साक्षिप्रकरणम्
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । |
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । |
स्त्रीबालवृद्धकितव मत्तोन्मत्ताभिशस्तकाः । |
पतिताप्तार्थसंबन्धि सहायरिपुतस्कराः । |
उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । |
साक्षिणः श्रावयेद्वादि प्रतिवादिसमीपगान् । |
अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । |
सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् । |
अब्रुवन्हि नरः साक्ष्यं ऋणं सदशबन्धकम् । |
न ददाति हि यः साक्ष्यं जानन्नपि नराधमः । |
द्वैधे बहूनां वचनं समेषु गुणिनां तथा । |
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । |
उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । |
पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । |
यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः । |
वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । |