सामग्री पर जाएँ

सांख्यसंग्रहः

विकिस्रोतः तः
सांख्यसंग्रहः
[[लेखकः :|]]


।। श्रीः।।
सांख्यसंग्रहस्य
भूमिका ।
--------------
मनुस्मृतौ ।
" अङ्गानि वेदश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ।।" इति ।
याज्ञवल्क्यस्मृतौ च ।
" पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश।।" इति ।
विष्णुपुराणादौ ।
" अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति च त्रयम् ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः ।। " इत्यादि--
अत्र यतुर्दशविद्यासु अष्टादशाविद्यासु वा सांख्यशास्त्रस्य नामापि नास्तीति न्यायस्यानेकात्मप्रतिपादकत्वादनेकात्मप्रतिपादकानि वैशेषिकसांख्ययोगादीनि शास्त्राणि न्यायविस्तरपदेन संगृहीतानि भवन्तीति हृदयम् तथात्वे छान्दोग्योपनिषदि 3 प्रपाठके 17 खण्डे " तद्वैतद्धोर आङ्गिरसः कृष्णाय देवकीपुत्त्रायोत्क्वोवाच" इति । भगवता श्रीकृष्णेन तु भगवद्गीतायाम् 5 अध्याये।
" सांख्ययोगौ पृथक् वालाः प्रवदन्ति न पण्डिताः ।"
" एकं सांख्यं च योगं च यः पश्यति स पश्यति ।।" इति ।
4 अध्याये ।।
" इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान् मनवं प्राह मनुरैक्ष्वाकवे ऽब्रवीत् ।।
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परंतप।।
स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः ।।" इति ।
अपि च श्वेताश्वतरोपनिषदि 6 अध्याये ।
" तत्कारणं सांख्ययोगाधिगम्यं
ज्ञात्वा देवं मुच्यते सर्वपापैः ।।" इति ।

अत्रेदं न भ्रमितव्यं यत् तदानीं कापिलं सांख्यं नासीदेव 5 अध्याये ऽत्रैवोपनिषदि
" ऋषिं प्रमूतं कपिलं यस्तमग्रे " इत्युक्तत्वात् । देवकीपुत्रेण भगवता श्रीकृष्णेन भगवद्गीतायाम् 10 अध्ये " सिद्धानां कपिलो मुनिः " इत्युक्तत्वात् । इत्थं च कापिलं सांख्यशास्त्रमतीव श्रद्धेयम् । तच्च सांख्यं सूत्रषडध्यायी समाससूत्रं चेति द्विविधमुपलभ्यते अस्योपाख्यानं समाससूत्रसर्वोपकारिणीटीकायामुक्तमपि च समाससूत्रनाम्नापि द्वैविध्याश्चर्यशङ्कानिरासः तत्र सूत्रषडध्याय्याः भाष्यं वृत्‌तिश्च प्रकाशितमेव अन्येऽपि सांख्यतत्त्वकौमुदीसांख्यचन्द्रिकागौडपादभाष्यादयोऽनेके ग्रन्थाः प्रकाशिताः परं तु--

समाससूत्रमालम्ब्य व्याख्यां पञ्चशिखस्य च ।
भागवणेशः करुते तत्त्वयाथार्थ्यदीपनम् ।।

इत्युक्त्या महर्षिकपिलप्रशिष्यपञ्चशिखाचार्या(1) नुसृतोऽपि समाससूत्रग्रन्थ इदानीं लुप्तप्रचार इति तस्य बहूनि व्याख्यानानि(2)सङ्कलय्यास्मिन् सांख्यसङ्ग्रहे प्रकाशयितुं प्रवत्तोऽस्मि । अत्र केचिद्वदन्ति समाससूत्रमेव महर्षिकपिलप्रणीतं सांख्याशास्त्रं सूत्रषडध्यायी तु विज्ञानभिक्षुणैव प्रणीतेति । तन्मन्दम् विज्ञानभिक्षुसमयाद्वहु पूर्वं भोजराजेन ष़ध्याय्या व्याख्यातत्वाद् विस्तरस्तु न्यायवार्त्तिकभूमिकायं द्रष्टव्य इति शम् ।
(1) " कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये ।
पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ।।"
इति सांख्यतत्त्वकौमुद्याम् ।
(2) सांख्यतत्त्वविवेचनम् श्रीषिमानन्द( क्षेमेन्द्र) विरचितम् ।
सांख्यतत्त्वयाथार्थ्यदीपनम् श्रीभावागणेशविरचितम् ।
समाससूत्रसर्वोपकारिणी टीका ।
कापिलसूत्रवृत्तिः ।
तत्त्वसमाससूत्रव्याख्या ।
तत्त्वसमाससूत्रवृत्तिः ।
सांख्यसूत्रप्रक्षेपिका । एतानि व्याख्यानानि ।
प्रसङ्गादन्येऽपि ग्रन्थाः संगृहीता यथा ।
सांख्यतत्त्वप्रदीपः ।
तत्त्वमीमांसा ।
सांख्यपरिभाषा ।

गवर्नमेण्टसंस्कृतकालेज
सरस्वती भवन
बनारस
26-मई 1916 ई0 विन्ध्येश्वरीप्रसादाद्विवेदी



ऊँ नमःपरमात्मने ।

सांख्यसंग्रहः।
तत्र
सांख्यतत्त्वविवेचनम् ।
श्रीषिमानन्दविरचितम् ।

रघुनन्दनसुतेनेदमिष्टिकापुरवासिना ।
कान्यकुब्जद्विजाग्र्येण षिमानन्देन (1) तन्यते ।। 1 ।।
सांख्योपज्ञ नमस्तुभ्यं कपिलाय महात्मने ।
पञ्चविंशतितत्त्वानां तत्त्वज्ञानप्रवर्त्तकः ।। 2 ।।
दुःखत्रयाभिभूतस्य शान्तिर्मे स्यात् कुतास्त्विह ।
तथोपदिश जन्मादि यथा न स्यात् कृपानिधे ।। 3 ।।
एवं पृष्टो मुनिः प्राह निर्विण्णाय कृपानिधिः ।
पञ्चविंशतिसूत्राणि व्याख्यातानि महात्मभिः ।। 4 ।।
बबन्धुः कवयः काव्ये व्याचिख्युः कवयः परे ।
सांख्यशास्त्रस्य याथार्थ्यं तदेवेदं विविच्यते ।।
षिमानन्देन मन्देन कुक्षिम्भरिशतादिना ।। 5 ।।
*(1) अत्र क्षेमेन्द्रेणेत्यनुमीयते । ' षिमानन्द' इति तु मातापित्रोरुल्लापने नामेति सर्वजनप्रसिद्यर्थं तथैव लिखितमिति सम्भाव्यते ।

अष्टौ प्रकृतयः।। 1 ।।
प्रकृतिर्बुद्ध्यहंकारौ तन्मात्रैकादशेन्द्रियम् ।
भूतानि चेतिसामान्यच्चतुर्विंशतिरेव ते ।।
एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः। प्रकृतित्वं च साक्षात्परम्परायाखिलविकारोपादा-
नत्वम् । व्युत्पत्तिस्तु प्रकृष्टा परिणामरूपा आकृतिरस्या इति । सा च साम्यावस्थयोपलक्षितसत्त्वादिद्रव्यत्रयरूपा। साम्यावस्था च शान्तघोरमूढादिरूपाणामपि असमुदायवद्रूपत्वेपि अतिशयैः समुदायवाद्भिरविरोधेन र्वतमानत्वं सामान्यात्मना गुणभावोऽतिशयात्मना प्राधान्यं विशेषात्मना वैषम्यमित्यतो न्यूनाधिकभावेनासंहतावस्थाऽकार्यावस्थेति यावत् । महदादिकं तु कार्यसत्त्वादिकं न कदाप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः । वैषम्यावस्थायामपि प्रकृतित्वसिद्धये उपलक्षितमित्युक्तं सत्त्वादिगुणवती प्रकृतिः सत्त्वाद्यनतिक्तत्वात् तथा च सूत्रं सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सत्त्वादीनांप्रकृतिस्वरूपत्वं न तु प्रकृतिधर्मत्वम् । गुणेभ्य एव सर्वकार्योपपत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्यात् । सूत्रभाष्याभ्यामपि तथोक्तत्वात् । यत्तु प्रकृतेर्गुणा इतिवत् वनस्य वृक्षा इतिवित् व्यष्ठिसमष्ट्यभिप्रायेणेति सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा इति च न सत्त्वादीनां प्रकृतिकार्यत्ववचनं गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरम् । महदादिसृष्टिर्गुणवैषम्यात् । तच्च सजातीयसंवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति सत्त्वादिव्यवहारो वैषम्य एवेत्याह श्रुतिः यथा तम एवेदमग्र आसीत् तत्परे स्यात् परेणेरितं विषमत्वं(1)* प्रत्ययाद्वै रजयो(2)* रूपं तद्रजः खल्वीरितं विषमत्वं प्रत्ययाद्वै सत्त्वस्य(3)* रूपमिति सत्त्वादित्रयं च सत्त्वादिस्वरूपमिति सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणकतया संयोगविभागादिमत्तयानाश्रितत्वोपादानत्वादिना द्रव्यत्वेपि पुरुषोपकारत्वात् पुरुषबन्धकत्वाच्च गुणषब्देनोच्यते इन्द्रियादिवत् गुणानां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् मनसःसङ्कल्पात्मकत्वत् तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकमपि प्रधानतस्तु सुखात्मकमुच्यते। एवं रजोपि दुःखकालुष्यप्रवृत्त्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते । एवं तमोपिमोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते सतो भावः सत्त्वं धर्मप्राधान्योनोत्तमं पुरुषोपकरणं रागयोगाद्रजो मध्यमम् । तमोधर्मावरणयोगादधमं सत्त्वादीन्यसंख्याव्यक्तयः प्रतिक्षणपरिणामित्वात् लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणानामसंख्यातमितिसूत्रात् । एकदानेकपुरुषादिसृष्टिश्रवणाञ्च एकैकव्यक्तित्वे विभुत्वं स्यात् तथा च संयोगवैचित्र्यं कार्याणां न स्यात् । द्रव्यान्तरस्यावच्छेदकीभूतस्याभावाच्च । तस्मादसंख्यातान्यत्वं सत्त्वादीनि त्रित्वकथनं तु विभाजकोपाधित्रयेणैव वैशेषिकाणां नवद्रव्यवचनवत् स्त्त्वादीनि च यथायोग्यमणुविभुपरिमाणकानि इतरया रजसश्वलस्वभावत्ववचनविरोधः स्यात् । आकाशकारणस्य विभुत्वौचित्यात् सर्वकारणद्रव्यविभुत्वे कार्यपरिच्छेदासम्भव इति ।।
*(1)क्षोभककालरूपेण कार्यपरिणामोन्मुखत्वम् ।
* (2) रजोव्यवहारयोग्यं कार्यं रजसः ।
* (3)कार्यस्य सत्त्वव्यवहारयोग्यस्य ।
शब्दस्पर्शविहीनं तद्रूपादिभिरसंहतम् ।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ।।
इत्याद्युक्तेर्न परमाण्वादावन्तर्भावः प्रकृतेरिति ।
अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरूपत्वे अपरिच्छिन्नत्वैकत्वाक्रियत्वासिद्धान्तक्षतिरिति
चेन्न कारणद्रव्यत्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनाद्गन्धत्वेन गन्धानां पृथिवीव्यापकतावत् आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुतिवासिद्धान्तोप पत्तेश्च । तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैव एकशब्दार्थत्वात् । अजामेकामितिश्रुतेस्तथावगमात् । तथाध्यवसायोभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वादित्यन्यथा श्रुतिस्मृतित्युक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति । तत्रायं प्रयोगः सुखदुःखमोहात्मकमहदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुखमोहात्मकत्वात् वस्त्रादिकार्यशय्यावदिति प्रकृतौ प्रमाणम् । बाह्यवस्तुषु सुखादिकमुत्तमत्वादिकमेव
घटरूपमितिवच्चन्दनसुखं स्त्रीसुखमित्यादिप्रत्ययाच्चेति दिक् ।
अव्यक्तबुद्ध्यहङ्कारास्तन्मात्राणां च पञ्चकम् ।
अष्टौ प्रकृतयस्त्वेताः सप्त च व्यक्ततामियात् ।।
अव्यक्तप्रकृतिजन्यत्वात् अव्यक्तानीति चोच्यते ।
व्यज्यन्ते च यथा लोके घटाद्या न तथा हि तत् ।।
अव्यक्तं प्रकृतिर्माया प्रधानं ब्रह्म कारणम् ।
अव्याकृतं तमः पुष्पं क्षेत्रमक्षरनामकम् ।।
बहुदात्मकादिनामानि तस्यामी ते जगुर्बुधाः ।
व्यज्यते नेन्द्रियैर्यस्मादव्यक्तमत् उच्यते ।
अनादिमध्यनिधनान्निरङ्गत्वेन तत् तथा ।।
तदावाह श्रुतिः ।
अशब्दमस्पर्शमरुपमव्ययं
यथा च नित्यं रसगन्धवर्जितम् ।
अनादिमध्यं महतः परं ध्रुवम्
प्रधानमेतत् प्रवदन्ति सूरयः ।। इति
तस्मादलिङ्गकं सूक्ष्मं तथा प्रसवधर्मिकम् ।
एकं साधारणं तत्र कार्यं कस्यापि नेतरे ।।
बुद्धिर्महान् मनो ब्रह्मा मतिः ख्यातिरपूर्वकम् ।
प्रज्ञा भूतिर्धृतिर्ज्ञानं सन्ततिः स्मृतिरित्यपि ।।
हैरण्यगर्भ्या बुद्धेस्तु महतो नाम सूचितम् ।
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो वेदा विजज्ञिरे ।।
एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । इति
विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ।।
अत्र सत्त्वाद्यंशत्रयेण मंहतो देवतात्रयोपाधित्वात्तदविवेकेन तिस्त्र इति ।
सात्त्विकांशात् प्रधानात् तु महत्तत्त्वमजायत इति महत्त्स्य प्राधान्येन चाध्यवसायो वृत्तिर्महदहंकारमनस्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वं बीजवस्था तदुक्तं सांख्यसूत्रे इदमेव महत्तत्वमंशतो रजस्तमःसंभेदेन परिणतं सत् व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति महदुपरागाद्विपरीतमिति । महतस्त्रिगुणस्वरूपत्वाद् देहस्य देहिना कालरूपविष्णुना क्षोभ्यदशायां गुणरूपोपाधिप्राधान्यादविवेके ब्रह्मविष्णुशिवत्वं तत्र महान् सुषुप्त्यभिमानी विष्णुस्तदुपाधिः कार्यसत्त्वं तत्र जाग्रदभिमानी ब्रह्मा तदुपाधिः कार्यरजः तत्र समुदायसमुय्यनन्यन्यायेन समष्टेर्व्यष्ट्यनन्यत्वान्मशकादिरपि विष्णुरेवेति भावः। सृष्टिस्तु महदादिक्रमेणैव न तु भूतादिक्रमेणेति ।।
सा च कौर्मे
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्जह ।
आकाशसुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ।।
आकाशं तु विकुर्वाणः स्पर्शमात्रं ससर्जह ।
वायुरूत्पद्यते तस्मात्तस्य स्पर्शो गुणो मतः ।। इत्यादि नन्वेकं चेदाकाशादीनां केवलं विकृतित्वं कथं तत्र आकाशादीनां स्पर्शादितन्मात्रेषु अहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणादिषूक्तत्वात् ।
न पुमान् स्थाणुरेवायं बुद्धिरध्यवसायिनी ।
पुरुषाधिष्ठितात् सर्वगताज्जाता प्रधानता ।।
चिच्छक्तिर्यादृशी तादृग् वृत्तिः सत्त्वविमिश्रिता ।
रजोगुणस्वरूपा यत् त्रिवृत्करणतः श्रुतेः ।।
ज्ञानं धर्मश्च वैराग्यमैश्वर्यं सत्त्वतो ह्यमी ।
अनैश्वर्यमवैराग्यमधर्मोऽज्ञानमेव तु ।।
तमसश्वापि ते ज्ञेया बुद्धेर्भेदा इतीरिताः ।
ज्ञानं तत्त्वावबोधोऽयं धर्मः श्रुत्युक्तपालनम् ।।
वैराग्यमर्थानासक्तिरैश्वर्यमणिमादिकम् ।।
तत्तद्विपर्ययेणैव तामसं तच्चतुष्टयम् ।।
ज्ञानेन मोक्षो धर्मेण गतिरूर्ध्वा भवेदिति ।
वैराग्येनाक्षरलय ऐश्वर्येणाहता गतिः ।।
एवमेषाष्टधा शक्तिर्व्याख्याता बुद्धिसञ्ज्ञिता ।
प्रधानविकृतिस्त्वेषाह्कारप्रकृतिश्च सा ।।
मूलप्रकृतिरित्यादि कविभिश्च निरूपितम् ।
एकोहंकार इत्येतज्जिज्ञासा चेद्विभावय ।।
योहंशब्दं करोत्येष अभिमान इति स्मृतः ।
स्पृशेहं रसये वाहं स्वामी चाहं मया हृतः ।।
इत्यादि नाम यस्यासीत्तस्य भेदा अमी शृणु ।
वैकारिकस्तैजसोपि भूतादिः सानुमानकः ।।
निरनुमानश्च पञ्चैते भेदास्तस्य प्रकीर्त्तिताः ।
वैकारिकः सात्त्विकोऽयं भूतादिस्तामसः स्मृतः ।।
तैजसो राजसो ज्ञेयस्तस्मात् तन्मात्रपञ्चकम् ।
एकादशेन्द्रियगणः सात्त्विकादभिजायते ।।
देवतास्त्वभिमानिन्यस्तैजसादपि चोच्यते ।
तदेव कथमेवं चेत् त्रिवृत्करणहेतुतः ।।
शब्दतन्मात्रमित्येतत् शब्द एवोपलभ्यते ।
न तदात्तनिषादादिभेदस्तस्योपलभ्यते ।।
स्पर्शतन्मात्रमेवैतत् स्पर्श एवोपलभ्यते ।
न तु शीतमृदुत्वादिविशेषस्तस्य लभ्यते ।।
रूपतन्मात्रमेवं वै रसतन्मात्रमप्यथ ।
गन्धतन्मात्रमेतेषु विशेषो नोपलभ्यते ।।
तन्मात्राण्यविशेषाणि सूक्ष्मभूतानि चोच्यते ।
भोग्यानि शान्तघोराणि प्रकृत्याऽणव एव च ।।
कुर्वद्रूपात् प्रकृतयः संख्ययाऽष्टौ प्रकीर्त्तिताः ।।
षोडसविकाराः ।। 2 ।।
एकादशैवेन्द्रियाणि महाभूतानि पञ्च च ।
विकाराः षोडशैवैते न तु प्रकृतिताजुषः ।।
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियं मतम् ।।
स्वं स्वं कर्म प्रकुर्वन्ति ज्ञानं चेति यथैषितम् ।
उभयात्मकं मनश्चैव संकल्पादिस्वरूपवत् ।।
करणानीन्द्रियाणीति वैकारिकमयं रयः ।
पदानि नियतानीत्यक्षाणीत्यभिधीयते ।।
पृथवीजलतेजांसि वायुराकाश इत्यपि ।
महाभूतानि पञ्चैव धारणाद्युपकारतः ।।
आपः संग्रहभावेन चतुर्णामुपकारिकाः ।
तेजः पाचकभावेन वायुर्वहनभावातः ।।
शब्दादिपञ्चगुणवत्पृथ्वी पञ्चगुणा मता ।
आपः शब्दादिसहिताः गन्धेन रहितास्तथा ।।
तेजः शब्दस्पर्शवत् रूपवत् श्वसने पुनः ।
शब्दश्च स्पर्श इत्येवमाकाशे शब्द एव तु ।।
न तु विग्रहभूतानि विशेषाकृतयस्तथा ।
विकाराः शान्तघोराख्यमूढाः त्रिविधकीर्त्तिताः ।।

पुरुषः ।। 3 ।।
पुरि शयनात् प्रमाणात् पूरणात् पुरुवृत्तितः ।
स चानादिः सर्वगतश्चेतनो निर्गुणोऽपरः ।।
द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मकः ।
सूक्ष्मो नित्यो ह्यनादिस्त्वमध्यनिधनोऽपि सः ।।
सर्वमाप्तमनेनेति तस्मात् सर्वगतस्तु सः ।
सुखोपलब्धिमत्त्वाञ्च चेतनोऽनिर्गुणस्तथा ।।
सत्त्वादिगुणराहित्यात् परः परतया स्मृतः ।
दृश्यप्रकृतिसम्बन्धात् द्रष्टा भोक्तानुभावनात् ।।
क्षेत्रे गुणगतं वेत्ति क्षेत्रज्ञ इति कीर्त्तितः ।
शुभाशुभादिसंसर्गाभावादमल इष्यते ।।
निर्बीजत्वात् प्रसूते च नेत्यप्रसवधर्मकः ।
निरङ्गत्वातीन्द्रियत्वात् सूक्ष्मो नित्यः सदातनात् ।।
एवं सांख्यः स पुरुषो व्याख्यातः पूर्वसूरिभिः ।
जीवो जन्तुः पुमानात्मा पुरुषः पूजको नरः ।।
क्षेत्रज्ञश्वाक्षरः प्राणः कोय एषः स ज्ञस्तथा ।
अज एतानि नामनि सांख्ये पुरुषसञ्ज्ञिते ।।
एवम,
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः ।।
अयं कर्ताथवाऽकर्त्ता पुरुषः प्रकृतेः परः ।
शुभाशुभानि कर्त्ता चेत् कुर्याद् वृत्तित्रयं विना ।।
लोकदृष्टगुणानां चेत् कर्तृता धर्मिता कथम् ।।
साहित्यं यमनियमनिषेचनप्रसंख्यानात् ।
ज्ञानैश्वर्यविकारप्रकाशने सात्त्विकी निन्दा तुष्टिः ।
विकृताकृतपारुष्यं प्रख्यातैषा रजोबुद्धिः ।।
उन्मादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता ।
निद्रालस्यं नैर्घृण्यं त्वशौचमिति तामसी वृत्तिः ।।
एतद् वृत्तित्रयं दृष्ट्वा गुणानां कर्तृताथवा ।
अकर्ता पुरुषः सिद्ध इति सिद्धान्त इष्यते ।।
प्रवर्त्तमानप्रकृतेरिमान् गुणान्
रजस्तमोभ्यां विपरीतदर्शनात् ।
आत्मानमाच्छाद्य स आत्मने तद्
अहङ्करोमीत्यबुधोऽवमन्यते ।।
बालाग्रकुक्षीकणासमर्थः
सर्वं मयेदं कृतमित्यमन्यत ।
उन्मत्तवद्भाव्यत इत्यबोधः
अहो विधे पिण्डतमानिनः कः ।।
तदुक्तं गीतासु
प्रकृतेः(1) क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।।
अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।।
प्रकृत्यैव च कर्माणि क्रयमाणानि सर्वशः ।
यःपश्यति सदात्मानमकर्तारं स पश्यतिः।। इत्यादि
स एकः पुरुषः किं वा नानेति च विचारय ।
सुखदुःखमोहसङेकरविशुद्धजन्ममरणानाम् ।
नानात्वात् पुरुषवहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च ।।
यद्येकः पुरुषः स्याद् बुद्धिहानिः प्रसज्यते ।
एकस्मिन् सुखिते सर्वे सुखिनः स्युरतः परम् ।
एकस्मिन् दुःखिते सर्वे दुःखिताः स्युरिति क्रमात्।।
अतो बहुत्वं संसिद्धं वहवः पुरुषाः स्मृताः ।
आकृतिगर्भाशयभावसङ्गतिशरीरविभागल्लिङ्गबहुत्वात् सांख्याचार्याः कपिलसुरिपञ्चशिखपतञ्जलिप्रभृतयः पुरुषबहुत्वं वर्णयन्ति । वेदवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमात्मानं, तथा च श्रुतिः।
*(1) अत्र प्रकृतेरिति षष्ठी अभेदे एकशतं षष्ठ्यर्था इति भाष्योक्तेः । चित्स्वरूपपुरूषस्य व्यपदेशे पुरुषसिय चैतन्यमिति विकल्पोदाहृतेश्च ।
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्येनातिरोहति ।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।।
तदेव शुक्रं तद् ब्रह्म ता आपः स प्रजापतिः ।
तदेव सत्यममृतं स मोक्षः सा परा गतिः ।।
तदक्षरं तत्सवितुर्वरेण्यं यस्मात् परं नापरमस्ति किञ्चित् ।
यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् ।।
वृक्ष इव स्तम्भो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण ।
सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।।
सर्वस्य पशुमीशानं सर्वस्य शरणं महत् ।
सर्वतः सर्वसत्त्वानि सर्वात्मा सर्वसम्भवः ।।
सर्वं विलीयते यस्मिन् तद् ब्रह्म मुनयो विदुः ।
एक एव हि भूतात्मा भुतेभूते व्यवास्थितः ।।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।।
वसत्येको महानात्मा येन सर्वमिदं ततम् ।। इत्यादि ।
त्रैगुण्यम् ।। 4 ।।
सत्त्वं रजस्तम् इति गुणाः भावेण्यस्त्रैगुण्यम् ।
प्रसादो लाघवं सङ्गः प्रसङ्गात् प्रीतिरार्जवम् ।।
तुष्टिस्तितिक्षा सत्त्वस्य रूपं साक्षात् सुखावहम् ।
शोकस्यम्भद्वेषतापखेदभोगाभिमानिता ।।
रजोरूपाण्यनेकानि बहुदुःखप्रदानि वै ।
तमो नामाच्छादनादि वीभत्सावरणादि च ।।
दैन्यगैरवनिद्रादिप्रमादालस्यलक्षणम् ।
मोहत्मकमनन्तं तदेवं त्रैगुण्यमीरितम् ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्त्तकम् ।।
विनाशकं तमो विद्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ।

सञ्चरः ।। 5 ।।
साम्यावस्था गुणानां या प्रकृतिः सा स्वभावतः ।
कालक्षोऊेण वैषम्यात् क्षेत्रे परयुते पुरा ।।
बुद्धिस्ततश्चहङ्कारस्त्रिविधोपि व्यजायत ।
तन्मात्राणीन्द्रियाणि महाभूतानि च क्रमात् ।।
एवं क्रमेणैवोत्पत्तिः सञ्चरः परिकीत्तितः ।
प्रतिसञ्चरः ।। 6 ।।
व्यत्क्रमेणैव लीयन्ते तन्मात्रे भूतपञ्चकम् ।
तन्मात्राणीन्द्रियाणि अहङ्करे विलीयते ।।
अहङ्कारोऽथ बुद्धौ तु बुद्धिरव्यक्तसञ्ज्ञके ।
अव्यक्तं न क्कचिल्लीनं प्रतिसञ्चर इति स्मृतः ।।
अध्यात्ममधिभूतमधिदैवतं च ।। 7 ।।
बुद् ध्याहङ्कारमनसी श्रोत्रं त्वक् चक्षुषी तथा ।
जिह्वा घ्राणं पादपायूपस्थमध्यात्मसञ्ज्ञितम् ।।
यत्तु मोक्षधर्मे
आदौ मन अहङ्कारात् जायते वृत्तयश्चताः ।।
शब्दरागात् श्रोत्रमस्य जायते भवितात्मनः ।
रूपरागात् तथा चक्षुर्घ्राणं गन्धजिधृक्षया ।।
इत्यादिनेन्द्रियाणां मनोवृत्तिरागादिकार्यत्वं तद्वेदान्तरीत्यैवेति मन्तव्यम् ।
अधिभूतम् ।
यथाक्रमेण बोद्धव्यमभिमन्तव्यमेव च ।
सङ्कल्पितव्यं श्रोतव्यं स्प्रष्टव्यं द्रष्टव्यमेव च ।।
रसयितव्यं घ्रातव्यं गन्तव्यमुत्स्त्रष्टव्यं च ।
आनन्दयितव्यमित्येवमधिभूतं प्रकीर्तितम् ।।
अधिदैवतं च ।
ब्रह्मा रुद्रश्चन्द्रमाश्च आकाशो वायुरेव च ।
सूर्यो वरुण इन्द्रश्च विष्णुमित्रं तथैव च ।।
अनेनैव क्रमेणेदं संप्रोक्तमधिदैवतम् ।
चत्वारि यो वेदयते यथा च-
क्षुषा स्वरूपाण्यधिदैवतं वा ।
विमुक्तयाथागतदोषसङ्गो-
गुणास्तुं भुङ्क्ते न गुणैः स युज्यते ।।
पञ्चाभिबुद्धयः ।। 8 ।।
इच्छाभिबुद्धिर्विज्ञेया आभिमुख्येन कर्मणः ।
इदं मे कार्यमित्येषोऽध्यवसायः करोम्यहम् ।।
इच्छा वाञ्छाथ सङ्कल्पो मनसः कर्म चेष्यते ।
एवमेताश्च पञ्चभिबुद्धयः परिकीर्तिताः ।।
पञ्च कर्मयोनयः ।। 9 ।।
धृतिः श्रद्धा सुखेच्छा विविदिषा तदभावकौ ।
सामान्यतः समुद्दिष्टाः पञ्चैते कर्मयोनयः ।।
वाचि कर्मणि संकल्पेप्रतीतिर्याभिरज्येते ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेतेताद्धि लक्षणम् ।।
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
प्रहतिग्रहश्च होमश्च श्रद्धाया लक्षणं स्मृतम ।।
सुखं सुखार्यो सेवेत विद्या कर्म तपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ।।
विषधूममूर्छितवद् विविदिषा ध्यानिनां प्रज्ञायोनिः ।
एकत्वं च पृथक्त्वं च नित्यं वेदमचेतनम् ।।
सूक्ष्मसत्कार्यसंक्षोभ्यं ज्ञेया विविदिषा हि सा ।
कार्यकरणक्षमकरी विविदिषा प्राकृती वृत्तिः ।।
धृतिः श्रद्धा विविदिषा चेति चतुष्टयम् ।
ज्ञेयं बन्धो विविदिषा मोक्षाय परिकल्पिता ।
कर्मयोनिसिवरूपोयं विशिष्य परिकीर्त्तितः ।।
पञ्च वायवः ।। 10 ।।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ।।
मुखनासाधिचारी यः प्राणनात् प्राण उच्यते ।
नाभेरधिचरत्येवोपानये ऽपान इष्यते ।।
हृद्यधिष्ठाननयनात् समान इति कीर्त्तितः ।
कण्ठादूर्ध्वावगमनादुदान इति च स्मृतः ।।
सन्ध्यधिष्ठानतो व्यानो विक्षेपणविजृम्भणात् ।
पञ्च कर्मात्मानः ।। 11 ।।
वैकारिकादयः पूर्वं यथाक्रममुदाहृताः ।
शुभं वाऽशुभमूढौ च शुभमूढाऽशुभमूढके ।।
यथाक्रमं च कर्त्तारस्तत्तत्कर्म समीरितम् ।
पञ्चपर्वा अविद्या ।। 12 ।।
तमो मोहो महामोहस्तामिश्रश्चान्धतामिश्रः ।।
अष्टकौ तौ तमौ मोहौ प्रकृत्यष्टकनिष्ठितौ ।
आत्मज्ञानाभिमान्येयं प्राप्त्याद्यौश्वर्यमानिता (1)* ।।
निर्वृत्ते विषये दृष्टे पञ्चानुश्रविके तथा ।
मोहोऽहमभिमानो यो महामोहो दशात्मकः ।।
अष्टैश्वर्ये दशविषये सिद्धतामिश्र उच्यते ।
विषादः सोऽन्धतामिश्रो मरणे प्रतिपद्यते ।।
अविद्या पञ्चपर्वैषा भिन्ना द्वाषष्टिभेदतः ।।
*(1) अविद्यास्मितारागद्वेषाभिनिवेशाख्या ।
अष्टाविंशतिधाऽशक्तिः ।। 13 ।।
जडत्वकुष्टिकुब्जत्वरूपता
ऽघ्रणत्वमूकत्वसुपङ्गुताश्च ।
कुणिर्गुदावर्त्ति च षण्ढता च
उन्माद इत्येष निरूपितोऽयम् ।।
एकादशोन्द्रियवधो वाधिर्यादिस्वरूपतः ।
बुद्धेर्वधः सप्तदश तुष्टिसिद्धिविपर्ययः ।।
नास्ति प्रधानमिति या प्रतिपत्तिरजम्भिका ।
न महानित्यसलिला नायाच्छा चानहंकृतौ ।।
न वास्त्यदृष्टिस्तन्मात्रपञ्चकं भूतकारणम् ।
सर्वमेवेदं ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति ।
यथा वेदान्तिनां तद्वत् सांख्यानामीदृशी मतिः ।।
असुता विषयार्जने प्रवृत्तिः
सुतरा परिरक्षणे प्रवृत्तिः ।
क्रयदोषमपश्यतो धने प्रवृत्तिः
असुनेत्रा परिकीर्त्त्यते हि सांख्यैः ।।
अकुर्मरीचिका(1)* भोगशक्तिर्हिंसाद्यपश्यतः ।
अनुत्तमाभ्भासिका दोषभोगादम्भः प्रवर्त्तनम् ।।
नवधा कथिता ह्येत तत्र तुष्टिविपर्ययाः ।
नानात्वमूहमानस्य सिद्धमेकमतारकम् ।
विपरीतग्रहः शब्दश्रवणादसुतारकम् ।।
नानात्वज्ञो मुक्त इति श्रित्वैकज्ञो न मुक्तिभाक् ।
आतारयन्तमज्ञानासदच्छास्त्रनिवेशतः ।
दुःखितस्याप्यनुद्वेगादप्रमोदा हि संसृतौ ।।
अप्रमुदं तदज्ञानमप्रमुदितमप्रमोदमानं वा ।
असम्यग्वचनादप्युपरोधेन वा गुरौ ।।
अभाग्यस्य न सिद्धिः स्यात् ज्ञाने तत् समुदीरितम् ।
स्निग्धसंसर्गतो ज्ञानोत्तराज्ञानमरम्यकम् ।।
व्याख्याताः पूर्वरीत्याष्टावेते सिद्धिविपर्ययाः ।
अष्टाविंशतिधाशक्तिर्व्याख्यातोभययोगतः ।।
*(1) ' दुर्मरीचिका' इति क्कचित्
नवधा तुष्टिः ।। 14 ।।
प्रकृतौ परमात्मत्वं प्रतिपद्यैव तुष्टिभाक् ।।
माध्यस्थ्यमवलम्बेत अम्भः सा तुष्टिरूच्यते ।
बुद्धौ च परमात्मत्वे तुष्टिः सा सलिला स्मृता ।।
अहंकारे यदा सा स्यादायाच्छा इति शब्दिता ।
तन्मात्रेषु यदा सा स्यात् तुष्टिर्द्दष्टिर्निगद्यते ।।
आध्यात्मिकाश्चतस्त्रस्तु तुष्टयः प्रभवन्ति हि ।
मोक्षस्तास्वपि नास्त्येव तत्त्वज्ञानाद्यथोदिता ।।
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
त्यागे दुःखं क्षये(1)* दुःखं धिगर्थं दुःखभाजनम् ।। इति
दोषदर्शनसन्तुष्टः परब्रह्मैव मोक्षभाक् ।
सुतेयं पञ्चमी तुष्टिस्तत्त्वज्ञानाद्यभावतः ।।
रक्षणे सुतरा षष्ठी सप्तमी क्षयदर्शनात् ।
सुनेत्रा सङ्गदोषेण निवृत्तिश्च समस्करी ।
तुष्टिस्तु नवमी प्रोक्ता ह्युत्तमाम्भासिका तव ।।
*(1) ' व्यये' इति क्कचित् पाठः ।
अष्टधा सिद्धिः ।। 15 ।।
ज्ञानं यद् दूरमुत्पन्नं ताराख्या प्रथमा हि सा ।
शब्दमात्रेण भूतेषु सुतारा ज्ञानमिष्यते ।।
ज्ञानमध्ययनेनैव तारयन्ती तृतीयका ।
अध्यात्मदुःखापनयात् प्रमोदेत्यभिधीयते ।।
भौतिकक्लेशहरणात् प्रमुदा सिद्धिरुच्यते ।
आधिदैवक्लेशहरणात् ज्ञानमुत्पद्यते नृणाम् ।।
प्रमोदमानेत्याख्याता षष्ठी सिद्धिः स्वयं सताम् ।
स्निग्धसंसर्गनाशात्तु रम्यका सप्तमी स्मृता ।।
प्रमुदा चाष्टमी सिद्धिः परिचर्यादिना गुरोः ।
इत्येताः सिद्धयो ह्यष्टौ व्याख्याताः ज्ञानसाधिकाः ।।
दश मूलिकार्थाः ।। 16 ।।
अस्तित्वमेकत्वयथार्थवत्त्वे
पारार्थ्यमन्यत्वमकर्तृकत्वम् ।
योगो वियोगो वहवः पुमांसः
स्थितिः शरीरस्य च शेषवृत्तिः ।।
एषा सा दशमूलिकार्थगणना सङ्घात्पारार्थ्यतः
सिद्धा सा पुरुशास्तिता परिणतेर्भेदस्य तत्कारणम्।
अस्त्यव्यक्तमनन्तमेकमिति च प्रोमाविषादात्मकं
नानापायपरार्थता त्रिगुणतोन्यत्वस्य सिद्धिस्तथा ।।
विपर्यासादकर्तृत्वं योगः पुरुषदर्शनात् ।
प्राप्ति शरीरभेदे तु चरितार्थत्वदर्शनात् ।।
जन्मादिकरणान्तानां भेदान्नाना हि ते स्मृताः ।
चक्तभ्रमिवत् शेषवृत्तिः सिद्धार्थाः दश मूलिकाः ।।
सप्तत्या प्रागुपदिष्टाः पञ्चाशत् प्रत्यया इमे ।
दशषष्टिपदार्थैस्तु षष्टितन्त्र इतीर्यते ।।
अनुग्रहसर्गः ।। 17 ।।
ब्रह्मानुग्रहमसृजद्रूपन्मात्रतः पृथक् ।
उत्पाद्यानुग्रहध्यानात् प्राक्तनाधारवर्जनात् ।।
चतुर्दशविधो भूतसर्गः ।। 18 ।।
अष्टविकल्पं दैवं पैशाचं राक्षसं तद्वत् ।
गान्धर्वमैन्द्रं ब्राह्मं च सौम्यं ब्राह्म्यमथाष्टकम् ।।
देवयोनय एवैते तिर्यग्योनिस्तु पञ्चधा ।
मृगपशुपक्षिसरीसृपस्थावरमिति भेदसम्भिन्ना ।।
मानुष्यकं चैकविधं ब्राह्मणादिचाण्डालान्तम् ।
पशवो गवादिमूषान्ताः पक्षिणो गरुडादिकाः ।.
मशकान्ता मृगाश्चापि सिंहादि च शिवान्तकाः ।
शेषादि अलगर्दान्ताः सर्पाः पर्वतभूतृणाः ।।
स्थावरा भौतिकः सर्ग एतत्संसारमण्डलम् ।।
त्रिविधो बन्धः ।। 19 ।।
प्रकृतिबन्धः प्रकृतिलय परत्वेनाभिमन्यतः ।
संन्यासिनामिन्द्रियेषु लयो वैकारिकोऽपरः ।।
गृहीणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् ।
इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते ।।
त्रिविधो मोक्षः ।। 20 ।।
ज्ञानोद्रेकादुपरतेश्च धर्माधर्मक्षयो भवेत् ।
धर्माधर्मक्षयाच्चाथ कैवल्पमिति गीयते ।।
तदुक्तम् ।
आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।।
त्रिविधं प्रमाणम् ।। 21 ।।
दृष्टमनुमानमाप्तवचनं चैतत् प्रामाणकम् ।
पञ्चेन्द्रियाणि प्रत्यक्षं वृष्टिर्मेघोदयेन तु ।।
अनुमानमिन्द्रो देवानां राजाशब्दः प्रमापकः ।
आगमेऽपि,
स्वकर्मभिर्विनिर्मुक्तो रागद्वेषविवर्जितः ।।
ज्ञानवान् शीलसम्पन्नः सोऽपि ज्ञेयश्च तादृशः ।।
त्रिविधं दुःखम् ।। 22 ।।
दुःखं तु त्रिविधं प्रोक्तमद्यात्ममधिभूतकम् ।
आधिदैवं च तत्रापि प्रथमं द्विविधं स्मृतम् ।।
शारीरं मानसं चेति वातकामादिदोषजम् ।।
भूतेभ्यो मानुषादिभ्यो जातं स्यादाधिभौतिकम् ।।
देवेभ्यः शीतवातादिभवं स्यादाधिदैविकम् ।
एतत् समासतः प्रोक्ता सूत्रव्याख्या यथामति ।।
प्राक्रियां च प्रवक्ष्यामि पौराणिकहिताय वै ।।
एतत् परम्परया याथातथ्यम् ।। 23 ।।
एतत् सर्वं ज्ञात्वा कृतकृत्यः स्यात् ।। 24 ।।
न पुनस्त्रिविधेन दुःखेनाभिभूयते ।। 25 ।।(1)*
*(1) 231241251 सूत्राणि प्रथमादर्शपुस्तके न सन्ति ।
महान् अहंकारः पञ्च तन्मात्राणि अव्यक्तसंज्ञानि भवन्तिमहच्छब्देन हैरण्यगर्भो बुद्धिरुच्यते । प्रधानं मूलमव्यक्तसंज्ञम् । ज्ञः पुरुषः । एतानि पञ्चविंशतितत्त्वानि । तत्र प्राधानं कारणमेव न कार्यम् । महदादयः सप्तपूर्वपूर्वस्य कार्याणि उत्तरोत्तरस्य कारणानि । इन्द्रियाण्येकादश पञ्च महाभूतानि कार्याण्येव न कारणानि । पुरुषस्तु न कार्यं न वा कारणम् । तदुक्तम् । मूलप्रकृतिरित्यादि । महान् अहंकारः पञ्च तन्मात्राणि सप्त प्रकृतिविकृतयः । प्रधानाद् बुद्धिर्जायत इति प्रधानविकारः सैवाहङ्कारं जनयतीति प्रकृतिः अहङ्करोऽपि बुद्धेर्जायत इति विकृतिः सोऽपि एकादशेन्द्रियाणि पञ्च तन्मात्राणि जनयतीति प्रकृतिः ।।
तत्र शब्दतन्मात्रमहकाराज्जायत इति विकृतिस्तस्मादाकाशं जायत इति शब्दतन्मात्रं प्रकृतिः ।
तथा स्पर्शतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव वायुं जनयतीति प्रकृतिः । एव रूपतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव तेजो जनयतीति प्रकृतिः ।रसतन्मात्रमहङ्काराज्जायत इति विकृतिस्तदेवम्भो जनयतीति प्रकृतिः । तथा गन्धतन्मात्रमहंकाराज्जायत इति विकृतिः तदेवावनिं जनयतीति प्रकृतिः ।।
एतानि पञ्च तन्मात्राणि सूक्ष्मभूतानि स्थूलभूतानां कारणानि षोडशक्श्च विकारः । पञ्च बुद्धिन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभूतानि एष षोडषको गणो विकार एव न प्रकृतिः । पुरुषस्तु नोभयमित्यर्थः ।।
प्रत्यक्षानुमानशब्दरूपं त्रिविधं प्रमाणम् । तत्र प्रत्यक्षं तावत् श्रोत्रादिपञ्चकं लोकोचितशब्दादिगुणग्राहकम् । अनुमानं चाप्रत्यक्षार्थग्राहकं धूमादि । शब्दस्तावत् त्रिविधे भवति वागिन्द्रियविषयः श्रोत्रविषयो बुद्धिमात्रविषयश्च । तेषु कण्ठताल्वादिस्थलावच्छिन्नः शब्दो वागिन्द्रियविषयः तत्कार्यत्वात् वागिन्द्रियव्यवहितश्रोत्रस्थश्च शब्दतः शब्दः श्रोत्रस्य विषयस्तद्ग्राह्यत्वात् । घट इत्यादिपदानि तु बुद्धिमात्रस्य विषयः वक्ष्यमाणयुक्त्या बुद्धिमात्रग्राहत्वात् ।।
तानि पदान्येवार्थस्य करणत्वात् स्फोट इत्युच्यते । तद्धि पदं वागिन्द्रियोच्चार्यप्रत्येकवर्णेभ्योतिरिक्तं वर्णानामाशुतराविनाशितया मलेनाभावेनैकं पदमिति व्यवहारगोचरत्वासम्भवात् अर्थस्मारकत्वासम्भवाच्च । एस्य च स्फोटस्य कारणमेकः प्रयत्नविशेषः प्रयत्नभेदेनोच्चारणे सति एकपदव्यवहाराभावादर्था-
प्रत्ययाच्च तस्य च स्फोटस्य व्यज्जक आनुपूर्वीविशिष्टतया अन्त्यवर्णप्रत्ययः अतश्च बुद्धेरेव स्फोटग्राहकत्वम् आनुपूर्व्या बुद्धैव ग्रहणसम्भवेन सामानाधिकरण्यप्रत्यासत्त्यैवानुपूर्वीप्रत्ययस्य स्फोटाख्यपदाभिव्यक्तिहेतुत्वे लाघवात् । अत एव स्फोटः श्रोत्रेण ग्रहीतुं न शक्यते घोत्तरटत्वादिरूपिण्या आनुपूर्व्याः श्रोत्रेण ग्रहमासम्भवात् आशुतरविनाशितया वर्णानां मेलनासम्भवात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतीनां चान्तःकरणनिष्ठानामन्तःकरणसहकारित्वस्यैवौचित्यादिति ।
स्यादेतत् स्फोटव्यञ्जकस्यानुपूर्वीविशिष्टचरमवर्णस्यैव पदत्वमर्थप्रत्यायकत्वं वास्तु अलं स्फोटेन तद्धेतोरेव तदस्त्विति न्यायात् । एतदेव सांख्यसूत्रेणोक्तं प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्द इति । एकत्वप्रत्ययोऽप्यानुपूर्वीविशिष्टचरमवर्णस्यैकत्वेनोपपद्यते ।।
अत्रोच्यते । एवं सत्यवयव्युच्छेदप्रसङ्गः । असमवायिकारणसंयोगविशेषा- वच्छिन्नानामवयर्वानामेव जलाद्याहरणहेतुत्वकल्पनायां लाघवात् तद्धेतोरेव तदस्त्विति न्यायासाम्यात एको घट इत्यादिप्रत्ययानामप्येकं वनमित्यादिप्रत्ययवदुपपत्तेः । अथ परमाणूनां तत्संयोगानां चान्तीन्द्रियतया तद्रूपत्वेऽवयाविनः प्रत्यक्षानुपपत्तिरित्यादिकमवयविसाधकमिति चेत् तुल्यं स्फोटेऽपि आनुपूर्व्याः क्षणाद्यतीन्द्रियघटिततया आनुपूर्वीविशिष्टचरमवर्णात्मकत्वं पदस्य प्रत्यक्षानुपपत्तिरित्यादिकं स्फोटसाधकमिति । अपि च स्फोटशब्दोऽस्माभिः श्रुतिप्रमाणेनैव स्वर्गादिवत् कल्प्यते इत्यतस्तत्र लौकिकप्रमाणाभावे ऽपि न क्षतिः ।।
तथाहि प्रणवस्याकारोकारमकाररूपमात्रात्रयं ब्रह्मादिदेवतात्रयात्मकमुक्त्वा प्रणवं देवतात्रयातिरिक्तपरब्रह्मात्मकं चतुर्थमात्रां श्रुतय आमनन्ति । सा चतुर्थी मात्रा वर्णत्रयादतिरिक्तः स्फोट एव सम्भवति सैव चार्द्धमात्रेत्युच्यते राशिवदविभक्तयोर्वर्णपदयोर्वर्णा एकमर्द्धं पदं चान्यदर्द्धमित्युपपद्यते । यथा चावयवेभ्योविविच्यावयवी न व्यवहार्यो भवति एवमेव प्रत्येकवर्णेभ्यो विविच्य पदमुच्चारयितुं न शक्यत इति । अतः स्मर्यते " अर्द्धमात्रा स्थिता नित्या यानुच्चार्या विशेषत " इति ।।
ननु स्यादेवमर्द्धमात्रोपपत्तिः । नादाबिन्दोस्तु किं स्वरूपम् उच्यते । प्रणवे उच्चार्यमाणे शङ्खनादवेणुनादादिवद्यः स्वरविशेषो भवति स नादः या च नादस्योपरमावस्था अतिसूक्ष्मा सा शून्यतुल्यतया बिन्दुरुच्यत इति । तस्मादवयवेभ्योऽवयवीव वर्णेभ्योतिरिक्तं पदं तदेव स्फोट इति सिद्धम् । नन्वेकं वाक्यमपि स्फोटः स्यादिति चेन्न बाधकाभावे सतीष्यतामिति दिक् ।।
शब्दस्तावत् यथोपदेष्टृपुरुषवाक्यलक्षणः इन्द्रो देवराडित्यादिः । अर्थापत्तिसम्भवाभावैतिह्यप्रतिभोपमानानि यदि प्रमाणानि तर्ह्यत्रैवान्तर्भाव्यानि न पृथक् । प्रकृतिपुरुषौ विद्यमानावपि नोपलभ्यते सूक्ष्मत्वात् यथाकाशे धूमोष्मनीहारपरमाणवः सन्तोपि नोपलभ्यन्ते । महदादिकार्यदर्शनेन तत्कारणमिव प्रधानमनुमीयते । त्रिगुणप्रधानजन्यं महदादिकार्यं किञ्चित्प्रकृतिसदृशं किञ्चिद्विकृतिसदृशं लोको उभयथा पुत्त्ररूपकार्यदर्शनात् । तच्च कार्यं सत् नासत् न सदसत् नानिर्वचनीयम् अत्यन्तासत्त्वे सिकताभ्योऽपि तैलमुत्पद्यते । अन्यौ च पक्षौ विरुद्धावेव अव्यक्तसञ्ज्ञं प्रधानं स्वतन्त्रं व्यापि नित्यं च व्यक्तसञ्ज्ञं कार्यमस्वतन्त्रमव्यापि अनित्यं च । पुरुषः स्वतन्त्रो व्यापी नित्यश्च । त्रयाणां लोकानां कारणं प्रधानं तच्चैकं लाघवात् । प्रलयकाले महदादिकार्यं प्रधाने लीयते । तच्च प्रधानं सत्त्वररजस्तमोमयम् । गुणत्रयसाम्यावस्था प्रकृतिः । प्रधानमचेतनं पुरुषस्तु चेतनः । व्यक्तप्रधानविलक्षणः शुद्धोगुणरहितः । कार्यस्य सुख-दुःखमोहजनकत्वेन तत्र कारणीभूतानि सत्त्वरजस्तमांसि अनुमेयानि । दृष्टं च यथाक्रमं भर्तृसपत्नीविटेषु सुखदुःखमोहजनकत्वं कामिन्याः । त्रिगुणमये ऽपि कार्यो यदा सत्त्वमुद्रिक्तं भवति जनादृष्टात् तदा रजस्तमसी अभिभूय स्वकार्यं सुखं जनयति । एवं यदारज उद्रिक्तं भवति तदा सत्त्वतमसी इभिभूय स्वकार्यं जनयति दुःखम् । एवं यदा तम उद्रिक्तं भवति तदा सत्त्वरजसी अभिभूय स्वकार्यं मोहं जनयति ।।
दुःखं त्रिविधम् आध्यात्मिकाधिभौतिकाधिदैविकभेदात् । तथाहि तत्र आध्यात्मिकं द्विरूपं शारीरं मानसं चेति । शारीरं तावत् वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं तु प्रियवियोगाप्रियसंयोगादिजम् । आधिभौतिकं तु चतुर्द्धाभूतग्रामनिमित्तं पशुपक्षिमृगमनुष्यसरीसृप- दंशयूकामत्कुणस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भिज्जेब्यो जायते । दिवः प्रभवति तद्दैवं तदधिकृत्य यज्जायते तदाधिदैविकं शीतोष्णवातवर्षाशनिपातजम् । समुदिततन्तवः पटमिव गुणसमुदायात्मकं प्रधानम् महदादिकार्यं जनयति । एकरसमपि यथा आकाशसलिलं वाप्यादौ पतितं सत् वाप्यादिसंश्लेषात् रसान्तरमापद्यते तथा एकरूपादपि प्रधावाद्देवादयः क्रमेण सुखिनो दुःखिनो अत्यन्तमूढाश्च भवन्ति । तथा
सत्त्वौत्कट्याद्रजस्तमसोरौदासीन्याद्देवाः अत्यन्तं सुखिनः । रजस औत्कट्यात् सत्त्वतमसोरौदासीन्यान्मनुष्याः अन्त्यन्तं दुःखिनः । तमस औत्कट्यात् सत्त्वरजसोरौदासीन्यात्तिर्यञ्चः भोग्यत्वात् पर्यङ्कवत् । महदादिसङ्घातः भोक्तृसापेक्षः भोग्यत्वात् पर्यङ्कवत् महदादिसङ्घः पराधीनः अचेतनत्वाते मालावत् एवं पुरुषोऽनुमीयते । स च नाना जन्ममरणकरणानां प्रत्येकं भेदात् । अयमर्थः । एकस्य मरणे सर्वे म्रियेरन् यद्येक एव आत्मा स्यात् एकस्य च जन्मानि सर्वे जायेरन् एकस्य करणवैकल्पे सर्वे करणवैकल्यवन्तः स्युः । न चैवं दृश्यते तस्मान्नाना । पञ्चविंशतितत्त्वगोचरसम्यग् ज्ञानात् पुरुषस्य कैवल्यं भवति । तच्चान्यत्वं प्रधानादिभेद इति यावत् । अविवेकात् संसारः विवेकात् कैवल्यम् । अर्थतः अख्यातिवादाङ्गीकारः । अत एव इदं रजतमिति ज्ञानं न भ्रमः किंतु स्वरूपतः अर्थतश्च अविविक्तं ज्ञानद्वयम् । यस्य यादृशमिदं रजतमिति रजतज्ञानविषयीभूतं तस्य तादृशमेव जगदिति निर्णयः ।।
अत एव वस्तुतस्तात्त्विकोऽन्यथाभावः परिणाम इत्येव लक्षणलक्षितः परिणामोऽङ्गाकृतः स च पुरुषः प्रतिशरीरं नानेत्यवादि स्म अविकारित्वात् । वस्तुतोऽकर्त्ता मुक्तवत् साक्षिवदुदासीनः । सत्त्वरजस्तमांसि कर्त्रूणि कर्माण्यपि भवन्ति । अकर्त्तापि पुरुषः कर्त्तेव व्यवह्रियते । अचोरष्चोरैः सह धृतश्चोर एव । गुणाभेदात् प्रकृतिः कर्त्री न पुरुषः । दर्शनशक्तिमतः क्रियाशक्तिरहितस्य पुरुषस्य प्रधानेन सह संयोगः मोक्षार्थं पुरुषस्य भिन्नत्वेन व्यक्ताव्यक्तपुरुषज्ञाने जाते प्रधानस्य मोक्षो भवति । नित्यविवेकग्रस्तत्वादसारम् । न च नित्यसुखगोचरस्याविद्यादियत्किञ्चिदावरणभङ्गः एव पुरुषार्थो वाच्यः सुखानुभवस्यैव पुरुषार्थत्वाच्चैतन्यनित्यत्वेनावरणस्यापि असम्भवाच्च । मोक्षे परमानन्दश्रुतिस्मृतयस्तु मोक्षशास्त्रपरिभाषामात्रा ।
दुःखमेवास्ति न सुखं यस्मात् तदुपलभ्यते ।
दुःखार्त्तस्य प्रतीकारे सुखसञ्ज्ञा विधीयते ।।
दुःखं कामसुखापेक्षा सुखं दुःखात्ययः स्मृतः ।।
इत्यादिस्मृतिभिर्दुःखनिवृत्तिरेव सुखत्वेन परिभाषिता । सांख्यसूत्रमपि दुःखनिवृत्तिर्गौण इति विमुक्तिप्रशंसा मन्दानामिति च । आनन्दावाप्तिस्तु गौणमोक्षो ब्रह्मलोके भवति इति पश्चात् कृतार्थयोः प्रधानपुरुषयोर्वियोगो भवति अन्धपङ्गुसंयोगवत् । तथाहि एकः पङ्गुरपरश्चान्धः द्वावप्येतौ दुष्टे पथि गच्छन्तौ महता सार्थेन सह दैवाद्वन्धुभिः परित्यक्तौ च यथायोगं गमनशक्तिदर्शनशक्तिरहितौ दर्शनार्थं गमनार्थं च संयुक्तौ भवंतः । तथा चान्धेन पङ्गुः स्कन्धमारोपितस्तद्दार्शितमार्गेणान्धो याति पङ्गुश्चान्धस्कन्धारूढः सन् याति । पश्चात् स्वस्वदेशप्राप्त्यनन्तरं कृतार्थौ सन्तो वियुक्तौ भवतः । तथा च प्रधानं पुरुषस्य मोक्षं कृत्वा निवर्त्तते । पुरुषो न प्रवर्त्तते नापि निवर्त्तते । द्रष्टा भोक्ता च पुरुषः । भोगश्चिदवसानता लक्षणः । न क्रियावेशात्मा स च पुरुषः अनाद्यविवेकात् संसरति । सच्छास्त्रश्रवणेन गुर्वनुग्रहेण च निर्विचिकित्सो विवेकज्ञाने जाते मुच्यते । प्रकृतिपुरुषसंयोगात् संसारः सज्जायते । स्त्रीपुरुषसंयोगादपत्यमिव प्रकृतेर्महत्तत्वं जायते । महत्तत्वाहदङ्कारो जायते । स च त्रिविधः वैकारिको भूतादिस्तैजसश्च । यो हि वैकारिकः स एव सात्त्विकः यो भूतादिः स एव तामसः । यो हि तैजसः स एव राजसः तत्र वैकारिकादहङ्कारादेकादशेन्द्रियाणि तदभिमानिन्यो देवताश्च जायन्ते तैजसादहंकारादेकादेशेन्द्रियगणस्तन्मात्रपञ्चकं च जायते । एतद्गणद्वयस्य यथासंक्य वैकारिकाद्भूतादेश्चाहंकाराज्जातत्वात् कथं पुनरुत्पात्तिरुच्यत इति चेच्छृणु ।
यदा रजस्तमसी अभिभूय सत्त्वगुण उत्काटो वैकारिकसञ्ज्ञां लऊमानोऽहंकारो ऽप्रवृत्तिधर्मा तैजसाहंकारं सहायाकृत्य प्रवृत्तिधर्माण्येकादशेन्द्रियाणि जनयति तदा तानि स्वसाहाय्यच्छलमधिगम्य तैजसस्वरूपेणापि कृतानीत्युच्यते । यदा च सत्त्वरजयी अभिभूय तमोगुणोत्कटोभूतादिस्तैजसाहंकारस्य रूपं सहायीकृत्य तन्मात्रपञ्चकं प्रवृत्तिधर्मकं करोति तदा तत्तन्मात्रपञ्चकं स्वसाहाय्येनैव तैजसेनापि कृतमित्युच्यते तस्मात् प्रवृत्तिधर्मकात् तत्तन्मात्रपञ्चकाद् भूतपञ्चकमुत्पद्यते । एष परिणामक्रमः वैकारिकादेकादशेन्द्रियाणि भूतादेस्तन्मात्रपञ्चकमिति।।
अयमर्थं । वैकारिकस्य भूतादेश्च स्वस्वप्रवृत्तिधर्मककार्यद्वयस्य यथासंख्यं जनने तैजसाहंकारस्य साहय्यम् । तैजसाहंकारस्य साहाय्यकरणादेव एतद्गणुद्वयलक्षणककार्यस्य प्रवृत्तिधर्मकत्वम् । बुद्धिजनकानीन्द्रियाणि बुद्धीन्द्रियाणि तानि चक्षुःश्रोत्रघ्राणरसनत्वगिन्द्रियाणि । तेषां च विषयाः रूपशब्दगन्धरस्पर्शाः । कर्म कुर्वन्तीति कर्मेन्द्रियाणि तानि च वाक्पाणिपादपायूपस्थानि । तेषां च विषयाः वाग्वदनादानगमनोत्सर्गानन्दाः । मनो बुद्धीन्द्रियं कर्मेन्द्रियं च यतो बुद्धीन्द्रियाणां वृत्तिं संकल्पयति कर्मेन्द्रियाणां च अत उभयात्मकं मनः । मनोऽपि विभु धर्माधर्मवासनाश्रयतः
प्रतिपुरुषमन्तःकरणं नित्यमाकाशवत् । न च प्रकृतिधर्मा एव सन्त्वदृष्टादय इति वाच्यम् अन्यनिष्टादृष्टादिभिरन्यत्र सुखदुःखाद्युत्पादेऽतिप्रसङ्गात् । तच्च नाणु संभवति योगिनां सर्वावच्छेदेन एकदाखिल,ाक्षात्कारासम्भवात् । न च योगिनां योगजधर्म एव प्रत्यासत्तिः स्यात् संयोगसंयुक्तसमवायादिलौकिकप्रत्यासत्त्यैवोपपत्तौ सन्निकर्षान्तरकल्पने मानाभावात् गौरवाच्च अन्योन्यव्यभिचाराच्च । साक्षात्करेष्ववान्तरजातिकल्पने जातिसाङ्कर्यात् अतिगौरवाच्च । योगिमते सर्वार्थग्रहणसमर्थस्यान्तः करणस्य तमआख्यावरणभङ्ग एव योगजधर्मादिभिः क्रियते सुषुप्तौ तमसो वृत्तिप्रतिबन्धकत्वसिद्धेरिति नाप्यन्तःकरणं मध्यमपरिमाणमात्रं सम्भवति प्रलये विनाशेनादृष्टाद्याधारतानुपपत्तेः अतः परिशेषतोऽन्तःकरणं विभ्वेव सिद्ध्यति तदुक्तं ।
चित्ताकांश चिदाकाशमाकाशं च तृतीयकम् ।
द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानते ।।
स्यादेतत् । अन्तःकरणस्य विभुत्वे परिच्छिन्नवृत्तिलाभस्यावरणेनोपपत्तावपि लोकान्तरगमनादिकं नोपपद्यते । अत एव सांख्यसूत्रम् " न व्यापकम मनः करणत्वा " दिति । तद्रतिश्रुतेरिति वेति किं चैवं सति लाघवात् चैतन्यस्यैवावरणकल्पनमुचितं किमर्थं विभ्वन्तःकरणं परिकल्प्यते तत्र ज्ञानप्रतिबन्धकमाचरणं कल्प्यते ।।
अत्रोच्यते । गतिश्रुतिस्तावत् आत्मनीवान्तःकरणेऽपि प्राणेन्द्रियाद्युपाधिनोपपद्यते कार्यकारणरूपेणान्तःकरण द्वैतात् । कार्यन्तःकरणस्य स्वतोऽपि गतिरूपपद्यते कार्यकारणरूपेणान्तःकरणद्वैतं च सांख्यैरप्येष्टन्यम् केवलकार्यत्वेन्तःकरणधर्मत्वं धर्मादीनामिति सांख्यसूत्रानुपपत्तेः । केवलनित्यत्वे च महदाद्युत्पत्तिसूत्रानुपपत्तेः यत्तुक्तं चैतन्यस्यैवावरणकल्पनं युक्तमिति तदयुक्तम् । कूटस्थचैतन्यस्य ज्ञानप्रतिबन्धरूपावरणासम्भवात् । न च चैतन्यस्यार्थसम्बन्ध एव प्रतिबिम्बादिरूपे प्रतिबन्धकं कल्पनीयमिति वाच्यम् एवमप्यात्मदर्शनानुपपत्तेः करणद्वारं विना स्वस्मिन् प्रतिबिम्बादिरूपेण स्वस्वस्मबन्धासम्भवात् । अपि च इच्छाकृत्याद्याधारतयान्तःकरणे सिद्धे स्वप्नादावन्तर्दृश्यमानघटादयोऽपि तस्यैवपरिणामाः कल्प्यन्ते कार्यकारणयोः सामानाधिकरण्यौचित्यात् । एवं च धटाद्याकारपरिणताश्चैतन्ये भासन्ते तदविभागेनैव वाह्यघटादिकं भासते ऽतस्तादृशपरिणामप्रतिवन्धकमेवावरणं तत्रैव युक्तं किञ्च वाह्यकरणस्यावरणदर्शनेनान्तरावरणस्यापि करणनिष्ठत्वं चानुमीयते आत्मनो ऽनावृतत्वं श्रुतिस्मृतिभ्यां चेति ।
नन्वन्तःकरणस्य विभूत्वे सति कथं कार्यत्वं स्यादिति चेन्न विभ्व्या अपि आकाशप्रकृतेः कार्याकाशरूपपरिछिन्नपरिणामवद् गुणान्तरसम्भेदेनान्तःकरणप्रकृतेरपि परिच्छिन्नान्तःकरणरूपपरिणामोपपत्तिः श्रुतिस्मृतिप्रामाण्याच्चैतदिष्यत इति दिक् ।।
मनसः सङ्कल्पो विषयः । एतान्योकादशवैकृताहंकाराज्जातानि इत्यवादि स्मैव बुद्धिप्रतिबिम्बतमर्थं पुरुष उपलभते । तदुक्तं बुद्धिस्थमर्थं पुरुषश्चेतयते । अहं धर्मं करिष्यामीत्यध्यवसायो बुद्धेर्लक्षणम् । धर्मो ज्ञानं विरागः एश्वर्यमेतत् सात्त्विकबुद्धेः । तद्विपरीतमविरागादि तामसम् ।।
पञ्चविंशतितत्त्वैरेव जागद्व्यहंकारमनोबुद्धीन्द्रियकर्मेन्द्रियप़ञ्चतन्मात्राणामष्टादशानां स मुदायः त्रयोविंशतितत्त्वमध्ये पञ्चभूतानि वर्जयित्वा अहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति वह्नेरिन्धनवदात्मनोभिव्यक्तिस्थानत्वात् । तच्च सर्वपुरुषाणां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्टति तेन चैवेह लोकपरलोकयोः संसरणं जीवानां भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात् पृथड् निर्दिश्यते तस्य च लिङ्गशरीरस्य सूक्ष्माणि पञ्च भूतानि आश्रयश्चित्रादिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात् ।।
इदं च लिङ्गशरीरमादौ स्वयंभुव उपाधिभूतमेकमेव जायते तस्यैव विराडाख्यवक्ष्यमाणस्थूल-
शरीरवत् ततश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते । पितुर्लिङ्गशरीरात् पुत्त्रलिङ्गशरीरवत् । तदुक्तं सूत्रकारेण । व्यक्तिभेदंः कर्मविशेषादिति मनुनाप्युक्तम् ।
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् । षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् तथा च स्वयम्भूः स्वलिङ्गशरीरवायवान् सूक्ष्मानल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्ज्जेत्यर्थ इति लिङ्गशरीरम् । स्थूलशरीरोत्पत्तिस्तु दशगुणितमहत्तत्त्वमध्येऽहंकारस्तस्यापि दशगुणितस्य मध्ये व्योम्नोपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथवी समुत्पद्यते सैव च स्थूलशरीरस्य बीजं तदेव च पृथवीरूपं वीजमण्डरूपेणपरिणमते तस्यापि दशगुणिताण्डरूपस्य पृथिव्यावणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवः
स्थूलशरीरं तत्संकल्पादेवोत्पद्यते तनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । तदुक्तं मनुना स्वयम्भुवं प्रकृत्य ।
सो ऽभिध्याय सरीरात् स्वात् सिसृक्षुर्विविधाःप्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ।।
तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम् ।
तस्मिन् यज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।।
स वै शरीरी प्रथमः सवै पुरुष उच्यते ।
आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ।।
आपो नारा इति प्रोक्ता आपो ै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।।
इत्यादिनेति ।
तत एव चादिपुरुषात् व्यष्टिपुर्षाणां विभागादन्ते च तत्रैव लयात् स एव चैक आत्मोति श्रुतिस्मृत्योर्व्यवह्रियते अतो न व्यवहारपरतया नारायण एव सर्वभूतानामात्मेत्यादिश्रुतिस्मृतिविरोध इति । ततश्च स नारायणो विराट् शरीरी स्वनाभिकमलकर्णिकास्थानीयस्य सुमरोरुपरि चतुर्मुखाख्यं स्वयम्भुवं सृष्ट्वा तद्द्वारन्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज तदुक्तम्---
तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ।
क्षेत्रज्ञाः समजायन्त गात्रोभ्यस्तस्य धीमतः ।। इति । त्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दैनन्दिनसर्गेष्वेव कल्पभेदेन मन्तव्यम् । दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशात् घटते न त्वादिसर्गेषु दैनन्दिनप्रलय एव लीलाविग्रहेण शयनादिति ।।
तदेवं संक्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिक्षयं प्रयोजनं चोक्तम् ।तत्र यद्यस्माज्जायते तस्य तदाऽऽपूरणेनैव स्थितिः ततस्तस्य संहारोऽपि तत्रैव भवति । तथा च भारते ।
यद्यस्माज्जायते तत्त्वं तच्च तत्र प्रलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ।। इति ।
एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्चतुर्विंशतितत्त्वानां कूटस्थपुरुषविवेकाय प्रदर्शिताः सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मर्यन्ते ।
नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च ।
कालेनालक्ष्यवेगेन सूक्ष्मत्वात् तन्न गृह्यते ।। इति ।
अतस्तु सर्वं जडवस्तु परमार्थतः सर्वदैवासदुच्यते । ततश्च तस्माद्विरज्य आत्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः तदुक्तम् ।
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहंकारविटप इन्द्रियाङ्करकोटरः ।।
महाभूतप्रशाखश्च विशेषप्रतिशाखवान् ।
सदापर्णः सदापुष्यः शुभाशुभफलोदयः ।।
आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परमासिना ।।
कृत्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी ।। इति ।
तदुक्तं--
इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतः खलु ।
हीनश्च करणैर्देही न देहं पुनरर्हति ।।
तस्मात्सर्वात्मकाद्रागाज्जायन्ते सर्वजन्तवः ।। इति ।
नरकादौ विशे।रागाभावे ऽपि सामान्यरागसत्त्वाद्रागस्य कर्मसहकारित्वं विपाकारम्भे तदेव सक्तः
सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्येति श्रुतावभिमानरागद्वेषादिजन्यस्य विषयवासनाख्यसङ्गसामान्यस्यैव जन्मादिविपाकारम्भे सहकारित्वसिद्धेः ।
यत्रयत्र मनो देही धारयेत् सकलं धिया ।
स्नेहाद् द्वेषाद् गुणाद्वापि याति तत्तत्सरूपताम् ।।
इति स्मृतेः ।
सोऽथ प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः ।
स्वतोऽन्यां विक्रियां मौढ्यादस्थितामञ्जसैक्षत ।।
अथासौ प्रकृतिर्नाहमियं हि कलुषात्मिका ।
शुद्धबुद्धस्वभावोऽहमिति त्यजति तां विदन् ।।
एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते ।
निखिला सविकारेयं त्यक्तप्राया हि चर्मवत् ।।
नन्वानात्मन्यात्मबुद्धिरूपा या ऽविद्या तस्याः कथमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदादिति चेत् न तादृशाविद्याया अनात्मविशेष्यकविवेकद्वारेणात्मविशेषकविवेकनाश्यत्वादिति । यच्च योगेन निर्विकल्पकमात्मज्ञानं जायते तद्विवेकज्ञानद्वारैव मोक्षकारणं भवति न तु साक्षात् । अविद्यानिवर्तकत्वाभावात् अहं गौरः कर्त्ता सुखी दुःखीत्यादिज्ञानमेव ह्यविद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्त्तिका नाहं गौर इत्यादिरूपा विवेकख्यातिरेव भवति समाने विषये ग्राह्याभावत्वप्रकारकग्राह्यभावज्ञानत्वेनैव विरोधात् अन्यथा मुक्तिनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः । किञ्च यथोक्ताभावज्ञाने ग्राह्यज्ञानविरोधित्वस्यावश्यकतया निर्विकल्पज्ञानस्य भ्रमनिवर्तकत्वं न पृथक् कल्प्यते गौरवात् ।।
अपि च अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्तीत्यादिश्रुत्या विवेकोपदेशापेक्षयोत्तम उपदेशो नास्तीत्युच्यते ।।
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ।।
इति गीतावाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमुच्यतेऽतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः । योगेन केवलात्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयोपाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राह्ययति ततो ऽविद्यानिवृत्तिरिति । एतेन सर्वभूतेषु समताज्ञानम् आत्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेकज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम् । ज्ञानान्तराणा साक्षादभिमानानिवर्तकत्वात् ब्रह्ममीमांसायां त्वयं विशेषो यत्परमात्मविवेकशे,त्वम् । सांख्यशास्त्रे तु सामान्यात्मविवेकशेषत्वमिति दिक् ।।
विवेकख्यतेस्त्वविद्यानाशकत्वमेव न तु शुक्तिरजतविवेकदर्शिन इव पुनर्भ्रमदर्शनात् प्रतिबन्धकत्वं दृष्टान्ते पटलकामादिदोषवाहुल्यात् पुनरुज्जीवनं भ्रमस्य । अत्र च अनात्मन्यात्माभिमानेऽनादिवासनैव दोषः सर्वास्तिकसंमतः जातमात्रस्याभिमाने दोषान्तरानुपलब्धेः सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराजन्यदृढवासनयोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोच्यते तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्याप्यात्मनि भानात् तस्यां च विवेकख्यातिनिष्ठायां जातायां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावादिति । यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिविम्बनादिकम्विवेककारणं दोष इष्यते तदा तु तं दोषं बाधित्वैव विवेकसाक्षात्कार उदित इति न तस्य पुनर्भ्रमहेतुत्वं फलबलेन योगजधर्मासहकृतस्यैव तस्य दोषत्वकल्पनासम्भवादिति । यद्यपि विवेकप्रतियोगिपदार्थानामानन्त्याद्विशेषरूपेण विवेकग्रहे न सम्भवति तथापि दृश्यत्वपरिणामित्वादिरूपैः सामान्यविवेकग्रहसम्भवात् प्रकृत्यादिपदार्थानां विशिष्टज्ञानाभावे ऽपि सामान्यतो विवेकख्यातेर्मोक्षहेतुत्वम् . तदुक्तम् ।
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।
देहद्रष्टा तदा देही नाहमित्यादिरूपतः ।। इति ।
आत्मा वा अरे द्रष्टव्य इत्यत्र तु न आत्मनो दृश्यत्वं वृत्तिव्याप्यत्वे ऽपि फलव्याप्यत्वरूपं यत्तु बौद्धैरपि सुखदुःखादिमत्त्नापि बुद्धिरनुभूयमाना स्वप्रकाशतया चैतन्यव्याप्या न भवति यथा वेदान्तिनामहमित्यनुभूयमानो
ऽप्यात्मा चैतन्याख्यफलव्याप्यो न भवतीत्युच्यते तन्निःप्रमाणत्वादुपेक्ष्यम् । तत्प्रधानादिसर्गे उत्पद्यते । अधर्मवशात् पश्वादौ धर्मवर्शाद्देवादौ संसरति । अतत्त्वज्ञानादेव धर्माधर्मोपरञ्जितं प्रलयकाले प्रधाने लीयते । यद्यपि प्रधानपुरुषौ विभू तथापि प्रकृतिरेव लिङ्गव्यवस्थां करोति । लिङ्गं सूक्ष्मैः परमाणुभिस्तन्मात्रैरुपचितं मानुषादिषु व्यवतिष्ठते नटवत् यथा नटः स्वरूपेण एकोपि वेषान्तरेण नानारूपः तथा लिङ्गमुदरान्तः प्रविश्य हस्ती स्त्री पुमानिति भवति पञ्चविपर्ययसंज्ञा भवति यथा तमो मोहो महामोहस्तामिश्रोऽन्धतामिश्र इति । धर्मेण प्राजापत्याद्यूर्ध्वलोकप्राप्तिः । अधर्मेण पश्वादिप्राप्तिरज्ञानेन बन्धः पञ्चविंशतितत्त्वज्ञानेनापवर्गः । तञ्च तत्त्वज्ञानं गुरोः सकाशात् शास्त्रश्रवणेनैतादृशं जायते । तथाहि प्रधानादन्यः पुरुषः अन्या बुद्धिः अन्याऽहंकारः अन्यानि तन्मात्राणि इन्द्रियाणि पञ्चमहाभूतानि चेति । सर्वं कार्यं त्रिगुणात्मकमपि उद्रिक्तगुमापेक्षया सात्त्विकादिशब्दव्यपदेशभाक् चेतनः पुरुषः नानायोनिषु जरामरणकृतं दुःखं चेतयते प्राप्नोतीत्यर्थः । यावत् तत्त्वज्ञानेन लिङ्गशरीरं न निवर्त्तते तावत् स्थूलं शरीरं प्रतिजन्म नूतनं जायते नश्यति च । स्वप्रयोजनाभावेऽपि प्रत्युपकारनिरपेक्षं सुमित्रवत प्रधानं महदादिविषयभूतपर्यन्तं कार्यं पुरुषस्य भोगाय मोक्षाय चारभते प्रकृतिः पुरुषस्य भेदेन बुद्ध्यहंकारादि दर्शयित्वा निवर्त्तते । यथा नर्त्तकी शृङ्गारादिरसैर्हास्यादिभावैश्च निबद्धगीतादीनि रङ्गस्यदर्शयित्वा निवर्त्तते कृतार्थत्वात् तद्वत् । किञ्च प्रकृतिर्गुणवती अगुणस्य पुंसः जगद्योनिभावेन सुखदुःखमोहात्मकेन शब्दादिविषयभावेन वेत्येवंविधैरुपकाररैनुपकारिणः पुरुषस्योपकुर्वती पश्चादात्मनं प्रकाश्य अहमन्या त्वमन्य इति निवर्तते सुमित्रवत् आत्मनः प्रत्युपकारं नेच्छति ।
सर्गस्य नेस्वरः कारणं न स्वभावो न कालः कालोऽपि योगिनां क्षणरूप एव न तु न्यायवैशेषिकयो रिवात्मवदखणडो नित्य एको लाघवात् स एव तत्तदुपाध्यवच्छिन्नः सन् क्षणमुहूर्तादिवत्सरान्तं व्यवहारं करोतीति । न तु क्षणनामा पृथक् पदार्योऽस्तीति ।।
सांख्यैस्तु दिक्कालावाकाशादिभ्य इति सूत्रितं महाकालो वा क्षणादिर्वा पृथक् पदार्थो नास्ति किन्त्वाकाशमेवोपाधिभिर्विशिष्टं क्षणादिमहाकालान्तव्यवहारं कुरुते इति मन्यते । तदेतन्मतद्वयमप्यसमञ्जसमित्याह योगी स्थिरेण केनाप्युपाधिना महाकालाकाशाभ्यां क्षणव्यवहारस्यासम्भवात् । तथाहि उत्तरदेशसंयोगावच्छिन्ना परमाण्वादिक्रिया अन्यद्वा एतादृशं किञ्चिन्महाकालाकाशयोः क्षणरूपतायामुपाधिः परैरिष्यते तत्र उक्तं संयोगविशिष्टक्रियादिकं चेत् विशेष्यविशेषणतत्सम्बन्धमात्रं तर्हि त्रयाणामपरैःस्थिरत्वाभ्युपगमात् न तैः क्षणव्यवहारः सम्भवति यदि च त्तेभ्योऽतिरिक्तमिष्यते न तु तन्महाकाल आकाशं वा तनैव क्षणव्यवहारोपपत्तौ तदवच्छिन्नस्यान्यस्य-
क्षणव्यवहारहेतुत्वकल्पनावैयर्थ्यात् स च विशिष्टादिरास्थिरः क्षणः प्रकृतेरेवातिभङ्गुरः परिणामविशेष इत्यतो न प्रकृतिपुरुषातिरिक्तत्वापत्तिः । तस्यैव क्षणस्य प्रचयविशेषैर्मुहूर्ताहोरात्रादिर्द्विपरार्द्धान्तव्यवहारो भवति न त्वखण्डो महाकालोऽस्ति प्रमाणाभावात् अद्यत्यादिव्यवहारः क्षणप्रचयेनैव कालनित्यत्वश्रुतिस्मृतयस्तु प्रवाहनित्यतापरा इति तस्मादावश्यकत्वात् क्षमात्मक एव कालो नाखण्डो महाकालोऽस्ति नाप्याकाशं कालव्यवहारहेतुरिति किं तु प्रधानम् । पुरुषो न वध्यते न मुच्यते नापि संसारतीति किं तु नानाश्रया प्रकृतिरेव तथेति सर्वं समञ्जसम् (1)* ।।
इति कान्यकुब्जश्रीषिमानन्ददीक्षितविरचितं
सांख्यतत्त्वविवेचनं समाप्तम् ।।
*(1) अत्रादर्शपुस्तके समाप्तिसूचकं पुष्पिकादिवाक्यं नास्ति किन्तु अतः कश्चित् पाठोऽपि नास्तीति ग्रन्थसमाप्तिरनुमीयत इति । इदं पुस्तकं च ग्रन्थकर्तुरेवेति भूमिकायां निरुपयिष्यते ।।
                                           
अथ तत्त्वयाथार्थ्यदीपनम् ।
श्रीभावागणेशविरचितम् । श्रीकृष्ण्चन्द्राय नमः ।।
पुरुषः स जयत्याद्यः सा च प्रकृतिरीश्वरी* ।
याभ्यां संसृज्य सृज्यन्तेऽनन्तब्रह्माण्डकोटयः ।। 1 ।।
* प्रकृतिः सा जायत्यजा-- पा0 1 पु0 ।
कपिलासुरिपञ्चशिखान् गुरून् विज्ञानाचार्यवर्थांश्च ।
प्रणमामि बुद्धिवृद्धयै सिद्धयै वा सर्वकार्याणाम् ।। 2 ।।
समाससूत्राम्यालम्ब्य व्याख्यां पञ्चशिखस्य च ।
भावागणेशः करपते तत्त्वयाथार्थ्यदीपनम् ।। 3 ।।
तत्र तावद्विविक्तपुरुषज्ञानं मोक्षसाधनमिति । येभ्यो विवेक्तव्यो यश्च विवेचनीयः तदुभ्यं सूत्रत्रयेणो द्दिशति * ।
* लक्षणपरीक्षादिकं तु सांख्यप्रवचनेनैव कर्त्तव्यमित्याचार्याशयः ।
अष्टो प्रकृतयः । प्रकर्षेण कुर्वन्तीति प्रकृतयः । तत्त्वान्तरारम्भकत्वं प्रकृतित्वमिति सामान्यलक्षणम् । ताश्च अव्यक्तबुद्ध्यहंकार* पञ्चतन्मात्ररूपाः । तत्राव्यक्तं नित्यं शब्दादिगुणशून्यं सत्त्वादिगुणत्रयं च । साम्यावस्थोपलक्षिता गुणाः प्रकृतिरित्येकं लक्षणं च । अकार्या गुणा इत्यपरम् । तथा प्रकृतिपर्याया अव्यक्तं प्रधानं ब्रह्म अक्षरं क्षेत्रं तमः माया ब्रह्मी विद्या अविद्या प्रकृतिः शक्तिः अजा इत्यादयः । सत्त्वादिगुणवती सत्त्वाद्यतिरिक्ता प्रकृतिरिति तु न शङ्कनीयम् । किन्तु गुण एव प्रकृतिः । सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सांख्यप्रवचनसूत्रेण सत्त्वादीनां प्रकृतिस्वरूपत्वहेतुना प्रकृतिधर्मत्वप्रतिषेधात् । प्रकृतेग्रुण इत्यादिवाक्यं तु वनस्य वृक्षा इतिवद् बोद्धव्यम् । " सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा" इति प्रकृतिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरमेव । महदादिसृष्टिर्हिगुणवैषम्याच्छूयते तच्च वैषम्यं सजातीयसंवलनेन प्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः कारणगुणानां परिणाम इति । एतेनाष्टाविंशतितत्त्वपक्षोऽप्युपपादितो मन्तव्यः । सत्त्वादित्रयं च द्रव्यत्वेऽपि पुरुषोपकरणत्वाद् गुणा इत्युच्यन्ते । द्रव्यत्वं चैषां संयोगविभागादिमत्तया उपादानकारणत्वेन सिद्धम् । एषां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् । मनसः संकल्पात्मकत्ववत् । तानि च सत्त्वादीनि प्रत्येकं संख्याव्यक्तिकानि लघुत्वादिधर्मैरन्योन्यं साधर्म्यं तेनैव वैधर्म्यं च गुणानामिति सांख्यप्रवचनसूत्रात् । अत्र हि सूत्रं लघुत्वादिना बहूनां सत्त्वानां सामर्थ्यं तेनैव रजस्तमोभ्यां वैधर्म्यम् । एवं च लघुत्वादिना वहूनां रजसां गुरुत्वादिना वहूनां तमसां साधर्म्यवैधर्म्ये उक्ते इति । तेषु त्रित्ववचनं तु सत्त्वत्वादिविभाजकोपाधित्रयेमैव वैशेषिकाणां नवद्रव्यवचनवदिति । तानि च सत्त्वादीनि यथोपयोगमणुविभुपरिमाणकानि । मध्यमपरिमाणत्वे ऽनित्यत्वापत्तिः । सर्वेषां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तिः । आकाशप्रकृतेर्विभुत्वस्यैवौचित्यात् । ननु प्रकृतेश्वापरिच्छिन्नत्वैकत्वाक्रियत्वमिति सांख्यसिद्धान्तः । स च विरपध्यत इति चेत् मैवम् गन्धस्य पृथिवीव्यापकत्ववत्प्रकृतेर्व्यापकत्वम् । तच्च प्रकृतित्वस्य दैशिकाभावप्रतियोगितानवच्छेदकत्वम् । एकत्वं च सर्गभेदेन नानात्वाभावः । अक्रियत्वं चाध्यवसायाभिमानादिप्रतिनियतक्रियाराहित्यम् । अन्यथा श्रुतिस्मृतिसिद्धप्रकृतिक्षोभस्यानुपपत्तेरिति । प्रकृत्यनुमानं चेत्थं * महदादिकार्यं पक्षः सुखदुःखमोहात्मकद्रव्यकार्यमिति साध्यं कार्यत्वे सति सुखदुःखमोहात्मकत्वादिति हेतुः वस्त्रादिकार्यशय्यासनवदिति दृष्टान्तः । श्रुतिस्मृती चात्रानुग्रहकस्तर्कः ।।
*महदहङ्कार--पा0--2 पु0
* चेदं--पाद 1 पु0 ।
ननु सुखस्यान्तरेवानुभवात् शय्यासनादौ सुखे किं प्रमाणं येन दृष्टान्तता स्यादिति चेन्न कारणगुणा हि कार्यगुणानारभन्ते इति न्यायेन विषयेषु त्रिगुणकार्येषु सुखदुःखमोहसिद्धेः घटरूपमिति* प्रत्ययवत् चन्दनसुखं स्त्रीसुखमित्यादिसुखप्रत्ययादपि विषये सुखाद्युचितं सुखदुःखोत्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिध्यति अन्तःकरणसुखादिहेतुतयापि विषये सुखादिकं सिद्ध्यति । कालादिभेदैरेकस्या एव च्यादिव्यक्तेः सुखदुःखोत्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिद्ध्यति ।।
इति मूलप्रकृतिनिरुपणम् ।।
* पटरूपमिति --पा0 2 पु0 ।
अथ बुद्धिर्निरपप्यते । त्रिगुणात्मकमाद्यं कार्यं बुद्धिरित्येकं लक्षणम् । तस्या धर्मज्ञानवैराग्यैश्वर्याख्यप्रकृष्टगुणयोगात् महत्सञ्ज्ञा तदपि तृतीयं लक्षणम् । तस्यांः पर्यायाः । मनो मतिर्महान् ब्रह्मा पूर्वं बुद्धिर्वृत्तिः ख्यातिः प्रज्ञा सन्तातिः स्मृतिरिति । अनुस्मृतौ च । महानात्मा मतिर्विष्णु*र्जिष्णुः शम्भुश्च वीर्यवान् । बुद्धिः
प्रज्ञोपलब्धिश्च तथा ब्रह्मावृत्तिः स्मृतिः ।।
* मनुर्विष्णुः-पा0 2 पु0 ।
पर्यावाचकैरेतैरेमहानात्मा निगद्यते ।
सर्वतः पामिपादश्च सर्वतोऽक्षिशिरोमुखः ।।
सर्वतः श्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति * ।
ज्ञानवन्तश्च ये केचिदलुब्दा जितमन्यवः ।।
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत ।
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ।। इति ।
* सर्वमावृत्त्य तिष्टति-पा0 2 पु0 ।
इदमेव महत्तत्त्वमंशतो रजस्तमःसम्भेदेन परिणतं सत् व्यष्टिजीवनामुपाधिरधर्मादियुतं क्षुद्रमपि भवति ।
महदुपरागाद्विपरीतमिति सांख्यप्रवचनसूत्रात् । महदहंकारमनास्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्त्वमङ्कुरावस्थेति । अत्र प्रकृतेर्महानित्यादिसृष्टिक्रमे शास्त्रमेवप्रमाणम् । इदमेव महत्तत्त्वं कार्येश्वरस्य स्वयम्भुव उपाधिस्तेनैवोपाधिना स सर्वज्ञः सर्वेश्वरः सर्वकर्त्ता सर्वपालकः सर्वसंहर्त्ता च मात्स्ये ।
सविकारत् प्रधानात् तु महत्तत्त्वमजायत ।
महानिति यतः ख्यातिर्लोकानां जायते सदा ।।
गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विजज्ञिरे ।
एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।। इति ।
स च स्वयम्भूः क्रिवाशक्तिमत् केवलमहत्तत्त्वोपाधिकः सूत्रात्मेत्युच्यते । स एवार्द्धसुषुप्तावर्द्धलयाचत् प्राज्ञ इत्युच्यते । समग्रसुषुप्तौ तु समग्रलयेन निर्विशेषचिन्मात्रस्वरूपेणावस्थानादीश्वर इत्युच्यते श्रुतिस्मृतिपुराणेषु स च महांस्त्रिधा तदुक्तं वैष्णवे ।
सात्त्विको राजसश्वैव तामसश्च त्रिधा महानिति । ब्रह्मशङ्करोपक्षयाप्यादौ विष्णुरेवाविर्भवतीत्यर्धेनोक्तम् । पूर्वोक्तधर्मादिषु धर्मेणोर्ध्वगमनमूर्ध्वगमनेन भोगस्थानान्युपलक्ष्यन्ते। तेन पातालभूस्वर्गादीनामपि संग्रहः । ज्ञानेन मोक्षः वैराग्येण प्रकृतिलयः पुरुषतत्त्वानभिज्ञस्य वैराग्यात् प्रकृतिलयो भवति । तथा चोक्तं पुराणे ।
प्रकृतिचिन्तकानधिकृत्य " पूर्ण शतसहस्त्रं तु तिष्ठन्ति विगतज्वरा" इति । अत्र प्रकृतिग्रहणेन महदहंकारभतेन्द्रियाण्यपि गृह्यन्ते । तत्र वैराग्यपूर्वकं तेषु तेष्वात्मभावेनोपास्यमानेषु लयो हि प्रकृताविति च श्रूयते । पूर्ववाक्यानन्तरमेव ।
दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्त्रं त्वाभिमानिकाः ।।
  बौद्धादश सहस्त्राणि तिष्ठन्ति विगतज्वराः ।। इति च ।
अयं च प्राकृतिको बन्ध इति । एश्वर्येणाप्रतिघातः ऐश्वर्यं चाणिमादिसिद्धयः ।
इति बुद्धिर्व्याख्याता ।।
अहङ्कारो व्याख्यायते । महत्तत्त्वादहङ्कार उत्पद्यते अहङ्काराच्छाखावत् । तस्य चाहमाकारवृत्तिमत्तादहङअकार इति संज्ञा । अहंवृत्तिमदन्तःकरणमहङ्कार इत्येकं लक्षणम् । एकादशेन्द्रियोपादानत्वं द्वितीयं लक्षणम् । तन्मात्रोपादानत्वं तृतीयं लक्षणम् । तस्य च पर्यायाः ।
अहङ्कारेऽभिमानश्च कर्त्ता मन्ता च स स्मृतः ।
आत्मा च प्रकुलो जीवो यतः सर्वाः प्रवृत्तयः ।। इति ।
कौर्मप्रोक्ता इविशेषा इति च । स चाहङ्कारस्त्रिविधः । तदुक्तं कौर्मे ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहङ्कारो महतः सम्बभूवह ।।
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ।
एकादशं मनश्चात्र स्वगुणेनोभयात्मकम् ।।
भूततन्मात्रसर्गस्तु भूतादेरभवत् प्रजा ।। इति ।
वैकारिकः सात्तविकस्तैजसो राजसः । स्वगुणेन सर्वेन्द्रियेषु साहाय्यरूपेणोत्कर्षेणोभयात्मकं ज्ञानकर्मेन्द्रियोभयात्मकमित्यर्थः । इन्द्रियदेवताश्च दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकामचन्द्रश्चेति एकादश ।
इत्यहंकारनिरूपणम् ।।
अथ तन्मात्रा उच्यन्ते । शब्दस्पर्शरूपरसगन्धा निर्विशेषस्तद्वन्ति सूक्ष्मभूतानि तन्मात्राः । निर्विशेषशब्दादिगुणवद् द्रव्यं तन्मात्रा इति सामान्यलक्षणम् । अहंकारोपादानत्वे सति तत्त्वान्तरारम्भकत्वं द्वितीयं लक्षणम् । तत्तन्निर्विशेषगुणवत्त्वं तत्तन्मात्रलक्षणम् । तानि च पञ्च शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति। शान्तघोरमूढाः पञ्चस्वपि विशेषाः शब्दत्वस्पर्शत्वादिव्याप्या जातिविशेषा एव । शब्दे तु उदात्तानुदात्तस्वरिताः निषादर्षभागान्धारषड्जमध्यमधैवताः पञ्चमश्चेति स्वराः । स्पर्शे शीतोष्णत्वे । रूपे शुक्लत्वादयो विशेषाः । ते च श्वेतपीतरक्तश्यामहरितकपिशाः। रसे मधुरत्वादयो विशेषास्ते च मधुरतिक्तकषायकट्वम्लक्षाराः षड्साः
गन्धे सुरभित्वासुरभित्वे । एतैर्विशेषै रहिता अविशेषास्तद्वन्ति द्रव्याणि तन्मात्राः । तेषां पर्यायाः तन्मात्राणि तमोविग्रहाः सूक्ष्मविग्रहाः सूक्ष्मभूतानि अविशेषा इति ।।
इति प़्च तन्मात्राः ।।
एवमष्टौ प्रकृतयो व्याख्याताः ।।
षोडसविकार इति द्वितीयं सूत्रम् । एकादशेन्द्रियाणि पञ्चमहाभूतानि च एते षोडश विकाराः । तत्र
श्रोत्रात्वक् चक्षुर्जिह्वाघ्राणानि स्वस्वविषयकबुद्धिजनकत्वात् पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि स्वस्वकर्मकरणात् पञ्च कर्मेन्द्रियाणि । तत्र उच्चारणं वाचः हस्तेयोरादानं पादयोर्गतिः पायोरूत्सर्गः उपस्थस्यानन्दः । सर्वसहायत्वादुभयात्मकं मनः । एतान्योकादेशेन्द्रियाणि । तत्त्वान्तरानारम्भकत्वे सति अहंकारोपादानत्वमित्येकं* लक्षणम् । अहंकारोपादानकत्वेसति शरीरसंयुक्तं क्रियाकारणमतीन्द्रियमिन्द्रियमिति द्वितीयम् । अथ पर्यायाः इन्द्रियाणि करणानि निपातनानि* वैकारिकाणि तैजसानि ।
इतीन्द्रियनिरुपणम् ।।
* अहंकारमात्रोपादानकत्वमिन्द्रियत्वमित्येकं -पा0 2 पु0 ।
* नियतानि-पा0 1 पु0 ।
अथ महाभूतानि । पृथिव्यप्तेजोवाय्वाकाशमिति । सविशेषशब्दादिमत्वं महाभूतत्वमित्येकं लक्षणम् । तत्त्वान्तरानारम्भकत्वे सत्यारम्भकत्वं द्वितीयं लक्षणम् । सविशेषशब्दगुणवत्त्वमाकाशस्य* लक्षणम् । सविशेषशब्दस्पर्शवत्त्वं वायोर्लक्षणम् । सविशेषशब्दास्पर्शरूपवत्त्वं तेजसः । सविशेषशब्दस्पर्शरूपरसवत्त्वमपाम् । सविशेषशब्दास्पर्शरूपरसगन्धवत्त्वं पृथिव्याः । एतानि विशेषलक्षानि । एतानि पञ्च महाभूतानि परस्परोकारिणि । अथामीषां पर्यायाः । भूतानि विकारा विशेषा आकृतयः तमोविग्रहाः शान्ता घोरा मूढा इति ।
इति षोडशविकारा व्याख्याताः ।
* गुणकत्वामाकास्य--पा- 1 पु0 ।
पुरुष इति तृतीयं सूत्रम् । अनादिः सूक्ष्मश्चेतनः सर्वगतः निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ता क्षेत्रवित् अमनः प्रसवधर्मा चेति स्वरूपम् । कूटस्थनित्य इत्येकं लक्षणम् । मुख्यभोक्तृत्वमित्यपरं लक्षणम् । वृत्तिसाक्षित्वमिति तृतीयं लक्षमम् । अथ प्राययाः पुरुष आत्मा पुमान् पुद्गलजन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः ज्ञः यः कः स एक इति । एवमेतानि पञ्चविंशतितत्त्वानि एतज्ज्ञानात् कृतकृत्यो भवति । तथा चोक्तं पञ्चशिखेन प्रमाणवाक्यम् ।
पञ्चविंशतितत्त्वज्ञो यत्न कुत्राश्रमे स्थितः ।
जटी मुण्डी शिखी वीपि मुच्यते नात्र संशयः ।।
स च पुरुषो नाना सुखदुःखमोहजन्ममरणबन्धमोक्षव्यवस्थातः जन्मादिव्यवस्थातः
पुरुषबहुत्वमिति सांख्यप्रवचनसूत्रात् । यद्येकः पुरुषः स्यादेकस्मिन् सुखिते सर्वे सुखिताः स्युः एवं सर्वत्र एवं पुरुषबहुत्वं सिद्धम् ।एवं तावत् साख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो यस्मात् परं नापरमस्ति कीञ्चिदिति न्यायवैशेषिकाश्च बहून् पुरूषानात्मत्वेन वदन्ति । औपनिषदाश्चाचार्या हरिहरहिरण्यगर्भव्यासादयःएभ्योऽतिरिक्तमेकमेव नित्येश्वरं सर्वेषामात्मानां वदन्ति । कस्मोदेवं पुरुष एवेदं सर्वमिति । तदेवाग्निस्तदादित्य इति । तदक्षरं तद्विभुर्वरेण्यं यस्मात् परं नापरमस्ति किञ्चित स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च वसत्येको महानात्मा येन सर्वमिदं ततम् ।
ब्राह्मणे कृमिकीटेषु श्वपाके गवि ङस्तिनि ।
पशुगोदंशमशके रूपं पश्यन्ति सूरयः ।।
एकमेव यथा सूत्रं सुवर्णे वर्त्तते पुनः ।
मुक्तामणिप्रवालेषु मृण्मये रजते तथा ।।
तद्वत् पशुमनुष्येषु तद्वद्धस्तिमृगादिषु ।
एकोऽयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ।।
इत्यादि प्रमाणेभ्यः । सांख्यास्तु आदिपुरुषविषयतया लयावशिष्टनिर्विशेषचिन्मात्रविषयतया वा एतानि श्रुतिवाक्यानि योजयन्ति ।
इति पुरुषनिरूपणम् ।
एवं पञ्चविंशतितत्त्वानि व्याख्यातानि ।
सांख्यकारिका च ।
मूलप्रकृतिरविकृति-
र्महादाद्यः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो
न प्रकृतिर्न विकृतिः पुरुषः ।। इति ।
इदानीं प्रथमसूत्रेणैव गुणात्मकप्रकृतेरुद्दिष्टत्वेऽपि गुणानामवान्तरविभागं तद्दर्मांश्च विवेचयितुं वक्ष्यमाणसञ्चरप्रतिसञ्चरोपोद्घातसङ्गत्या* च सूत्रं प्रवर्त्तते ।
* चिन्तां प्रकृतसिद्द्यर्थामुपोद्घातं विदुर्बुधा इति ।
त्रैगुण्यमिति चतुर्थं सूत्रम् । सत्त्वरजस्तमासित्रयो गुणाः तेषां समाहारस्त्रिगुणं त्रिगुणमेव त्रैगुण्यम् । तत्र सत्त्वं नाम प्रकाशलाघवप्रसन्नताभिष्वङ्गप्रीतितितिक्षादिलक्षणमनन्तभेदम् समासतः सुखात्मकम् । रजो नाम शोकतापस्वेदस्तम्भोद्वेगोन्मादादिलक्षणमनन्तभेदं समासतो दुःखात्मकम् । तमो नाम अदानापुण्यदैन्यगौरवालस्य-
निद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहत्वकम् । एतेषां लक्षणानि ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्त्तकम् ।
तमो लयात्मकं विद्यात्रैगुण्यं नाम संज्ञितम् ।।
एते त्रयो गुणाः सर्वे उत्पत्तिस्थितिलयहेतवः ।।
इति त्रैगुण्यं व्याख्यातम् ।
इदानीं सगुणनिर्गुणश्रुतिविषयोपपत्त्यर्थं सर्गादावुत्पन्नं स्वयम्भुवं प्रलयावशिष्टनिर्विशेषचित्सामान्यं च दर्शयितुं सृष्टिप्रलययोः सूत्रद्वयं प्रवर्तते । सञ्चरः प्रतिसञ्चरः प्रलयः । तत्र सृष्टिर्यथा ।
अव्यक्ताख्या प्रकृतिः प्रवृत्तिस्वभावा स्वतन्त्रा च । सर्गादौ स्वयमेव क्षुब्धा सती भविनारायणबीजभूता पूर्वकल्पे स्वयम्भूपालकेन नामकेन व्यक्तेन नारायणपुरुषेण संयुज्यते ततश्च सजातीयैरन्यैः प्रकृत्यंशैर्न्यूनाधिकभावेन मिलिता सती चेतनाचेतनात्मकं महत्तत्त्वमारभते । ननु पुरुषस्य प्रकृतिसंयोगित्वे असंयोगो ह्ययं पुरुष श्रुतिविरोध इति चेन्न विकारहेतुसंयोगस्यैव सङ्गशब्दार्थत्वात् अन्यथा श्रुतिस्मृतिषु जलसंयोगिनोऽपि पद्मपत्त्रस्याऽसङ्गतादृष्टान्तता न स्यात् । तत्र महत्तत्वस्य स्वरूपेण मुख्योत्पत्तिः चेतनस्य तु अभिव्यक्तिरूपा कार्यता । योगभाष्ये व्यासधृतवाक्यान्नवधा कार्यता ।
उत्पत्तिस्थित्पभिव्यक्तिविकारप्रत्ययाप्तयः ।
वियोगान्यात्वधृतयः कारणं नवधा स्मृतम् ।। इति ।
एवमादिशक्तिरपि चेतनविशेषो महत्तत्त्वकारणीभूतगुणत्रयसम्बन्धात् स्वयम्भवाप्यादावुत्पद्यते ।
उत्पत्तौ च प्रमाणं प्रयोगसारे ।
तस्माद्विनिर्गता नित्या सर्वगा विष्णुसम्भवा ।। इति ।
वायवीयसंहितायां च ।
शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता ।
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ।। इति ।
पञ्चरात्रे ऽपि ।
एवमालोक्य तां शक्तिं सच्चिदानन्दरूपिणीम् ।
समस्ततत्त्वसन्धामस्फूर्त्यधिष्ठानरूपिणीम् ।
व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् ।। इति ।
प्रादुरासीज्जगन्माता वेदमाता सरस्वती ।
गुणत्रयमयी शक्तिर्मूलप्रकृतिसञ्ज्ञिता ।।
तस्माहं समुत्पन्नस्तत्त्वैस्तैर्महदादिभिरित्यादिशिववाक्याच्च । सैव प्रकृत्यधिष्ठात्री देवता महालक्ष्मी अम्बा भवानी हैमवती दुर्गा इत्यादिपदैरभिलप्यते पुराणादिषु । सैव च लीलाविग्रहैरादिपुरुषेण मिलिता सती सृष्टिं पालयति । तदुक्तं शङ्काराचार्यैः ।
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु सुशलः स्पन्दितुमपि । इति ।
एवं सर्वतत्त्वानां तत्तद्देवतानां च सहैवोत्पत्तिर्ज्ञेया । उत्पत्तिक्रमस्तु निरूपणक्रमेणैव । एतस्मान्महतो गुणान्तरसंवलितात् त्रिविधोऽहङ्कार उत्पद्यते चेतनाचेतनात्मकः वैकारिको राजसस्तामसश्चेति । ततश्चाहङ्कारात् सङ्कल्पपूर्वकं देहेन्द्रियाणि पञ्च तन्मात्राणि चोत्पद्यन्ते । स्वयम्भुव इन्द्रियाणि देवतारूपाणि वैकारिकात् व्यष्टिन्द्रियाणि च तैजसात् तेष्विन्द्रियेष्वादौ मन उत्पद्यते ।
शब्दारागच्छोत्रमस्य जायते भावितात्मनः ।
रूपरागात् तथा चक्षुर्घाराणं गन्धजिघृक्षया ।।
इत्यादिना मोक्षधर्मादौ श्रोत्रादीनां मनोवृत्तिरागादिकार्यत्वश्रवणात् । इन्द्रियतन्मात्रयोश्च कार्यकारणभावस्याभावात् क्रमनियमो नास्ति । सत्रेन्द्रियेषु नास्त्यवान्तरकार्यकारणभावः प्रामाणाभावात् । तन्मात्रेषु त्वस्ति स यथा अहंकाराच्छब्दतन्मात्रं तस्मादहंकारोत्पन्नाच्छब्दतन्मात्रादहंकारसहितात् स्पर्शतन्मात्रं शब्दस्पर्शोभयगुणकम् । एवं क्रमेणैकैकगुणवृद्ध्यातन्मात्रत्रयमुत्पद्यते । ततश्च तन्मात्रेभ्यः पञ्च महाभूतानि जायन्ते । तत्राहङ्कारात् पञ्चतन्मात्राणां तद्द्वारा पञ्चमहाभूतानां चोत्पत्तौ पुराणे क्रम उक्तः स यथा
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज हि ।
आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ।।
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज हि।
वायुरूत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः ।।
इत्यादिक्रमेणेति । नन्वेवमाकाशादिभूतचतुष्टयस्यापि तत्त्वान्तरप्रकृत्यपत्त्या केवलविकृतित्वाष्टप्रकृतित्वसिद्धान्तक्षतिरिति चेन्न आकाशदीनां स्पर्शादितन्मात्रेष्वहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणेषूक्तत्वादिति । एवं त्रयोविंशतितत्त्वानां सृष्टिः । तेषु पञ्चमहाभूतानि वर्ज्जयित्वाहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति । वह्नेरिन्धनवदात्मनोऽभिव्यक्तिस्थानत्वात् । तच्च सर्वपुरुषाणां स्वस्वबीजभूतप्रकृतिसंयोगात् सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति । तेनैव चेहलोकपरलोकयोर्जीवना संसरणं भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो लिङ्गशरीरे पृथक् न निर्दिश्यते बुद्धावेवान्तर्भावात् । तस्य च लिङ्गशरीरस्य परमसूक्ष्माणि पञ्च महाभूतानि तेजः-
प्रधानान्यश्रयः चित्रादिवत् आश्रयं विना लोकान्तरगमनासम्भवात् । तदुक्तं सप्तत्याम् ।
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ।। इति ।
इदं च लिङ्गशरीरमादौ स्वयम्भुवः समष्टिचेतनस्य उपाधिभूतमेकमेव समष्टिरूपं जायते ततश्च व्यष्टिजीवानामप्युपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदं शभूतानि ततो विभज्यन्ते पितुर्लिङ्गशरीरात् पुत्रलिङ्गशरीरवत् । तदुक्तं संखायप्रवचनसूत्रेण । व्यक्तिभेदः कर्मविशेषादिति । मनुनाप्युक्तम् ।
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ।। इति ।
षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् । तथा चायमर्थः । स्वयम्भूः स्वलिङ्गशरीरावयवान् सूक्ष्मानल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेति ।
इति लिङ्गशरीरनिरूपणम् ।
अथ स्थूलशरीरोत्पत्तिः । दशगुणितमहत्तत्त्वमध्येऽहंकारस्तस्मिन्नपि दशगुणे व्योम तथैव व्योम्न्यपि वायुः वायावपि तेजः तेजासि दशगुणे जलं तथैव जलस्यापि दशगुणस्य मध्ये पृथिवी समुत्पद्यते सैव स्थूलशरीरस्य बीजमण्डरूपेण परिणमते । तस्यापि दशगुणितस्याण्डस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवः स्थूलशरीरं तत्सङ्कल्पादेवोत्पद्यते । तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । स्वयम्भुवं प्रकृत्य मुननाऽप्युक्तम् ।
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु बीजमवासृजत् ।
तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम् ।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ।।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।।
इत्यादिनेति । तत एवादिपुरुषाद्वयष्टिपुरुषाणां विभागात् अन्ते च तत्रैव लयात् स एवैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते । ततश्च स नारायणो विराट्शरीरी पृथिवीरूपस्वनाभिकमलकार्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखमवान्तरब्रह्माणां सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज । तथा च स्मर्यते ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणेः सह ।
क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ।। इति ।
यत्तु शेषशयिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते । तद्दैनन्दिनसर्गेष्वेव हि कल्पभेदेन मन्तव्यम् दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद घटते न त्वादिसर्गेषु । दैनन्दिनप्रलय एव नारायणस्य लीलाविग्रहेण शयनादिति । अस्यां सृष्टौ महत्तत्त्वस्य बुद्धिपूर्वकः त्रिगुणात्मकः प्रथमः सर्गः। तदनन्तरं तदुपाधिकस्वयम्भुवः सकाशाद्
बुद्धिपूर्वकः सग्रः । स्वयम्भुवोङ्गदेवताः स्वयम्भूश्च स्थूलदेहनैरपेक्ष्येण ज्ञानवत्त्वात् विदेहा देवा इत्युच्यन्ते । तासुस्वयम्भूरेवेश्वरः नित्येश्वरानङ्गीकारात् । देवताश्चेश्वरकोटयः अविद्यानावृतोपाधिकत्वात् । अविद्यावृतोपाधिकाश्च जीवकोट्य एव । अविद्यावृतानावृतोपाधिकत्वे एव जीवेश्वरविभाजके । तदुक्तं स ईशो माया स जीवो यस्तयार्दित इति । तदेवं सञ्चरो निरूपितः ।
तत्र यद्यस्माज्जायते तस्येतरापूरणेनैव स्थितिः ।तद्व्यतिरेकेणैव तत्संहारोऽपि तत्रैव भवति । तथा चोक्तं महाभारते ।
यद्यस्माज्जायते तत्त्वं तत्तत्र प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ।। इति ।
एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाः कूटस्थपुरुषविवेकाय प्रदर्शिताः । सूक्ष्मा अप्येषां परिणामाः स्मर्यन्ते । यथा
नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च ।
कालोनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ।। इति ।
अत एव सर्वं जडवस्तु परमार्थतः सर्वदैव असदुच्यते । ततश्च तस्माज्जडवर्गाद्विरज्यात्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः । परमार्थसत्यत्वं च कूटस्थनित्यत्वम् । तत्र कूटस्थनित्यत्वासंहतत्वापरार्थत्वचिन्मात्रत्वाद्यसाधारणधर्मैरुकृष्टैः प्रकृत्यादिभ्यो विवेक्तव्यः । इदानीं सदेवेत्यादिश्रुत्यर्थ उपपाद्यते । प्रतिसञ्चरान्ते यन्निर्विशेषं चित्सामान्यमवशिष्यते । तदेव सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिषु सद्ब्रह्मादिपदवाच्यम् । अद्वितीयत्वं तु अवैधर्म्याविभागाख्याभेदेनेति । इदानीमन्तकालीनभगवत्स्मरणस्य परमगतिहेतुत्वश्रवणात् तत्स्मरणस्य च साध्यात्मसाधिभूतयाधिदैवभगवदनुचिन्तनजन्यत्वादध्यात्मादिविभागः प्रदर्श्यते सूत्रत्रयेण । तत्र च प्रमाणम् ।
अन्तकाले च भामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र शंसयः ।। इति ।
साधिभूताधिदैवं सां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ।। इति ।
अध्यात्मम् ।। 7 ।। अधिभूतम् ।। 8 ।। अधिदैवम् ।। 9 ।।
सूत्रत्रयस्यापि क्रमेइणैव व्याख्या । बुद्धिरध्यात्मम् ।
बोद्धव्यमधिभूतम् । ब्रह्मा तत्राधिदैवतम् । अहङ्कारोध्यात्मम् । अधिमन्तव्यमधिभूतम् । रुद्रस्तत्राधिदैवतम् । मनोध्यात्मम् । सङ्कल्पयितव्यमधिभूतम् । चन्द्रस्तत्राधिदैवतम् । श्रोत्रमध्यात्मम् । श्रोतव्यमधिभूतम् । दिशस्तत्राधिदैवतम् । त्वगध्यात्मम् । स्पर्शयितव्यमधिभूतम् । वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मम् । द्रष्टव्यमधिभूतम् । सूर्यस्तत्राधिदैवतम् । रसनमध्यात्मम् । रसोऽधिभूतम् । वरुणस्त्वधिदैवतम् । घ्राणमध्यात्मम् । गन्धोधिभूतम् । पृथवी तत्राधिदैवतम् । वागध्यात्मम् । वचनमधिभूतम् । वह्निस्तत्राधिदैवतम् । पाणिरध्यात्मम् । आदेयमधिभूतम् । इन्द्रस्तत्राधिदैवतम् । पादावध्यात्मम् । गन्तव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । पायुरध्यात्मम् । उत्सृष्टव्यमधिभूतम् । मित्रस्तत्राधिदैवतम् । उपस्थमध्यात्मम् आनन्दयितव्यमाधिभूतम् । प्रजापतिस्तत्राधिदैवतमिति त्रयोदशविधं त्रितयमपि । तत्रात्मानां सङ्घातमधिकृत्य वर्तते तदध्यात्मं त्रयोदशकरणवर्गः । भूतानि अधिकृत्य वर्तते तदधिभूतं विषयवर्गः । देवतामधिकृत्य वर्तत इत्याधिदैवतम् करणाभिमानिदेवतावर्गः एतत्सहितेश्वरानुचिन्तितस्यान्तकालीनभगवत्स्मृत्या परमगतिः फलम् । तस्मादेतत् त्रिकमवश्यं ज्ञातव्यमिति भावः । सर्वतत्त्वानां ज्ञानफलं चोक्तं पञ्चशिखधृतवाक्येन ।
तत्त्वानि यो वेदयते यथावद्
गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्घो
गुणांस्तु भुङ्के न गुणैः स भुज्यते ।।
तत्त्वानीति तान्त्रिकी संज्ञा । तदर्थश्चात्मानात्मविवेकप्रतियोग्यनुयोगिनस्तत्पदार्थाः तेषां भावस्तत्तत्पदप्रवृत्तिनिमित्तानि पुरुषत्वप्रकृतित्वादीनि पञ्चविंशतिजातयः धर्मधर्म्यभेदात् व्यक्तयोपि तत्त्वानीत्युच्यन्ते । वेदयते वेत्तीत्यर्थः । गुणाः सत्त्वरजस्तमांसि तान्येव स्वरूपाणि तात्त्विकरूपाणि येषां तानि गुणस्वरूपाणि अधिदैवतञ्च अध्यात्माधिभूतयोरूपलक्षणम् । गुणांस्तु भुङ्क्ते गुणास्तस्य वशे भवन्तीति । न गुणैः स भुज्यते गुणवशो न भवतीत्यर्थः ।।
इति तत्त्वपादः प्रथमः ।।
इदानीं द्वितीयः प्रकीर्णरपाद आरभ्यते । तत्र पञ्चस्त्रोतोम्बुं पञ्चयोन्युग्रचक्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् पञ्चावर्त्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीम इत्यादिश्रुत्यर्थोपपत्तये पञ्चकानि निरूपयति सूत्रजातेन ।।
पञ्चाभिबुद्धयः ।। 10 ।। अभिबुद्धिरभिमान इच्छा कर्त्तव्यता क्रियेति पञ्चाभिबुद्धिसङ्गिताः । तत्राभिबुद्धिर्नाम अभिमुखी बुद्धिः इदमवश्यं करणीयमितिरूपा बुद्धिवृत्तिः । अभिमानश्वाहं करोमीतिवृत्तिः । इच्छा वाञ्छा सङ्कल्पो मानसी वृत्तिः । कर्त्तव्यता ज्ञानेन्द्रियाणा शब्दादिविषया वृत्तिः । क्रिया वचनादिलक्षणा कर्मेन्द्रियाणां वृत्तिरिति ।।
अभिबुद्धयो व्याख्याताः ।।
पञ्च कर्मयोनयः ।। 11 ।। कर्मजन्याः कर्मजनकाश्च धृतिः श्रद्धा सुखाऽविविदिषा विविदिषा चेति पञ्च ।।
वाचि कर्माणि सङ्कल्पे प्रतिष्ठां योभिरक्षति ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ।।
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् ।।
अर्थार्थी यस्तु सेवेत विद्याकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ।।
अविविदिषा वेदवेदनेच्छाप्रतिबन्धकक्रिया ।।
विविदिषा यथा ।
एकत्वं च पृथकत्वं नित्यं चेदमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा * ।।
* विविदिषा क्रिया --पा0 2 पु0 ।
आत्मनि एकत्वपृथकत्वादिविषयिणी जिज्ञासा विविदिषा । एतासु चतस्त्रो बन्धाय विविदिषैका मोक्षाय ज्ञानमोक्षप्रतिबन्धनाशककर्मजन्यत्वात्तज्जनकत्वाच्च ।।
पञ्च वायवः ।। 12 ।।
हृदि प्राणो गुदेऽपानो व्यानः सर्वशरीरगः ।
उदानः कण्ठदेशे च समानो नाभिसंस्थितः ।।
एते पञ्च क्रियाशक्तिमदन्तःकरणवृत्तिभेदा अपि वायुसमानगतिकत्वाद्वायुदेवताकत्वाच्च वायव इत्युक्तम् ।प्रकर्षेण अननाद्गमनात् प्राण इत्युच्यते । अधो गमनादपानः । भुक्तस्यान्नस्य रसादेर्विक्षेपणात् । विजृम्भक्षणाच्च व्यान इत्युच्यते । उद्गारवमनादिकं करोतीति उदानस्तेन गीयते । भुक्तस्य समाशं रसं नयतीति समानः । तन्त्रान्तरोक्ता अप्यन्ये नागकूर्मकृकलदेवदत्तधनञ्जयाख्यास्तत्रैवान्तर्भाव्याः ।
इत्येते पञ्चप्राणा व्याख्याताः ।।
पञ्च कर्मात्मानः ।। 13 ।। वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति कर्मात्मानः कर्मिण इत्यर्थः। तत्र वैकारिकः शुभकर्मकर्त्ता । तैजसोऽशुभकर्मकर्त्ता । भूतादिर्मूढकर्मकर्त्ता । सानुमानः शुभमूढकर्मकर्त्ता । निरनुमानोऽशुभमबढकर्मकर्त्ता ।।
इति पञ्च कर्मात्मानो व्याख्याताः ।।
इदानीं पञ्चाशद्भेदां पञ्चपर्वामधीम इति श्रुत्यर्थोपपत्तये बुद्धेः पञ्चाशत्सर्गान् बहुभिः सूत्रैरुद्दिशति।
पञ्चपर्वाऽविद्या ।। 14 ।। अनित्याशुचिदुःखानात्मसुनित्यशुचिसुखात्मख्यातिरविद्या पतञ्जल्युक्ता सर्वदर्शमसम्प्रतिपन्ना। सा च पञ्चधा अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशजनकत्वात् क्लेशा इति योगे परिभाषिताः । अस्मितादीनां चतुर्णामविद्याकार्यत्वादविद्यत्वम् । अस्मिता अनात्मन्यहंवृत्तिः अविद्यास्मितयोरयं भेदः अविद्यायामधिकरणमपि पृथग् भासते ऽस्मितायां त्वारोपरूपत्वेऽपि नाधिकरणं भासते । विषयेषूत्कटेच्छा रागः द्वेषः वैरबुद्धिः । अभिनिवेशो मरणत्रासः । विदुषामपि स्वरसवाही अनादिमरणदुःखानुभवजनितवासनाजन्यः श्रुतिस्मृतिपुराणेषु एते अविद्याभेदास्तमआदिशब्दैः परिभाषिताः । तमो मोहो महामोहस्तामिस्त्रोऽन्धतामिश्रश्चेति तत्तन्नाम- नरकप्रदत्वात्तत्तन्नामकाः । ते च विषयभेदात् द्विषष्टिभेदाः ते यथा । अष्टप्रकृतिषु आत्मत्वारोपात् अष्टभेदं तमः । देवा अणिमाद्यष्टविधमैश्वर्यमासाद्य वयममृता इत्यभिमानिनो भवन्ति सोऽयम्भिमानो मोहोऽष्टविधः । दृष्टानुश्रविकेषु द्वादशासु विषयेषु प्राप्तेषु मुक्तोऽहमिति मन्यते सोऽभिमानो रागातिशयनिमित्तत्वात् महामोहो दशविधाः । अणिमाद्यष्टगुणैश्वर्ये स तामिस्त्रोष्टादशविधः । देवा अणिमाद्यष्टकमैश्वर्यं शब्दादींश्च दश विषयान् भुञ्जनाः क्षयशङ्कयात्र सन्ति सत्रास एवाष्टादशविधोन्धतामिश्र इति द्विषष्टिभेदा पञ्चपर्वा अविद्या ।।
अष्चविंशतिधाऽशक्तिः ।। 15 ।। नवधा तुष्टिः ।। 16 ।।
अष्चधा सिद्धिः ।। 17 ।। तत्राशक्तयः एकादशेन्द्रियत्रधाः सप्तदश बुद्धिवधाः । तत्रेन्द्रियवधाः । स्वस्वार्थक्रियाऽक्षमतारूपाः फलतो बुद्धेरेव ते ।
वाधिर्यं कुष्ठितान्धत्वं जडताऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वं क्लैव्योदावर्त्तमुग्धताः ।।
सप्तदश बुद्धेरेव वधाःतुष्टिसिद्धीनां विपर्यरूपाः । तत्र तुष्टिविपर्ययाः । नास्ति प्रधानामिति ज्ञानमस्तीत्यभिधीयते । महत्तत्त्वं नास्तीति ज्ञानमज्ञामसलिलाः । अहङ्कारो नास्तीति मोहा । नैव सन्ति पञ्चतन्मात्राणीति दृष्टिरदृष्टिः । विषयाणामर्ज्जने प्रवृत्तिः असुतारा । रक्षणे प्रवृत्तिरसुपारा । क्षयदोषमपश्यतः प्रवृत्तिः असुनेत्रा । ऊोगे शक्तिः असुमात्रिका । हिंसादोषमपश्यतो भोगे प्रवृत्तिः अनुत्तमाम्भसिका । इति तुष्टिविपर्याया नवधा।
सिद्धिविपर्यासाद् अष्टौ बुद्धिवधा उच्यन्ते । नानात्वमूहमानस्यैकत्वानुसन्धानं सुतारमुच्यते । शब्दमात्रश्रवणाद्विपरीतग्रहणमसुतारा । यथा नानात्मज्ञोमुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्मज्ञोऽहममुक्त इति । अध्ययनश्रवणनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदज्ञानम् । यदा आध्यत्मिकेन दुःखेनचाभिभूयते तदज्ञानप्रमादम् । एवमाधिभौतिकदुःखेनाभिभूयते तत्प्रमोदमानम् । एवमेवाधिदैविकदुःखेनाभिभवः प्रमुदितमिति । सुहृदुपदिष्टेप्यात्मनि अनिश्चयबुद्धिरनर्थकम् । स्वदानमनर्थकं ज्ञात्वा दानपात्रस्य गुरूणि दुःखे जाते प्रमोदः प्रमुदिता । एवमष्टौ सिद्धिविपर्यया व्याख्याता । एवं सप्तदश बुद्धिवधाः ।।
नवधा तुष्टिरुच्यते । तत्र कारिका ।
आध्यात्मिक्यश्चतस्त्रः प्रकृत्यपादानकालभाग्याख्याः ।
वाह्या विषयोपरमात् पञ्च नव तुष्टयोभिहिताः ।।
कुतश्चित सर्वाकारेण परिणममना प्रकृतिरेव ज्ञानं करिष्यतीति श्रुत्वा या तुष्टिः सा प्रकृत्याख्या तस्या अस्तेति संज्ञा । प्रव्रज्ययैव ज्ञानं भविष्यतीति श्रुत्वा प्रव्रज्योपादानेन या तुष्टिः सा सलिलसंज्ञा । कालेनैव ज्ञानं भविष्यतीतिश्रुत्वा प्रव्रज्यया बहुकालेन या तुष्टिः सा आद्यात्युच्यते । भाग्येनैव ज्ञानं भविष्यति मदालसा बालकानामिवेति कुतश्चिच्छुत्वा या तुष्टिः सा वृष्टिरितिसंज्ञा । एताश्चतस्त्र आध्यात्मिक्यः । अथ वाह्याः पञ्च शब्दादिविषयेष्वर्जनरक्षणक्षयभोगहिंसादिदोषदर्शनाद्या निवृत्तितुष्टयस्तास्वेका तुष्टिः अपारमुच्यते द्वितीया सुपारं तृतीया पारम् अनुत्तमाम्भसिका चतुर्थी उत्तमाम्भः पञ्चमी इति नव तुष्टयो व्याख्याताः ।।
अथाष्टौ सिद्धयः । तत्र कारिका ।
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोष़्टौ सिद्धेः पूर्वोङ्कुशस्त्रिविधः ।।
अस्यार्थः । भगवत्कृपावशादूहनेन तर्केणैव ज्ञानमुत्पद्यते सा प्रथमा सिद्धिस्तारेत्युच्यते । शब्दश्रवणमात्रादेव यद ज्ञआनं सा द्वितीया सुतारा । शिष्यभावेनाध्ययनेन यद् ज्ञानं सा तृतीया तारतरेति । यदाध्यात्मिकदुःखस्यापनोदकं ज्ञानं सा चतुर्थी प्रमोदेति । यदाधिभौतिकदुःखापनोदकं ज्ञानं सा पञ्चमी प्रमदितेति । यदाधिदैविकदुःखनाशकं ज्ञानं सा षष्ठी प्रमोदमाना । यत् सुहृत्संसर्गितया ज्ञानं सा सप्तमी रम्यकेति । यद्दानेन परितोषिताद गुरोर्ज्ञानं साष्टमी सदामुदितेति । आसु प्रथमास्तिस्त्रो दुःखविघातात्मकानां मुख्यानां तिस्दृणां सिद्धीनामङ्कुश आकर्षकः साधक इति यावत् सिद्धयस्त्वेता एव । अणिमाद्यास्तु ज्ञानप्रतिबन्धकत्वादसिद्धय एवेत्याचार्याशयः । एवमष्टौ सिद्धयो व्याख्याताः ।।
इदानीं सांख्यशास्त्रस्य षष्टितन्त्रत्वप्रतिपादनाय पञ्चाशत्सु सिद्धिसर्गेषु दशान्यान् पूरयति सूत्रेण । दश मूलिकार्थाः ।। 18 ।।
अस्तित्वमेकत्वमथार्थवत्त्वं
परार्थमन्यत्वमकर्तृता च ।
योगो वियोगो वहवः पुमांसः
स्थितिः शरीरस्य च शेषवृत्तिः ।।
मूलयोः प्रकृतिपुरुषयोरर्था धर्मा मूलिकार्थाः । तत्रास्तित्वं द्वयोर्धर्मः । एकत्वं सर्गभेदेन नानात्वाभावरूपं प्रकृतेः । अर्थवत्त्वं पुरुषार्थत्वं पुरुषस्यैव । परार्थ्यं च प्रकृतेरेव । अन्यत्वं जडवर्गाद् भिन्नत्वं पुरुषस्यैव । अकर्तृता च पुरुषस्यैव । योगो वियोगश्च द्वयोः । बहुत्वं पुरुषस्यैव । जीवन्मुक्तस्य संस्कारमात्रेण चक्रभ्रामिवच्छरीरस्य या स्थितिः सा शेषवृत्तिः पुरुषस्य । इति दशपदार्थाः प्रत्ययसर्गाख्याः पञ्चशत् पूर्वोक्ताः एते च दश मूलिकाः । एवं षष्टिपदार्था षष्टितन्त्रे उक्ताः ।।इदानीं पञ्चतन्मात्रसर्गं सूत्रयति । अनुग्रहसर्गः ।। 19 ।। पञ्चतन्मात्रा अनुगृह्योपादानकारणत्वेन स्वीकृत्य यः सर्गः सोऽनुग्रहसर्गः । पञ्चानां ब्राह्मणानां सचतुर्मुशसनकादीनां स्वस्य लीलाविग्रहे सर्गो भक्तनामनुग्रहार्थं सोऽप्यनुग्रहसर्गः पञ्चतन्मात्रेभ्य एव।।
इदानीं भूतसर्गमाह । चतुर्दशविधो भूतसर्गः ।। 20 ।। ब्राह्मप्राजापत्यसौम्यैन्द्रगान्धर्वयक्षराक्षसपैशाचा इत्यष्टौ देवसर्गाः । पशुपक्षिमृगसरीसृपस्थावरा इति पञ्चविधास्तैर्यग्योनयः । मानुषश्चैकविधो ब्राह्मणादिश्चण्डालान्त इति । गावादिमूषकान्ताः पशवः । गरुडादिमशकान्ताः पक्षिणः । सिंहादिशृगालान्ता मृगाः । शेषादिदुन्दुभान्ताः सरीसृपाः । पर्वतादितृणान्ताः स्थावरा इति । अत्र कारिका।
अष्टविधो दैवस्तैर्यग्योनश्च पञ्चधा भव ति ।
मानुषश्चैकविधः समासतो भौतिकः सर्गः ।। इति एतत्संसारमण्डलम् अन्यानप्यनुक्तान् सर्गानुद्दिशति सूत्रत्रयेण । त्तिविधो बन्धः ।। 21 ।। त्रिविधो मोक्षः ।। 12 ।. त्रिविधं प्रमाणम् ।। 13 ।। प्राकृतिको वैकृतिको दाक्षिण इति त्रयो बन्धाः । प्राकृतोष्टप्रकृतिष्वभिमानरूपः । द्वितीयस्तु प्रव्रजितानामपि शब्दादिषु मनसः सङ्गः । तृतीयस्तु गृहस्थादीनां कामोपहतचेतसां दक्षिणां ददतां दक्षिणाबन्धः उक्तं च पञ्चशिखाचार्यैः ।।
प्राकृतेन तु बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते ।। इति मोक्षत्रैविध्यं चोक्तम् ।
आदौ तु मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृच्छ्रक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।।
ज्ञानाद्रेकादविद्यानिवृत्तिरूप एकंः रागसंक्षयादिन्द्रियोपशमरूपो द्वितीयः कृच्छ्रक्षयाद्धर्माधर्माकरणरूपाद्धर्माधर्मांनुत्पादरूपस्तृतीयः । एतत् त्रयं ज्ञानद्वारभूतत्वाद् गौणं मोक्षत्रयम् । आत्यन्तिकत्रिविधदुःखनिवृत्तिरेव मुख्यो मोक्षः तदुक्तं गोतमेन सूत्रेण दुःखजन्मप्रवृत्तिदोषम्थ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावदपवर्ग इति ।
उक्तानां पदार्थानां सिद्धर्थं प्रमामान्याह मानाधीनत्वान्मेयसिद्धेः त्रिविधं प्रामाणमिति । प्रत्यक्षानुमानशब्दा इति । तत्रानधिगतयथार्थज्ञानं प्रमा तत्करणं प्रमाणमिति सामान्यलक्षणमेकम् । अर्थाकारनानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् । तत्र प्रत्यक्षमिन्द्रियजन्यमनधिगतयथार्थज्ञानं प्रत्यक्षप्रमा । तत्करणं प्रत्यक्षप्रमाणम् । इन्द्रियजन्यानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् । यथार्थलिङ्ग ज्ञानाज्जायमानं ज्ञानमनुमितिस्तत्करणमनुमानामित्येकम् । लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकरान्तःकरणवृत्तिरिति द्वितीयम् । आत्मवचनजन्यज्ञानं शब्दप्रमातत्करणं शब्दप्रमाणमित्येकं लक्षणम् । आप्तवचनजन्या पदार्थसंसर्गाकारान्तःकरणवृत्तिरिति द्वितीयं शब्दप्रमाणलक्षणम् ।
आप्तस्तु स्वकर्मण्यभियुक्तो रागद्वेषरहितो ज्ञानवान् शीलसम्पन्नः । इदं तु ज्ञानोपदेष्टुरेवाप्तलक्षणम् वस्तुतो यथाभूतार्थस्योपदेष्टा पुरुष इत्येव ।।
उक्तपदार्थेषु केचित्प्रत्यक्षसिद्धाः केचदनुमानसिद्धाः । उभाभ्यां यन्न सिद्धं तच्छब्दप्रमाणेन सिद्ध्यति यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गेप्सरसः एते पदार्था न प्रत्यक्षानुमानगम्याः किन्तु शब्दैकगम्याः ।
अत्र चैषा ज्ञानप्रक्रिया । अन्तःकरणस्येन्द्रियाणा चाविभक्तः सङ्कोचविकासशाल्यग्रभागो वृत्तिरभ्युपेयते भागगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति सांख्यप्रवचनसूत्रात् । भागो विभक्तोवयवस्तस्माद्गुणाच्च तत्त्वान्तरं पदार्थान्तरमविऊक्तोऽवयव इत्यर्थः । तथा चान्तःकरणवृत्तिरिन्द्रियवृत्तिद्वारार्थसन्निकृष्टान भवति तत इन्द्रियवृत्तया
सह्र्थाकारा परिमणते सा चार्थाकारा वृत्तिर्गुणरूपा सर्वात्मानां विभुत्वेपि स्वस्वामिन्येवात्मनि प्रतिबिम्बते नान्यत्र अवादिस्वस्वामिभावस्य प्रतिबिम्बनियामकत्वात् अन्यथातिप्रसङ्गात् प्रतिबिम्बश्चाधिष्ठानगताया बुद्धेर्विकारः परिणामः स्वत्त्वं च स्वामिप्रकाशितवृत्तिजन्यसंस्कारवत्त्वम् । स्वामित्वं च स्वनिष्ठसंस्कारजनकवृत्तिप्रकाशकत्वं सा च वृत्तिरात्मनि स्थिता सती अर्थाकारा आत्माकारा च स्वसमानाकारं परिणामान्तरं धत्ते स एवात्मनि वृत्तिप्रतिबिम्बो विषयताख्यं सम्बन्ध इति तदवच्छिन्नं चैतन्यं प्रत्यक्षप्रमा घटमहं जानामीत्याकारार्थात्मविषयिणी तदुक्तम् ।।
अदृश्यो दृश्यते राहुर्गृहीतेन ययेन्दुना ।
तथानुभवमात्रात्मा दृश्येनात्मवलोक्यते ।।
दृश्येन वृत्त्या । इयं च प्रत्यक्षा वृत्तिर्विषयदेशे जायमाना तत्रैवात्मनि प्रतिबिम्बते आत्मनो विभुत्वात् यत्र चेन्द्रियद्वारं विना मनः स्ववासनावशाद्यत्रार्थेन सम्बद्ध्यते तत्र तदाकारा वृत्तिर्मानसं प्रत्यक्षम् । उक्तं च ।
शरीरलयमुत्सृज्य यत्र चित्तविहङ्गम्ः ।
स्ववासनावशाद्याति तत्रैवात्मानुभूयते ।।
इति वासिष्ठे ।
इति प्रत्यक्षप्रक्रिया ।।
एवं व्याप्तिप्रमाजन्यसाध्यविशिष्टपक्षाकारा वृत्तिरनुमानम् तत्प्रतिबिम्बवच्छिन्नचैतन्यमनुमितिः । इत्यनुमानप्रक्रिया ।।
यथार्थपदस्मृतिजन्या पदार्थसंसर्गाकारा वृत्तिः शब्दप्रमाणमा तत्प्रतिबिम्बावच्छिन्नचैतन्यं शाब्दी प्रमाइदं प्रमाणद्वयमान्तरमेव । अपरोक्षत्वं परोक्षत्वं स्मृतित्वं संशयत्वं विपर्ययत्वं प्रमात्वमप्रमात्वं च सर्वे वृत्तिधर्मा एव तत्प्रतिबिम्बवशाच्चैतन्येप्युपचर्यन्ते तत्रापरोक्षत्वपरोक्षत्वस्मृतित्वानि जातयः संशयश्च भासमानविरोधोभयकोटिस्पृग्वृत्तिः । यत्र यन्नास्ति तत्र तन्निश्चयो विपर्ययः यथार्थवृत्तिः प्रमा अयथार्थवृत्तिरप्रमा अत्र प्रमात्रादिविभागविषये विज्ञानाचार्याणां कारिका ।
प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च ।
प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ।।
प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते ।
वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ।।
साक्षाद्दर्शनरूपं च साक्षित्वं सांख्यसूत्रितम् ।। इति ।
ज्ञानस्य च जन्यत्वं विनाशित्वमात्मधर्मत्वं च प्रतिबिम्बावच्छिन्नत्वेनोपपादनीयम् आत्मरूपस्य ज्ञानस्य नित्यत्वाच् । विशिष्टे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध इति न्यायात् । अधाराधेयभावोऽपि खे खगोदय इतिवदुपपादनीयः वृत्तीनामात्मनि प्रतिविम्बे प्रमाणम् ।
तस्मिंश्च दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।
इमस्ताः प्रतिविम्बन्ति सरसीव तटद्रुमाः ।।
इति वासिष्ठम् । इति समासतो ज्ञानप्रक्रिया ।।
अत्र शास्त्रेऽनुक्ताः स्वाऽविरोधिनः शास्त्रान्तरीया अपि पदार्थाः ग्राह्याः सारादानं षट् पदवदिति सांख्यप्रवचनसूत्रात् । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट् पद इति स्मृतेश्च । एवे च प्रकृत्यादयः पदार्थाः संहतत्वपदार्थत्वजडत्वप्रतिक्षपरिणामित्वादिदोषैर्दुष्टत्वाद्धेयास्तेभ्योप्यधिकं हेयमाह ।
त्रिविधं दुःखमिति ।। 24 ।। आध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राध्यात्मिकं द्विविधं शरीरं मानसं च । तत्र शरीरं वातपित्तश्लेष्मणां वैषम्येणोत्पन्नं ज्वरातिसारादि । कामक्रोधलोभादिजन्यं मानसं मानुषमृगसर्पादिजन्यमाधिभौतिकं शीतोष्णवातवृष्टिजन्यमाधिदैविकम् । अनेन त्रिविधदुःखेनाभिभूतस्य तरति शोकमात्मविदिति श्रुत्वा आत्मनि जिज्ञासा जायते । यथा तृषितस्य पानीयपिपासा ।
कृतस्य तत्वनिरूपणस्य पुरुषार्थसम्बन्धं दर्शयति । एतत्परं याथार्थ्यम् एतज्ज्ञात्वा कृतकृत्यः
स्यान्न पुनस्त्रिविधदुःखेनाभिभूयते ।। 25 ।। एतद्याथार्थ्यं परं शास्त्रान्तरोक्तद्याथार्थ्यादुत्कृष्टं न्यायवैशेषिकोक्तयाथार्थ्यस्याष्टप्रकृत्यकथनादपूर्णत्वम् इदं तु तत्कथनेन पूर्णं श्रुतिसम्मतत्वाच्च परं सर्वेत्कृष्टमित्यर्थः । श्रुतिश्च गोपालतापनीये एकमेवाद्वितीयं ब्रह्मासीत् तस्मादव्यक्तादव्यक्तमेवाक्षरं तस्मान्महन्महतोहङ्कारस्ततः पञ्चतन्मात्राणि तेभ्यो भूतानि इति स्पष्टमेव सांख्ययोगोक्तमहदादिक्रमेण सृष्टिः श्रूयत इति । एतज्ज्ञात्वा आत्मानात्मविवेकसाक्षात्कारद्वारा कृतकृत्यः स्यान्निष्प्रयोजनः स्यादित्यर्थः । किं पुनस्तत्प्रयोजनं तत्राह । न पुनस्त्रिविधदुःखेनाभिभूयत इति । पूर्वोक्तत्रिविधदुःखेन न युज्यते दुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीत्यर्थः । ननु दुःखं तावत् त्रिविधम् अनागतं वर्तमानमतीतं चेति । सांख्ययोगवेदान्तानां सत्कार्यवादाश्रयणात् सर्वमेव कार्यमवस्थात्रयेण नित्यम् । अनागतो घटो वर्त्तमानो घटोऽतीतो घट इत्यवस्त्रात्रयेऽपि घटस्यावस्थाधर्मिणोऽनुगतप्रत्ययात् । प्रागभावप्रध्वंसयोश्चनङ्गीकारात् । न च तत्काले कथमभावप्रत्यय इति वाच्यम् वर्त्तमानप्रतियोगिकसामयिकात्यनन्ताभावेनैव तदुपपत्तेरिति । एवं चानागतातीतदुःखयोरभावेऽपि न पुरुषार्थः भोग्यदुःखाभावस्यैव पुरुषार्थत्वात् वर्तमानदुःखं च भोग्यमपि भोगेनैव नङ्क्ष्यतीति तदभावो न पुरुषार्थः पुरुषप्रयत्ननिरपेक्षत्वात् पुरुषप्रयत्नसापेक्षस्यैव पुरुषार्थत्वात् । तथा च कथं दुःखाभावस्य पुरुषार्थत्वमिति चेदुच्यते । अनागतदुःखस्य भोग्यहेतुतया तदभावस्य च पुरुषकृतिसाध्यतया पुरुषार्थत्वं दुःखहेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवदिति । तदुक्तं पतञ्जलिना । हेयं दुःखमनागतं विवेकख्यातिरवित्प्रवा हानोपाय इति सूत्रद्वयेन ।
सामख्यानां च सर्वात्मनामवैधर्म्याभेद एव तत्त्वमसिवाक्यार्थो नाविभागादिः तदज्ञानस्यैवाभिमाननिवर्त्तकत्वात् । तद्वाक्यस्य च श्वेतकेतोरनूचानत्वाद्यभिमानानिवृत्त्यर्थमेव प्रवृत्तेः तथा च लयावाशिष्टचित्सामान्यं तत्पदार्थं तदुक्तं विज्ञानाचार्यवर्यैरस्मदगुरुभिर्भाष्याद्यश्लोकेन ।
एको द्वितीय इति वेदवचांसि पुंसि
सर्वाभिमानविनिवर्तनतोस्य मुक्त्यै ।
वैधर्म्यलक्षणभिदा विरहं वदन्ति
नाखण्डतां ख इव धर्मशताविरोधात् ।। इति ।
तथा च प्रकृत्यादिविविक्तसर्वात्मनामवैधर्म्यभेदसाक्षात्कारात् कर्तृत्वाद्याभिमानावृत्तौ तत्कार्यरागद्वेषधर्माद्यनुत्पादात् पूर्वोत्पन्नकर्मणां(1) चाविद्यारागादिसहकार्यच्छेदेन जन्माद्यनारम्भकत्वाद्भोगेन प्रारब्धसमाप्त्यनन्तरं पुनर्जन्माभावेन भोगापवर्गसमाप्त्या चान्तःकरणस्य नाशेनैव त्रिविधदुःखात्यन्तनिवृत्तिरूपो मोक्षो भवतीति परमकृत्यता । इदं चात्रावधेयम् । गुरूपदेशशास्त्राभ्यामुत्पन्नमपि ज्ञानमपरोक्षत्वायाभ्यसनीयमेव । तेन विनाऽपरोक्षाविद्यानिवृत्त्यसम्भवात्(2) । अपरोक्ष्यभ्रमे हि समानविशेष्यकाऽपरोक्ष्यविपरीतनिश्चयस्यैव निवर्तकत्वावधारणात् तदुक्तं विसिष्ठे ।
(1) पूर्वोक्तकर्मणां--पा0 1 पु0 ।
(2) अपरोक्षज्ञानं विना परोक्ष्याविद्यानिवृत्त्यसम्भवात् --पा0 1 पु0 ।
अपि विज्ञाततत्त्वेन नेत्यभ्यस्यमिदं सदा ।
न नाममात्रात् कतकफलमम्बुप्रसाधकम् ।।
अन्तर्ध्वान्ताविनाशया शाब्दबोधो न हि क्षमः ।
न नश्यति तमो राम कृतया दीपवार्तया ।। इति ।
एवमभ्यासात् कोमलकण्टकन्यायेन ज्ञाने जाते योगरूढ इत्युच्यते योगी अस्मात् पूर्वस्तु युञ्जनः ततः परमहंसाश्रमेण विक्षेपकाणि कर्माणि त्यक्त्वा ज्ञाननिष्ठापर्यन्तमभ्यसेत् । सवासनाविद्योच्छेदो ज्ञाननिष्ठा । ततः सयुक्तो जीवन्मुक्तो गुणतीत इति चोच्यते । गुणाभिमानशून्यत्वमेव गुणातीतत्वं जीवन्मुक्तस्य च लक्षणम् ।
नोदेति नास्तमायति सुखदुःखे मुखप्रभा ।
यथापूर्वस्थिर्यस्य स जावन्मुक्त उच्यते ।।
रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदस्वच्छः स जीवन्मुक्त उच्यते ।।
एतावदेव खलु लिङ्गमलिङ्गमूर्त्तेः
संशान्तसंसृतिचिरभ्रमनिर्वृतस्य ।
तज्ज्ञस्य यन्मदनकोपविषादमोह-
लोभपादामनुदिनं निपुणं तनुत्वम् ।। इति ।
अन्यच्चात्र सांख्यविद्यायांभगवद्भक्तेरेवासाधारणकारणत्वं ज्ञेयम् अन्यथा देवकृतविघ्नैर्योगध्वंसो* भवत्वेव यथोक्तं भागवते ।
* योगभ्रंशो--पा 0 1 पु 0 ।
योऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरूह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ।।
श्रेयः श्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यान्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ।। इति ।
इदानींतनाः केचन वैष्णवा एतादृशवाक्यैर्भगवदभक्तिं पुरस्कृत्य सामान्यतो ज्ञानमार्गं खण्डयति ते तु विद्याविवेकानभिज्ञाः स्थूलमतय एव । नारदीये च सांख्यविद्यकारे ।
मायाप्रवर्तके विष्णौ कृता भक्तिर्दृढा नृणाम् ।
सुखेन प्रकृतेरन्यं स्वं दर्शयति दीपवत् ।।
चित्ते हि स्ववशे योगः सिद्ध्येत् तत्तु जगत्पतिम् ।
कोऽनाश्रित्य निगृह्णीयादव्यक्तमतिचञ्चलम् ।।
तस्मान्मुमुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः ।
चित्तेन चिन्तयोनेन वञ्च्यते ध्रुवमन्यथा ।। इति ।
गीतायां चतुर्दशाध्याये ।
मा च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैव ब्रह्मभूयाय कल्प्यते ।। इति ।
ब्रह्मभूपाय पूर्णत्वेनाभिव्यक्तये गुणाभिधानं तत्तदवच्छिन्नत्वेनैवाभिव्यज्यते (?) तस्माद् भगवद्भक्तिरेव मुख्यं साधनं सांख्ययोगविद्यायामिति सिद्धम् ।
कृतं परोपकाराय तत्त्वयाथार्थ्यदीपनम् ।
तेन मे प्रीयतां कृष्णाः परमात्मा जगद्गुरूः ।।
स्वतन्त्रत्वात् स एवाकः कर्ता गोपालबालकः ।
श्रीकृष्णाख्यो महेशानो दारूयन्त्रसमस्त्वहम् ।।
पुराणार्थं बुभुत्सूनां *** च मयेरितम् ।
तेभ्यः समर्पितं चैतत् तेनापि प्रीयतां हरिः ।।
इति श्रीभावाविश्वनाथदीक्षितसूनुभावागणेशविरचितं तत्त्वयाथार्थ्यदीपानं समप्ताम् ।।

श्रीगणेशाय नमः ।
अथ समाससूत्र--
सर्वोपकारिणी टीका ।
यद्वाग्विभूतिरमलाखिलतत्त्वजाता-
न्नानाद्य तत्त्वममलं परिबोधयन्ती ।
श्रेयः करोति जगतां भगवन्तमाद्यं
तं श्रीमहर्षिकपिलं प्रभुमानतोऽस्मि ।। 1 ।।
उद्दिधीर्षुस्तदुन्नीतसूत्रतत्त्वार्थबुद्धये ।
सर्वोपकारिणीं कुर्वे टीकां गुणवशंवदः ।। 2।।
अथात्रानादिक्लेशकर्मवासनासमुद्रनिपातिताननाथदीनानुद्दिधीर्षुः परमकृपालुः स्वतःसिद्धतत्त्वज्ञानो महर्षिर्भगवान् कपिलो द्वाविंशतिसूत्राण्युपादिक्षत् । सूचनात् सूत्रमिति हि व्युत्पत्तिः । तत एतैः समस्ततत्त्वानां सकलषष्टितन्त्रार्थानां च सूचनं भवति । इतश्चेदं सकलसांख्यतीर्थमूलभूतं तीर्थान्तराणि चैतत्प्रपञ्चभूतान्येव । सूत्रत्रषडध्यायी तु वैश्वानरावतारमहर्षिभगवत्कपिलप्रणीतां इयं तु द्वार्विशतिसूत्री तस्या अपि बीजभूता नारायणावतारमहर्षिभगवत्कपिलप्रणीतेति वृद्धाः । तत्रादौ प्रथमसूत्रत्रयेण सकलप्रपञ्चमूलभूतानि पञ्चविंशतितत्त्वानि सूचयति । अष्टौ प्रकृतयः ।। 1 ।। षो़डश विकाराः ।। 2 ।। पुरुषः ।। 3।। अयमर्थः सांख्यराद्धान्ते पञ्चविंशतिस्तत्त्वालि । तत्र मूलप्रकृतिः महत्तत्वम् अहङ्कारः शब्दतन्मात्रा स्पर्शतन्मात्रा रूपतन्मात्रा रसतन्मात्रा गन्धतन्मात्रा चेत्यष्टौ प्रकृतयः सन्ति । अत्र तत्त्वान्तरारम्भकत्वं प्रकृतितत्वम् अतश्च महहादीनां सप्तानां पूर्वपूर्वविकृतित्वेऽपि न क्षतिः लक्षणसमन्वयात् । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनः गगनपवनज्वलनसलिलधरण्याख्यानि पञ्च भूतानि चैतानि षोडश विकाराः विकृतय एव न तत्त्वान्तरारम्भकाणि सर्वं वाक्यं सावधारणमिति न्यायात् । पुरुषः पञ्चविंशतितमं तत्त्वम् । अयं च न प्रकृतिर्न विकृतिः ताभ्याः पृथक्कृत्य निरूपणात् । अनेन जडत्वपरिणामित्वकर्तृत्वादिधर्मवदभ्यः प्रकृत्यादिभ्यः पुरुषस्य वैलक्षण्यमपि सूचितं भवति तथा च कारिका ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्नविकृतिः पुरुषः ।। इति ।
नन्वेतेभ्योऽतिरिक्ता अन्येऽपि वहवो घटपटादयः पदार्था दृश्यन्ते तत्कथमेषामुपपत्तिरत आह । त्रैगुण्यसञ्चारः ।। 4 ।। त्रिगुण एव त्रैगुण्यं सत्त्वरजस्तमांसि तेषां सञ्चारः मत्तकपोतकण्ठन्यायेन प्रतिक्षणं विलक्षणपरिणामो वर्तत इति शेषः । अनेन मूलप्रकृतिस्त्रिगुणात्मिका त्रित्वेन च भेदबोधकेन गुणाः परस्परविरूद्धस्वभावाः प्रीत्यप्रीतिविषादात्मकाः सञ्चारेण च सङ्गतसम्यक् चरणार्थकेन तेषां नित्यसहभावः पुरुषार्थे जननीये कार्यानुसारेण परस्परसहायता च । ततश्च प्रकृतेर्महदादीनां भूतेभ्यश्च घटपटादिसकलपदार्थानां त्रिगुणलक्षणपरिणामादेव संसिद्धिः कार्योत्पादश्चनापूर्वः किन्त्वाविर्भावमात्रं सूक्ष्मकारणरूपेण स्थितस्य स्थूलकार्यक्षमरूपेण विपरिणाम इति सदव्याप्तिवादश्च इत्यते सिद्धान्ताः संसूचिता भवन्तीति बोध्यम् ।।
ननु गुणानामनवरतपरिणतिस्वभावत्वात् कदाचिदपि दृश्यजातादर्शनं न स्यात् ततश्च प्रलयोच्छेदः स्यादत आह। प्रतिसञ्चरः ।। 5 ।। यथा सृष्टिप्रक्रियानिर्वाहकस्त्रिगुणपरिणामस्तथा प्रतिसञ्चारः प्रतिकूलोपि विपरिणामोस्ति तथा च प्रतिलोमपरिणामेम तत् तत्कार्याणां स्वस्वकारेँ लये जाते त्रिगुणायाः प्रकृतेः साम्यस्थितिरेव प्रलय इति सूचितम् । तदा च समानपरिणामत्वेन वैलक्षण्यानाविर्भाव इति भावः ।।
अथ जायमानस्य सुखदुःखदेर्विवेकार्थं त्रैविध्यं वक्तुमेकेनादावान्तरमाह । अध्यात्मम् ।। 6 ।। आत्मानमधिकृत्येत्यधात्मम् तद् द्विविधं शरीरं मानसं चेति शरीरं वातापित्तश्लेष्मवैषम्यनिमित्तं मानसं कामक्रोधलोभमोहेर्ष्याविषयविशेषदर्शनादर्शननिमित्तम् । एतदुभयमपि आन्तरोपायसाध्यात्वादध्यात्ममित्युच्यते ।।
वाह्यभेदद्वयमाह द्वाभ्याम् । अधिभूतम् ।। 7 ।। मानुषपशुपक्षिसरीसृपस्थावरादिभतान्यधिकृत्य तदधिभूतमित्यर्थः ।।
आधिदैवम् ।। 8 ।। यक्षराक्षसविनायकग्रहाद्यावेशनिमित्तमेतत् । इदं द्वयमपि वाह्योपायसाध्यत्वाद्वाह्यमित्युक्तम् ।।
ननु सत्स्वपि विलक्षणेषु वहुषु पदार्थेषु पुरुषस्य तत्सम्बन्धाभावात् कथं ततो दुःखमतस्तत्सामाग्रीं निरूपयिषुरादौ बुद्धीन्द्रियाण्याह । पञ्चाभिबुद्धयः ।। 9 ।। अभितो बुद्ध्यन्ते ज्ञायन्ते वस्तून्याभिरित्यभिबुद्धयः बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि रूपशब्दगन्धरसस्पर्शबोधकानि ।।
अनेन च ज्ञानद्वारा योगं दर्शयितुं कर्मेन्द्रियाण्याह । पञ्च कर्मयोनयः ।। 10 ।। पञ्च इन्द्रियाणि कर्मयोनयः कर्मणां वचनादानविहरणोत्सर्गानन्दानां योनयः कारणानि तानि च वाक्पाणिपादयायूपस्थाख्यानि । अनेन कर्मणा तत्तद्विषयसान्निध्येन तत्तत्सम्बन्धः सूचितः ।। 10 ।।
अथ महदहङ्कारमनसामध्यवसायाभिमानसङ्कल्पा असाधारण्यो वृत्तयः ताभिर्विनेन्द्रियद्वारा विषयग्रहासम्भवात् तैस्तद् ग्रहोक्त्या तासां निरूपितप्रायत्वेन तत्साधारणी वृत्तिराह । पञ्च वायवः ।। 11 ।। पञ्चसंख्याकाः प्राणापानसमानोदानव्यानाख्याः वायवः महदहङ्कारमनसां साधारणवृत्तयः जीवनसाधनानि । तत्र प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठवृत्तिः अपानः कृकाटिकापृष्ठपायुपार्श्वोपस्थवृत्तिः समानो हृन्नाभिसर्वसन्धिवृत्तिः उदानो हृत्कण्ठतालुमूर्द्धभ्रूमध्यवृत्तिः व्यानस्त्वग् वृत्तिरिति ।। 11 ।।
पञ्चानामुपयोगमाह । पञ्च कर्मात्मानः ।। 12 ।। भुक्तपीताहारजलादेरसरूधिरादेश्च यथायथं प्रापणमेषां कर्म तदेकानुमेयत्वेन तत्स्वरूपात्मकता (?) इत्यर्थः ।। 12 ।।
नन्वस्तु ज्ञानक्रियाद्वारा महदभिमानसर्वसङ्कल्पानां विषययोगित्वं पुरुषस्य स्वपरिणामितया तन्न घटते इत्याशङ्कां विनिवरितयिषुराह । पञ्चपर्वाविद्या ।। 13 ।। अनात्मस्वात्मख्यातिरविद्या सा च विद्याविरोधिनी पञ्चपर्वा भवति तानि च पर्वाणि अविद्यास्मितारागद्वेषाभिनिवेशाख्यानि । तथा च यदविद्याया विपर्ययेणावधार्यते वस्तु अस्मितादयस्तत्स्वभावास्तदभिनिविशन्ते ततश्चात्मनो विवेकेन तत्सम्बन्ध इति भावः ।। 13 ।।
पञ्चाशद् भेदेन प्रत्ययसर्गेषु पञ्चविपर्यया निरुपिताः अधुना विशिष्टेष्वष्टाविंशतिमशक्तिमाह । अष्टाविंशतिधाऽशक्तिः ।। 14 ।। इन्द्रियवधा एकादश बुद्धिवधाश्च सप्तदश इत्येताः अशक्तय उच्यन्ते । इन्द्रियवधा यथा ।
वाधिर्यं 1 कुष्ठता 2 न्धत्वं 3 जडता 4 ऽजिघ्रता 5 तथा ।
मूकता 6 कौण्य 7 पङ्गुत्व 8 क्लैव्योदावर्त 10 मन्दताः 11 । इति
बुद्धिवधास्तु नवतुष्टीनामष्टसिद्धीना च विपर्ययादभवन्ति तदित्थं जात्ना अशक्तयोऽष्टाविंशतिधेति ।। 15 ।।
प्रसक्ते तुष्टिसिद्धी एवाह द्वाभ्याम् । नवधा तुष्टिः ।। 15 ।। यथोक्तम् ।
आध्यात्मिक्यश्चतस्त्रः प्रकृत्युपादानकालभाग्याख्याः । वाह्याः विषयोपरमात् पञ्च नव तुष्टयोभिहिताः ।। इति ।
अस्यार्थः विवेकसाक्षात्कारो हि प्रकृतिपरिणामभेदः तं च सैव करोतीति कृतं ध्यानाभ्यासेनेति केनचिदुपदिष्टे तत्र तुष्टिः प्रकृत्याक्या 1, अथ प्रकृतेः सर्वान् प्रत्यविशेषान्न केवलं तत एव विवेकसाक्षात्कारः किन्तु प्रव्रज्ययेत्युपदिष्टे तुष्टिरूपादानाख्या 2, प्रव्रज्यापि कालविशेषादरेणैव विवेकं जन यत्यलमुत्तप्ततया इत्युपदिष्टे तुष्टिः कालख्या 3, भाग्येनैव विवेकख्यातिरिति तुष्टिर्भाग्याख्या 4, इत्येताश्चतस्त्रः प्रकृतिव्यतिरिक्तमात्मानमधिकृत्य जायन्त इत्याध्यात्मिक्य उच्यन्ते । विषयाः शब्दस्पर्शरूपरसगन्धाख्याः पञ्च तेषु अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं तत उपरमा विरतयोपि पञ्च ते च महदहङ्कारादीननात्मन आत्मनोभिमन्यमानस्य वैराग्ये सत्युत्पद्यन्ते ऽतो वाह्या उच्यन्ते । इमाश्च नव उक्तविपर्ययाः 5 अशक्तिभिः 28 सह द्विचत्वारिंशत् 42 सिद्धिपरिपन्थित्वाद्धेयाः ।। 15 ।।
अष्टधासिद्धिः ।। 16 ।।तद्याथा
ऊहः शब्दोध्ययनं 3 दुःखचिघातास्त्रयः 6 सुहृत्प्राप्तिः 7 दानञ्च 8 सिद्धयोष्टाविति तत्रोपदेशमन्तरेण तत्त्वज्ञानस्य स्वयमूहाद्या उसिद्धिः सा प्रथमा 1 अन्यदीयशास्त्रपाठमाकर्ण्य ज्ञानोत्पत्तौ शब्दाख्या द्वितीया 2 अध्ययनतस्तत्त्वज्ञाने तृतीया 3 आध्यात्मिकाधिदैविकाधिभौतिकदुःखत्रयविघातेन तत्त्वज्ञाने जाते सिद्धित्रयम् 6 ज्ञानवत्सुहृदो लाभेन तत्त्वज्ञाने सुहृत्प्रप्त्याख्या सप्तमी 7 धनादिनाराधिते ज्ञानिनि तत्त्वज्ञानेऽष्टमी 8 अत्र दुःखविघातरूपाणां तिसृणां सिद्धीनां मुख्यत्वमितरासां तदुपायत्वादगौणत्वं बोभ्यम् । पञ्चविपर्ययादारम्भाष्टसिद्धिपर्यन्तमेते प्रत्ययसर्गाः तेषु प्रकृतिप्रत्ययान्यताख्यातिप्रेप्सुभिर्द्विचत्वारिंशदादितो हेयाः सिद्धयस्तु उपादेया इति तत्स्वरूपव्याक्रिययैव सूचितं भवति ।। 16 ।।
प्रत्ययसग्रमभिधाय प्रकृतिसर्गमाह । दश मूलिकार्थाः ।। 17 ।। दश अर्थाः पदार्थाः
मूलिकाः सन्ति मूलं प्रकृतिः पुरूषश्च तावाश्रयत्वेन विद्यते येषाम् अथवा मूलं स्वभावः स प्रयोजकत्वेनास्ति येषामिति मूलिका मूलप्रकृतौ पुरुषे च विद्यामाना इति यावत् तथा च राजवार्त्तिकम् ।
प्रधानास्तित्वऽमेकत्व 2 मर्थवत्त्व 3 मथान्यता 4 ।
पारार्थ्यं 5 च तया नैक्यं 6 वियोगो 7 योग 8 एव च ।।
शेषवृत्ति 9 रकर्त्तृत्वं 10 मौलिकार्थः स्मृता दश ।।
अत्रैकत्वमर्थवत्त्वं पारार्थ्यं 3 प्राधने अन्यत्वं प्रकृत्य पेक्षया अकर्तृत्वं वहुत्वं 6 पुरुषे अस्तित्वं 7 योगो 8 वियोग 9 श्रोभयोः । शेषवृत्तिः 10 अङ्गाङ्गभावेन गुणानां वृत्तिः स्थूलसूक्ष्मशरीरयोरिति । अत्र प्रकृतिपुरुषयोः साधर्म्यवैधर्म्यनिरूपणेन द्वयोः पार्यक्येन ज्ञानं प्रकृतिपुरुषान्यताख्यातिबीजमिति सूचितं भवति । तथा चैतेषां धर्माणां तत्तत्स्वभावभूतत्वेन प्रकृतिसर्गताव्यवहार इति ।। 17 ।।
ननु बुद्ध्यादिभिरेव त्रिगुणात्मकैः सकलकार्यसिद्धौ सिमधिकप्रकृत्यङ्गीकारेण अत आह। अनुग्रहसर्गः ।। 18 ।। बुद्ध्यादिभिः स्वकार्येऽहङ्कारादौ जनयितव्ये प्रकृतेरनुग्रहसहायोपेक्ष्यते अन्यथा बुद्धिः क्षीणा सती नालमहङ्कारं जनयितुमिति सकलोपि सर्गस्तदनुग्रहमूलक एवेत्यर्थः । अयमेव प्रकृत्यापूर इत्युच्यते तथा च प्रकृत्यैवायं सर्गो नेश्वरेण नापि ब्रह्मोपादानो नाप्यकारणो नेश्वराधिष्ठितप्रकृतित इति सूच्यते ।। 18 ।।
तन्मात्रसर्गमाह । चतुर्दशविधो भूतसर्गः ।। 19 ।। दैवतैर्यग्योनमामुष्यभेदेन भूतसर्गश्चतुर्दशप्रकारको भवति । तच्चेत्थम् ब्राह्म 1 प्राजापत्यै 2 न्द्र 3 पैत्र 4 गान्धर्व 5 याक्ष 6 राक्षस 7 भेदेनाष्टविधो दैवः पशु9 मृग 10 पक्षि 11 स्थावर 12 सरीसृप 13 भेदेन पञ्चविधस्तैर्यग्योन एकविधो 14 इति ।। 19 ।।
ननु पुरुषार्थशिरोमणीभूतमोक्षतत्त्वाकाङ्क्षा सति बन्धस्वरूपज्ञान एवोपपद्यतेऽतो बन्धस्त्रिविधः । प्राकृतो 1 वैकृतो 2 दाक्षिण 3 श्चेति । तत्र पुरुषधिया प्रकृत्युपासनं प्राकृतो बन्धः । तथा भूतेन्द्रियाहङ्कारबुद्ध्युपासनं वैकृतः पुरुषतत्त्वमजानतः केवलमिष्टापूर्तकारिणो दाक्षिण इति त्रयाणामपि पुरुषस्वरूपवेदकत्वाभावे बन्धकत्वम् ।। 20 ।।
नन्वेतदज्ञानत्रयनिवृत्तौ कीदृशो मोक्षो जायत इत्याह । त्रिविधो मोक्षः ।। 21 ।। इष्टापूर्तादिकर्मस्वसारतां पुरुषस्वरूपोपलब्धेरेव सारतां बुद्ध्यमानस्य प्रथमः ततो भूतेन्द्रियादिष्वपि विकारतां* ततः पृथगात्मानं जानतः प्रकृतिरूपस्तृतीयः । यद्यपि प्रथमद्वितीयौ न तात्त्विकमोक्षौतथाप्यैकदेशिकान्यताख्यत्या तावद्बन्धापगमेन मोक्षत्वव्यवहार इति द्रष्टव्यम् । अत्र बन्धमोक्षसंसाराः प्रकृतावेव न पुरुषे सवासनक्लेशकर्माशयानामपरिणामिनि पुरुषेऽसम्भवात् तथा च भृत्यजयपराजययोः स्वामिन्युपचारात् प्रकृतिगतानां बन्धादीनां पुरुषे उपचार एव भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषसम्बन्धः सुसाधितो भवति । एवं च धर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यैःसप्तभीरूपैः प्रकृतिर्भोगापवर्गरूपपुरुषार्थं प्रत्यात्मानं बघ्नाति तत्त्वज्ञानेन विवेकख्यात्या एकेन रूपेण विमोचयति इतीदृशस्यतत्त्वज्ञानस्याभ्यासादादरनैरन्तर्यदीर्घकालसेवितात् सत्त्वपुरुषान्यतासाक्षात्कारि केवलं ज्ञानमुत्पद्यते तेनानादिरपि विपर्ययवासना प्रतिवध्यते ततश्चाध्यावसायाभिमानसङ्कल्पालोचनानि अन्तराणि वाह्यश्च सर्वे व्यापारा आत्मनि प्रतिषिद्धा भवन्ति अयमेव मोक्ष इति राद्धान्तः ।। 21 ।।
* अत्र कश्चिदंशो निपतितः
ननु पुरुषप्रकृत्यादीनामलक्ष्याणां लक्ष्याणआं च घटपटादीनामखिलप्रमेयाणां लौकिकैः कथमनुभवो विधेयोऽत आह। त्रिविधं प्रमाणम् ।। 22 ।। असन्दिग्धाविपरीतानधिगतविषया चितवृत्तिर्बोधश्च पौरुषेयः फलं प्रमा तस्याः करणं प्रमाणम् । तत् त्रिविधं प्रत्यक्षानुमानशब्दभेदात् । एतेनाधिकान्युपमानादीनि नैयायिकाद्यभ्युपगतानि प्रमाणानि एष्वेवान्तर्भवन्तीति नातिरिक्तन्युपयुज्यन्ते । तत्रार्थसन्निकृष्टमिन्द्रियं प्रत्यक्षम् । व्याप्यव्यापकभावपक्षधर्मताज्ञान पूर्वकमनुमानम् । आप्तवचनाद्वेदादिरूपाच्छब्दमिति । विशेषत एषां लक्षणोदाहरणान्याकरादवसेयानीति शिवम् ।। 22 ।।
एकस्मिंस्त्रिगुणात्मतत्त्वयुतितो जाता द्विधा साप्यतो
द्वित्वं प्राप्य प्रकाशयत्यविरतं भोगपवर्गौ स्वतः ।
इत्येवं परिसूचयन् मतिमतां भोहापहं कापिलं
सूत्राणाममलं द्विकद्वयमिदं जीयाच्चिरं चेतसि ।।
इति सर्वोपकारिणी संक्षिप्तकापिलसूत्रवृत्तिः समाप्ता ।।

सांख्यसूत्रविवरणम् ।
श्रीकपिलाय नमः ।
प्रकृतिं पुरुषं सांख्यसूत्रे विधीयते ।
संक्षेपतो विवरणमविवेकापनुत्तये ।।
इह खलु भगवान् कपिलो मुनिरासुरये ऽनुकम्पया पञ्चविंशतितत्त्वान्युपदिश्य सूत्रयामास । अष्टौ प्रकृतय इत्यादि । काः पुनस्ता इत्युच्यन्ते । प्रधानं महानहंकारस्तन्मात्राणि च । प्रधानं प्रकृतिरव्यक्तमव्याकृतं चेत्यनर्थान्तरम् । महान् महत्तत्त्वं बुद्धिरध्यवसायलक्षणम् । अहंकारोऽभिमानलक्षणो वैकृतिकस्तैजसोभूतादिश्चेति त्रिविधः । तन्मात्राणि तु पञ्च शब्दतन्मात्रमाकाशहेतुः स्पर्शतन्मात्रं वायुयोनिः । रूपतन्मात्रं तेजोयोनिः । रसतन्मात्रमपप्रकृतिः । गन्धतन्मात्रं पृथवीहेतुः । इति पञ्चतन्मात्राणि इत्यष्टौ प्रकृतयः ।
के पुनर्विकाराः कति । षोडशविकाराः । एकादशेन्द्रियाणि पञ्च महाभूतानि च । तत्र श्रोत्रत्वक् चक्षूरसनघ्राणाख्यानि बुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धालोचनवृत्तानि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादानविहारणोत्सर्गानन्दवृत्तीनि। ज्ञानक्रियाशक्तिद्वयात्मकं सङ्कल्पविकल्पलक्षणं मन इत्येकादशेन्द्रियाणि । भूतानि चाकाशवायुतेजःसलिलपृथिवीलक्षणानि पञ्चेति षोडशविकाराः ।।
अथ कः पुरुष इत्युच्यते । पुरुषोऽनेकस्त्रिगुणरहितो विवेकी अविषयोऽसाधारणोऽप्रसवधर्मा चेतनः साक्षी केवलो मध्यस्थो द्रष्टाऽकर्ता च ।।
अथ के पुनस्त्रयो गुणा इत्युच्यन्ते । त्रैगुण्यं सत्त्वं रजस्तम इति । त्रय एव गुणास्त्रैगुण्यम् । सत्त्वं नाम पाटवमार्दवलाघवप्रसन्नताभिसङ्गप्रीतिष्ट्यनीहासन्तोषादिलक्षणमनन्तभेदं समासतः सुखावहम् । रजोनाम शोकतापखेदस्तण्भोद्गमोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखावहम् । तमो नामाच्छादनावरणवीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकम् एतत् त्रैगुण्यं व्याखातम् ।।
सत्त्वं प्रकाशकं विन्द्याद्रजो विन्द्यात् प्रवर्तकम् ।
विनाशकं तमो विन्द्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ।।
अत्राह कः सञ्चरः प्रतिसञ्चरश्चेति । उच्यते । उत्पत्तिः सञ्चरः । प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाव्यक्तात् समुपदिष्टात् सर्वजगतः परेण रूपेणाधिष्ठानात्मकात् महान् महतोऽहंकारः । स च त्रिविधः । वैकृतिको भूतादिस्तैजसश्चेति । तत्र वैकृतादिन्द्रियाण्युत्पद्यन्ते भूतादेस्तन्मात्राणि तैजसादुभयम् इन्द्रियाणि तन्मात्राणि चेति । तन्मात्रेभ्यो भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ । बुद्धिरख्यक्ते । ततोऽव्यक्तं तु क्कचिन्न लीयते कस्मात् अनुत्पन्नत्वात् । इत्येवं प्रतिसञ्चरः । एवमेतौ सञ्चरप्रतिसञ्चरौ व्याख्यातौ ।।
अत्राह किंविधमध्यात्ममधिभूतमधिदैवतं च । अत्रोच्यते । बुद्धिरध्यात्मम् । अभिमन्तव्यमधिभूतम् । रुद्रस्तत्राधिदैवतम् । मनोध्यात्मं संकल्पमधिभूतम् । चन्द्रस्तत्राधिदैवतम् । श्रोत्रमध्यात्मम् ।श्रोतव्यमधिभूतम् । दिशस्तत्राधिदैवतम् । त्वगध्यात्मम् । स्पर्शयितव्यमधिभूतम् । वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मम् । दर्शयितव्यमधिभूतम् । सूर्यस्तत्राधिदैवतम् । जिह्वाध्यात्मम् । रसयितव्यमधिभूतम् । वरुणस्तत्राधिदैवतम् । नासाध्यात्मम् । घ्रातव्यमधिभूतम् । पृथवी तत्राधिदैवतम् । वागाध्यात्मम् । वक्तव्यमाधिभूतम् । अग्निस्तत्राधिदैवतम् । पाणिरध्यात्मम् । आदातव्यमाधिभूतम् । इन्द्रस्तत्राधिदैवतम् । पादावध्यात्मम् । गन्तव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । पायुरध्यात्मम् । उत्स्रष्टव्यमधिभूतम् । मित्रस्ताधिदैवतम् । उपस्थमध्यात्मम् । आनन्दयितव्यमधिभूतम् । प्रजापतिस्तत्राधिदैवतम् । एवमेव त्रयोदशकरणस्याध्यात्ममधिभूतमधिदैवं च व्याख्यातम् । कानि चत्वारीत्यत् आह चेति। त्रीणि गुणरूपाणि चतुर्थमधिदैवतमित्यर्थः ।।
चत्वारि यो वेदयते यथावद
गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्गो
गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ।।
अथ कास्ता अभिबुद्धय इत्युच्यन्ते । पञ्चभिबुद्धयः । बुद्धिरभिमान इच्छा कर्तव्यं तत् क्रिया चेति । अभिमुखी बुद्धिरभिबुद्धिः।इदं करणीयमित्येतदध्यनसायो बुद्धिः क्रियात्मपरामर्शस्वरूपप्रत्ययः । अभिमुखो मानोऽहं करोमीत्यहंकारोऽभिमानः । बुद्धिक्रिया इच्छा वाञ्छा । कर्तव्यं संकल्पो मनसो वृत्तिः । क्रिया एतद्वस्तुस्वरूपमिति कर्तव्यालोचनं यद्बुद्धीन्द्रियाणां सा क्रिया । इत्यमेतत् कर्तव्यमिति यत्प्रवृत्तिः कर्मेन्द्रियाणां सा क्रियेति । एवमेताः पञ्चाभिबुद्धयो व्याख्याताः ।।
अथ काः पञ्चकर्मयोनयः उच्यन्ते । धृतिः श्रद्धा सुखा अविविदिषा विविदिषा चेति पञ्च कर्मयोनयः ।
वाचि कर्मणि काये च प्रतीतिर्याभिरज्यते ।
तन्निष्ठस्तप्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ।।
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
प्रतिग्रहोऽत्रहोमश्च श्रद्धाया लक्षणं स्मृतम् ।।
सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ।।
विषधूममूर्छितवदविविदिषा । विविदिषा ध्यानिनां प्रज्ञायोनिः ।
एकत्वं च पृथक्त्वं च नित्यं चेदमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा ।।
कार्यकारणक्षमकारा विविदिषा प्राकृतिका वृत्तिः ।
धृतिः श्रद्धा सुखा अविविदिषा चतस्त्रो बन्धाय विविदिषैका मोक्षाय इति पञ्च कर्मयोनयो व्याख्याताः ।।
अत्राह के ते पञ्चवायवः । उच्यन्ते ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च षरीरेषु शरीरिणाम् ।।
तत्र प्रणो नाम वायुर्योऽयं मुखनासिकाधिष्ठानप्राणनात् क्रमेणाननात् प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभेरधिष्ठाता अपनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम वायुर्हृदधिष्ठाता समनात् समगमनाच्च समान इत्यभिधीयते । उदानो नाम वायुः कण्ठधिष्ठाता ऊर्ध्वं गमनाच्च उदान इत्यभिधीयते । व्यानो नाम वायुः सन्ध्यधिष्ठाता प्राणादिजृम्भणाच्च व्यान इत्यभिधीयते । इति पञ्चवायवो व्याख्याताः ।।
आह के ते पञ्चकर्मात्मानः उच्यन्ते । वैकारिकस्तैजसो भूतादिश्च सानुमानो निरनुमानश्चेति । तत्र वैकारिकः शुभकर्मकर्ता। तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः शुभमूढकर्मकर्ता । निरनुमानोऽशुभमूढकर्मकर्ता । इत्येते पञ्चकर्मकर्तारो व्याख्याताः ।।
आह का सा पञ्चपर्वाविद्येति । उच्यते । तमो मोहो महामोहस्तामिस्त्रोऽन्धतामिस्त्रश्चेति । तत्र तमोमोहावुभावेतावष्टात्मकौ । महामोहो दशात्मकः । तामिस्त्रान्धतामिस्त्रौ चाष्टादशात्माकौ। तत्र तमो नामाष्टासु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसञ्ज्ञितासु अनात्मस्वात्मज्ञानाभिमानस्तम इत्यभिधीयते । मोहो नामाणिमाद्यष्टगुणैश्वर्यप्राप्तये योभिमान उत्पद्यते समोह इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु विषयेषु दशसु निवृत्तेषु मुक्तोऽहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्त्रो नाम अष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये प्रतिहतस्य दुःखमुत्पद्यतेऽसौ तामिस्त्र इत्यभिधीयते । अन्धतामिस्त्रो नाम अणिमाद्यष्टगुणैश्वर्ये दशविधे च विषये सिद्धे मरणकाले च यो विषादः प्रत्यपद्यते सोऽविद्या द्विषष्टिभेदा व्याख्याता ।।
अत्राह काष्टाविंशतिधाशक्तिः । अत्रोच्यते । एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाः । एषाष्टाविंशतिधाशक्तिः । तत्रेन्द्रियवधास्तावत् । वधिरस्त्वक्वधिरः अन्धः जडजिह्वः अजिघ्रः मूकः कुणिः पङ्गुः नपुसंकः
ऊर्ध्वायुयुक्तः अमनाः ।तदुक्तम् ।
वाधिर्यं कुष्ठितान्धत्वं जडताऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वं क्लैव्योदावर्तमत्तताः ।।
एतदिन्द्रियद्वारा बुद्धेरेव वधाः । साक्षाद् बुद्धिवधा यथा । नवविधतुष्टिवैकल्यात् अष्टविधसिद्धिवैकल्याच्च सप्तदशबुद्धिवधा इत्यष्टाविंशतिधाशक्तिः।।
का पुनर्नवधा तुष्टिः उच्यते । चतस्त्र आध्यात्मिक्यस्तुष्टयः वाह्याः पञ्च । आद्याः प्रकृत्युपादानकालभाग्याख्याः । प्रकृत्यैव मुक्तिः किं पुनः साधनैरिति तुष्टिः प्रकृत्याख्या अम्भो नाम । साधनैः संन्यासादिभिरुपात्तैस्तुष्टिः साधनाख्या सलिलं नाम । कालेनैव मुक्त्यादिकं सत्स्यति किं दुःखैः संन्यासादिसाधनैरिति तुष्टिः कालख्याऽघो नाम । या तु भाग्यादेव सर्वं सेत्स्यति किं साधनादिध्यानादिक्लेशैरिति सा भाग्याख्या तुष्टिर्माम । वाह्याः शब्दादिविषयवैराग्यास्तुष्टयः अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं वैराग्यहेतुः पञ्चविधस्तद् भेदेन पञ्चतुष्टयः ।।
अथ काः सिद्धयः उच्यन्ते । अष्टौ सिद्धयः । उच्यन्ते । अध्ययनं तारं नाम सिद्धिः । ततोऽर्थज्ञानं सुतारं नाम । ततस्तर्केणार्थपरीक्षणं तारतरं नाम सिद्धिः । ततः परीक्षकसंवादनं रम्यकं नाम । ततो विवेकख्यातिः सदामुदितं नाम । एताः पञ्च गौण्यः सिद्धयः । दुःखत्रयविघातास्तास्त्रोयो मुख्याः सिद्धयः । प्रमोदमुदितमोदनामाख्याः फलमित्यष्टौ सिद्धयः । तुष्टिसिद्धीनां विपर्ययात् सप्तदशधा बुद्धिवधा ः ।।
के पुनर्मौलिकार्थाः कतिधा उच्यन्ते । दशधा मौलिकार्थाः । एकत्वमर्थवत्त्वं पारार्थ्यं प्रधानस्य । अन्यत्वमकर्तृत्वं वहुत्वं पुरुषस्य । अस्तित्वं योगो वियोगश्चेत्युभययोः । शेषवृत्तिः परिशिष्टत्वं प्रलये तदुभययोः । तदुक्तम्
प्रधानास्तित्वमेकत्वमर्थवत्वं यथार्थता ।
पारार्थ्यं च तथा नैक्यं वियोगो योग एव च ।।
शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ।। इिति ।
अत्राह कोऽनुग्रहसर्गः । अनुगृह्णाति प्रत्ययभूतादिसर्गं यः सर्गं सोऽनुग्रहसर्गः । तन्मात्रसर्ग एवासौ विशेषापरनामा ।
के विशेषाः कियन्तश्च । उच्यन्ते । लिङ्गदेहाः स्थूलदेहाः स्थूलभूतानि च । तत्र लिङ्गं स्थूलदेहात् पूर्वमुत्पन्नमव्याहतं स्थूलनाशे ऽप्यनश्वरम् । महदहंकारेन्द्रियतन्मात्रात्मकम् । धर्माधर्मज्ञानाज्ञानवैराग्यैश्वर्याख्यभाववासितं संसरति । स्थूलभूतानि तु भूगोलसमुद्रवह्निशिशुमारब्रह्माण्डविराटादीनि । स्थूलदेहाः के कतिविधाश्चेति उच्यते ।। शतुर्दशविधो भूतसर्गः । तत्राष्टविकल्पो दैवस्तैर्यग्योनः पञ्चधा मानुष्य एकविधः ब्राह्मः प्राजापत्पः पैत्रो गान्धर्वो योक्षो राक्षसः पैशाचश्च दैवसर्गः पशुमृगपक्षिसरीसृपस्थावराः तिरश्चां सर्गः । ब्राह्मणादिजातिभेदेऽपि संस्थाने विशेषभावात् एकविधो मानुष्य इति चतुर्दशविधाः स्थूलदेहाः । कः पुनर्बन्धः कतिधा च । त्रिविधो बन्धः । काः पुनस्ता विधा उच्यन्ते । प्राकृतिको वैकृतिको दाक्षिणकश्च बन्धः । प्रकृतिमात्मानं ज्ञात्वा तच्चिन्तनात् प्राकृतिकः अत्रोच्यते पूर्णवर्षसहस्त्रं तु तिष्ठन्त्यव्यक्तचिन्तका इति । महदादीनात्मत्वेन ज्ञात्वा तच्चिन्तनाद्वैकारिकः । अत्रोच्यते ।
दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्त्रं चाभिमानिकाः ।
बौद्धा दशसहस्त्राणि तिष्ठन्ति विगतज्वराः ।
अमी विदेहाः ।
इष्टापूर्त्ती दक्षिणा तन्निमित्तो दाक्षणिकः अत्रोच्यते ।
स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपमिति ।
गातगतं कामकामा लभन्त इति च । अत एव हि त्रिष्वपि बन्धेषु एकैकापाये ततस्ततो मोक्ष इति ।
त्रिविधो मोक्षः । कर्मणो विकारात् प्राकृतश्च मोक्षः यदुक्तम् ।
प्राकृतेन च बन्धेन तथा वैकारिकेण च ।
दक्षिणभिस्तृतीयेन वृद्धे नान्येन मुच्यते ।। इति ।
अथ कुतस्त्यानां तत्त्वानां सिद्धिः । प्रमाणादिति ब्रूमः । तत्र प्रमाणं किं कतिविधं वा उच्यते त्रिविधं प्रमाणम् । तिस्त्रो विधा यस्येति त्रिविधम् । कास्ता विधाः । उच्यते । दृष्टमनुमानमाप्तवचनं च । अर्थसन्निकृष्टेन्द्रियजो निश्चयो दृष्टम् । इन्द्रियाणि पञ्च चक्षुरादीनि मनश्च । व्याप्तिपक्षधर्मताज्ञानपूर्वकमनुमानम् । तच्च त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो दृष्टं च । पूर्ववद्यथा कर्दमेनं पूर्ववृत्तवृष्ट्यनुमानम् । शेषवद्यथा । समुद्रातपलमुदकं(?) क्षारमुपलभ्य शेषस्यापि क्षारत्वानुमानम् । सामान्यतो दृष्टं च यथा । रूपद्युपलभ्य तदुपलब्धेः कारणस्यामुमानम् । रूपाद्युपलब्धयः करणसाध्याः क्रियत्वात् छिदिक्रियावत् । आप्तश्रुतिराप्तवचनं च । यथार्थवाक्यजार्थविषयोध्यवसाय इति यावत् । प्रावादुकोद्भावितानां तु उपमानार्थापात्तिसंम्भवाभावैतिह्यप्रतिभानामित्युक्ते-
ष्वेवान्तर्भावः । यत् तद्यथा गौर्गवयस्तथेति वाक्यम् । तद्ज्ञाननिधीरागम् एव । गवयेपि गोसदृशस्य गवयशब्दो वाचक इति प्रत्ययः सोयमनुमानमेतत्सङ्केतग्रहरूपत्वात् । यद् गवयस्य चक्षुःसन्निकृष्टगोसादृश्यज्ञानं तत्प्रत्यक्षमेव। अत एव स्मर्यमाणायां गवि सादृश्यज्ञानं प्रत्यक्षम् । गोगवययोः सादृश्यस्य गवयान्तरवर्त्तिभूयोवयवसामान्यरूपस्य योगरूपस्यैकत्वादित्युपमानं न मानान्तरम् । जीवतो गृहाभावदर्शनेन वहिर्भावकल्पनादित्यर्थापत्तिरनुमानमेव । सम्भवोपि खार्यादौ द्रोणाढकप्रस्थाद्यवगमरूपोऽनुमान मेव । इह भूतले घटो नास्तीत्यादिरभावावगमोपि प्रत्यक्षमेवेति नाभावः पृथक् प्रमाणम् । अनिर्दिष्टप्रवक्तृकं प्रवादमात्रमैतिह्यमपीह वटे यक्षः प्रतिवसतीत्यप्रमाममेव । आप्तमूलत्वे त्वागम एव । द्वारवती पुण्यं भवतीत्यादिबुद्धिर्जायमाना प्रतिभा । यत्रोच्यते । अनुक्तमप्यूहति पण्डितो जन इति । सा तु प्रायेणप्रमाणमेव । आर्षं तु दर्शनं प्रत्यक्षमेव । या प्रतिभा साप्यनुमानमेव ।।
त्रयोविंशतिसूत्रैर्हि सर्वशास्त्रार्थसंग्रहः ।
कृतो मुनिवरेणात्र यथामति सचीवृतः (?) ।।
इति सांख्यसूत्रविवरणाख्या
कापिलसूत्रवृत्तिः समाप्ता।।
*****
।। श्रीः ।।
तत्त्वसमाससूत्रवृत्तिः ।
पञ्चविंशतितत्त्वेषु जन्मना ज्ञानमाप्तवान् ।
आदिसृष्टौ नमस्तस्मै कपिलाय महर्षये ।। 1।।
अथातस्तत्त्वसमासाख्यसाङ्ख्यसूत्राणि व्याख्यास्यामः । इह कश्चिद् ब्राह्मणस्त्रिविधेन दुःखेनाभिभूतः साङ्ख्याचार्यं कपिलमहर्षिं शरणमुपागतः । स्वकुलनामगोत्रस्वाध्यायं निवेद्याह । भगवन् कि महि परं किं याथातथ्यं किं कृत्वा कृतकृत्यः स्यामिति । कपिल उवाच कथयिष्यामि । अष्टौ प्रकृतयः ।। 1 ।। षोडश विकाराः ।। 2।। पुरुषः ।। 3 ।। त्रैगुण्यम् ।. 4 ।। सञ्चरः ।। 5।। प्रतिसञ्चरः ।। 6 ।। अध्यात्मम् अधिभूतम् अधिदैवतं च ।। 7 ।। पश्चाभिवुद्धयः ।। 8 ।। पञ्चकर्मयोनयः ।। 9 ।। पञ्चवायवः ।। 10 ।। पञ्चकर्मात्मानः ।। 11 ।। पञ्चपर्वाऽविद्या ।। 12 ।। अष्टाविंशतिधाऽशक्तिः ।। 13 ।। नवधा तुष्टिः ।। 14 ।। अष्टधा सिद्धिः ।। 15 ।। दशधा मूलिकार्थाः ।। 16 ।। अनुग्रहसर्गः ।। 17 ।। चतुर्दशविधो भूयसर्गः ।। 18 ।। त्रिविधो धातुसर्गः ।। 19 ।। त्रिविधो बन्धः ।। 20 ।। त्रिविधो मोक्षः ।। 21 ।। त्रिविधं प्रमाणम् ।। 22 ।। त्रिविधं दुःखम् ।। 23 ।।* एतत् परम्परया याथातथ्यमेतत् सम्यग् ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधेन दुःखेनाभिभूयते । इति तत्त्वसमासाख्यसाङ्ख्यसूत्राणि ।।
* एतेषु सूत्रेषु व्याख्याकारमतभेदाद्वह्नानि पाठान्तराण्युपलभ्यन्ते इति तत्रतत्र द्रष्टव्यानि ।
अथ का अष्टौ प्रकृतय इत्यत्रोच्यते । अव्यक्तं बुद्धिरहङ्कारः पञ्च तन्मात्राणीत्येता अष्टौ प्रकृतयः । तत्राऽव्यक्तं तावदुच्यते यथा लोके व्यज्यन्ते घटपटकुड्यशयनकाद्या न तथा व्यजत इत्यव्यक्तम् । श्रोत्रादिभिरिन्द्रियैर्न गृह्यत इत्यर्थः । कस्यात् अनादिमध्यान्तत्वान्निरवयवत्वाच्च ।।
अशब्दमस्पर्शमरूपमव्ययं
तथा च नित्यं रसगन्धवर्जितम् ।
अनादिमध्यं महतः परं ध्रुवं
प्रधानमेतत् प्रवदन्ति सूरयः ।।
सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथाप्रसवधर्मि निरवयवमेकमेव हि साधारणमेतदव्यक्तम् । अव्यक्तस्यामी पर्यायशब्दा भवन्ति । अव्यक्तं प्रधानं ब्रह्म परं ध्रुवं बहुधानकमक्षरं क्षेत्रं तमः प्रसूतमिति ।
का बुद्धिरत्रोच्यते । अध्यवसायो बुद्धिः । सोयमध्यवसायो गवादिषु द्रव्येषु यस्मात् प्रतिपत्तिः। एवमेतन्नान्यथा । गौरेवायं नाश्चः । स्थाणुरेवायं न पुरुषः । इत्येषा बुद्धिः । अस्यास्तु बुद्धेरष्टौ रूपाणि भवन्ति धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । तत्र धर्मो नामाऽधर्मविपर्ययः श्रुतिस्मृतिविहिताः शिष्टाचाराऽविरुद्धः शुभलक्षणः । ज्ञानं नामाऽज्ञानविपर्ययस्तत्त्वभावभूतानां सम्बोधः । वैराग्यं नामाऽवैराग्यविपर्ययः शब्दादिविषयेष्वप्रशक्तिः । ऐश्वर्यं नामाऽनैश्वर्यविपर्ययोऽणिमादयोऽष्टगुणाः । एतानि सात्त्विकानि चत्वारि । अधर्मो नाम धर्मविपर्ययः श्रुतिस्मृतिविरुद्धः शिष्टाचारविरुद्धोऽशुभलक्षणः । अज्ञानं नाम ज्ञानविपर्ययस्तत्त्वभावभूतानामनवबोधः । अवैराग्यं नाम वैराग्यविपर्यः शब्दादिविषयेष्वभिषङ्गः । अनैश्वर्यं नामैश्वर्यविपर्ययोऽणिमादिरहितत्वम् । एतानि तामसानि चत्वारि । तत्र धर्मेण निमित्तेनोर्ध्वगमनम् । ज्ञानेन निमितितेन मोक्षः । वैराग्येण निमित्तेन प्रकृतिलयः । ऐश्वर्यनिमित्तेनाऽप्रतिहतगतिर्भवति । एवमेषाष्टरूपा बुद्धिर्व्याख्याता । बुद्धेरमी पर्यायशब्दा भवन्ति ।
मनो मतिर्महान् ब्रह्मा ख्यातिः प्रज्ञा श्रुतिर्धृतिः ।
प्रज्ञानं सन्ततिः स्मृतिर्धीर्बुद्धिः परिकथ्यते ।।
अत्राह कोऽहङ्कार इत्युच्यते । अभिमानोऽहङ्कारः ।
अहं शब्दे अहं स्पर्शे अहं रूपे अहं रसे ।
अहं गन्धे अहं स्वामी धनवानहमीश्वरः ।। 1 ।।
अहं भोगी अहं धर्मे ऽभिषिक्तोऽसौ मया हतः ।
अहं हनिष्ये बलिभिः परैरित्येवमादिकः ।। 2।।
योऽयमभिमानप्रत्ययो सोऽहङ्कारो वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति ।।
अत्राह कानि पञ्चतन्मात्राणीत्युच्यते । अहङ्कारान्वितानि पञ्चतन्माच्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति पञ्चतन्मात्राणि । तत्र तावच्छब्दतन्मात्राणि शब्देष्वेवोपलभ्यन्ते ।
उदात्तानुदात्तस्वरितकम्पितषड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादादयः शब्दविशेषादुपलभ्यन्ते । तस्माच्छब्दतन्मात्रे ऽविशेषः । अथ स्पर्शतन्मात्राणि स्पर्शेष्वेवोपलभ्यन्ते तत्र मृदुकठिनकर्कशपिच्छिलशीतोष्णादयः स्पर्शाविशेषा उपलभ्यन्ते । तस्मात् स्पर्शतन्मात्रेऽविशेषः । रूपतन्मात्राणि रूपेष्वेवोपलभ्यन्ते । तत्र शुक्लरक्तकृष्णहरितपीतहारिद्रमा़ञ्जिष्ठादयो रूपविशेषा उपलभ्यन्ते । तस्माद्रूपतन्मात्रेऽविशेषः । तथा रसतन्मात्राणि रसेष्वेवोपलभ्यन्ते । तत्र कटुतिक्तकषायक्षारमधुराम्ललवणादयो रसविशेषा उपलभ्यन्ते तस्माद्रसतन्मात्रेऽविशेषः । अथ गन्धतन्मात्राणि गन्ध एवोपलभ्यन्ते । तत्र सुरभिरसुरभिश्च गन्धविशेषा उपलभ्यन्ते * । तस्माद् गन्धतन्मात्रेऽविशेषः । एवमे तत्पञ्चतन्मात्राणि सूचितानि । अथैषां पर्यायशब्दाः । तन्मात्राण्यविशेषाणि महाभूतप्रकृतयो भोग्यान्यणवः शान्तघोरमूढानीति । एवमेता अव्यक्तबुद्ध्यहंकारतन्मात्रसञ्ज्ञिता अष्टौ प्रकृतयो व्याख्याताः । अथ कस्मात् प्रकृतयः प्रकुर्वन्तीति प्रकृतयः ।
* गन्धतन्मात्राद् गन्ध एवोपलभ्यते न सुरभिरसुरभिश्च गन्धविशेषः-पा0 2 पु0 । एवमेव पूर्वं सर्वत्र पाठान्तराणि वर्तन्ते ।
अथ ते के षोडशविकारा इत्यत्रोच्यते । एकादेशेन्द्रियाणि पञ्चमहाभूतान्येते षोडशविकाराः । तत्रेन्द्रियाणि तावदुच्यन्ते । श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि । श्रोत्रं स्वविषयं शब्दं गृह्णाति त्वक्पर्शविषयं चक्षू रूपविषयं रसना रसविषयं घ्राणं गन्धविषयमिति । वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि स्वंस्वं कर्म कुर्वन्ति । तत्र वाग्वचनमुच्चरति । हस्तौ कर्म कुरुतः । पादौ विहरणम् । पायुर्विसर्गम् । उपस्थमानन्दम् । उभयात्मकं मनः । स्वसंकल्पविकल्पवृत्ती करुते । एवमेकादशेन्द्रियाणि व्याख्यातानि । अथैषां पर्यायाः
। इन्द्रियाणि करणानि वैकारिकाणि खानि नियतानि पदानि अवधृतानि अणूनि अक्षणीति ।
अथ कानि पञ्चमहाभूतानीत्यत्रोच्यते । पृथिव्यप्तेजोवाय्वाकाशनीति महाभूतानि । तत्र पृथवी धारणभावेन प्रवर्तमाना चतुर्मामुपकारं करोति । आपो जलानि संग्रहभावेन प्रवर्त्तमानाश्चतुर्णामुपकारं करोति । वायुर्वाहनभावेन प्रवर्त्तमानश्चतिर्णामुपकारं करोति । आकाशमवकाशदानेन प्रवर्तमानं चतुर्णामुपकारं करोति । शब्दस्पर्शरूपरसगन्धवती पञ्चगुणापृथिवी । शब्दस्पर्शरूपरसवत्यश्चतुर्गुणा आपः । शब्दस्पर्शरूपवत् त्रिगुणं तेजः । शब्दस्पर्शवान् द्विगुणो वायुः । शब्दवदेकगुणमाकाशम् । एवमाख्यातानि पञ्चमहाभूतानि । अथैषां पर्यायाः । भूतानि भूतविशेषाः विकाराः आकृतयः तनवः विग्रहाः शान्ताः घोराः मूढाः इत्येते षोडशविकारा व्याख्याताः ।
अथाह कः पुरुष इत्युच्यते । पुरुषोऽनादिः सूक्ष्मः सर्वगतश्चेतनोऽगुणो नित्यो द्रष्टा भोक्ताऽकर्त्ता क्षेत्रविदमलोऽप्रसवधर्मी चेति । अथाह कस्मात् पुरुषः पुराणात् पुरिशयनात् पुरोहितवृत्तित्वाच्च मध्यो वा विद्यत इत्यनादिः । कस्मात् सूक्ष्मः । निरवयवत्वादतीन्द्रियत्वात् सूक्ष्मः । कस्मात् सर्वगतः । सर्वं प्राप्तमनेन नास्य गगनमस्तीति सर्वगतः । कस्माच्चेतनः । सुखदुःखमोहोपलब्धिमत्त्वात् । कस्मादगुणः । सत्त्वरजस्तमांस्यस्मिन्न सन्त्यतोऽगुणः । कस्मान्नित्यः अकृतकत्वादनुत्पादकत्वाच्च । कस्माद् द्रष्टा । प्रकृतिविकारानुपलम्भेन इति । कस्माद्भोक्ता । चेतनभावात् सुखदुःखपरिज्ञानाच्च । कस्मादकर्ता । उदासीनत्वादगुणत्वाच्च । कस्मात् क्षेत्रविद् । क्षेत्रेभ्यो गुणान् वेत्तीति क्षेत्रविद् । अथ कस्मादमलः । शुभाऽशुभकर्माण्यस्मिन् पुरुषे न सन्तीत्यमलः । कस्मादप्रसवधर्मी । निर्बीजत्वात् । न किञ्चिदुत्पादयतीत्यर्थः । एवमेष सांख्यपुरुषो व्याख्यातः । अथास्य पुरुषस्य पर्यायाः । पुरुषः आत्मा पुमान् पुगुणः बहुलः जन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः अजः यः कः सः एषः । एवमेतानि पञ्चविंशतितत्त्वानि व्याख्यातानि । अष्टौ प्रकृतयः षोडषविकाराः पुरुषश्चेति ।।
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ।।
अत्राह पुरुषः किं कर्ता अकर्त्ता वेति । यदि कर्त्तापुरुषः स्यात् तदा शुभानि कुर्यात् । ननु वृत्तित्रयं लोके दृष्टं पुरुषस्य ततः किं गुणानां कर्तृताऽसिद्दा ? ।
धर्माख्यं सौहित्यं यमनियमनिषेवणं प्रख्यानम् ।
ज्ञानैश्वर्यविरागाः प्रकाशमिति सात्त्विकी वृत्तिः ।।
रागः क्रोधो लोभः परपरिवादोऽतिरौद्रता ऽतुष्टिः ।
विकृताकृतिपारुष्यं प्रख्यातैषा तु राजसी वृत्तिः ।।
प्रामादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता निद्रा ।
आलस्यं नैर्घृण्यमशौचमिति तामसी वृत्तिः ।।
एतद् वृत्तित्रयं दृष्ट्वालोको गुणानां कर्तृत्वं सिद्धमिति चाकर्त्ता पुरुषः सिद्धो भवति ।।
प्रवर्त्तमानान् प्रकृतेरिमान् गुणान्
रजस्तमोभ्यां विपरीतदर्शनात् ।
अहं करोमीत्यबुधोऽभिमन्यते
तृणस्य कुब्जीकरणे ऽप्यनीश्वरः ।।
सर्वमिदं मया कृतं ममेदमिति वदन्नभिमानादबुध उन्मत्तः कर्तृवद्भवति अत्राह ।
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।।
अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।।
एवम् ।
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ।।
तत्राह किमयमेकः पुरुषे वहवो वेत्युच्यते ।
सुखदुःखमोहसङ्करविशुद्धकरणपाटवजन्ममरणकरणानां नानात्वात् पुरुषवहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च। यद्येकः पुरुषः स्योदेकस्मिन् सुखिनि सर्व एव सुखिनः स्युः । एकस्मिन् दुःखिनि सर्व एव दुःखिनः स्युः । एकस्मिन् करणपाटवे सर्वेषामेव करणपाटवं स्यात् । एकस्मिञ्जाते सर्व एव जायेरन् । एकस्मिन् मृते सर्व एव म्रियरेन्निति । न चैवम् इतश्च वहवः पुरुषाः सिद्धाः । आकृतिगर्भाशयभावसङ्गतिशरीरविभागे लिङ्गवहुत्वात् । एवं तावत् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो वहन् परुषान् वर्णयन्ति । वेदान्तवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमेवात्मानं वर्णयन्ति । कस्मादेवं तदाह ।
पुरुष एवेदं सर्वं भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्येनातिरोहति ।।
तदेवाग्निस्तदादित्यस्तद्वायुस्तद्धि चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म तदापः सः प्रजापतिः ।।
तदेव सत्यममृतं स मोक्षः सा परा गतिः ।।
तदक्षरं तत् सवितुर्वरेण्यं
यस्मात्परं नापरमस्ति किञ्चित ।।
यस्मान्नाणीयो न ज्यायोऽस्ति कश्चिद् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ।
सर्वतः पाणिपादान्तं सर्वतोक्षिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति ।।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वेषां प्रभुमीशानं सर्वस्य शरणं महत् ।।
सर्वतः सर्वतत्त्वानि सर्वात्मा सर्वसम्भवः ।
सर्वं विलीयते यस्मिन् तद्ब्रह्म मुनयो विदुः ।।
एक एव हि भूतात्मा देहेदेहे व्यवस्थितः ।
एकधा वहुधा चैव दृश्यते जलचन्द्रवत् ।।
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
वयत्येको महानात्मा येन सर्वमिदं ततम् ।।
एकोयमात्मा जगतामेकेन वहुधा कृतः ।
पृथग् वदन्ति चात्मानं ज्ञानादिकप्रवर्तने (?) ।।
ब्रह्मणे कृमिकीटेषु श्वपाके शुनि हस्तिनि ।
पशुगोदंशमशके समं पश्यन्ति पण्डिताः ।।
एक एव यथा सत्रं सुवर्णे वर्तते पुनः ।
मुक्तामणिप्रवालेषु मृण्मये रजते तथा ।।
तद्वद् गोषु मनुष्येषु तद्वद्वस्तिमृगादिषु ।
एकोयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ।।
अत्राह किं त्रैगुण्यं नामोच्यते । सत्त्वरजस्तमांसीति त्रिगुणा एव त्रैगुण्यम् । सत्त्वं नाम प्रसादलाघवप्रसन्नताभिषङ्गप्रीतितुष्टितितिक्षासन्तोषादिलक्षणमनन्तभेदं समासतः सुखात्मकम् । रजो नाम शोकतापस्वेदस्तम्भोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखात्मकम् । तमो नामाऽऽच्छादनावरणवीभत्यदैन्यगौरवा-
लास्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकम् । एतत् त्रैगुण्यं व्याख्यातम् ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्तकम् ।
तमोऽप्रकाशकं विद्यात्रैगुण्यन्नाम संज्ञितम् ।।
अत्राह कः सञ्चरः प्रतिसञ्चरश्च । अत्रोच्यते । उत्पत्तिः सञ्चरः प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाऽव्यक्तात् प्रागुपदिष्टात् सर्वतः पुरुषेण परेणाधिष्ठिता बुद्धिरूत्पद्यते । अष्टगुणा बुद्धिः । बुद्धितत्त्वादहङ्कार उत्पद्यते । स चाऽहंकारस्त्रिविधो वैकारिकस्तैजसो भूतादिरिति । तत्र वैकारिकादहंकारादेव इन्द्रियाणि चोत्पद्यन्ते । भूतादेस्तन्मात्राणि । तैजसादुभयम् । तन्मात्रेभ्यो भूतानीति सञ्चरः । प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ । बुद्धिरयव्यक्ते । तदव्यक्तं क्वचिन्न लीयते । कस्मादनुत्पद्यमानत्वात् प्रकृतिं पुरुषञ्चैव विद्ध्यानादि इत्येवं प्रतिसञ्चरो व्याख्यातः । तत्राह किं तदध्यात्ममधिभूतमधिदैवतं चेति । तत्रोच्यते । बुद्धिरध्यात्मम् बोद्धव्यमधिभूतं ब्रह्मातत्राधिदैवतम् । अहंकारोऽध्यात्मं मन्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम् । मनोध्यात्मं संकल्पितव्यमधिभूतं चन्द्रस्तत्राधिदैवतम् । श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशस्तत्राधिदैवतम् । त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् । जिह्वाऽध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम् । घ्राणमध्यात्मं घ्रातव्यमधिभूतं पृथ्वी तत्राधिदैवतम् । वागध्यात्मं वक्तव्यमधिभूतम् अग्निस्तत्राधिदैवतम् । पाणीअध्यात्मं ग्रहीतव्यमधिभूतमिन्द्रिस्तत्राधिदैवतम् । पादावाध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम् । पायुरध्यात्ममुत्स्त्रष्टव्यमधिभूतं मित्रस्तत्राधिदैवतम् । उपस्थमध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम् । एवमेतत त्रयोदशविधस्य करणस्याध्यात्ममधिभूतमधिदैवतं व्याख्यातम् ।
तत्त्वानि यो वेदयते यथावद्
गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्घो
गुणाँस्तु भुङ्क्ते न गुणैः स भुज्यते ।।
अथ कास्ताः पञ्चाभिबुद्धय उच्यते । व्यवसायोऽभिमानेच्छा कर्तव्यता क्रियेति । अभिमुखी बुद्धिरिदं करणीयं मयेति व्यवसायो बुद्धिक्रिया । आत्मपरात्मस्वरूपप्रत्ययाभिमुखोऽभिमानोऽहंकारो बुद्धेः क्रिया। इच्छा वाञ्छा सङ्कल्पो मनसो बुद्धिक्रिया । शब्दादिविषयालोचनश्रवणादिलक्षणकर्तव्यता बुद्धीन्द्रियाणा बुद्धिक्रिया । वचनादिलक्षणबुद्धिक्रिया कर्मेन्द्रियाणा सा क्रियेति । एवमेताः पञ्चाभिबुद्धयो व्याख्याताः ।
अथ कास्ताः पञ्चकर्मयोनय उच्यन्ते । धृतिःश्रद्धा सुखाऽविविदिषा विविदिषा च पञ्चकर्मयोनयः ।
बाह्यकर्माणि संकल्प्य प्रतीतं योऽभिरक्षति ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ।।
स्वाध्यायो ब्रह्मचर्यं च यजनं याजनं तपः ।
दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम् ।।
सुखार्थं यस्तु सेवेत ब्रह्मकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ।।
विषयमधुमिश्रितान्तःकरणत्वमविविदिषा । विविदिषा च ध्यानिनां प्रज्ञानयोनिः ।
एकत्वं च पृथक्त्वं च नित्यं चैवमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा च सा ।।
कार्यकारणक्षयकरी विविदिषा प्राकृतिकी वृत्तिः । धृतिः श्रद्धा सुखाऽविविदिषा चतस्त्रे बन्धाय विदिषैकामोक्षाय । एवमेताः पञ्च कर्मयोनयो व्याख्याताः ।
अत्राह के पञ्च शरीरेषु शरीरिणाम् ।
तत्र प्राणो नाम वायुर्मुखनासिकाधिष्ठाता प्रणयनात्प्रक्रमणाच्च प्राण इत्यभिधीयते । अपनो नाम वायुर्नाभ्यधिष्ठाताऽपनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम वायुर्हृदधिष्ठाता समनयनात् सङ्गमनाच्च समान इत्यभिधीयते । उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वगमनादुत्क्रमणच्चोदान इत्यभिधीयते । व्यानो नाम वायुः सन्ध्यधिष्ठाता विक्षेपणाद्विजृम्भणाच्च व्यान इत्यभिधीयते । इति पञ्चवायवो व्याख्याताः ।
अत्राह के ते पञ्चकर्मात्मान इत्युच्यते । वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्च । तत्र वैकारिकः शुभकर्मकर्ता। तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः शुभमूढकर्ता । निरनुमानोऽशुभमूढकर्ता चैवं पञ्चकर्मात्मानो व्याख्याताः ।
अत्राह का सा पञ्चपर्वाऽविद्येत्युच्यते । तमो मोहो महामोहस्तामिश्रोऽन्धतामिस्त्रश्चेति। तत्र तमोमोहावुभावष्टात्मकौ । महामोहो दशात्मकः । तामिस्रोन्धतामिस्रश्चष्ठादशात्मकौ । तमो नामाष्टषु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसंज्ञितास्वनात्मस्वात्माभिमानस्तम इत्यभिधीयते । मोहो नामाणिमाद्यष्टैश्वर्यप्राप्तये योऽभिमान उत्पद्यते स मोह इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु शब्दादिविषयेषु दशसु वृत्तिषु मुक्तोहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्त्रो नामाष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये यो द्वेषोऽप्रतिहतस्तत्र यद् दुःखमुत्पद्यतेऽसौ तामिस्र इत्यभिधीयते । अन्धतामिस्रो नामाष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये सिद्धे मरणकाले यो विषाद उत्पद्यते सोऽन्धतामिस्र इत्यभिधीयते । एवमेषा पञ्चपर्वाऽविद्या द्विषष्टिभेदा व्याख्याताः ।
अत्राह का साऽष्टाविंशतिधाऽशक्तिरत्रोच्यते । एकादशेन्द्रियबधाः सप्तदश तुष्टिसिद्धि
(बुद्धि)वधाः । एषाष्टविंशतिधाऽशक्तिरिति । तत्रोन्द्रियवधास्तावदुच्यन्ते । श्रोत्रे वाधिर्यं जिह्वायां जडत्वं त्वचि कुष्ठित्वं चक्षुष्यरूपत्वं नासिकायामघ्राणत्वं वाचि मूकत्वं हस्तयोः कुणित्वं पादयोः पङ्गुत्वं वागिन्द्रिय उदावर्त्त उपस्थेन्द्रिये क्लैव्यं मनस्युन्माद इत्येकादशेन्द्रियवधाः । सप्तदशतुष्टिसिद्धिवधा नाम विपयर्यास्तुष्टिसिद्धीनाम् । तुष्टिविपर्ययास्तावदुच्यन्ते । तत्र नास्ति प्रधानमितिया प्रतिपत्तिरनन्ता । एवमहमित्यात्मज्ञाने तामसलीना तथाहंकारस्याऽदर्शनमविद्या । नैव सन्ति तन्मात्राणि भूतकारणानीत्यवृष्टिः । विषयाणामर्जने प्रवृत्तिरसुतारा । रक्षणे तु प्रवृत्तिरसुपारा च । क्षयदोषमदृष्ट्वाऽर्थे प्रवृत्तिरसुनेत्रा । भोगा शक्तिरसुमरीचिका । हिंसादोषमपश्यतो भोगारम्भोऽनुमाम्भसिका । इति तुष्टिविपर्यया नवधाऽतुष्टयो व्याख्याताः । अथ सिद्धिविपर्यया असिद्धयोऽष्टौ चाभिधीयन्ते । नानात्वं भूतमात्रस्यैकत्वमाविर्भूतमतारमुच्यते । शब्दमात्रश्रवणाद्विपरीतग्रहणमासुतारं यथा नानात्वज्ञो मुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्वज्ञो ह्यमुक्त इति । अध्ययनश्रवणाभिनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदाऽतारतारं तदज्ञानम् । कस्यचिदाध्यात्मिकेन दुःखेनाभिभूतस्यापि संसारेऽनुद्वेगादजिज्ञासोर्न ज्ञानं तत्प्रमादम् । एवमप्रमुदिताप्रमोदमानयोश्चान्योन्ययोर्द्वयमपरं द्रष्टव्यम् । सुहृदुपदिष्टेऽप्यनिश्चयबुद्धेरज्ञानम् परस्परमसम्पा । असम्पावचनादथवा पराङ्मुखे गुरौ दुर्भाग्यस्य ज्ञानासिद्धिस्तदज्ञानमसत्प्रमुदितमिति । एवमेते सिद्धिविपर्यया असिद्धयोऽष्टौ व्याक्याताः । एवमेषाऽष्टविंशतिधाऽशक्तिर्व्याख्याता ।
अत्राह का सा नवधा तुष्टिरत्रोच्यते । प्रकृतिं परमार्थत्वेन परिकल्प्य परितुष्टे माध्यस्थं लभते तस्य तुष्ट्या सा तान्त्रीकी संज्ञाऽम्भ इति । अपरो बुद्धिं परमार्थत्वेन प्रतिपद्य परितुष्टस्तस्यास्तुष्टेः शलिला इति संज्ञा । अन्योऽहंकारं परमार्थत्वेनाभ्युपगम्य परितुष्टस्तसङ्धातपरार्थत्वादिति पुरुषास्तित्वं सिद्धम् । भिदान परिमाणात् कारणमस्त्यव्यक्तमिति पर्यायद्वयेन प्रधानस्यास्तित्वं सिद्धम् । हेतुमदनित्यमित्येकत्वं सिद्धम् । प्रीत्यप्रीतिविषादात्मका इत्यर्थवत्त्वं सिद्धम् । त्रिगुणमविवेकिविषय इत्यन्यत्वं सिद्धम् । तस्माच्च विपर्यासादित्यकर्तृत्वं सिद्धम् । पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्यापीति योगसिद्धिः । प्राप्ते शरीरभेदे चरितार्थत्वादिति वियोगसिद्धिः । जन्ममरणकरणानामिति पुरुषवहुत्वं सिद्धम् । चक्रभ्रमिवदिति शेषवृत्तिः सिद्धा ।एते दशमूलिकार्था व्याख्याताः । एतेषां दशानां प्रागुपदिष्टानां च पञ्चशत्प्रत्ययाः । एते च षष्टिपदार्थाः षष्टितन्त्रमित्युच्यते ।
अत्राह कोऽनुग्रहसर्गः अत्रोच्यते । वाह्यान् पञ्चतन्मात्रेभ्यश्चोत्पाद्याऽनुग्रहसर्गध्यानोत्पन्ने-
नाधारवर्जितान् पुर्तानि दृष्ट्वा तेभ्यस्तन्मात्रेभ्योऽनुग्रहसर्गमसृजद्ब्रह्मा।
अत्राह कश्चतुर्दशविधो भूतसर्ग इत्यत्रोच्यते । अष्टविकल्पो दैवः पैशाचो राक्षसो याक्षो गान्धर्व ऐन्द्रः प्राजापत्यो ब्राह्म इत्यष्टौ देवयोनयः। पञ्चधा तिर्यग्योनश्च पशुपक्षिमृगसरीसृपस्थावरा इति ।गवादिमूषकान्ताः पशवः । गरुडादिमशकान्ताः पक्षिणः । सिंहादिशृगालान्ताः मृगाः । शेषादिकीटान्ताः सरीसृपाः । पर्वतादितृणान्ताः स्थावराः । मानुष्यं चैकविधं ब्राह्मणादिचाणाडालान्तम् । अष्टविकल्पो दैवस्तिर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ।।
समासतो ये त्रिधाः सर्गाः तत्राह कस्त्रिविधो धातुसर्गः अत्रोच्यते सूक्ष्माः मातापितृजाः
प्रभूता इति । ज्ञानेन्द्रियपञ्चप्राणबुद्धिमनसां गणः सूक्ष्मः । लिङ्गशरीराणीत्यर्थः । मातापितृजाः षाट्कौशिकाः तत्र मातृतो लोमलोबितमांसानि पितृतः स्नाय्वस्थिमज्जान इति षट्को गणः । प्रभूताः पञ्चमहाभूतानि महाभूते घटादीनां निवेश इति त्रिविधो धातुसर्गो व्याख्यातः । एतत्संसारमण्डलमुक्तम् ।।
अत्राह कस्त्रिविधो बन्ध इत्यत्रोच्यते । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति । तत्र प्रकृतिबन्धो नामाष्टौ प्रकृतयस्ताः परत्वेनाभिमन्यमानस्य प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते । तत्र वैकारिकबन्धो नाम प्रव्रजितानां लौकिकानां वैकारिकैरिन्द्रियैर्वशीकृतानां शब्दादिविषये प्रशक्तानामजितेन्द्रियाणामज्ञानिनां काममोहिताना वैकारिकबन्ध इत्युच्यते । दक्षिणाबन्धो नाम ब्रह्मचारिगृहस्थभिक्षुवैखानसानां काममोहोपहतचेतसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते । इति त्रिविधो बन्धो व्याख्यातः । उक्तं च ।
प्राकृतेन तु बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बन्धोयं च निगद्यते ।।
अत्राह कस्त्रिविधो मोक्ष इत्यत्रोच्यते । ज्ञानोद्रेकादिन्द्रियरागोपशमात् कृत्स्नक्षयाच्चेति । ज्ञानोद्रेकादिन्द्रियरागोपशमात् स्वधर्माधर्मक्षयो भवति धर्माधर्मक्षयाच्च कैवल्यमिति । उक्तं च ।
अद्यो हि मोक्षा ज्ञानेन द्वितीयो रागसंक्षयात् ।
कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।।
किं त्रिविधं प्रमाणमित्यत्रोच्यते । दृष्टमनुमानमप्तवचनं चेति एतत् त्रिविधं प्रमाणम्*। दृष्टं तावद् व्याख्यायते यावदिन्द्रियाणा पञ्चेन्द्रियार्थाः प्रत्यक्षा एव दृष्टम् । अनुमानम् प्रमाणं लिङ्गदर्शने जायमानं ज्ञानम् । यथा मेघोदयेन वृष्टिः साध्यते वकपङ्क्तिभिः सलिलम् धूमेनाग्निः तदनुमानम् । प्रत्यक्षेणानुमानेन वा योर्थो न साध्यते स आप्तवचनात् साध्यते । यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गेऽप्सरस इति । त इन्द्रादयः प्रत्यक्षानुमानासाध्याश्च वसिष्टादयो मुनयो वदन्ति सन्तीन्द्रादयः आगमोप्यस्ति ।
* प्रत्यक्षमेकमिति चार्वकंः । प्रत्यक्षानुमाने इति कणादसुगतमतानुयायिनः । शब्देन सह त्रीणीति सांख्याः। प्रत्यक्षानुमानापमानशब्दाः प्रमाणानीति नैयायिकाः । अर्थापत्त्या सह पञ्चेति प्राभाकराः । अनुपलब्ध्या सह षडिति वेदान्तिनः । संभवेन सह सप्तेति आलङ्कारिकाः। ऐतिह्येन सहाष्टौ प्रमाणानीति पौराणिका इति प्रमाणनिर्णयः ।।
स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः ।
ज्ञानवान् शीलसम्पन्न आप्तो ज्ञेयस्तु तादृशः ।।
एवमेतत् त्रिविधं प्रमाणमभिहितम् । अत्राह तेन त्रिविधेन प्रमाणेन किं साध्यते अत्रोच्यते । यथा लोकेमानेन प्रस्थादिना धान्यानि मीयन्ते । तुलया चन्दनादीनि द्रव्याणि । एवमनेन तत्त्वभावभूतानि प्रमीयन्ते । त्रिविधेन दुःखेनाभिभूतो ब्राह्मणः कपिलमहर्षिशरणमुपागतः अत्राह।
किं त्रिविधं दुःखमित्यत्रोच्यते । आध्यात्मिकमाधिभौतिकमाधिदैविकमिति । तत्राध्यात्मिकं द्विविधं शरीरं मानसं चेति । शरीरे भवं शरीरम् मनसि भवं मानसमिति । तत्र शरीरं नाम वातपित्तश्लेष्मणां वाषम्याद्यददुःखमुत्पद्यते ज्वरातिसारविसूचिकामूर्छादिकं तच्छारीरमुच्यते । कामक्रोधलोभमोहमदेर्ष्यादिकं प्रियवियोगादिकं तन्मानसमित्युच्यते । अधिदेवेभ्यो यददुःखमुत्पद्यते तदाधिभौतिकम् । अधिदेवेभ्यो जातमाधिदैविकम् । शीतोष्णवातवर्षासन्निपातादिनिमित्तं* यददुःखमुत्पद्यते तदाधिदैविकम् । अनेन त्रिविधेन दुःखेनाभिभूतस्य ब्राह्मणस्य जिज्ञासोत्पन्ना । ज्ञातुमिच्छा जिज्ञासा । यथा तृषितस्य पानीयं पातुमिच्छा पियासा । एतत्समासतो निःश्रेयसं ज्ञानम् । यज्ज्ञात्वा पुनर्जन्म न स्यादिति ।।
* वर्षाद्यावेशनिमित्तं -पा0 3 पु0 ।
एतन्महर्षेर्विज्ञानं कपिलस्य महात्मनः ।
यच्छुत्वा ब्राह्मणः श्रेयः कृतकृत्योऽभवत् तदा ।।
सांख्यसूत्रक्रमेणैषा व्याख्याता क्रमदीपिका ।
अनुष्टुपछन्दसा चात्र ज्ञेयं श्लोकशतत्रयम् ।।
इति श्रीतत्त्वसमासाख्या सूत्रवृत्तिः समाप्ता*।।
* इति सांख्यसूत्रप्रक्षेपिका-पा0 3 पु0 ।

ऊँ नमः परमात्मने ।
सांख्यतत्त्वप्रदीपिका ।
दुर्निवारमनस्तापनिवारणपटीयसीम् ।
जगदानन्दसन्दोहजननीमहमाश्रये ।। 1।।
भट्टकेशवसम्भूतसदानन्दात्मजः सुधीः ।
यजुर्वित केशवः प्राह किञ्चित् सांख्यो यथामति ।। 2 ।।
इह द्वितीयं तत्त्वं प्रकृतिः पुरुषश्चेति । प्रकृतिरेव प्रधानामित्यभिधीयते सत्त्वादित्रिगुणा नित्येति प्रकृतिस्वरूपलक्षणम् । विकाररहितत्वाच्च नित्यैवेयम् । पुरुषे अतिव्याप्तिवारणाय सत्त्वादित्रिगुणेत्युक्तम् । सत्त्वादयस्त्रयो गुणा यस्या इति विग्रहः । महदादितत्त्वानामपि त्रिगुणात्मकत्वात् तत्रातिप्रसङ्गवारणाय नित्येति । तटस्थलक्षणं तु जगदुपादानकारणं प्रकृतिरिति । तथाहि विमतं सुखदुःखमोहसामान्योपादानकं नियमेन तदन्वितस्वभावत्वात् यन्नियमेन यदन्वितस्वभावं तत् तत्सामान्योपादानकं यथा मृत्सामान्यान्वितस्वभावं घटशरावादि तथाहि काचन तरुणी कस्यचित् कान्तस्य सुखमुत्पादयति कस्यचिन्मोहं कस्यचिद् द्वेषमिति तत्कस्य हेतोस्तं तं प्रति सुखदुःखमोहात्मकसत्त्वरजस्तमसामाविर्भावात् ।
सा च चतुर्विंशतिधा प्रकृतेः प्रथमो महानिति विकारः परिणाम इति यावत् महत्तत्त्वमेव बुद्धितत्त्वमित्यभिधीयते अहमित्यहंकाराख्यो महत्तत्त्वस्य प्रथमो विकारः तदनन्तरं पञ्चतन्मात्राः शब्दस्पर्शरूपरसगन्धाख्या भवति अथाकाशादिभूतपञ्चकं अथैकादशाक्षाणि श्रोत्रस्पर्शनचक्षूरसनघ्राणवाग्गुदलिङ्गकरचरणान्तःकरणान्येकादशेन्द्रियाणि भवन्ति। तत्र महतत्त्वमहंकारतत्त्वं शब्दाद्याः पञ्चतन्मात्रा इत्येतत् तत्त्वसप्तकं प्रकृतिविकृतिभावापन्नं पूर्वं प्रति कार्यत्वमुत्तरोत्तरं प्रति कारणत्वमित्यर्थः । तथाहि महत्तत्त्वं मूलप्रकृतेः कार्यं कारणं चाहंकारतत्त्वस्य अहंकारतत्त्वं तथा महत्तत्त्वस्यकार्यं कारणं च शब्दतत्त्वाख्यादितन्मात्रं प्रति तथाहि तदपि पूर्वं प्रति कार्युमुत्तरं प्रति कारणं चेति बोध्यम् । आकाशादिभूतपञ्चकमेकादशेन्द्रियाणीत्येते पुनः षोडशभावाश्च प्रकृतिजन्या एव न तु कस्यचित् प्रकृतिः तत्त्वान्तरोपादानरूपत्वाभावात् । सेयं प्रकृतिरचेतना परिणामित्वात् ।।
ननु विषयाणां घटादीनां चेतनसम्बन्धः साक्षादेवास्तु किं महदादिप्रणआलिकयेति चेत् । तत् किं चितिरेव विषयबन्धनस्वभावा तथा सति चैतन्यनित्यतया मोक्षः कदापि न स्यात् । अथ चैतन्यं प्रकृतौ प्रतिबिम्बितं प्रकृतिविषययोस्तु साक्षात् सम्बन्धः स्यात् किं महदादिनेति चेत् तथाहि पुरुषविन्नत्यतया पुनरनिर्मोक्षापत्तिरेव । अथ चितिर्विषयसम्बद्धस्वभावा मास्तु विषया एव चिति सम्बद्धस्वभावाः सन्तु तथा च विषयतिरोभावे मोक्षः स्यादिति चेत् तर्हिदं दृष्टमिति न स्यात् सर्वथा चितिसम्बन्धस्वभाव्येनाव्यवधानात् । अथ विषया इन्द्रियद्वारा चितिसम्बद्धात्मानः सन्तु दृष्टादृष्टव्यवहारादि सन्निकर्षविप्रकर्षाभ्यामुपपत्स्य इति चेन्न व्यासङ्गानुपपत्तेः इन्द्रियसम्बद्धे विषये ज्ञानोत्पत्तेरावश्यकत्वात् । अथ व्यासङ्गानुपपत्त्या मनः कल्प्यतां किमहंकारेण मैवं एवं च सति स्वस्मिन् व्याघ्रोहं वराहोहमिति नारोपयेत् किंत्विन्द्रियं मनोद्वारा चितिसम्बद्धं स्वकीयं नारत्वमेव गृह्णीयात् । अथैवमहंकारोस्तु स्वप्नदशायामारोपार्थं बुद्धितत्त्वे न मानमस्ति मैवं सुषुप्त्यवस्थायां मनोवदहंकारोपि निवृत्तव्यापार एव तथा च श्वासप्रयोजकजीवनयोनियत्नस्य व्यापारः स्यादिति तदनुरोधेन बुद्धितत्त्वस्याप्यावश्यकत्वात् तस्माद्बुद्धितत्त्वं परिगमेन(?) सम्बद्धो विषयो गजतुरगमहिषादिः पुरुषेण चैतन्येन सम्बध्यते तत आसंसारबुद्धितत्त्वनाशादेव च मोक्ष इति नानिर्मोक्षः
अकारणमकार्यं च कूटस्थचैतन्यरूपः पुरुषः अत्रायं पुरुषः स्वयं ज्योतिरिति श्रुत्या तावत् स्वप्रकाशमात्मनोऽभिधीयते स्वप्रकाशं च विज्ञानमेव तेनात्मनः स्वप्रकाशत्वमभिदधतीयं श्रुतिर्विज्ञानात्मकतां पुरुषस्यावेदयति । न च क्षणिकस्य ज्ञानस्य नित्यपुरुषात्मकत्वं सम्भवतीति ज्ञानस्य क्षणभङअगुरत्वासिद्धेः विनाशव्यवहारस्य नव घटाकाशादिविनाशव्यवहारवदौपाधिकत्वेनाप्युपपत्तेः पुरुषातिरिक्तचैतन्यस्वीकर्तुस्तवापि मते ज्ञानस्य स्थैर्यकल्पनायां लाघवात् नित्यत्वाच्चासौ न कस्यचिद्धिकारः न वा कारणं स्वप्रकाशत्वात् यदि हि स्वप्रकाशस्याप्यस्य
प्रकृतित्वमाश्रीयते तर्ह्येतद्विकृतित्वेनाभिमतस्यापि स्वप्रकाशत्वमस्य वा जडत्वमापद्येत समानयोरेव प्रकृतिविकृतिभावोपलभ्यात् भेदग्रहाच्च निष्क्रियेपि पुरुषे कर्तृत्वाभिमानः एवं सुखदुःखादिव्यवहारोपि तथाहि परिशुद्धचैतन्यविग्रहः प्रकृतिविकृतिभावानपेततटस्थः पुष्करलाशवन्निर्लेपोऽप्यन्तःकरणाकारपरिणतप्रकृतितादात्म्यमविवेकलक्षणमविद्यया प्रतिपद्यते ततश्चेतरेतराध्यासादन्तःकरणावृत्तीनां दुःखादीनां पुरुषे पुरुषधर्माणां चिच्चैतन्यादीनामन्तःकरणेऽध्यासादहं दुःखीत्यादिव्यवहारो भवतीति । अविद्यानामातात्त्विकी ख्यातिः सा च तमोगुणोद्रेकादाविर्भवन्ती विविक्तयोस्तादात्म्यमवभासयति । ततश्चोत्तरेषामस्मितारागद्वेषाभिनिवेशानां क्लेशशब्दाभिधेयानां हेतुरविद्येति गीयते । तत्सिद्धं लिर्लेप एवायमिति । असङ्गो ह्ययमिति श्रुतेरुपपद्यते च । न च कोप्यस्य व्यापार इति आलोचनं तावदिन्द्रियव्यापारः विकल्पस्तु मनसः अभिमानोहंकारस्य कृत्यध्यवसायो बुद्धेः । अथ कृत्यध्यवसायः तृतिमत्तया ज्ञानं तत्कथमचेतनाया बुद्धेरिति बुद्धिरंशत्रयवती पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेति । भवति हि ममेदं कतर्व्यमिति तत्र ममेत्यंशश्चेतनस्य दर्पणनिर्मलाया बुद्धेः प्रतिबिम्ब उपधानं तच्चातात्त्विकमेव चैतन्येन बुद्धेर्वास्तवसम्बन्धाभावात् यथा दर्पणं मुखसम्बन्धमन्तरेणापि पुरुषभ्रमस्तद्वदिहापि । इदमिति विषयोपधानं तच्च वास्तवमेक इन्द्रियप्रणालिकया बुद्धौ ज्ञानरूपविषयसम्बन्धात् दर्पणस्येव निश्वासाभिहतस्य मलिनिमा पारमार्थिकः पिरिषेपरागः विषयोपरागमाहिम्ना च कृतिमत्तयाध्यवसायः अयमेव व्यापारावेशः । अथ ज्ञानमेव चैतन्यं कथमनयोर्भेद इति उच्यते कृत्यध्यवसायलक्षणव्यापारविशिष्टा बुद्धिरिन्द्रियप्रमालिकया बुद्धेर्विषयस्य घटादेः सम्बन्धो वृत्तिविशेषस्तदेव ज्ञानं विषयोपरागेण सह यः पुरुषोपरागस्यातात्त्विकः सम्बन्धः स उपलब्धिः यथा दर्पणनिष्टा मलिनामि दर्पणप्रतिबिम्बितमुखे दृश्यते तथेति यावत् । तथा घटमहं जानामीत्यनुव्यवसायाख्योपलब्धिरिति विभावनीयम् ।
तदेव ज्ञानं सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मरूपा अष्टौ भावा बुद्धेर्व अहं जाने सुखीत्यादिसामानाधिकरण्यप्रतीतेः । ननुयत्रैते धर्माः स एव चेतनः किं न स्यादिति चेन्न अनित्यधर्मरूपतया परिणामित्वात् धर्मधर्मीणोरभेदात् । ये पुनस्तयोर्भेदं प्रतिपन्नास्तार्किकप्रभृतयस्ते तावन्नीलो घट इत्याद्यभेदावगाहिप्रत्ययमपश्चन्त उपेक्षणीयाः । ननु प्रधानस्या चैतन्यस्य कथं जगत्कर्तृत्वं यत् खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृत्वं दृष्टं यथा घटादि । विवादाध्यासितं च जगन्नामरूपेण व्याकृतं तस्माच्चेतनकर्तृकमिति सम्भाव्यते चेतनो हि बुद्धावालिख्य नामरूपे घट इतिनाम्ना रूपेण च कम्बुग्रीवादिना वाह्यां घटं निष्पादयति । अत एव घटस्य निवर्त्यस्याप्यन्तःसंकल्पात्मना सिद्धस्य कर्मकारकभावो घटम करोतीति ।
अत्र वदामः चैत्यन्यस्य जगदुपानत्वे जगतो जडत्वानुपपत्तिः यत् कार्यं तच्चेतनकर्तृकमिति व्याप्त्या शरीरी कर्ता स्यात् किं च तथापि ज्ञानस्य चैतन्यविशिष्टस्य क्षित्यादिजनकत्वे मानाभावः कुलालादिज्ञानेच्छयोः कृतिजनकत्वेनैवान्यथासिद्धत्वात् ईश्वरकृतेश्च जन्यत्वात् । अथ यः कृतिमान् स ज्ञानवानिति व्याप्स्या तत्सिद्धिः एवं हि यो ज्ञानवान् स सुखीत्यादिव्याप्त्या सुखमपीश्वरे स्यात् अप्रयोजकत्वं चेत् तुल्यं तवापि । कर्मैव जगत्कारणमित्यपि ये प्रतिपन्नास्ते तावन्नात्यन्तं परिहर्तव्याः धर्माधर्मात्मकार्थनर्थलक्षणचोदनालक्षणस्य प्रकृत्यभेदात् बुद्ध्याकारपरिणाताया एव प्रकृतेरष्टौ भावा इत्युभ्युपगमात् ।
अथेदानीं प्रमाणं विवेचयामः । तत् तावत् त्रिविधम् प्रत्यक्षानुमानागमभेदात् । प्रत्यक्षप्रमाकरणं प्रत्यक्षम् । लिङ्गमनुमानम् । अथातीतानागतयोः कथं लिङ्गभावः जात्या धर्माधर्मात्मना तत्सत्त्वात् । आप्तवचनं शब्दः यथास्मिन्नरपतिनिलये गजरथतुरगाः सन्तीति । पान्थसकलाध्यायवचन(?) मनुमाने चरितार्थत्वान्नोपमानमर्हति ।
अर्थापतिभावश्च सम्भवश्चेष्टितं तथा ।
नैतिह्यमागमातद्धि व्यक्तमन्यत्र विस्तरात् ।।
स चायं पुरुषः प्रतिशरीरं भिन्नः । तथाहि विमतानि शरीराणि स्वसंख्यासंख्येयात्मवन्ति शरीरत्वात् सम्प्रतिपन्नवत् किं चैवं यथैकस्मिन्नेव जीवति देवदत्ते शरीरे जाते वा चेष्टवति वा मृते वा भावोपि जातचेष्टावान् मृतः किलेति लोको व्यवहरति तथा शरीरान्तरेपि तथैव व्यवहारात् तस्मात् पुरुषभेदोभ्युपेयः ।
एकमेवाद्वितीयमित्यादिश्रुतिश्च कथञ्चिदुपचरितार्थत्वेन तथा आत्मनो हि
विभुनित्यत्वादभिन्नदेशकाला इत्येकत्वेनोच्यते अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्य इत्यादिश्रुतेश्च पुरुषभेदमवगच्छामः । किं पुनरस्य प्रयोजनं निःश्रेयसं किं तत् अखिलानर्थमूलभूताया अविद्यायाः सत्त्वातिशयविशेषाविर्भूतविद्यया विनाशे सति तत्पुरुषस्य सहजचैतन्यात्मनावस्थानं तन्मोक्षापरपर्यायं निःश्रेयसं प्रकृति पुरुषविवेकज्ञानं च तद्धेतुः ।
ननु प्रकृतेर्नित्यत्वात् पुनरपि तमोद्रेकसम्भवादविद्याविर्भावसम्भवे मुक्तिप्रच्युतिः स्यादिति ।
नैतत् दृढतमचित्तवृत्तिनिरोधलक्षणयोगबलात् पुनरुद्रेकानुपपत्तेः । यदाहुः स तु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढभूमिर्व्युत्थानसंस्कारेण न बाध्यत इति । अथ निर्लेपस्यास्य महापुरूषस्य सम्बन्ध एव न कृतोऽपवर्ग इति सत्यमाह किं तु प्रकृतेरेव बन्धमोक्षौ पुंस्युपचेर्येते तदाहुः ।
रूपैः सप्तभिरेवं बध्नात्यात्मनमात्मना प्रकृतिः ।
सैव च पुरुषास्यार्थं विमोचयत्येकरुपेण ।। इति ।
अयमर्थः धर्माधर्मवैराग्यावैराग्यैश्वर्यानैश्वर्यज्ञानाज्ञानान्यष्टौ प्रकृतिरूपाणि तत्र ज्ञानव्यतिरिक्तैः धर्माधर्माद्यैः सप्तभीरूपैः प्रकृतिरात्मनैवात्मानं बन्धाति एकरूपेण ज्ञानाख्येन च विमोचयतीति । यदाहुः ।
धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्यायदिष्यते वन्धम् ।। इति ।
शिष्टं सकलमकलङ्कं चाभ्युदयसिद्धान्तलिद्धमित्युपेक्षितमिति ।
दलितानर्थमूलाय सर्वतत्त्वार्थदर्शिने ।
करुणापूर्वचित्ताय कपिलाय नमो नमः ।।
इति सांख्यार्थतत्त्वप्रदीपिका समाप्ता ।।
******
अथ सांख्यतत्त्वप्रदीपः ।
श्रीगणेशाय नमः ।
प्रकृतिं पुरुषं शुद्धं प्रणिपत्य प्रणीयते ।
प्रदीपः सांख्यतत्त्वस्य परोपकृतये मया ।।
इद खलु प्रवाहविध्वस्तोत्तरणोपाय इव सांख्यतन्त्राध्ययनपरिश्रमालसास्तत् प्रक्रियाज्ञानतरीविह्नीनाः शब्दोदधावनन्यावलम्बना सीदन्ति तत्तरणोपायः सकलसांख्यप्रक्रियाद्योतको वह्वर्थोऽल्पाक्षरो मया प्रकाश्यते । कापिलतन्त्राध्ययनालसैस्तत्प्रक्रियाजिज्ञासायामिदमेव प्रकरणं सम्यगवलोकनीयमत्युग्रशुभाशुभादृष्टफलवत् प्रयत्नं विनैव सर्वमत्रैवाधिगन्तव्यम् अयत्नलब्धेर्थयत्नादर्शनात् । उक्तं च सांख्याचार्यैः ।
अक्के चेन्मधु विन्देत् किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् षष
ऋजुमार्गेण सिद्ध्यतोर्थस्य वक्रेण साधनायोगात् इति केचित् ।
दुःखत्रयाभिघातोद्विग्नचित्तास्तान्निवृत्त्युपायमेव तावदभिकामयन्ते । तं चाग्रे दर्शयिष्यामः । दुःखत्रयं च आध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राध्यात्मिकं द्विधा शरीरं मानसं च वातपित्तश्लेष्मणां वैषम्यनिमित्तं शरीरम् कामक्रोधलोभमोहेर्ष्याविषादविषयविशेषादर्शनकारणकं मानसम् । आन्तरोपायसाध्यत्वादाध्यात्मिकं दुःखमिति व्यपदिश्यते । वाह्मोपायसाध्यमपिदुःखं द्विविधम् । आधिभौतिकमाधिदैविकं च । तत्राधिभौतिकं मानुषपक्षिसरीसृपस्थावरनिबन्धनम् । आधिदैविकं पक्षराक्षसविनायकग्रहाद्यावेशनिमित्तम् ।
सर्वं मानसप्रत्यक्षम् । एतद् दुःखं रजःपरिणामविशेषो नित्यपरिणामित्वादिदमपि नित्यमिति न शक्यते बाधितुम् तथापि शक्य एव तदभिभवः कर्तुं साधनेन तच्च साधनं शास्त्रजनितं प्राकृतिपुरुषान्यताज्ञानं नान्यदिति तच्छास्त्रप्रतिपाद्यर्थश्चतुर्विधः तद्यथा कश्चिदर्थः प्रकृतिरेव न तु कस्यचित् विकृतिर्यथा मूलप्रकृतिः सा सर्वस्य मूलमादिकारणं न तु तस्याः कारणानन्तरं किञ्चित् प्रमाणासिद्धं तथात्वे वा मूलक्षतिकारीत्यनवस्था स्यात् स्वस्यैव स्यकारणत्वे तु तस्यापेक्षया कारणत्वात् स्वस्यैव पूर्ववर्तित्वं कार्यत्वात् पश्चाद्वर्तित्वमित्यसंभवः । सकारणत्वे अजामेकां लोहितशुक्लकृष्णामित्यजत्वप्रतिपादनपरश्रुतिविरोधः
स्यात् । सा च प्रकरोतीति प्रकृतिः प्रधानं सत्त्वरजस्तमसां साम्यावस्था ।
कश्चिदर्थः प्रकृतिर्विकृतिश्च तच्च महत्तत्त्वमहङ्कारः पञ्चतन्मात्राणि चेति सप्तसङ्ख्याको गणः कस्यचित्प्रकृतिः कस्यचिद्विकृतिः । तद्यथा महत्तत्त्वमहङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः तथा अहङ्कारः पञ्चतन्मात्राणामिन्द्रियाणां च प्रकृतिर्विकृतिर्महतः तथा पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाङङ्कारस्य। पञ्च महाभूतान्येकादशेन्द्रियाणि चेति षोडशसङ्ख्याको गणो विकृतिरेव न तु कस्यचित्प्रकृतिः । ननु पृथिव्यादीनामपि गोघटवृक्षादयो विकारा उपलभ्यन्ते तथखा तद्विकारविशेषाणां पयोबीजादीनां दध्यङ्कुरादय इति कथं विकृतित्वमेव तेषामिति चेन्न तत्त्वान्तरोपादानत्वं प्रकृतित्वामिहाभ्युपगतम् न त्वेतेषां तदस्ति स्थैल्येन्द्रियग्रह्यातया गोघटादीनां समानत्वात् न तत्त्वान्तरता पृथिव्यादिभ्यः । उक्तं च तत्त्वकौमुद्यम् " सर्वेषांगोघटादीनां स्थूलतेन्द्रियग्राह्यता च समेति " न तत्त्वान्तरम्। पुरुषस्तु न कस्यचित् प्रकृतिरपरिणामित्वान्नापि विकृतिर्नित्यत्वादन्यथा साधनसाध्याभिव्याक्तिः स्यात् घटवत् । प्रमाणविराहिणोऽर्थस्य नृश्रृङ्गसादृश्याभ्युपगमात् । उक्तप्रमेयसाधकं त्रिविधं प्रमाणमुररीकृतम् प्रत्यक्षमनुमानमाप्तवचनं चेति साङ्ख्याचार्यैः । अन्यवाद्यङ्गीकृतप्रमाणानामेतेष्वेव त्रिष्वन्तर्भावः । उक्तं च सर्वप्रमाणसिद्धत्वादिति सर्वेषां वाद्यन्तराभ्युपगतानां प्रमाणाना सिद्धत्वात् त्रिष्वेवान्तर्भावादित्यर्थः । ननु यत्र यत्र प्रत्यक्षमप्रवर्तमानं तत्तदत्यन्ताऽसदिति व्याप्तिः सुप्रसिद्धा शशशृङ्गकूर्मलोमादौ एवं प्रधानस्यापि प्रत्यक्षासिद्धत्वात् तदत्यन्तासत्त्वमेव युक्तं गगनकुसुमादीनामिवेति चेन्न नहि यत् प्रत्यक्षागोचरं तदत्यन्तासदिति व्याप्तिग्रहो युक्तोऽन्यथा गृहान्निर्गतस्य गृहधनपुत्रपशुवनितादीन् सुखसाधनभूतानपश्यतस्तन्नाशनिश्चयजदुःखविप्लुष्टान्तःकरणस्य रुदतो मरणं स्यात् न त्वेवमस्ति । किञ्च किं सर्वप्रत्यक्षविषयत्वं सत्त्वे हेतुः किञ्चित् प्रत्यक्षविषयत्वं वा ? नाद्यः नहि
गृहान्तरदेशान्तरकालान्तरगतं वस्तु केनाप्ययोगिना प्रत्यक्षेण विषयीकर्तुं शक्यमन्यथा सर्वं एव सर्वज्ञः स्यात् परबुद्धेरप्रत्यक्षतया सर्वैः सर्वं प्रत्यक्षेण गृह्यते नवेत्यसर्वज्ञेन निश्चेतुमशक्यतया संशयानिवृत्तेः । नापि चरमः व्यभिचारात् नहि नगरस्थेन स्वेनानुपलब्धो गवय एतावतैवारण्यकोपलब्धस्य तस्यापलापसम्भवः । उक्तञ्च लीलावतीकारेण
" सर्वादृष्टेश्चसन्देहात् स्वादृष्टेर्व्यभिचारात् " इति । तस्मात् प्रत्यक्षप्रवृत्तिप्रतिकूलाभावविशिष्टं प्रत्यक्षं यत्र न प्रवर्तते तदत्यन्तासदिति निश्चेतुं शक्यम् न तु प्रत्यक्षाप्रवृत्तिमात्रात् अन्यथा पुरुषप्रधानमहत् स्वर्गापूर्वदेवतादीनमतीन्द्रियाणामत्यन्ताभावः स्यात् । तेन वियति गच्छतः पतत्रिणो ग्रहणेऽतिदूरत्वमेव प्रतिकूलम् तथा नेत्रगतकज्जलग्रहणेऽतिसामीप्यम् एवं रूपशब्दादिग्रहणे आन्ध्यबधिरत्वादयः तथा विषयग्रहणे मनसः कामाद्यभिव्याप्तिः यथा कामाद्यभिव्याप्तमनाः स्फीतालोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमप्यर्थं न पश्यति । परमाण्वादिविषयतायां सौक्ष्म्यमेव प्रतिकूलम् यतः प्रणिहितमना अपि तं न पश्यति । भित्त्यादिपरवस्तु ग्रहणे तद्व्यवधानमेव प्रतिकूलं सम्प्रतिपन्नपदार्थग्रहणे हस्तादिव्यवधानवत् । क्वचिदभिभवः यथा अहनि सौरीभिर्भाभिरभिभूतं नक्षत्रसूर्यादिग्रहे चक्षुः समर्थं न भवति । क्वचित् समानाभिहारः प्रतिकूलं यथा जलाशयेऽम्बुदविमुक्तजलबिन्दुग्रहणे नेत्रासामर्थ्यम् । क्वचिदनुद्भवः यथा क्षीरदध्याद्यवस्थायां दधिघृतादिविवेचनासामर्थ्यम् एवं सति दृढतरप्रमाणान्तरप्रसिद्धेवस्तुनि प्रत्यक्षाप्रवृत्तावेतदन्यतमं प्रतिबन्धकं कल्प्यते न तु तदभावादेवाप्रवृत्तिः । उक्तञ्च साङ्ख्यमूलकारेण " सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् " । ननु क्वचित्प्रत्यक्षप्रसिद्धस्य क्वचित्सन्देहादनुमानविषयता न त्वस्य तदस्तीत्यभाव एव युक्त इति चेन्न कार्यं हि कारणानुमापकं भवतीति सर्ववाद्यभिमतम् तथा च महदादिकार्यान्यथानुपत्त्यैव प्रधानसिद्धिरिति न तदभावो युक्तः । ननु कार्यान्यथानुपपत्त्या कारणसिद्धौतन्त्रान्तराभिमतकारणसिद्धिः सेत्स्यति न तु त्वदभिमतप्रधानसिद्धिरिति चेन्न मतपर्यालोचनेन यन्मतं कपिलसूत्रनिबद्धं प्रधानसाधनानुगुणं तदेव युक्तिसहमन्यत् तु बाह्ममतवत् मताभासत्वाद्बाध्यमेव । तद्यथा ' असतः सज्जायत ' इति बौद्धमते प्रधानसिद्धिः ' सतः सज्जायत' इति साङ्ख्यमतविरुद्धत्वान्न पम्डितमुखमण्डनायालम् सदसतोः कार्यकारणभावासम्भवात् असदलीकं कारणं सत्त्वादिरूपशब्दाद्यात्मकं कथं स्यात् सदसतोस्तादात्म्यादर्शनात् कार्यं हि कारणसमवेतं तन्तुपटादिस्थलेषु प्रसिद्धम् तथा च घटोऽसन् पटोऽसन्नित्यसत्समवेतं सर्वो व्यवहर्ता व्यवहरेत न तु सदिदमिति सत्तावैशिष्ट्येन प्रतीतिः स्यात् ।
अथ सद्विवर्तोऽयं प्रपञ्च इति यद्वेदान्तिमतम् । तदप्यसाधु अनेनापि सतः सज्जायत इति मतसिद्धिर्नस्यात् । अद्वयस्य सद्वयतया भाने रज्जोः स्रक् खण्डसर्पाद्यात्मना भानवत् भ्रान्तिरेव स्यात् बाधितविषयतया रज्जुसर्पप्रत्ययवत् प्रपञ्चज्ञानस्याप्रमाणतया प्रमारूपं ज्ञानमेवास्तामियात् । न चेष्टापत्तिर्गुरुशिष्योत्तरप्रश्नयोरप्रमाणबुद्ध्या
व्यवहारमात्रोच्छेदः स्यात् लौकिकवैदिकव्यवहारानुष्ठाने च कस्यचित् प्रवृत्त्यनुपपत्त्या भोगापवर्गो न स्यातामिति तच्छास्र्तप्रामाण्यं स्यात् । अपिसिद्धान्तश्चनहि वेदान्तिमते ब्रह्म विवर्ति भवति । उक्तञ्च---
बालान् प्रति विवर्तोऽयं ब्रह्मणः सकलं जगत् ।
अविवर्तितमानन्दमास्थिताः कृतिनः सदा ।। इति ।
सतोऽसज्जायत इति सतःपरमामोरसद् द्व्यणुकारुण्यं कार्यं जायत इति कणभक्षाक्षचरणमतमपि न युक्तिसहम् तथाहि परमाणुर्हि द्व्यणुकसमवायिकारणम् द्व्यणुकं चासदित्यसत्त्वाविशेषाच्छशशृङ्गादिसमवायिकारणतापि परमाणौ स्यात् सदसतोः समवायासम्भवाच्च असता तादात्म्ये सतोप्यसत्त्वं स्यात् । नन्वसत्त्वं नाम प्रागभावप्रतियोगित्वं न तु वायुरूपादिवत् त्रिकालासत्त्वमिति चेन्न किमिदं प्रागभावप्रतियोगित्वमसत्त्वम् किं प्रागभावप्रतियोगित्वादसत्त्वमसत्त्वाद्वा प्रागभावप्रतियोगितम् ? नाद्यः सर्वेषां कार्यपदार्थानामसत्त्वाविशेषेणाकाशपुष्पादिष्विवासत्त्वेनैव व्यवहारः स्यात् तेषामपि प्रागभावप्रतियोगित्वात् तथा च कार्यपदार्थगतगुणसामान्यादीनामुच्छेदः स्यात् तेषां भावधर्मत्वेनासत्त्वेनावस्थानात् । न च कूर्मलोमादेरस्यासतो विशेषः सामान्याद्यभावेन भेदकधर्माभावात् । नापि चरमः असत्त्वात् प्रागभावप्रतियोगित्वे नरश्रृङ्गादीनामपि प्रागभावप्रतियोगित्वं स्यात् प्रागभावस्य च स्वप्रतियोग्युत्पादकत्वनियमेन सर्वेषामसतां सत्त्वं स्यात् सदसद्धिभांगो जगति दत्तजलाञ्जलिः स्यादिति न तार्किकवैशेषिकमतं विचारसहम् । तस्मात् सतः सज्जायत इति साङ्ख्यमतमेव युक्तिसहम् । सतः कारणात् स्वोत्पत्तेः प्रागपि सदेव कार्यं कारणव्यापारादभिव्यक्तिमाप्नोति । न च सिद्धसाधनता कारणवैयर्थ्यं चेति वाच्यम् कार्यसत्त्वेऽपि तदभिव्यक्तौ कारणं प्रयोजनवदिति न किञ्चिदवद्यम् ।असत्कार्यपक्षे तु कारणवैयर्थ्यं स्फुटमेव न ह्यसतः कारणसम्बन्धो निरूपयितुं शक्यते सम्बद्धमेव सम्बद्धेन जन्यते असम्बद्धस्य जन्यत्वे सर्वस्मात् सर्वं स्यात् कारणानियमोऽस्तमियात् । असच्चेत्कार्यं न कारणव्यापारात् सद्भवितुर्हति उक्तञ्च तत्त्वकौमुद्याम्-नहि नीलं शिल्पसहस्त्रोणापि पीतं कर्तुं शक्यम् । न च कारणव्यापारात् पूर्वं घटोऽसन् संक्ष व्यापारानन्तरमिति घटस्य सत्त्वासत्त्वे धर्माविति वाच्यम् धर्मस्य भावधर्मत्वेन तेनैव धर्मिणः सत्त्वं स्वस्थित्यन्यथानुपपत्त्या साधितमिति सदेव कार्यं कारणव्यापारादूर्ध्वमिव प्रागपि । कारणव्यापारस्तु तदभिव्यक्तावनन्यथासिद्धः अन्यत्रापि कारणव्यापारादभिव्यक्तिरेव दृश्चते यथाऽवघातेन धान्येषु तण्डुलानाम् अवपीडनेन तिलेषु तैलस्य दोहनेन सौरभेयीणां पयस इति । असदुत्पत्तौ तु न दृष्टान्तोऽस्ति तस्मात् सदेव कार्यं कारणव्यापारेणाभिव्यज्यते । असता कारणसम्बन्धाससम्भवात् न तस्य तदुत्पादकत्वम् उक्तञ्च साङ्ख्याचार्यैः
असत्त्वान्नास्ति सम्बन्धः कारणौः सत्त्वसङ्गिभिः ।।
असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ।।
किञ्च सम्बद्धमिति तदेव कराति यत्र यत् कारणं शक्तम् शक्तिश्च कार्यैकाधिगम्या यथा चक्षुषैव रूपज्ञानं भवति नेन्द्रियान्तरेणेतीदमेव तत्र शक्तमित्यधिगम्यते । तथा च सा शक्तिः शक्तकारणाश्रया शक्यकार्याश्रया सर्वत्र वा स्यात् ? अन्त्ये सर्वस्मात् सर्वं स्यात् । अथ कार्यो सा शक्तिस्तदा कथमसत्ः कार्यस्य शक्तायश्रयता तथा च शक्तेन शक्यमुत्पाद्यते शक्यं च कारणात्मकम् कारणं च सदिति कथं तदभिन्नं कार्यमसत्स्यात्
' उक्तञ्च शक्तस्य शक्यकरणादिति ' । उपादानोपादेयभावग्रहणाच्च न भेदस्तन्तुपटयोर्ययोर्भेदो न तयोरूपादानोपादेयभावो यथाश्ववृक्षयोः । इतो ऽपि नार्थान्तरत्वं तन्तुपटयोः संयोगाप्राप्त्यदर्शनात् अर्थान्तरत्वे संयोगो दृष्टो रज्जुघटकुण्डबदरादौ अप्राप्तिरपि दृष्टा सुभेरुविन्ध्ययोरवि इह च संयोगाप्राप्त्योरभावान्न तन्तुभ्योऽर्थान्तरं पटः । कार्यकारणयोरभेदसाधकं प्रामाणं चोक्तं साङ्ख्याचार्यैः तद्यया न पटस्तन्तभ्यो भिद्यते तद्धर्मत्वात् इह यद्यतो मिद्यते तत् तस्य धर्मो न भवति यथा गौरश्वस्य धर्मश्च पटस्तन्तूनान्तस्मान्नाथार्न्तरम् गुरुत्वान्तराग्रहणादपि न कारणादर्थान्तरं कार्यम् । एवमभेदे सिद्धे तन्तव एव तेनतेन संस्थानविशेषेण परिणताः पटो न तु पटस्तन्तुभ्योऽर्थान्तरम् । न चात्माश्रयबुद्धिभेदादर्थक्रियाभेदाच्च भेदसिद्धिः कार्यकारणयोरिति वाच्यम् एकस्मिन्नपि विशेषान्तराविर्भावतिरोभावाभ्यामात्माश्रयार्थक्रियाबुद्धिभेदसम्भवान्न तदन्ययानुपपत्त्या भेदसिद्धिः । तत्र एकस्यापि कूर्मस्यावयवा निःसरन्त्यविर्भवन्ति त एव कूर्मशरीरे निविशमानास्तिरोभवन्ति नहि ते कूर्मावयवा उत्पद्यन्ते ध्वंसन्ते वा एवमेकस्यापि सुवर्णस्य मृदो वा कटककुण्डलादयो घटादयो निःसरन्त उत्पन्ना इति व्यवहारं भजन्ते त एव निविशमानास्तिरोभवन्ति नश्यन्तीत्युच्यन्ते न पुनः सदसतोर्निरोधोत्पादयोर्निदर्शनमस्ति । उक्तं च भगवता नासतो विद्यते भावो नाभावो विद्यते सत इति । यथा सङ्कोचविकाशवद्भ्यः स्वायवयवेभ्यः कूर्मो न भिद्यते तथा
मृत्सुवर्णादिभ्योऽपि कटककुण्डलादयो न भिन्नाः ।न च नाम बुध्यर्थक्रियाभेदात् कार्यकारणयोर्भेदासिद्विरिति वाच्यम् नटे व्यभिचारात् । नटो हि दशरथोहं रामोहं युधिष्टरोऽहमिति स्वयमनन्तनामा भूत्वा नामान्तरेण वेशान्तरमर्थक्रियान्तरञ्च कुरुते तथा च सत्यपि भेदत्रये नटभेदादर्शनात् यताहुः--
रूपमथो अपि कार्यमथो
अभिधापि नटस्य पृथग्विदिता ।
न पृथकत्वमुपैति नटः किमिति
प्रतिवाच्यमवश्यमिदं कुशलैः ।।
एकस्यापि वह्नेर्दाहकत्वपाचकत्वभेदेन नानाक्रियाकारित्वं दृश्यते न ह्येतावता वह्निर्भेदमधिगच्छति एकैकस्य तृणास्यातपवृष्ट्यादिनिवृत्तावसामर्थ्योऽपि बहूनि मिलित्वावस्थाविशेषमवाप्य यथा तान्येव तन्निवृत्तौ सामर्थ्यमधि गच्छन्ति तथैक एव तन्तुः प्रावरणाद्यर्थक्रियाऽसमर्थ्योपि मिलितास्त एवावस्थाविशेषं प्राप्याविर्भूतपटभावाः प्रावरणाद्यर्थक्रियां करिष्यन्ति तस्मात्सदेव कार्यं कारणात् तदभिव्यक्तिरिति । नन्वाविर्भावः कारणव्यापारात्पूर्वं सन्नसन् वा ? आद्ये करणव्यापारासम्भवः नहि सदुत्पत्तौ केनापि कारणानि व्यापारन्ते । अन्त्ये प्राप्तमसदुत्पादनत्वमिति चेन्न तवापि केयमुत्पत्तिः सत्यसती वा? आद्ये न कारणप्रयोजनं पश्यामः । अन्त्येऽसदुत्पत्तिरूत्पद्यत इति तदुत्पत्तेरप्युत्पत्त्यन्तरं तत्राप्यन्यदिति स्फुटैवानवस्था । अथ पाटात् तदुत्पत्तिर्नातिरिच्यते तदा पट इत्युक्ते पुनरूत्पद्यते इति न वाच्यं पौनरुक्त्यात् तथोत्पद्यते इत्युक्त्वा पुनः पट इति न वाच्यं पूर्वोक्तदोषदेव पटो विनश्यतीत्यपि न वाच्यं विरोधात् तस्मात्स्वसत्तासमवायो वा स्वकारणसमवायो वा पटोत्पत्तिः समवायस्य च नित्यत्वेन सर्वथापि न पटोत्पत्तिः सम्भवति न तदर्थञ्च कारणानि व्यापार्य्यन्ते तथा च सत एव पटादेराविर्भावे कारणापेक्षेति न किञ्चिदवद्यम् । न च पटादिकार्यरूपेण कारणसम्बन्धस्तस्याक्रियत्वात् क्रियासम्बधित्वात्कारकाणामन्यथा कारणकत्वक्षतिः स्यात् तस्मात्सत्कार्यमिति स्थितम् ।
दुःखत्रयाभिभवसाधनं प्रकृतिपुरुषान्यताज्ञानं तदुपयोगित्वात् व्यक्तवैरूप्यं प्रतिपादनीयम् । तच्च व्यक्तं पृथिव्यादि तच्चाव्यक्तात्प्रधानाद्विलक्षणम् यत इदं सकारणकं तत एवानित्यं पराभिमताविनाशसामग्र्या तिरोभवति । अव्यापकं च कारणं हि कार्यं व्याप्नोति न तुकार्यं कारणंम् । सक्रियं च बुद्ध्यादयः पूर्वपूर्वोपात्तं देहं परित्यजन्ति देहान्तरं चोपाददते सैव तेषां क्रिया पृथव्यादीनां क्रिया परिणामरूपेण प्रसिद्धैव । प्रतिपुरुषं बुध्यादिभेदादनेकम् तथा घटशरीरादिभेदेन पृथिव्याद्यप्यनेकम् । स्वकारणश्रितम् यद्यपि बुध्यादीनां प्रधानभेदाभावात् नाश्रयाश्रयिभावस्तथापि कथञ्चित् भेदाविवक्षयाश्रयाश्रयिभावो यथेह वने तिलकाः । सावयवमवयवावयविसंयोगसंयोगि बुद्धिप्रधानयोस्तु न संयोगस्तादात्म्यात् नापि सत्त्वरजस्तमसां संयोगः अप्राप्तिपूर्विकाप्राप्तिः संयोगस्तदभावात् । नित्यमेव परतन्त्रं स्वकार्येऽहङ्काराख्ये जनयितव्ये प्रकृत्या पूरमपेक्षते अन्यथा क्षीणा सती नाहङ्कारं जनयितुं क्षमा भवति तथाहङ्कारोऽपि स्वकार्ये जनयितव्ये तदपेक्षां कुरुते तथा च स्वकार्ये जनयितव्ये परतन्त्रं व्यक्तम् । यत इत्यभिव्याप्य यदुक्तं तद्विपरीतमव्यक्तम् यद्यप्यव्यक्तस्य परिणामलक्षणाक्रियास्ति तथापि न परिस्पन्दः ।
इदानीं व्यक्ताव्यक्तयोः साधर्म्यं पुरुषाच्च वैधर्म्यं प्रतिपादनीयम् । व्यक्तं हि त्रिगुणं त्रयो गुणाः सुखदुःखमोहात्मका अस्येतिः अत्र कार्यकारणयोरभेदात् सुखादिशब्दैः सत्त्वादयोऽभिदीयन्ते त्रिगुणमित्युक्त्या सत्त्वादीनामात्मगुणत्वं पराभिमतमपाकृतं वेदितव्यम् । तथा अविवेकि यथा प्रधानं सतो न विवच्यते तथा महदादयोऽपि प्रधानान्न विविच्यन्ते तत्स्वरूपत्वात् । यद्वा संभूयकारिता ऽविवेकः नह्येकं किञ्चित्कार्यं जनयितुं क्षमं भवत्यपि तु संभूय सर्वं करोति । एवमचेतनं प्रधानबुद्ध्यादयः सर्वे अचेतना तथा प्रसवरूपधर्मवन्तः । एते व्यक्तधर्माः काथितास्त एवाव्यक्तस्यापीत्यवगन्तव्यमिदमेव व्यक्ताव्यक्तयोः साधर्म्यम् ।।
एते साधर्म्यवैधर्म्याभ्यां व्यक्ताव्यक्ते निरूपते तदुभयगतधर्मरहितत्वात् विपरीतः पुरुष इति पुरुषस्य व्यक्तव्यक्तवैधर्म्यम् । नन्वहेतुमत्त्वनित्यत्वादि प्रधानसाधर्म्यं पुरुषस्य प्रतीयते तथाचानेकत्वं व्यक्तसाधर्म्यमेवं सति कथं व्यक्ताव्यक्तविपरीतः पुरुष इति चेन्न अहेतुमत्त्वादिसाधर्म्येऽप्यगुण्याद्यस्यास्त्येव वैधर्म्यमिति न दोषः । न च त्रैगुण्यमप्रसिद्धम् प्रीत्यप्रीतिविषादात्का गुणा इति सांख्याचार्याः । अत्र क्रमेण प्रीतिः सुखं तदेवसत्त्वम् तथा अप्रीतिर्दुःख-
मप्रीत्यात्मको रजो गुणः एवं विषादो मोहो विषादात्मकस्तमोगुणः । यन्मते प्रीतिर्दुःखाभावः तथा दुःखमपि
प्रीत्यभावस्तनिवृत्त्यर्थं मूलकररेणात्मग्रहणं कृतमात्मशब्दस्य भावतत्त्वेन नेतरेतराश्रयस्तथासत्येकस्यापि सिद्धिर्न स्यात् । प्रकाशप्रवृत्तिनियमनमेषां क्रमेण प्रयोजनमप्यवगन्तव्यम् । क्रियात्वकेन रजसा लघु सत्त्वं सर्वत्र नीतं स्यादतिवायुना तूलावयववद्यपि गुरुणा तमसा नियमनं न स्यात्तमोनियतं तु क्वचिदेव प्रवर्तयति ततस्तमो नियमार्थम् । अन्योन्याभिभववृत्तयः । एतेषामन्यतमेनार्थव शादुद्भूतेनान्यतममभिभूयते तद्यथा सत्त्वं जरस्तमसी इअभिभूयाऽत्मनः शान्तां वृत्तिमधिगच्छति तथा रजः सत्त्वरजसी अभिभूय घोरां वृत्तिमेति एवं तमः सत्त्वरजसी अभिभूय मूढामिति । तथाऽन्योन्याश्रयवृत्तयः । यथाहुः सत्त्वं प्रवृत्तिनियमावाश्रित्य प्रवृत्त्येतरयोः तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति । तथा अन्योन्यजननवृत्तयः । अन्यतमोऽन्यतमं जनयति जननमत्र परिमाणः स च गुणानां सदृशरूपः । अत एव न हेतुमत्त्वं तत्त्वान्तरस्य हेतोरभावात् । नाप्यनित्यत्वं तत्त्वान्तरे लयाभावात् । अन्योन्यसंज्ञाव्यभिचारिणश्च । उक्तञ्च
अन्योन्यामिथुनाः सर्वे सर्वत्रगामिनः ।
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।।
तमसश्चापि मिथुने ते सत्त्वरजसी उभे।
मिथुनवृत्तित्वम सहचाराव्यभिचारित्वम् ।।
उभयोः सत्त्वरजयोर्मिथुनं तम उच्यते ।
नैषमादिः संप्रयोगो वियोगो वोपलभ्यते ।। इति ।
नियतकृत्यं तु तेषामिदं लघुत्वं प्रकाशकत्वं च सत्त्वस्यैव न तु तयोः कस्यचित् तत्रोर्ध्वगमनहेतुभूतो धर्मो लाघवं गौरवासहवर्ति यतोऽऽग्नेरूर्ध्वज्वलागतिर्भवति तदेव कस्यचित्तिर्यग्गमने हेतुर्यथा वायोः । एवं करणानां वृत्तिकुशलताहेतुर्लाघवं गुरुत्वं तु तानि मन्दनि स्युरिति सत्त्वस्य प्रकाशात्मकत्वमुक्तम् । सत्त्वतमसी अक्रियतया स्वकार्योत्पादनेऽवसीदन्ती रजसोपष्टेभ्यते । अवसादाद्विमुच्योत्साहे प्रयत्नवती क्रियते । उक्तं च सत्त्वं लघु प्रकाशकमिष्टमुम्भकं चल च रजः ।
कुत उपष्टम्भकं यतश्चलमिति । रजश्चलतया सर्वतस्त्रैगुण्यं चालयेद्यदि गुरुणा आवृण्वता तमसा तत्र प्रतिबन्धो न स्यात् तमसा तु ततस्ततो व्यावृत्त्यक्वचिदेव प्रवर्त्यते इति नियामकं तमः । यथाहुः गुरू वरणकमेव तम इति । तथाच लघु प्रकाशकं सत्त्वमेव उपष्टम्भकं चलं च रज एव । ननु परस्परं विरोधशीलानांगुणानां सुन्दोपसुन्दन्यायेन परस्परं बाध एव युक्तो न त्वेककार्यकर्तृत्वमिति चेत् न एवभूतानामप्येककार्यकर्तृतयाः प्रदर्शनात् । तद्यथा वर्त्तितैले अनलविरोधिनी अथानलेन मिलित्वा रूपप्रकाशलक्षणं कार्यं करुतः यथाच वातापित्तश्लेष्माणः परस्परं विरोधशीला अपि मिलिताः सन्तः शरीरधारणकार्य्यकारिणः तथा सत्त्वरजस्तमांसि विरुद्धशीलान्यपि सह वत्स्र्यान्ति मिलित्वा चैकं कार्य्यं करिष्यन्ति च पुरुषार्थवशात् । उक्तञ्च प्रदीपवच्चार्थतो वृत्तिरिति । गुणानां प्रधानात्मकत्वादैक्येऽप्यभिभाव्याभिभावकरूपेण नानात्वम् । उक्तंएकैव स्त्री गुणकुलरूपशीलयैवनसम्पन्ना स्वामिनं सुखरूपसमुद्भवात् सैव महयति तत्कस्य हतोस्तं प्रति तस्याः मोहरूपसमुद्भवात् । अनया स्त्रिया सर्वे भावा व्याख्याताः तत्र यत्सुखकारणं तत्सुखात्मकं सत्त्वम् एवं यत् दुःखकारणं तत् दुःखात्मकं रजः तथा यन्मोहहेतुस्तन्मोहात्मकं तमः । तस्मात्कारणव्यापारात्सदेव कार्यं पूर्वम् । तदेव पुनस्तद्व्यापारादार्भवति यथा सन्त्येव घटकुण्डलादीन्याविर्भवन्ति विभज्यन्ते इयं मृदयं तत्कार्यो घट इत्यादि। तथखा सन्त्येव पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते इदमस्य कारणमिदमस्य कार्यमिति तथा सन्त्येव तन्मात्राण्यहङ्कारादाविर्भवन्ति विभज्यन्ते एवं सन्नेवाहङ्कारो महतोऽभिव्यक्तिमेति सन्नेव च महान्मूलप्रकृतेरभिव्यक्ति याति । एवं कारणभूतात्परमाव्यक्तात्साक्षात्पारम्पर्येण समन्वितस्य कार्यभूतस्य प्रपञ्चस्य विभागः । सर्गमात्रं मृत्पिण्डं हेमपिण्डं वा विशन्तो घटकुण्डलदायोऽव्यक्तीभवन्ति कारणरूपेणाभिव्यक्ता अपि कार्यरूपेणानभिव्यक्ती भवन्ति तथा पृथिव्यादयस्तन्मात्राणि विशन्तः स्वस्वरूपेण तन्मात्राण्यभिव्यक्तयन्ति स्वस्वरूपेण कारणमभिव्यक्तमपि कार्यस्वरूपं स्वकीयं स्वकीयं स्वस्मिन्ननभिव्यक्तयति तन्मात्राणि तथाहङ्कारं विशन्त्यहङ्कारं स्वपेक्षयाऽव्यक्तयन्ति तथाहङ्कारो महान्तं विशन् महान्तमव्यक्तयति महान्प्रधानं स्वकारणं विशन् तदव्यक्तयति प्रधानस्य तु न क्वचित्प्रवेशोऽकारणत्वादपि तु तत्सर्वकार्याणामव्यक्तम् कारणम् एवमविभागः । प्रकृतौ विश्वस्यैवं विभागाविभागौ ।
केचन अव्यक्तं वा महान्तं वाहङ्कारं वा इन्द्रियाणि वा भूतानि वा आत्मत्वेनादाय तानेवोपासते ते तु वक्ष्य्यमाणरीत्याऽपाकरणीयाः । अव्यक्तादेर्व्यतिरिक्तः पुरुषोऽस्ति अव्यक्तमहङ्कारादयः परार्थाः कुतः
सङ्घातत्वात् यः सङ्घातो भवति स परार्थो दृष्टस्तैलताम्बूलधृतदधिदुग्धान्नवस्त्रादिवत् सुखदुःखमोहात्मकत्वेन सर्वे सङ्घातास्तथाच यदर्थं सङ्घाताः स एव पुरुषः । ननु शयनासनादिः सङ्घातः सङ्घातशरीरादिपरार्थो दृष्टो नत्वात्मनं प्रति परार्थः तस्मात्सङ्घातान्तरमेव साधयेयुर्नासंहतमात्मनमिति यदुक्तम् तन्न साधु सङ्घातस्य सङ्घातान्तरार्थत्वे तस्यापि सङ्घातत्वात्समघातान्तरार्थता तस्यापि सङ्घातत्वात्तथात्वं तस्यापि तथात्वमित्यनवस्था दुस्तरा स्यात् । किञ्च सङ्घातस्य पारार्थ्यमात्रेण व्याप्तिर्न तु सङअघातपारार्थ्येन । न च दृष्टान्तदृष्टत्वात्त्या कल्प्यत इति वाच्यम् । दृष्टान्तदृष्टयावद्धर्माणां दार्ष्टान्तिके साधनायानुमानमिच्छतो दृष्टान्तमहानसादिगतमहानसत्वादेः पर्वतादावभावात्सर्वानुमानोच्छेदः स्यात् । यथाहु त्रिगुणत्वादयो हि धर्मा सङ्घातत्वेन व्याप्ताः ते तु अस्मिन्पेर व्यावर्तमानास्त्रैगुण्यादि व्यावर्तयन्ति ब्राह्मण्यमिव निवरितमानं कठत्वादिकम् । अधिष्ठानादपि पुरुषास्तित्वं सिद्ध्यति त्रिगुणात्मकानां बुद्ध्यादीनामधिष्ठीयमानत्वात् यथा स्थादिर्यन्त्रादिभिरदिष्ठीयते तथा सुखदुःखमोहात्मकं बुद्ध्यादि परेणाधिष्ठातव्यम् । भोक्तृभावादपि पुरुशास्तित्वमवसेयम् भोग्ये हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयते तेनानयोरनुकूलतया प्रतिकूलतया वाऽनुभवित्रा केनचिद्भवितव्यम् । न च बुद्ध्यादिरेव तथेति वाच्यम् । तेषां सुखाद्यात्मकत्वेन स्वेनैव स्ववेदने आत्माश्रयः स्यात् । कैवल्यार्थं प्रवृत्तेरपि पुरुषास्तित्वं सिद्धम् दुःखत्रयात्यन्तिकनिवृत्तिलक्षणं कैवल्यं न तावद्बुद्ध्यादीनां ते हि सुखदुःखमोहात्मकाः कथं स्वाभावाद्वियोजयितुं शक्याः तस्मात्कैवल्यार्थमागमानां महाधियां च प्रवृत्तेरस्ति बुद्व्याद्यतिरिक्त आत्मेति पुरुषास्तित्वं सिद्धम् । ननु भवत्वेवं बुद्व्याद्यतिरिक्तात्मसिद्धिस्तथापि स र्कि प्रतिशरीरं भिन्न एक एव वेति चेद्भिन्न एवेति ब्रूमः जन्ममरणादिव्यवस्थान्यथानुपपत्त्या बहुत्वस्यैव सम्भवात् । उक्तं च सांख्याचार्यैः ।
जन्ममरणकरमानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ।।
जातिविशिष्टाभिरपूर्वाभिर्देहेन्द्रियमनोहङ्कारबुद्धिवेदनाभिः पुरुषस्याभिसम्बन्धो जन्म न तु पुरुषस्य परिणामस्तस्यापरिणामित्वात् तेषामेव च देहादीनामुपात्तानां परित्यागो मरणं न त्वात्मनो विनाशस्तस्य कूचस्थस्य नित्यत्वात् । बुद्ध्यादीनि करणानि त्रयोदश तेषां जन्ममरणकरणानां प्रतिनियमो व्यवस्था सा त्वियं शर्वशरीरेष्वेकस्मिन्पुरुषे न सम्भवति तथासत्येकस्मिन्सुखिनि सर्वे सुखिनः सियुः दुःखिनि वा दुःखिनो भवेयुः तथा एकस्मिन् म्रियमाणे सर्वे म्रियेरन् जायमाने च जायेरन् एवमेकास्मिन्नन्धबधिरादौ सर्व एव तथा स्युः न त्वेवमस्ति तथा एकस्मिन्विचित्ते सर्वे विचित्ताः स्युरित्यव्यवस्था पुरुषभेदे तु सम्यगुपपद्यते व्यवस्था । नचैकस्मिन्नपि पुरुषे देहान्तरोपाधिवशात् उपपद्यत एव व्यवस्थेति वाच्यम् करचरणस्तनादिभेदेनापि जन्ममरणादिव्यवस्था स्यात् । गुणत्रयविपर्ययादपि पुरुषबहुत्वमवसेयम्। तद्यथा केचित्सत्त्वबहुलाः यथोद्र्ध्वस्रोतसः केचचिद्रजोबहुलाः यथा मनुष्याः केचित्तमोबहुलाः यथा तिर्यग्योनयः ।
पुरुषस्य बहुत्ववदत्रिगुणत्वं विवेकित्वमविषयत्वमसाधारणत्वं चेतनत्वमप्रसवधर्मित्वं साक्षित्वादिकमपि बोद्धव्यम् ।
प्रधानपुरुषयोः संयोगकृतोऽयं सर्गः स चापेक्षां विना भिन्नयोर्न सम्भवति अपेक्षा च स्वदर्शनार्थम पुरुषेण प्रधानस्य प्रधानं हि विषयात्मकतया भोग्यम् भोगश्च भोक्तारमन्तरेण न भवतीति भोक्त्रपेक्षा प्रधानस्य पुरुषस्य स्वकैवल्यार्थं प्रधानापेक्षा प्रधानेन हि भोग्येन सम्भिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभिमन्यमानऋ कैवल्यं प्रार्थयते तत्त्ु सत्त्वपुरुषान्यताख्यातिकरणकं सत्त्वपुरुषान्यताख्यातिश्च प्रधानमन्तरा न भवतीति पुरुषस्य प्रधानापेक्षा पङ्ग्वन्धवदुःभयोः संयोगःभोगायानादिपरम्परासंयुक्तोपि कैवल्याय पुनः संयुज्यते स च संयोगो महदादिसर्गमन्तरेण भोगापर्वर्गयोः समर्थो न भवतीति संयोग एव महदादिसर्गं करोति। उक्तञ्च ।
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भुतानि ।।
एकादशेन्द्रियाणि पञ्च तन्मात्राणि चेति षोडशसंख्यामितो गणः षोडशकः । उक्तञ्च तत्र शब्दतन्मात्रादाकाशं शब्दगुणम्, शब्दतन्मात्रसहिताच्च स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुणः , शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुणं, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्राच्छब्दस्पर्शरूपरसगुणं जलम्, शब्दस्पर्शरूपरसतन्मात्रासहिताद्गन्धतन्मात्राच्छब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायते ।
अध्यवसायो बुद्धिः क्रियाक्रियावतोरभेदविवक्षया व्यपदेसः । धर्मो ज्ञानं विराग ऐश्वर्यमिति सात्विकाः बुद्धिधर्माः एतद्विपरीतास्त्वधर्मादयस्तामसाः । बुद्धिधर्मादैश्वर्यादणिमादिप्रादुर्भावः । तच्च
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ।। इति ।
नन्नेकादशक इन्द्रियागणः पञ्चतन्मात्रकं चेति द्विविधः प्रवर्तते सर्गोऽहङ्कारात् तथा चैकस्माहङ्कारात कारणात्कथं प्रकाशजडात्मको विलक्षणः सर्ग इति यदुक्तं तन्न सुन्दरम् प्रकाशलाघवाम्यामेकादशक इन्द्रियगणः सात्त्विकादहङ्काराद्भवति भूतादेस्त्वहङ्कारात् तामसात्तन्मात्रगणः । यद्यप्येकोऽहङ्कारस्तथापि गुणोद्भवाभिभवाभ्यां भिन्नं कार्यं करोति । ननु यदि सत्त्वतमोभ्यामेव सर्गः कृतं तर्हि रजसा अकिञ्चित्करेणेति चेन्न तैजसादुभयमिति मूलकारः तैजसादुभयं गणद्वयं भवति सर्गद्वयं सत्त्वतमसोरिति । यद्यपि रजसो न कार्यान्तरमस्ति तथापि सत्त्वतमसी स्वयमक्रिये समर्थे अपि न कार्यं कुरुयो रजसा चालिते तु तत् प्रसादात् प्राप्तक्रियेस्वकार्योत्पादने समर्थे भवत इति राजसादुभयम् । यथाहुः उभयस्मिन्नपि कार्ये सत्त्वतमसोः क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यर्थं रज इति । इन्द्रियविचारस्तु तत्त्वदीपे कृत इति विस्तरभयान्नेह प्रतन्यते । महदहङ्कारमनांस्यन्तरिन्द्रियाणि तानि स्वलक्षणानि स्वमसाधारणं लक्षणं येषां तानि स्वलक्षणानि तच्च महतोऽध्यवसायः अहङ्कारस्याभिमानः सङ्कल्पो मनसो वृत्तिर्व्यापारः । एतेषां वृत्तिद्वैविध्यं साधारणत्वासाधारणत्वाभ्यामाह सैषा भवत्यसामान्या इति । एषोक्ताऽसाधारणी वृत्तिः साधारणी वृत्तिस्तु करणानां प्राणाद्या वायवः पञ्च करणत्रयस्य पञ्चवायवो वृत्तिर्जीवनं तद्भावे भावात् अभावे चाभावात् । तत्र प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठवृत्तिः अपानः कृकाटिकापृष्ठपार्श्वपायूपस्थवृत्तिः समानो हृन्नाभिसर्वसन्धिवृत्तिः उदानो हृत्कण्ठतालमूर्धभ्रूमध्यवृत्तिः व्यानस्त्वग्वृत्तिरिति पञ्च वायवः ।
अविद्या पञ्चविधा तथाहि अविद्याऽस्मितारागद्वेषाभिनिवेशा यथासंख्यं तमोमोहामोहतामिस्त्रन्धतामिस्रसंज्ञका चेति पञ्चपर्वा।
प्रत्ययसर्गतद्भेदास्त्वतिविस्तरभयात्सन्तोऽपि न निदर्श्यन्तं प्रत्ययसर्गो बुद्धिसर्गः उक्तञ्च एष प्रत्ययसर्गोविपर्ययाशक्तितुष्टिसिद्व्याख्यः । प्रतीयतेऽनेनेति प्रत्ययो बुद्धिस्तस्य सर्गः प्रत्ययसर्गः । दैवसर्गस्त मूलकारेणैव स्पष्टो निरुक्तः । स च अष्टविकल्पो दैवः सर्गः ब्राह्मप्राजापत्यऐन्द्रपैव्यगान्धर्वयाक्षराक्षसपैशाच इत्यष्टविकल्पो दैवसर्गः । तिर्यग्योनयश्च पञ्चविधा भवन्ति पशुमृगपक्षिसरीसृपस्थावराः । मानुषश्चैकविधः ब्राह्मणत्वाद्यवन्तरजातिभेदाविवक्षया संस्थानस्य चतुर्ष्वप्यविशेषादिति ।।
ननु प्राधानिकोऽयं सर्गः प्रधानं च जडं कथं स्वार्थं परार्थं वा प्रवृत्तिं कर्त्तुमर्हाति तस्मात्केनचिच्चेतनेन प्रकृत्यधिष्ठात्रा भवितव्यम् । न च क्षेत्रज्ञास्तथा तेषां प्रकृतिस्वरूपानभिज्ञत्वात् तस्मादास्ति प्रकृतेरधिष्ठाता कश्चित्सर्वज्ञः स एवेश्वर इति चेन्न अचेतनमपि प्रयोजनवशात् प्रवर्तमानं दृष्टं यथा वत्सविवृद्व्यर्थमचेतनमपि क्षीरं प्रवर्तते तथा जडापि प्रकृतिः पुरुषविमोक्षाय प्रवर्तिष्यते । किञ्चाभोक्तुरीश्वरस्य प्रवृत्तौ न करुणां विनाऽन्यत् प्रयोजनं पश्यामः । सा च निरुपाधिपरदुःखप्रहाणेच्छा सृष्टेः पूर्वं प्राण्यभावादेव तत्सम्बन्धिदुःखाभावात् कस्य निवृत्तौ प्रवृत्तिः स्यादीश्वरस्य । न च सर्गानन्तरमीश्वरप्रवृत्तिः सर्गस्य जातत्वादेव नेश्वरप्रयोजनं पश्यामः । न च दुःखनिवृत्तिः प्रयोजनं तदर्थं तत्प्रवृत्तौ जगति कोऽपि दुःखी न स्यात् । उक्तञ्च प्रेक्षावतः प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्तत्वात् ते च जगत्सर्गाद्व्यावर्तमाने प्रेक्षावत् प्रवृत्तिपूर्वकत्वमिति निवर्तयतः न ह्याप्तसकलेप्सितस्य भगवतो जगत्सृजतः किमप्यभिलषितं भवति नापि कारुण्यादस्य सर्गे प्रवृत्तिः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्येन सृष्टिः सृष्ट्या च कारुण्यमिति परस्पराश्रयः । अपि च करुणया प्रवृत्तः सुखिन एव जन्तून्सृजेत् न दरिद्रान् । न च कर्मवैचिव्यात् जगद्वैचिव्यम् तर्हि कृतमीश्वरेण तत एव जगद्वैचिव्योपपत्तेः प्रवृत्तस्तु पारार्थ्यप्रयोजनवशात् जडस्यापि दृश्यते वत्सविवृद्विनिमित्तं दुग्धस्येव ।
ननु भवतु प्रकृतेः प्रवर्तकः पुरुषार्थो निवर्तकं न तु कमपि पश्याम इति चेन्न यथा नर्तकी परिषद्भ्योनृत्यं दर्शयित्वा स्वयमेव निवर्तते न तु तस्याः स्वनिवृत्तौ निवर्तकान्तरापेक्षा तथा शब्दाद्यात्मकं स्वस्वरूपं पुरुषाद्भेदेन प्रकास्य साधितपुरुषप्रयोदना स्वयमेव निवर्तते प्रकृतिः । यथाहुः सांख्याचार्याः ।
रङ्गस्य दर्शयित्वा निवर्तते यथा नर्तकी नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ।।
ननु यथा दर्शितनृत्या नर्तकी द्रष्टृकौतुहलात्पुनः प्रवर्तते तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनश्चेत् प्रवर्तेत तदा मुक्तानामपि पुनः संसारप्राप्तिः स्यादिति चेन्न यथा परपुरुषदर्शनासहा सूर्यदर्शनवर्जितापि कुलवधूः प्रमादाद्विगलिताङ्गपटा चेदवलो क्यते परपुरुषेण तदाऽसौ तथा प्रवर्ततेऽप्रमत्तां यथैनां पुनःपुरुषान्तराणि न पश्यन्ति तथा प्रकृतिः कुलवधूतोप्यधिका दृष्टा चिवकेन पुनर्न दर्शनमार्गमेति । उक्तं च
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
                      या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्येति ।।
धर्मो ज्ञानं विराग ऐश्वर्यामिति सात्त्विका बुद्धिधर्माः
अधर्माज्ञानावैराग्यानैश्वर्याभिधानाश्चत्वारस्तामसाः ।
अत्र ज्ञानवर्जितैः सप्तभिः प्रकृतिर्बध्नात्यात्मानं विवेकख्यात्या प्रकृतिपुरुषान्यताज्ञानेन सैव विमोचयति । उक्तञ्च ।
रूपैः सप्तभिरेवम्बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ।।
यथा विद्रुममणिमौक्तिकशुक्तिमकरकच्छपनागशंखकपर्दकादीन् विहाय परमकारुणिकेन लीलाविग्रहधारिणा भगवता रत्नान्येव समुद्धृतान्युदधेर्देवसमृद्ध्यर्थं तथा जल्पतर्काभासाख्याऽन्यत्रसुलभप्रमेयवितण्डादींश्च विहाय सांख्यमात्रे कलम्भप्रमेयरत्नानि सांख्यतंत्राध्ययनपरिश्रमालसानां सांख्ययन्त्रोदधेर्मया समुद्धृतानि ।
रामकृष्णकथा यावद्यावच्चन्द्रदिवाकरौ ।
सांख्यतत्त्वप्रदीपोऽयं तावदस्तु महीतले ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यपूज्यपादश्रीवैकुण्ठशिष्ययतिकविराजयतिप्रकाशितः सांख्यतत्त्वप्रदीपः समाप्तः ।।

