सांख्यकोशः
सांख्यकोशः [[लेखकः :|]] |
।। श्रीगणेशाय नमः ।।
सांख्यकोशः
प्रणम्येशं गुरून् पितॄन् सांख्यशास्त्रपयोनिधेः।
शब्दरत्नमयं कोशं सार्थमद्योद्धराम्यहम् ।।
अकाम्यम्-
किमपि दृष्टमदृष्टं वा फलमनभिसन्धाय कृतं कर्म अकाम्यमुच्यते।
अक्कः-
गृहकोणः। यथा-अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । (सांoतo कौo काo1)।
अजः-
जन्मरहितः। सांख्ये अजः पुरुषो भवति, अजा च प्रकृतिः
अजवत्-
यथा अजनामके भार्याशोकमलिनचित्ते नृपे वशिष्ठेनोक्तस्याप्युपदेशबीजस्य नाङ्कुरः उत्पन्नः, तथैव रगादिमलिनचित्ते उपदेशरूपस्य बीजस्याङ्कुरोऽपि नोत्पद्यते। (द्रष्टव्यम्-सांoप्रo भाo अo 4 सूo 29)।
अणुनित्यत्वाभावः-
पृथिव्याद्यणूनां नित्यता नास्ति, तेषामणूनामपि कार्यत्वश्रुतेः। यद्यपि अणुकार्यत्वबोधिनी श्रुतिः काललुप्तत्वान्नोपलभ्यते, तथाप्याचार्यवचनात् स्मृतेश्चानुमेया। तथा च मनुः-अण्व्यो मात्रा विनाशिन्यो दशार्धानाञ्च याः स्मृताः। ताभिः सार्धमिदं सर्व सम्भवत्यनुपूर्वशः। इति। (द्रष्टव्यम्-सां प्रoभाoअo5 सूo87।)
अतैचसंचक्षुः-
इन्द्रियाणां प्राप्तप्रकाशकत्वमिति सांख्यसिद्धान्तः। अस्यां स्थितौ चक्षुषस्तैजसत्वं स्वीकरणीयम्, तेजस एव किरणरूपेणाशु दूरदूरतरापसर्पणदशंनादित्याशङ्का न करणीया। अतैजसत्वेऽपि प्राणवदेव वृत्तिविशेषेण दूरदूरतरापसर्पणोपपत्तेः। यथाहि प्राणः शरीरमसन्त्यज्यैव नासाग्राद् बहिः कियद्दूरं प्राणनाख्यवृत्त्याऽपसर्पति, तथैव अतैजसमपि चक्षुर्देहमसन्त्ज्यादि वृत्त्याख्यपरिणामविशेषेण झटित्येव सूर्यादिकं प्रत्यपसरेदिति। (द्रo सांo प्रo भाo अo5 सूo 105)
अत्यन्तपुरुषार्थः-
आध्यात्मिकाधिभौतिकाधिदैविकानां त्रिविधदुःखानामात्यन्तिकी निवृत्तिरेवात्यन्तपुरुषार्थः। तथा च सांख्यसूत्रम्-"अथ त्रिविधदुःखात्यन्त निवृत्तिरत्यन्तपुरुषार्थः" (अo 1 सूo 1)
केवलपुरुषार्थशब्देन तु भोगापवर्गयोरुभयोर्बोधो भवति। तथा च गौडपादाचार्याः-पुरुषार्थो द्विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धि लक्षणश्च। शब्दाद्युपलब्धिर्ब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः। गुणपुरुषान्तरोपलब्धिर्मोक्ष इति। (सांo काo भाo 42)।
अथ- अथेति शब्दोल्लेखः शास्त्रादौ मङ्गलार्थः। यथा "अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः" इत्यत्र। (सांo दo अo 1सूo 1।
अदृष्टनैरपेक्ष्यम्-
अदृष्टं हि बुद्धिकार्यमतोऽहङ्काराद्युत्पत्तौ तत् महदादीनां सहायं भवतु नाम तथापि प्रकृतेः स्वकार्यकरणे अदृष्टसहकारिता नास्ति किन्तु अविवेक एव सहकारी भवतीति । (द्रo सांo सूo अo वृo अo 3 सूo 68)।
अद्वैतश्रुत्यविरोधः-
सांख्यपद्धत्यनुसारं द्वैतसत्त्वेऽपि अद्वैतश्रुतिविरोधो नास्ति रागिणां पुरुषातिरिक्ते वैराग्यायैव क्वचित् श्रुतावद्वैतप्रतिपादनात्। तथा च सांख्यसूत्रम्-"न श्रुतिविरोधो रागिणां वैराग्याय तत्सिद्धेः" (अoसूo 51 ।)
अधर्मः-
रजस्तमआत्मिकाया बुद्धेः कार्यभूतः।
अधिकारिणः-
उत्तममध्यमाधमास्त्रिविधा ज्ञानाधिकारिणः। अर्थात् उत्तमाधिकारिणां श्रवणमात्रान्मुक्तिसिद्धिः। मध्यमाधिकारिणां श्रवणमननाभ्यां तथाऽधमाधिकारिणां त्रिभिः श्रवणमनननिदिध्यासनैर्मुक्तिसिद्धिरिति। अतो मन्दाधइकारदोषादेव विरोचनादीनां श्रवणमात्राच्चित्तविलापनक्षमं ज्ञानं नोत्पन्नम्। न तु श्रवणस्य ज्ञानजननासामर्थ्यमस्ति। इत्थञ्चोत्तमाधिकारिणः श्रवणमात्रान् मुक्तिसिद्धावपि दार्ढ्यार्थं मनननिदिध्यासने अपि विधीयेते। (द्रo सांo प्रo भाo अo 6 सूo 22,23।)
अध्यवसायः-
निश्चयाख्या बुद्धिवृत्तिः। सर्वो व्यवहर्ता पूर्वमिन्द्रियैः विषयानालोच्य, मनसा मत्वा, अहमत्राधिकृत इत्यहङ्कारेणाभिमत्य कर्तव्यमेतन्मयेत्यध्यवस्यति, ततश्च प्रवर्तते। तत्र योऽयं कर्तव्यमिति विनिश्चयः, सोऽध्यवसायः, बुद्धेरसाधारणो व्यापारः (द्रo सांo तo कौo काo 23 ।)
युक्तिदीपिकायाञ्चोक्तम्-
कोऽयमघ्यवसायः? गौरेवायं, पुरुष एवायमिति यः प्रत्ययो निश्चयोऽर्थग्रहणं सोऽध्यवसाय इति। अध्यवसायश्च निश्चयाख्य इति विज्ञानभिक्षुः । (सांo प्रo भाo अo 2 सूo 23 ।)
अध्यासः-
उपचारः। आरोपः, यथा योद्धृगतौ जयपराजयौ राजन्यूपचर्येते तथा प्रकृत्तौ वर्तमानं स्रष्टृत्वादिकं पुरुषेषूपचर्यते। अयमेवाध्यासः। यथा वा शुक्तौ रजतमारोप्य रजतमिति प्रत्ययः।
अननुष्ठानलक्षणमप्रामाण्यम्-
यस्य वेदार्थस्यानुष्ठानमशक्यं भवति तत्प्रतिपादके वेदेऽननुष्ठानलक्षणमप्रामाण्यं भवतीति।
अनादिः-
आदिरहितः। स द्विविधः-अखण्डानादिः प्रवहानादिश्च। अखण्डानादिरात्माः, प्रवाहानादिश्चाविवेकः। (द्रoसांo प्रo भाo अद 6 सूo 12 ।)
अनावृत्तिः-
अपवर्गः। "गक स पुनरावर्तते" इति श्रुतेः।
अनिर्वचनीयख्यातिः-
सदसद्भ्यां विलक्षणमतएव सत्त्वेन असत्त्वेन वा निर्वचनानर्हम्, तादृशस्य जगतः ख्यातिरनिर्वचनीयख्यातिः। साऽपि न सांख्याभिमता, सदसद्भिन्नवस्त्वप्रसिद्धेः। दृष्टानुसारेणैव कल्पनायाऔचित्यात् (द्रoसांo प्रo भाo प्रo 5 सूo 54।)
अनुमानम्-
व्याप्यदर्शनाद् व्यापकज्ञानम् (व्यापकाकारा चित्तवृतिः) अनुमानम्। अथवा लिङ्गलिङ्गिपूर्वकमनुमानम्। लिङ्गं व्याप्यं, लिङ्गि व्यापकम्। शङ्कितसमारोपितोपाधिनिराकरणेन वस्तुस्त्वभावप्रतिबद्धं व्याप्यम्, येन प्रतिबद्धं तद्व्यापकम्। लिङ्गिपदमत्र द्विरावर्तनीयं, तेन च लिङ्गमस्यास्तति पक्षधर्मताज्ञानमपि दर्शितं भवति तथा च व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानमितिवाचस्पतिमिश्राः। (द्रo सांo तo कौo काo 5)। गौडपादाचार्यास्तु लिङ्गपूर्वकं तदनुमानं, यत्र लिङ्गेन लिङ्गी अनुमीयते,यथा दण्डेन यतिः। लिङ्गिपूर्वकञ्च, यत्र लिङ्गिना लिङ्गमनुमीयते यथा दृष्ठ्वा यतिमस्येदं त्रिदण्डमिति। (द्रo गौo पाo भाo, कांo काo 5।) लिङ्गज्ञानाज्जायमाना साध्यविशिष्टपक्षाकाराऽन्तःकरणवृत्तिरिति भावागणेशः।
अनुमितिः-
अनुमानजन्या या प्रमितिः पौरुषेयो बोध इति यावत्, सा अनुमितिः।
अन्तःकरणम्-
बुद्धिरहङ्कारो मनश्चेति त्रयमप्यन्तःकरणम्।
अन्यथाख्यातिः-
अन्यद्वस्तु अन्यरूपेण भासते, इयमेवान्यथाख्यातिः। सापि सांख्यैर्नार्भ्यु पेयते, स्ववचोव्याघातदोषात्। यतो हि शुक्तौ भासमानं रजतमन्यथाशब्देनोच्यते, तच्च रजतं नरश्रृङ्गतुल्तयाऽसदस्ति। तथा च असच्च भासते चेति स्ववचोव्याघातः स्यात्। अतो नान्यथाख्यातिरपि स्वीकारार्हा । (द्रo सांo प्रo भाo अo 5 सूo 55 ।)
अन्योन्यजननवृत्तयः-
गुणाः परस्परं जनयन्ति परिणमयन्तीति यावत्। स चात्र गुणानां परिणामः सदृशरूपः।
अन्योन्यमिथुनवृत्तयः-
अन्योन्यसहचरा गुणाः भवन्ति, अविनाभाववृत्तय इति यावत्।
अन्योन्याभिभववृत्तयः-
गुणा हि प्रयोजनवशात् स्वयमुद्भूय परस्परमभिभवन्ति। अतएवोद्भूतं सत्त्वं रजस्तमसी अभिभूय शान्तां वृर्त्ति प्राप्नोति। एवं रजः सत्त्वतमसी अभिभूय घोराम् तमश्च सत्त्वरजसी अभिभूय निजां मूढां वृत्तिं प्रतिलभते।
अन्योन्याश्रयवृत्तयः-
यथा त्रिदण्डो परस्पराश्रयेण घटधारणादिकार्यं कुरुते तथैव त्रयोगुणाः परस्पराश्रयेणैव प्रकाशप्रवृत्तिनियमनरूपाणि कार्याणि कुर्वन्तीति।
भवति चात्रागमः-
अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः।
रजसो मिथुने सत्त्वं सत्त्वस्य मिथुनं रजः ।।
तमसश्चापि मिथुने ते सत्त्वरजसी उभे।
उभयोः सत्त्वतमसोः मिथुनं तम उच्यते ।।
नैषामादिः संप्रयोगो वियोगो वोपलभ्यते ।। इति ।
(देवीभागवतम् 3-8)
उपवर्गः-
द्वयो- प्रकृतिपुरुषयोरेकतरस्यात्मनो वा औदासीन्यमपवर्गः। प्रकृतेरौदासीन्यं विवेकिनं प्रत्यप्रवर्तनम्। पुरुषस्यौदासीन्यं प्रकृत्यनभिष्वङ्गः।
(द्रo सांo सूo अनिo अo 3 सूo 65।)
अपौरुषेयत्वम्-
दृष्टं वस्तु भवेददृष्टं वा यस्मिन् वस्तुनि कृतमिति बुद्धिरुपजायते तत् पौरुषेयम्। न तु पुरुषोच्चरितत्वं पौरुषेयत्वमितिसांख्यामिमतम्। तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुषेयत्वापत्तिः स्यात् । (द्रo सांo प्रo भाo अo 5 सूo 50 ।)
अबाह्यप्रत्यक्षम्-
ऐन्द्रियकप्रत्यक्षभिन्नं प्रत्यक्षम्।
अभिचेष्टा-
सर्वो व्यापारः।
अभिनिवेशः-
मरणादित्रासः, मा न भूवम् भूयासमित्येवरूपः।
अभिमानः-
बुद्ध्युपादानकोऽहङ्कारः। अन्तःकरणरूपो द्रव्यविशेष इति विज्ञानभिक्षुः। तदुक्तम्-अन्तःकरणमेकमेव बीजाङ्कुरमावृक्षादिवत् अवस्थात्रयमात्रभेदात् कार्यकरणभावमापद्यत इति। अत एव "मनोमहान् मतिर्ब्रह्मपूर्बुद्धिः ख्यातिरीश्वरः" इत्यत्र मनोबुद्ध्योरेकपर्यायत्वमुक्तम्।
अभिव्यक्तिः-
कारणे सतां घटपटादीनां ततः प्रादुर्भावो, यथा तिलेषु सतस्तैलस्याविर्भावः।
अमायिकत्वम्-
सत्यत्वम्, स्थिरत्वमकार्यत्वं वा। आत्मा सत्यत्वात् स्थिरत्वादकार्यत्वाच्चामायिकः। जाग्रत्पदार्थापेक्षया स्वाप्नपदार्था मायिकाः। आत्मापेक्षया तु जाग्रत्पदार्था अपि मायिका एव। (द्रo सांo प्रo भाo अo 3 सूo 26।)
अवयवाः-
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा न्यायस्य। (द्रo सांo प्रo भाo अo 5 सूo 27)। इति। तत्र साध्यनिर्देशः प्रतिज्ञा, यथा शब्दोऽनित्य इति। उदाहरसाधर्म्यात्साध्यसाधनं हेतुः , यथा उत्पत्तिधर्मकत्वादिति। उत्पत्तिधर्मकमनित्यं दृष्टमिति। तथा वैधर्म्यात्-उदाहरणवैधर्म्याच्च साध्यसाधनं हेतुरित्यर्थः। यथाऽनित्यः शब्दः उत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यं दृष्टं यथाऽऽत्मादि।
साध्यासाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्, यथा उत्पत्तिमत्त्वेन हेतुना शब्दस्यानित्यत्वसाधने घटादिरुदाहरणं दीयते "घटादिवदिति" । अयमन्वयी दृष्टान्तः।
