सामग्री पर जाएँ

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः

विकिस्रोतः तः
सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः
शङ्कराचार्यः
१९१०
॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः ।।

अखंडानंदसबोधो वंदनाद्यस्य जायते ।
गोविंदं तमहं वदे चिदानदतनु गुरुम् ॥ १ ॥
अखंड सच्चिदानदमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥
यदालंबो दरं हन्ति सतां प्रत्यूहसभवम् ।
तदालबे दयालब लंबोदरपदांबुजम् ॥ ३ ॥
वेदान्तशास्त्रसिद्धान्तसारसग्रह उन्यते ।
प्रेक्षावतां मुमुक्षूणा सुखबोवोपपत्तये ॥ ४ ॥
अस्य शास्त्रानुसारित्वादनुबंधचतुष्टयम् ।
यदेव मूल शास्त्रस्य निर्दिष्ट तदिहोन्यते ।। ५ ।।
अधिकारी च विपयः सबधश्च प्रयोजनम् ।
शास्त्रारभफल प्राहुरनुवधचतुष्टयम् ॥ ६ ॥
चतुर्मिः साधनैः सम्यक्संपन्नो युक्तिदक्षिणः
मेधावी पुरुषो विद्वानधिकार्यत्र संमतः ॥ ७ ॥
विषयः शुद्धचैतन्यं जीवबौक्यलक्षणम् ।
यत्रैव दृश्यते सर्ववेदान्ताना समन्वयः ॥ ८॥
एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः ।
संवध. कथ्यते सद्भिर्योध्यवोधकलक्षणः ॥ ९ ॥
ब्रह्मात्मैकत्वविज्ञान सन्तः प्राहुः प्रयोजनम् ।
येन निःशेषससारवंधात्सद्यः प्रमुच्यते ।। १० ॥
प्रयोजन संप्रवृत्ते कारण फललक्षणम् ।
प्रयोजनमनुदिइय न मदोऽपि प्रवर्तते ।। ११ ॥
साधनचतुष्टयसंपत्तिर्यस्यास्ति धीमतः पुंसः ।

तस्यैताफलमिदिनीन्यग्य किचिनम्य ॥ १ ॥
चावारि माधनान्यत्र बटान्ति पाया।
मुनिया नु महाो नाभा मिष्यनि बम ॥ १ ॥
आद्य निन्यानियवार्षिक साधन मन |
रहामुनापाटभोगविरागी हितापपग ॥ १४ ॥
समादिषटकनातिनुतीय माधणे मान
नुर्ग । गमक्ष साधन मारमगाम } " |
घंटर नियन्यानिमिति बटनमा
मोऽय निन्यानि पयानुनिक निकाल्यो । १६ ॥
मृदादिकारण निन्य निए मान्य दर्शनात् ।
चटानिय तकार्य यतननामयन ॥10॥
नवंतजगासमनिय मानः !
नमारण पराभवानियमादियन ॥१८॥
नग अन्याय नामा एनागादिन्याप नि ।
मकामारणामामाटनियन्य न मायः ॥ १९ ॥
मर्यग्यानित्यन्त्र मायश्वयन मन मिले।
वकुटादि नियत्वमनिमम एय मुदबुमानाम }
अनिन्यन्त्र च नित्य वगेव यमुनियुनिमि ।
विवचन नियानित्यधिवक इति कथ्यत 11,
रिकामुष्मिकार्येषु छानिन्यत्येन निधया।
नटर तुम्छमुदया यत्तदैग मितीर्यन || २ ||
नित्यानित्यपदार्थविवेकान्पुरपाय जायत सद्यः ।
बक्चदनवनिताटी सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३ ॥
काकस्य विष्टावदसहाबुद्धिर्भाग्येषु मा तावविरनिरिष्यते !