ऊँ श्री गणेशाय नमः।।
तत्त्वमीमांसा।
सुखैकविषया भूतानां प्रवृत्तिः। सुखं च सति दुःखहेतावसम्भवति । अतो भवति दुःखाऽभिघायतके जिज्ञासा सा च तत्त्वज्ञानात् । अतस्तत्त्वमत्र निरूप्यते । ननु त्रिविधं दुःखम् आध्यात्मिकमाधिदैविकमाधिभौतिकं च । तत्राध्यात्मिकं द्विविधं शरीरं मानसञ्च । शरीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं मानसं कामक्रोधादिनिबन्धनम् । आधिभौतिकं मानुषपशुपक्ष्यादिनिमित्तम् । आधिदैविकं यक्षराक्षसग्रहाद्यावेशनिबन्धनम् । तेषां चैषां लौकिकैरेवोपायैः प्रतीकारः शक्यते । तथा हि शरीरस्यौषधादिभिः मानसस्य मनोज्ञस्त्रीपानभोजनवस्त्रालङ्कारादिप्राप्त्या आधिभौतिकस्य नीतिशास्त्राभ्याससुस्थानोपवेशादिना आधिदैविकस्य मणिमन्त्राद्युपयोगेनेति सुकर उपायः तत्त्वज्ञानं त्वनेकजन्मपरम्पराभ्याससाध्यम् । तथा च लौकिकानामाभाणकः।
अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संप्राप्तौ को विद्वान् यत्नमाचरेत् ।। इति ।
अक्के गृहकोणे । मैवम् । न ह्येतैरूपायैः सर्वमेव दुःखं निवर्तते । निवृत्तं पुनर्नोत्पद्यते । यद्यपि शास्त्रीयमपि अहोरात्रमासवर्षादिसाध्यमुपायान्तरं सुकरं श्रूयते अपाम सोमममृता अभूमेति तथापि एतदपि लौकिकोपायतुल्यमेव । तथाहि सोमयागः पशुवधादिसाधनत्वान्न विशेषतः शुद्धः । अकृते हि तद्वधप्रायश्चित्ते स्वर्गादिगत्यनन्तरं परिपच्यते एव तद्दुःखम् । न च न हिंस्यात्सर्वाभूतानीति सामान्यशास्त्रस्य विशेषशास्त्रेणाग्नीषोमीयं पशुमालभेतेत्यनेन बाधः शङ्क्यः भिन्नविषयत्वेन बाध्यबाधकभावासम्भवात् अग्नीषोमीयं पशुमालभेतेति वाक्येन हि वधस्य क्रतूपकारकत्वमेव बोध्यते न तु पुरुषप्रत्यवायाभावः । एवं स्वर्गादरेनित्यत्वमपि सत्त्वे सति कार्यत्वादनुमीयते । तथा च श्रुतिरपि
न कर्मणा न प्रजया धनेन
त्यागेनैकेनामृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतयो विशन्ति ।।
कर्मणा ज्योतिष्टोमादिना प्रजया पुत्रेण धनेन देवताज्ञानेन पुत्रेणायं लोको जेयो विद्यया देवलोकः कर्मणा पितृलोक इति श्रुत्यन्तरात् एभिः पित्रादिलोकस्यैव प्राप्तिर्नामृतत्वस्येति भावः । तर्हि कथममृतत्वमित्यत आह त्यागेनेति । सर्वकर्मसंन्याससाध्यज्ञानेनेत्यर्थः । तदमृतत्वं स्वर्ग एव चेत्तत्राह परेण नाकमिति । तर्हि दूरस्थत्वान्न प्राप्यमिति चेत्तत्राह निहितं गुह्यायामिति । तच्चासन्नत्वात्पृथक् जनैरपि लभ्यमिति चेत्तत्राह यद्यतय इति । अदूरभूतमप्यविवेकिनां दूरभूतमेव । तथा श्रुत्यन्तरम्।
कर्मणा मृत्युमृषयो निषेदः
प्रजावन्तो द्रविणभीहमानाः ।
तथाऽपरे ऋषयो ये मनीषिणः
परं कर्मभ्योऽमृतत्वमानशुरुति ।।
अपाम सोमममृता अभूमेत्यमृतत्वाभिधानं तु चिरस्थित्यभिप्रायम् । यदाहुः आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते इति ।तदेतत्सर्वमभिप्रेत्योक्तं शास्त्रकृद्भिः
तद्विपरीतः श्रेयैन् व्यक्ताव्यक्तज्ञाविज्ञानात् । अस्यार्थः । तस्मात्सोमपानादेरविशुद्धादनित्यात् विपरीतो हिंसाद्यसङ्कराद्विशुद्ध उपायः श्रेयान् । स च कथम् ? व्यक्तस्य कार्यजातस्य तत्कारणस्य अव्यक्तस्य प्रधानस्य ताभ्यां परस्य तस्यात्मनश्च विवेकेन ज्ञानाद्भवति इति । न नच विवेकोत्पन्नफलस्यापि कार्यत्वादनित्यत्वं शंक्यम् । भावरूपकार्यस्यैवानित्यत्वात् दुःखध्वंसस्य तु कार्यत्वेपि नित्यत्वात् ।
अथात्र शास्त्रे चतस्त्रो विधाः । प्रक-तिर्विकृतिरूभयमनुभयञ्चेति । तत्र जगतो मूलकारणभूतं प्रधानं न विकारः किन्तु प्रकृतिरेव प्रकारोतीति प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था । अस्याश्च मूलान्तरमनवस्थाभयान्नास्तीति मूलप्रकृतिरित्युच्यते । सैव शास्त्रान्यते अविद्यामायाशब्देनोच्यते । एतदेवाव्यक्तं सत्त्वादीनां गुणानां वैषम्ये सति व्यक्तमित्युच्यते । यथाहि समुद्रजले चलिताचलितप्रदेशाः । एवं त्रिगुणात्मिके प्रधाने परिणामवांस्तद्विधुरश्च प्रदेशः । तत्र प्रकृतिविकारेषु मध्ये आद्यो विकारो महानित्युच्यते स एतद्बुद्धिलक्षणः । स च महान्सात्त्विको राजसस्तामसश्चेति त्रिविधः । बुद्धेस्तु प्रथमो विकारोऽहङअकारः । एते च महदादयः प्रकृतयो विकृतयश्ट । तथाहि महत्तत्त्वमहङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । अयं हि क्रमः प्रकृतेर्महान् महतोऽहङ्कारः अहङ्कारात्पञ्च तन्मात्राः ताभ्यः पञ्च भूतानि तन्मात्राणि पुनः क्षीरदध्योरन्तराले कललपरिणामात्परिणतानि सूक्ष्मभूतानि कुसुमसौरभ्येन सूक्ष्मस्थूलतयोपलक्ष्यमाणं गुणवैषम्यमेव तन्मात्रशब्देन भूतशब्देन चोच्यते । पञ्च भूतानि एकादशेन्द्रियाणि चेति एष षोडशको गणस्तु विकार एव न प्रकृतिः । पुरुष सत्वात्मा न प्रकृतिर्न विकृतिः । तदेवदाहुः ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।
इति ।
अथ शास्त्रपरिभाषा । दृष्टमनुमानामाप्तवचनञ्चेति त्रिविधं लौकिकं प्रमाणम् । आर्षं तु विज्ञानं योगिनामेवेति तदत्र नोक्तम् । तत्र पृथिव्यादयः सुखादयश्चास्मदादीनांविषयाः ।तन्मात्रलक्षणास्तु देवानां योगिनां च विषया न त्वस्मदादीनाम् तेषां चेन्द्रियैः सम्बन्धः सन्निकर्षः । एवञ्च विषयसम्बद्धेन्द्रियाश्रियो यो बुद्धधर्मोऽध्यवसायः स एव प्रमाणम् । अयं हि क्रमः । विषयसम्बद्धानामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तु तमोभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यव्यवसाय इति ज्ञानमिति वृत्तिश्चाख्यायते । तदीदं प्रत्यक्षप्रमाणम् । अस्माच्च यश्चेतनाशक्तेरनुग्रहस्तत्फलं प्रमा बोधः । बद्धिसत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोध्यवसायोप्यचेतनः घटादिवत् । एवं हि बुद्धिसत्त्वस्य परिणामभेदाः सुखादयोप्यचेतनाः ।पुरुशस्तु सुखाद्यननुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितो बुद्धिसादृश्यप्राप्त्या ज्ञानसुखादिमानिव भवति चितिसादृश्चप्राप्त्य च अचेतनापि बुद्धिस्तदवध्यवसायश्च चेतन इव भवति ।
चार्वाकास्तु प्रत्यक्षान्यत् न मानमिति वदन्ति । तन्मते संदिग्धविपर्ययस्तु पुरुषबोधनं नोपपद्येत । नहि पुरुशान्तरगतः संशयः अनुमानं कथनं विना वा ज्ञातुं शक्यः ।
प्रमाणान्तराणि त्वत्रैवान्तर्भवन्ति । तथाहि उपमानं तावत् गोसदृशो गवय इति वाक्यं तज्जनितो बोधो शब्द एवान्तर्भवति चक्षुःसंनिकृष्टस्य गवयस्य यत् गोसादृश्यज्ञानं तत्प्रत्यक्षमेव। एवं जीवतश्चैत्रस्य गृहासत्त्वेन बहिः-- सत्त्वकल्पनमर्थापत्तिः साप्यनुमान एवान्तर्भवति । विमतश्चैत्रो बहिर्भवतुमर्हति गृहेष्वविद्यमानत्वात् । यदा त्वव्यापकः सन्नेकत्रास्ति तदान्यत्र नास्ति यदैकत्र नास्ति तदान्यत्रास्तीति व्याप्तिग्रहात् । एवमिह वटे यक्षः प्रतिवसति इति एतिह्यं न प्रमाणमनिर्दिष्टस्ववक्तृकत्वेन सन्देहात् । आप्तोक्तत्वनिश्चये त्वागम् एव । एवमभावो नानुपलाध्बिगम्यः किन्तु प्रत्यक्ष एव । न हि भूतलस्य कैवल्यलक्षणात्परिणामविशेषादन्यो घटाभावो नाम। सर्व एव हि भावाः प्रतिक्षणं परिणामिनः स च परिणामभेद एन्द्रियक एवेत्यलम् ।
तत्र सूक्ष्मस्याव्यक्तस्याप्रत्यक्षत्वेपि महदादिकार्येण तदनुमीयते । तथाहि सदेव कार्यं कारणव्यापारात्प्रगपि । असतो हि सत्त्वं दुष्करम् नहि नीलं शिल्पिसहस्त्रेमापि पीतं शक्यं कर्तुम् । किन्तु तिलेषु पीडनेन तैलस्येव आविर्भावमात्रमुत्पत्तिः तिरोभाव एव विनाशः । किञ्चासम्बद्धस्यापि कार्यस्य जन्यत्वे सम्बद्धत्वाविशेषात्मर्वं कार्यं सर्वस्माद्भवेद्त् कार्यसम्बन्धोऽस्तीति सत्कार्यम् । किञ्च तन्तुधर्मत्वात्तन्तूपादेयत्वाच्च न पटस्यार्थान्तरत्वम् यन्नैवं तन्नैवं यथा घटपटौ । तथा अर्थान्तरयोः संयोगो वा भवति यथा कुंडबदरयोः अप्राप्तिर्वा भवति हिमाविद्धिन्ध्ययोः । तस्माद्यथा कूर्मशरीरे कूर्माङ्गानि निविशमानानि तिरोभवन्ति न तत्र तान्युत्पद्यन्ते न विनश्यन्ति वा एवमेकस्मात्सुवर्णादेर्मुकुटादिप्रादुर्भाव एवोत्पत्तिः । एवञ्च महदादिकार्यं प्रधानेऽभिनिविशते अव्यक्तं भवति इति । कारणे सत्त्येव कार्यस्य विभागाविभागाभ्यामव्यक्तं कारणमस्तीति गम्यते । तच्चव्यक्तं नित्यं व्यापकं च सर्वं कार्यं व्याप्नोति तथा निःक्रियं क्वचिदप्यनाश्रितञ्च एवं निरवयवं स्वतन्त्रं च । एतद्विपरीतन्तु व्यक्तम् । एवं व्यक्तमव्यक्तं च सुखदुःखमोहरूपगुणत्रयान्वितमचेतनं प्रसवधर्मि च तद्विपरीतः पुरुषः सुखादयश्च गुणाः सत्त्वरृस्तमोरूपाः । सत्त्वस्य प्रयोजनं तु प्रकाशः रजस्तु तस्य प्रवर्तकं तमस्तु नियामकं यदि हि तमसा गुरुणा न नियम्येत तदा रजः लघु सत्त्वं सर्वत्र प्रवर्त्तयेत् । यथा सत्त्वं रजस्तमसी अभिभूय शान्ता वृत्तिमधिगच्छति यथा च रजः सत्त्वरजसी अभिभूय घोरं तथा तमः सत्त्वरजसी अभिभूय मूढामिति । यद्यप्येते परस्परं विरोधिनः शरीरधारणरूपैककार्यकारिणः एवमेतेपि । एवं सुखहेतुत्वात्सत्त्वं सुखात्मकं दुःखहेतुत्वाद् दुःखात्मकं रजः यन्मोहकं तत्तमः । तेच सखदुःखमोहाः परस्परविरोधिनः स्वानुरूपाण्येव परस्परं विरुद्धानि सुखदुःखमोहात्मकानि निमित्तानि कल्पयन्ति । तथाहि एकैव स्त्री स्वामिनं प्रति सुखरूपसद्भावात्तं सुखाकरोति सपत्नीस्तु दुःखाकरोति एवमत्राप्येकस्यापि निमित्तभेदाद्भेदः । सुखप्रकाशलाघवैस्तु परस्परमविरोधान्न निमितितभेदाः कल्प्यन्ते । सर्गादौ तु परिणामस्वभावा गुणाः क्षणमप्यपरिणमय्य न तिष्ठन्तीति सत्त्वं सत्त्वरूपतया रजो रजोरूपतया तमस्तमोरूपतया प्रवर्त्तते । यथाहि घनविमुक्तजलानां जम्बीरकरवीरनारिकेराद्याश्रयभेदादास्ति भेदः एवमेकरूपाणामपि गुणाना प्रतिगुणाश्रयविशेषादनेकरूपता । आत्मा तु व्यक्ताव्यक्तसंघातभिन्नः । परार्थो हि संघातो भवति । यथा शयनासनादयः संघाताः शरीरार्था दृष्टाः । किञ्च यथा रथादि यंत्र्यादिनाधिष्ठितं एवं त्रिगुणात्मकमपि परेण केनचिदधिष्ठीयमानं युक्तम् । स चात्मा प्रतिशरीरं भिन्नः न ह्येकस्मिन् सुखिनि सर्वे सुखिनः । स चायं पुरुषः साक्षी च भवति प्रकृतिर्हि स्वविषयचरितं पुरुषाय प्रदर्शयति । तथाहि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः । एवं चायं द्रष्टापि भवति । तथा अत्रेगुणादस्य कैवल्यं च धर्मः । आत्यन्तिको हि दुःखत्रयाभावः कैवल्यम् । अतएवात्रिगुणत्वान्गध्यस्थोऽपि भवति सुखी हि सुखे तृप्यन् दुःखी द्विषन् चेतनोऽहं करीमिति कृतिचैतन्ययोरैकाधिकरण्यं प्रतीयते तथापि पुरुषप्रधानादिसम्बन्धात्पुरूषचैतन्यमव्यक्ते गुणकर्तृत्वं च पुरुषेःउपचर्यते । भोग्यं हि प्रधानं भोक्त्नपेक्षा पुरुषस्तु भोग्येन प्रधानेन संयुक्तस्तद्गतं दुःखमात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते । तञ्च सत्त्वपुरुषान्यताख्यातिनिबन्धनम् न च सत्त्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षत इति तयोः संयोगः अत एव संयोगो न महदादिसर्गमन्तरेण भोगाय कैवल्याय च पर्याप्त इति संयोग एव भोगापवर्गार्थं सर्गं करोतीति ।।
अथ विवेकज्ञानोपयोगिनी बुद्धिर्निरूप्यते । तस्याश्च व्यापारोऽध्यवसायः तदभिन्नः । एव बुद्धेर्लक्षणं समानासमानजातीयव्यवच्छेदकत्वात् । तथाहि सर्वोपि व्यवहर्ताऽहमत्राधिकृत इति अभिमत्य मया एतत्कर्तव्यमिति अध्यवस्यति ततश्च प्रवर्तते । तत्र चितिसन्निधानादापन्नचैतन्याया बुद्धेर्योऽयं कर्तव्यमिति विनिश्चयः
सोऽध्यवसायः । तत्र धर्मो यागाद्यनुष्ठानजनितः । ज्ञानं गुणपुरुषान्यताख्यातिः । वैराग्यं रागाभावः । एवमैश्वर्यमपि बुद्धिधर्मो यतोऽणिमादिप्रादुर्भावः । अहमत्र शक्तः मत्तो नान्योऽत्राधिकृतः अतोऽहमस्मि इत्यादिको योऽभिमानः सोऽहङ्कारव्यापारत्वादहङ्कारः । तमुपजीव्य हि बुद्धिरध्यवस्यति कर्त्तव्यमेतन्मयेति अहङ्काराच्च द्विविधः ।सर्गः सात्त्विकादेकादशेन्द्रियाणि तामसात्तु पञ्चतन्मात्राः । रजसस्तु तत्प्रर्वतकत्वमात्रात्कारणत्वम् । सात्त्विकराजसतामसाहङ्काराणामेव क्रमेण वैकारिकस्तैजसो भूतादिरिति संज्ञाः ।चक्षुः श्रोत्रघ्राणरसत्वगाख्यानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । मन उभयात्मकं बुद्धान्द्रियं कर्मेन्द्रियञ्च । चक्षुरादीनां च मनोधिष्ठितानां स्वविषयेषु प्रवृत्तेः। प्रथमं वस्तुदर्शनानन्तर बालमूकादिवन्निर्विकल्पात्मकं सामान्यतो ज्ञानमुत्पद्यते । पश्चाच्च वस्तुधर्मैर्जात्यदिभिर्योऽध्यवसायः स सङ्कल्पाख्यो मनसो व्यापारः । एकस्मादहङ्कारादेकादशविधानि इन्द्रियाणि भवन्तीत्यत्र तु शब्दाद्युपभोगसम्प्रवर्तकादृष्टभेद एव नियामकः। अदृष्टभेदस्तु गुणपरिणाम एव। पञ्चबुद्धीन्द्रियाणां सम्बद्धवस्त्वालोचनं वृत्तिः वागादिकर्मेन्द्रियाणां तु वचनादयो वृत्तयः। एवं महतोऽध्यवसायः अहङ्कारस्याभिमानः सङ्कल्पो मनसो वृत्तिर्व्यापारः । कार्यकारणाभिमुखानां करणानां वृत्तिसङ्करस्तु न भवति । यथाहि परावस्कन्दाय प्रवृत्ताः शक्तिकयाष्टीकादयः स्वं स्वं शक्त्यादिकमेवाददते न परस्परयष्ट्यादिकम् । ननु याष्टीकादीनां चेतनत्वादस्तु तथा प्रवृत्तिः करणानां त्वचेतनानां प्रवृत्तेरयुक्तत्वात्तत्स्वरूपसामर्थ्योपभोगाभिज्ञ अधिष्ठाता स्वीकार्य इति चेन्न तत्प्रवृत्तौ पुरुषार्थस्यैव हेतुत्वात् एतच्चोपपादयिष्यति । करणानि तु त्रयोदश। करणत्वं तु शब्दस्पर्शादिप्रकाशनं कर्मेन्द्रियाणां तु वचनादिव्यापारः ।अविघातः विघातश्चानैश्वर्यात् । अयं बुद्धिसर्गः चतुर्धाविपयर्याशक्तितुष्टिसिद्धिभेदात् । तत्र विपर्ययोऽज्ञानमविद्या । विपर्ययः पञ्चधा अविद्यास्मितारागद्वेषाभिनिवेशा यथासंख्यं तमोमोहमहामोहतामिस्रान्धतामिस्रसंज्ञाभेदात् । प्रकृत्यादिष्वनात्मस्वात्मबुद्धिरविद्या तमः । देवादीनामणिमाद्येश्वर्येषु शाश्वतिकत्वाभिमानोऽस्मिता मोहः । शब्दादिषु विषयेषु राग आसाक्तिर्महामोहः ।देवादीनामसुरादिभ्यः स्वैश्वर्याणिमाभिघातभयमभिनिवेशोऽन्धतामिस्रः । अशक्तिस्तु अन्धत्वपङ्गुत्वादिरूपा करणवैकल्यहेतुका । तुष्टयो द्वेधा आध्यात्मिका बाह्यश्च प्रकृतिव्यतिरिक्त आत्मास्तीति निश्चित्य संन्यासादेव तवापर्गो भविष्यतीति उपदेशादौ या तुष्टयस्ताबाह्याः । आत्मविद्यानामध्ययनमननादयः सिद्धिभेदाः ।एवं निरूपितो बुद्धिसर्गः । तन्मात्रसर्गोपि देवमनुष्यपश्वादिभादाद्बहुधा । तत्रोर्ध्वाधोमध्यलोकाः सत्त्वरजातेमोबहुलाः । ननु सुखदुःखादयः प्राकृता बुद्धिगुणाः कथं चेतने भवन्तीति चेत्सत्यम् पुरि लिङ्गे शेस्ते स पुरुषः । एवं च लिङ्गपुरुषयोः सम्बन्धाल्लिङ्गधर्मानात्मन्यध्यवस्यति । अयं च महदादिः पृथिव्यादिमहाभूतान्तः सर्गः प्रकृत्यैव कृतः । निष्कारणत्वे तु सदैव स्यान्नैव वा स्यात् । ईश्वरस्तु न तत्रोपादानं चितिशक्तेरपिणामात् । नापि ईश्वराधिष्ठिताया प्रकृतेः कर्तृत्वं निर्व्यापारस्याधिष्टातृत्वासम्भवात् । नहि निर्व्यापारस्तक्षावास्याद्यधितिष्ठति । ननु प्रकृतेः कर्तृत्वे तस्या नित्यत्वेनानुपरमात्कदापि मोक्षो न स्यादिति चेन्न । यथाहि ओदनकामः पक्वौदनो न प्रवर्तते पुनस्तत्र एवं यं यं पुरुषं प्रकृतिर्मोचितवती न तं प्रति पुनः प्रवर्तते । नन्वचेतनायां प्रकृतौ कथं चेतनधर्मः प्रवृत्तिः तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः आत्मानस्तु प्रकृतिस्वरूपानभिज्ञत्वान्नाधिष्ठातुमर्हन्ति तस्मादस्ति सर्वार्थदर्शी प्रकृतेरधिष्ठाता स चेश्वर एवेति चेत्सत्यम् यथाहि वत्सविवृद्ध्यर्थमचेतनमपि क्षीरं प्रवर्तते तथा प्रकृतिरपि पुरुषमोक्षाय प्रवर्तिष्यते । न चेश्वराधिष्ठानत्वेन क्षीरे प्रवृत्तिः शङ्ग्या। द्विधा हि प्रवृत्तिर्भवति स्वार्थाय कारुण्याय वा । न चाप्तसकलकामस्येश्वरस्य किमपि प्रार्थनीयमस्ति सर्गात्प्राक् दुःखाभावेन करुणाय असंभवात् । किञ्च करुणया प्रेरति ईश्वरः सुखिन एव सर्वान् प्राणिनः सृजेत् न विचित्रान् । प्रकृतेस्त्वचेतनतया नेदं द्वयं किन्तु परार्थैव प्रवृत्तिः यथा पारिषदान्प्रदर्शयन्निवर्तते नटः एवं प्रकृतिः आत्मानं शब्दाद्यात्मना पुरुषाद्भेदेन प्रकाशय निवर्तते ।
फलाभावेपि निर्गुणे उपकारिण्यपि पुरुषे पिरकृतिस्तपस्विनी प्रवर्तते एव तथाहि गुणवानुपकार्यपि भृत्योनिर्गुणे उपकारिण्यपि स्वामिनि निष्फलाराधनः । यद्यपि नाट्यान्निवृत्तोपि नटः कालान्तरे पुनरपि प्रवर्तते एवं मुक्तं प्रति प्रकृतिस्तु न पुनः प्रवर्तते यथाहि विगलितवसना कुलवधूः कदाचित्केनचिद्दृष्टा चत्तदासौ तथा यतते यथा न पुरुषान्तराणि पश्यन्ति एवं प्रकृतिरपि विवेकेन साक्षात्कृताऽतिलज्जावशात्पुनः स्वात्मानं न प्रदर्शयति । ननु सवासनक्लेशकर्माशयानां बन्धनसंज्ञितानामप्यपरिणामिनि पुरुषेऽसम्भवात्कथं मोक्षः मुचेर्बन्धनाविश्लेषार्थत्वात् । अत एव न संसारोपि सम्भवति निष्क्रियत्वात् । मैवम् । यथाहि भृत्यगतौ जयपराजयौ स्वामिन्युपचर्येते एवं प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाग्रहात्पुरुषे उपचारः । तत्र धर्माधर्मज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यरूपैः सप्तभिर्भावैर्बध्नाति तत्त्वज्ञानेन तु मोचयति । एवं च
कृतादस्मात्तत्त्वाभ्यासान्नास्मि न मे नाहमिति शुद्धमुत्पद्यते ज्ञानं यद्विषयो अभ्यासस्तं साक्षात्कारयतीति . नास्मीत्यनेन क्रियामात्रन्निषिध्यते अस्तेः क्रियार्थत्वात् । नाहमित्यनेन कर्तृत्वं न मे इत्यनेन स्वामित्वं निषिध्यते ।भोगविवेकसाक्षात्कारौ प्रकृतेः प्रसोतव्यौ तौ च प्रसूताविति निवृत्ता प्रकृतिस्तां निषक्रियः स्वच्छपुरुषः पश्यति प्रकृतिपुरुषयोरसंसर्गेप्यविवेकख्यातिनिबन्धनः संसारः पुनर्न भवति इति । अन्ते तत्त्वज्ञानस्य तदानीमेव शरीरपातस्तु न भवति । यथाहि निवृत्ते कुलालव्यापारे संस्कारवशात् चक्रं भ्रमत्तिष्ठति एवं संस्कारवशात् शरीरमपि शरीरपातानन्तरं तु प्रधानस्य निवृत्तत्वादात्यन्तिकमपि दुःखं नश्यति दुःखाभावरूपं कैवल्यमाप्नोति ।।
इति श्रीमद्देवीदत्तत्मजगमसेवकसून्वाचार्यकृष्णामित्रकृता तत्त्वमीमांसा समाप्ता।।
******
श्री गणेशाय नमः ।
श्री दक्षाणामूर्त्तिगुरूभ्योनमः ।
अथ सांख्यपरिभाषा ।
स्वानुभवं यथामति व्याख्यास्यामः ।
ऊँनमो नारायणाय प्रकृत्यै पुरुषाय च ।
वेदान्तसारगुह्याय साङ्ख्यतत्त्वस्वरूपिणे ।। 1।।
योगिनां परहंसनां तत्त्वज्ञानार्थदर्शनम् ।
अन्येषां च न दातव्यं मायया मोहितं जगत् ।। 2 ।।
शब्दश्रोता च व्याजेन निर्वाणार्थं च कथ्यते ।
यदा कश्चिन्महाभागस्तस्य विश्रान्तिकारकम् ।।
विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः ।। 3।।
अथ गुरूः ।
गुरूयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम् ।। 4 ।।
गुरुश्च द्विविधः प्रोक्तो वार्त्तिकाम्नाय एव च ।।
वार्त्तिको भक्तिभावेन आम्नायो मूलकारिका ।। 5 ।।
किन्तु--
ब्राह्मणस्रीशूद्रमुखोपास्या ये ते तु वार्त्तिकाः ।
संन्यासादिपारम्पर्येण स आम्नायः प्रकीर्तितः ।। 6 ।।
आदौ शिवस्तथा विष्णुर्ब्रह्मा वसिष्ठ एव च ।
शक्तः पाराशरो व्यासः शुको गौडस्तथैव च ।।
गोविन्दपादपूज्येभ्यः शङ्करः शङ्करो परः ।
इयं परम्परा प्रोक्ता गुरोराम्नायसिद्धिदा ।। 7 ।।
गुरूर्गायत्र्युपदेशो गुरूश्चोदरपोषकः ।
सद्गुरुर्मोक्षदाता च गुरोस्रिविधलक्षणम् ।। 8 ।।
मन्त्राध्ययनं च व्याख्यानं कर्मतन्त्राणि चेटकाः ।
वैदिकी शिल्पविद्या च श्रीगुरोस्तस्य उच्यते ।। 9 ।।
कार्यकारणतां हित्वा समाधिः पूर्णबोधकः ।
तारको मोक्षदाता च सद् गुरुस्तस्य उच्यते ।। 10 ।।
अथ शिष्यः ।
रिक्तकामं मनो धृत्वा विश्वासं गुरुभक्तिदम् ।
आशामोक्षं विना नास्ति तच्छिष्यमुद्धरेद्गुरुः ।। 11 ।।
भो भो स्वामिन् कृपासिन्धो प्रार्थयिष्यामि तेऽधुना ।
तप्तसंसारदावाग्नौ मुक्तिं कुरु दयानिधे ।। 12 ।।
विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽखिववेदार्था अस्मिन् ।
तथा च श्रुतिः --
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुश्रित्य तमनुसरति ।।
तद्धि संप्रणिपातेन परिप्रश्नेन सेवया ।।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।। 13 ।।
' यज्ज्ञात्वा न पुनर्मोहः' इति गीतासु ।
मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ।।
लोलुपः साधुसङ्गस्य अत्यन्तं सुखमश्नुते ।। 14 ।।
इति गुरुपरम्परा ।
अथ सांख्यसाम्प्रदायेन ज्ञानमाह । तत्र प्रथमं साधनचतुष्टयसम्पन्नस्य इहामुत्रार्थफलभोगविरागः । द्वितीयं शमदमादिषट्कम् । तृतीयं नित्यानित्यवस्तुविवेकः । चतुर्थं मुमुक्षुत्वं मोक्षेच्छा । किन्तु इह नाम स्रक्चन्दनवनितादिविषयभोगविरागः । अमुत्र नाम स्वर्गभोगादिअनिच्छा । शमो नाम मनोनिग्रहः । दम इन्द्रियानिग्रहः । तितिक्षा शीतोष्णादिपरोत्कर्षसहनम् । समाधानं सृष्ट्यादिमायाविलक्षणम् । श्रद्धा गुरावध्यात्मशास्त्रे रतिः । उपरमः कार्यकारणातीतम् । नित्य आत्मा । अनित्या दृश्यपदार्थाः । अतः परं मोक्षेच्छा।।
इति साधनचतुष्टयम् ।
कम्बलो खर्परी वेणुर्बुद्धेस्त्रिविधलक्षणम् ।
चित्तक्षिप्तगतायातालीनताभूमिकात्रयम् ।। 1 ।।
अथ भूमिका । विक्षेप्ता विषयपदार्थे रति ः । गतायाता संशयात्मिका य सुलीनता प्रीतिरूपा तुरीया ।
अथ बुद्धयः । गुरुः शास्त्रादियुक्त्या बोधयति तथापि शून्यं कम्बलपेशीवत् । सा अधिकप्रकाशो न भवति खर्परच्छिद्रवत् । अनेकयुक्त्या विस्तारयति भग्रवेणुवत् जले तैलवत् । तत्रादौ वैराग्यम् । तत्र प्रमाणं श्रुतिः--न वाऽरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति इति ।
बृहदारण्यके ' त्यागैनैकेन अमृतत्वमानशुः' । तत्रादौ शबलत्यागः ।।
विष्ठामूत्रं च दुर्गन्धि कृम्यागारं च नश्वरम् ।
तत्सौख्यमानिनो मूढा अहंममेतिगर्विताः ।। 1 ।।
कस्य माता पिता कस्य कस्य भ्राता सहोदरः ।
कस्य स्त्री कस्य पुत्रस्तु नराणां कर्मबन्धनम् ।। 2।।
जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु ।
उदासीनसमं पश्येत्सर्वं व्यर्थमेवात्मनि ।। 3।।
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।
क्षमी विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ।। 4 ।।
कायारण्यसमाविष्टो मनव्याघ्रो महाबली ।
भक्षते सकलांल्लोकान्देवानुरगमानवान् ।। 5 ।।
ज्ञानखङ्गं दृढं कृत्वा वैराग्यमं भूमिशोधनम् ।
दुर्लभो यस्य संग्रामो कोसौ शूरश्च आत्मवान्।। 6 ।।
अथ शुद्धत्यागः ।
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद् ग्रंथमशेषतः ।। 7 ।।
पदमिच्छसि ब्रह्मत्वं तदा विज्ञानतः शृणु ।
सर्वार्थेषु च वैराग्यं सर्वभूतेषु चात्मता ।। 8 ।।
मुक्तिमिच्छसि चेत्त्वन्तु विषयान् विषवत्त्यज ।
क्षमार्जवदयातोषसत्यं पीयूषवद्भज ।। 9 ।।
मनसा ध्यायते योगी कृपणस्तु धनं यथा ।
मनसा येन पीत्वा च तेन जित्वा जगत्त्रयम् ।। 10 ।।
विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ।। 11 ।।
अकिञ्चनश्च दान्तश्च शान्तश्च सममानसः ।
स लिङ्गानाश्रमं त्यक्त्वा चरेदविधिगोचरः।। 12 ।।
देहे च शृणु तं तात गुप्तप्रकटलक्षणम् ।
दशगुप्तकरं मोक्षद्वादशं सहजस्थिति ः ।। 13 ।।
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रजाम्यहं नित्यं पूययेदङ्घ्रिरेणुभिः ।। 14 ।।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ।
एकाकी निस्पृहः शान्तो पाणिपात्रो दिगम्बरः ।। 15 ।।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।
अहं त्वां सर्वपापेभ्यो मोक्षयिय्यामि मा शुचः ।। 16 ।।
निरालम्बपदं प्राप्य चित्ते तत्र लयं गते ।
निवर्तन्ते क्रियाः सर्वाः स योगी निर्गुणः परः ।। 17 ।।
विषयेन्द्रियकारणमाकर्षचित्तविभ्रमः ।
यथा बहुसपत्नीनां लुठन्ति पतिमेकतः ।। 18 ।।
साधु साधु शृणु स्वार्थमस्थियन्त्राच्च दूरतः ।
अस्य भागकृता लोके ममत्वं श्वानवत्कृतम् ।। 19 ।।
शृणु तात द्वयं त्याज्यमाशा भेदस्तथैव च ।
आशाया दीनतां कृत्वा भैदश्च भेदवर्धानम् ।। 20 ।।
रोदनहास्यकाऽननेन पिशाचस्थितिमाश्रयेत् ।
अस्य सङ्गं सदा त्यज्य भव चिन्मात्र सर्वदा ।। 21 ।।
छायाकार्यं यथा नास्ति तथैवायं हि देहकः ।
तत्त्वं गृहरसं त्यज्य परमां स्थितिमाश्रय ।। 22 ।।
गोष्पदं पृथिवी मेरुः स्थाणुराकाशमुद्रिका ।
तृणं त्रिभुवनं राम वैराग्यालंकृता कृतिः ।
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।। 23 ।।
इति वैराग्यम् ।।
अथ भक्तिद्वारा चतुर्विधा मुक्तिः ।
वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते ।।
प्रथमं चित्तशुद्धिं च मानसं पूजनद्वयम् ।
तृतीयं च सदा ध्यानं व्यापकं च चतुर्थकम् ।। 1 ।।
पञ्चमं तु निरालम्बं मोक्षभूमिर्यथाक्रमम् ।
यत्नेन साधयेन्मर्थ्यो तस्य मुक्तिर्न संशयः ।। 2।।
जपानुष्ठानयोर्द्वारा चित्तशुद्धिर्विधीयते ।
पश्चाच्चतुर्विधा मुक्तिः शृणु साधु द्विजोत्तम् ।। 3 ।।
मानसे लोकसम्प्राप्तिस्तत्सदा च समीपता ।
तथा तस्य स्वरूपं च निरालम्बेन शाश्वतम् ।। 4 ।।
ये ये यान् यान् यजन्देवांस्ते ते चत्वारमोक्षगाः ।
आत्मज्ञानं विना मोक्षो न भवेत्सच्चिदात्मनि ।। 5।।
किन्तु----
मानसं नाम आसनस्थां सावयवमूर्तिं ध्यायेत् । निवातदीपवत्स्वस्थं यथाबुध्या षोडशोपचारैः पूजयेत् । तस्य गच्छतस्तिष्ठतश्च न समीपावभासः । स एव सर्वभूतस्थं स्वरूपं पश्यति । ततः सावकाशमिव भासते सा सायुज्यता ।
इति चतुर्विधा उपासना मुक्तिः ।
सर्वेश्वरमयं भक्तिर्ज्ञानं चाभेददर्शनम् ।
निरपेक्षं च वैराग्यं मुक्तं निर्विषयं मनः ।। 1 ।।
किन्तु चाण्डालादिब्रह्मपर्यन्तं सवभूतेषु ईश्वररूपं भावयेत् । यथार्हं षोडशोपचारेण पूजयेत् । सा भक्तिः न तु प्रतिमा । ब्रह्मादिपिपीलिकापर्यन्तं स्वशरीरवदभेदं ज्ञात्वा तज्ज्ञानं परदेहाहिस्वदेहावयवमेकीकृत्य सर्वत्र एकमेव पिण्डमवधारयेत् ब्रह्मादिस्थावरपर्यन्तमिहामुत्र निराशा । मुक्तो नाम वृत्तिशून्यम् । तत्र प्रमाणम् --
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि च भवत्यात्मलेषभगवतोत्तमः ।। 1 ।।
यदा भूतपृथक्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ।। 3 ।।
प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मनस्तुष्टः स्वपतः स न खिद्यते ।। 4 ।।
गीतासु ।
ब्रह्मादिस्थावरान्तेषुं वैराग्यं यद्धि जायते ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ।। 5 ।।
इति अद्वैतभक्तिः ।
अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् ।
निर्लोभदाता भवमुक्तिहेतुर्ज्ञानस्य चिह्नं दशलक्षणानि ।। 1 ।।
कर्म अध्यात्मतत्त्वं च ब्रह्मज्ञानमतः परम् ।
इन्द्रं चत्वारि वाच्यार्थमात्मलक्षणं सुखावहम् ।। 2 ।।
कर्मज्ञानी भवेज्जीवः पुरुषोऽध्यात्मसंज्ञकः।
ईश्वरस्तत्त्ववेत्ता च सर्वं ब्रह्मेति ब्रह्मता ।। 3 ।।
वर्णाश्रयं च धर्मं च होत्रादिकर्मतत्पराः ।
भजनं सर्वभूतेषु ज्ञानं च कर्मसंज्ञितम् ।। 4 ।।
वैराग्याध्यात्मशास्त्रं च यस्य माया विनिर्गता ।
जिज्ञासा मननाध्यासं ज्ञानमध्यात्मसंज्ञितम् ।। 5 ।।
आलोक्य धर्मसांख्यादिधर्मकमक्रियाविधीः ।
तदर्थव्यतिरेकेण तत्त्वज्ञानं तदोच्यते ।। 6 ।।
समाधिशब्दवाक्यार्थं ब्रह्माकारतया वृत्तिः ।
एकाकी निस्पृहः शान्तो ब्रह्मज्ञानं तदोच्यते ।। 7 ।।
वाचो यस्मिन्निवर्तन्ते लिङ्गं गलितसर्वधीः ।
स्वयमेव स्वरूपस्थ खमिव स्वं विराजते ।। 8 ।।
उक्ताचारर्वर्हानस्य स्वबुद्धिर्वर्ततेऽखिलम् ।
द्रव्यादिविषयस्वार्थान्स जीवो नीचशब्दितः ।। 9 ।।
सदाचाररतो नित्यं द्वन्द्वातीतश्च निस्पृहः ।
शुष्कञ्चाप्यशनं चैव पुरुषस्तस्य उच्यते ।। 10 ।।
दण्डकाशायमात्रं च कामक्रोधविवर्जितः ।
भ्रमरीभुक्तसन्तोषमीश्वरस्तस्य उच्यते ।। 11 ।।
दिग्वासं च स्वसंवेद्यमानन्दं स्वपरं न हि ।
पामिपात्रे च यद्भुक्ते स ब्रह्म राजते महीम् ।। 12 ।।
देहान्तितं सदाकालं वर्णाश्रमविवर्जितम् ।
यत्कृतं तत्सदाचारमात्मारामो विराजते ।। 13 ।।
इति ।
अथ धर्मशास्त्रे---
अनिष्टमिष्टमिश्रं च त्रिविधं कर्मणः फलम् ।।
पशुमिश्रस्तथा ज्ञानी मिद्धज्ञयं च पञ्चकम् ।
एतैर्लक्षणसंयुक्तं वृत्तिभेदेन कथ्यते ।। 14 ।।
उक्त्वा च कार्येण द्रव्यं च साधयेत्ततः ।
शिश्नोदररताः स्वार्थं सत्पशोर्लक्षणं स्मृतम् ।। 15 ।।
युगाचारेण वर्तन्ते संमतं वर्णमाश्रम् ।
आत्मास्वार्थं न जानाति स मिश्रं लक्षणं स्मृतम् ।। 16 ।।
वेदशास्त्रार्थसर्वज्ञो उक्ताचारश्च तत्परः ।
यथोक्त्वा च वदेद्वाक्यं स ज्ञानी लक्षणोच्यते ।। 17 ।।
कार्यं च अन्यथाकर्तुं यद्वक्तुं तत्तु साध्ययेत् ।
सञ्चितार्थान्वदेत्प्राज्ञः स सिद्धिर्लक्षणोच्यते ।। 18 ।।
कार्यकारणकर्तृत्वं विहाय विचरेन्महीम् ।
स्तुनादपी निकामी च आनन्दं ज्ञेयलक्षणम् ।। 19 ।।
इति निर्वेदज्ञाननिर्णयः ।
देहवर्णाश्रय धर्मा कल्पनावेदनिर्मिताः ।
ता हि निर्मोकवत्त्याज्याः सोऽहमेको निरञ्जनः ।। 20 ।।
तस्माज्ज्ञानात्तु कैवल्यमित्यादिश्रुतेः ज्ञानाग्निदग्धकर्माणीति गीता ।
परोक्षं शास्त्रियज्ञानमपरोक्षं च शाश्वतम् ।
प्रथमं जन्मकर्माणि द्वितीयं सच्चिदात्मकम् ।। 21 ।।
उत्पत्तिस्थितिसंहारभूतं भूतेषु युज्यते ।
आत्मा च तत्र साक्षी च जगद्द्रष्टा च सूर्यवत् ।। 22 ।।
भूतादिव्यक्तिरूपं च अचरं चरमेव च ।
तदिन्द्रिजालवत्पश्येद्यथा नु वीचिवज्जगत् ।। 23 ।।
कल्पनाबद्धजन्तुश्च सदा जल्पति दोषवत् ।
वपुर्नृत्यति रथ्यायां यावत्पतति भूतले ।। 24 ।।
जनो बालपिशाचत्वं किं लज्जायोगिवृन्दिनाम् ।
जल्पन्ति विविधा वाचो किमर्थं सुखदुःखोः ।। 25 ।।
अस्ति भाति प्रियं स्थिरमस्थिरं नाम रूपकम् ।
चत्वार ईषणा त्याज्याः सोहमेको निरञ्जनः ।। 26 ।।
मातृकाध्वनिरूपा च वर्तते विश्वमायया ।
जानीहि तत्र तन्नादं व्यर्थोऽर्थः प्रतिपाद्यते ।। 27 ।।
अमनस्तु सदा देहो यथा ग्रामो विना जनात् ।
ब्रह्माद्योपि न कर्त्तव्यः स पशुश्चात्मघातकः ।। 28 ।।
उत्तमा च लये लीना ध्यानधारणमध्यमाः ।
अधमा प्रतिमापूजा गीतनृत्यं धमोधमः ।। 29 ।।
स्नानं मनो मलत्यागः शौचमिन्द्रियनिग्रहः ।
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ।। 30 ।।
स्थूलपेशिवत् प्रत्यक्षं लिङ्गं वन्ध्यं यथा स्त्रियः ।
मनसात्मैकरूपेण स्वयं ब्रह्म सनातनम् ।। 31 ।।
श्रुतिस्मृत्यर्थपूर्णं च समाधिश्चित्तसौरसम् ।
यावद्देहाभिमानं च तावत्यो निष्फलाः क्रियाः ।। 32 ।।
संसारकर्म आसक्तो ब्रह्माहमिति मन्यते ।
कर्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा ।। 33 ।।
समाधेर्विक्षेपो यस्य नानायुक्तिप्रकारकः ।
यावद्देहलयं नैतावन्तो मोहकारकाः ।। 34 ।।
एकोसौ योगवासी च द्वयं ग्रामस्तथैव च ।
तृतीयं नगरं चैव मन्ये यद्वनवासिनाम् ।। 35 ।।
वेदशास्त्रपुराणानि नानायुक्तिं च वल्गुना ।
व्यवसायात्मिका बुद्धिर्न तु साधनरूपका ।। 36 ।।
आलोड्य चतुरो वेदान् सर्वशास्त्राणि सर्वदा।
यो वै तत्त्वं न जानाति दर्वीपाकरसं यथा ।। 37 ।।
शब्दब्रह्मणि निष्णातो स्नायात्स परमे यदि ।
श्रमस्तस्य श्रमफलं ह्यधेनुरिव रक्षकः ।। 38 ।।
आकाशदर्पणे यस्मिन्यज्जगद्भासतेऽखिलम् ।
तत्सर्वं ब्रह्मरूपं च मायामयविचेष्टितम् ।। 39 ।।
या निशा सर्वभूतानां तस्यां जांगर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। 40 ।।
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ।
न मनो हन्त बुद्धिश्च नैव चित्तमहङ्कृतिः ।। 41 ।।
नाह मनुष्यो न च देव यक्षो न ब्राह्मणः क्षत्रियवैश्यशूद्रः।
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ।। 42 ।।
कार्यकारणचेष्टा च त्रिविधं कल्पनाकृतम् ।
मनोहङ्कारसंयुक्तं व्यर्थं च शब्दमालिका ।। 43 ।।
शब्दे शब्दस्य ज्ञानार्थं योगी वदति निस्पृहः ।
यथा वाद्येषु नादश्च पारतन्व्येण वर्तते ।। 44 ।।
योगी च सर्वकार्याणि वर्तते देहकर्मणि ।
कौमारं क्रीडनं चैव सर्वं मिथ्यैव कारणम् ।। 45 ।।
यध्यावत्क्रियते जन्तुः स्वगृहे राजते पुमान् ।
यो यो यस्य तथा भावस्तत्तत्तेषां च सौख्यता ।। 46 ।।
तत्कामोपचेष्टितम् सर्वं वृथा भवति आयतौ ।।
न चास्य क्रिया काचिन्नेह नानास्ति कर्हिचित् ।। 47 ।।
अहं चेष्ट इतो देहे सर्वकर्मसु चेष्टते ।
इति ज्ञानं विजानीयाद्यज्ज्ञानं स्मरणेन हि ।। 48 ।।
तडागः पूर्णतो येन यद्दातुं बलं राजते ।
किंचिच्छिद्रेण आद्यं च मनसात्मोदकक्रियाः ।। 49 ।।
बन्धं विहाय पूर्णानि कुर्वन्तु स्वस्थमानसम् ।
ये हि युक्तिं सदाभ्यासात्य वै ज्ञानोत्तमोत्तमः ।। 50 ।।
देहादिसर्वकर्माणि ज्ञानाज्ञानेषु ज्ञायसे ।
सोहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम् ।। 51 ।।
अहं मूर्खमहं ज्ञाता यो धर्मः प्रतिपाद्यते ।
सोहं चिन्मात्ररूपेण जानाहि ब्रह्मलक्षणम् ।। 52 ।।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि यस्मिन् दृष्टे परावरे ।। 53 ।।
जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मण्याभाति चिन्मिथ्या यथा मरुमरीचिका ।। 54 ।।
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स सत्त्ववित् ।। 55 ।।
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः।
असङ्गोसि निराकारो विश्वसाक्षी सुखी भव।। 56 ।।
देहाभिमानगलिते विदिते च चिदात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ।। 57 ।।
आत्मैकभावनिष्ठस्य या या चेष्टास्तदर्चनम् ।
यो यो जल्पः स संमन्त्रस्तद्ध्यानं चनिरीक्षणम् ।। 58 ।।
न संकल्पविकल्पस्य न लीनोपाधिवासनाः ।
निजस्वरूपे निर्मग्नः स योगी परतत्त्ववित् ।। 59 ।।
देहादिसर्वेन्द्रियाणि सत्तामात्रेण चेष्टते ।
यथा दीपे प्रपंचस्य चुंबकं लोहमेव च ।। 60 ।।
देहदेवयं तथा नाम वर्णाश्रमा च व्यर्थया ।
महीआकाशब्रह्माहमलमेतत्समाधिना ।। 61 ।।
अव्यक्तस्य कथं ध्यानं व्यापकस्य विसर्जनम् ।
अमूर्तस्य कथं पूजा स्वयं ब्रह्म सनातनम्।। 62 ।।
फलस्य कारणं पुष्पं फले पुष्पं विनश्यति ।
ज्ञानस्य कारणं कर्म ज्ञाने कर्म विनश्यति ।। 63 ।।
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं सर्वं महाकल्पांबुना यथा ।। 64 ।।
भूतादिव्यक्तिरूपं च अचरं चरमेव च ।
तदिन्द्रजालवत्पश्येद्यथाम्बुवीतिवज्जगत् ।। 64 ।।
शब्दभागद्वयं कृत्वा व्यर्थो ज्ञानार्थयोगिनम् ।
कदाचिद्वक् तुं ज्ञानार्थं व्यर्थो वक्तुं न शक्यते ।। 66 ।।
गर्वं नो वहते न निन्दति परान्नो भाषते निष्ठुरं
प्रोक्तं केनाचिदप्रियं च हसते क्रोधं च नालम्बते ।
श्रुत्वा काव्यमलक्षमं परकृतं सन्तिष्ठते मूकव-
द्दोषान्नाददते स्वयं न करुते चैतत्सतां लक्षणम् ।। 67 ।।
बीजमध्ये यथा वृक्षं वृक्षमध्ये च बीजता ।
व्याप्यव्यापकसर्वात्मा स पृथक् नैव दृश्यते ।। 68 ।।
एकात्म् सर्वभूतेषु बन्धमोक्षः कथं द्विधा ।
जन्मसंस्कारयोगेन भिन्नत्वं वर्त्तते सदा ।। 69 ।।
प्रतिबिम्बियथोपाधिं दीर्घन्तिर्यक् च वर्त्तुलम् ।
तस्माद्विलक्षणे जीवः कथमेकं भविष्यति।। 70 ।।
यथा योनिस्तथाचारपूर्वकर्म्मानुसारतः ।
तत्तज्ज्ञानाधिकारेण द्विविधा बन्धमोक्षयोः ।। 71 ।।
यथायमलमुत्पत्तिं प्रारब्धं विविधाकृतम् ।
तथैव सुखदुःखानि कथं भवति एकता ।। 72 ।।
द्रव्य न भक्षयेत्प्राज्ञः स्वद्रव्यं नैव पोषयेत् ।
सन्तुष्टः सर्वदा नित्यं स नरो ज्ञानवान्भवेत् ।। 73 ।।
शरीरं नश्वरं सर्वं सम्बन्धः किन्तु शाश्वतः ।
वयसा सूत्रमार्गेण यथा स्थानेषु गच्छति ।। 74 ।।
यथा परगृहे वासो मार्गस्थं कुरुते सदा ।
तथैव सुधदुःखेन न स्पृशेत् ज्ञानिनो नरः ।। 75 ।।
नटी च नटनाट्यं च नानाक्रीडा च रञ्जनम् ।
अहं प्रत्ययजानाति तथैव ज्ञो सदा नरः ।। 76 ।।
इति ज्ञाननिर्णयः ।
अथ श्रोता उवाच ।
इदं किं दृश्यते केन कथं जातम् ?
तं होवाच---
प्रथम अनादिवस्तु चैतन्य आत्मा । तस्य स्फुरणं जातं स इममेवात्मानं द्विधा पातयेत्ततः ।
पातिश्च पत्नी चाभवतामिति बृहदारण्ये ।
तत्त्वमसीति यस्मिन् त्रिपादानि भवन्ति । तत् त्वं असि।
ब्रह्माहमस्मीति सकलब्रह्मान्तं निश्वसितम् । अथ तत्सर्वं त्वमेव । इदमाश्चर्यम् । तर्हि चित्त एकाग्रम् अतिसूक्ष्मतरं कुरू । परमार्थमित्युक्तम् । आत्मायं गुरुचलधर्मव्यापकत्वादिति । उथ---
अन्धः पङ्गुरसङ्गे च सङ्गात्कर्म प्रतिष्ठितम् ।
यत्र पङ्गुस्वतन्त्रत्वं तत्रान्धो निःफलो भवेत् ।। 1 ।।
अन्धातीतं भवेत्पङ्गुरचलं च सनातनम् ।
सबाह्याभ्यन्तरं भूतं यथाकाशं च दृश्यते ।। 2 ।।
किन्तु माया अन्धा अविवेकित्वात् । उभयोरेकीभूत्वा मिथ्या जीवेश्वरौ व्याजेनापि ब्रह्माण्डयोः सृष्टिनिर्मिताः ।
तस्मान्मायापरित्यागेन स्वयमेव चिदाकाशे च वर्तते ।
तत्र प्रमाणं श्रुतिः । आकाश आत्मा खं ब्रह्म ।
अथ जीवेश्वरयोर्लक्षणम् । तत्र प्रमाणं श्रुतिः । द्वासुपर्णा सजुया सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । अथ वेदेति । कार्योपाधिचैतन्यं जीवशद्बवाच्यम् । कारणोपाधिचैतन्यम् ईश्वरशब्दवाच्यम् ।
कार्योपाधिरयं जीवः कारणोधिरीश्वरः ।
कार्यकारणतां हित्वा पूर्णबोधो विधीयते ।। 3 ।।
तत्र कार्यं नाम अहङ्कारादिसृष्चिव्यापारः कारणं नाम साक्षी ह्यन्तःस्फुरणम् । इति वेदान्ते ।
उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेस्मिन्पुरुषः परः ।। 4 ।।
इति ईश्वरः ।
पुरुषः प्रकृतिस्थो हि भंक्ते प्रकृति जान् गुणान् ।
कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु ।। 1 ।।
इति जीवः ।
मुखाभासको दर्पणे दृश्यमानो
मुख्यत्वात्पृथक् ते न हि वाऽस्ति वस्तु ।।
चिदाभासकोधीशजीवोपि तद्वत्
स नित्योपलब्धिस्वरूपोऽहमात्मा ।। 1 ।।
इति हस्तामले । सलिल एको इष्टाद्वैतो भवति । इति बृहदारण्ये । तथाबिम्बप्रतिबिम्बन्यायेन जीवेश्वरौ कल्पितौ । तज्जीवस्य मोक्षसाधनमाह कर्मपरं अहरहः सन्ध्याभुपासिता यजेत् । ऊमिति ब्रह्म । ओम्तीदऊ सर्वम् । ओमित्यग्निहोत्रमनुजानाति ।
इति कर्म ।
अथ ज्ञानपरम् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
प्रथममायाशबससृष्ट्यादिपुत्रकलत्रद्रव्याद्विलक्षणः ।
द्वितीयं स्थूलसूक्ष्मादिशरीरस्य विलक्षणम् । तृतीयं केवलमोक्षसङ्कल्पः । यथा शुकनालकान्यायेन मिथ्यारज्जुसर्प्पे भ्रममाणे सति तस्य मोक्षसाधनमाह । तत्र जीवस्वरूपं लक्षणं दृष्टिसम्बन्धेन सूर्यप्रभया प्रतिभाति तद्वासना महद्ह्वदि ग्रन्थिः ।
इति जीवलक्षणम् ।
जीवस्य मोक्षकामाय त्रिवर्गं च पुरा कृतम् ।
कर्म पातञ्जलिं साङ्ख्यं तत्समासेन कथ्यते ।। 1 ।।
पञ्चभूतात्मिका पूजा विधिरेष समाश्रृणु ।
त्रयं कर्म पूजायोग्यं वा यो पातञ्जले स्मृतः ।। 2 ।।
द्वयं देहाभिमानेन एकं नाहं च सांख्यता ।
अहं नाहं द्वयं शब्दबन्धमोक्षं च कारकम् ।। 3 ।।
तथा च श्रुतिः । अथतो धर्म जिज्ञासा । अथातो ब्रह्मजिज्ञासा । पूर्वपूर्वश्रुतियुक्त्यानुभवाभासानामुत्तरोत्तरश्रुतियुक्त्यानुभवाभासबोधदर्शनात्
सामान्यशास्त्रं स्यान्न्यूनं विशेषो बलवान्भवेत् ।
परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ।। 4 ।।
इति वेदान्ते कर्मपरम् । ज्ञानादेव तु कैवल्यमित्यादिश्रुतेः ।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
ज्ञानाग्निदग्धकर्माणि ।
उदराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
इति ज्ञानपरम् ।
अथ वेदोक्तकर्मयोगः
वर्णाश्रमं च धर्मं च वेदादिविधिपूर्वकम् ।
तच्च साध्यमसाध्यं वा जन्मकर्मफलप्रदम् ।। 1 ।।
ज्योतिष्टोमे भवेत्सर्गः श्रोता स्यादिति कर्माणि ।
निषेधविधिनिघ्नानि न भवन्मोक्षसिद्धिदम् ।। 2 ।।
जपानुष्ठानयोर्द्वारा देवतानुग्रहो भवेत् ।
तत्सकाशाद् भवेत् सिद्धिश्चैतन्योपाधिवर्जिता ।। 3 ।।
तत्र भूतपूजा । पार्थिवस्थावरादितीर्थयात्रा अग्निहोत्रज्वालामुखीयागादि । अपः गङ्गायाः नैमिषारण्यादिजलपूजा । तथा च ---
सिहिता ब्रह्मणारण्यं द्वन्द्वदीक्षा निघण्टकम् ।
ज्योतिषं च निरुक्तं च दशग्रन्थानि सूत्रकम् ।। 4 ।।
एकाया लिङ्गग्रन्थ्या च बद्व्यते सकलं जगत् ।
दशग्रन्था यदा बद्धो तस्य मुक्तिः कथं भवेत् ।। 5 ।।
एवं पठित वेदानां हंकारं पिण्डपोषणम् (?) ।
एतञ्ज्ञानपरं ज्ञात्वा स मुक्तो नात्र संशयः ।। 6 ।।
किन्तु---
संहिता कार्यच्छन्दं च दृश्यब्रह्मेति ब्राह्मणम् ।
नभमारण्यमाश्रितक्य छन्दम्ब्रह्मास्मि वाक्यता ( ? ) ।। 7 ।।
मन आदिरोधनं शिक्षा निघण्टं वृत्तिधारणम् ।
विवेकं ज्योतिषं चैव ममेदं सूर्यमुच्यते ।। 8 ।।
निरूक्तं संशयच्छेद्यं सूत्रपाठं च ज्ञानधीः ।
अन्नोपाधिश्च वेदाद्या यस्तं वेद स वेदवित् ।। 9 ।।
अस्यार्थंः । संहिता नाम स्वहितम् । कार्यकारणिातीतं न तु कर्मचोदना । ब्राह्मणं नाम सर्वस्वं ब्रह्मैव न तु यागादि । आरण्यं नाम नभलक्ष्यं न तु आरण्यरोदनम् । छन्दो नाम ब्रह्मास्मीति स्मरणं न तु पिशाचवच्छलनम् । शिक्षा नाम शासनं मन आदिधारणा न तु पाठः निघण्टं नाम काठिन्यं वृत्तिसावधानता न तु देशान्तरम् । ज्योतिषं नाम विवेकता न तु गणकादिव्यापारः । सूत्रं नाम अभेदानुसन्धानं न तु कर्मप्रेरणा । निरिक्तं नाम संशयच्छेद्यं न तु वेदार्थप्रौढिः । सूत्रपाठं नाम ज्ञानदृष्टिः । न तु व्याकरणबलम् ।
एतत् ज्ञानं परं ज्ञानमन्यत् संसारपोषणम् ।
इति वेदोक्तकर्मयोगः । प्रमाणं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुत इति श्रुतेः ।।
अथ पातञ्जलहठयोगः ।
अथ पातञ्जलयोगं कथयत्यङ्गानि वै क्रमात् ।
देहसाध्यं भवेन्मोक्षं तज्ज्ञानं साधनं शृणु ।। 1 ।।
तत्र हंसोपनिषदि--गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिःप्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य विशुद्धे प्राणान्निरुद्ध्य आज्ञामनु ब्रह्मरन्ध्रं ध्यायेत् । तत्र नादमनुभवति चिणिति प्रथमः 1 चिणिचिणि 2
घण्टा 3 शङ्ख 4 तन्त्री 5 ताल 6 वेणु 7 भेरि 8 मृदङ्ग 9 मेघ 10 नवमं त्याज्यं दशममभ्यसेत् । तस्मान्मनो विलीनं भवति । यस्य मनसि विष्टना मनसोऽन्तरायं मनो न वेद यस्य मनः शरीरं यो मनोन्तरो यमयति ।
चक्रं सप्त त्रिकुटं च श्रीहठं गोहठं तथा ।
भ्रूवोर्गुम्फा ब्रह्मरन्ध्रं सूलो यानं जलन्धरम् ।। 1।।
टाली लोली तथा धोती लम्बिकाशोधनं क्रमात्।
खेचरी भूचरी चैव महाकाष्ठा तथैव च ।। 2 ।।
उद्गानं लेपनं चैव गाठनं चावकाशकम् ।
इडापिङ्गलयोर्नामान्यष्टाविंशत्यनुक्रमात् ।। 3।।
प्रणवं व्याहरन् जाप्यं सोहं यामं मतान्तरे ।
अस्य कर्ता भवेज्जीवो देहभाजनसम्मतम् ।
साधनेन भवेत्तेषां भूतं भविष्यं वर्तमानम् ।
वाचां सिद्धिर्मृतं मोक्षं देहसङ्गेन मानिता ।। 6 ।।
ब्रह्मरन्ध्रे गते प्राणे ह्यहं मोक्षोऽपि जायते ।
यथा दध्नगृहस्वामी पलायन् सौख्यमानिता ।। 7 ।।
पुनरहङ्कृतो वासो वासना जन्मदायिनी ।
तथा देहगतो मोक्षो बुद्धिरर्भकसंमता ।। 8।।
तत्र गीता---
वासांसि जार्णानि यथा विहाय
नवानि गृह्णाति नरो पराणि ।
तथा शरीराणि विहाय जीर्णा--
न्यन्यानि संयाति नवानि देही।। 9 ।।
द्रष्टा दृश्यं यदा वर्त्ते देहे सङ्गेन मोक्षकः (?)।
आत्मा देही कथं कृत्वा सर्वव्यापिविलक्षणः ।। 10 ।।
तस्मादुन्मीलद्योगी च विकलः कौलशिक्षया ।
समाभ्युत्थानमन्यानि देहसङ्गेन व्यर्थता ।। 11 ।।
आत्मा प्रज्ञानमानन्दनित्यशुद्धनिरामयः ।
विचरेज्ज्ञाप्तिमात्रेण देहातीतं च सर्वदा ।। 12 ।।
यावद्देहाभिमानं च यावात्सिद्धिः प्रवर्त्तते ।
तावज्जन्यानदानं च भवेत्कर्मानुसारतः ।। 13 ।।
तत्र निषेधार्थश्रुतिः---
न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
वि्राजते यद्यतयो विशन्ति।।
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः इति श्रुतेः । आब्रह्मभुवनाल्लोकात् इति गीतासु ।
इष्टादर्शनदृश्यानां विरामो यत्र वा भवेत् ।
तस्माद्विलक्षणं ह्यात्मा ह्यपरोक्षे भवेत्स्वयम् ।। 1 ।।
यावन्न ज्ञायते आत्मा कर्तृलाभलवं मुनिः ।
तावत्सर्वं भवेद्व्यर्थं यथा बन्ध्या विभूषिता ।। 2 ।।
इति कर्मपरः । परन्तु अनर्थकारी देहनाशकारी । तस्माज्ज्ञानाय साधयेत् । तत्र चक्रम् आधारं नाम देहम् ।। 1 ।। स्वाधिष्टानं सात्त्विकमहङ्कारः ।। 2।। मणिपुरं बुद्धिः ।। 3 ।। अनाहतं सदाचारः ।। 4 ।. विशुद्धं गुहभक्तिः ।। 5 ।। आज्ञाचक्रे ज्ञाने सावधानता ।। 6 ।। सहस्रदलं तुर्या ।। 7 ।। त्रिकूटं गुणरहितम् ।. 8 ।। श्रीहठं मायाराहितम् ।। 9 ।। गोहठमविद्यातिरस्कारः ।। 10 ।। भ्रुवोर्गुम्फा कामनाशून्यम् ।। 11 ।। ब्रह्मरन्ध्रं मनोलयः ।। 12 ।। सूलबन्धमिन्द्रियनिग्रहः ।। 13 ।। यानं विषयनिरासः ।। 14 ।। जालन्धरं स्वपररहितम् ।। 15।। टाली पदार्थवार्ताशून्यम् ।। 16 ।। लोली युक्ताहारः ।। 17 ।। धोती सर्वजलेप्यैक्यम् ।। 18 ।। लम्बिका स्तुतिनिन्दारहितम् ।। 19 ।। खेचरी अवकाशेदृष्टिः ।। 20 ।। भूचरी युग्ममात्रमवलोकनम् ।। 21 ।। महाकाष्ठा सर्वं ब्रह्मेतिनिश्चयः ।। 22 ।। उद्गानमनिकेतम् ।। 23 ।। लोपनं कार्यातीतम् ।। 24 ।। गाठनं देहदुःखसहनम् ।। 25 ।. अवकाशं देहातीतम् ।। 26 ।। इडा पिङ्गलयोर्नाम।। 27 ।। 28 ।। प्रपञ्चबुद्धिरहितम् ।।
एवन्तु साधयेत्प्राज्ञो न तु देहविडम्बनम् ।
देहाद्विलक्षणं आत्मा वृथा भ्रमन्ति मानवाः ।।
इतिपातञ्जलहठयोगः ।।
अथ साङ्ख्यराजयोगः ।
विना साङ्ख्येन प्रत्यक्षं न भवेदात्मयोगिनाम्(?)
देहः कञ्चुकवत्त्याज्यः स्वस्वं खमिव राजते ।। 1 ।।
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सर्वे घूर्णिपराः प्रपञ्चविकलाः सांख्यात्परं नान्यथा ।। 2 ।।
सांख्यं योगं समभ्यस्येत् पुरुषं पञ्चविंशतिः ।
इति श्रुतिर्वदेद्वाक्यं वेदान्तैः सद्भिरुच्यते ।। 3 ।।
आकाशपूरकं सांख्यं योगः समीरपूरकः ।
देहाद्विलक्षणं आत्मा तस्मात्सांख्यं समभ्यसेत् ।। 4।।
प्रलयः सर्वतद्वाचामात्मनो व्यतिरेकता(?)।
स सांख्ययोगसंज्ञा च इतरं भ्रामिकं मतम् ।। 5।।
सर्वाद्विलक्षणोह्यात्मा एकमनेकरूपिणम् ।
एकमेवाद्वितीयं ब्रह्म अलं ततः परं भवेत्(?) ।। 6 ।।
इति सांख्ययोगः ।
अथ देहलक्षणम्---
भोगरोगं तथा मलं निधनं क्षेत्रगामिता ।
प्रारब्धमनुवर्त्तन्ते यथा तद्वै विनिश्चितम् ।। 1।।
पञ्चतन्मात्रभूतानि प्रत्यक्षमखिलं जगत्।
प्रकृतिर्गुणकर्माणि वर्त्तन्ते चित्प्रकाशतः ।। 2 ।।
मनोत्थाय यदा देहे तत्कर्म जीवसंज्ञकम् ।
देहेन मनमुत्थाय तत्कर्म देहसंज्ञितम् (?) ।। 3।।
भक्ष्यभक्ष्यकभावं च भूतं भूतेषु युज्यते ।
तदर्थं शणु मे वत्स पञ्चभूतान्यनुक्रमात् ।। 4 ।।
आपः पृथवी भक्ष्यं च वायुराग्निश्च भक्षकः ।
तत्राकाशमावपनं सत्ता चिन्मात्रसंज्ञिता ।। 5 ।।
क्षुत्पिपासाविसर्गं च देहे कर्माणि केवलम् ।
अन्यत्कार्याणि कर्माणि वेदसंज्ञा विधीयते ।। 6 ।।
धैर्यं समरसश्चैव सर्वभक्षस्य निस्पृहः ।
अखण्डपञ्चभूतानि लक्षणैर्देह उच्यते ।। 7 ।।
तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वम् इन्द्रियाणां भोगसाधनता नाम रसपरीक्षा पञ्चभूतानां भोग्यं नाम स्थूलकृशादिद्रव्यगुणाः । यथा भवन्ति तथा । तत्र प्रमाणं श्रुतिः --ताभ्यः पुरुषमानयत्ता अब्रुवन्पुरुषं स्तुतेति पुरुषो वा वसु कृतं यथायतनं प्रविशामि क्षुत्पिपासो भवतेति श्रुतेः माताबालकन्यायेन तत्र गीतासु इदं शरीरं कौन्तेयक्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति ताद्विदः ।। 8 ।।
इति सांख्यपरिभाषा* ।।
* सांख्यपरिभाषाग्रन्थस्य एकमेवादर्शपुस्तकं प्राप्तमपि च ग्रन्थकृता ग्रन्थप्रारम्भे--
विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः ।
गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम् ।।
इति प्रतिज्ञातत्वादस्य मुद्रणे कारिते बहुषु स्थलेषु अगत्यऽशुद्धिरस्ति किन्तु ग्रन्थार्थरक्षार्थ न तन्निरासेऽस्माभिर्दृष्टिपातकृतः । ग्रन्थोऽपि खण्डित इवाभाति ।
***************

"https://sa.wikisource.org/w/index.php?title=सांख्यसंग्रहः&oldid=398181" इत्यस्माद् प्रतिप्राप्तम्