यत्सुखं । अत एवास्मन्निवासस्य नाक इत्यभिधानं । कं इति सुखनाम, तस्य निषेधः अकं असुखं तन्न इति नाकं । केवलं सुखं एव । द्वौ नञौ प्रकृतं अर्थं गमयतः । ततः प्राहेन्द्रः कथं इति । ततस्ते ऊचुः अनेन हेतुना अपाम पीतवन्तः । सोमं यज्ञे सोमरसं, तेन तत्पानेन अमृता अमरा अभूम सम्पन्नाः । किं च अगन्म प्राप्तवन्तः ज्योतिः स्वर्गं । अन्यच्च अविदाम जानीमो देवान् । अस्मिन्स्वर्गे इयन्तो देवा इति विद्मः । किं इत्याक्षेपे । नूनं निश्चितं । अस्मानस्माकं विभक्तिविपरिणामः । कृणवत्कर्ता । अरातिः शत्रुर्मृत्युः । किं वा धृतिर्जरा अस्माकं करिष्यति । अमृतमर्त्यस्य अमृतपायिनां मर्त्यानां इति । "बहुलं छन्दसि"[ ] इति वचनविपरिणामः । एवं अन्योऽपि यः सोमं पास्यति तस्यैकान्तिकोऽवश्यं आत्यन्तिकः सर्वथा दुःखत्रयाभिघातो भविष्यति । अतो ब्रूमः किं प्रव्रज्यया साङ्ख्यज्ञानेन वा कार्यं वेदोक्तं करिष्यामः । दुःखप्रतीकारश्च स्वर्गो भावीति वेदवादिनां वचनं उपश्रुत्य साङ्ख्याचार्यस्तन्निवारणाय स्वमतप्रतिष्ठायै च द्वितीयां आर्यां आह


दृष्टवदानुश्रविकः स ह्यविशुद्धः क्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात् ॥ कारिका २ ॥

य एष आनुश्रविकः श्रौतोऽग्निहोत्रादिकः स्वर्गसाधनतया तापत्रयप्रतीकारहेतुरुक्तः, सोऽपि दृष्टवदनैकान्तिकः प्रतीकारः । तथा हि "मध्यमपिण्डं पुत्रकामा पत्नी प्राश्नीयात्"आधत्त पितरो गर्भम्"(वाजसनेयिसंहिता २ ।३३) इति मन्त्रेण"[आपस्तम्बश्रौतसूत्र २ ।७ ।१४] । तदेवं वेदवचसा बहून्पिण्डान्परःशतानश्नाति यावदेकोऽपि पुत्रो न जायते । तथा "पश्येम शरदः शतं जीवेम शरदः शतम्"[ऋग्वेदसंहिता ७ ।६६ ।१६] इति श्रुतावास्ते । परं गर्भस्थो जातमात्रो बालो युवापि कुमारो म्रियते । किं चान्यत् स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् । क्षययुक्तः पुनः पातात् । अतिशययुक्तः तत्रापि स्वामिभृत्यभावश्रवणात् । उक्तं च (प्.५)

"षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः" ॥

पशुवधोऽग्निष्टोमे मानुषवधः गोसवव्यवस्था सौत्रामण्यां सुरापानं रण्डया सह स्वेच्छालापश्च ऋत्विजां । कल्पसूत्रेऽन्यदप्यकृत्यं भूरि कर्तव्यतयोपदिश्यते । "ब्रह्मणे ब्राह्मणं आलभेत क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे तस्करं नारकाय वीरहणम्"[तैत्तिरीयब्राह्मण ३ ।४ ।११, आपस्तम्बश्रौतसूत्र २० ।२४ ।८] इत्यादिश्रवणात् ।
किञ् च

"यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।
भूतहत्यां तथैवेमां न यज्ञैर्मार्ष्टुं अर्हति" ॥
[भागवतपुराण, १ ।८ ।५२]
"न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुद्ध्यतः" ।

"तद्यथास्मिन्लोके मनुष्याः पशूनश्नन्ति तथाभिभुञ्जत एवं अमुष्मिन्लोके पशवो मनुष्यान् अश्नन्ति" [शाङ्खायनब्राह्मण ११ ।२] इति श्रुतिश्रवणात् । अन्यच्च

"वृक्षान्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ।
यज्ञैश्चेद्गम्यते स्वर्गो नरकः केन गम्यते" ॥

इत्यविशुद्धियुक्तः सर्वथा श्रौतो दुःखत्रयप्रतीकारहेतुः । अथ "अपाम सोमं अमृता अभूम" इति प्रागुक्तं । तत्रेदं प्रत्युत्तरं । सोमपायिनां अपि नृगनहुषेन्द्रययातीनां बेधबन्धपरिक्लेशा बहुविधाः । कर्मण उपभोगादितरेषां पतनं च । एकाहादीनां सत्राणां दिनपरिमाणवतां कारणानां परिमाणवदेव स्वर्गादि कार्यं दृष्टं । कारणानुगमत्वात्कार्यस्य । परिमाणवन्मृत्पिण्डात्परिमाणवानेव घटः स्यात् । एवं आनुश्रविकाणां फलपरिमाणत्वात्पुनः क्षयः । अतिशययुक्तश्च । यथा आढ्यं अवलोक्य दरिद्रस्य दुःखं स्यात्, सुरूपं च वीक्ष्य कुरूपस्य, प्राज्ञं दृष्ट्वा मूर्खस्य, तथा शताप्सरसं स्वर्गिणं दृष्ट्वा पञ्चाप्सरसस्तं दृष्ट्वैकाप्सरसो दुःखं उत्पद्यते । एवं अयं दृष्टवत् । तदेवं अन्योन्यातिशयात्स्वर्गेऽपि दुःखं अव्यावृत्तं । तस्मात् । तद्विपरीतः श्रेयान् । ताभ्यां दृष्टानुश्रविकाभ्यां हेतुभ्यां विपरीतो विसदृश ऐकान्तिक आत्यन्तिको विशुद्धोऽक्षयोऽनन्तफलः कैवल्यान्निरतिशयो हेतुः स श्रेयान्प्रशस्यः । कथं पुनरसौ भवतीत्याह व्यक्ताव्यक्तज्ञविज्ञानात् । व्यक्तं चाव्यक्तं च ज्ञश्च तेषां(प्.६) त्रयाणां विज्ञानादनुभवात् । भवति ह्यसौ अवश्यं फलदानादैकान्तिकः, प्रकृतिज्ञानादात्यन्तिकः, यमनियमादिमत्त्वाच्छुद्धः, शरीरभेदे पुनरनावेश्यत्वादक्षयफलः । कैवल्यादनुत्तरत्वाच्च निरतिशयफलं इति वाक्यशेषः । तत्र व्यक्तं बुद्ध्यहङ्कारेन्द्रियतन्मात्रभूतभेदात्त्रयोविंशतिकं । अव्यक्तं प्रधानं । व्यक्तोत्पत्तिकारणं । न ह्यकारणं कार्यं इत्यस्य सिद्धिः । ज्ञः पुरुषः । सन्निधिसत्तामात्रेण चुम्बक इव लोहस्य प्रवृत्तिकारणं । अतः प्रधानस्य जडस्य प्रवृत्तिहेतुरयं अस्तीति सिद्धिः । एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञसंज्ञानि । यद्विज्ञानादवश्यं सर्वथा तापत्रयेण विमुच्यते ॥ टिका २ ॥


_________________________________________________________



नन्वमीषां कतिधा प्रविभाग इत्यत्रोच्यते चतुर्धा । कथं इति चेत्तदुच्यते


मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ कारिका ३ ॥

मूलप्रकृतिः प्रधानं मूलभूतत्वात् । मूलं सप्तानां प्रकृतिविकृतीनां आदिरित्यर्थः । प्रकरणात्प्रकृतिः । प्रसवधर्मकत्वात्सा प्रकृतिः । न विकृतिरविकृतिरन्यस्मादनुत्पत्तेः । कारणं एव सा न कार्यं इत्यर्थः । अनुत्पन्नत्वादुत्पादकत्वाच्च । महदाद्यास्तु सप्त प्रकृतयो विकृतयश्च । महानहङ्कारः पञ्चतन्मात्राणि चेति सप्त प्रकृतयोऽन्येषां कारणतया, विकृतयश्च कार्यतया स्वयं । तत्र व्यक्तिं आह प्रधानाद्बुद्धिरिति विकृतिः, सा च अहङ्कारं जनयतीति प्रकृतिः । अहङ्कारो महत उत्पन्न इति विकृतिः, तन्मात्राणि जनयतीति प्रकृतिः । तन्मात्राण्यहङ्कारादुत्पन्नानीति विकृतयः पञ्चापि, ततः पञ्चमहाभूतानि जायन्त इति प्रकृतयः । उत्पन्नत्वादुत्पादकत्वाच्च सप्तमाः प्रकृतयो विकृतयश्च । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाख्यानि । षोडशकस्तु पुनर्विकार एव कार्यत्वात् । न तु तस्य प्रकृतित्वं अकारणत्वात् । तद्व्यक्तिं आह वैकृतिकादहङ्कारादुत्पन्नान्येकादशेन्द्रियाणि तन्मात्रेभ्यः पञ्चमहाभूतानीति षोडशकोऽयं गणो विकारोऽन्यस्मादुत्पन्नो न हि ततोऽन्यदुत्पद्यत इत्यर्थः । उत्पन्नत्वादनुत्पादकत्वाच्च । पुरुषस्तु पुनर्न प्रकृतिरनुत्पादकत्वात्न च विकृतिरनुत्पन्नत्वात् । नैवासौ कारणं न च कार्यं इत्यर्थः । एवं एष प्रकृतिः, प्रकृतिविकृतिः, विकृतिः, न प्रकृतिर्न च विकृतिरितिभेदाच्चतुर्धा प्रकृतिविकृतिविभागोऽभिहितः ॥ टिका ३ ॥
(प्.७)

_________________________________________________________



एषां व्यक्ताव्यक्तज्ञानां प्रमेयाणां साधनाय प्रमाणान्याह । प्रमाणप्रमेयप्रमातृप्रमितिक्रमेण हि सकलस्य सिद्धिर्दृष्टा ।

दृष्टं अनुमानं आप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणं इष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ कारिका ४ ॥

दृष्टं इति प्रत्यक्षपर्यायः । अक्षं इन्द्रियं प्रतीत्य यदुत्पद्यते ज्ञानं तत्प्रत्यक्षं दृष्टं उच्यते । यथा श्रोत्रादीनां शब्दादयः पञ्चेन्द्रियार्थाः पञ्चानां दृष्टं प्रमाणं । प्रथमं इदं मुख्यं सकलप्रमाणानां । योऽर्थोऽमुना दृष्टेन साधयितुं न पार्यते तत्रानुमानस्यावकाशः । तच्च त्रिसाधनं पञ्चसाधनं वा । त्र्यवयवं पञ्चावयवं इत्यपरे । तच्च त्रयस्त्रिंशदाभासरहितं प्रत्यक्षाभावे प्रतन्यतेऽनुमानं । कं अपि हेतुं अन्वीक्ष्य तस्य हेतोः पश्चान्मीयत इत्यनुमानं । यथा धूमं हेतुं अन्वीक्ष्य महानस इव पूर्वं वह्निदर्शनादग्नेरस्तित्वं साध्यत इत्यनुमानं । प्रत्यक्षानुमानाभ्यां योऽर्थः साधयितुं न शक्यस्तत्राप्तवचनं । यथा स्वर्गेऽप्सरसः सन्ति, नन्दनं वनं, तत्र विशेषाः शब्दादयो विषयाः, विमानेऽधिवास इति । आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर्वेदः, ताभ्यां उपदिष्टं तथेतिश्रद्धेयं आप्तवचनं ।
नन्वर्थापत्तिः सम्भवोऽभावः प्रतिभा ऐतिह्यं उपमानं चेतिप्रभृतीनि सन्ति बहूनि प्रमाणान्तराणि कथं अत्र त्रिविधं प्रमाणं इति सङ्गतिः । अत्रोच्यते सर्वप्रमाणसिद्धत्वात् । सर्वाणि हि प्रमाणानि प्रमाणत्रयेऽविरुद्धानि । तत्र पीनो देवदत्तो दिवा न भुङ्क्त इत्युक्ते रात्रौ भुङ्क्त इत्यर्थः । सार्थापत्तिरनुमानं एव । प्रस्थ इत्युक्ते चत्वारः कुडवा इति बोधः सम्भवः । सोऽप्यनुमानं एव । अभावश्च प्रागितरेतरप्रध्वंसात्यन्ताभावभेदाच्चतुर्धा । यथा व्रीहिशोषणदर्शनान्न वृष्टो देव इति वृष्टेरभावं साधयति । सोऽप्यनुमानभेदः । प्रतिभा यथा

दक्षिणेन तु विन्ध्यस्य सह्यस्य तु यदुत्तरम् ।
पृथिव्यां आ समुद्रायां स प्रदेशो मनोरमः ॥

इत्युक्ते तत्र शोभना गुणाः सन्तीति प्रतिभोत्पद्यते । प्रतिभा जानतां ज्ञानं । साप्यनुमानं एव । ऐतिह्यं यथा अस्मिन्वटे यक्षिणी प्रतिवसति इति जना वदन्ति इत्युक्ते, सा विघ्नं करोति, धनादि यच्छतीति ज्ञानं, तदप्यनुमानं एव । उपमानं यथा गौस्तथा गवय इत्य्(प्.८) अप्यनुमानं एव । किं च तृषितस्याञ्जलिना, क्षुधितस्य पञ्चाङ्गुलियागात्, पृथुलाक्षिप्रभृतिदर्शनात्दुर्बलस्य, तर्जनीपङ्कदर्शनात्? ज्ञानं इत्याद्यनुमानं एव । तस्मात्त्रिष्वेवान्यदन्तर्भवतीति युक्तं अभिहितं त्रिविधं प्रमाणं । इष्टं इति अभिप्रेतं इत्यर्थः । तेन प्रमाणेन किं साध्यं इत्याह प्रमेयसिद्धिः प्रमाणाद्धि । यस्मात्प्रमेयं सकलं प्रमाणेन प्रमीयते यथा तुलया चन्दनादि, कर्षादिना घृतादि, प्रस्थादिना वा व्रीह्यादीत्यादिवत् । प्रत्यक्षानुमानागमाः प्रमाणानि । प्रमेया व्यक्ताव्यक्तज्ञाः । प्रमाता आत्मा । तत्र त्रयोविंशतिकं व्यक्तं । अव्यक्तं प्रधानं । ज्ञः क्षेत्रज्ञः । तदमीषां मध्ये किञ्चित्प्रत्यक्षेणान्यदनुमानेनेतरदाप्तानुमानाभ्यां प्रमीयते । तस्मादाचार्येण भगवता युक्तं अभिहितं "प्रमेयसिद्धिः प्रमाणाद्धि" इति ॥ टिका ४ ॥

_________________________________________________________


तत्र त्रिविधस्य प्रमाणस्य पृथक्लक्षणं उपन्यस्यते ।


प्रतिविषयाध्यवसायो दृष्टं त्रिविधं अनुमानं आख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकं आप्तश्रुतिराप्तवचनं तु ॥ कारिका ५ ॥

विषयं विषयं प्रति योऽध्यवसायो नेत्रादीनां इन्द्रियाणां पञ्चानां रूपादिषु पञ्चसु, तत्प्रत्यक्षं प्रतिपत्तिरूपं दृष्टाख्यं । अनुमानं त्रिविधं । त्रिसाधनं त्र्यवयवं पञ्चावयवं इत्यपरे । तदाख्यातं कथितं । पक्षहेतुदृष्टान्ता इति त्र्यवयवं । पक्षः प्रतिज्ञापदं । यथा वह्निमानयं प्रदेशः । साध्यवस्तूपन्यासः पक्षः । इतरे पक्षाभासाः प्रत्यक्षविरुद्धादयो नव । त्रिरूपो हेतुः । त्रैरूप्यं पुनः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वं इति । अत्रोदाहरणं यथा धूमवत्त्वादिति । अन्ये हेत्वाभासाः चतुर्दश । असिद्धानैकान्तिकविरुद्धादयः । साधर्म्यवैधर्म्याभ्यां द्विविधं निदर्शनं । यथा महानसं । इतरे निदर्शनाभासा दश । एवं त्रयस्त्रिंशदाभासरहितं त्र्यवयवं अनुमानं । पञ्चावयवं इत्यपरे । तदाह अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः । एवं पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थप्रतिपादनं परार्थं अनुमानं । तच्च त्रिविधं । पूर्ववच्छेषवत्सामान्यतोदृष्टं च । तत्र विशिष्टमेघोन्नतिदर्शनात्भवित्रीं वृष्टिं सम्भावयति । पूर्वं इयं दृष्टेति पूर्ववत् । नदीपूरदर्शनादुपरि वृष्टो देव इति वा प्रतीतिः । शेषवद्यथा समुद्रोदकबिन्दुं प्राश्य, शेषस्य लवणभावोऽनुमीयते इति शेषवत् ।(प्.९) सामान्यतोदृष्टं पुष्पिताम्रदर्शनात् । अन्यत्र पुष्पिता आम्रा इति । पुनर्यथा बहिरुद्योत इति केनाप्युक्तं, तत्रापरेणाप्युक्तं । चन्द्र उदितो भविष्यतीत्यर्थसङ्गतिः । तल्लिङ्गलिङ्गिपूर्वकं इति । लिङ्गेन त्रिदण्डादिदर्शनेनादृष्टोऽपि लिङ्गी साध्यते नूनं असौ परिव्राडस्ति यस्येदं त्रिदण्डं इति । आप्तश्रुतिराप्तवचनं तु । तृतीयं प्रमाणं । आप्ता ब्रह्मादय आचार्याः, श्रुतिर्वेदस्तदेतदुभयं आप्तवचनं । आप्तिः साक्षादर्थप्राप्तिर्यथार्थोपलम्भः तया वर्तत इत्याप्तः साक्षात्कृतधर्मा यथार्थाप्त्या श्रुतार्थग्राही तदुक्तं आप्तवचनं । तत्रापि प्रसिद्धिलक्षणागुणयोगात्तिस्रः शब्दवृत्तयः । तत्र लक्षणात्रैविध्यं । जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणा चेत्यादि प्रमाणशास्त्रेषु बहुतरः प्रपञ्च आस्ते । तत्र प्रक्रान्तं एव तावदभिधीयते भगवतः कपिलस्य मतं ।

आगमो ह्याप्तवचनं आप्तं दोषक्षयाद्विदुः ।
क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥
स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः ।
पूजितस्तद्विधैर्नित्यं आप्तो ज्ञेयः स तादृशः ॥
तदेवं एतत्त्रिविधं प्रमाणम् ॥ टिका ५ ॥


_________________________________________________________



तदेवं व्यक्ताव्यक्तज्ञाख्यस्य प्रत्यक्षादित्रिविधप्रमाणेषु केन कस्य सिद्धिः स्यातिति । अत्रोच्यते

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षं आप्तागमात्साध्यम् ॥ कारिका ६ ॥

अत्र प्रधानपुरुषावतीन्द्रियौ तयोः सामान्यतोदृष्टादनुमानात्सिद्धिः । यस्मान्महदादि लिङ्गं त्रिगुणं दृष्ट्वा कार्यं तत्कारणं अदृष्टं अप्यस्ति त्रिगुणं चेति साध्यते प्रधानं । न ह्यसतः सदुत्पत्तिः स्यादिति । न च कारणासदृशं कार्यं स्यादिति । व्यक्तं तु प्रत्यक्षेणैव साधितं इति तदर्थे न प्रयत्नः । यस्माज्जडं अपि प्रधानं प्रसूतिक्रियायां प्रवर्तते तस्मादस्ति लोहस्य चलनक्रियाशक्तिहेतुचुम्बकवदवश्यं पुरुष इति ज्ञसिद्धिः ॥ टिका ६ ॥


_________________________________________________________


ननु प्रत्यक्षेण योऽर्थो नोपलभ्यते स सर्वथा नास्तीति मतं सङ्गच्छते । यथा द्वितीयं अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो(प्.१०) वा । एवं प्रधानपुरुषौ नोपलभ्येते तस्मात्तावपि न स्त इत्याशङ्कानिरासायाह

अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥ कारिका ७ ॥

इह लोके सतां अप्यर्थानां अष्टधा नोपलब्धिः । तथा हि दर्शयति यथा सतां अपि देवदत्तविष्णुमित्रयज्ञदत्तानां देशान्तरगतानां अतिदूरान्नोपलब्धिः । तत्किं ते न सन्ति । यथा वा चक्षुरतिसामीप्यात्कज्जलं नोपलभते । तत्किं इदं नास्ति । यथा बधिरान्धौ शब्दरूपे नोपलभेते । तत्किं ते न स्तः । अनवस्थितचित्तौ राजानं अपि यान्तं न पश्यति । तत्किं असौ न गतः । धूमोष्मत्रुटिनीहारपरमाणवो नोपलभ्यन्ते । तत्किं अमीषां अभावः । कुड्येन व्यवहितं नोपलभ्यते । तत्किं नास्ति । सूर्यादितेजसाभिभूतानां ग्रहनक्षत्रतारकादीनां अनुपलम्भात्तेषां किं अभावः शक्यते परिकल्पयितुं । मुद्गराशिकुवलयामलकमौक्तिककपोतादिनिकुरम्बे क्षिप्तं समानं यदि नोपलभ्यते तदवेदं इति । तत्किं नास्ति । एवं अष्टधा सतां अप्यनुपलम्भोऽभिहितः । इदानीं असतां चतुर्धा भवति । तत्रोच्यते प्राक्प्रध्वंसेतरेतरात्यन्ताभावभेदात् । तत्र मृत्पिण्डे घटः प्रागुत्पत्तेर्नोपलभ्यत इति प्रागभावः । प्रध्वंसाभावो यथा मुद्गराभिघातात्प्रध्वस्तो घटो नोपलभ्यते । इतरेतराभावो यथा अश्वे गोत्वम्, गवि अश्वत्वं । अत्यन्ताभावो यथा द्वितीयं अनीश्वरशिरः, तृतीयो बाहुः, शशविषाणादयो वा । एवं इयं द्वादशधा अनुपलब्धिः । सतां अष्टधा ह्यसतां चतुर्धा । एवं प्रधानपुरुषावपि सन्तौ नोपलभ्येते ॥ टिका ७ ॥

_________________________________________________________


तदमीषां मध्ये केन हेतुनेमौ नोपलभ्येते । तदुच्यते


सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः ।
महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं च ॥ कारिका ८ ॥

तस्य प्रधानस्यानुपलब्धिरनवगमः सौक्ष्म्यात्हेतोर्नाभावात् । सूक्ष्मं प्रधानं शब्दाद्यलक्षणत्वात्परमाण्वादिवत् । न पुनरेवं, यन्नास्ति प्रधानं अतो नोपलभ्यते । किं तु अस्ति प्रधानं नोपलभ्यते सौक्ष्म्यात्परमाण्वादिवत् । तर्हि कथं उपलभ्यत इति । अत्राह कार्यतस्तदुपलब्धिः ।(प्.११) कार्यं दृष्ट्वा कारणं अनुमेयं वटधान्यवत् । यथा वटधान्यं कारणं वटं कार्यं आलोक्यानुमीयते । एवं सदेव प्रधानं कारणं महदादेः सतः कार्यादनुमीयते । न ह्यसतः सदुत्पत्तिर्भवतीति । महदादि महान हङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि चेति त्रयोविंशतिकं । एतन्महदादि कार्यं त्रिगुणं दृष्ट्वानुमीयते अस्ति प्रधानं अपि त्रिगुणं कारणं यस्येदं त्रिगुणं कार्यं इति । किं चान्यत् । तच्च कार्यं प्रकृतिविरूपं सरूपं च । प्रधानाद्विसदृशं सदृशं चेत्यर्थः । सन्ति ते हेतवो यैरेतत्प्रधानं विसदृशं सदृशं च । यथा लोके पुत्रः पितुः सदृशो विसदृशः स्यात्यदि रूपेण तदा न गुणैः, यदा गुणैस्तदा न रूपेणेति यावत् । तांश्च हेतूनुपरिष्टाद्वक्ष्यामः ॥ टिका ८ ॥


_________________________________________________________



तिष्ठतु तावदेतत् । अन्यत्पृच्छामः किं एतन्महदादि प्रागुत्पत्तेः प्रधाने सत्जायते, उतासत्सम्भवति । अत्राचार्याणां विप्रतिपत्तिरतः संशयः । अत्र वैशेषिका विप्रतिपन्ना असतः सद्भवतीति मन्यन्ते । मृत्पिण्डे हि प्रागुत्पत्तेर्घटो नास्तीति व्यवसितास्ते । अस्ति नास्तीति वराका जीवकाः । नैवास्ति न च नास्ति । एष बौद्धानां पक्षः । एवं अन्योन्यविरोधवादिषु दर्शिषु को नाम निश्चयः । तदुच्यते । तत्र तावत्सदसद्वादिनो जीवकाः स्ववचनविरोधेनैव निरस्ताः । यदि सत्तदासन्न भवति । उतासत्तदा सद्भावो न । यतः सदसतोरेकत्र विरोधात् । अत्र दृष्टान्तो यथा देवदत्तो मृतो जीवति चेतिवत् । बौद्धानां तु नास्ति न च नास्तीति पक्षपरिग्रहाभावात्तैः सह सञ्जल्प एव न युज्यते । वैशेषिकाणां तु असतः सद्भवतीति मतप्रतिषेधाय उच्यते


असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥ कारिका ९ ॥

इह लोके सदेव सद्भवति । असतः करणं नास्ति । यदि स्यात्तदा सिकताभ्यस्तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्यादुहितृभ्रूविलासः, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्मादनुमीयते प्रधाने प्रागुत्पत्तेर्महदादिकं अस्त्येव । उपादानग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । तन्निमित्तं उपादत्ते । तद्यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चासत्कार्यं स्यात्तदा दध्यर्थी उदकस्याप्युपादानं कुर्यात्, न च कुरुते, तस्मात्प्रधाने महदादि कार्यं अस्तीति । किं च सर्वसम्भवाभावात् । इह लोके यद्यस्मिन्विद्यते तस्मादेव तदुत्पद्यते । यथा तिलेभ्यस्तैलं, दध्नो घृतं । यदि सासत्कार्यं स्यात्तदा सर्वं(प्.१२) सर्वतः सम्भवेत्ततश्च तृणपांसुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् । न च जायन्ते । तस्मात्पश्यामः सर्वसम्भवाभावादपि महदादि कार्यं प्रधाने सदेव सद्भवतीति । अतश्चास्ति शक्तस्य शक्यकरणात् । इह लोके शक्तः शिल्पी करणादिकारणोपादानकालोपायसम्पन्नः शक्यादेव शक्यं कर्म आरभते नाशक्यं अशक्यात् । तद्यथा शक्तः कुम्भकारः शक्यादेव मृत्पिण्डात्शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः सम्पन्नो घटशरावोदञ्चनादीन्यारभमाणो दृष्टः । न च मणिकादि, अशक्यत्वात्तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्यादशक्यादप्यशक्यं आरभ्येत । तस्मात्सत्कार्यं स्यान्नासत् । किं च कारणभावाच्च । कार्यं सदेव स्यात् । इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् । यथा कोद्रवेभ्यः कोद्रवाः, व्रीहिभ्यो व्रीहयः स्युः । यदि चासत्कार्यं स्यात्तदा कोद्रवेभ्यः शालीनां अपि निष्पत्तिः स्यात् । न च भवति । तस्मात्कारणभावादपि पश्यामः प्रधाने महदादि कार्यं अस्तीति । साधितं एवं एतैः पञ्चभिर्हेतुभिः सत्कार्यं । "सदेव सोम्येदं अग्र आसीदेकं एवाद्वितीयं तद्धैक आहुरसदेवेदं अग्र आसीत्" इत्यारभ्य "सत्त्वेव सोम्येदं अग्र आसीत्" [छान्दोग्योपनिषद्६ ।२ ।१२] इति श्रुतेः ॥ टिका ९ ॥


_________________________________________________________



तत्र यदुक्तं पूर्वस्यां आर्यायां "प्रकृतिविरूपं सरूपं च" इति । तत्साधर्म्यवैधर्म्यप्रतिपादनाय इदं आरभ्यते

हेतुमदनित्यं अव्यापि सक्रियं अनेकं आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतं अव्यक्तम् ॥ कारिका १० ॥

हेतुमदिति । यस्योत्पत्तिकारणं अस्ति तद्धेतुमत् । हेतुरपदेशो निमित्तं प्रकृतिः कारणं इत्यनर्थान्तरं । प्रधानस्यैते पर्यायशब्दाः । तस्मात्प्रधानेन हेतुना सकारणं इदं महदादिभूतपर्यन्तं त्रयोविंशतिकं लिङ्गं । तथा हि महद्बुद्धितत्त्वं तत्प्रधानेन हेतुमत् । तेनाहङ्कारोऽमुनैकादशेन्द्रियाणि तन्मात्राणि च । तैश्च भूतानीति सर्वं एवेदं परस्परहेतुमत् । अथ च द्विविधो हेतुः कारको ज्ञापकश्च । तत्र प्रधानबुद्ध्यहङ्कारतन्मात्रलक्षणश्चतुर्विधः कारकः । विपर्ययाशक्तितुष्टिसिद्ध्यनुग्रहभेदात्पञ्चधा ज्ञापकः । तद्द्विविधेनापि हेतुना युक्तं हेतुमदिदं सिद्धं । किं च अनित्यं प्रलयं गच्छति । यस्मादुत्पत्तिमत्तस्मादनित्यं । अकारणवन्नित्यं इति नित्यस्य लक्षणं । तद्विपरीतं इदं अतोऽनित्यं । तद्यथा मृत्पिण्डादुत्पन्नो घटः स चानित्यो दृष्टः । एवं महदादि प्रधानादुत्पन्नं(प्.१३) तस्मादनित्यं तस्मिन्नेव च लीयते । तथा हि प्रधाने बुद्धिस्तस्यां अहङ्कारस्तस्मिन्निन्द्रियाणि तन्मात्राणि च तेषु भूतानि प्रलयकाले लीयन्ते । तस्मादनित्यं । किञ् च अव्यापि असर्वगतं । यथा प्रधानपुरुषौ सर्वगतौ न तथेदं इत्यर्थः । इदं हि यस्मिन्नेव प्रदेशेऽवस्थितं तस्मिन्नेव वर्तते । किं च सक्रियं । यस्मात्संसरणकाले महदादि कार्यं सूक्ष्मशरीरं आश्रित्य संसरति तस्मात्सक्रियं । किं च अनेकं बहुविधं त्रयोविंशतिप्रकारकं । इतरच्च आश्रितं । यद्यस्मादुत्पद्यते तत्तदाश्रितं । बुद्धिः प्रधानं आश्रिता, तां चाहङ्कारः, तं चेन्द्रियाणि तन्मात्राणि च, तानि महाभूतान्याश्रितानि । एवं आश्रितं । लयं गच्छतीति लिङ्गं । सावयवं इति । अवयन्तीत्यवयवा यथा पिण्डस्य हस्तपादाद्याः । शब्दस्पर्शरसरूपगन्धाद्यवयवसम्पन्नं व्यक्तं । किं च परतन्त्रं पराधीनं । यथा पितरि जीवति पुत्रो न स्वतन्त्र एवं व्यक्तं । प्रधानतन्त्रा बुद्धिः, बुद्धितन्त्रोऽहङ्कारः, अहङ्कारतन्त्राणि इन्द्रियाणि तन्मात्राणि च, तन्मात्रतन्त्राणि महाभूतानीति । एवं परतन्त्रं । व्यक्तं उक्तं । एतद्विपरीतलक्षणं अव्यक्तं । अहेतुमतनुत्पन्नत्वात् । नित्यं अकारणवत्त्वात् । व्यापि सर्वगतत्वात् । आब्रह्मस्तम्बपर्यन्तं पुरुषवद्व्याप्य प्रधानं अवस्थितं । निष्क्रियं सर्ववापकत्वात् । एकं सर्वकारणत्वात् । अनाश्रितं प्रभविष्णुत्वात् । अलिङ्गं अनुत्पत्तिकत्वात् । निरवयवं अमूर्तत्वात् । स्वतन्त्रं सर्वोत्पत्तिकारणत्वात् ॥ टिका १० ॥

_________________________________________________________


एवं अनयार्यया व्यक्ताव्यक्तयोर्वैधर्म्यं अभिहितं । साधर्म्यं उच्यते


त्रिगुणं अविवेकि विषयः सामान्यं अचेतन प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ कारिका ११ ॥

त्रिगुणं व्यक्तं महदादि । प्रधानं अपि त्रिगुणं । कारणानुगतत्वात्कार्यस्य । यथा कृष्णतन्तुः कारणं पटः कार्यं अपि कृष्णं एव भवति । त्रिगुणेन कार्येणास्य कारणं अपि त्रिगुणं भवतीति प्रधानं साध्यते । किं चान्यत् अविवेकि व्यक्तं । अमी गुणा इदं व्यक्तं इति विवेक्तुं न पार्यते, तथा प्रधानं अपि इदं प्रधानं अमी गुणा इति न शक्यते पृथक्कर्तुं । किं च विषयो व्यक्तं महदादि । सुखदुःखमोहतया भोग्यं तत्पुरुषस्य । स हि तस्य भोक्ता । तथा प्रधानं अपि सर्वपुरुषाणां क्षेत्रज्ञानां भोग्यं । सामान्यं व्यक्तं । गणिकावत्सर्वपुरुषाणां । तथा प्रधानम्(प्.१४) अपि । अचेतनं व्यक्तं । सुखदुःखमोहान्न चेतयति । तथा प्रधानं अपि । प्रसवधर्मि व्यक्तं । बुद्धेरहङ्कारस्तत इन्द्रियाणि तन्मात्राणि च तेभ्यो भूतानि जायन्ते । एवं प्रधानं अपि बुद्धिं प्रसूयते । उक्तं इदं व्यक्ताव्यक्तयोः साधर्म्यं । इदानीं "तद्विपरीतस्तथा च पुमान्" इत्युक्तं, तत्प्रतिपादयति । ताभ्यां व्यक्ताव्यक्ताभ्यां विपरीतः । तयोर्यत्साधर्म्यं "त्रिगुणं अविवेकि विषयः सामान्यं अचेतनं प्रसवधर्मि" इत्युक्तं । ततोऽसौ विपरीतो विधर्मी । अगुणो विवेकी, अविषयोऽसामान्यः, चेतनोऽप्रसवधर्मी चेति । वैधर्म्यं अभिधाय साधर्म्यं आह तथा च पुमानिति ।

"हेतुमदनित्यं अव्यापि सक्रियं अनेकं आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतं अव्यक्तम्" ॥
(साङ्ख्यकारिका १०) इत्युक्तं ।

तद्यथा व्यक्ताद्विसदृशं प्रधानं तथा प्रधानसधर्मा पुरुषः । तथा हि अहेतुमान्नित्यो व्यापी निष्क्रिय एकोऽनाश्रितोऽलिङ्गो निरवयवः स्वतन्त्र इति ॥ टिका ११ ॥


_________________________________________________________


तत्र त्रिगुण व्यक्तं अव्यक्तं च निर्गुणः पुरुष इत्युक्तं । किमात्मका गुणा इत्यत्रोच्यते

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ कारिका १२ ॥

तत्रायं समासः । प्रीतिश्चाप्रीतिश्च विषादश्च ते आत्मा स्वरूपं येषां गुणानां ते भवन्ति प्रीत्यप्रीतिविषादात्मकाः । तेषां लक्षणं उच्यते । तत्र प्रीत्यात्मकं सत्त्वं । आत्मशब्दः स्वभावे वर्तते । कस्मात्? सुखलक्षणत्वात् । यो हि कश्चित्क्वचित्प्रीतिं लभते तत्र आर्जवमार्दवसत्यशौचह्रीबुद्धिक्षमानुकम्पाज्ञानादि च तत्सत्त्वं प्रत्येतव्यं । अप्रीत्यात्मकं रजः । कस्मात्? दुःखलक्षणत्वात् । यो हि कश्चित्कदाचित्क्वचिदप्रीतिं उपलभते तत्र द्वेषद्रोहमत्सरनिन्दास्तम्भोत्कण्ठानिकृतिवञ्चनाबन्धवधच्छेदनानि च तद्रजः प्रत्येतव्यं । विषादात्मकं तमः । कस्मात्? मोहलक्षणत्वात् । यो हि कश्चित्कदाचित्क्वचिन्मोहं उपलभते, तत्राज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिक्यविषादस्वप्नादि च तत्तमः प्रत्येतव्यं ।(प्.१५) किं चान्यत् प्रकाशप्रवृत्तिनियमार्थाः । प्रकाशश्च प्रवृत्तिश्च नियमश्च ते अर्था येषां तथोक्ताः । तत्र प्रकाशयितव्यं इति सत्त्वस्य, प्रवर्तितव्यं इति रजसः, नियन्तव्यं संहर्तव्यं इति तमसः । किं चान्यत् अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः । तत्रापि समासः । अन्योन्याभिभवाश्च अन्योन्याश्रयाश्च अन्योन्यजननाश्च अन्योन्यमिथुनाश्च येषां गुणानां अन्योन्यवृत्तयश्च विद्यन्ते तथोक्ताः । चशब्दः समुच्चये द्रष्टव्यः । प्रीत्यादयश्च तावत्प्रागभिहिताः । अन्योन्याभिभवाश्चेति रजस्तमसोरभिभवात्शान्ता वृत्तिरुत्पद्यते सत्त्वस्य धर्माद्या । सत्त्वतमसोरभिभवाद्रजसो घोरा वृत्तिरुत्पद्यते अधर्माद्या । सत्त्वरजसोरभिभवात्तमसो मूढा वृत्तिरुत्पद्यते अज्ञानाद्या । किं चान्यत् अन्योन्याश्रयाश्च गुणाः । सत्त्वं हि प्रवृत्तिनियमावाश्रित्य प्रकाशयति । रजः प्रकाशनियमावाश्रित्य प्रवर्तयति । तमः प्रकाशप्रवृत्ती आश्रित्य नियमयति । त्रिदण्डविष्टम्भवदमी वेदितव्या इति । किं चान्यत् अन्योन्यजननाश्च गुणाः । अन्योन्यं जनयन्ति । कदाचित्सत्त्वं रजस्तमसी जनयति । कदाचित्तमः सत्त्वरजसी जनयति । यथा सपरिकरकुम्भकाराधिष्ठितो मृत्पिण्डो घटं जनयति तद्वज्जनयन्ति । अन्योन्यं बोधयन्तीत्येतत्प्रतिगृह्यते । यथा देवदत्तयज्ञदत्तौ परस्परं बोधयत । एवं बुद्धिस्था गुणाः सत्त्वरजस्तमांसि परस्परं बोधयन्ति । एवं अन्योन्यजनका गुणाः । किं चान्यत् अन्योन्यमिथुनाश्च गुणाः । अवियोगकधर्मत्वात् । एवं ह्याहुः

"रजसो मिथुन सत्त्वं सत्त्वस्य मिथुनं रजः ।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते" ॥
(देवीभागवतपुराण ३ ।५०)

किं चान्यत् अन्योन्यवृत्तयश्च गुणाः । अन्योन्यस्य वृत्तिं जनयन्ति । यथा काचित्स्त्री नयविनयविलासलीलावती भर्तुरात्मनो बन्धुवर्गस्य च प्रीतिं जनयति । सैव सपत्नीषु दुःखमोहौ जनयति । एवं सत्त्वेन स्त्रीभूतेन रजसस्तमसश्च वृत्तिर्जनिता । एवं अन्येष्वपि योज्यम् ॥ टिका १२ ॥
(प्.१६)


_________________________________________________________


अत्राह न खलु सत्त्वरजस्तमांसि जात्यन्तराणि । कुतः । स्वभावेष्ववस्थानात् । इह खलु रूपयौवनदाक्षिण्यमतिसाधुत्वस्मृत्युग्रभावाभावलीलाविलाससम्पन्ना स्त्री सत्त्वस्य रूपं उपदिश्यते । सा च भर्तुः सुखावहा भवति, सपत्नीनां दुःखाय रागिणां मोहाय च । तथा क्षत्रिया दुःखप्रहरणकृतापराधां दस्युसेनां अभिनिघ्नती रजसो रूपं इत्युपदिश्यते । तेन च दस्युभिरुपद्रुतानां दार्यमाणानां सुखावहा भवति । दस्यूनां दुःखाय मोहाय च । तथा घनाघनो महाकृष्णो मेघस्तोयाध्मातोऽवलम्बी ग्रसमान इव नभो भूमिं चाभिवर्धमानः सबलाकः सविद्युद्गम्भीरस्तनितस्तमसो रूपं इत्युपदिश्यते । स च कर्षकाणां सज्जीकृतबीजोपकरणानां सुखो भवति । स एवानाच्छादितशरणानां अनुपार्जितभक्तस्नेहलवणानां अप्रगुणिततृणकाष्ठानां प्रोषितवधूनां च दुःखो मूढश्च । तदेवं अवस्थितस्वभावत्वादेकं सत्त्वरजस्तमांसि ।
अत्रोच्यते जात्यन्तराण्यमूनि त्रीणि । लक्षणपृथक्त्वव्यवस्थानात् । कथं इति चेत्तदुच्यते


सत्त्वं लघु प्रकाशकं इष्टं उपष्टम्भकं चलं च रजः ।
गुरु वरणकं एव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ कारिका १३ ॥

अत्र यत्पूर्वस्यां आर्यायां अभिहितं सत्त्वलक्षणं तल्लघुत्वप्रकाशकलक्षणं च । यदा सत्त्वं उत्कटं भवति देवदत्ते तदा लघून्यङ्गानि, विशुद्धानीन्द्रियाणि स्वविषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यं अद्य मे सत्त्वं उत्कटत्वेन वर्तते । इष्टं च स्वरूपसाधनहेतुत्वात् । उपष्टम्भकं चलं च रजः । उपष्टम्भकं प्रेरकमुन्नाडिरित्यर्थः । यथा मत्तवृषो वृषं दृष्ट्वा उद्धतो भवति तद्वत् । अथवा गर्वश्चला क्रियेत्यर्थः । एवं यस्मिन्देवदत्ते यज्ञदत्ते वा रज उत्कटं भवति स कलहं मृगयते । किं चान्यत्चलचित्तश्च भवति ग्रामं गच्छामि स्त्रियं कामये तपः करोमि इत्यादि । एवं नित्यं उत्सुकमना भवति । एतद्रजोलक्षणं । तम आह गुरु वरणकं एव तमः । यद्गुरुत्वं आवरणत्वं चास्ति तत्तमः । यदा गुरूण्यङ्गानि भवन्ति । इन्द्रियाण्यलसानि स्वविषयग्रहणासमर्थानि भवन्ति । तदानीं मन्तव्यं एतत्तम उत्कटत्वेन वर्तत इति । तस्माज्जात्यन्तराण्येव सत्त्वरजस्तमांसि । यत्पुनरभ्यधायि स्त्री क्षत्रिया मेघश्चेति । अत्र त्रयेऽपि ब्रूमः । सत्त्वं रजस्तमसी आश्रित्य स्वेन रूपेणाङ्गाङ्गिभावं गच्छति । तस्यापकाराद्दुःखं उत्पद्यते । एवं रजस्तमसी योज्ये । परस्परविरुद्धानां गुणानां कथं एका वृत्तिर्भवतीत्यत्राह परस्परविरुद्धाः(प्.१७) शत्रवो न ह्येकं अर्थं कुर्वन्ति । इमे च गुणाः परस्परविरुद्धा अपि पुरुषार्थं कुर्वन्ति । कुतः । प्रदीपवच्चार्थतो वृत्तिः । प्रदीपेन तुल्यं प्रदीपवत् । अर्थतः कार्यवशात् । परस्परविरुद्धानां अप्यमीषां वृत्तिर्दृष्टा । यथा तैलाग्निवर्त्तिकासंयोगात्परस्परविरुद्धा अपि पदार्थाः संहत्य एकं अर्थं प्रकाशरूपं निष्पादयन्त्येवं गुणा अपि परस्परविरुद्धाः संहत्य पुरुषार्थं कुर्वन्ति ॥ टिका १३ ॥

अत्राह अयं अन्तरः प्रश्नो हि । यदुक्तं पूर्वस्यां आर्यायां "त्रिगुणं अविवेकि विषयः सामान्यं अचेतनं प्रसवधर्मि । व्यक्तं "तत्कथं एवं ज्ञायतेऽव्यक्तं अपि त्रिगुणत्वादियुक्तं । अत्रोच्यते


_________________________________________________________



अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तं अपि सिद्धम् ॥ कारिका १४ ॥

योऽप्ययं अविवेक्यादिर्गणः प्रसवधर्म्यन्तः स व्यक्तेऽपि सिद्धोऽव्यक्तेऽपि सिद्धः । कथं गम्यते । त्रैगुण्यात् । यत्त्रिगुणं तदविविक्तम्, यदविविक्तं तद्विषयं, यद्विषयं तत्सामान्यं, यत्सामान्यं तदचेतनम्, यदचेतनं तत्प्रसवधर्मि । तस्मादविवेक्यादिर्गुणस्त्रैगुण्यादेव सिद्धः । तद्विपर्ययाभावात् । इह हि यत्र तन्तवस्तत्रैव पटः यत्र पटस्तत्रैव तन्तवः, यस्तन्तून्पश्यति स पटं पश्यति, यो वा पटं पश्यति स तन्तून्पश्यति । एवं एव तन्तुपटयोरिव व्यक्ताव्यक्तयोः सम्बन्धः । दूरे हि प्रधानं सन्निकृष्टे व्यक्तं । यो हि व्यक्तं पश्यति स चाव्यक्तं अपि पश्यति । यो वा योगी प्रधानं पश्यति स व्यक्तं अपि पश्यति । तस्माद्विपर्ययाभावादविवेक्यादिगणेन सिद्धं अव्यक्तं । इतश्च सिद्धं । कारणगुणात्मकत्वात्कार्यस्याव्यक्तं अपि सिद्धं । कारणस्य गुणाः कारणगुणास्ते आत्मा स्वभावो यस्य तद्भावः कारणगुणात्मकत्वं । आत्मशब्दः स्वभावे वर्तते । कारणगुणस्वभावत्वात्कार्यस्य । इह लोके यदात्मकं करणं तदात्मकं एव कार्यं अपि भवति । कारणानुगतत्वात्कार्यस्य । यथा कटुनिम्बवृक्षात्कटुरेव रसो भवति मधुराच्च मधुरो द्राक्षादिरसः । तस्मादविवेक्यादिगणेन सिद्धं अव्यक्तं । तत्र यदुक्तं भवता तत्(प्.१८) कथं एवं ज्ञायते अव्यक्तं अविवेक्यादिगणेन युक्तं इति तदेवं एव त्रिभिर्हेतुभिः प्रतिपादितं । अत्राह इह लोके यन्न विद्यते तन्नास्ति । यथा द्वितीयं अनीश्वरशिरः, तृतीयः पाणिः, शशविषाणं, वन्ध्यापुत्रिकाभ्रूविलासादयो वा । नैव तावत्प्रधानपुरुषावुपलभ्येते, तौ कथं हि स्त इति गम्यते । हिमवत उपलगणपरिमाणं नोपलभ्यते । किं तन्नास्ति? एवं प्रधानपुरुषावनुपलभ्यमानावप्युपलभ्येते हेतुभिः । तांश्च हेतूनुपरिष्टाद्वक्ष्यामः ॥ टिका १४ ॥


_________________________________________________________


त उच्यन्ते


भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ कारिका १५ ॥

अस्ति प्रधानं । कुतः? भेदानां परिमाणात् । लोके यत्र कर्तास्ति तस्य परिमाणं दृष्टं । यथा कुलालः परिमितात्मृत्पिण्डात्परिमितं एव घटं कुरुते प्रस्थग्राहकं आढकग्राहकं वा । एवं व्यक्तं परिमितं । एका बुद्धिरेकोऽहङ्कारः पञ्च तन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभूतानि इति त्रयोविंशतिकं । एवं एतत्परिमितं व्यक्तं दृष्ट्वानुमानेन साधयामोऽस्त्यस्य कारणं प्रधानं यद्व्यक्तं परिमितं उत्पादयति । यदि च प्रधानं कारणं न स्यान्निष्परिमाणं इदं व्यक्तं स्यात् । अस्ति चास्य परिमाणं तस्मादस्ति प्रधानं । इतश्चास्ति समन्वयदर्शनात् । कस्य समन्वयात्? भेदानां एव । अस्मादेव कारणाच्शकलकपालमात्रसमस्तसमन्वयः । भूषणादीन्दृष्ट्वा तत्त्वेन दर्शयति । सामान्यप्रकरणाल्लोकभेदानां एकैकजातिसमन्वयो दृष्टः । तेषां धर्मोऽन्वयः, तस्मात्समन्वयदर्शनात्पश्यामोऽस्ति प्रधानं कारणं इति । इतश्चास्ति शक्तितः प्रवृत्तेश्च । इह यो यस्मिन्नर्थे शक्तः स तस्मिन्नेव प्रवर्तते । तद्यथा कुम्भकारो घटघटिकाशरावोदञ्चवादिकरणे शक्तः । अतः साधयामः प्रधानस्याप्यस्ति शक्तिर्यया शक्त्या व्यक्तं उत्पादयति । सा च शक्तिर्निराश्रया न भवति । तस्मादस्ति प्रधानं यत्र शक्तिरवतिष्ठते । इतश्चास्ति कारणकार्यविभागात् । करोतीति कारणम्, क्रियत इति कार्यं, तयोर्विभागस्तस्मात् । तद्यथा मृत्पिण्डः कारणं घटः कार्यं । स एव(प्.१९) हि मधूदकपयःप्रभृतीनां धारणे समर्थो न तु मृत्पिण्डः । एवं व्यक्ताव्यक्तयोर्विभागः । अन्यद्व्यक्तं महदहङ्कारतन्मात्रेन्द्रियमहाभूतपर्यन्तं, तच्च कार्यं । अन्यच्च अव्यक्तं प्रधानं विपरीतं कारणं इति । तस्मादस्ति प्रधानं । इतश्चास्ति अविभागाद्वैश्वरूप्यस्य । न विभागोऽविभागः । विश्वरूपस्य भावो वैश्वरूप्यं । बहुरूपं इत्यर्थः । तस्य । त्रैलोक्यं पञ्चसु महाभूतेष्वविभागं गच्छति । पञ्चमहाभूतानि तन्मात्रेष्वविभागं गच्छन्ति । पञ्चतन्मात्राण्येकादशेन्द्रियाणि चाहङ्कारे । अहङ्कारो बुद्धौ । सा च प्रधाने । इत्थं त्रयो लोकाः प्रलयकाले प्रधानेऽविभक्ताः । प्रकर्षेण धीयते स्थाप्यते अत्राखिलं इति प्रधानं । ततो हि सृष्टौ सदेवाविर्भवति । न ह्यसत उत्पत्तिर्न च सतोऽभावः ।

"नासतो विद्यते भावो नाभावो विद्यते सतः" ।

इति गीतासु(२ ।१६) । "सदेव सोम्येदं अग्र आसीत्"[छान्दोग्योपनिषद्६ ।२ ।१] इति श्रुतेश्च । तद्यथा दध्यादयः प्राक्प्रसूतेः क्षीरेऽविभक्ताः सन्त्येव । यद्यसत उत्पत्तिस्तदा काष्ठखण्डादपि घटाद्युत्पत्तिः स्यात् । यतो न भवति । तस्मान्मृत्पिण्डे कारणे घटादेः सत एवोत्पत्तिरिति समीचीनं । यथा जलभूम्योरेतद्रसगन्धादिवैश्वरूप्यं अविभक्तं अस्त्येव स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु । एवं जात्यनुच्छेदेन सर्वं सर्वात्मकं इति ॥ टिका १५ ॥

_________________________________________________________



अस्ति प्रधानं यत्र महदादिलिङ्गं अविभागं गच्छति । इत्येवं अवश्यम्भावी अविभागः पश्चाद्विभागश्चाविर्भवति तत्प्रधानं । अत्रोच्यते

कारणं अस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् ॥ कारिका १६ ॥

कारणं अस्त्यव्यक्तं इति । तदेवं पञ्चभिरेभिर्हेतुभिर्ज्ञायतेऽस्ति तत्कारणं एकं अस्य जगतोऽव्यक्तं मूलं इति । अत्राह यद्येकं प्रधानं कथं तर्हि अनेकं कार्यं उत्पादयति । तथा हि नैकस्तन्तुः पटाख्यं कार्यं जनयति । इत्थं प्रधानं एकं अनेकं कार्यं जनयतीति न जाघटीति । अतः समाधीयते प्रवर्तते त्रिगुणतः । प्रधाने हि सत्त्वरजस्तमसां अवस्थानाद्बहुत्वसम्भवः । तस्मात्त्रिगुणतः प्रवर्तते त्रिधा व्यवहारः । समुदयाच्च । यथा गङ्गायां स्रोतांसि समुदितानि गङ्गां आरभन्ते, यथा वा तन्तवः समुदिताः पटं कुर्वन्ति एवं सत्त्वरजस्तमांसि त्रयो गुणाः समुदिताः प्रधानस्था व्यक्तं कुर्वन्ति । अत्राह इह लोके द्विविधं कारणं परिणामकत्वाद्(प्.२०) अपरिणामकत्वाच्च । तत्रापरिणामकत्वान्मृत्पिण्डदण्डसूत्रोदकविदलान्पश्यामः । परिणामतश्च क्षीरं दधीति । तत्र प्रधानं कथं कारणं इत्यत्रोच्यते परिणामतः । यथा क्षीरं दधिभावेन परिणमति, यदेव क्षीरं तदेव दधि, एवं प्रधानं व्यक्तभावेन परिणमति । दधिवद्व्यक्तं क्षीरवत्प्रधानं इत्यर्थः । यदेवाव्यक्तं तदेव व्यक्तं इति । तस्मादुच्यते परिणामतः प्रधानं कारणं इति । अत्राह को दृष्टान्तः? तदुच्यते सलिलवत् । यथा सलिलं एकं हिमवद्हिमभावेन परिणमति, यथा चेक्षुरसो रसिकाषण्डमत्सरिकाशर्कराफाणितगुडभावेन परिणमति । यथा वा क्षीरं द्रप्स्यदधिमस्तुनवनीतघृतारिष्टकिलाटकूर्चिकादिभावेन परिणमति । एवं एवाव्यक्तं आध्यात्मिकेन बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतभावेन परिणमति, आधिदैविकेन शीतोष्णवातवर्षादिभावेन परिणमति । अत्राह एकस्मात्प्रधानादुत्पन्नास्त्रयो लोकाः कथं विषमाः? इह ये देवास्ते सुखिनो मनुष्यास्ते दुःखिनस्तिर्यञ्चो मूढाः । एकस्मात्प्रधानादुत्पन्नानां त्रयाणां लोकानां कथं वैषम्यं मूढत्वादिनेत्यत्रोच्यते प्रतिप्रतिगुणाश्रयविशेषात् । तद्यथा एकरसं अन्तरिक्षाद्जलं पतितं । तच्च मेदिनीं प्राप्य नानारसतां याति । पृथग्भाजनविशेषात् । एवं इमे त्रयो लोका एकस्मादपि प्रधानादुत्पन्ना गुणवैषम्यात्पृथग्भावं गताः । यथा देवेषु सत्त्वं उत्कटं ततस्ते सुखिनः, तत्रापि रजस्तमसी गौणतया स्तः । मनुष्येषु रज उत्कटं ततस्ते दुःखिताः, तेष्वपि सत्त्वतमसी स्तः । तिर्यग्योनिगतेषु तम उत्कटं ततस्ते मूढाः । तेष्वपि सत्त्वरजसी स्तः । एवं एकस्मादुत्पन्नानां त्रयाणां लोकानां वैषम्यं भवति ॥ टिका १६ ॥


_________________________________________________________



एवं द्वाभ्यां आर्याभ्यां प्रधानस्याधिगमः कृतः । अत ऊर्ध्वं पुरुषस्याधिगमं करिष्यामः । अत्राह केचिदाचार्या इति मन्यन्ते शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्तो नास्ति परमात्मा । अपि च

एतावानेव पुरुषो यावदिन्द्रियगोचरः ।
इति ।

अत्रोच्यते शरीरेन्द्रियबुद्ध्यादिव्यतिरिक्त आत्मा अस्तीति । को दृष्टान्तः? यथा असिकोशवत् । मुञ्जेषीकावत् । उक्तं च

मशकोदुम्बरेषीकामुञ्जमत्स्याम्भसां यथा ।
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनोर्नृप ॥
(प्.२१)

एवं शरीरेन्द्रियबुद्ध्यादिभिः क्षीरनीरवदेकीभूतोऽपि तद्व्यतिरिक्तोऽस्ति परमात्मा पुरुषोऽपि । प्रधानवत्सूक्ष्मत्वान्नोपलभ्यते इति तदधिगमाय हेतुरभिधीयते


सङ्घातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च ॥ कारिका १७ ॥

अस्ति पुरुषः । सङ्घातपरार्थत्वात् । यतः सङ्घातश्च परार्थः । तस्माद्हेतोः । इह लोके ये सङ्घातास्ते परार्था दृष्टाः पर्यङ्करथशरणादयः । एवं गात्राणां महदादीनां सङ्घातः समुदायः परार्थ एव । (तस्मादस्ति नूनं अन्योन्याधिष्ठितो यदर्थोऽयं सङ्घात इति सङ्गतिः ।) पर्यङ्करथादयः काष्ठसङ्घाताः । गृहादयः काष्ठेष्टकादिसङ्घाताः । न हि ते रथगृहपर्यङ्कादयः किं अपि स्वार्थं साधयन्ति । न वा परस्परार्थाः । किं त्वस्त्यसौ देवदत्तादिर्योऽस्मिन्पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति । (चेतसः प्रतीत्या) । एवं अमी महदादयश्चक्षुरादयो न स्वार्था न च परस्परार्थाः, किं तु परार्थाः । यश्चासौ परः स चात्मा । तस्मादनुमीमहे अस्ति पुरुषः, यस्यार्थे चक्षुरादिसङ्घातः शरीरं उत्पन्नं इति । इतश्चास्ति त्रिगुणादिविपर्ययात् । त्रयो गुणा यस्य गणस्यादौ सम्भवन्ति स त्रिगुणादिः । त्रिगुणादेर्विपर्ययः । तस्मात्पश्यामोऽस्ति पुरुष इति । उक्तं पूर्वस्यां आर्यायां त्रिगुणं अविवेकीत्यादि व्यक्तप्रधानसाधर्म्यं । "तद्विपरीतस्तथा च पुमान्" इति । अगुणविवेक्यविषयासामान्यचेतनाप्रसवधर्मादिविपर्ययादात्मनोऽस्तित्वं पृथक्त्वं च सिद्धं । अतश्चास्ति । अधिष्ठानात् । न ह्यन्तरेणाधिष्ठातारं भवति वस्तुजातं । तद्यथेह लोके लङ्घनप्लवनधावनसमर्थैरश्वैर्युक्तो रथः सारथिनाधिष्ठितः प्रवर्तते । अथ सारथिनानधिष्ठितः प्रवर्तते ततः शरीरनाशः स्यात् । न चात्मविनाशाय प्रवर्तते । अपि चोक्तं षष्टितन्त्रे "पुरुषाधिष्ठितं प्रधानं प्रवर्तते" इति । ततः पश्यामोऽसौ परमात्मा अस्ति पुरुषो येनाधिष्ठितं प्रधानं महदहङ्कारतन्मात्रेन्द्रियभूतान्युत्पादयति । तस्मादस्ति पुरुष इति । इतश्चास्ति भोक्तृभावात् । इह मधुराम्लतिक्तलवणकटुकषायाः षड्रसाः । एतैः षड्भी रसैर्युक्तं भोजनं दृष्ट्वा भोक्ता साध्यते । अस्ति भोक्ता यस्येदं भोजनं । एवं इदं व्यक्ताव्यक्तं दृष्ट्वा साधयामोऽस्त्यसौ परमात्मा पुरुषो यस्येदं भोक्तुर्व्यक्ताव्यक्तं भोग्यं इति । इतश्चास्ति कैवल्यार्थप्रवृत्तेश्च । केवलभावः कैवल्यं मोक्ष इत्यर्थः । या तस्य प्रधानस्य प्रवृत्तिः सा कैवल्यार्था प्रवृत्तिः प्रधानस्येति ॥ टिका १७ ॥
(प्.२२)


_________________________________________________________



अत्राह गृह्णीमस्तावदेभिः पञ्चभिरधीतैर्हेतुभिः शरीरव्यतिरिक्तोऽसौ पुरुषोऽस्तीति । स किं सर्वशरीरेष्वेकः पुरुष आहोस्वित्प्रतिशरीरं भिन्नः पुरुष इति । कुतः संशय इति चेच्चोदक आचार्यविप्रतिपत्तेः संशयः । इह केचिदाचार्या भेदवादिन इति मन्यन्ते एकोऽयं पुरुषः सर्वशरीरेषूपलभ्यते मणिसूत्रवत् । इह रसनायां यावन्तो मणयस्तेषु सर्वेष्वेकं एव सूत्रं प्रवर्तते । एवं मणिभूतेषु शरीरेषु किं एकः सूत्रभूतः परमात्मा । आहोस्विज्जलचन्द्रवत्पुरुष इति एक एव बहुषु नदीकूपतडागादिष्विवोपलभ्यते इति । अतः संशयः किं एकः पुरुषो गुणसूत्रन्यायेन आहोस्विद्बहवः पुरुषाः । अत्रोच्यते बहवः पुरुषाः कथं इति चेत्तदुच्यते


जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ कारिका १८ ॥

जन्ममरणकरणानां इति । जन्मनियमादिह केचिन्नीचजन्मानः, केचिन्मध्यमजन्मानः, केचिदुत्कृष्टजन्मानः । यदि पुनरेकः पुरुषः स्यात्स एव नीचकुलोत्पन्नः स्यात्स एव उत्कृष्टकुलोत्पन्नः स्यात् । कस्मात्? पुरुषैकत्वात् । अस्ति चायं नियमः, अन्येऽधमा अन्य उत्कृष्टाः । तस्माद्बहवः पुरुषाः । अतश्च मरणनियमात् । मरणेऽपि नियमो दृष्टो मम भ्राता मृतो मम पिता च । तस्माद्बहवः पुरुषाः । अपरे पुनरित्थङ्कारं वर्णयन्ति जन्ममरणनियमात् । इह कश्चित्कदाचिन्म्रियते तदैव परो जायते । यद्येकः पुरुषः स्यात्तर्हि एकस्मिन्जायमाने सर्वेऽपि जायेरन् । न चैवं । म्रियमाणे सर्वे म्रियेरन् । न चैवं । तस्माद्बहवः पुरुषाः । इतश्च पश्यामः । करणनियमात् । करणानीन्द्रियाणि श्रोत्रादीनि । इह लोके केचिद्बधिरान्धमूकादयः । इतरे च पटुतरकरणाः । अतः पश्यामो य उपहतेन्द्रियास्ते अन्ये, ये चानुपहतेन्द्रियास्ते चान्ये । तस्मात्प्रतिनियतकरणत्वादपि पश्यामोऽनेके पुरुषा इति । इतश्च पश्यामः । त्रैगुण्यविपर्ययाच्चैव । चः समुच्चये । पूर्वोक्तैर्हेतुभिः । अस्माच्च हेतोरित्यर्थः । इहैकस्य ब्राह्मणस्य त्रयः पुत्राः सब्रह्मचारिण एकेनैव एकस्यां भार्यायां जाताः । तत्रैकः सात्त्विको मेधावी शुचिः सुखी ।(प्.२३) द्वितीयो राजसो दुर्मेधावी दुःखी । तृतीयस्तामसो मूढो नास्तिकः । यद्येके आत्मा स्यादेकस्मिन्सात्त्विके राजसे तामसे वा सर्वे तथा स्युः । न तथा भवन्ति । अतः पश्यामोऽनेके पुरुषाः ॥ टिका १८ ॥

अत्राह अयं संशयः । किं खलु कर्ता पुरुषोऽस्त्याहोस्विदकर्तेति । कुतः संशय इति चेत्, आचार्यविप्रतिपत्तेः । लोके तावत्पुरुषो गच्छति धावति तिष्ठति शोचति, पुरुषेणेदं कृतं इति विप्रतिपत्तिः । एवं आचार्या वेदवादिनो ब्रुवते । वैशेषिका अपि कर्ता इति मतं प्रतिपन्नाः । अतः संशयः । अत्रोच्यते अकर्ता पुरुषः । कथं इति चेत्तदुच्यते


_________________________________________________________



तस्माच्च विपर्यासात्सिद्धं साक्षित्वं अस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वं अकर्तृभावश्च ॥ कारिका १९ ॥

तस्माच्च विपर्यासादिति । कर्तृकारणानां को विशेषः अत्रोच्यते । तद्यथा कश्चिद्यमनियमरतः साङ्ख्ययोगाचार्यरतो भिक्षुर्नगरे प्रतिवसति । स च जनादिषु प्रतिवर्णाश्रमविहितासु क्रियासु प्रवर्तमानानां तन्नगरवासिनां साक्षिमात्रो भवति । ऋतुवशात्शीतोष्णादीनायाताननुभवति । तद्वदयं नानावस्थे गुणविमर्दे वर्तमानो वैधर्म्यात्क्षेत्रज्ञः साक्षिमात्रः स्यात् । एवं साक्षित्वं सिद्धं अस्य पुरुषस्य । केवलभावः कैवल्यं नाम त्रिभ्यो गुणेभ्योऽन्यत्वं । यथासौ भिक्षुः कदाचिन्नागराणां विवदतां वक्ता भवति त्वया साधुकृतं इति त्वयासाध्विति । किं एवं पुरुषो भवति । अत्रोच्यते माध्यस्थ्यं । नास्य केनचित्कृत्यं अस्ति । उदासीनो ह्ययं । अत्राह यद्यकर्ता तत्किं परकृतानां प्रयोक्ता । अत्रोच्यते कर्तृभावश्च द्विविधो हि, प्रयोक्ता कर्ता च । अत्रोदासीनस्य पुरुषस्य कर्तृत्वं प्रतिषिद्धं गुणलक्षणेन ॥ टिका १९ ॥


_________________________________________________________


अत्राह यद्यकर्ता पुरुषः अध्यवसायं तर्हि किं करोति धर्मं करिष्याम्यधर्मं चेति । यदि गुणा अध्यवसायं कुर्वन्ति तर्हि तेषां सचेतनत्वं(प्.२४) स्यात् । अमीषां चाचेतनत्वं एव प्रागुपन्यस्तं । अथ पुरुषोऽध्यवसायं कुरुते तदा तस्य कर्तृत्वप्रसङ्गः । तस्मादुभयथापि दोष इति । अत्र समाधीयते नायं दोषः । कथं इति चेत्, तदुच्यते

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ कारिका २० ॥

यस्माच्चेतनस्वभावः पुरुषः, तस्मात्तत्संयोगादचेतनं महदादि लिङ्गं अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत्प्रवर्तते । को दृष्टान्तः तद्यथा अनुष्णाशीतो घटः शीताभिरद्भिः संस्पृष्टः शीतो भवति । अग्निना संयुक्त उष्णो भवति । एवं महदादि लिङ्गं अचेतनं अपि भूत्वा चेतनावद्भवति । तस्मादध्यवसायं कुर्वन्ति गुणाः कार्यादिषु । यदप्युक्तं लोकोपचारात्कर्ता पुरुष इति । अत्र ब्रूमः गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः । अत्र दृष्टान्तश्च । केचित्किल चौरा ग्रामं हृत्वा द्रव्यं गृहीत्वा ग्रामान्तरं गच्छन्ति कृतकार्याः । तैः सह सार्थेन श्रोत्रियो ब्राह्मणः पन्थानं गच्छति । तत्पदानुसारिभिरारक्षिभिस्ते गृहीताः । कृतापराधैस्तैः सह सोऽपि ब्राह्मणो गृहीतस्त्वं अपि चौर इति । तद्यथासावचौरस्तत्संसर्गदोषेण चौरतया प्रतीतस्तैः । तथा सत्त्वादयो गुणाः कर्तारस्तैः संयुक्तः पुरुषोऽपि अकर्तापि कर्ता भवति । कर्तृसंसर्गात्कर्तेव । परं परमार्थतया अकर्ता पुरुषः ॥ टिका २० ॥


_________________________________________________________


अत्राह तस्मात्तत्संयोगातिति प्रधानपुरुषसंयोग इति चेत्, संयोगः कः । अनेकविधो हि संयोगः । अन्यतरकर्मजो यथा स्थाणुश्येनयोः, सम्पातजो द्वयोर्वा संयोगो यथा द्व्यङ्गुलाकाशयोः, स्वाभाविको यथाग्न्युष्णयोः, शक्तिहेतुको यथा मत्स्योदकयोः, यादृच्छिकः सुपर्नयोर्वाकस्मिकः । अतः संशयः । अत्रोच्यते अन्यतरकर्मजसंयोगश्च संयोगो नैव प्रधानपुरुषयोर्विभुत्वानिष्क्रियत्वात् । नास्ति स्वाभाविकोऽपि । तयोर्नित्यत्वान्मोक्षाभावः स्यादवियोगत्वात् । एवं एव विषयहेतुके शक्तिहेतुकत्वे च । अत्राह कस्तर्हि प्रधानपुरुषयोः संयोग इति । अत्रोच्यते । अर्थहेतुकः । कश्चासावर्थ इत्यत्राह (प्.२५)

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ कारिका २१ ॥

पुरुषस्य तावद्दर्शनार्थं संयोगः । पुरुषः प्रधानेन सह संयुज्यते सुगुणां प्रकृतिं द्रक्ष्याम्ययं अर्थः । कैवल्यार्थं तथा प्रधानस्य संयोगः । अस्य तपस्विनः पुरुषस्य ज्ञाने वर्तमानस्य कैवल्यं करिष्यामीति । कैवल्यं मोक्ष इत्यर्थः । यथा राजा पुरुषेण संयुज्यते प्रैषणं मे करिष्यतीति । पुरुषोऽपि राज्ञा संयुज्यते वृत्तिं मे दास्यतीति । एवं तावद्राजपुरुषयोरर्थहेतुकः सम्बन्धः । तथा प्रधानपुरुषयोरप्यर्थहेतुकः सम्बन्धः संयोगः । किं चान्यत् । पङ्ग्वन्धवदुभयोरपि संयोग इति । अपि चात्र दृष्टान्तः । यथा किल कश्चिदन्धः सार्थेन समं पाटलिपुत्रं प्रस्थितः स च सार्थश्चौरैरभिहतः । अन्धोऽपि अवशेषजीवितः कृच्छ्रेण महता निर्जगाम । स च सर्वस्वजनविरहित इतश्चेतश्च परिभ्राम्यन्पन्थानं अपश्यन्समन्ताच्चङ्क्रममाणः केनचिद्वनमध्यस्थेन पङ्गुना दृष्टः प्रोक्तश्च । भो भो अन्ध मा भैषीरहं पङ्गुर्मार्गदर्शने कुशली गन्तुं असमर्थः । अन्धेन प्रतिवचनं प्रोक्तं भोः पङ्गो यथा भवान्गमनाशक्तस्तथाहं अपि न शक्नोमि द्रष्टुं, गन्तुं मम सामर्थ्यं अस्ति । तव दर्शनसामर्थ्येनाहं भवन्तं स्कन्धेनादाय गच्छाम्येवं उभयोर्दुःखपरिहारलक्षणा कार्यसिद्धिरस्तु । एवं तयोर्यथा स्वार्थलब्धिहेतुकः सम्बन्धः संयोगस्तुल्यः । तद्वत् । पङ्ग्वन्धवत्प्रधानपुरुषौ द्रष्टव्यौ । पङ्गुवत्पुरुषो द्रष्टव्यः । अन्धवत्प्रधानं । पुरुषस्य दृक्शक्तिः । प्रधानस्य क्रियासामर्थ्यं । एवं प्रधानं अपि पुरुषस्य मोक्षं कृत्वा निवर्तते । पुरुषः प्रधानं दृष्ट्वा मोक्षं गच्छति । किं चान्यत् तत्कृतः सर्गः । तच्छब्देन प्रधानपुरुषौ सम्बध्येते । ताभ्यां प्रधानपुरुषाभ्यां कृतस्तत्कृतः सर्गः । तद्यथा स्त्रीपुरुषसंयोगात्पुत्रः सम्भवति । एवं प्रधानपुरुषसंयोगात्सर्गोत्पत्तिर्भवति । सर्गशब्देन महदादिलिङ्गोत्पत्तिरिति ब्रुवते ॥ टिका २१ ॥



_________________________________________________________



तां उत्पत्तिं ब्रूमः

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ कारिका २२ ॥
(प्.२६)

प्रकृतिः प्रधानं अधिकुरुते । ब्रह्म अव्यक्तं बहुधात्मकं मायेति पर्यायाः । तस्याः प्रकृतेर्महानुत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः, चितिः, स्मृतिरासुरी हरिः, हरः, हिरण्यगर्भ इति पर्यायाः । ततोऽहङ्कारः । तस्मान्महतोऽहङ्कार उत्पद्यते । तस्य इमे पर्यायाः वैकृतस्तैजसो भूतादिरभिमानोऽस्मिता इति । चतुःषष्टिवर्णैः परादिवैखरीपर्यन्ताभिधेयैर्यत्किं अप्यभिधीयते बुद्ध्या समर्थ्य तत्सकलमाद्यन्ताकारहकारवर्णद्वयग्रहणेनोपरिस्थितपिण्डीकृतानुकारिणा बिन्दुना भूषितः प्रत्याहारन्यायेनाहङ्कार इत्यभिधीयते । तस्मातहङ्कारात्षोडशको गण उत्पद्यते । तामसाद्भूतादिनाम्नः पञ्चतन्मात्राणि शब्दादीनि । अत एव तानि मूढानि । सात्त्विकाद्वैकृताभिधानाद्बुद्धिकर्मात्मकानि मनःसहितानि एकादशेन्द्रियाणि । अत एव तानि किञ्चिज्जानन्ति । राजसात्तैजसाभिधानादुभयं । मूढत्वाद्धि तमः । प्रकाशत्वात्सत्त्वं । उभयगुणयोगात्षोडशको गणोऽहङ्कारादुत्पद्यते । तस्मादपि षोडशकात्मध्ये यानि पञ्च शब्दादितन्मात्राणि तेभ्यः पञ्च भूतान्याकाशादीनि । तत्र शब्दतन्मात्रादाकाशम्, स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात्तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात्पृथिवी इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेनैकद्वित्रिचतुष्पञ्चगुणान्याकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः । अत एव भूतानां उत्पत्तिलयावबोधनात्भ इति । आगतिगतिपरिज्ञानात्ग इति । विदन्योगी इति व(व इति?) । अनति चलतीति अन् । सकलवर्णसम्प्रदायाद्भगवानित्यभिमानसिद्धिः । "अप्यक्षरवर्णसामान्यान्(प्.२७) निर्ब्रूयान्न संस्कारं आद्रियेत"(निरुक्ति २ ।४) इति नैरुक्तश्रुतिप्रामाण्यात् । उक्तं च

"उत्पत्तिं प्रलयं चैव भूतानां आगतिं गतिम् ।
वेत्ति विद्यां अविद्यां च स वाच्यो भगवानिति" ॥

श्रीविष्णुपुराणे षष्ठेऽंशे(५ ।७८) पराशरवचः ।
यदुक्तं
व्यक्ताव्यक्तज्ञ विज्ञानान्मोक्षः प्राप्यत इति । तत्र महदादिभूतपर्यन्तं इत्येतद्व्यक्तं व्याख्यातं । अव्यक्तं अपि "भेदानां परिमाणात्"(साङ्ख्यकारिका १५) इत्यादिभिः पञ्चभिर्हेतुभिर्व्याख्यातं । यदुक्तं

"पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः" ॥ टिका २२ ॥


_________________________________________________________


अत्राह प्रकृतेर्महानित्युक्तं । तस्य महतः किं लक्षणं इत्यत्रोच्यते

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकं एतद्रूपं तामसं अस्माद्विपर्यस्तम् ॥ कारिका २३ ॥

अध्यवसायो बुद्धिरिति । अध्यवसायो निश्चयः प्रतिपत्तिः अयं स्थाणुरयं पुरुष इति बुद्धेर्लक्षणं । सा च बुद्धिरष्टाङ्गा । सात्त्विकतामसरूपभेदात् । तत्र बुद्धेः सात्त्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यं ऐश्वर्यं इति । तत्र धर्मो नाम वर्णिनां आश्रमिणां च समयाविरोधेन यः प्रोक्तो यमनियमलक्षणः स धर्मः । तत्र पञ्च यमाः पञ्च नियमाः । "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः"(पातञ्जलयोगसूत्र २ ।३०) । "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः"(पातञ्जलयोगसूत्र २ ।३२) । एभिर्यमनियमैर्यः साध्यते स धर्मः ।

धारणार्थो धृञ् इत्येष धातुः शाब्दैः प्रकीर्तितः ।
दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते ॥

तत्र या स्थावरजङ्गमानां भूतानां वाङ्मनःकायकर्मभिरद्रोहता सा अहिंसा । तथा यद्भूतहितं अत्यन्तं दृष्टश्रुतानुमितिविज्ञातेष्वर्थेषु यथान्तःकरणप्रत्ययोपस्थितं तथैव इन्द्रियाणि अविलुप्य वञ्चनाभ्रान्तिप्रतिपत्तिबन्ध्यताविरहितवागुच्चारणं(प्.२८) तत्सत्यं । तथा यत्सम्भ्रमेष्वन्येषु वात्यन्तिकेषु प्रयोजनेषु स्वे स्वे स्थाने समत्वाद्ग्रहणस्योपरमस्तदस्तेयं । तथा स्त्रीपुरुषसंयोगे परस्परलिङ्गसंयोगे शब्दस्पर्शरसरूपगन्धेषु यः सङ्गव्युदासः श्रोताद्युपरतिः असङ्कल्पश्च मनस उपरतिः सोऽष्टाङ्गं ब्रह्मचर्यं । एवं ह्याहुः संयोगशब्दस्पर्शरसरूपगन्धसङ्कल्पस्मृतिधर्मफलत्यागाद्यष्टाङ्गं ब्रह्मचर्यं इति । अन्यच्च । ब्रह्मबीजं रेतस्तच्चरति न मुञ्चतीति ब्रह्मचारी । ब्रह्म वेदं वा गुरुणा प्रदत्तं चरतीति । ब्रह्मा स्वयम्भूस्तस्यायं दण्डकमण्डलुधारणादिरूप आकारो ब्रह्मवच्चरतीति वा । एवं अर्जनक्रयविक्रयादिकल्पनाभेदानां अनुपादानं सर्वथा सर्वस्यास्वीकरणं अपरिग्रहः । इति पञ्च यमाः । यश्चेन्द्रियाणां अन्तःकरणोपरमस्तच्छौचं बाह्यं मृज्जलादिना ।

"अभक्ष्यपरिहारस्तु संसर्गश्चाप्यचिन्तितैः ।
स्वधर्मे च व्यवस्थानं शौचं एतत्प्रकीर्तितम्" ॥

तथा यद्भैक्षार्जितेन हविषा प्राणयात्रा । आध्यात्मिकस्याग्नेर्मन्त्रगृहीतेन होमः कर्तव्यः । अहन्यहनि यज्ञशेषाशनार्थं एतदाहारलाघवं सन्तोषः । "स यां प्रथमां आहुतिं जुहुयात्प्राणाय स्वाहा"(छान्दोग्योपनिषद्५ ।१९ ।१) इत्यारभ्य "स य इदं अविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि हुतं(जुहुयात्?) तादृक्तत्स्यात्" (छान्दोग्योपनिषद्५ ।२४ ।१) इति श्रुतेः । तपः कृच्छ्रचान्द्रायणादि शरीरशोषणरूपं ।

"विषया विनिवर्तन्ते निराहारस्य देहिनः ।" (भगवद्गीता २ ।५९)

इति स्मरणात् । नातपस्विनो योगः सिद्ध्यति । अनादिवासनाविचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदं आपद्यत इति तपस उपादानं । तच्च चित्तप्रसादनं अबाधमानं आसेव्यं इति मन्यन्ते । स्वाध्यायः प्रणवादिपवित्राणां जपः । ईश्वरप्रणिधानं क्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा । "ब्रह्मार्पणं ब्रह्महविः(भगवद्गीता ४ ।२४)" इति, "अनाश्रितः कर्मफलम्(भगवद्गीता ६ ।१)" इति श्रवणात् । इत्यमीषां यमनियमादीनां सेवनात्"अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः"(पातञ्जलयोगसूत्र २ ।३५) इत्याद्याः सिद्धयः । वैपरीत्ये तु "वितर्कबाधने प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र २ ।३३), "वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्"(पातञ्जलयोगसूत्र २ ।३४)(प्.२९) एवं च वर्तमानस्य योगिनः "स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्"(पातञ्जलयोगसूत्र ३ ।५१) इति भिक्षोरेते यमनियमाः । एभिर्यमनियमैर्वा साध्यते स धर्मो व्याख्यातः । अधुना ज्ञानं आह ज्ञानं द्विविधं । बाह्यं आभ्यन्तरं च । तत्र बाह्यं वीणापणवगन्धर्वचित्रकथागणितव्याकरणशास्त्राणि । आभ्यन्तरं गुणपुरुषान्तरोपलब्धिलक्षणं । अन्ये गुणाः सत्त्वरजस्तमांसि अन्यः पुरुष इति । बाह्येन ज्ञानेन लोकोपपत्तिराभ्यन्तरेण मोक्ष इति । एतत्ज्ञानं विषयोपरमात् । वैराग्यं आह अर्जनरक्षणक्षयातृप्तिहिंसादिदोषान्दृष्ट्वा यो विषयेभ्यो विरक्तस्तस्य मोक्षो नास्तीति । आभ्यन्तरेण ज्ञानपूर्वकेण वैराग्येण मोक्षो भवति बाह्येन संसार इति । ऐश्वर्यं ईश्वरभावेनेत्यष्टविधं । अणिमा लघिमा गरिमा महिमा प्राप्तिः प्राकाम्यं ईशित्वं वशित्वं यत्रकामावसायित्वं इति । एतानि धर्मादीनि चत्वारि सात्त्विकरूपाणि बुद्धेः । यदा सत्त्वेन रजस्तमसी अभिभूते स्तस्तदा सत्त्वोद्रिक्तः पुमानेतान्गुणानाप्नोति । किं चान्यत् । तामसं अस्मात्विपर्यस्तं । अस्मात्सात्त्विकाद्धर्मादेर्विपर्यस्तं विपरीतं अधर्माज्ञानाद्यं चतुर्धा बुद्धे रूपं तामसं । ये हिंसादयो वितर्का एकाशीतिभेदाः । पृथग्दशापि यमनियमाद्याः । तथा अधर्मोऽज्ञानं अवैराग्यं अनैश्वर्यं इत्यष्टधा सात्त्विकतामसभेदा बुद्धिः । अस्या एवं विधाया बुद्धेरहङ्कारो जायते ॥ टिका २३ ॥


_________________________________________________________


इदानीं अहङ्कारस्य लक्षणं व्याख्यास्यामः । तदुच्यते

अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः ।
ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव ॥ कारिका २४ ॥
(प्.३०)

अभिमानोऽहङ्कार इति । रूपे अहं रसे अहं गन्धे अहम्, अहं विद्वान्, अहं दर्शनीय इत्येवमाद्यभिमानोऽहङ्कारः । तस्मातभिमानलक्षणादहङ्काराद्द्विविधः प्रवर्तते सर्गः । सर्ग इति सृष्टेः पर्यायः । कश्चासौ सर्गः? तदुच्यते । ऐन्द्रिय एकादशकः । श्रोत्रादीनीन्द्रियाणि मनःपर्यन्तानि । तन्मात्रपञ्चकश्चैव । तन्मात्राण्यत्र शब्दादीनि गन्धपर्यन्तानि । एवं एकादशेन्द्रियाणि पञ्चतन्मात्राणि चोत्पन्नानि ॥ टिका २४ ॥

_________________________________________________________


अत्राह त्रिविधोऽहङ्कारस्तं व्याख्यास्यामः । तत्र कतरस्मादहङ्कारादिन्द्रियाण्युत्पद्यन्ते, कतरस्माद्वा तन्मात्राणीति । अत्रोच्यते


सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ कारिका २५ ॥

सात्त्विक इति । यदा सत्त्वं उत्कटं भवति अहङ्कारे तेन च सत्त्वेन रजस्तमसी अभिभूते स्यातां तदा सात्त्विकोऽहङ्कार उच्यते । तस्य सात्त्विकस्य वैकृतिक इति पूर्वाचार्यैः संज्ञा कृता । स वैकृतिको भूत्वा अहङ्कार एकादशेन्द्रियाणि उत्पादयति । तस्मात्सात्त्विकानीमानि विशुद्धानि स्वविषयग्रहणसमर्थानि भवन्ति । तस्मादुच्यते "सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्" इति । भूतादेस्तन्मात्राः । भूतादेस्तमोबाहुल्याद्गौणीभूतसत्त्वरजसो भूतादिनाम्नः पूर्वाचार्यैर्निरूपितादहङ्कारात्तन्मात्रः शब्दादिपञ्चको गणो जायते । अभिभूतसत्त्वतमसो राजसात्तैजसाभिधानादहङ्कारात्प्रवृत्तिकर्मण उभयं प्रकाशात्मकं एकादशेन्द्रियकं मोहात्मकं तन्मात्रिकं चासीदिति सम्बन्धः । तैजस एव राजसेऽहङ्कारे क्रियाशक्तिरस्ति । सत्त्वं निष्क्रियं एकाकि न शक्नोत्युत्पादयितुं । तमश्च मूढत्वादक्रियं असमर्थं विना रजः सृष्टिं उत्पादयितुं । अत उभे सत्त्वतमसी सृष्टिविषये रजसानुगृहीते ऐन्द्रियकं तान्मात्रिकं च गणद्वयं जनयत इति तात्पर्यार्थः ॥ टिका २५ ॥


_________________________________________________________



तत्र कानि बुद्धीन्द्रियाणि कानि कर्मेन्द्रियाणीति? उच्यते


बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि ।
(प्.३१)
वाक्पाणिपादपायूपस्थान्कर्मेन्द्रियाण्याहुः ॥ कारिका २६ ॥

श्रोत्रादीनि बुद्धीन्द्रियाणीति उच्यन्ते । शब्दस्पर्शरूपरसगन्धान्बुद्ध्यन्त इति बुद्धीन्द्रियाणि । इन्द्रियाण्येव तानीन्द्रियाणि । इनिति विषयाणां नाम, तानिनः विषयान्प्रति द्रवन्तीति इन्द्रियाणि । वाक्पाणिपादपायूपस्थान्कर्मेन्द्रियाण्याहुः । कर्म कुर्वन्ति कारयन्ति च । कर्मेन्द्रियाणां वृत्तिः । वाक्वदतिकर्म, हस्तौ ग्रहणकर्माणौ, पादौ विषमसमनिम्नोन्नतभूप्रदेशेषु क्रामतः, पायुर्यथाभुक्तान्नोदकमलं उत्सृजति, उपस्थ आनन्दं करोति पुत्रं उत्पादयतीत्यर्थः । एवं एताः कर्मेन्द्रियाणां वृत्तयो व्याख्याताः ॥ टिका २६ ॥


_________________________________________________________



अत्राह मन इन्द्रियं तत्किं लक्षणं इति । अत्रोच्यते

उभयात्मकं अत्र मनः सङ्कल्पकं इन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ॥ कारिका २७ ॥

उभयात्मकं अत्र मनः । कर्मेन्द्रियेषु कर्मेन्द्रियम्, बुद्धीन्द्रियेषु बुद्धीन्द्रियं । यथा देवदत्तो गोपालमध्ये स्थितो गोपालत्वं कुरुते मल्लमध्ये स्थितो मल्लत्वं कुरुते । कस्मात्? यस्माद्बुद्धीन्द्रियाणां वृत्तिं सङ्कल्पयति कर्मेन्द्रियाणां च । तस्मादुभयात्मकं मनः । किं चान्यत् । इन्द्रियं च साधर्म्यात् । सहधर्मस्य भावः साधर्म्यं । यस्मात्कर्मेन्द्रियाणि बुद्धीन्द्रियाणि च सात्त्विकादहङ्कारादुत्पद्यन्ते, मनोऽपि तस्मादेव उत्पद्यते । तस्मादिन्द्रियं मनः । तत्र मनसः का वृत्तिः? सङ्कल्पो वृत्तिः । बुद्धीन्द्रियाणां शब्दादयो वृत्तयः, कर्मेन्द्रियाणां वचनादयः । एवं एकादशेन्द्रियाणि सह वृत्तिभिर्व्याख्यातानि । अत्राह एकादशेन्द्रियाणि केन कृतानि पुरुषेण ईश्वरेण आहोस्वित्स्वभावेनेति कुत इयं आशङ्केति चेत्, इमान्येकादशेन्द्रियाणि एकादशविषयग्राहकाणि भवन्ति । तत्रान्तःकरणप्रधानबुद्ध्यहङ्काराद्यचेतनं । ततश्च नूनं चेतनेन पुरुषेणेश्वरेण वा स्वभावेनेति । अत्रोच्यते गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च । सत्त्वादयस्त्रयो गुणास्ते यथा परिणमन्ति तस्माद्गुणपरिणामविशेषादिमान्येकादशेन्द्रियाणि नाना । तदर्थानि भिन्नानि । शब्दस्पर्शरूपरसगन्धाः पञ्चानां, वचनादानविहरणोत्सर्गानन्दाः पञ्चानां, सङ्कल्पश्च मनसः । एतेषां एव एकादशानां इन्द्रियाणि ग्राहकाणी भविष्यन्ति ।(प्.३२) अथैतन्नानात्वं नेश्वरेण न बुद्ध्या नाहङ्कारेण न प्रधानेन न पुरुषेण न स्वभावेन कृतम्, गुणपरिणामेनेति । यद्यपि उक्तं अचेतनानां गुणानां वृत्तिरयुक्तेति । तन्न । कस्मादिति चेत्, तदुच्यते । अचेतनानां अपि प्रवृत्तिर्दृष्टा । वक्ष्यति हि

"वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषस्य विमोक्षार्थं तथा प्रवृत्तिः प्रधानस्य" ॥
(साङ्ख्यकारिका ५७) इति ।

तस्मादचेतना अपि गुणा एकादशेन्द्रियभावेन परिणमन्ति । अत्राह गृह्णीमस्तावदेकादशेन्द्रियाण्यहङ्कारादुत्पन्नानीति । एतेषां इन्द्रियाणां यथास्थाननिक्षेपः केन कृतः । चक्षुरुच्चैः सन्निविष्टं दूरालोकने समर्थं भविष्यतीति । शिरःप्रदेशे श्रोत्रं सन्निविष्टं दूराच्श्रवणसमर्थं भविष्यतीति । त्वक्शरीराभ्यन्तरे बहिश्च सन्निविष्टा नानास्पर्शग्रहणसमर्था भविष्यतीति । जिह्वा अन्तर्मुखं सन्निविष्टा नानारसग्रहणसमर्था भविष्यतीति । एवं नासिका वाक् । एवं इन्द्रियाणां निक्षेपः पुरुषेण वा कृत ईश्वरेण वा स्वभावेन वेति । अत्रोच्यते इह साङ्ख्ये पुरुषेश्वरस्वभावा न कारणं । किं तर्हि अस्मिन्नहङ्कारे स्थितैः सत्त्वरजस्तमोभिस्त्रिभिर्गुणैर्निक्षेपः कृतः । तस्माद्ब्रूमः "गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च" । गुणपरिणामविशेषादेकादशेन्द्रियाणां भेदः । ग्राह्यभेदाच्च । ग्राह्या एकादशेन्द्रियार्थास्तेषां भेदादपीन्द्रियाणां भेदः ॥ टिका २७ ॥


_________________________________________________________



अत्राह का कस्य वृत्तिः? उच्यते


रूपादिषु पञ्चानां आलोचनमत्रं इष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम् ॥ कारिका २८ ॥

मात्रशब्दो विशेषार्थः । यथा भिक्षामात्रं लभ्यते नान्यो विशेषः । तथा चक्षुः । गतार्थे आलोचनमात्रं इति । एकैकस्य प्रतीन्द्रियं स्वविषयग्रहणसामर्थ्यं एव । न हि चक्षुः श्रवणसमर्थं दानादानसमर्थं वा ॥ टिका २८ ॥


_________________________________________________________


अत ऊर्ध्वं बुद्ध्यहङ्कारमनोवृत्तिं वक्ष्यामः । तदुच्यते


स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
(प्.३३)
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ कारिका २९ ॥

स्वालक्षण्येति । बुद्धेरध्यवसाय उक्तः प्राक्लक्षणं । तस्याः स एवाध्यवसायो वृत्तिः । एवं अभिमानोऽहङ्कारलक्षणं । तस्य वृत्तिरपि स एव । मनसः सङ्कल्पो लक्षणं । तस्यापि स एव वृत्तिः । येन येन लक्षणेनामी लक्ष्यन्ते तेषां स एव वृत्तिः । एवं या बुद्धीन्द्रियाणां न सा कर्मेन्द्रियाणां । या च कर्मेन्द्रियाणां न सा बुद्धीन्द्रियाणां । बुद्ध्यहङ्कारमनसां वृत्तिरभिहिता । साप्यसामान्या । अध्यवसायाभिमानसङ्कल्पलक्षणा । सैषा भवत्यसामान्या असाधारणा एवं उक्तेऽर्थात्गम्यते सामान्यापि साधारणापि वृत्तिरस्ति । यदपेक्षयासामान्येत्युच्यते । एवं इन्द्रियाणां असामान्या वृत्तिराख्याता कुलस्त्रीसंस्थानीया । अत ऊर्ध्वं सामान्या वृत्तिरुच्यते । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । सामान्यकरणवृत्तिः समस्तस्यान्तःकरणस्येत्यर्थः । प्राणाद्या वायवः पञ्चेति प्राणापानोदानसमानव्यानाः सर्वेषां इन्द्रियाणां सामान्यं कुर्वन्ति । स प्राणो नाम यो मुखनासान्तरगो बाह्ये चास्य विषये वृत्तिः । प्राणनात्प्राण एष इत्यभिधीयते । अस्मिन्प्राणे यत्स्पन्दनकर्म तत्कतमेन कृतं इत्यत्रोच्यते त्रयोदशविधेन करणेन कृतं । यतश्चैवं तस्मात्प्राणकर्म सर्वस्य करणग्रामस्य वृत्तिः सामान्या । अपि चात्र दृष्टान्तः यथा कस्मिंश्चिद्राजगृहे पञ्जरे शुकाः प्रतिवसन्ति । तेभ्यो देवदत्तेन ओदनो दर्शितः । ओदनं दृष्ट्वा सर्वे प्रचलिताः । तदा पञ्जरकं अपि चलितं । यत्पञ्जरस्य प्रचलनं कर्म तत्सर्वेषां शुकानां सामान्यं । तद्वत्प्राणे यत्स्पन्दनकर्म तत्सर्वेषां इन्द्रियाणां सामान्यं । किं चान्यत् अपानेनोत्सृजति । इतश्चापक्रमणादपान इत्युच्यते । अपानबहुलश्च देवदत्तः सर्पं दृष्ट्वा अपसर्पति एषोऽपानः । तस्मिन्नपाने यत्स्पन्दनकर्म तत्सर्वेषां इन्द्रियाणां सामान्या वृत्तिः । आरोहणादर्थोत्कर्षे उदान इत्यभिधीयते । नाभिप्रदेशादुत्थितं गच्छति । उदानवृत्तिश्च देवदत्त आनन्दोत्कर्षं मृगयति । अहं आढ्योऽस्मादाढ्यतरः कथं स्यां इत्येष उदानः । अस्मिन्नुदाने यत्स्पन्दनकर्म तत्सामान्या वृत्तिः सर्वेन्द्रियाणां । किञ् चान्यत् हृद्यवस्थानं सहभावश्च तेन समानः । यो वायुर्हृद्देशे वर्तते स समानः । तद्बहुलश्च एकाकी न रमत एष समानः । तस्मिन्यत्स्पन्दनकर्म तत्सर्वेन्द्रियाणां सामान्यवृत्तिः । किञ् चान्यत् शरीरव्यापितया व्यानः । आनखादाकेशान्तं शरीरं व्याप्य अनति चलतीति व्यानः । व्यानबहुलो देवदत्तश्च अत्यन्तं अन्येन विना रमते ।(प्.३४) तस्मिन्व्याने यत्स्पन्दनकर्म तत्सर्वेषां इन्द्रियाणां सामान्यवृत्तिः । तदेवं सामान्यकारणवृत्तिः प्राणाद्या वायवो व्याख्याताः ॥ टिका २९ ॥
वृत्तिं व्याख्यास्यामः । तदुच्यते