प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ॥२४॥
विरक्तितीवत्वनिदानमाहुर्नोग्येषु दोषक्षेणमेव सन्तः ।
अन्तर्महारोगवती विजानन्को नाम वेश्यामपि रूपिणी व्रजेत् ॥२५॥
अत्रापि चान्यत्र च विद्यमानपदार्थसमर्शनमेव कार्यम् ।
यथाप्रकारार्थगुणाभिमर्शनं सदर्शयत्येव तदीयदोषम् ॥ २६ ॥
कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थिति तदा विक्रिमिदंशनं च ।
तदीयकौक्षेयकवह्निदाहं विचार्य को वा विरतिं न याति ॥ २७॥
स्वकीयविण्मूत्रणिविसर्जन तच्चोत्तानगत्या शयन तदा यत् ।
बालग्रहाद्याहतिभाक्च शैशव विचार्य को वा विरतिं न याति ॥२८॥
स्वीयैः परैस्ताडनमज्ञभावमत्यतचापल्यमसक्रियां च ।
कुमारभावे प्रतिषिद्धवृत्तिं विचार्य को वा विरतिं न याति ।। २९ ॥
मदोद्धति मान्यतिरस्कृतिं च कामातुरत्व समयातिलधनम् ।
तां तां युवत्योदितदुष्टचेष्टा विचार्य को वा विरतिं न याति ॥३०॥
विरूपतां सर्वजनादवज्ञा सर्वत्र दैन्य निजबुद्धिहैन्यम् ।
वृद्धत्वसभावितदुर्दशां ता विचार्य को वा विरतिं न याति ।। ३१ ॥
पित्तज्वराशःक्षयगुल्मशूलश्लेष्मादिरोगोदिततीवदुःखम् ।
दुर्गधमस्वास्थ्यमनूनचिंता विचार्य को वा विरतिं न याति ॥ ३२ ।।
यमावलोकोदितभीतिकंपमर्मव्यथान्छासगतीश्च वेदनाम् ।
प्राणप्रयाणे परिदृश्यमाना विचार्य को वा विरतिं न याति ॥ ३३ ॥
अंगारनद्यां तपने च कुभीपाकेऽपि वीन्यामसिपत्रकानने ।
दूतैर्यमस्य क्रियमाणबाधा विचार्य को वा विरतिं न याति ।। ३४ ॥
पुण्यक्षये पुण्यकृतो नभःस्थैर्निपात्यमानाशिथिलीकृतागान् ।
नक्षत्ररूपेण दिवश्युतांस्तान्विचार्य को वा विरतिं न याति ॥३५१६
वाय्वर्कवह्नींद्रमुखान्सुरेद्रानाशोग्रभीत्या प्रथितातरगान् ।

विपक्षलाफै परिदृयमानान्विचार्य को ना वितिं न यानि ॥२८॥
श्रुत्या निरनं मुग्यतारनम्प प्रभातमारन्य मनोनार ।
औपाधिक तनु न बारनर चढालार को बानि न यानि ॥१७॥
सालोक्यमामीप्यमापनादिभदस्त मार्गविशेषगमः ।
न कर्मनिदस्य दुनिव्वनि रिचाय की वारितिं न यानि ॥२८॥
यत्रास्ति लोके गनिनारतम्य उजावावाधिनमा सनम !
यह नहर दुग्यमानीयानोन्य को या विनि न पानि ॥३९॥
को नाम लोक पुरषा विचकी विनश्वन मग गादी।
युयानि नियमनमाणा गर्थव माहन्मियमाणानन ॥४०
मुग्य किमा यत्र विचार्यमाणं गृहऽपि या योपिनि या पार्थे ।
मायानमोऽधानमनपा य त र मुन्ति विकरायाः ॥ १॥
अविचारितरमणीय नायरफलापम माया ।
अज्ञान'नुपभीन्य न तु नाना योपिनि वा पदाः ॥१२॥
गतेऽपि नोये मुपिर कुलींग हानु मानी मियन विमास ।
यथा तथा गहमुखानुरनी विनाममायानि नगे अंगण ॥४३॥
कोगक्रिमिन्नतुभिगमंहमावेष्टय चविष्टय च गुमिमिन्टन ।
स्वय विनिर्गन्तुमगन ग्य मलाग्नटन निगराने च नमः ॥ ४४||
यथा तथा पुत्रकम्वमित्रग्नेहानुथिनी गृहस्थः ।
कटापि वा तान्पम्मुिन्य गहागन्तु न गनी भियत गुधैव ॥४५॥
कारागृहग्याम्य च को विशेष प्रभ्यते साधु विचार्यमाणे ।
मुक्ते प्रतीपत्वमिहापि पुन' कांतामुखाभ्युन्थिनमाहपागः ॥४६॥
गृहस्पृहा पादनिवदशृग्याला कातामुताशा पटुफटपाम ।
शीर्षे पतर्यगनिहिं साक्षात्प्राणान्तहेतु प्रवला धनागा ||४७||
आगापागगतेन पाशितपदो नोस्थातुमेव क्षमः
कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिगम् ।