व्यतिरेकेणापि दृष्टान्तो भवति। तथा च न्यायसूत्रम् -"तद्विपर्ययाद् वा विपरीतमिति"। अर्थात् साध्यवैधर्म्यादतद्धर्मभावीदृष्टान्तोऽपि उदाहरणम् यथाऽनित्य शब्दः उत्पत्तिधर्मकत्वात्, यदुत्पत्तिधर्मकं न भवति, तन्नित्यं भवति यथा आत्मादोति। उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः। यथा उदाहरणे घटादिकमुत्पत्तिधर्मकत्वादनित्यं दृष्टं तथा शब्दोऽपि उत्पत्तिधर्मक इति वाक्यमुपनयः।
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्। यथा, उत्पत्तिधर्मकत्वात् शब्दोऽनित्य इति काक्यं निगमनम्। (द्रo न्याo दo अo 1 आo 1 सूo 33,34,35,36,37,38,39,।) एतानि प्रतिज्ञादिलक्षणानि न्यायदर्शनवदेवात्रापि शास्त्रे सभ्मतानि।
अविद्या-
विपर्ययभेदः। सा चानित्येषु नित्यख्यातिः, अशुचिषु शुचिख्यातिः, दुःखेषु सुखख्याति- अनात्मसु आत्मख्यातिरिति। तथा च योगसूत्रम्-अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या (पाo 2 सूo 5।)
अविवेकः-
अभेदाभिमानः। देहेन्द्रियादिषु आत्माभिमानः, आत्मनि वा देहेन्द्रियाद्यभेदाभिमानो देहादिधर्माभिमानश्चेति। अविवेकः विवेकप्रागभावो बुद्धिधर्मं इति सांo प्रo भाष्यम् (अo 1 सूo 55।)
अविशेषः-
भूतसूक्ष्माणि, पञ्चतन्मात्राणि। नास्ति विशेषः शान्तघोरमूढत्वदिरूपो यत्र सोऽविशेष इति व्युत्पत्तेः। तन्मात्राण्यविशेषा इति सांख्यकारिका। (काo 38 ।)
असत्ख्यातिः-
अत्यन्तासतां ख्यातिरसत्ख्यातः। सा च न सांख्याभिमता, नरश्रृङ्गादीनां ख्यातिरिव। (द्रo सांo प्रoभाo अo 5 सूo 51।)
अस्मिता-
आत्मानात्मनोरेकताप्रत्ययः शरीराद्यतिरिक्त आत्मा नास्तीत्येवंरूपः।
(द्रo सांo प्रo भाo अo 3 सूo 37 ।)
अशक्तिः-
बुद्धिवधा अष्टाविंशतिभेदाः ते चैकादशेन्द्रियवधैः सह बुद्धेः सप्तदशभेदा वधाः। तत्र नवविधानां तुष्टोनामष्टविधानां सिद्धीनाञ्च विपर्ययाद् बुद्धेः स्वतः सप्तदशवधा भवन्ति। एकादेशेन्द्रियाणामशक्तेः प्रयुक्ता अपि एकादशवधा पुद्धेर्भवन्ती। मिलित्वा चाष्टाविंशतिधा अशक्तिरस्ति। तथा चोक्तं सांख्यकारिकायाम्-"एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा। सप्तदशवधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम्" इति।
अहङ्कारः-
अभिमानवृत्तिकः। अहमित्यभिमान एवाहङ्कारस्य सामान्यलक्षणम्। स च त्रिविधः-वैकृतः सत्त्वप्रधानः इन्द्रियाणां हेतुः । भूतादिस्तमःप्रधानः पञ्चतन्मात्राणां हेतुः। रजःप्रधानस्तैजस उभयहेतुः। तथा चोदाहृतं युक्तिदीपिकायाम्- एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृत्यन्ते वैकारिकतैजसभूतादयोऽहङ्कारलक्षणा इति।
अहिनिर्ल्वयिनीवत्-
यथा सर्पो जीर्णां त्वचं हेयबुद्ध्याऽनायासेन परित्यजति, तथैव मुमुक्षुः प्रकृतिमनादिकालोपभुक्तां जीर्णां हेयबुद्ध्या त्यजेत्। (सांo प्रo भाo अo 4 सूo 6।)
आतिवाहिकशरीरम्-
लिङ्गशरीरातिरिक्तं भौतिकं सूक्ष्मं शरीरान्तरमाति वाहिकशरीरमिति विज्ञानभिक्षुः। लोकाल्लोकान्तरं लिङ्गदेहमतिवाहयती त्यातिवाहिकम्। भूताश्रयतां विना चित्रादिवत् लिङ्गशरीरस्य गमनासंभवात्। लिङ्गशरीरन्तु भोगाश्रयतया पुरुषप्रतिबिम्बाश्रयत्या वा पृथगेवास्ति। तत्र प्रमाणञ्च-`अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदयं सन्निविष्टः' `अङ्गुष्ठमात्रं पुरुषं निश्चकर्षं बलाद्यमः' इति श्रुतिस्मृती। (द्रo सांo प्रo भाo अo 5 सूo 103)।
आचार्योऽनिरुद्धस्तु-सूक्ष्मशरीरमेवातिवाहिकं न शरीरान्तरमित्याह (द्रo सांo सूo अनिo वृo अo 5 सूo 1-3।)
आत्मद्वैतम्-
आत्मनां भोग्यप्रपञ्चेन परस्परञ्चात्यन्ताभेदरूपमद्वैतमिति वेदान्तिनः। तत्सांख्यानां नाभिमतम्। अजामेकामितिवाक्यगतैः प्रकृतित्यागात्यागादिलिङ्गैर्भेदस्यैव सिद्धेः। यान्यपि अभेदवाक्यानि दृश्यन्ते तानि `निरञ्जनः साम्यपुपैति' इत्यादिसाम्यप्रतिपादकश्रुत्येकवाक्यतया साम्यबोधकानि। आत्मनां परस्परं भेदस्तु जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्त्यादेश्च सिद्धः। अभेदश्रुतिश्च जातिपरेति। भेदग्राहकप्रत्यक्षबाधादपि नात्माद्वैतम् । (द्रo सांo प्रo भाo अo 5 सूo 61-62)।
आत्मानिरवयवः-
`निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' इति प्रामाण्यादात्मा निरवयवः। `मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्' इत्यादिश्रुतिस्तु आकाशजलयोरिव अविभागमात्रेणांशांशिभावं बोधयति न तु सावयवत्वेन । (द्रo सांo प्रo भाo अo 5 सूo 73।)
आत्मास्ति-
जानामित्येवंप्रतीतिविषयःच पुरुषः सामान्यतः सिद्ध एव। स च देहादिव्यतिरिक्तोऽस्ति, परिणामित्वापरिणामित्वादिवैधर्म्यात्। प्रकृत्यादयस्तावत् पर्त्यक्षानुमानागमैः परिणामिनः सिद्धाः। पुरुषस्तु अपरिणामी सदाज्ञातविषयत्वादनुमीयते। तथाहि, यथा सन्निकर्षसाम्येऽपि चक्षुषो रूपमेव विषयो न रसादिस्तद्वत् पुरुषस्य स्वबुद्धिवृत्तिरेव। विषयो न तु सन्निकर्षसाम्येऽपि अन्यद्वस्तु इति फलबलात् कल्प्यते। बुद्धिवृत्तायरूढतयैव त्वन्यद्भोग्यं भवति न स्वतः, सर्वदा सर्वभानापत्तेः। ताश्च बुद्धिवृत्त नाज्ञातास्तिष्ठन्ति, ज्ञानसुखेच्छादीनामज्ञातसत्तास्वीकारे तेष्वपि घटादिष्विव संशयादिप्रसङ्गात् `अहं जानामि न वा सुखी न वा'। इत्यादिरूपेण। अतस्तेषां सदा ज्ञातत्वात् तद्द्रष्टा चेतनोऽपरिणामीत्यायातम्। चेतनस्य परिणामित्वे कदाचिदान्ध्यपरिणामेन सत्या अपि बुद्धिवृत्तेः दर्शनाभावेन संशयाद्यापत्तेरिति। ममेदं शरीरं ममेयं बुद्धिरितिषष्ठीव्यपदेशादपि देहादिभ्यो भिन्न आत्मास्तीति सिद्धम् । (द्रo सांo प्रo भाo अo 6 सूo 23।)
आधिदैविकम्-
देवान्=अग्निवाय्वादीन् अधिकृत्य प्रवृत्तम् आधिदैविकम् दुःखम्।
आधिभौतिकम्-भूतानि= मानुषपशुपक्ष्यादीनि अधिकृत्य प्रवृत्तम् आधिभौतिकम् दुःखम्।
आध्यात्मिकम्- आत्मानम्= अध्यस्तात्मभावं शरीरं मनश्चाधिकृत्य प्रवृत्तम् आध्यात्मिकं दुःखम्।
आनुमानिकम्- अनुमानात् सिद्धम्= प्रकृत्यादिकम्।
आनुश्रविकः-
वैदिकः कर्मकलापः। गुरुपाठादनु श्रूयते इत्यनुश्रवो वेदः। एतदुक्तं भवति- श्रूयते एव परं न केनापि क्रियत इति। तत्र (अनुश्रवेवेदे) भव आनुश्रविकः तत्र प्राप्तो ज्ञात इति यावत् । (द्रo सांo तo कौoकाo 2)।
आविर्भावः-
कारणव्यापारादूर्ध्वमिव पूर्वमपि सतः प्रादुर्भावः, प्राकट्यम्। यथा तिलेषु सतस्तैलस्य, सौरभोयीषु सतो दुग्धस्य प्राकट्यम्।
आसनम्-
यत् स्थिरं सत् सुखसाधनं भवति स्वस्तिकादिकं तदासनम्। तथा च सूत्रम्-`स्थिरसुखमासनम्' इति । (सांo सूo अo 3 सूo 34।)
आसुरिः-
कपिलशिष्यः। तत्र प्रमाणम्-"एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ" इति (सांo काo 70)।
इन्द्रियम्-
सात्त्विकाहङ्कारोपादानकत्वमिन्द्रियत्वम्। तत्र पञ्च ज्ञानेन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि, पञ्च कर्मोन्द्रियाणि वाक्पाणिपादपायूपस्याख्यानि। उभयात्मकं मनश्चेत्येकादशेन्द्रियाणिं। इन्द्रियाणि चातीन्द्रियाणि भवन्ति, भ्रान्तानान्तु अधिष्ठानभूतगोलकादाविन्द्रियज्ञानम्। यदि गोलकादिकमेवेन्द्रियं स्यात् तदा छिन्नकर्णस्य श्रवणानुपपत्तिः पाटलचक्षुषोऽपिरूपग्रहणप्रसङ्गः। पुनश्च शक्तिभेदादिन्द्रियाणि नाना भवन्ति, न तु एकमिन्द्रियमिति।
इन्द्रियाभौतिकत्वम्-
सांख्यमते इन्द्रियाणामहङ्कारतत्त्वादुत्पत्तेराहङ्कारिकत्वमस्ति न तु भौतिकत्वम्। अतो भौतिकानीन्द्रियाणीति न्यायतमपास्तं भवति। तथा च सांख्यसूत्रम्-`न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः' इति (अo 5 सूo 84)। श्रुतिश्च-`एतस्माज्जयते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्दज्योतिरापश्च पृथ्वी विश्वस्य धारिणी' इति।
इषुकारवत्-
यथा शरनिर्माणे एकचित्तस्येषुकारस्य पार्श्वे राज्ञो गमनेनापि एकाग्रता न हीयते, तथैव एकाग्रचित्तस्य योगिनः समाधिहानिर्न भवतोऽति। (सांo प्रo भाo अo 4 सूo 14 ।)
ईश्वरः-
जगत्स्रष्टृत्वेनाभ्युपगतो न्यायादिसम्मतः। अत्रकेचित् -सांख्यमते ईश्वरो नास्ति, अतो निरीश्वरं सांख्यदर्शनमिति। अत एव सांख्यासूत्राणि- "ईश्वरासिद्धे, मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः, उभयथाप्यसत्करत्वम्, मुक्तात्मनः प्रशंसा उपासासिद्धस्य वा" इति ( अo 1 सूo 92,93,94,95।)
अयमभिप्रायः-
प्रत्यक्षलक्षणनिरूपणप्रसङ्गे योगिनामबाह्यप्रत्यक्षे आपादितां लक्षणाव्याप्तिशङ्कां ` योगिनामबाह्यप्रत्यक्षत्वान्न दोषः, लीनवस्तुलब्धातिशयसम्बन्धाद् वाऽदोषः' इति सूत्राभ्यां समाधाय पुनरीश्वरप्रत्यक्षेऽपि तामेव लक्षणाव्याप्तिशङ्काम् ईश्वरासिद्धिप्रतिपादनमुखेन निराकरोति `ईश्वरासिद्धे रित्यादिसूत्रचतुष्टयेन। अर्थात् ईश्वर एव नास्ति, कुतस्तत्प्रत्यक्षे लक्षणा व्याप्तिशङ्कातत्परिहारयासचिन्तेति। इयमेव व्याख्या अनिरुद्धप्रभृतीनां व्याख्यातॄणाम्।
विज्ञानभिक्षवस्तु विवेचयन्ति- नैभि- सूत्रैरीश्वरखण्डेन सूत्रकाराभिप्रायः। यद्येवं स्यात् तदा `ईश्वराभावात् इत्येवं सूत्रयेत् तु `ईश्वरासिद्धेः' इत्याकारं सूत्रं रचयेत्। तथा च जगत्स्रष्टृत्वेनेश्वरो न सिध्यति, प्रकृतेरेव सृष्टिकर्तृत्वात्। ईश्वरे तु प्रकृत्यधिष्ठातृत्वमात्रमस्ति। उपादितञ्चैतत् सविस्तरं ब्रह्मसूत्रविज्ञानामृतभाष्ये। सांख्यप्रवचनभाष्येऽपि `तत्सन्निधानादधिष्ठातृत्वं मणिवत्' इति सूत्रभाष्ये स्पष्टीकतञ्चेतत्। अतः सङ्कल्पपूर्वकजगत्सृष्टिकर्तृत्वनिषेधपरतयैवाक्तसूत्रचतुष्टयं व्याख्यातं तैः। यद्यपि योगिप्रत्यक्षसमाधानेनैवेश्वरप्रत्थक्षेऽपि लक्षणाव्याप्तिशङ्कायाः समाधानं जायते तथापि स्मृतत्वे सत्युपेक्षानर्हत्वरूपप्रसङ्गसङ्गतेः प्रसङ्गादेवेश्वरे जगत् स्रष्टृत्वनिषेधः सांख्याभिप्रेत इहोपक्षिप्त इति तेषामभिप्रायः।