_________________________________________________________



युगपच्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ कारिका ३० ॥

बुद्धिरहङ्कारो मनश्चक्षुरित्येतानि चत्वारि युगपद्रूपं पश्यन्ति, अयं स्थाणुर्ऽयं पुरुष इति । एवं शब्दं स्पर्शं रसं गन्धं चत्वारि युगपद्गृह्णन्ति । एवं एषा युगपच्चतुष्टयस्य वृत्तिः । किं चान्यत् । क्रमशश्च तस्य निर्दिष्टा बुद्ध्यहङ्कारमनश्चक्षुश्चतुष्टयस्य क्रमशो वृत्तिर्भवति । द्वारिद्वारविभागोपदेशाद्ह्रस्वकालत्वाद्विभागो न शक्यते वक्तुं ततो युगपदित्युच्यते । यथा बालपत्रशतं सूच्यग्रेण विद्धं इति । तद्यथा । देवदत्तः पन्थानं गच्छन्स्थाणुं पश्यति तत्र तस्य संशयो भवति किं अयं स्थाणुरुत पुरुष इति । तत्र स्थाणुरूपं पश्यति शकुनिं च तत्रस्थं ततोऽस्य बुद्धिर्भवति स्थाणुरयं इति । आकुञ्चनप्रसारणे करोति ततोऽपि पुरुषोऽयं इति प्रतीतिः । एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टा चक्षू रूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारोऽभिमानयति, बुद्धिरध्यवस्यति । एवं रसनादिष्वपि द्रष्टव्यं । किं चान्यत् दृष्टे तथाप्यदृष्टे । त्रयस्य तत्पूर्विका वृत्तिः । तच्छब्देन समनन्तरोक्तानि बुद्धीन्द्रियाणि भवन्ति । रूपे चक्षुःपूर्विका, शब्दे श्रोत्रपूर्विका, स्पर्शे त्वक्पूर्विका, रसे जिह्वापूर्विका, गन्धे घ्राणपूर्विका बुद्ध्यहङ्कारमनसां वृत्तिरिति ॥ टिका ३० ॥

_________________________________________________________



अत्राह अचेतनानीन्द्रियाणि बुद्ध्यहङ्कारौ मनश्चेति केन हेतुना स्वां स्वां वृत्तिं प्रतिपद्यन्ते इत्यत्राह


स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ कारिका ३१ ॥

स्वां स्वां इति वीप्सां इच्छन्ति । (इति त्रयोदशविधस्य करणस्य ग्रहणं कृतं भवति) । प्रतिपद्यन्ते गृह्णन्तीत्यर्थऽः । किं चान्यत् परस्पराकूतहेतुकां वृत्तिं । बुद्धेराकूतं ज्ञात्वा अहङ्कारोऽभिमानयति, मनः सङ्कल्पयति, इन्द्रियाणि स्वां स्वां वृत्तिं प्रतिपद्यन्ते । आकूतं नामाभिप्रायः । यथा किल चौरसेना ग्रामं हन्तुं गच्छति तत्र चौरसेनापतिना सङ्केतः(प्.३५) कृतोऽस्ति यदाहं हा हेति ब्रवीमि तदा सर्वैः समवायेन प्रवेष्टव्यं । यदा पुनरहं अहा हेति ब्रवीमि तदा निर्गन्तव्यं । एतां चौरसेनापतेराज्ञां आकूतं ज्ञात्वा चौराः प्रविशन्ति निर्गच्छन्ति च । तथेह चौरसेनापतिस्थानीया बुद्धिः चौरस्थानीयानीन्द्रियाणि । किं स्वार्थं विषयं प्रतिपद्यन्ते आहोस्वित्परार्थं इत्यत्रोच्यते । परार्थं गम्यते । यस्मादाह पुरुषार्थ एव हेतुः पुरुषार्थः कर्तव्य एव इति गुणानां प्रवृत्तिः । तस्मादेतत्त्रयोदशविधं करणं पुरुषार्थः प्रवर्तयति । यदप्युक्तं अचेतनानि करणानि कथं प्रवर्तन्त इति । अत्र ब्रूमः न केनचित्कार्यते करणं । नेश्वरेण नापि पुरुषेण । स्वभावो नाम कश्चित्पदार्थो (ना)स्ति । यस्मात्स्वयं एव च त्रयोदशविधं करणं स्वे स्वे विषये प्रवर्तत इति ॥ टिका ३१ ॥


_________________________________________________________



अत्राह उक्तं च भगवता न केनचित्कार्यते करणं इति ।
तत्कतिविधं करणं इति? अत्रोच्यते


करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ कारिका ३२ ॥

यदत्र करणं इत्युक्तं तत्त्रयोदशविधं इति बोद्ध्यं । पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि, बुद्ध्यहङ्कारौ मन इति एतत्त्रयोदशविधं करणं इति । अत्राह आहारकं धारकं प्रकाशकं च तदिति । तत्राहारकं इन्द्रियलक्षणं । धारकं अभिमानलक्षणं । प्रकाशकं बुद्धिलक्षणं । अत्राह किं तदस्ति यस्याहरणं धारणं प्रकाशनं च क्रियते । अत्रोच्यते कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च । कार्यं इति शब्दस्पर्शरसरूपगन्धाः पञ्च, वचनादानविहरणोत्सर्गानन्दाः पञ्च । एते दश विषयाः कार्यं इत्युच्यते । तं दशविधं विषयं बुद्धीन्द्रियैः प्रकाशितं अर्थं कर्मेन्द्रियाण्याहरन्ति धारयन्ति च । तद्यथा तमसि स्थितं प्रदीपेन प्रकाशितं घटं हस्त आदत्ते धारयति च । तदेवं यथा घटं तथा शेषाण्यपि ॥ टिका ३२ ॥


_________________________________________________________



अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालं आभ्यन्तरं करणम् ॥ कारिका ३३ ॥

अन्तःकरणं त्रिविधं इति बुद्ध्यहङ्कारमनसां ग्रहणं । एतत्त्रिविधं अन्तःकरणसंज्ञितं । दशधा बाह्यं बुद्धिकर्मेन्द्रियभेदात् । किं चान्यत् । त्रयस्य विषयाख्यं बुद्ध्यहङ्कारमनसां त्रयाणां अन्तःकरणानां बाह्यं दशविधं(प्.३६) करणं विषयाख्यं विषय(?) उपभोग्यं इति । आभ्यन्तरं त्रिकं स्वामिभूतं बाह्यं दशविधं भृत्यभूतं इत्यर्थः । किं चान्यत् साम्प्रतकालं बाह्यं । यदेतद्बाह्यं दशविधं करणं उक्तं तत्साम्प्रतकालं वर्तमानविषयग्राहकं भवति । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि वर्तमानान्येव शब्दादीनि गृह्णन्ति । नातीतानि न च भावीनि । एवं वाक्पाणिपादपायूपस्थानि वर्तमानेषु वचनादेयभूमिमलोत्सर्गानन्देषु प्रवर्तन्ते नातीताभविष्यतोः । किञ् चान्यत् त्रिकालं आभ्यन्तरं मनोऽहङ्कारबुद्धिरूपं करणं प्रवर्तते । बुद्धिर्वर्तमानं घटं बुद्ध्यते अतीतं भविष्यन्तं च स्मरति । तद्यथा युधिष्ठिरभीमसेनावास्तां अतीतविषयग्राहिणी बुद्धिः । कल्की भविष्यति भाविवस्तुग्राहिणी । एवं अहङ्कारोऽपि त्रिकालवान् । यथाहं अस्मिन्गृहे स्वामी आसं, भविष्यामि चेति । एवं मनोऽप्यतीतं सङ्कल्पयति वर्तमानं भावि च । यत एवं तस्मादुच्यते "त्रिकालं आभ्यन्तरं करणम्" इति ॥ टिका ३३ ॥


_________________________________________________________



अत्राह कानि इन्द्रियाणि सविशेषं विषयं गृह्णन्ति, कानि निर्विशेषं । अत्रोच्यते

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषान्यपि पञ्चविषयाणि ॥ कारिका ३४ ॥

तेषां करणानां मध्ये येषां अयं अधिकारो वर्तते तेषां यानि बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च तानि सविशेषं गृह्णन्ति अविशेषं अपि विषयं गृह्णन्ति । अत्राह कस्य सविशेषं विषयं गृह्णन्ति कस्य निर्विशेषं इति । अत्रोच्यते शब्दस्पर्शरसरूपगन्धाः पज्ञ देवानां तन्मात्रसंज्ञिता निर्विशेषाः केवलसुखलक्षणत्वात् । यस्मात्तत्र दुःखमोहौ न स्तस्तस्मान्निर्विशेषास्ते इति । तथा हि । विशिष्यन्ते शान्तघोरमूढत्वादिनेति विशेषास्तैः सह सविशेषाः, केवला निर्विशेषा इति तात्पर्यं । एवं शब्दादयो मनुष्याणां सविशेषाः सुखदुःखमोहयुक्ता इत्यर्थः । देवानां तु बुद्धीन्द्रियाणि निर्विशेषं सुखात्मकं प्रकाशयन्ति । उक्तानि बुद्धीन्द्रियाणि देवानां मानुषाणां च । कर्मेन्द्रियाणि वक्ष्यामः । वाग्भवति शब्दविषया शेषान्यपि पञ्च विषयाणि । तत्र देवानां वाक्पादं पादार्धं श्लोकं उच्चारयति । अस्माकं अपि तथैव । अतो देवानां अस्माकं च वागिन्द्रियं तुल्यं इत्यर्थः । किं चान्यत् शेषाण्यपि पञ्च विषयाणि इति । तेषां(प्.३७) चतुर्णां एकैकं पञ्चविषयं । पाणिस्तावत्शब्दस्पर्शरसरूपगन्धयुक्तः । एवं पञ्चलक्षणं एव पाणीन्द्रियं सन्निकृष्टं पञ्चलक्षणं घटं गृह्णाति । (यस्मात्पञ्चलक्षणं हस्तं हस्तेन्द्रियं च) एवं शब्दादिपञ्चलक्षणः पादः पञ्चात्मिकायां एव भुवि विहरति । एवं पञ्चलक्षणे पायूपस्थे अपि पञ्चलक्षणावुत्सर्गानन्दौ कुरुतः । तस्मात्युक्तं अभिहितं "शेषाण्यपि पञ्च विषयाणि" इति ॥ टिका ३४ ॥


_________________________________________________________



इदानीं बुद्धिविषयख्यापनायेदं उच्यते

सान्तःकरणा बुद्धिः सर्वं विषयं अवगाहते यस्मात् ।
तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ कारिका ३५ ॥

सान्तःकरणा अन्तःकरणे अहंमनसी ताभ्यां सह वर्तते या बुद्धिः सा तथोक्ता । सा बुद्धिः सर्वं विषयं निरवशेषं त्रिष्वपि कालेषु यस्मादवगाहते व्याप्नोति गृह्णाति शब्दाद्यं पञ्चविधं तस्मादेव तन्मनोबुद्ध्यहङ्कारलक्षणं त्रिविधं एव करणं साधनं, क्रियतेऽनेनेतिकृत्वा । शेषाणि पुनः द्वारि बाह्ये यानि बुद्धिकर्मेन्द्रियतया प्रतीतानि श्रोत्रवाक्प्रभृतीनि दश तानि तस्या एव मनोऽहङ्कारयुक्ताया बुद्धेर्विषयग्रहणाय द्वाराणि प्रतीकान्येव न तु करणतया सान्वयानि । तथा एतैर्दशभिर्द्वारैः सान्तःकरणा बुद्धिरेव विषयान्गृह्णातीति त्रिविधं एव करणं इत्यर्थः ॥ टिका ३५ ॥


_________________________________________________________



किञ् चान्यत्

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ कारिका ३६ ॥

एते इति बुद्धिकर्मान्तःकरणभेदास्त्रयोदेश प्रदीपकल्पाः प्रदीपतुल्याः । किं चान्यत् । परस्परविलक्षणाः । भिन्नलक्षणा विसदृशा इत्यर्थः । श्रोत्रं हि शब्दं गृह्णाति, न स्पर्शादीन् । एवं इतरत्र । वाग्वक्त्येव न गृह्णाति गच्छति विहरत्यानन्दति । एवं पाण्यादिषु । मनः सङ्कल्पयति नाहङ्कुरुते । अहङ्कारश्चाभिमनुते न सङ्कल्पयति । एवं द्वादशापि स्वं स्वं अर्थं पुरुषभोग्यतया प्रकाश्य बुद्धौ प्रयच्छन्ति निक्षिपन्ति । तद्बुद्धिस्थं विषयं सुखदुःखाद्यं पुरुष उपलभते ॥ टिका ३६ ॥


_________________________________________________________



किञ् चान्यत्

सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ कारिका ३७ ॥
(प्.३८)

निर्विशेषं त्रिष्वपि कालेषु यो यो विषयं प्रति उपभोगो देवतिर्यग्योनिषु तं तं पुरुषस्य यस्माद्हेतोर्बुद्धिरेव साधयति निष्पादयति । राजामात्यवत् । यथा सर्वेषां भृत्यानां मन्त्री उपलब्धिं विधाय राजनि निवेदयति । एवं कर्मेन्द्रियाणि प्रकाश्य बुद्धौ प्रयच्छन्ति । बुद्धिरपि पुरुषाय प्रयच्छति समर्पयति । अनेन प्रकारेण बुद्धिरभ्युदयफलेन । यावज्ज्ञानं नोत्पद्यते तावत्पुरुषं योजयति । स्वैरिणीव कामुकं मूढविज्ञानं घृताद्युपचारैः । बुद्धिप्रेरिता अहंमनोबुद्धिकर्मेन्द्रियाख्या विषयान्न स्वार्थं न च बुद्ध्यर्थं किं तु पुरुषार्थं एव साधयन्ति । यथा सलक्ष्मीकस्वैरिणीगृहे दास्यस्तदादेशेन रसवतीं न स्वार्थं न च स्वामितयावस्थितस्वैरिण्यर्थं किं तु तयापहृतविवेकविज्ञानस्य कामुकस्य कृते निर्वर्तयन्ति तद्वत् । यावदसौ विमूढस्तावदनया बुद्ध्या स्वैरिण्येव कामुको विषयैरुपह्रियते । यदासौ कथं अपि गुरुशास्त्रात्मानुभवादिभिरात्मानं चेतयते तदा स्वैरिणीव बुद्धिरपि पुरुषं विहाय संशाम्यति । ततोऽसौ केवलतयावतिष्ठते । तदनुभवावस्थितिर्मुक्तिरिति यत्किञ्चिदिदं अप्रस्तुतं । प्रस्तुतं उच्यते । किञ् चान्यत् । अतः सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मं । सूक्ष्मं दुर्विज्ञेयं । प्रधानपुरुषान्तरं नानात्वं । सूक्ष्मत्वादतीव दुर्बोधं इति यावत् । बुद्धिर्हि अध्यवसायात्मिका स्वव्यापारेण चाध्यवसायेन साधयति । अहङ्कारेन्द्रियतन्मात्रभूताध्यवसायेन जगत्प्रधानपुरुषान्तरविवेचनेन विविच्य स्वयं म्रियते । अत एवोक्तं

"अहङ्कारो धियं ब्रूते मैनं सुप्तं प्रबोधय ।
प्रबुद्धे परमानन्दे न त्वं नाहं न तज्जगत् ॥
मयि तिष्ठत्यहङ्कारे पुरुषः पञ्चविंशकः ।
तत्त्ववृन्दं परित्यज्य स कथं मोक्षं इच्छति ॥
योऽसौ सर्वेश्वरो देवः सर्वव्यापी जगद्गुरुः ।
देहीतिपदं उच्चार्य हा मयात्मा लघुः कृतः" ॥

अकृतपुण्यचरणैर्न प्राप्यं प्रधानपुरुषयोर्नानात्वं । तयोरेवान्तरं दर्शयति । त्वं अन्यं आत्मानं न वेत्सि । प्रधानं अन्यत् । सत्त्वरजस्तमांसि त्रयो गुणाः प्राधानिका अमूर्ताः साम्यावस्थायां प्रधानाख्याः । तेषां एकतयोद्रेकात्त्रिगुणा बुद्धिरन्या, अन्योऽहङ्कारः, पञ्च तन्मात्राण्यन्यानि, एकादशेन्द्रियाण्यन्यानीति बुद्ध्वा तत्त्वानि मोक्षं गच्छन्ति । न हि भगवतः कपिलस्य मते किं अपि कर्तव्यं अनुष्ठेयतया, किं तु साङ्ख्यानां (प्.३९) पञ्चविंशतितत्त्वज्ञानं एव साधर्म्येण वैधर्म्येण च निःश्रेयसहेतुः । उक्तं च

हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् ।
यदि विदितं ते कपिलमतं तत्प्राप्स्यसे मोक्षसौख्यं च ॥ टिका ३७ ॥


_________________________________________________________



अत्राह उक्तं भगवता पूर्वस्यां आर्यायां "विशेषाविशेषविषयाणीन्द्रियाणि" इति । तत्र के विशेषा केऽविशेषा इति । अत्रोच्यते

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ कारिका ३८ ॥

यानि भूतादिसंज्ञात्तामसादहङ्कारादुत्पन्नानि पञ्च तन्मात्राणि शब्दादीनि तान्यविशेषा इत्युच्यन्ते । देवानां तन्मात्राणि सुखलक्षणा विषयास्तत्रापि रजस्तमसी स्तः किं तु तत्र सत्त्वं उत्कटत्वेन वर्तते तस्मादविशेषा इत्युच्यन्ते । न विशिष्यन्ते शान्तघोरमूढत्वादिभिः सत्त्वोद्रेकात्केवलसुखतया इत्यर्थः । तर्हि विशेषाः के? अत्राह तेभ्यो भूतानि पञ्च पञ्चभ्यः । शब्दादिभ्यः पञ्चभ्यः आकाशादीनि पञ्च महाभूतानि पूर्वपूर्वानुप्रवेशादेकद्वित्रिचतुष्पञ्च गुणान्युत्पद्यन्ते । एते स्मृता विशेषाः । अत्राह एतेषां किं लक्षणं इति । अत्रोच्यते । एतानि पञ्च महाभूतानि मनुष्याणां विषयाः । शान्ता घोरा मूढाश्च । तत्राकाशं शान्तं घोरं मूढं च । शान्तं तावत्सुखलक्षणं । यथा कश्चिद्गर्भगृहात्निष्क्रान्तः अवकाशस्थितस्तस्य तदाकाशं सुखहेतुत्वाच्छान्तं स्यात् । तदेवोष्णशीतवातादिसंयोगाद्दुःखत्वाद्घोरं स्यात् । पथि गच्छतः कान्दिशीकस्य केवलं सर्वत्राकाशं पश्यतो मार्गाद्यनभिज्ञस्य पुंसस्तदेव मूढं स्यात् । एवं वायौ त्रैविध्यं । यथा गर्भगृहवासिनो वातायनद्वारेण वायुः प्रविशन्सुखहेतुत्वाच्छान्तः । तेनैवोष्णमासि सम्पन्नेन दुःखोत्पादकतया दुःखी स्यादित्यसौ वायुर्घोरः । स एव वायुः शीतकाले शीतं जनयन्मूढः । एवं अग्निः शीतार्तस्य शान्तः । ग्रीष्मकाले तापार्तस्य घोरः । ग्रामादिदाहे प्रवृद्धोऽग्निः पुंसो मोहोत्पादकतया मूढः । एवं आपो घर्मार्तस्य सुखदत्वाच्छान्ताः । हेमन्ते दुःखदत्वाद्घोराः । समुद्रमध्यगतस्य पुंसः तीरं अपश्यतो मोहहेतुत्वान्मूढाः । एवं पृथ्वी नवशाद्वलोपचिता प्रावृषि सुखकारिणीति शान्ता । ग्रीष्मकाले उष्णबालुका घोरा । सैव पथिकस्य मार्गानभिज्ञस्य प्राणिग्रामाद्यपश्यतो मूढा । एवं देवानां निर्विशेषा विषयाः । तन्मात्रसंज्ञिता निर्विशेषाः केवला एवानन्दमयाः शान्तघोरमूढतयाविशिष्टाः स्वभावरूपाः(प्.४०) शर्कराकटुतिक्तादिरसा निश्चितं स्वभावमाधुर्यामृता उपमेयसुखशालिक्षीरं इव । माधुर्यक्षारकट्वादिपार्थिवगुणसम्पृक्तं स्वभावरसं जलं इवामी विषयाः(?) । देवानां एवं निर्विशेषाः स्युः । तन्मात्रसंज्ञिताः सुखलक्षणा एव । मनुष्याणां वियदादिभूतमयत्वात्भूतानीव सुखदुःखमोहलक्षणास्ते इत्यर्थः ॥ टिका ३८ ॥


_________________________________________________________



अत्राह किं एतावन्त एव विषयाः, न हि । किं त्वन्येऽपि सन्ति । के पुनस्ते इति? उच्यते ।

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ कारिका ३९ ॥

तत्र सूक्ष्मास्तावत्पञ्च तन्मात्रकाः तैरेवादिसर्गे सूक्ष्मशरीराणि त्रयाणां अपि लोकानां प्रारब्धानि । तत्सूक्ष्मशरीरमृतुकाले मातुरुदरं प्रविशति । मातू रुधिरं पितुः शुक्रं । वेदान्तवादिनोऽप्येवं आहुः । प्राणिनः स्वर्गनरकादिषु स्वकर्मभोगानन्तरमत्राजिगमिषवः सोममण्डले लीना भूत्वा वृष्टयो भवन्ति । ततोऽन्नम्, तत्स्त्रीपुंसाभ्यां उपभुक्तं शुक्रशोणिते, ततः पुरुष इति । "वेत्थ यथा पञ्चम्यां आहुतावापः पुरुषवचस"(छान्दोग्योपनिषद्५ ।३ ।३) इत्यारभ्य "इति तु पञ्चम्यां आहुतावाप"(छान्दोग्योपनिषद्५ ।९ ।१) इत्याहुः । पुराणेष्वपि

"सोमवृष्ट्यन्नरेतांसि पुरुषस्तत्र पञ्चमः ।
स जीवत्यग्नये पश्चाद्धरन्त्यस्माद्यतोऽभवत्" ॥
इति ।

तदेवं सूक्ष्मशरीरस्योपचयं करोति । मातुरशितपीतान्नरसो मातृनाडीसम्बन्धेन प्रविश्य सूक्ष्मशरीरस्य शुक्रशोणितमयस्योपचयं कुरुते । मातुश्च नाड्या बालस्य नाभिरन्ध्रं प्रविशति । यथैकेन मार्गेण शाकवाटस्याप्यायनं उदकं करोति एवं अन्नपानस्य रसो मातृनाडीगतो बालस्य नाभिं प्रविशति । प्रविश्य बालशरीरस्याप्यायनं करोति । तत्र सूक्ष्मशरीरस्याकृतिर्यादृग्लक्षणा बहिःशरीरस्य भवति हस्तपादशिरःपृष्ठोदरजङ्घागुल्फ इति । अपि च शिष्टा वदन्ति बहिःशरीरं षाट्कौशिकं इति । रुधिरमांसत्वचो मातृजाः स्नाय्वस्थिमज्जानः पितृजाः । एवं एतद्बाह्यशरीरं आभ्यन्तरसूक्ष्मशरीरस्योपचयं कुरुते । तस्यैव बहिःशरीरोपचितस्य सूक्ष्मशरीरस्य प्रसवकाले योन्या निर्गतस्य मातुरुदरात्बाह्यानि पञ्च महाभूतानि पृथिव्यादीनि विहरणसंस्थानीयानि कृतानि । यथा कस्यचिद्राजकुमारस्य मातापितृभ्यां उपचितस्य पञ्च महाभूतानि कृतानि । आकाशं अवकाशने, भूमिर्विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निर्(प्.४१) आहारपचने, वायुर्व्यूहने, अस्य शरीरस्यैवं एते विशेषाः त्रिविधाः । सूक्ष्मा मातापितृजाः सह प्रभूतैः । प्र इत्युपसर्गः । एवं सूक्ष्मा मातापितृजा भूतानि चेत्यर्थः । तानि च पृथिव्यादीनि । एवं एते त्रिधा विशेषाः । ये चान्ये प्रागभिहिता विशेषाः शान्ता घोरा मूढाश्च । अत्राह एतेषु त्रिष्वपि विशेषेषु के नित्याः केऽनित्या इत्यत्रोच्यते सूक्ष्मास्तेषां नियताः । सूक्ष्मा इति यैरादिसर्गारम्भस्ते नियता नित्या इत्यर्थः । तैरारब्धं सूक्ष्मशरीरं अस्मिन्स्थूलशरीरे पतति तदधर्मेण संयुक्तं पशुमृगपक्षिसरीसृपस्थावरान्तानि पञ्च स्थानानि पश्यति । धर्माधर्मयोः साम्येन ब्राह्मणादीनि चण्डालान्तानि पश्यति । एवं सूक्ष्मशरीरं नियतं यावत्संसारं इत्यर्थः । तद्यावज्ज्ञानं गुणपुरुषान्तरोपलब्धिरूपं नोत्पद्यते तावत्संसरति, उत्पन्ने ज्ञाने निवर्तते । तस्मिंश्च निवृत्ते पुरुषो मोक्षं गच्छति । उक्तं च

"देहे मोहाश्रये भग्ने युक्तः स परमात्मनि ।
कुम्भाकाश इवाकाशे लभते चैकरूपताम्" ॥

"यथा दर्पणाभाव आभासहानौ" इत्यादि । तस्मादेतत्सूक्ष्मं । मातापितृजा निवर्तन्ते तत्सूक्ष्मशरीरं परित्यज्य मरणकाले मातापितृजं पतति । तत्सूक्ष्मशरीरं ज्ञानं अविदुषां संसरति ॥ टिका ३९ ॥


_________________________________________________________



अत्राह उक्तं च भगवता "मातापितृजा निवर्तन्ते तत्सूक्ष्मं संसरतीत्यर्थः । अत्रोच्यते

पूर्वोत्पन्नं असक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ कारिका ४० ॥

पूर्वोत्पन्नं इत्यादि । सर्गोत्पन्नं इत्यर्थः । यावज्ज्ञानं नोत्पद्यते तावत्संसारे स्थिरतरं स्थितं इत्यर्थः । किञ् चान्यत् असक्तं, क्वचिन्न सक्तं इत्यसक्तं देवमानुषतिर्यक्षु सूक्ष्मत्वात् । नियतं नित्यं इत्यर्थः । पञ्च कर्मेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि पञ्च तन्मात्राणि मनो बुद्धिरहङ्कार एवं अष्टादश महदादिसूक्ष्मपर्यन्तं इति । महान्यस्यादौ, सूक्ष्माणि तन्मात्राणि शब्दादिविषयाख्यान्यन्ते यस्य तत्तथोक्तं । अन्तःकरणबहिःकरणानि त्रयोदश तन्मात्राणि पञ्च चेति । अत्राह तत्किं करोति । अत्रोच्यते संसरति देवमानुषतिर्यग्योनिषु जीवभावं आगच्छति । तद्धि(प्.४२) निरुपभोगं शब्दादयो विषया उपभोगास्तैर्विरहितं । त्रयोदशकरणात्मकं एवेत्यर्थः । भावैरधिवासितं देवमानुषतिर्यग्भावाधिवासितं एवेत्यर्थः । यथा तिलपतनवस्त्रवासनवत्(?) । तद्वत्शान्ता भावा भवन्ति । देवभावाः शुभेन मिश्रेण मानुषा अशुभेन तिर्यक्त्वं । लिङ्गं प्रलयकाले प्रधाने लयं गच्छतीति लिङ्गं । प्रकर्षेण धीयते क्षिप्यतेऽत्र सर्वं इति प्रधानम् ॥ टिका ४१ ॥


_________________________________________________________



अत्राह सूक्ष्मशरीरेण नास्ति प्रयोजनं । तर्हि त्रयोदशविधं करणं एव कथं संसरतीति? अत्रोच्यते

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद्विनाविशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥ कारिका ४१ ॥

इहाश्रयाश्रयिणोः सम्बन्धो दृष्टः । न ह्याश्रयं विनाश्रयी तिष्ठति । कुड्यापटाश्रयं कृत्वा चित्रं अवतिष्ठते । तदिदं सूक्ष्मशरीरं कुड्यपटस्थानीयं चित्रसंस्थानीयं त्रयोदशविधं करणं । तदेवं सति यदुक्तं भवता त्रयोदशविधं करणं एव संसरतीति तन्मिथ्या । किं चान्यत् स्थाण्वादिभ्यो विना यथा छाया इति । स्थाणुपुरुषादिभिर्विना यथा छाया न भवति । छायां विना ते च न भवन्ति । यथाग्निना विना प्रकाशो न भवति । तद्वद्विनाविशेषैस्तिष्ठति न निराश्रयं लिङ्गं इति । अविशेषा इति तन्मात्राणि स्वाभाविकक्षीरजलवच्शान्तघोरमूढत्वरहितत्वात् । तैरारब्धं सूक्ष्मशरीरं । तेन सूक्ष्मशरीरेण सर्गादिप्रारब्धेन विना निराश्रयं त्रयोदशकरणाख्यं लिङ्गं न तिष्ठति । अतो यदुक्तं भवता "किं अविशेषैरारब्धसूक्ष्मशरीरकल्पनया प्रयोजनं त्रयोदशविधं करणं एअ संसरति" इति, तन्मिथ्या ॥ टिका ४१ ॥


_________________________________________________________



अत्राह सूक्ष्मशरीरं त्रयोदशविधकरणसम्पन्नं केन हेतुना संसरतीति? अत्रोच्यते

पुरुषार्थहेतुकं इदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ कारिका ४२ ॥

पुरुषार्थः कर्तव्य इति प्रधानस्य तावत्प्रवृत्तिः । स चार्थो द्विविधः । शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दाद्युपलब्धिर्ब्रह्मलोकादिषु भोगावाप्तिर्गुणपुरुषान्तरोपलब्धिर्मोक्ष इति । तस्मादुक्तं पुरुषार्थहेतुकं इदं सूक्ष्मशरीरं इति । किं चान्यत् निमित्तनैमित्तिकप्रसङ्गेन(प्.४३) । तत्र निमित्तं धर्माद्यष्टविधं । तत्पुरस्तात्वक्ष्यामः "धर्मेण गमनं ऊर्ध्वम्" इत्यादि । प्रकृतिः प्रधानं । विभुत्वं प्रभुत्वं तस्य योगात्(तद्विभुत्वयोगात्) । यथा कश्चिद्राजा प्रभुत्वयोगेन स्वराष्ट्रे यद्यदिच्छति तत्तत्करोति । एवं प्रधानं अपि प्रभुत्वयोगेन मानुष्यं वा दैवं वा तैर्यग्योन्यं वा कुरुते । एवं सूक्ष्मशरीरं त्रयोदशविधेन करणेन संयुक्तं हस्तिन्या उदर प्रविश्य हस्ती भवति । स्त्रीशरीरं प्रविश्य मनुष्यो भवति । पशुर्भवति । तस्मात्नटवद्व्यवतिष्ठते लिङ्गम् ॥ टिका ४२ ॥


_________________________________________________________



अत्राह उक्त पुरा भावैरधिवासितं लिङ्गं सूक्ष्मशरीरं संसरति । तत्के भावा इति? अत्रोच्यते

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ कारिका ४३ ॥

त्रिविधा भावाश्चिन्त्यन्ते । तत्र केचित्सांसिद्धिकाः, केचित्प्राकृतिकाः, केचिद्वैकृताः । तत्र सांसिद्धिकास्तावत् यथा कपिलस्य भगवतः परमर्षेरादिसर्गे उत्पन्नस्येमे चत्वारो भावाः सहोत्पन्ना धर्मो ज्ञानं वैराग्यं ऐश्वर्यं इति । एते सांसिद्धिका उच्यन्ते । प्राकृतिका नाम ब्रह्मणः पुत्राः किल सनकादयो बभूवुः । तेषां उत्पन्नकार्यकारणानां शरीरवतां षोडशवर्षाणां एवैते चत्वारो भावा अकस्मादेवोत्पन्ना निधिदर्शनवत् । एते च प्राकृतिका भावा उच्यन्ते । वैकृतिका यथा आचार्यादिमूर्तिं अधिकृत्य उत्पन्ना वैकृतिका इत्युच्यन्ते । आचार्यं निमित्तं कृत्वा ज्ञानं उत्पद्यते । ज्ञानाद्वैराग्यं, वैराग्याद्धर्मो, धर्मादैश्वर्यं । एवं एते चत्वारो भावा अस्मदादिष्वपि वर्तन्ते । तदेव वैकृता इत्युच्यन्ते । एवं एते त्रिधा भावा व्याख्याता यैरधिवासितं महदादि लिङ्गं संसरति । अत्राह धर्मो, ज्ञानम्, वैराग्यं ऐश्वर्यम्, अधर्मोऽज्ञानं अवैराग्यं अनैश्वर्यं । एवं एतेऽष्टौ भावाः क्व वर्तन्ते? पूर्वर्षिभिः दृष्टाः करणाश्रयिणः । करणान्य्(प्.४४) उच्यन्ते बुद्धिकर्मान्तःकरणभेदात्त्रयोदश । तान्याश्रित्याष्टौ भावाः प्रवर्तन्ते । उक्तं हि "अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम्" इत्येवमादि । किं चान्यत् कार्याश्रयिणश्च कललाद्याः । यथा सूक्ष्मशरीरं उत्पत्तिकाले मातुरुदरं प्रविशति । मातुः रुधिरं पितुः शुक्रं तस्य सूक्ष्मशरीरस्योपचय कुरुते । कललबुद्बुदघनमांसपेशीगर्भकुमारयौवनस्थाविरादयोऽन्नपानरसनिमित्ता उत्पद्यन्ते । तत्र उच्यते "कार्याश्रयिणश्च कललाद्या" इति । कललग्रहणं विरागनिमित्तम् ॥ टिका ४३ ॥


_________________________________________________________



उक्तं पूर्वस्यां आर्यायां "निमित्तनैमित्तिकप्रसङ्गेन" "नटवद्व्यवतिष्ठते लिङ्गम्" इति । तत्र किं निमित्तं किं च नैमित्तिकं इति? अत्रोच्यते

धर्मेण गमनं ऊर्ध्वं गमनं अधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ कारिका ४४ ॥

तत्र धर्मो निमित्तं । इह लोके धर्मं यः कुरुते तन्निमित्तं कृत्वा सूक्ष्मशरीरं ऊर्ध्वं गच्छति । ऊर्ध्वं इत्यष्टानां देवयोनीनां ग्रहणं । तत्र आद्यं ब्राह्मं । प्राजापत्यम्, ऐन्द्रं, पित्र्यं, गान्धर्वं, याक्षं, राक्षसं, पैशाचं इत्येतान्यष्टौ स्थानानि सूक्ष्मशरीरं गच्छति । तत्र धर्मो निमित्तम्, ऊर्ध्वगमनं नैमित्तिकं । किं चान्यत् गमनं अधस्ताद्भवत्यधर्मेण । इह लोके यमनियमलक्षणो धर्मस्तद्विपरीतो ह्यधर्मः, तेनाधर्मेण सूक्ष्मशरीरं अधस्ताद्गच्छति पश्वादि । पशुमृगपक्षिसरीसृपस्थावरं इति पञ्चधा तिर्यक्स्थावरान्तं । अत्राधर्मो निमित्तम्, अधोगमनं नैमित्तिकं । किं चान्यत् ज्ञानेन चापवर्गः । यत्पञ्चविंशतितत्त्वज्ञानं तेन ज्ञानेन तत्सूक्ष्मशरीरं निवर्तते । परमात्मापवर्गं प्राप्नोति मोक्षं गच्छतीत्यर्थः । अतो ज्ञानं निमित्तं अपवर्गो नैमित्तिकः । अन्यच्च विपर्ययादिष्यते बन्धः । कस्य विपर्ययात् । ज्ञानस्य विपर्ययोऽज्ञानं, तेनाज्ञानेनाहं दर्शनीयः सुभगोऽहं भोक्ताहं इति मन्यते । तेनाज्ञानेन मनुष्यतिर्यग्देवेष्वात्मानं निबध्नाति । न मोक्षं गच्छतीत्यर्थः । अतोऽज्ञानं निमित्तं बन्धो नैमित्तिकाः । स च बन्धस्त्रिविधः । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति । तत्र प्रकृतिबन्धो नामाष्टासु प्रकृतिषु परत्वेनाभिमानः । वैकारिकबन्धो नाम ब्रह्मादिस्थानेषु श्रेयोबुद्धिः । दक्षिणाबन्धो नाम गवादिदानेज्यानिमित्तः । एवं चतुर्विधं निमित्तनैमित्तिकं व्याख्यातम् ॥ टिका ४४ ॥
(प्.४५)


_________________________________________________________



अन्यदप्येवंविधं उच्यते चतुर्धा

वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ कारिका ४५ ॥

यथा कस्यचिद्वैराग्यं अस्ति । (जितेन्द्रियो विषयेभ्यो विरक्तो न यमनियमपरः केवलम्) न तु ज्ञानं अस्ति गुणपुरुषान्तराख्यं । तेनाज्ञानेन वैराग्यपूर्वेण नास्ति मोक्षः । केवलं अष्टासु प्रकृतिषु लयो भवति प्रधानबुद्ध्यहङ्कारतन्मात्रेषु । तत्र लीनं आत्मानं मुक्तं इत्यवगच्छति भूयः संसरणकाले संसरति त्रिषु लोकेषु शरीरोत्पत्तिर्भवति । तत्र वैराग्यं निमित्तं प्रकृतिलयो नैमित्तिकः । किं चान्यत् संसारो राजसाद्भवति रागात् । योऽयं राजसो रागोऽवैराग्यं यज्ञं करोति, दानं ददाति, अमुनामुष्मिन्लोके सुखं मे भावीति । तेन रागेण संसारो भवति । ब्रह्मादिस्थानेषु जन्म भवति । तत्र रागो निमित्तं संसारो नैमित्तिकः । किं चान्यत् ऐश्वर्यादविघातः यत्पूर्वं ऐश्वर्यं अणिमादिकं अष्टविधं निर्दिष्टं तस्मादैश्वर्यात्प्रार्थितानां अविघातो भवति न मुक्तिः । अविघातोऽस्खलनं । विपर्ययात्तद्विपर्यासः । विपर्ययादनैश्वर्यात्तद्विपर्यासः प्रार्थितानां अप्राप्तिरित्यर्थः । तत्रानैश्वर्यं निमित्तं । प्रार्थितस्याप्राप्तिलक्षणो विपर्यासो नैमित्तिकः । एवं षोडशको नित्यनैमित्तिकप्रसङ्गो व्याख्यातः । प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते । यज्ञादिभिर्दक्षिणाबन्ध इत्युच्यते । ऐश्वर्यादिनिमित्तो भोगो वैकारिक इत्युच्यते ॥ टिका ४५ ॥


_________________________________________________________



ननु निमित्तनैमित्तिकप्रसङ्गः किमात्मक इति? अत्रोच्यते

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ कारिका ४६ ॥

एष इति । आर्याद्वयेन षोडशविधो नैमित्तिकः सर्ग उक्तः । प्रत्ययसर्ग उच्यते । प्रत्ययाद्बुद्धेरुत्पन्नो यस्मात्तस्मात्प्रत्ययसर्ग इत्युच्यते । उक्तं हि पुरस्तात्"अध्यवसायो बुद्धिः" इत्यादि । सोऽयं प्रत्ययसर्गो भूयश्चतुर्धा भिद्यते । यस्मादाह विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । संशयबुद्धिर्विपर्ययः स्थाणुरयं पुरुषो वेति । भूयोऽपि स्थाणुं प्रसमीक्ष्य न शक्नोत्यन्तरं गन्तुं एवं अस्याशक्तिरुत्पन्ना । ततस्तृतीयः तं एव स्थाणुं(प्.४६) ज्ञातुं संशयितुं वा नेच्छति किं अनेनास्माकं इत्येषा तुष्टिः । भूयश्चतुर्थो (दृष्टे यस्तस्मिन्) स्थाण्वादिरूढां वल्लीं पश्यति शकुनिं वा । ततोऽस्य निश्चय उत्पद्यते स्थाणुरयं इत्येषा सिद्धिः । एवं एष प्रत्ययसर्गो भिन्नश्चतुर्धा विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । तस्य चतुर्विधप्रत्ययसर्गस्य गुणवैषम्यविमर्देन पञ्चाशत्भेदा भवन्ति । सत्त्वरजस्तमांसि त्रयो गुणास्तेषां वैषम्यं तद्विमर्देन । यदा सत्त्वं उद्रिक्तं तदा रजस्तमसी गौणे । यथादित्योदयान्नक्षत्रतेजसो गौणत्वं । एवं यदा रजसा सत्त्वतमसी, तमसा सत्त्वरजसी गौणे तदा तद्विमर्दो भवति । तेन विमर्देन तस्य चतुर्विधस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति ॥ टिका ४६ ॥


_________________________________________________________



तानाह

पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ॥ कारिका ४७ ॥

सुगमम् ॥ टिका ४७ ॥


_________________________________________________________



विपर्ययस्य च तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति पञ्च भेदाः । तेषां भेदान्तराण्याह

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ कारिका ४८ ॥

तमसस्तक़वदष्टविधा प्रकृतिः । तद्वस्तु मलयतीति तमः । तस्य परं अष्टासु प्रकृतिषु लयो भवति । तद्यथा प्रधानं बुद्धिरहङ्कारः पञ्चतन्मात्राणीत्येतेषु । तत्र लीनं आत्मानं मुक्तोऽहं इति मन्यते । स च तस्य विपर्ययः । एवं तमसोऽष्टधा भेदः । मोहस्य च अष्टविध एवेत्यर्थः । यत्तदणिमाद्यष्टविधं ऐश्वर्यं उक्तं तस्मिन्सक्ता ब्रह्मादयो देवता न मोक्षपदं इच्छन्ति । तस्यैश्वर्यस्य शुभकर्मणोपात्तस्य क्षये पुनः संसरन्ति । अयं अष्टविधो मोहस्यापि भेदः । महामोहस्य दशविधो भेदः । देवानां शब्दादयः पञ्चतन्मात्राख्या विषया अविशेषाः केवलानन्दरूपा निरुपाधिदुग्धवच्छान्तादिसञ्जातसुखादिविरहिता ये भवन्ति स्वर्गप्राप्तौ । एवं मनुष्याणां भौतिकशरीरतया सुखदुःखमोहसम्पन्नाः शान्तघोरमूढा भवन्तीत्येष दशविधो महामोहः । तदेतेषु दशसु ब्रह्मेन्द्रादयो देवा मनुष्याश्(प्.४७) च तिर्यग्योन्यासक्ताश्च दृश्यन्ते । तेन हि विषयेभ्यः परं अस्तीति मूढविज्ञानास्तदासक्त्या गुणपुरुषान्तरोपलब्धिरूपं नित्यनिरतिशयसुखाभिव्यक्तये ज्ञानावबोधं न कुर्वन्तीत्येष महामोहः । तेनामी ते मुक्तिं न भजन्ते । तामिस्रोऽष्टादशधेति । देवमनुष्याणां दश विषयाः प्रागभिहिता अविशेषसविशेषतया । अणिमाद्यैश्वर्यं चाष्टगुणं एवं अष्टादशधा भवति । तेभ्यः केनचिद्वैगुण्येनाप्राप्त्याभिहितस्य यः क्रोधः स तामिस्र इत्युच्यते । तथा अष्टादशधा चेत्यर्थः । अन्धतामिस्रोऽपि भवति तत्सङ्ख्य एव । तथा एवं अष्टादशधात्रापि । तेषु च मरणत्रासाद्दुःखं उत्पद्यते । ऐश्वर्ये विद्यमान ऐश्वर्यं परित्यज्य मृत्युना ह्रियमाणस्य गच्छामीति सङ्कल्पयतो यस्त्रासः सोऽन्धतामिस्र इत्युच्यते दश विषयानैश्वर्यं प्राप्यापि भोक्तुं न लभतेऽन्तरालेऽपि म्रियत इति यावत् । एवं अमी विपर्ययस्य तमःप्रभृतयः पञ्च भेदा विभिद्यमाना द्विषष्टिभेदाः सञ्जाताः । अत ऊर्ध्वं अशक्तेरष्टाविंशतिभेदान्वक्ष्यामः ॥ टिका ४८ ॥


_________________________________________________________



एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥ कारिका ४९ ॥

एकादशेन्द्रियवधाः आन्ध्यबाधिर्यघ्रानपाकजडत्वकुष्ठत्वमूकत्वकुणित्वपङ्गुत्वगुदावर्तक्लैब्योन्मादा इत्येकादशेन्द्रियवधाः । इन्द्रियाणां स्वविषयग्रहणासामर्थ्यं वध इव वधः । यथेह लोके कश्चिद्देवदत्तो यज्ञदत्तं आहूय अब्रवीत् भो दुःखितोऽस्मि किं करवाणीति । स तेनोक्तः साङ्ख्यज्ञानाधिगमं कुरुष्व दुःखान्तमोक्षं प्राप्स्यसीति । एवं उक्तोऽसावाह नाहं एतदभ्यासं कर्तुं अलं । बाधिर्यात्गुरुवचनं न शृणोमि, शुश्रूषायां असमर्थोऽस्मि । आन्ध्यकुणित्वपङ्गुत्वादिदोषाश्रयत्वात्कुतो मम ज्ञानाधिगम इति । एवं एवान्ध्यमूकत्वोन्मादाद इन्द्रियोपघाता विद्याग्रहणे असमर्था बोद्धव्याः । एवं एते एकादशेन्द्रियवधा अशक्तिरुच्यन्ते । किञ् च सह बुद्धिवधैरिति । बुद्धेर्वधा बुद्धिवधास्तैः सह । के ते बुद्धिवधाः? सप्तदशसङ्ख्याः । ते च सप्तदशापि नव तुष्टिभेदा अष्टौ सिद्धयः । तन्निरूपणप्रस्तावे व्याख्यास्यामः ॥ टिका ४९ ॥
(प्.४८)