वृत्तिकारप्रभृतीनामयमभिप्रायः-
ईश्वरसत्तानिषेध एवैषां सूत्राणां तात्पर्यम् अन्यथा ईश्वरोऽस्तीतिवास्तविको यदि सांक्यसभ्प्रदायस्तदा योगिप्रत्यक्षसमाधानेनैवेश्वरप्रत्यक्षीयशङ्काया अपि समाधानं जायत एवेति निष्प्रयोजनानि अप्रासङ्गिकानि चैतानि सूत्राणि भवेयुः। यतो नायं दगत्सृष्टिकर्तृत्वप्रसङ्गोऽपि तु प्रत्यक्षलक्षणप्रसङ्ग एवेति। विज्ञानभिक्षुरपि तृतीयाध्याये `ईदृशेश्वरसिद्धिः सिद्धा' इति सूत्रभाष्ये प्रकृतिलीनस्य जन्येश्वरस्य सिद्धिमाचक्षाणो नित्येश्वरस्य विवादास्पदत्वमुरीचकार।
एवं माठरवृत्तिकारोऽप्याह-
ईश्वरः कारणं न भवति कस्मात्? निर्गुणत्वात्। इमाः सगुणाः प्रजाः, सत्त्वरजस्तमस्त्रयो गुणाः। ते च प्रजासु सन्ति। तांश्च गुणान् दृष्ट्वा साधयामः-प्रकृतेरिमाः समुत्पन्नाः प्रजाः। यदीश्वरः कारण स्यात् निर्गुणदीश्वरान्निर्गुणा एव प्रजाः स्युः। नचैवम् तस्मादीश्वरः कारणं न भवतीति ( माo वृo सांo काo 61।)
वस्तुतस्तु द्वयी हि सांख्यविचारधारा प्रवहमानाऽस्ति, सेश्वरसांख्यधाराः निरीश्वरसांख्यधारा चेति। एतच्च विज्ञानभिक्षुरपि स्वीकरोति। अत एवीक्तं तेन सांख्ययप्रवचनाभाष्ये-`अयं चेश्वरप्रतिषेधः एकदेशिनानां प्रौढि वादेनेति। यथा एकस्मिन्नेव बौद्धदर्शने धाराचतुष्टयी प्रसिद्धा, एकस्मिन्नेव गौतमीये दर्शने नव्यप्राच्यधाराद्वयी, एकस्मन्नेव च वैयासके दर्शने नैकानि प्रस्थानानि सन्तीति। इत्थं सत्यपि सांख्यस्य सेश्वरनिरीश्वरेतिधाराद्वये सेश्वरधारैव मनोरमतामञ्चति। क्वचिद् दृश्यमानोऽपि निषेधस्तत्कर्तृत्वप्रतियोगिक एव न तु ईश्वरस्वरूपप्रतियोगिक इति मन्तुमुचितम्।
तथाहि-परवशा प्रकृतिः कर्त्री `अकार्यत्वेऽपि तद्योगः पारवश्यात्' इति सूत्रप्रामाण्यात् सिध्यति। स च परः आत्मैव न न्यायाभिमत ईश्वरः। अर्थात् प्रकृतिप्रतिबिम्बितत्वाद् आत्मनि सर्ववित्त्वसर्वकर्तृत्वाभिमानो न तु वास्तविकः। तथा च सत्रम्- `स हि सर्ववित् सर्वकर्ता' इति। अत्र सूत्रे `सहि' इत्यस्य `प्रकृतिरेव' इत्यर्थः कृतो वृत्तिसारकारेण। यद्यस्मदभिमत उक्ताभिमानवानात्माऽस्ति तदा भवतु स ईश्वरः। किन्तु न्यायाभिमते ईश्वरे तु प्रमाणं नास्ति। अर्थात् सांख्याः कर्तारमेवेश्वरं निषेधन्ति न तु कर्तृत्वाद्यभिमानिनमात्मानमीश्वरमिति। अत एव हि वृत्तिकृता `विमुक्तविमोक्षार्थं स्वार्थं वा प्रधानस्य' इति सूत्रवृत्तौ आत्मनो द्वैविध्यं प्रतिपादितं परश्चापरश्चेति। ( द्रo साo सूo अo वृo अo 3 सूo 57 ।)
उपादानकारणम्-
जगदुपादानं न केवल आत्मा, नाऽप्यात्माश्रिताऽविद्या, नापि कपालद्वयवद् आत्मा चाविद्या चेत्युभयं समुच्चितं जगदुपादानम् सम्भवति आत्मनोऽसङ्गत्वात्। सङ्गाख्यो हि यः संयोगविशेषस्तेनैव द्रव्याणां विकारो भवति।क अतोऽसङ्गत्वात् केवलस्यात्मनोऽद्वितीयस्य नोपादानत्वम्। नाऽविद्याद्वाराऽपि, असङ्गत्वेनावाविद्यायोगस्यापि निरस्तत्वात्। प्रत्येकोपादनत्ववदेव समुच्चितोपादानत्वमपि असङ्गत्वादेवासंभवि। (द्रo सांo प्रo भाo अo 5 सूo 35।)
उपादानयोग्यता-
गुणवत्त्वं सङ्गित्वं चोपादानयोग्यता। तयोरभावात् नित्यत्वेऽपि पुरुषस्य नोपादानत्वम्। महदादयस्तु स्वयं कार्यरूपा अतो तेऽपि न जगदुपादानम्। तस्मात् प्रकृतिरेव जगदुपादानम्। सांo प्रo भाo अo 6 सूo 32, 33)।
उपास्यासिद्धिवत्-
यथा उपास्यभूतानां ब्रह्मादीनां सिद्धिसत्त्वेऽपि कृतकृत्यता नास्ति, तेषामपि योगनिद्रादौ योगाभ्यासश्रवणात् । तथैव ऐश्वर्ययोगेऽपि कृतकृत्यता नास्ति, क्षयातिशयदुःखैरनुगतत्वात् । (द्रo सांo प्रo भाo अ 4 सूo 32।)
उभयेन्द्रियं-मनः। ज्ञानेन्द्रियाणां कर्मैन्द्रियाणाञ्च प्रवर्तकत्वात्।
उष्ट्रकुङकुमवहनवत्-
यथोष्ट्रस्य कुङ्कुमवहनं स्वाम्यर्थं तथैव प्रधानकर्तृका सृष्टिरपि परार्थैव (पुरुषार्थैव) भवतीति।
ऐकभौतिकः-
पार्थिवमेव शरीरमस्ति, अन्यानि च भूतानि उपष्टम्भकमात्राणीति अपरे मन्यन्ते। अन्येषां भूतानामुपष्टम्भकत्वमात्रेज शरीरस्य पाञ्चभौतिकत्वव्यपदेशः। अयमेव सिद्धान्तपेक्षः। तथा च सांख्यसूत्रम्- `न पाञ्चभौतिकं शरीरम्' इति। (अo 5 सूo 102)।
ऐश्वर्यम्-
बुद्धिधर्मः यतोऽणिमादिप्रादुर्भावो भवति।
औदासीन्यम्-
अकर्तृत्वम्-माध्यस्थ्यम्।
कपिलः-
सांख्यशास्त्रप्रवर्तकः तदुक्तम्-ॠषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानञ्च पश्येत्' श्वेताश्वतरोपनिषत्-अo 5 माo 2।
`सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते' महाभाo 337। 60 । `पञ्चमःक कपिलोनाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम्' श्रीमद्भागवतम्-स्कo 1 अo 1 श्लोo 18 । कपिलो ब्रह्मसुतः `इति सांo काo गौडपादभाष्यम्। विष्णोरवतारः स्वायम्भुवस्य मनोः दुहितरि देवहूत्यां महर्षेः कर्दमाज्जात इति श्रीमद्भागवतम्-यथा तस्यां बहुतिथे काले भगवान् मधुसूदनः। कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि।। अयं सिद्धगणाधीशः सांख्याचार्यैः सुसम्मतः लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ।। स्क-3-अ-24 श्लोक 6-19।'
अग्यवतार इति महाभारतम्-
यथा "कपिलं परमर्षिञ्च यं प्राहुर्यतयः सदा। अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः ।। (वनपर्व अo 211।) श्लोक 21।" किन्त्वेतावता कपिलद्वैविध्यं त्रैविध्यं वास्तीति स्वीकारो भ्रम एवेति श्रीमदुदयवीरशास्त्रिणः (द्रo सांख्यदर्शनका इतिहास पृo 8-12)। एतदनुसारं महाभारतमतेनापि सांख्यप्रवर्तकः कपिलो विष्णोरवतार एव किन्तु स क्रोधाग्निना सगरपुत्रान् भस्मीचकारेति तस्याग्नित्वं प्रसिद्धमभूत् इति। विज्ञानभिक्षुरपि कपिलद्वैविध्यं निराकरोति। (द्रo सांo प्रo भाo अo 6 सूo 70।)
करणम्-
त्रयोदशविधम्। अन्तःकरणं त्रिविधं बुद्ध्यहङ्खारमनोरूपकम्। दशधा च बाह्यं ज्ञानेन्द्रियकर्मेनद्रियरूपम्।
करणकार्यम्-
आहार्यम् (व्याप्यम्) धार्यम्= धारयितव्यम् प्रकाश्यम्= प्रकाशयितव्यञ्चेति। यथा कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथायथं व्याप्या भवन्ति। अन्तःकरणत्रयस्य प्राणादिलक्षणया वृत्त्या शरीरं धार्यं भवति। एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धाः प्रकाश्या भवन्ति। ( द्रo सांo तo कौo काo 32।)
कर्तृत्वभोक्तृत्वयोर्वैयधिकरण्यम्-
अभिमानवृत्तिकमन्तःकरणमहङ्कारःक, स एव कृतिमान्। प्रायशोऽभिमानोत्तरमेव प्रवृत्तिदर्शनात्। न तु पुरुषः कृतिमान् अपरिणामित्वात्। एवमहङ्कारस्य कर्तृत्वेऽपि भोगश्चित्येव पर्यवसन्नो भवति। न चान्यनिष्ठकर्मणाऽन्यस्य भोगे पुरुषविशेषस्यापि नियमो न स्यादिति वाच्यम् अहङ्कारेणासञ्जितं तस्याश्चितो यत् कर्मतज्जन्यत्वातत्दीयभोगस्य। तथा च योऽहङ्कारो यं पुरुषमादायाचेतने वस्तुनि `अहमिति, ममेति' `च वृत्तिं' करोति, तस्याहङ्कारस्य कर्म तस्यात्मन उच्यते। तेनैव च कर्मणा तत्रात्मनि भोगोऽर्ज्यते इति भोगे न पुरुषविशेषनियमानुपपत्तिः । (द्रo सांo प्रo भाo अo 6 सूo 54-55)
कर्मेन्द्रियाणि-
वाक्पाणिपादपायूपस्थानि पञ्च।
काम्यम्-
फलाभिसन्धिना कृतं कर्म।
कालः- द्विविधो, नित्यः खण्डरूपश्च। तत्र नित्यः कालः प्रकृतेर्गुणविशेष एव, खण्डस्तु तत्तदुपाधिसंयोगादाकाशादुत्पद्यते । (द्रo सांo प्रo भाo अo 2 सूo 12।)
कालादिकर्मवत-
यथैको गच्छति ॠतुरितरश्च प्रवर्तते इत्यादिरूपं कालादिकर्म स्वत एव भवत्येवमेव प्रधानस्यापि स्वत एव चेष्टा भविष्यतीति।
कुमारीशङ्खवत्- थथा कुमारीहस्तचूलिकानामन्योन्यसङ्गेन झणत्कारो भवति तथैव बहुभिः सङ्गे रागद्वेषाद्युत्पत्त्या कलहो भवति अतो बहुभिः सङ्गो न कार्यः । (सां o प्रo भाo अo 4 सूo 9।)
कुलवधूवत्-
यथा स्वामिना मे दोषो दृष्ट इत्यवधारणेन लज्जिता कुलवधूर्न स्वामिनमुपसर्पति, तद्वत् प्रकृतिरपि पुरुषेण निजपरिणामित्वदुःखात्मकत्वादिदोषदर्शनाद् लज्जिता भवति, पुनश्च नोपसर्पति पुरुषम्।
केवलज्ञानम्-
विपर्ययदोषरहितत्वेन विशुद्धं ज्ञानम्। तस्य स्वरूपम्-`नास्मि, न मे, नाहम्' इत्यस्ति। तत्र प्रथमेन आत्मनः कर्तृत्वनिषेधः, द्वितीयेन सङ्गनिषेधः, तृतीयेन च तादात्म्यनिषेधः क्रियते।
कैवल्यम्-
आत्यन्तिको दुःखत्रयाभावः कैवल्यम्।
कोशकारवत्-
यथा कोशकारः कीटविशेषःच स्वनिर्मितेनावासेन आत्मानं बध्नाति, तथैव प्रकृतिरपि धर्माधर्मवैराग्यावैराग्यैश्वर्यानैश्वर्याज्ञानैः सप्तरूपैर्दुःखहेतुभिरात्मानं बध्नाति। पुनश्च ज्ञानात्मकेनैकरूपेणात्मानं दुःखान्मोचयति।
क्षीरवत्-
यथा क्षीरं पुरुषप्रयत्ननैरपेक्ष्येण स्वयमेव दधिरूपेण परिणमते, एवमचेतनस्यापि परप्रयत्नं विनाऽपि महदादिरूपः परिणामः प्रधानस्य भवतीति।
गुणाः-
सत्त्वरजस्तमांसि।
सत्त्वम्-
लघु प्रकाशकम् प्रीत्यात्मकञ्च भवति। तत्र लघुत्वं गौरवप्रतिद्वन्द्वि यतश्च वह्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमिन्द्रियाणां स्ववृत्तिपाटवञ्च भवतीति। प्रकाशकमपि सत्त्वमस्ति यत इन्द्रियाणि वस्तु प्रकाशयन्तीति।
रजः- दुःखात्मकं, चलम् सत्त्वतमसोरुपष्टम्भकम् (उत्तेजकम्) अत एव प्रवृत्तिकारकं भवति।
तमः- मोहात्मकं गुरु,क आवरकञ्च भवति। अत एव नियामकमपि सर्ववस्तूनां भवति।
चक्रभ्रमणवत्-
यथा कुलालकर्मनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव कियत्कालं चक्रं भ्रमति, एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं देहं धृत्वा जीवन्मुक्तस्तिष्ठति। (द्रo सांo प्रo माo अo 3 सूo 82।)
चातुर्भौतिकः-
आकाशस्यानारम्भकत्वमित्यभिप्रेत्याकाशं विना चतुर्णामेव भूतानां परिणामो देह इति केचित्।
चिच्छायापत्तिः- दर्पणे मुखप्रतिबिम्बवत् बुद्धौ यश्चैतन्यप्रतिबिम्बः चैतन्यदर्शनार्थं कल्प्यते, स एव चिच्छायापत्तिरिति, चेतन्याध्यास इति चिदावेश इति चोच्यते । (द्रo सांo प्रo भाo अo 1 सूo 99।)
चित्तम्- बुद्धिर्महत्तत्त्वं वा।
चिद्रूपआत्मा-
आत्मा चिद्रूप एव न त्वानन्दचैतन्योयरूपः। एकस्य धर्मिण आनन्दचैतन्योभयरूपत्वाभावात्। दुःखज्ञानकाले सुखाननुभवेन् ज्ञानसुखयो र्मेदात्। न च ज्ञानस्यैवावान्तरविशेषः सुखमिति वक्तुं शक्यम् आत्मस्वरूपज्ञानस्याखण्डत्वात्। न च `सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिबलादेबात्मनश्चिदानन्दोभयरूपत्वमस्तीति वाच्यम् `नानन्दं न निरानन्दम्' इत्यादिश्रुत्या `अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्' इत्यादिस्मृत्या च आनन्दाभावस्यापि प्रतिपादितत्वेन तर्कस्यैवात्रादरणीयत्वात्। तर्कस्य चात्मनश्चिदान्दोभयरूपत्वप्रतिरोधित्वात्। आनन्दरूपताश्रुतिश्च दुःखनिवृत्तिपरतया गौणी। अतश्चिद्रूप एवात्मा (द्रo सांo प्रo भाo अo 5 सूo 66-67।)
छिन्नहस्तवत्-
यथा छिन्नं हस्तं पुनः कोऽपि न गृह्लाति तथैव विवेकेन त्यक्तमिदं देहेन्द्रियादिकं पुनर्नाभिमन्येत। (सांo प्रo भाo अo 4 सूo 7।)
जगत्सत्यत्वम्-
लोके हि निद्रादिदोषदुष्टान्तःकरणादिजन्यत्वेन स्वाप्नविषयशङ्खपीतिमादीनामसत्यत्वं दृष्टम्। महदादिप्रपञ्चकारणीभूतायाः प्रकृतेर्हिरण्यगर्भस्य च बुद्धेरदुष्टत्वन् महदादिप्रपञ्चस्य नासत्यत्वम्।
न च `नेह नानास्ति किञ्चन' इत्यादिश्रुत्या बाधितत्वेन अविद्यादिरूपः कश्चानानदिर्दोषः कल्पनीय इति वाच्यम् नेह नानेति श्रुतेः प्रकरणानुसारेण विभागादिप्रतिषेधकत्वात् न प्रपञ्चात्यन्ततुच्छतापरत्वमस्ति। अन्यथाक स्वस्या अपि बाधापत्या स्वार्थासाधकत्वप्रसङ्गात्। न हि स्वप्नकालीनशब्दस्य बाधे तज्ज्ञापितार्थोऽपि न सन्दिह्यत इति। अतो नेहनानेति श्रुतेःच ब्रह्मविभक्तं किमपि नास्तीत्यर्थः। सर्वं समाप्नोषि ततोऽसि सर्वं इति स्मृतिरपि एतमेवार्थं गमयति। `न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता' इत्यादिश्रुतेः आत्मातिरिक्तस्य कुटस्थनित्यतारूपातिपरमार्थसत्ताविरहोऽर्थः। तथा आत्मनो निरोधादिर्नास्तीत्येवार्थः। अन्यथैतादृशज्ञानस्य मोक्षफलकत्वप्रतिपादनविरोधात् (द्रo सांo प्रo भाo अo 6 सूo 52।)
जन्म-
लिङ्गशरीरस्य स्थूलदेहसञ्चार एव जन्म।
जीवः-
अन्तःकरणोपलक्षित आत्मा जीवः।
जीवन्मुक्तः-
मध्यविवेकावस्थ एव जीवन्मुक्तो भवति। उक्तञ्च-
पूर्वाभ्यासबलात् कार्ये न लोको न च वैदिकः।
अपुण्यपापः सर्वात्मा जीवन्मुक्तः स उच्यते ।। इति ।।
ज्ञानम्- संख्या, विवेकज्ञानम् मुक्तिहेतुभूतम्।
ज्ञानेन्द्रियाणि-
चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च।
तुष्टिः- नवप्रकारा। तत्राध्यात्यिक्यश्चतस्रः तुष्टयः प्रतृत्युपादानकालभाग्यसंज्ञकाः। तत्रापि विवेकसाक्षात्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्यानाभ्यासेनेत्येवं दृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या तुष्टिः। इयमेव `अभ्भः' इत्युच्यते। प्रव्रज्योपादानेनैव मोक्षो भविष्यति, किं ध्यानादिनेति या तुष्टिः, सा उपादानाख्या। अस्या एव तान्त्रिकी संज्ञा `सलिलम्' इत्यस्ति। कृतसंन्यासस्यापि कालेनैव मोक्षो भविष्यति, अलमुद्वेगेनेति या तुष्टिः सा कालाख्या `ओघो मेघो' वोच्यते। एवं भाग्यादेव मोक्षो भविष्यति न मोक्षशास्त्रोक्तसाधनैरित्येवं कुतर्के या तुष्टिःसा भाग्याख्या `वृष्टिरित्युच्यते।'
बाह्याश्च तुष्टयः पञ्च भवग्नि। ता बाह्येषु शब्दादिपञ्चविषयेषु अर्जनरक्षणक्षयभोगहिंसादिदोषदर्शननिमित्तकोपरमाज्जायन्ते। आसां क्रमशस्तान्त्रिक्यः संज्ञाः-पारं , सुपारं, पारपारम्, अनुत्तमाम्भः, उत्तमाम्भ इति सन्ति। एवं मिलिताः सर्वास्तुष्टयो नव भवन्ति। (द्रo सांo तo कौo सांo काo 5 o।)
तैजसः- राजसः (अहङ्कारः)।
दिक्-दिक् द्विविधा नित्या खण्डरूपा च। तत्र नित्या प्रकृतेर्गुणविशेष एव खण्डरूपा तु तत्दुपाधिसंयोगाद् आकाशादुत्पद्यते। (द्रo सांo प्रo भाo अo 2 सूo 12।)
दृष्टः-दृष्टोपायो दुःखविगमस्य। औषधसेवनमनोज्ञस्त्रीपानभोजनविलेपनवस्त्रालङ्कारादिसम्प्राप्तिनीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यसनादिमणिमन्त्राद्युपयोगाः त्रिविधदुःखनिवृत्तेर्दृष्टापायाः।
दुःखनिवृत्तिरेव पुरुषार्थः-
यथा पुरुषस्य दुःखे बलवत्तरो द्वेषो न तथा सुखे बलवत्तरोऽभिलाषोऽपितु तदपेक्षया दुर्बलः। तथा च सुखाभिलाषं बाधित्वाऽपि दुःखद्वेषो दुःखनिलृत्तावेवेच्छां जनयतीति। सुखापेक्षया दुःखस्यबाहुल्यादपि दुःखनिवृत्तिरेव पुरुषार्थ इति सिध्यति । (द्रo सांo प्रo भाo अo 6 सूo 67।)
देहचातुर्विध्यम्-
देहाश्चतुर्विधाः-कर्मदेहः, उपभोगदेहः, उभयदेहः, विरक्तदेहश्चेति। तत्र वीतरागाणां फलसंन्यासेन कर्मकरणात् कर्मदेहः। पश्वादीनामुपभोगदेहः। भोगिनां कर्माधिकारिणां राजर्षिप्रभृतीनां कर्मोपभोगदेहः। विरक्तानां दत्तात्रेयजडभरतादीनामनधिकारिदेहश्चेति।
द्वेषः-
दुःखानुशयी। दुःखमनुशेते इति व्युत्पत्त्या दुःखानन्तरं जायमानः।
धर्मः- निरतिशयसत्त्वात्मिकाया बुद्धेःक कार्यभूतः।
धारणा- प्रणस्य पूरकरेचककुम्भकर्यो निरोधो वशीकरणं सा। तथा च सांख्यसूत्रम्- "निरोधश्छर्दिर्विधारणाभ्याम्" (सांo दo अo 3 सूo 33।)
ध्यानम्-विषयोपरागस्योपघातकं ध्यानम्। तथा च सांख्यसूत्रम्- `रागोपहतिर्ध्यानम्' (अo 3 सूo 30।)
ध्यान्तम्-
ध्वान्तं तमः। तच्च नालोकप्रागभावो, नापि आलोकध्वंसः, आलोकात्यन्ताभाव, आलोकान्योन्याभावो वा किन्त्वभावाद् भिन्नं वस्तुभूतम्। तदपि गुणो वा भवतु द्रव्यं वेत्यत्र न सांख्यानां सिद्धान्तक्षतिः। अनियतपदार्थवादित्वात् सांख्यानाम्। विज्ञानभिक्षुस्तु नानियतपदार्थवादः सांख्याभ्युपगत इत्याह । (द्रo सांo प्रo भाo अo 1 सूo 61।)
नर्तकीवत्- यथा परिषद्भ्यो नृत्यदर्शनार्थं प्रवृत्ता नर्तकी नृत्ये सम्पन्ने ततो निवर्तते, तथैव पुरुषार्थीधिगतिरूपप्रयोजने चरितार्थे सति प्रधानमपि निवर्तते। (द्रo सांo प्रo भाo अo 5 सूo 69।)
नाशः- कारणे लयस्तिरोभाव इति यावत्। तथाच सांख्यसूत्रम्- `नाशः कारणलयः' इति। (अo 1 सo 121।)
निजमुक्तः- स्वभावतो मुक्तः।
निःसङ्गः- अधिकारहेतुभूतो यः संयोगस्तद्रहितः। एतेन विभुत्वेन सामान्यसंयोगसत्वेऽपि पुरुषे न निःसङ्गत्वहानि, अधिकारहेतुभूतस्य संयोगस्याभावात्।
नित्यबुद्धः-चित्स्वभावः नित्यचैतन्य इति यावत्।
नित्यबुद्ध्याद्यभावः- नित्या ज्ञानेच्छाकृतयो न भवन्ति सांख्यमते। अत एव नित्यबुद्ध्यादीनामाश्रयोऽपि कश्चिदीश्वरो नास्ति। (द्रo सांo सूo अनिo वृo अo 5 सूo 127-128 तथा तत्रत्यं सांo प्रo भाo।)
नित्यमुक्तः- सदा बन्धरहितः।
नित्यशुद्धः-सर्वदा विकारलेशतोऽप्यसंस्पृष्टः।
नित्यसंबन्धाभावः-
कश्चिन्नित्यः सम्बन्धो नास्ति। यतो हि स सम्बन्धः संयोगो वा भवेत् समवायो वा। नाद्या-संयोगस्य कर्मजन्यतया नित्येषु व्यापकेषु च क्रियाया अभावेन संयोगासंभवात्। अनित्यानां संयोगसत्त्वेऽपि तस्य संयोगस्याप्यनित्यत्वात्।
ननु संयोगो माभूत नित्यः सम्बन्धः, समवायस्तु नित्यः सम्बन्धो भवेत् इति चेन्न, समवायः स्वयमसम्बद्धश्चेत् सम्बन्धिनोः परस्परं सम्बद्धत्वांसंभवाः। सम्बद्धश्चेत् केन सम्बन्धेन समवायः सम्बद्धः? सम्बन्धान्तरस्यासंभवात् समवायेनैव सम्बद्धो वक्तव्यः। तथा सति तस्याप्यन्यः तस्याप्यन्यः समवाय इत्यनवस्थाप्रसङ्ग इति समवायस्याप्यसिद्धेः। अवस्थादोषपरिहाराय समवायस्य सम्बद्धत्वं (वैशिष्ट्यम्) यदि स्वरूपेणेष्येत तदा गुणप्रभृतीनां वैशिष्ट्यबुद्धिरपि स्वरूपेणैवेष्यताम्, कृतं समवायेनेति। न चैवं संयोगोऽपि सम्बन्धो न सिध्येत्, भूतले घटवत्ताप्रतीतेः स्वरूपेणैवोपपत्तेरिति वाच्यम् वियोगकालेऽपि कुण्डबदरयोः स्वरूपसत्त्वेन विशिष्टबुद्धिप्रसङ्गात्। समवायस्थले च समवेतस्य कदापि स्वाश्रयवियोगो नास्तीति तत्र स्वरूपसम्बन्धस्वीकारे नायं दोषः। तस्मात् समवायः सम्बन्ध एव नास्तीति सांख्यामतम्। (द्रo सांo प्रo भाo अo 5 सूo 98,99,100।)
पङ्कजवत्-
यथा पङ्कजं पङ्कादुत्पन्नमपि न पह्करूपतां धारयति तथैव प्रवृत्तिसहकारादुत्पन्नमपि आत्मज्ञानं मोक्षो वा न संसाररूपतां धारयति।
पञ्चतन्मात्राणि-
शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्धतन्मात्रञ्चेति।
पञ्चशिखः-
आसुरिमुनेः शिष्यः कपिलमुनेः प्रशिष्यश्च। तत्र प्रमाणम् `एतत्पवित्रमग्रयं मुनिरासुरयेऽनुकम्पया प्रददौ। आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम्' इति सांख्यकारिका 70 ।
पञ्चाग्नियोगः-
द्यु- पर्जन्य-धरा- पुरुषृ-योषिद्रूपाग्निपञ्चकेन सह सम्बन्धः। (द्रoसांo प्रo भाo अo 4 सूo 22 तथा छांoउo पञ्चमप्रपाठकः।)
पदार्थसंख्याया अनियमः-
वैशिषिका हि द्रव्यादिषड्भावपदार्थान् मन्यन्ते, नैयायिकाश्च प्रमाणप्रमेयसंशयप्रयोदनेत्यादिषोडशपदार्थान् मन्यन्ते। उभयेऽपि ते तेषां पदार्थानां तत्त्वज्ञानान्मुक्तिर्भवतीति च मन्यन्ते। किन्तु अनियतपदार्थवादिसांख्यमते पदार्खसंख्यानियमो नास्ति। न वा तेषां पदार्थानां ज्ञानान्मुक्तिर्भवति, आत्मज्ञानादेव मुक्तिस्वीकारात्। ( द्रo सांo दo अनिo वृo अo 5 सूo 85-86)।
परमाणुसावयवत्वम्-
नैयायिकाद्यभ्युपगतं परमाणूनां निर्भागत्वं नास्ति, कार्यत्वात् इति सांख्यमतम्। अत एव तन्मात्राख्यसूक्ष्मद्रव्याण्येव पार्थिवाद्यणूनामवयवा इति पातञ्चले भाष्ये वायसदेवैः प्रत्यपादि । (द्रo सांo प्रo भाo अo 5 सूo 88।)
परिमाणद्वैविध्यम्-
सांख्यमते महत्परिमाणमणुपरिमाणञ्चेति द्विविधमेव परिमाणमस्ति। एतयोरेव प्रभेदा इतरे परिमाणविशेषाः । (द्रo सांo दoअनिo वृo अo 5 सूo 90।) तत्र महत्परिमाणस्यावान्तरभेदावेव ह्रस्वदीर्घा स्तोऽन्यथा वक्रादिरूपैः परिमाणानन्त्यप्रसङ्गात् इति। (द्रo सांo प्रo भाo अo 5 सूo 90।)
पशुवत्-
यथा पशुः रज्ज्वा लिप्ततया बन्धमोक्षभागी भवति, तथैव प्रकृतिरेव धर्मादिभावैर्लिप्ततया बन्धमोक्षभागिनी भवति न पुरुष इति।
पाञ्चभौतिकः-
पञ्चार्ना भूतानां मिलितानां परिणामो देहः इति कस्यचिन्मतम्।
पिङ्गलावत्-
यथा पिङ्गला नाम वेश्या कान्तार्थिनी कान्तमलब्ध्वा दुःखिताऽभूत्, आशां विहाय तु सुखिनी बभूव। तथैव पुरुष आशां विहाय सन्तोषात् सुखी भवेत्। तदुक्तम्-आशा हि परमं दुःखं नैराश्यं परमं सुखम्। यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला इति। (सांo प्रo भाo अo 4 सूo 21।)
पिशाचवत्- यथाऽर्जुनस्य कृते श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समीपस्थस्य पिशाचस्यापि विवेकज्ञानं जातं तथैव ब्राह्मणं प्रति क्रियमाणं तत्त्वोपदेशं श्रुत्वा स्त्रीशूद्रादयोऽपि तत्त्वज्ञानिनः स्युः। (द्रo सांo प्रoभाo अo 4 सूo 2।)
पुमान्-
शरीरादिव्यतिरिक्तश्चेतनः पुरुषः।
पुरुषः-
असंहतो निर्गुणः कूटस्थो द्रश्टा भोक्ता विभुर्नित्यश्चित्स्वरूपः प्रतिशरीरं नाना चेति। पुरुषः, आत्मा, पुमान्, पुद्गलजन्तु, जीव, क्षेत्रज्ञः इति पर्यायाः।
पूर्ववत्-
प्रत्यक्षीकृतजातीयविषयकं पूर्ववदनुमानम्। यथा धूमेन वहन्यनुमानम्। वह्निजातीयो हि महानसादौ पूर्वं प्रत्यक्षीकृतः । (द्रo सांo प्रo भाo अo 1 सूo 103।)
वाचस्पतिमिश्रास्तु- दृष्टस्वलक्षणसामान्यविषयं यत् तत्पूर्ववत्। यथा धूमाद् वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते, तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् (महानसे)। (द्रo सांo तo कौo सांo काo 5।)
पौरुषेयत्वम्-
दृष्टं वस्तु भवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धिरूपजायते तत् पौरुषेयम्। न तु पुरुषोच्चरितत्वं पौरुषेयत्वमिति सांख्यभिमतम्। तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुषैयत्वापत्तिः स्यात्। (द्रo सांo प्रo भाo अo 5 सूo 5o।) अनिरुद्धोऽप्याहयस्मिन्नदृष्टेऽपि कृतबुद्धिरूपजायते तत् पौरुषेयम्। अस्मिन् मते न कार्यमात्रं सकतृर्कं किन्तु कार्यविशेषः। (द्रo सांo दo अनिo वृo अo 5 सूo 5o।)
प्रकृतिः-
सत्त्वरजस्तमसां साम्यावस्था, साम्यावस्थोपलक्षितं सत्त्वादित्रयं वा प्रकृतिः। साम्यावस्था च न्यूनाधिकभावेनासंहननम्-अकार्यावस्थेत्यर्थः। कार्यभिन्नं गुणत्रयं प्रकृतिरिति पर्यवसितम्। इदञ्च मूलप्रकृतिलक्षणम्। प्रकृतिसामान्यलक्षणन्तु तत्त्वान्तरोपादानत्वं प्रकृतित्वमिति। (द्रo सांo दo अनिo वृo अo 1 सूo 61।)
प्रतिबन्धः-
अविनाभावो, व्याप्ति। सा च उभयोः समव्याप्तिकयोः कृतकत्वानित्यत्वयोरेकतरस्य, विषमव्याप्तिकस्य धूमस्य वा नियतधर्मसाहित्यम्, साध्यातमकधर्मसाहित्यं वा। तच्च साहित्यं वह्निधूमयोर्निजा सहजा शक्तिरिति सांख्यतमित्याह वृत्तिकारः, सूत्रे `आचार्याः' इति सम्मानप्रदर्शनात्। (द्रo सांo दo अनिo वृo अo 5 सूo 30-31)
प्रतिबद्धः - व्यापकः साध्यभूतः।
प्रधानाविवेक एव सर्वांविवेकहेतु-
सर्वेषां मूलं प्रधानम्। तस्याविवेकादन्याविवेकस्य सम्भवः। पदार्थानामन्योन्यं भवत्वविवेको विवेको वा, न तेन बन्धमोक्षौ, किन्तु प्रधानविवेकाविवेकाभ्याम्। अतः प्रधानाविवेकहाने सति सर्वाविवेकहानम् भवतीति । (द्रo सांo दo अनिo वृo अo 1 सूo 57 ।)
प्रमा-
इन्द्रियादिप्रणालिकया साक्षाद्वा या अज्ञातार्थविषयिणी चित्तवृत्तिः, तज्जन्यः पौरुषेयो बोधः प्रमा। तथा च सांख्यसूत्रम्-द्वयोरेकतरस्य वाऽप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा। (अo 1 सूo 87।) अत्र असन्निकृष्टः प्रमातर्यनारूढोऽनधिगत इति यावत्। एवम्भूतस्यार्थस्य वस्तुनःच परिच्छित्तिरवधारणं प्रमा। (सांo प्रo भाo अद 1 सूo 87)। अत्र वृत्तिकारः-सूत्रे द्वयोरिति पदस्य इन्द्रियार्थयोर्विद्यमानयोरित्यर्थः प्रत्यक्षाभिप्रायेण। तथा एकतरस्येति पदस्य लिङ्गस्य शब्दस्य वा विद्यमानस्येत्यर्थोऽनुमानाभिप्रायेण शब्दाभिप्रायेण चेत्याह। वाचस्पतिमिश्रा अपि `प्रमीयतेऽनेनेति निर्वचनात् प्रमां प्रति करणत्वमवगम्यते। तच्चासंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः। बोधश्च पौरुयेयः फलं प्रमा' इत्याहुःच (सांo ताo कौo काo 4)।
प्रमाणम्-
पौरुषेयबोधरूपां प्रमां प्रति यत् साधकतमं तत् प्रमाणम्। द्रष्टव्यम् द्व्योरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत् तत् त्रविधं प्रमाणम्। (सांo दo अo वृo 1 सूo 87।) बोधश्च पौरुषेयः फलं प्रमा, तत्साधनं प्रमाणमिति सांख्यतत्त्वकौमुदी। (सांoकाo 4।) अस्मिन् पक्षे पौरुषेयो बोधः प्रमा, तत्कारणभूता चित्तवृत्तिः प्रमाणम्। यदा तु अर्थाकारा चित्तवकृत्तिरेव प्रमापदेन व्यपदिश्यते तदा तत्कारणभूताःच इन्द्रियसंनिकर्षादय एव प्रमाणतया व्यवह्रियन्त इति मन्तव्यम्।
प्रमेयम्-
प्रमाविषयीभूता ये ते प्रमेयपदेनोच्यन्ते। सांख्याभिमतं प्रमेयम्-प्रधानं, बुद्धिः, अहङ्कारः, पञ्चतन्मात्राणि, एकादशेन्द्रियाणि, पञ्चमहाभूतानि, पुरुष इति।क एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते। (द्रo सांo काo 4 गौडपादभाष्यम्।) परमात्मापि षड्विंशः प्रमेयभूतः पदार्थः पुरुष एवान्तर्भूत इति विज्ञानभिक्षुः।
प्रत्यक्षम्-
`यत् सम्बद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षम्' इति सांख्यसूत्रम् (अo 1 सूo 89।) सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति यद् विज्ञानं बुद्धिवृत्तिस्तत् प्रत्यक्षं प्रमाणमिति निष्कर्षं इति सांख्यप्रवचनभाष्यम्। प्रतिविषयाध्यवसायो दृष्टम्(प्रत्यक्षम्) इति सांख्यकारिका। अत्र गौडपादभाष्यम्-प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेषु अध्यवसायो दृष्टं= पर्त्यक्षमित्यर्थ इति। वाचस्पतिमिश्रास्तु-विषयं विषयं प्रति वर्तत इति प्रतिविषयम्= इन्द्रियम्। वृत्तिश्च सन्निकर्षः= अर्थसन्निकृष्टमित्यथः। तस्मिन् अध्यवसाय= तदाश्रित इत्यर्थः। अध्ववसायश्च बुद्धिव्यापारो ज्ञानम्। उपात्तविषयाणामिन्द्रियाणां वृत्तौ (सन्निकर्षे) सत्यां तमोऽभिभवे सति यः सत्त्वसमुद्रेकः, सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाख्यायते। इदं तावत् प्रत्यक्षं प्रमाणमिति। (सांo तo कौo काo 5)। इदञ्च प्रत्यक्षलक्षणं बाह्यपर्त्यक्षाभिप्रायेण। योगिनान्तु प्रत्यक्षमबाह्यम् अतो न तल्लक्ष्यं न वा तत्रेन्द्रियसन्निकर्षापेक्षा। अथवेन्द्रियसन्निर्षाभावेऽपि योगजधर्मजन्यातिशयसाहाय्येनैव योगिबुद्धिरर्थैः सन्निकृष्यते, अर्थाकारताञ्च धारयतीति सन्निकर्षद्वाराऽर्थाकारताग्रहणरूपं सूत्रोक्तं प्रत्यक्षसामान्यलक्षणं योगिप्रत्यक्षेऽपि घटत एव। इन्द्रियसन्निकर्षापेक्षा तु चाक्षुषादिविशेषप्रत्यक्ष एव भवतीति। सर्वथैव सन्निकर्षानपेक्षे नित्ये ईश्वरप्रत्यक्षे उक्तलक्षणस्याव्याप्तिरिति न शङ्कनीयम् ईश्वरे प्रमाणाभावात्। इदमुत्तरमेकदेशिनामभिप्रायेणेति विज्ञानभिक्षवः। तद्रीत्या ईश्वरप्रत्यक्षसाधारणं लक्षणन्तु सन्निकर्षजन्यज्ञानसजातीयत्वमेव सूत्रकारैर्विवक्षितम्। (द्रo सांo प्रo भाo अo 1 सूo 92।)
प्रत्यक्षे रूपनिबन्धनत्वाभावः-
`प्रकृतिपुरुषयोः साक्षात्कारोऽसंभवी, द्रव्यसाक्षात्कारं प्रति रूपस्य हेतुत्वात्' इति नास्तिकमतं निराकुर्वाणं सांख्यं द्रव्यप्रत्यक्षं प्रति रूपस्य निमित्तत्वमिति नियमं नानुमन्यते। अतो बहिर्द्रव्यलौकिकप्रत्यक्षं प्रत्येवोद्भूतरूपं व्यञ्चकमिति। (द्रo सांo प्रo भाo अo 5 सूo 89।)
प्रबुद्धरज्जुतत्त्वोरगः-
यथा प्रबुद्धरज्जुतत्त्वस्यैव जनस्य कृते उरगो भयादिकं न जनयति, मूढं प्रति तु जनयत्येव। तथैव एकस्मिन् पुरुषे विविक्तवोधानन्तरं विरक्तमपि प्रधानं नांन्यस्मिन् पुरुषे सृष्ट्युपरागाय विरक्तं भवति किन्तु तं प्रति सृजत्वेव । (द्रo सांo प्रo भाo अo 3 सूo 66।)
प्राणवायुभौतिकवाय्वोर्भेदः-
शरीरारम्भे निमित्तभूतो भौतिको वायुर्न तु प्राणवायुः। तथा च सूत्रम् `न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः इति। '( सांo दo अo 5 सूo 113।)
प्राणादिः-
प्राणाद्याः वायुविशेषाः। प्राणोऽपान उदानो व्यानः समानश्चेति पञ्च।
प्राप्यकारीणीन्द्रियाणि-
इन्द्रियाणां नाप्राप्तप्रकाशकत्वं किन्तु प्राप्तप्रकाशकत्वमेव । अर्थात् स्वसम्बद्धमेवार्थम् इन्द्रियाणि प्रकाशयन्ति। एतावता गोलकातिरिक्तमिन्द्रियमिति सांख्यसिद्धान्तः। (द्रo सांo प्रo भाo अo 5 सूo 104।)
बन्धः-
संसरणम्। स च त्रिविधो बन्धः-प्राकृतिको वैकृतिको दाक्षिणकश्चेति। तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः। अयमेव प्रकृतिलयानां बन्ध इत्युच्यते। द्वितीयो वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्खारबुद्धीः पुरुषधियोपासते। अयं बन्धो येषां ते विदेहा इत्युच्यन्ते। इष्टापूर्त्तेन= अग्निहोत्रादिना यज्ञेन वापीकूपतडाकादिनिर्माणादिना च दाक्षिणको बन्धः। पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति। (द्रo सांo तo कौo, काo 44।)
बाह्यकरणम्-
पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि चेति दशविधं बाह्यकरणम्।
बुद्धिः- महत्तत्त्वम्। बुद्धेरेव महानित्यपि तान्त्रिकी संज्ञा।
ब्रह्मरूपता- `समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता इति सूत्रानुसारमासु अवस्थासु पुरुषाणां बुद्धिविलयतो बुद्ध्यौपाधिकपरिच्छेदविगमने स्वस्वरूपे पूर्वतयाऽवस्थानं यद् भवति, तदेव ब्रह्मरूपताऽस्ति। यथा घटध्वंसे जाते घटाकाशस्य पूर्णता सम्पद्यत इति। तथा चैवंविधं ब्रह्मत्वमेव पुरुषाणां स्वभावोऽस्ति, य उक्ता स्ववस्थासु अभिव्यक्तो भवतीति। अस्मिन् शास्त्रे ब्रह्मशब्द औपाधिकपरिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाचीति विज्ञानभिक्षुः । (द्रo सांo प्रo भाo अo 5 सूo 116।)
अनिरुद्धस्तु-
अत्र ब्रह्मणा तुल्यतैव ब्रह्मरूपताऽभिप्रेता। तुल्यता च बाह्यासंवेदनमात्रेण। तिसृष्वपि अवस्थासु बाह्यासंवेदनस्य समानत्वात्। न तु वास्तविकी ब्रह्मरूपता दुःखासंवेदनरूपाऽभिप्रेता, तस्याः सुषुप्तिसमाध्योरभावात्।
अयमत्र विशेषः-
समाधिसुषुप्त्योः सबीजा अर्थात् पुनर्दुःखप्रयोजकसंस्कारवत्त्वरूपा ब्रह्मरूपता भवति, मोक्षे तु निर्बीजा अर्थात् तादृशसंस्काररहिता ब्रह्मरूपता भवति। (द्रo सांo सूo अनिo वृo अo 5 सू 116-117।)
भरतवत्-
यथा भरतस्य राजर्षेर्धर्म्यमपि अनाथहरिणशावकस्य पोषणं बन्धायाभवत् तथैव विवेकिनोऽपि असाधनानुचन्तनं बन्धाय भवेत्। (सांo प्रo भाo अo 4 सूo 87।)
भावसर्गं -
धर्माधर्मज्ञानज्ञानवैराग्यावैराग्यश्वर्यानैश्वर्यंरूपाणामष्टभावानां सर्गः।
भृत्यवत्-
यथा उत्कृष्टभृत्यस्य स्वभावादेव प्रतिनियताऽऽवश्यकी स्वामिसेवा प्रवर्तते, न तु स्वभोगाभिप्रायेण, तथैव प्रकृतेश्चेष्टा स्वभावादेव भवतीति।
भूतचैतन्याभावः-
विभागकाले प्रत्येकं भूतेषु चैतन्यादर्शनात् सङ्घातावस्थायामपि चैतन्यं नोद्भवितुमर्तति। यत्र स्वल्पा शक्तिरस्ति तस्य समुदायान्महच्छक्तिर्जायते, यथा तन्तूनां स्वल्पशक्तिमतां समुदायाद् गजबन्धनशक्तिर्दृश्यते। किन्तु भूतानां तथा पृथक् चैतन्यं न दृष्टं येन सङ्घाते चैतन्योद्भवः स्यात्। तस्माद् भूतेषु चैतन्यं नास्ति, किन्तु तेभ्योऽन्य एव चेतनोऽस्तीति सिद्धान्तः।
भूतम्- आकाशां, वायुस्तेजो, जलं , पृथिवी चेति पञ्चविधम् भूतम्।
भूतादिः - तामसः (अहङ्कारः)।
भेकीवत्- शास्त्रविहितनियमस्य विस्मरणेऽपि योगिनो अनर्थं उपजायते, का कथा नियमोल्लङ्घनस्येति भेकी- (मण्डूकी) दृष्टान्तेन स्फुटयति। कश्चिद् राजा मृगयां गतो विपिने सुन्दरीं कन्यां ददर्शं। तां प्रति राजा स्वभार्याभावाय प्रार्थितवान्। प्रार्थिता सा नियमं कृतवती यद् यदा मह्यं त्वया जलं प्रदर्श्यते तदाऽहमितो गता भविष्यामीति। एकदा क्रीडया षरिश्रान्ता सा राजानं पृष्टवती कुत्र जलमिति। राजाऽपि अङ्गीकृतं समयं विस्मृत्य तां जलमदर्शयत् ततः सा भेगराजदुहिता कामरूपिणी भेकी भूत्वा जलं विवेश। ततश्च राजा जालादिभिरन्विष्यापि न तामविन्दत् इति। एवमेव स्वनियमविस्मरणे योगिनोऽनर्थ उपजायत इति। (द्रo सांo प्रo भाo अo 4 सूo 16।)
भोग-
विषयभोगः। स च अभ्यवहरणम् आत्मसात्करणमिति यावत्। विषयस्यात्मसात्करणञ्च पुरुषे प्रतिबिम्बनमात्रम्, तस्यापरिणामित्वात्। पुरुषातिरिक्तानां देहादीनान्तु भोगः पुष्ट्यादिरूपः आकारग्रहणरूपश्च, तेषां परिणामित्वात्। इत्थञ्च भोगो देहादिचेतनान्तेषु साधारणः। क्वचित् पुरुषे भोगस्य प्रतिषेधःत परिंणामरूपस्यैव न तु प्रतिबिम्बादानरूपस्येति। वस्तुतस्तु फलात्मको मोगः पुरुष एव न तु बुद्ध्यादौ। सुखं भुञ्जीयेति कामनादर्शनात्। तस्मात् सुखदुःखादिकं बुद्धिधर्मस्तद्भोगस्तु पुरुषस्य भवतीति मुख्यः सिद्धान्तः । (द्रo सांo प्रo भाo अo 1 सूo 103,106।)
भौतिकः सर्गः- भूतानां व्यष्टिप्राणिनां सर्गः। स च त्रिविधः-दैवसर्गः, तैर्यग्योनसर्गः, मानुष्यसर्गश्चेति। तत्र ब्राह्मप्राजापत्यैन्द्रपैत्रगान्धर्वराक्षसपैशाचा इत्यष्टविधो दैवः सर्गः। मानुष्यसर्गश्चैकप्रकार एव भवति, सर्वेष्वपि नरेषु संस्थानस्य समानत्वात्। एतदुक्तं सांख्यकारिकायाम्-
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति। मानुष्यश्चैकविधः समासतो भौतिकः सर्गः इति । (सांo काo 53।)
मध्यविवेकः-
सकृत्संप्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यविवेकावस्था भवति।कच तदानीं बाधितानापि दुःखादीनां प्रारब्धवशात् प्रतिबिम्बरूपेण पुरुषेऽनुवृत्त्या भोगो भवति। विवेकनिष्पत्तिश्च पूर्णरूपेण असंप्रज्ञातादेव भवति, तस्यां सत्यां भोगो न भवति।क इत्थञ्च मन्दविवेको मध्यविवेको विवेकनिष्पविश्चेति विभागो विवेकस्य। (द्रo सांo प्रo भाo अo 3 सूo 77।)
मध्यमपरिमाणं मनः-
मनो न विभु, करणत्वात्, वाक्यादिवत् इत्यनुमानेन मनसो विभुत्वं निषिद्धं भवति। लोकान्तरगमनश्रुतिरपि मनसो विभुत्वे बाधिका। यदि मनो व्यापकं स्यात्तदा लोकान्तरगमनं तनोपपद्येत, विमुत्वेनैव लोकान्तरेऽपि सत्त्वात्। नाप्यणु मनः, अनेकेन्द्रियेषु एकदा तस्य योगात्। देहव्यापिज्ञानादिकन्तु मध्यमपरिणामेनैवोपपद्यते। इदञ्च कार्यावस्थामनोऽभिप्रायेणोक्तम्। कारणावनस्थञ्चान्तःकरणमण्वेव। (द्रo सांo प्रo भाo अo 5 सूo 69,70,71)।
मध्यस्थः-
सुखदुःखाभ्यां रहित उदासीनः (पुरुषः)।
मनः-
तृतीयमन्तःकरणं सङ्कल्पधर्मकम्। उक्तं हि-सङ्कल्पेन रूपेण मनो लक्ष्यते। आलोचितमिन्द्रियेण वस्त्विदमिति संमुग्धम् `इदमेवं' `नैवम्' इति सम्यक्कल्पयति विशेषणविशेष्यभावेन विवेचयतीति । (सांo तo कौo काo 27 ।)
मन्त्रार्थवादयोः प्रमाण्यम्-
कार्यान्विते एव शक्तिरिति नास्ति नियमः, उभयथा दर्शनात्। तस्माद् विधिवाक्यानां कार्यार्थप्रतिपादकतया प्रामाण्यम्। मन्त्रार्थवादयोस्तु सिद्धार्थप्रतिपादकयोरपि अस्ति प्रामाण्यम्। तत्र मन्त्राणां विहितस्मारकत्वेन, अर्थवादानां विधिशक्तेरुत्तम्भकत्वेन परम्परया प्रवर्तकत्वात् प्रामाण्यमिति। (द्रo सांo सूo अनिo वृo अo 5 सूo 39।)
मलिनदर्पणवत्- यथा मलैः प्रतिबन्धात् मलिनदर्पणेऽर्थो न प्रतिबिम्बति तथैव मलिनचेतसि उपदेशात् आपातज्ञानपि न जायते, विषयान्तरसञ्चारादिना प्रतिबन्धात् (द्रo सांo प्रo भाo अo 4 सूo 29।)
महान्- बुद्धितत्त्वम्। महान् बुद्धिरासुरीभतिः ख्यातिर्ज्ञानमिति प्रज्ञापर्यायैरुत्पद्यते इति गौडपादभाण्यम्। महान् बुद्धिर्मतिर्ब्रह्मापूर्तिः ख्यातिरीश्वरोविखरइति पर्यायाः। स तु देशमहत्त्वात् कालमहत्त्कवाच्च महान्। सर्वोत्पाद्येभ्यो महापरिमाणयुक्तत्वात् महानिति युक्तिदीपिका।
प्रकृतिमहतोरन्तराले मूलप्रकृतेरुत्पन्ना विषमावस्थापन्नास्त्रयो गुणा जायन्त इति कस्यतिन्मतम्।
मायिकत्वम्- असत्यत्वम्, अस्थिरत्वं कार्यत्वं वा।
मुक्तिर्नानन्दाभिव्यक्तिरूपा-
आत्मनि आनन्दरूपोऽभिव्यक्तिरूपश्च धर्मो नास्ति। स्वरूपञ्च तस्यात्मनो नित्यमेवेति नानन्दाभिव्यक्तिर्मोक्ष इति सांख्यतम्। अत एव नैयायिकादिवदशेषविशेषगुणोच्छेदोऽपि न मुक्तिः, आत्मनो निर्धर्मकत्वात्। न च तर्हि दुखाभावस्यापि धर्मत्वात् सांख्यैर्दःखनिवृत्तिरपि कथं मोक्ष उच्येतेति शङ्कनीयम्, तदानीं सदपि दुःखं केवलमात्मनो भोग्यं न भवतीत्येतावन्मात्रतात्पर्यसत्त्वात्।
एवं ब्रह्मलोकप्राप्तिरपि न मोक्षः, आत्मनो निष्क्रियत्वात्।
एवमेव सर्वोच्छेदः शून्यत्वं वापि न मोक्षः, अपुरुषार्थत्वात्।
एवमंशभूतस्य जीवस्यांशिनि परमात्मनि लयोऽपि न मोक्षः, संयोगानां वियोगान्तत्तया मुक्तेरनित्यत्वप्रसङ्गात्, स्वलयस्यापुरुषार्थत्वाच्च। (द्रo सांo प्रo भाo अo 5 सूo 74....83)।
मुनिवत्-
यथा सौभरेर्मुनेर्न भोगाद् रागशान्तिरभूत्, एवमन्येषामुपि भोगाद् रागशान्तिर्न भवितुमर्हति। तदुक्तम् सौभरिंणैव-
आमृत्युतो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ।। इति । (द्रo सांo प्रo भाo अo 4 सूo 27।)
मूलम्-
उपादानम्, मूलप्रकृतिः तथा च सांख्यसूत्रम्- `मूले मूलाभावादमूलं मूलम्' अo 1 सूo 32।
यज्ञोपासकवत्-
यथा यज्ञोपासकानां याज्ञिकानां साक्षात् ज्ञाननिष्पत्तिर्नास्ति, तथैव ब्रह्मविष्मुहरादीनामध्यस्तरूपैरुपासनादपि न साक्षात्ज्ञाननिष्पत्ति र्भवितुमर्हति किन्तु पारम्पर्यैण। अर्थात् ब्रह्मादिलोकप्राप्तिक्रमेणैव सत्त्वशुद्धद्वारा वा भवतीति। (द्रo सांo प्रo भाo अo 4 सूo 21।)
योगसिद्धीनां वास्तविकत्वम्-
यथौषधादिसिद्धयो यथार्थाः तथा योगसिद्ध्योऽपि यथार्था एव सन्ति।
रागः-सुखानुशयी। सुखमनुशेते, इति व्युत्पत्तेः सुखात् पश्चात् प्रवर्तमान इति यावत्।
राजपुत्रवत्-
यथा कश्चिद्राजपुत्रो गण्डर्क्षजन्मना पुरान्निःसारितः शबरेण च केनचित् पोषितस्सन् `अहं शबर'इत्यभिमन्यमान आस्ते। तं ज्ञात्वा कश्चिदमात्यः प्रबोधयति-न त्वं शबरोऽसि किन्तु राजपुत्रोऽसीति। एवं प्रबोधितः स ज्ञटित्येव चाण्डालाभिमानं त्यक्त्वा तात्विकं राजभावमनुभवति राजाऽहमस्मीति। एवमेव त्वमिन्द्रियाद्यतिरिक्तः सुखदुःखादिलेपरहितो नित्यशुद्धबुद्धमुक्तस्वभावोऽसीति कस्यचित् कारुणिकस्योपदेशात् पुरुषोऽपि प्रकृत्यभिमानं त्यक्त्वा स्वरूपावस्थितिं प्राप्नोति। (द्रo सांo प्रo भाo अo 4 सूo 1।)
लयः-
सूक्ष्मीभावेन अवस्थानम् न तु नाशः। (द्रo सांo प्रo भाo अo 1 सूo 61)
लिङ्गम्-लिङ्गशरीरम्, सूक्ष्मशरीरापरपर्यायम्। तच्च एकादशेन्द्रियाणि, पञ्चतन्मात्राणि, बुद्धिरहङ्कारश्चेत्यष्टादशतत्त्वेभ्यः समुत्पन्नम्।
विज्ञानभिक्षुस्तु- अहङ्कारं बुद्धावन्तर्भाव्य सप्तदशतत्त्वेभ्य एव लिङ्गशरीरमुत्पद्यतइत्याह। तत्र प्रमाणञ्च-`वासनाभूतसूक्ष्मञ्च कर्मविद्ये तथैव च। दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः' इति वाशिष्ठवाक्यम्। (द्रo सांo प्रo भाo अo 3 सूo 12।) तच्चाणुपरिमाणं भवति।
लोकवत्- यथा लोके भैषज्यादौ विहितपथ्यादोनां लङ्घनेन तत्तत्सिद्धिर्नभवति, तथैव योगिनां शास्त्रेषु विहितानां नियमानामुल्लङ्घने ज्ञाननिष्पत्तिरूपप्रयोजनं न सिध्यति । (सांoप्रo भाo अo 4 सूo 15।)
वामदेवत्- यथा वामदेवस्यैहिकसाधनाभावेऽपि जन्मान्तरीयसाधनेभ्यो गर्भ एव ज्ञानोदयस्तथा अन्यस्यापि ऐहिकसाधनादेव ज्ञानोदयो भवतीति कालनियमो नास्ति। (द्रo सांo प्रo भाo अo 4 सूo 20 ।)
विपर्ययः- अज्ञानं, विवेकाग्रहो बन्धहेतुभूतः। स पञ्चविधः, अविद्याऽस्मितारागद्वेषाभिनिवेशभेदात्।
विरक्तः-विवेकख्यात्या समुत्पन्ननवैराग्यः।
विरोचनवत्-यथा प्रजापतेरुपदेशश्रवणेऽपि इन्द्रविरोचनयोर्मध्ये विरोचनो विचाराभावेन भ्रान्तो जातः, तथैव विचारं (मननं) विना उपदेशवाक्यश्रवणेऽपि नियमतस्तत्त्वज्ञानं नैव जायते। (द्रo सांo प्रo भाo 4 सूo 17।)
विशेषाः-शान्तघोरमूढस्वरूपाणि क्षित्यादीनि पञ्च स्थूलभूतानि सूक्ष्मशरीराणि, मातापितृजानि स्थूलशरीराणि चेति त्रिधा विशेषा भवन्ति। द्रष्टव्यम् `.....तेभ्यो भूतानि पञ्च पञ्चभ्यः। एते स्मृता विशेषा शान्ता घोराश्च मूढाश्च।। सूक्ष्म मातापितृजा सह प्रभूतैस्त्रिधा त्रिशेषाऽस्युः। सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते।।' िति । (सांo काo 38-39 )
वृक्षादीनां शरीरम्- शरीरत्वं हि भोक्तृभोगायतनत्वमिति लक्षणस्य वृक्षादावपि सत्त्वेन शरीरत्वं वृक्षादिष्वपीति सिद्धान्तः। न हिचाक्षुषादिज्ञार्न यत्रास्ति तदेव शरीरमिति नियमोऽस्ति। अतोऽन्तःसंज्ञानां वृक्षादीनामपि शरीरत्वं मन्तव्यम्। तथा च श्रुतिः-`अथ यदेकां शाखां दीवो जहाति अथ सा शुष्यतीत्यादिः।' (द्रo सांo प्रo भाo अo 5 सूo 121।)
वृत्तयः- क्लिष्टा अक्लिष्टाश्च पञ्चतय्यो वृत्तयःप्रमाण-विपर्यय-विकल्प-निद्रा स्मृतिरूपाः।
वृत्तिः-वृत्तिर्न अग्नेर्विस्फुलिङ्गवद् भागरूपा(अंशरूपा), न वा रूपादिवद् गुणरूपा, किन्तु भागगुणाभ्यां भिन्ना तदेकदेशभूतेति सांख्यमतम्। वृत्तेर्भागरूपत्वे गोलकस्थस्य चक्षुष- सूर्यादिना सह सम्बन्धो न घटेत। गुणत्वे तु तस्यां सूर्यादिपर्यन्तं सर्पणादिक्रिया नोपपद्येत। एवं बुद्धिवृत्तरपि प्रदीपशिखावद् द्रव्यात्मकपरिणाम एव बुद्धेः। सा च स्वच्छतयाऽर्थाकारतोद्राहिणी निर्मलवस्त्रवत्। (द्रo सांo प्रo भाo अo 5 सूo 107>)
वृत्तिस्तत्त्वान्तरम्-कार्यानुमेया वृत्तिस्तत्त्वान्तरमाहङ्कारिकम्। यतो हि सांख्येऽनियतः पदार्थः। (द्रo सांo दo अनिo वृo अo 5 सूo 107।) विज्ञानभिक्षुस्तु अनियतपदार्थवादित्वं सांख्यस्य नाङ्गीकुरुते। अतो बुद्धेरिन्द्रियादेश्चैकदेशभूतैव वृत्तिरिति तन्मतम्।
वैकृतः- सात्विकः(अहङ्करः)
वौराग्यम्-विषयं प्रति वैतृष्ण्यम् वैराग्यम्। तच्चतुर्विधम्-यतमानसंज्ञाव्यतिरेकसंज्ञा-एकैन्द्रियसंज्ञा-वशीकरसंज्ञा चेति। प्रपञ्चितं चैतद्योगभाष्यादाविति तत एव विशेषतः प्रतिपत्तव्यम्।
व्याप्तिः-नियतधर्मसाहित्यम् उभयोरेकतरस्य वा व्याप्तिः। साहित्यं सहचारः। तथा चोभयोः साध्यसाधनयोरेकस्य साधनमात्रस्य वा नियतः=अव्यभिचरितो यः सहचारः स व्याप्तिर्तयर्थः। उभयोरिति समव्याप्तिपक्षे प्रोक्तं,यथाऽनित्यत्वकृतकत्वयोः। एकतरस्येति विषमव्याप्तिपक्षे प्रोक्तम्, यथा वह्निधूमयोरिति। अयं सिद्धान्तपक्ष इति विज्ञानभिक्षुः। (द्रoसांo प्रo भाo अo 5 सूo 29।)
केचिदाचार्या(1)- निजशक्त्युद्भवं स्वशक्तिजन्यं शक्तिविशेषरूपं तत्त्वान्तरं व्याप्तिरित्याहुः। बुद्घ्यादिषु प्रकृत्यादिव्याप्यताव्यवहारात् आधारताशक्तिव्यापकता, आधेयताशक्तिश्च व्याप्तयत्वमिति पञ्चशिखाचार्यमतम्। (द्रo सांo प्रo भाo अo 5 सूo 31-32।)
F.N. 1. वृत्तिकारस्येदमेव मतमभिप्रेतम्।
पष्टितन्त्रम्-
षष्टिपादार्थबोधकं शास्त्रं षष्टितन्त्रम्। तच्च किमपि ग्रन्थान्तरं कपिलकृतिरिदानीं लुप्तमिति बहवः। वर्तमानसूत्रषडध्यायी एव षष्टितन्त्रमित्युदयवीरशास्त्री। षष्टितन्त्रानामकरणे च तद्गतविचार्यमाणविषयाणां षष्टिसंख्याकत्वमेव निदानम्। षष्टिंविषयाश्च-पञ्च विपर्ययाः, नव षष्टयः, अष्टौ सिद्धयः, अष्टाविंशतिरशक्तयः, दश मौलिकार्थाश्चेति।
शक्तिः- `वाच्यवाचकभावः सम्भन्धः शब्दार्थयोः' इति सूत्रानुसारं वाच्यतारूपा शक्तिरर्थे, वाचकतारूपा शक्तिः शब्देऽस्तीति वाच्यवाचकभाव एव शब्दार्थयोः शक्तिः। तस्याश्च शक्तेस्त्रिभिः कारणैर्ग्रहणं भवति। आप्तोपदेशेन, वृद्ध व्यवहारेण, प्रसिद्धपदसामानाधिकरण्येन चेति। (द्रo सांo प्रo भाo अo 5 सूo 37-38)। आप्तोपदेशो यथा-कोकिलः पिकशब्दवाच्य इति आप्तवचनात् पकादिशब्दानां कोकिले शक्तिग्रहः। वृद्धव्यवहारो यथा-प्रयोजकवृद्धेन `घटमानय' इत्युक्ते तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतस्तदवधार्य पार्श्वस्थो बालो घटानयनरूपं कार्यं घटमानयोति शब्दप्रयोज्यमित्यवधारयति। ततश्च `घटं नय, गामानय' इत्यादि वाक्यादवापोद्वापाभ्यां घटादिपदानां घटादी शक्तिं गृह्लाति।
प्रसिद्धपदसामानाधिकरण्यं यथा- `इह सहकारतरौ मधुरं पुको रौति' इत्यादौ पिकशबद्सय कोकिले शक्तिग्रह इति। (द्रo न्याo सिo सुo शब्दखण्डम्।)
शब्दः-आप्तोपदेशः शब्दः। आप्तिरत्र योगय्ता। तथा च योग्यः शब्दस्तज्जन्यं ज्ञानं (वृत्तिः) शब्दप्रमाणम्। (सांo प्रo भo अo 1 सूo 101।) आप्तश्रुतिराप्तवचनमिति सांख्यकारिका। तत्राप्ता प्राप्ता युक्तेति यावत्। आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः। श्रुतिर्वाक्यजन्यं वाक्यार्थज्ञानमिति वाचपस्पतिमिश्राः।
शब्दानित्यत्वम्-
शब्दो नित्य इति मीमांसकमतम्। तत् सांख्या नानुमन्यन्ते। उत्पन्नो गकारो नाष्टो गकार इत्यादिकार्यताप्रतीतेः। स एवायं गकार इति प्रत्यभिज्ञा सैवेयं दीपकलिकेतिवत् जातिविषयिणी। अन्यथा घटादेरपि प्रत्यभिज्ञया नित्यतापत्तेः (द्रo सांo प्रo भाo अo 2 सूo 58।)
शब्दार्थयोः सम्बन्धः-
शब्दार्थयोर्वाच्यवाचकभाव एव सम्बन्धो न पु तादात्म्यं, तथा सति घटोऽपि श्रोत्रग्राह्यः स्यात् शब्दोऽपि चाक्षुषः स्यात् अग्त्यादिशब्दोच्चारणे मुखदाहादिप्रसङ्गश्च स्यादिति। (द्रo साo दo अनिo वृo अo 5 सृo 37।)
शब्दार्थसम्बन्धानित्यत्वम्-
शब्दार्थयोः सम्बन्धोऽनित्य इति सांख्यमतम्। न तु मीमांसकवत् नित्यः शब्दार्थसम्बन्ध इति। तथा च सांख्यसूत्रम्-`न सम्बन्धनित्यतोभयानित्यत्वात।' (अo 5 सूo 97)। उभयोः शब्दार्थयोरनित्यत्वात् तत्सम्बन्धस्याप्यनित्यत्वमिति भावः।
शरीरभेदाः- उष्मजम्-अण्डजं-जरायुजम्-उद्भिज्जं-संकल्पजं-सांसिद्धिकञ्चेति शरीरस्य षड्भेदाः। तत्रोष्मजा दन्दशूकादयः, अण्डजाः पक्षिसर्पादयः, जरायुजा मनुष्यादयः, उद्भिज्जा वृक्षादयः, संकल्पजाः सनकादयः सासिद्धिका मन्त्रतपआदिसिद्धिजाः रक्तबीजशरीरोत्पन्नदेहाः। तथा च सांख्यसूत्रम्-`उष्मजाण्डजजरायुजोद्भिज्जसांकल्पिकसांसद्धिकं चेति न नियमः' (अo 5 सूo 111।) द्रष्टव्यञ्चात्रत्यं भाष्यम्।
शाब्दबोधः-शब्दप्रमापजन्या प्रमितिः= पौरुषेयो बोधः शाब्दबोधः।
शुकवत्- यथा शुकपक्षी व्याधस्य गुणं रज्जुभिर्बद्धो भवति, स्वीयैरेव वा मनोज्ञरूपमधुरशब्दरूपैर्गुणैर्निमित्तैर्बन्धनं प्राप्नोति, तथैव विवेकिजनोऽपि रागिजनसङ्गं प्राप्य तद्गुणै रागद्वैषादिभिर्बद्धो भवति। अतो रागिजनसङ्गो न कर्तव्यः। (द्रo साo प्रo भाo अo 4 सूo 26।)
शेषवत्-व्यतिरेकानुमानं शेषवत्। शेषोऽपूर्वोऽर्थोऽस्य विषयत्वेनास्तीति शेषवत्, अप्रसिद्धसाध्यकमिति यावत्। यथा, पृतिवीत्वेन इतरभेदानुमानम्। पृतिवीतरभेदो हि प्रागप्रसिद्धः (द्रo सांo प्रo भाo अo 1 सूo 103।)
श्येनवत्- यथा हि सामिषः श्येनः केनाप्यपहत्य आमिषाद् वियोज्य दुःशी क्रियते, स्वयं चेत् त्यजति तदा दुःखाद् विमुच्यते। तथैव द्रव्याणां स्वयं त्यागेन लोकः सुखी भवति, परद्वारा वियोगेन च दुःशी भवति। अतः परिग्रहो न कर्तव्यः (द्रo सांo प्रo भo अo 4 सूo 5।)
षट्पदवत्- पुष्पेभ्यो यथा षट्पदः सारमेवादत्ते तथैव शास्त्रगुरुभ्यः सारमेव गृह्लीयात्। (सांoदo अo 4 सूo 13।)
सत्कार्यवादः-कारणव्यापारादूर्ध्वमिव कारणव्यापारात् पूर्वमपि कार्यं सदेव भवति न तु वैशेषिकादिवत् असत् इति सांख्यसिद्धान्तः। यथा तिलेष्ववस्थितस्यैव तैलस्याविर्भावो भवति, तद्वत्।
सत्ख्यातिः- `अत्यन्तसतः ख्यातिः सत्ख्यातिः इत्यपि न सांख्याभिमतम्। यदि गुणादयोऽत्यन्तसन्तो भासेरन् तदा विनाशकाले तेषां बाधो न दृश्येत।
सद्सत्ख्यातिः-सदसत्ख्यातिरेव सर्वैषां गुणादीनामिति सांख्यसिद्धान्तः। कुतः? बाधाबाधभावात्। तत्र स्वरूपेणाबाधः सर्वस्तूनां, नित्यत्वात्। संसर्गतस्तु बाधः सर्ववस्तूनां चैतन्येऽस्ति। यथा लौहित्यं स्वरूपतः क्वचिदस्ति किन्तु संसर्गतस्तु तत् स्वेतपटे नास्ति।
न च सत्त्वासत्त्वयोर्विरोध इति शङ्कनीयम्, प्रकारभेदेनाविरोधात्। यथा हि लौहित्यं बिम्बरूपेण सत् स्फटकगतप्रतिबिम्बरूपेण च असत् इति दृष्टम्। यथा वा रजतं वणिग्वीथिस्थरूपेण सत् शुक्त्यध्यस्तरूपेण चासत्। तथैव सर्वं जगत् स्वरूपतः सत्, चैतन्यादावध्यस्तस्वरूपेण चासदिति। एवमवस्थाभेदेनापि सदसत्त्वमविरुद्धम्। यथाहि वृक्षादिः प्ररूढाद्यवस्थाभिः सन्नपि अङ्कुराद्यवस्थाभिरसन् भवति, तथैव प्रकृत्यादिकं सदसदात्मकमिति। तदुक्तम्-
अव्यक्तं कारणं यत् तन्नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ।। इति।
(द्रo सांo प्रo भाo अo 5 सूo 56।)
सम्बन्धः- व्याप्तिः। तथा च सांख्यसूत्रमीश्वरप्रकरणे-सम्बन्धाभावन्नानुमानम्(अo 5 सूo 11।)
सर्पवत्- यथा सर्पः स्वयं गृहं न निर्माति, परगृहे एव सुखी शेते, तथैव स्वभोगार्थमारम्भो नैवकर्तव्यो योगप्रतिबन्धकत्वात्। तदुक्तम्-
गृहारम्भो हि दुःकाय न सुखाय कथञ्चन।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ।। इति।
(द्रo सांo प्रo भाo अo 4 सूo 12।)