_________________________________________________________


तत्र नवधा तुष्टिं आह

आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात्पञ्च नव च तुष्टयोऽभिहिताः ॥ कारिका ५० ॥

आत्मन्यधिकृत्य प्रवर्तन्ते ताश्चतस्रस्तुष्टयः । प्रकृतितुष्टिरुपादानतुष्टिः कालतुष्टिः भाग्यतुष्टिश्चेति । यथा कश्चित्प्रकृतिमात्रं वेत्ति, न तु जानीते सगुणागुणत्वनित्यानित्यत्वचेतनाचेतनत्वसर्वगतत्वधर्मानस्याः केवलं प्रकृत्यस्तित्वमात्रज्ञानेनाहं जानामीति तुष्टः प्रव्रजितस्तस्य नास्ति मोक्षः । एषा प्रकृतितुष्टिः । कश्चित्त्रिदण्डकुण्डिकाक्षमालाकृष्णाजिनोपादानमात्रेणैवाहं मुक्त इत्यभिमानी ब्रूते । तेन मम मोक्षो भावीति । एतावन्मात्रेण तुष्टो ज्ञानाधिगमे न प्रवर्तते । तस्यापि न मोक्ष इत्येषा उपादानतुष्टिः । कश्चिदेवं ब्रूते कालेन स्वयं मोक्षो भावी किं तत्त्वविज्ञानेनेति । ज्ञाने प्रवृत्त्यैव तुष्टः । तस्यापि न मोक्ष इति कालतुष्टिः । कश्चिदेव महाभाग्येनैव मुक्तो भवति । तस्माज्ज्ञानं असाधकं मुक्तेः स्यादिति तावता तुष्टः तस्य न मोक्ष एषा भाग्यतुष्टिः । एवं एता आत्मन्यधिकृत्य जायन्ते इत्याध्यात्मिक्यश्चतस्रस्तुष्टयः । बाह्यास्तु पञ्च तुष्टयः । पञ्चानां विषयाणां उपरमाद्भवन्ति, अर्जनरक्षणक्षयातृप्तिहिंसादोषान्भावयतः पञ्च । एवं उभयत्र नव तुष्टयः । तत्रार्जनं नाम विषयाणां तदर्थं कृषिपाशुपाल्यादिव्यवसायदुःखं अवधार्य तेभ्य एवोपरतस्तुष्टिं लभते । एषा पञ्चमी तुष्टिः । अर्जितानां अपि राजचौरादिभ्यो दुःखं विषयाणां रक्षणं कर्तुं तस्मान्न विषयैः कार्यं इत्युपरतस्तुष्टिं लभते, सा षष्ठी तुष्टिः । रक्षणेऽपि कृत उपभुज्यमानास्ते क्षीयन्त इति न तैः कार्यं इत्युपरतस्तुष्टिं लभते, एषा सप्तमी । तथार्जनक्षयादिप्रतीकारैरपि कृतैर्नास्तीतीन्द्रियाणां वैतृष्ण्यम्, तस्मान्न तैः कार्यं इत्युपरतस्याष्टमी तुष्टिः । प्रोक्तानां प्रतीकारे कृतेऽप्यर्जनादिप्रवृत्तेन हिंसां अन्तरेण भूतोपरोधं विनामी न प्राप्यन्ते तस्मान्न तैः कार्यं इत्युपरतः तुष्टिं लभते । एषा नवामी तुष्टिः । एवं एताः पञ्च बाह्यास्तुष्टयः । उभयं नव भवन्ति । (एवं एताभिस्तुष्टिभिर्ज्ञानं विना मोक्षोऽस्तीति केवलेन वैराग्येण तुष्टः ।) आसां नवानां अपि तुष्टीनां ग्रन्थान्तरे संज्ञान्तराणि । तद्यथा (प्.४९) अम्भः सलिलं ओघो वृष्टिः तारं सुतारं सुनेत्रं सुमरीचं उत्तमाम्भसिकं इति । आसां विपरीता अतुष्टयोऽनम्भ इत्याद्याः । एवं तुष्ट्यतुष्टयो व्याख्याताः ॥ टिका ५० ॥


_________________________________________________________


इदानीं सिद्धयो व्याख्यायन्ते

ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ कारिका ५१ ॥

तत्र ऊहो नाम यथा कश्चिच्चिन्तयति, किं परं याथात्म्यम्, किं निःश्रेयसम्, किं कृत्वा सुखं प्राप्यते । एवं अस्य चिन्तयतो ज्ञानं उत्पद्यते स्वतः शास्त्रतो गुरुतो वा । यत्प्रधानबुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतान्यन्यानि, अहं अन्य इति ततो मोक्षं गच्छति । एषा ऊहसिद्धिः प्रथमा । चौरसाधुतदनुगामिस्वामिपथिकसंयोगादिवत् । प्रकृतिपुरुषशिष्यगुरुक्रमज्ञानं । तद्यथा ग्रामं आच्छिद्य चौरा यान्ति । तत्सार्थमध्ये साधुरेको गच्छति । तदनुगामी च स्वामी । चतुर्थः पथिकस्तदभिज्ञः । पथिकचौरमध्ये साधुरपि चौरगुणास्पृष्टोऽपि तदनुगामिना चौरतया प्रतीतस्तादृग्गणनायां (प्रतीतः) तदभिज्ञेन पथिकेन स्वामी सम्बोधितो यदहं सर्वं जानामि, अमी चौरा अयं साधुरेव तत्सार्थानुवर्तीति । एवं चौरस्थानीयो बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतसमवायः, साधुस्थानीयश्च पुरुषः, तदनुगामिस्थानीयः शिष्यो, भेदेन बोध्याः । पथिकस्थानीयो गुरुः । तस्माज्ज्ञानं प्रतीकत्रयेणैवावगम्यते गुरुतः शास्त्रतः, स्वत इत्यूहसिद्धिः प्रथमोक्ता । शब्दो नाम यथा कस्यचित्पठतः (तं अस्य जनं) शब्दं श्रुत्वान्यत्प्रधानं अन्योऽहं इति तन्मार्गप्रवृत्तिप्रबुद्धो मोक्षं गच्छति । एवं एषा द्वितीया सिद्धिः शब्दत उत्पन्ना । कश्चिद्गुरूपासनया ततोऽधीत्यावगम्य सकलं ज्ञानं आप्नोति, तृतीयाध्ययनसिद्धिः साङ्ख्यज्ञानं अधीत्य सञ्जाता । एवं एतास्तिस्रः सिद्धयः । शेषा व्याख्यायन्ते । दुःखविघातत्रयं इति । यथा कश्चिदादावभिहिताध्यात्मिकादिदुःखत्रयेणाभिभूतोऽस्य प्रतीकारायोहं शब्दं अध्ययनं वा प्रतिपद्य ज्ञानं अधिगम्य मोक्षं यातीति दुःखविघाताय यत्रोहादित्रयं अधिकुरुते तदपि सिद्धित्रयं । एवं षट्सिद्धयः । कश्चिद्दुर्मेधा गुरोः सकाशान्नावधारयति । तत्केनचित्प्रत्युपकारानपेक्षेण सुहृदा तस्मात्संसारकूपादुज्जिहीर्षुणा तदनुकूलतया कृपावता सुगमवचोभिर्वैराग्यपूर्वकं गुणपुरुषान्तरोपलब्धिरूपं साङ्ख्यज्ञानं उपदिशता समुद्धृतं आलोक्याह, (प्.५०) भगवान्शास्त्रकारः सुहृत्प्राप्तिरिति । ते हि सुहृदस्तथोपदिशन्ति सुहृत्तया यथा पाषाणोऽप्यवबुध्यते । उक्तं च

"एषा आतुरचित्तानां मात्रास्पर्शेच्छया विभुः ।
भवसिन्धुप्लवो दृष्टो यदाचार्यानुवर्तनम्" ॥
(भागवतपुराण १ ।६ ।३५)

एषा सप्तमी सिद्धिः । कश्चिदावाहनसंवाहनभिक्षापात्रवस्त्रच्छत्रकमण्डलुप्रभृतिदानेन गुरूनाराध्य साङ्ख्यं अधिगम्य मोक्षं गच्छतीत्येषाष्टमी सिद्धिर्दानादिभिरुपायैर्निष्पन्ना । आसां अष्टानां पूर्ववन्नामान्तराणि । तारं सुतारं तारतारं प्रमोदं प्रमुदितं मोहनं रम्यकं सदाप्रमुदितं इति । विपरीता असिद्धयः । तद्यथा अतारं इत्याद्याः । ततश्च एकादशेन्द्रियवधाः, नवानां तुष्टीनां विपर्ययाः प्रकृत्युपादानकालभाग्याख्यानां पञ्चविषयोपरमतुष्टीनां च । अष्टानां सिद्धीनां विपर्यया अनूहादयः । सप्तदश वधा बुद्धेरेवं एकादश सप्तदश चाष्टाविंशतिभेदा अशक्तेरभिधीयन्ते । एवं विपर्ययाशक्तितुष्टिसिद्धीनां उद्देशः कृत इति वाक्यशेषः । सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः । या ऊहाद्याष्टधा सिद्धिस्तस्या पूर्वो विपर्ययाशक्तितुष्टिरूपोऽङ्कुशो नियामकः । त्रिविधस्त्रिप्रकार इत्यर्थः । यथाङ्कुशेन गृहीतो गजो वश्यो भवति । एवं विपर्ययाशक्तितुष्टिरूपं त्रिविधं प्रत्ययसर्गं हित्वा सिद्धिः संसेव्या, सिद्धेस्तत्त्वज्ञानं, तस्माच्च मोक्ष इति तात्पर्यम् ॥ टिका ५१ ॥


_________________________________________________________


अत्राह भगवता उक्तं पूर्वस्यां आर्यायां भावैरधिवासितं लिङ्गं संसरति । तत्र किं लिङ्गं पूर्वोत्पन्नं आहोस्वित्भावा इत्यत्रोच्यते लिङ्गं तावत्सूक्ष्मं तान्मात्रिकं शरीरं अनादिकालोत्पन्नं त्रयोदशविधेन करणेन संयुक्तं भावैरधिवासितं संसरति । करणानि बुद्ध्यहङ्कारमनोबुद्धिकर्माख्यानि त्रयोदश । एवं त्रयोदशविधकरणं आश्रित्य सूक्ष्मशरीरं तान्मात्रिकं संसरति । शरीरं करणानि चैतल्लिङ्गं इत्यत्रोच्यते । भावैरधिवासितं इति भावा धर्मज्ञानवैराग्यैश्वर्याणि चत्वारः सात्त्विकाः । विपरीतास्तामसाः । एवं अष्टौ भावाः । तत्र सन्देहः । किं लिङ्गं पूर्वोत्पन्नम्, उतस्विद्भावा इति । उच्यते


न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
(प्.५१)
लिङ्गाख्यो भावाख्यस्तस्माद्भवति द्विधा सर्गः ॥ कारिका ५२ ॥

लिङ्गेन विना भावो न भवति भावैश्च विना लिङ्गं न भवति । यथाग्निना विना नोष्णत्वं उष्णत्वं विना नाग्निः । एवं एतयोर्लिङ्गभावयोर्युगपदुत्पत्तिः, गोविषाणवत्, कुमारीस्तनवत् । यत्र लिङ्गं तत्र भावा यत्र भावास्तत्र लिङ्गं । तस्मादुच्यते लिङ्गाख्यो भावाख्यः । लिङ्गेन आख्यायते स लिङ्गाख्यः । भावैराख्यायत इति भावाख्यः । तस्माद्द्विधा सर्गो भवति जायते ॥ टिका ५२ ॥


_________________________________________________________



अत्राह किं द्विविध एव सर्गः किं तस्मादन्यस्तृतीयोऽप्यस्ति इति । अत्रोच्यते

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥ कारिका ५३ ॥

अष्टविकल्पो दैव इति । तद्यथा ब्राह्मं प्राजापत्यं ऐन्द्रं पैत्रं गान्धर्वं याक्षं राक्षसं पैशाचं इत्येवं अष्टविधो देवसर्गः । तैर्यग्योनश्च पञ्चधा भवति । अत्र तुल्यलिङ्गत्वाद्भवति पशुपक्षिमृगसरीसृपस्थावरान्तश्चेति । मानुष्य एकविधस्तुल्यलिङ्गत्वाद्ब्राह्मणाअदिचाण्डालान्तः । समासतः सङ्क्षेपेण त्रिविधोऽयं भूतमयः सर्गः । एवं चतुर्दशविधः ॥ टिका ५३ ॥


_________________________________________________________



अत्राह एतेषु त्रिषु स्थानेषु कतरो गुण उत्कटत्वेन वर्तते

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ कारिका ५४ ॥

ऊर्ध्वं सत्त्वविशाल इति । ब्रह्मादिपिशाचान्तो योऽष्टविधः सर्गः । असौ सत्त्वबहुलः । यस्मात्तेषु सत्त्वं उत्कटत्वेन वर्तते । तत्रापि रजस्तमसी स्तः किं तु सत्त्वस्योद्रिक्तता । तस्मात्सुखप्राया देवाः । तमोविशालश्च मूलतः । पश्वादिषु तमस उद्रेकात्पश्वादिस्थावरपर्यन्तो यस्मात्तेषु तम उत्कटत्वेन वर्तते तत्रापि गौणतया सत्त्वरजसी स्तः । तस्मात्ते तमोबहुलाः । मध्ये रजोविशालः । तत्रापि सत्त्वतमसी स्तः । किं तु रज उत्कटत्वेन वर्तते । तस्मात्ते दुःखप्राया मनुष्याः । ब्रह्मादिस्तम्बपर्यन्तः । चतुर्विध एष स्वेदजाण्डजादिना भूतसर्गः ॥ टिका ५४ ॥
(प्.५२)


_________________________________________________________



अत्राह भूतसर्ग उत्पन्नो भावसर्गः सम्पन्नो लिङ्गसर्गः सम्पन्न इति यत्र सर्गाः प्राधानिका इति प्रधानकार्यं समाप्तं इति । उत्पन्नास्त्रयो लोकाः प्रधानं चोपरतं उत्पाद्य लोकानिति तेषु देवमनुष्यतिर्यग्योनिगतेषु दुःखं कोऽनुभवति । किं चतुर्विंशतितमं प्रधानम्, आहोस्वित्महदादित्रयोविंशतिकम्, उतस्वित्पुरुष इति? अत्रोच्यते

अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन ॥ कारिका ५५ ॥

अत्र त्रिषु लोकेष्विति । देवलोके, मनुष्यलोके, तिर्यग्योनौ च जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । तत्र जराकृतं वलीपलितैरभिभूतः कासश्वासैः परिगृहीतो यष्टिविष्टम्भगामी पुत्रस्नुषाद्यभिभूतो यद्दुःखं अनुभवति तज्जराकृतं । मरणकृतं इति । अष्टविधं ऐश्वर्यं अस्ति यत्प्रागभिहितं अणिमादि, दश विषयाः सन्ति । देवानां पञ्चाविशेषाः केवलसुखरूपाः । मनुष्याणां सविशेषास्त एव शब्दादयः सुखदुःखमोहसम्पन्नाः । तन्मरणपातावस्थायां यद्दुःखं उत्पद्यते तन्मरणकृतं इत्येव । एवं एतैर्दुःखैरन्तकाले च जनितदुःखानि सर्वाणि प्राप्नोति चेतनः पुरुष एव प्रधानादीनां अचेतनत्वात् । तस्मात्तस्यैव विज्ञानितया दुःखं न तु जडानां प्रधानादीनां । तर्हि कियन्तं कालं पुरुषो दुःखं आप्नोति । अत्रोच्यते लिङ्गस्याविनिवृत्तेः । यावन्महदादिलिङ्गं न निवर्तते तावत्कालं पुरुषो दुःखभोक्ता । तस्माद्दुःखं समासेन सङ्क्षेपेण प्राप्नोति चेतनः पुरुषः । यदा तु तत्प्रतिनिवर्तते महदादिलिङ्गं ज्ञानोत्पत्त्या ततो मोक्षं प्राप्नोति । मोक्षं गतस्य दुःखं नास्ति । ज्ञानेन हि लिङ्गं निवर्तते । यदा प्रत्येकं प्रधानमहदहन्तन्मात्रेन्द्रियभूतान्यन्यानि अहं अन्य इति ज्ञानं तदा लिङ्गाभावः ॥ टिका ५५ ॥


_________________________________________________________



प्रकृतेः किं निमित्तं आरभ्य इत्यत्रोच्यते

इत्येष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥ कारिका ५६ ॥
(प्.५३)

इत्येष प्रकृतिकृत इति । एवमादिर्यः पूर्वं उपवर्णितो लिङ्गसर्गो महदादिभूतपर्यन्तः, एष प्रकृतिकृत इति । अत्राह एवं लिङ्गसर्गः प्रधानेन किमर्थं कृत इति? अत्रोच्यते प्रतिपुरुषविमोक्षार्थं । पुरुषं पुरुषं प्रति विमोक्षस्तदर्थं प्रतिपुरुषविमोक्षार्थं । देवलोकगतानाम्, मनुष्यलोकगतानाम्, तिर्यग्योनिगतानां च मोक्षार्थं इत्यर्थः । स्वार्थ इव परार्थ आरम्भः । स्वकीयोऽर्थः स्वार्थः । इवोपमायां । यथा कश्चित्स्वार्थं इव मित्रार्थं करोति तथा स्वार्थं इव प्रधानं पुरुषार्थं करोति । स चार्थो द्विविधः । शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तश्च । त्रिषु लोकेषु शब्दादिविषयैः पुरुषं योजयति । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षं कुरुते ॥ टिका ५६ ॥

_________________________________________________________



अत्राह उक्तं भगवता प्रधानं स्वार्थं इव परार्थं आरभते । अथ च त्वया प्रधानं अचेतनं उक्तं तत्कथं प्रवर्तते । अचेतनानां अपि प्रवृत्तिर्दृष्टा, निवृत्तिश्च ।


वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ कारिका ५७ ॥

यथा तृणोदकं गवा भक्षितं पीतं च क्षीरभावेन परिणमति, वत्सवृद्धिं करोति, पुष्टे वत्से निवर्तते । एवं पुरुषविमोक्षनिमित्तं प्रधानस्याज्ञस्य प्रवृत्तिः ॥ टिका ५७ ॥


_________________________________________________________



औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ कारिका ५८ ॥

यथा लोक इष्टविषयौत्सुक्ये सति तस्य निवृत्त्यर्थं क्रियासु गमनागमनासु प्रवर्तते कृतकार्यो निवर्तते । तथाव्यक्तं पुरुषस्य विमोक्षार्थं शब्दादिभोगलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं द्विविधं पुरुषार्थं कृत्वा निवर्तते ॥ टिका ५८ ॥


_________________________________________________________


किञ् चान्यत्

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ कारिका ५९ ॥

यथा नर्तकी शृङ्गारादिरसैर्हावभावैश्च निबद्धगीतवादित्रनृत्यानि रङ्गस्य दर्शयित्वा कृतकार्या नृत्यान्निवर्तते । एवं प्रकृतिर्महदहङ्कारतन्मात्रेन्द्रियभूतभावेन(प्.५४) देवमानुषतिर्यग्रूपासु योनिषु सुखदुःखमोहाकृतिः शान्तघोरमूढविषया सती आत्मानं पुरुषस्य प्रकाश्य निवर्तते । तस्यां च निवृत्तायां असौ केवलः पुरुषो दुःखत्रयं नानुभवति । यथा जलवाहकस्य घटाभावे तदाधेयस्योदकस्याभावः । तथा दुःखाभावः । ततोऽसौ मोक्षं गच्छति ॥ टिका ५९ ॥


_________________________________________________________



अत्राह यथा नर्तकी नृत्यादिभिरुपायैरात्मानं प्रकाश्य रङ्गाद्विनिवर्तते, एवं प्रकृतिः पुरुषस्य कैरुपायैरात्मानं प्रकाश्य विनिवर्तते? अत्रोच्यते

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थं अपार्थकं चरति ॥ कारिका ६० ॥

नानाविधैरुपायैः । शब्दस्पर्शादिभिरुपकर्तुं शीलं अस्याः सा तथोक्ता । अनुपकारिणः पुंसः । निष्क्रियत्वादिति यावत् । तस्योपकारिणी प्रकृतिस्तस्योपकृत्याहं अन्या त्वं अन्य इति निवर्तते (प्रकृतिः) । किं चान्यत् गुणवती । सा सत्त्वरजस्तमोमयी । अगुणस्य सतः । पुंसः निष्क्रियोदासीनामूर्तादिलक्षणवत्त्वात् । एवं अस्य पुंसोऽगुणस्यापि सतः (नित्यस्य) सेयं गुणवती अर्थं अपार्थकं चरति । करोति । यथा कश्चिदनुरक्तो मित्रसुहृत्त्वं अवलम्ब्य मित्रार्थं अनुक्तं अपि प्रत्युपकारं अनपेक्ष्य कुरुते । एवं प्रधानं पुरुषस्य द्विविधं अपि विषयोपलब्धिमोक्षात्मकं अर्थं कुरुते । पुमान्पुनः प्रधानस्य किं अपि न प्रत्युपकरोति । तत्प्रधानपुंसोः शिखिपिच्छवदेकपक्षचित्रन्यायः ॥ टिका ६० ॥


_________________________________________________________



निवृत्ता किं करोत्येतदाह

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनं उपैति पुरुषस्य ॥ कारिका ६१ ॥

प्रकृतिरपि प्रधानं अपि कुरुते । यथेह स्नुषा व्रीडया स्वगृहान्तः प्रविशति अतो ब्रवीति इयं विशिष्टतरेति । एवं इयं प्रकृतिः सुकुमारतरा । तस्मात्प्रकृतेः सुकुमारतरं नान्यदस्तीति । एवं पुरुषस्य परमात्मनोऽपि मतिरुत्पन्ना । नास्तीति मे मतिर्भवति । ममेति पुरुष आत्मानं ब्रवीति । तत्र सुकुमारतरत्वं वर्णयति ईश्वरः कारणं इति केचिदाचार्या ब्रवते । उक्तं च

"अज्ञो जन्तुरनीशोऽयं आत्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकं एव वा" ॥
(महाभारत ३ ।३१ ।२७)(प्.५५)

वेदवादिनः पुनरित्थं कारणं आहुः । "पुरुष एवेदं सर्वम्"(श्वेताश्वतरोपनिषद्३ ।१५) इत्यतः पुरुषं कारणं आहुः । अपरे स्वभावं आहुः । स्वभावः कारणं इति । तथा हि

"येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स नो वृत्तिं विधास्यति" ॥
(हितोपदेश १ ।१८३)

अत्र साङ्ख्या वदन्ति । ईश्वरः कारणं न भवति । कस्मात्, निर्गुणत्वात् । इमाः सगुणाः प्रजाः । सत्त्वरजस्तमांसि त्रयो गुणाः, ते च प्रजासु सन्ति । तांश्च गुणान्दृष्ट्वा साधयामः । प्रकृतेरिमाः समुत्पन्नाः प्रजाः । यदीश्वरः कारणं स्यात्ततो निर्गुणादीश्वरान्निर्गुणा एव प्रजाः स्युः । न चैवं । तस्मादीश्वरः कारणं न भवति । एवं पुरुषोऽपि द्रष्टव्यः । स्वभावो नाम न कश्चित्पदार्थोऽस्ति । यतः प्रजानां उत्पत्तिसङ्गतिः स्यात् । तस्माद्यो ब्रूते स्वभावः कारणं इति तन्मिथ्या । केचित्कालं कारणतया वर्णयन्ति

"कालः सृजति भूतानि कालः संहरते प्रजाः ।
(महाभारत ३ ।१३ ।७० ।५७)
कालः सुप्तेषु जागर्ति तस्मात्कालस्तु कारणम्" ॥

तदपि साङ्ख्यो निराकुरुते । कालो नाम न कश्चित्पदार्थोऽस्ति । व्यक्तं अव्यक्तं पुरुष इति त्रय एव पदार्थाः । तत्र कालोऽन्तर्भूतः । एवं प्रधानं हित्वा नास्त्यन्यत्कारणं । तत्प्रधानावगमं प्रति यदा पुरुषस्य सम्यग्ज्ञानं उत्पद्यते तदा तेन ज्ञानेन दृष्टा प्रकृतिः पुरुषसङ्गान्निवर्तते । स्वैरिणीव पुरुषेणोपलक्षिता । अये इयं असाध्वी मां मोहयति, तस्मान्न ममानया कार्यं इतिवत् । तस्यां च निवृत्तायां मोक्षं गच्छति । एवं ईश्वरादीनि अकारणानि । सुकुमारतरं इत्येतद्वाक्यशेषः कृतः । यस्मात्सुकुमारतरं प्रधानं तस्मादुच्यते प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । इति मे पुरुषस्य । अत्राह सा दृष्टा पुरुषेण कथं निवर्तते प्रकृतिः । अत्रोच्यते या दृष्टास्मीति पुनर्न दर्शनं उपैति पुरुषस्य । यथा काचित्कुलस्त्री साध्वी स्वगृहद्वारि स्थिता पुरुषेण सहसैवागतेन दृष्टा सहसैवं व्रीडमाना त्वरितं गृहं प्रविष्टा सा एवं मत्वा दृष्टाहं अनेनेति न पुनर्दर्शनं उपैति पुरुषस्य । एवं प्रकृतिः परमात्मना पुरुषेण ज्ञानचक्षुषा दृष्टा सव्रीडा कुलस्त्रीवन्न पुनर्दर्शनं उपैति पुरुषस्य । तस्यां च निवृत्तायां पुरुषो मोक्षं गच्छति ॥ टिका ६१ ॥
(प्.५६)


_________________________________________________________



अत्राह लोके शिष्टा वदन्ति पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्रोच्यते

तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ कारिका ६२ ॥

पुरुषो न बध्यते सर्वगतत्वात्, अविकारत्वात्, निष्क्रियत्वात्, अकर्तृत्वात् । यस्मान्न बध्यते तस्मान्न मुच्यते । मुक्त एव सः । अबद्धः कुतो मुच्यते । कस्याभुक्तेन विसूची भवति । न संसरति सर्वगतत्वात् । सर्वगतस्य बन्धमोक्षौ कुतः । अनधिगतप्रापणार्थं संसरणं इत्युपदिश्यते । तेन च सुनिपुणं सर्वं प्राप्तं । पुरुषं न विदन्ति ये त एवं वदन्ति । पुरुषो बद्धः, पुरुषो मुक्तः, पुरुषः संसरति । अत्राह यदि पुंसो बन्धमोक्षसंसरणानि न स्युः तर्हि कस्य भवन्ति । तदुच्यते संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः । प्रकृतिरात्मानं बध्नाति, मोचयति, संसरति च । यत्तत्सर्गादौ सूक्ष्मं शरीरं तान्मात्रिकं प्रागुक्तं त्रयोदशविधेन करणेन संयुक्तं त्रिविधेन बन्धेन बद्धं संसरति । स च बन्धस्त्रिविधः पूर्वं आख्यातः । तदेव सूक्ष्मशरीरं उत्पन्ने ज्ञाने त्रिधा बन्धान्मुच्यते । तस्मान्मुच्यते बध्यते संसरति नानाश्रया प्रकृतिः । नानाश्रया देवमनुष्यतिर्यक्शरीरभूतेत्यर्थः । एवं यत्प्रधानं तत्सूक्ष्मं शरीरं तत्प्रधानं प्रकृतिरित्यनर्थान्तरं । तत्र यः पुंसो बन्धमोक्षसंसरणानि ब्रूते स मूढः ॥ टिका ६२ ॥


_________________________________________________________



अत्राह सा प्रकृतिः कैर्गुणैरात्मानं बन्धयति, कैर्वा मोचयतीति? अत्रोच्यते

रूपैः सप्तभिरेवं बध्नात्यात्मानं आत्मना प्रकृतिः ।
सैव च पुरुषस्यार्थं प्रति विमोचयत्येकरूपेण ॥ कारिका ६३ ॥

सप्तभी रूपैरियं एवं प्रकृतिर्धर्मादिभिर्विना ज्ञानं आत्मनात्मानं बध्नाति । सैव च प्रकृतिः गुणपुरुषान्तरोपलब्धिरूपं प्रति, एकरूपेण ज्ञानेनात्मानं विमोचयति ॥ टिका ६३ ॥
(प्.५७)


_________________________________________________________



कथं तज्ज्ञानं उत्पद्यते

एवं तत्त्वाभ्यासान्नास्मि न मे नाहं इत्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलं उत्पद्यते ज्ञानम् ॥ कारिका ६४ ॥

एवं इति । यथा, एतानि पञ्चविंशतितत्त्वानि पुरुषाद्यानि भूतपर्यन्तानि तेषां अभ्यासस्तत्त्वाभ्यासः । अभ्यासेनैव तत्त्वदर्शनं । तस्मादभ्यासात्पुरुषस्य बुद्धिरुत्पद्यते । नास्मि तत्त्वानि, न मे तत्त्वानि, नाहं तत्त्वानाम्, किं तु प्राधानिकान्येतानि । तस्माज्ज्ञानं उत्पद्यत एवमादि । अपरिशेषं निरवशेषं इत्यर्थः । किं चान्यत्(ज्ञानं यस्मादाह) अविपर्ययात् । विपर्ययः संशयस्तद्विपरीतोऽविपर्ययस्तस्मादविपर्ययादसंशयाद्यथाभूतार्थदर्शनाद्विशुद्धं निरवद्यं अव्यामिश्रं केवलं ज्ञानं उत्पद्यते प्रादुर्भवति । किं ज्ञानम्? गुणपुरुषान्तरोपलब्धिरूपं इत्यर्थः ॥ टिका ६४ ॥


_________________________________________________________



अत्राह तेन ज्ञानेन पुरुषः किं करोति । अत्रोच्यते

तेन निवृत्तप्रसवां अर्थवशात्सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥ कारिका ६५ ॥

यथा कश्चित्प्रेक्षको रङ्गस्थितो गीतवादित्रनृत्यादिभिर्वर्तमानां नर्तकीं स्वस्थो निर्विकल्पः पश्यति । एवं पुरुष आत्मकृतेन ज्ञानेन तासु तास्ववस्थासु वर्तमानां प्रकृतिं पश्यति इयं सा प्रकृतिर्या सर्वपुराणं आत्मानं बध्नाति । प्रेक्षकवत्प्रेक्षकेण तुल्यः स्वस्थः स्वस्मिन्भावे स्थितः । किंभूतां प्रकृतिम्? निवृत्तप्रसवां । निवृत्तबुद्ध्यहङ्कारकार्यां । अर्थवशात्सप्तरूपविनिवृत्तां । निर्वर्त्तितोभयपुरुषप्रयोजनवशाद्यैः सप्तभी रूपैर्धर्मादिभिरात्मानं बध्नाति तेभ्यो रूपेभ्यो विनिवृत्तां । यावज्ज्ञानचक्षुषा दृष्टा प्रकृतिः पुरुषेण तथा च पुमान्दृष्टः ॥ टिका ६५ ॥


_________________________________________________________


अत्राह ज्ञानचक्षुषा दृष्ट्वा प्रकृतिं पुरुषः किं करोति? अत्रोच्यते

दृष्टा मयेत्युपेक्षक एको दृष्टाहं इत्युपरतान्या ।
(प्.५८)
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ कारिका ६६ ॥

यथेमां रङ्गगतां नर्तकीं सर्वास्ववस्थासु वर्तमानां दृष्ट्वा विरमति रङ्गात्प्रेक्षकः दृष्टा मयेत्युपेक्षक एकः केवलः शुद्धः पुरुषः । तथा प्रकृतिरपि "अनेनाहं दृष्टा" इति निवृत्ता । एका त्रैलोक्यस्यापि प्रधानकारणभूता न द्वितीया प्रकृतिरस्ति । नर्तक्यपि "अहं अनेन दृष्टा" इत्युपरमते नृत्यात्, एवं पुरुषोऽपि "दृष्टा मयेयं ज्ञानचक्षुषा प्रकृतिः" इति प्रेक्षकवदुपरमते मोक्षं गच्छतीत्यर्थः । तथा प्रकृतिरपि दृष्टाहं अनेनेति स्वव्यापारादुपरमत्येव । अत्राह पुंप्रकृत्योः सर्वगतत्वात्सर्वनिषेधो न शक्यते वक्तुं । तदस्य संसारसर्गस्य विनिवृत्तिरेव । तत्कथं इदं साधनं समीचीनं इति । अत्रोच्यते सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्येति । यद्यपि प्रधानपुरुषयोः सर्वगतयोः संयोगो भवत्येव । तस्मिंश्च सति सर्गसम्भवस्तथापि नासौ सर्गः स्यात्प्रयोजनाभावात् । यस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः । शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तश्च । ब्रह्मादिस्थावरान्तेषु पुरुषः शब्दादिभिर्विषयैर्योजयितव्यः । अन्ते च गुणपुरुषान्तरोपलब्ध्या मोक्षयितव्यः । एवं पुरुषदर्शनार्थं सम्प्रयोगः कृतः । एवं प्रकृतिपुरुषयोस्तयोः शरीरोत्पत्तिर्नास्ति पुनः ऋणिकधारिणकवद्यथेह लोके ऋणिकधारिणकौ उत्तमाधमर्णौ देवदत्तयज्ञदत्तौ योऽस्मिनृणं धारयति स उत्तमर्णस्तेनाधमर्णाक्तः "ऋणं मे देही" इति । ततस्तेन तद्दत्तं । ततस्तौ कृतप्रयोजनौ परस्परं अर्थेन सन्त्यक्तावथ तयोर्भूयः संयोगो भवति । तथापि नार्थकृत्यं प्रयोजनाभावात् । यथा वा वृद्धसंयोगादपत्यं न भवति, प्रयोजनाभावात् । तथा प्रधानपुरुषयोः कृतप्रयोजनयोः प्रयोजनं नास्तीति सिद्धम् ॥ टिका ६६ ॥


_________________________________________________________



किञ् चान्यत्, यदि पुरुषस्योत्पन्ने ज्ञाने मोक्षस्तर्हि मम कस्मान्न भवति । अत उच्यते

सम्यग्ज्ञानाधिगमाद्धर्मादीनां अकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ॥ कारिका ६७ ॥

यदा पुरुषेण पञ्चविंशतितत्त्वज्ञानं अधिगतं भवति तदा धर्मादीन्यकारणानि प्राप्तानि पुनर्जन्मसमर्थानि न भवन्ति । को दृष्टान्तः यथेह (प्.८९) लोके बीजान्यग्निदग्धानि न प्ररोहसमर्थानि भवन्ति । धर्मो येषां आदिस्तानि धर्मादीनि तेषां अकारणानां प्राप्तिरकारणप्राप्तिः । तथा सत्यां पुनर्जन्म न भवति । अत्राह यदि सम्यग्ज्ञानान्मोक्षो भवति तत्राचार्यस्योपदेष्टुः सम्यग्ज्ञानं उत्पन्नं किमर्थं मोक्षं न गतोऽस्ति, अथ वा त्वत्प्रसादात्तज्ज्ञानं ममापि सञ्जातं किं अहं मोक्षं न गच्छामि । अत्रोच्यते तिष्ठति संस्कारवशात् । संस्कारो नाम धर्माधर्मौ निमित्तं कृत्वा शरीरोत्पत्तिर्भवति तिर्यङ्मनुष्यदेवादिषु । तस्य संस्कारेण ग्रहणं । स च संस्कारः फलं अदत्त्वा क्षयं न गच्छति, उत्पन्नज्ञानस्यापि तस्मादिदं शरीरं विनाशं यास्यति । तन्निमित्ताभावादिदं शरीरं पतिष्यति । यथा च विद्वान्मोक्षं यास्यति । तस्मात्हेतोरुत्पन्नज्ञानस्यापि धर्माधर्मवशात्तिष्ठति शरीरं । को दृष्टान्तः? अत्रोच्यते चक्रभ्रमवद्धृतशरीरः । यथा कुलालश्चक्रं भ्रमयति घटं करिष्यामीति । स कुलालो घटं कृत्वा यथा स्वस्थो भवति, अवतिष्ठते । यस्मिंश्चावतिष्ठमाने चक्रं भ्रमत्येव । संस्कारवशात् कर्मवशादित्यर्थः । एवं एव पूर्वकृतयोर्धर्माधर्मयोर्बलवत्त्वाद्दुर्बलत्वाज्ज्ञानस्य, उत्पन्नेऽपि ज्ञाने विद्वांस्तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ॥ टिका ६७ ॥


_________________________________________________________


अत्राह उत्पन्नज्ञानः फलनिरपेक्षं कर्म निर्बीजं कुर्वन्न देहं आरभते, आरब्धफलं यावत्जन्मदायि "नाभुक्तं क्षीयते कर्म" "अवश्यं एव भोक्तव्यं कृतम्" इति क्षपयन्, अनारब्धफलेषु "यथैधांसि समिद्धोऽग्निः(भगवद्गीता ४ ।३७)" इति परिहारेण भस्मीकरणं । एवं कर्मणां ध्वंसे, उत्पन्ने ज्ञानेऽपि कदा विद्वान्मोक्षं गच्छतीति? अत्रोच्यते

प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकं आत्यन्तिकं उभयं कैवल्यं आप्नोति ॥ कारिका ६८ ॥

तदेवं सति शरीरभेदे देहनाशे प्राप्त आयात इत्यर्थः । चरितार्थत्वात् । स चार्थो द्विविधः (शाब्दात्मिकः) पूर्वं उक्तः । तस्यार्थस्य चरितार्थत्वात्कृत्वेत्यर्थः । प्रधानविनिवृत्तौ । यदा पूर्वकृतयोर्धर्माधर्मयोः क्षयो भवति तदा शरीरं भिद्यते । तस्मिंश्च शरीरे भिन्ने पूर्वोक्तेन ज्ञानेन शरीरं प्रधानाख्यं कारणं अविशेषमयं तान्मात्रिकं सर्गादावुत्पन्नं तन्निवर्तते । इह शरीरे यत्पार्थिवं तत्प्र्थिवीं प्रविशति । एवं अन्यदन्येषु प्रविशति । एवं स्थूलं शरीरं पञ्चधा भिद्यते । प्रधानं च कृतप्रयोजनं भूयोऽन्यत्(प्.६०) शरीरं द्वितीयं नारभते विदुषः । एवं अयं विद्वान्तस्मिन्शरीरे भिन्ने ऐकान्तिकं आत्यन्तिकं उभयं कैवल्यं आप्नोति । ऐकान्तिकं अवश्यम्भावित्वादात्यन्तिकं अपुनरावृत्तित्वात्सर्वथेत्यर्थः । न त्वौषधादिवत्कादाचित्करोगनिवृत्तिवत् । न च निवृत्ते रोगे पुनः सम्भवेदित्युभयोदाहरणं ऐकान्तिकात्यन्तिकयोः । इत्थं एकान्तात्यन्तस्तापत्रयस्याभावादुपरमादनुत्पत्तेः कैवल्यं मोक्ष इत्यर्थः । तं आप्नोति ॥ टिका ६८ ॥


_________________________________________________________



अत्राह किंप्रयोजनं इदं ज्ञानं उच्यते । अत्रोच्यते

पुरुषार्थज्ञानं इदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ कारिका ६९ ॥

यश्चासौ पुरुषार्थो मोक्षस्तदर्थं पुरुषविमोक्षार्थं ज्ञानं इदं इति । यदेतत्पूर्ववर्णितं ज्ञानं एतद्गुह्यं दुर्विज्ञेयं इत्यर्थः । परमर्षिणा कपिलेन समाख्यातं कथितं इत्यर्थः । अत्राह अस्मिन्ज्ञाने केऽर्थाश्चिन्त्यन्ते । अत्रोच्यते स्थित्युत्पत्तिप्रलयाः तत्र देवादीनां अष्टौ स्थानानि भवन्ति । मानुष्यं चैकविधम्, भूलोके पञ्चविधं तैर्यग्योनं । एषु स्थानेषु ब्रह्मादीनि तिर्यग्योनिपर्यन्तानि तिष्ठन्ति । एषा स्थितिः । उत्पत्तिं प्रादुर्भावं प्रधानान्महदहङ्कारतन्मात्रेन्द्रियमहाभूतानीत्युत्पत्तिः । एवं भूतोत्पत्तिर्भावोत्पत्तिश्च व्याख्याता । लयं वक्ष्यामः भूतानि तन्मात्रेषु लीयन्ते, तानीन्द्रियेषु, इन्द्रियाणि लीयन्ते चाहङ्कारे, स बुद्धौ, सा प्रधाने लयं गच्छति । प्रधानं तु क्वचिन्न लीयतेऽविकृतत्वात् । एवं प्रलयः ॥ टिका ६९ ॥


_________________________________________________________



अत्राह यदेतद्भगवता व्याख्यातं पञ्चविंशतितत्त्वज्ञानम्, तस्य कुत आगम इति? अत्रोच्यते

एतत्पवित्र्यं अग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् ॥ कारिका ७० ॥
(प्.६१)

एतत्विज्ञानं अधिकुरुते । एतत्पवित्रं, कथं पवित्रम्? । यस्मान्नरकप्रेततिर्यग्योनिषु पतनात्त्रायते तस्मात्पवित्रं । अग्र्यं श्रैष्ठ्यात् । वेदपुराणभारतं अन्वादिभ्योऽपि धर्मशास्त्रेभ्य एतत्पञ्चविंशतितत्त्वज्ञानं उत्तमं । कस्मात्? ऐकान्तिकत्वात्, आत्यन्तिकत्वाच्च । अतो दुःखाभावश्च । मुनिर्भगवान्कपिलः आसुरिसगोत्राय ब्राह्मणाय वर्षसहस्रयाजिनेऽधिकारितां अवगम्य (अस्मै) प्रददौ । तदनुकम्पया तद्विमोक्षार्थं । अन्धे तमस्यज्ञानेऽयं तपस्वी वर्तत इत्युत्पन्नयानुकम्पया । मुनिर्मननात् । भगवान्भूतानां गतिं आगतिं च विदन्ननति चलतीति भगवान्कपिलः । प्रत्युपकारानपेक्षसर्वोपकारी सुहृदित्यर्थं अवलम्ब्योवाच । तदेव ज्ञानं भूय आसुरिसगोत्रोऽनुकम्पया पञ्चशिखाय प्रोवाच । पञ्चशिखेन तेन बहुधाकृतं तन्त्रं । बहूनां शिष्याणां प्रदत्तम् ॥ टिका ७० ॥

_________________________________________________________


तन्त्रं इति व्याख्यायते । "तम एव खल्विदं अग्र आसीत्"(मैत्र्युपनिषद्५ ।२) । तस्मिंस्तमसि क्षेत्रज्ञोऽभिवर्तते प्रथमं । तम इति उच्यते प्रकृतिः, पुरुषः क्षेत्रज्ञः । षष्टिपदार्था यस्मिन्शास्त्रे तन्त्र्यन्ते तत्षष्टितन्त्रं । षष्टितन्त्रं ज्ञात्वा कुशलः किलेश्वरकृष्णनामा । तेन ईश्वरकृष्णेन विस्तरग्रन्थग्रहणभीरुणा हितार्थं षष्टितन्त्रं अतिसङ्क्षिप्तं । तदाह


शिष्यपरम्परयागतं ईश्वरकृष्णेन चैतदार्याभिः ।
सङ्क्षिप्तं आर्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ कारिका ७१ ॥

शिष्यपरम्परयागतं इति । कपिलादासुरिणा प्राप्तं इदं ज्ञानं । ततः पञ्चशिखेन, तस्माद्भार्गवोलूकवाल्मीकिहारीतदेवलप्रभृतीनागतं । ततस्तेभ्य ईश्वरकृष्णेन प्राप्तं । तदेव षष्टितन्त्रं आर्याभिः सङ्क्षिप्तं आर्यमतिना विस्तीर्णमतिना सम्यग्विज्ञाय सिद्धान्तं कार्यकारणसिद्धस्य शरीरस्यान्तोऽपुनर्भावो मोक्षस्तस्य तादात्म्यं इत्यर्थः । ततिसिद्धस्य शरीरस्य सूक्ष्मस्य तान्मात्रिकस्य सर्गादिभवस्यान्तो मूर्तिनाश इति वा । एष षष्टितन्त्र इति तात्पर्यम् ॥ टिका ७१ ॥


_________________________________________________________



सप्तत्यां किल योऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चेति ॥ कारिका ७२ ॥
(प्.६२)

ये षष्टितन्त्रे पदार्था अभिहितास्ते सप्तत्यां व्याख्याताः कथिताः । षष्टित्भेदाः प्राग्व्याख्याताः । "भेदस्तमसोऽष्टविध" इति आर्यायां "पञ्च विपर्ययभेदा" इत्यत्र चाभिहिता इत्येते पञ्चाशत्प्रत्ययाः इमे चान्ये दश मौलिकाः । तथा हि

अस्तित्वं एकत्वं अथार्थवत्त्वं पारार्थ्यं अन्यत्वं अथो निवृत्तिः ।
योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥

तत्र "भेदानां परिमाणात्" इत्येतैः पञ्चभिर्हेतुभिः प्रधानास्तित्वं एकत्वं अर्थवत्त्वं च सिद्धं । "सङ्घातपरार्थत्वात्" इति परार्थत्वं उक्तं । "जन्ममरणकरणानाम्" इति पुरुषबहुत्वं सिद्धं । "चक्रभ्रमवद्धृतशरीर" इति स्थितिः सिद्धा, एते दश, "पञ्च विपर्ययाः" अष्टाविंशतिधा अशक्तिः, नवधा तुष्टिः अष्टधा सिद्धिरिति पञ्चाशत् । उभयं मिलित्वा षष्टिपदार्थाः षष्टितन्त्रे । तन्त्र्यन्ते व्युत्पाद्यन्ते पदार्था इति तन्त्रं । षष्टिपदार्थानां तन्त्रं इति सङ्गतिः । आख्यायिकाविरहिताः परवादविवर्जिताश्चेति । परेण सह वादः परवादः तेन वर्जिताश्च । इति परिसमाप्तं इति ॥ टिका ७२ ॥


_________________________________________________________


अत्राह कथं एतदल्पग्रन्थं शास्त्रं कृत्स्नस्य वाचकं भविष्यति? अत्रोच्यते

तस्मात्समासदृष्टं शास्त्रं इदं नार्थतश्च परिहीनम् ।
तन्त्रस्य च बृहन्मूर्तेर्दर्पणसङ्क्रान्तं इव बिम्बम् ॥ कारिका ७३ ॥

यस्मात्षष्टितन्त्रं इति हेतुः । समासदृष्टं सङ्क्षेपतो ग्रन्थं इत्यर्थः । शास्त्रं इति । शास्यते येनोत्पथादिति शास्त्रं । तीर्थोदकमहत्फलं । कर्ता भोक्ता भोज्यं मोक्षश्चात्र चिन्त्यते । अथ दुःखानां शासनात्शास्त्रं । इदं इमां सप्ततिं दर्शयति । नार्थतश्च परिहीनं । षष्टिपदार्थविचारणायाम्(प्.६३) अहीनं इत्यर्थः । तन्त्रस्येति । यथा स्वल्पेऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् । एवं अल्पशास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिरभिहितेत्यर्थः ॥ टिका ७३ ॥



इत्याचार्येश्वरकृष्णप्रोक्तायाः साङ्ख्यसप्तत्या वृत्तिराचार्यमाठरकृतिः समाप्ता ।
(प्.६४)