सर्वैश्वर्यम्- असंय सर्वैश्वर्यवाद एकेश्वरवादप्रतिरोधी सांख्याभिमतः। पुरुषाणां चितामानन्त्यात् स्वतोनित्यमुक्तत्वाच्च, अखिलभोक्तृसंयोगादेव प्रधानेन महदादिसर्जनाच्चेति। (द्रo सांo प्रo भाo अo 5 सूo 5।)
साक्षी- प्रमाता, माक्षाद्द्रष्टा। यस्मै प्रदर्श्यते विषयः स साक्षी। प्रकृतिरपि स्वविषयं पुरुषाय दर्शयतीति पुरुष- साक्षी। (द्रo सांo तo कौo काo19।) सांख्यसूत्रमपि यथा-`साक्षात् सम्बन्धात् साक्षित्वमिति (अo 1 सूo 161)। अतः साक्षात्सम्बन्धाद्धतोः पुरुषो' बुद्धेरेव साक्षी, अन्येषां तु विषयाणां द्रष्टृमात्रमस्तीति।
सादृश्यम्-सादृश्यं न तत्त्वान्तरम्, न वा वस्तुनः स्वाभाविकशक्तिविशेषः, किन्तु भूयोऽवयवसामान्ययोगो हि सादृश्यम्। (द्रo सांo दo अनिo वृo अo5 सूo 95-95।)
संज्ञासंज्ञिसम्बन्धज्ञानहेतुः सादृश्यमिति केचिद् वदन्ति। तदपि व्यभिचारादुपेक्षणीयमेव। सादृश्याभावेऽपि उपदेशादेः संज्ञासंज्ञिसम्बवन्धस्य निश्चयात्। (द्रष्टव्यं तत्रैव सूo 96।)
सामान्यम्- अस्ति तावदेकाकारबुद्धिहेतुः सामान्यम् किन्तु अनित्यमिति सांख्यमतम् (द्रo सांo दo अनिo वृo अo 5 सूo 91-92 ।) तच्च सामान्यं नान्यापोहरूपम्, घटोऽयमिति भावत्वेन प्रतीतेः। अन्यथा ` अयं घट' इति स्थाने `नायमघट' इत्येव ऽतीयेत। किञ्च `अघटव्यावृत्ति' रित्यत्र अघटत्वं घटसामान्यभिन्नत्वमिति सामान्याभ्युपगम एवापतितोऽपोहवादिनां शिरसि। (द्रo सांo प्रo भाo अo 5 सूo 93।)
सामान्यतोदृष्टम्- पूर्ववच्छेषवदुमयभिन्नमनुमानं सामान्यतोदृष्टम्। यथा रूपादिज्ञाने क्रियात्वेन हेतुना करणवत्वानुमानम्। (द्रo सांo प्रo भाo अo1 सूo 103।)
अदृष्ठस्वलक्षणसामान्यविषयमनुमानं सामान्यतोदृष्टमनुमानमिति वाचस्पतिमिश्राः। (सांo तo कौo काo 5।)
साम्यावस्था- गुणानामकार्यावस्था। इयमेव स्वरूपपरिणाम इत्युच्यते।
सांसिद्धिकम्-स्वाभाविकम्।
सिद्धिः-अष्टप्रकारा भवति। तथा चोक्तं सांख्यकारिकायाम्-ऊहः शब्दोऽध्यायनं दुःकविघातास्त्रयः सुहृत्प्राप्तिः। दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ।। इति। (सांo काo 51।) अत्र विहन्यमानम्य दुःखस्य त्रित्वात् तद्विघातास्त्रय इतीमाः मुख्यास्तिस्रः सिद्धयः। इतरास्तु तदुपायतया गौण्यः पञ्च सिद्धयः।
तत्रोहस्तर्कः-आगमाविरोधन्यायेन आगमार्थपरीक्षणम्। इदमेव मननमित्याचक्षते आगमिनः। इयं सिद्धिः तारतारमित्युच्यते। शब्दः अर्थात् शब्दजनितमर्थज्ञानं द्वितीया सिद्धिः सुतारमित्युच्यते।
एवं विधिवद् गुरुमुखादध्यात्मविद्यानामक्षरस्वरूपग्रहणमध्ययनसंज्ञिका सिद्धिः तारमित्युच्यते।
न्यायेन स्वयं परीक्षितमप्यर्थं न श्रद्धत्ते यावद् गुरुशिष्यसहपाठिभिः सह न संवाद्यते। अतः सुहृदां गुरुशिष्यसहपाठिनां संवादकानां प्राप्तिः सुहृत्प्रप्तिः सा सिद्धिश्चतुर्थी रम्यकमित्युच्यते। दानं च शुद्धिर्विवेकज्ञानस्य। शुद्धिश्च सवासनसंशयविपर्यासानां रिहारेण विवेकसाक्षात्कारस्य स्वच्छप्रवाहेऽवस्थापनम्। अत्र विवेकज्ञानरूपकार्येण तत्कारणीभूतो दीर्घकालादरनैरत्नर्यसेविताभ्यासपरिपाकोऽपि दानपदेन संगृहीतो भवति। सेयं पञ्चमी सिद्धिः सदामुदितमुच्यते।
पूर्वोक्ताः तिस्रो मुख्याः सिद्धयः प्रमोदमुदितमोदमानसंज्ञादिभिः परिभाष्यन्ते। इत्यष्टौ सिद्धयः। (द्रo सांo तo कौo काo 51।) । एषां पारिभाषिकशब्दानां व्याख्यानान्तराण्यपि विलोकनीयानि सांख्यप्रवचनभाष्ये युक्तिदीपिकादौ चेति तत एव विस्तरोऽनुसन्धेयः।
सूक्ष्मभूतानि- स्थूलभूतातिरिक्तानि सूक्ष्मभूतान्यपि भवन्तीति वृत्तिकाराः। (द्रo सांo दo अनिo वृo अo 1 सूo 61।) एतान्येव पार्थिवादिपरमाणवः। तत्र `आद्यहेतुता तद्द्वारा पारम्पर्येणाणुवत्।' इति सूत्रमपि प्रमाणम्। (सांo दo अo 1 सूo 74।) गौडपादाचार्येणापि सांख्यकारिकाभाष्ये सिद्धान्तोऽयमभ्युपगतः तदुक्तम्-पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्युत्पद्यन्त इति। (द्रo सांo काo भाo काo 22।)
विज्ञानभिक्षुस्तु पञ्चतन्मात्राण्येव सूक्ष्मभूतानीत्याह। तदुक्तम्-स्थूलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् इति। (सांo प्रo भाo अo 1 सूo 61।)
सूक्ष्मशरीरम्- अष्टादशमिस्तत्त्वैः सूक्ष्मशरीरमारभ्यते। इदमेव लिङ्गशरीरम्। द्रष्टव्यो लिङ्गशरीरशब्दविचारः।
सूदवत्-यथा पाके निष्पन्ने पाचकस्य व्यापारो निवर्तते तथैव पुरुषार्थसमाप्तौ प्रधानस्य सृष्टर्निवर्तत इति।
सृष्टिः-रागनिमित्ता सृष्टिः वैराग्यनिमित्ता च मुक्तिः।
सृष्टिप्रयोजनम्- आत्मा स्वभावविमुक्तः, तस्याभममानिकबन्धविमोक्षार्थ प्रधानस्य जगत्कर्तृत्वम् बन्धविमोक्षश्च हेयस्यैकविंशतिप्रकारस्य दुःखस्य हानम्। एविंशतिप्रकारं दुःखञ्च-शरीरं, षडिन्द्रियाणि, ष़ड्विषयाः, षड्बुद्धयः, सुखं, दुःखञ्चेति। तत्र शरीरं दुःखायतनत्वाद् दुःकम्। इन्द्रियाणि, विषया, बुद्धयश्च दुःशसाधनभावात्। सुखमपि दुःखानुषङ्गात् दुःखम्। दुःखं तु यातनापीडासन्तापात्मकं मुख्यत एव दुःखमिति। दुःखहानञ्चात्यन्तिकी दुःखोत्पत्तिनिवृत्तिः। तस्योपाय आत्मविषयकं तत्त्वज्ञानम्। तथा च श्रुतिः-`आत्मा वा अरे द्रष्टव......तरति शोकमात्मवित्' इत्यादिः। तस्यात्मनो विवेकज्ञानाय प्रकृतेः प्रवृत्तिरिति परार्था प्रधानस्य सृष्टिप्रवृत्तिः। स्वार्था च प्रधानस्य जगत्सृष्टिः। तथाहि, यं पुरुषं प्रत्यात्मानं विवेकेन दर्शितवती तं प्रत्युदास्ते प्रकृतिरिति। (द्रo सांo दo अनिo वृo अo 2 सूo 1।)
सृष्टिप्रलयौ- साम्यात्= प्रकृतेः सदृशपरिणामात् प्रलयः। तथा वैषम्यात्=प्रकृतेर्महदादिभावेन विसदृसपरिणामात् सृष्टिः तथा च सांख्यसूत्रम्-साम्यवैषम्याभ्यां कार्यद्वयम्(अo 6 सूo 42।)
सृष्टौ महदादीनां स्वार्थाभावः- सृष्टिर्हि पुरुषार्था भवति अतो महदादयो न स्वार्थाय सृष्टिमारभन्ते। प्रकृतेस्तु नित्यत्वात् तस्याः स्वार्थायारभ्यो युज्यते। महादादीनान्तु अनित्यत्वात् कारणलयेन नाशात् सृष्टिमात्रं न तु कश्चित् स्वार्थः ।(द्रo साo दo अनिo वृo अo 2 सूo 11।)
संस्कारैक्यम्-येन संस्कारेण मानवादिशरीरभोग आरब्धः, स एक एव संस्कारः तच्छरीरसाध्यस्य समग्रप्रारब्धभोगस्य समापकः। स च भोगसमाप्तिनाश्यः, न तु प्रतिक्रियम्= प्रतिभोगव्यक्ति संस्कारनानात्वम्, कल्पनागौरवप्रसङ्गात्। कुलालचक्रभ्रमणस्थलेऽपि एक एव वेगाख्यः संस्कारो भ्रमणसमाप्तिपर्यन्तस्थायी बोध्यो न तु वेगात् संस्कारः, संस्काराच्च पुनर्वेग इति संस्कारनानात्वमस्तीति। (द्रo सांo प्रo भाo अo 5 सूo 127।)
स्थूलशरीरम्-
मातापितृभ्यां समुत्पन्नं षाट्कौशिकम्। तत्र मातृतो लोमलोहितमांसानि, पितृतश्च स्नाय्वस्थिमज्जान इति षट्कोशाः। (द्रo सांo तo कौo काo 39।) गौडपादास्तु पृष्टोदरजङ्घाकट्युरः शिरः प्रभृतिषट्कोशाः। द्रष्टव्यमुक्तकारिकाया भाष्यम्।
स्फोटः-प्रत्येकवर्णभ्योऽतिरिक्तं `कलश' इत्याकारकमखण्डमेकपदं स्फोट इति वैयाकरणैर्योगैश्चाभ्युपगम्यते। यथा कम्बुग्रीवाद्यवयवेभ्योऽतिरिक्तो घटाद्यवयवी पर्तीयते स च शब्दविशेषः पदाख्योऽर्थस्फुटीकरणात् `स्फोट' इत्युच्यते।
स च स्फोटात्मकः शब्दो न सांख्यैरभ्यिपगम्यते। यतो हि स स्फोटः प्रतीयमानः सन् अर्थं प्रत्याययाति उताप्रतीयमानः सन्? आद्ये सा स्फोटप्रतीतिनं श्रावणप्रत्यक्षरूपा, अननुभवात्, किन्तु अभिव्यक्तिरूपैव स्वीकार्या। एवञ्चयेन वर्णसमुदायेनानुपूर्वीविशेषविशिष्टेन स्फोटोऽभिव्यज्यते, तस्यैवार्थपर्त्यायकत्वमस्तु, किमन्तर्गडुना स्फोटेन? द्वितीये तु अज्ञानतस्फोटस्य नास्त्यर्थप्रत्यायनशक्तिरिति व्यर्था स्फोटकल्पनेति । (द्रo सांo प्रo भाo अo 8 सूo 57।)
स्वकर्म- स्वाश्रमविहिकर्मानुष्ठानम्।
स्वतः प्रामाण्यम्- वेदानां स्वाभाविकी या यथार्थज्ञानजननशक्तिः, तस्या मन्त्रायुर्वेदादावुपलम्भात् समस्तवेदानां स्वत एव प्रामाण्यं न तु वक्तृयथार्थज्ञानाधीनम् । (द्रo सांo प्रo भाo अo 5 सूo 51।)
अनिरुद्धोऽपि आह-निजशक्तिज्ञानजनकसामग्रीमात्राधीनं प्रामाण्यं न तु अधिकं गुणमपेक्षते नैयायिकवत्। इदमुत्पत्तिपक्षे। ज्ञप्तिपक्षेऽपि-औत्सर्गिकी ज्ञानग्राहकाणां प्रामाण्यबोधशक्तिः। अप्रामाण्यन्तु परतः, तत्र दोषस्यापि कारणत्वात् (द्रo सांo दo अनिo वृo अo 8 सूo 51।)
स्वरूपं न शक्तिः- यदि स्वरूपं शक्तिस्तदा `शक्तो मल्ल' इत्युक्तौं पुनरुक्तदोषः स्यात् देवदत्तो देवदत्त इतिवत्। तथा शक्तो मन्त्र इति विशेषणमनर्थकं च स्यात्। तथा च निजा चासौ शक्तिश्चेति निजशक्तिः न तु स्वरूपमेव शक्तिरिति सिद्धान्तः। (द्रo साo दo अनिo वृo अo 5 सूo 33, 34, 36)।
स्वालक्षण्यम्- स्वं स्वं लक्षणम्= असाधारणीवृत्तिः अध्यवसायाभिमानसङ्कल्परूपा येषां तानि स्वलक्षणानि महदहङ्कारमनांसि, तेषां भावः स्वालक्षण्यम्। तदेव स्वं स्वं लक्षणमध्यवसायादिरूपं महदहङ्कारमनसां वृत्तिरस्तीति। (द्रo सांo तo कौo काo 29।)
हंसक्षीरवत्- यथा दुग्धजलयोरेकीभावमापन्नयोर्मध्योऽसारजलत्यागेन सारभूतक्षीरोपादानं हंसस्यैव भवति न तु काकादेः। तथैव विरक्तस्यैव हेयानां प्रकृत्यादीनां हानम्, उपादेयस्य चात्मन उपादानं संभवति नाविरक्तस्य। ( द्रo सांo प्रo भाo अo 4 सूo 23) इति शिवम्।
सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराऽभिधे।
जनिंस्त्रिपाठिनो लब्ध्वा रामादेर्यो विहारिणः।।
न्यायव्याकरणे श्रीमत्सूर्यनारायणाद् गुरोः।
वेदान्तं विश्रुताच्छ्रुमीद्धरिहरकृपालुतः।।
श्रुत्वा वादविदग्रणीः स विदितः केदारनाथः कृती।
सांख्याभीष्टरहस्यमत्र प्रकटीकर्तुं समीहाभृतः।।
शून्याग्न्यभ्रकलोचनैः परिमिते संवत्सरे वैक्रमे।
माघे मासि सिते ह्यपूरयदिमं कोशं मुदा कापिलम् ।।
इति श्रीमदाचार्यकेदारनाथत्रिपाठिप्रणीतः सांख्यकोशः पूर्णः ।
---------------