 संमोहावरणेन गोपनवतः ससारकारागृहा-
  निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु १४८॥
कामांधकारेण निरुद्धदृष्टिर्मुहत्यसत्यप्यबलास्वरूपे ।
न ह्यधदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥४९॥
श्लेष्मोद्गारि मुखं स्त्रवन्मलवती नासाश्चमल्लोचनं
 स्वेदस्रावि मलाभिपूर्णमभितो दुर्गंधदुष्ट वपुः ।
अन्यद्वक्तुमशक्यमेव मनसा मन्तु कचिनार्हति
 स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥५॥
दूरादवेक्ष्याग्निशिखा पतंगो रम्यत्वबुद्धया विनिपत्य नश्यति ।
यथा तथा नष्टहगेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥५१॥
कामेन कान्तां परिगृह्य तहजनोऽप्यय नश्यति नष्टदृष्टिः ।
मांसास्थिमज्जामलमूत्रपात्रं स्त्रिय स्वय रम्यतयैव पश्यति ॥५२॥
काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥५३॥
यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति ।
किंचित्समालोक्य तु तद्विराम सुखात्मना पश्यति सूढलोक' ॥५४||
यमस्य कामस्य च तारतम्य विचार्यमाणे महदस्ति लोके ।
हित करोत्यस्य यमोऽप्रियः सन्कामत्वन कुरुते प्रियः सन् ॥५५॥
यमोऽसतामेव करोत्यनर्थं सता तु सौख्यं कुरुते हितः सन् ।
“कामः सतामेव गति निधन्करोत्यन) हसता नु का कथा ॥५६॥..
विश्वस्य वृद्धि स्वयमेव कांक्षन्मवर्तक कामिजन ससर्ज ।
तेनैव लोकः परिमुह्यमानः प्रवर्धते चद्रमसेव चाब्धिः ॥५७॥
 कामो नाम महाञ्जगद्रमयिता स्थित्वांतरंगे स्वयं
  स्त्रीपुसावितरेतरांगकगुणैर्हासैश्च भावैः स्फुटम् ।
 अन्योन्यं परिमोह्य नैजतमसा प्रेमानुवधेन तौ

बदा भारयति प्राचायना मया ५६
अनोऽनश्चितकामगादीय प्रातिपक्षिा ।
मर्वम्य जतधिनान्यथा चोगिता का प्रतिः ३५.९॥
तेनेव सर्व जगनां कामना बटनग ।
जार्यन्यपि च देpिaiमना मेरमाया ॥६॥
अन्य विषये दोष बुलियुगी पिनरण ।
कामपागेन योगन म पधि गोलर १६१||
कामम्य विजयोपाय सूमन व पाहगतान ।
मकापन्य परियाग उपाय मुभी गा ||२||
सुने होऽपि वा भो ये नियमित यानि ।
ममीचीनधान्यागाकानी नोटेनि काशित
कामभ्य बीज मरूप नकगंदवनात
वीज नटंर इस मिनट विनम्पनिया
न कोऽपि मम्यायरिया विनय भी य नर मामयितु मार्थः ।
यतस्तन कामजये होना नम्पन युलिपियो निन्यारा ॥६५||
भोन्ये नर कामनये ना मुपवयनि विषय निग्यान ।
याव मुम्बबभ्रमवीः पदार्थे नायजेनु गालि कागम् ॥६६॥
माल्पानुदय हेतुर्यथाभूनानदर्शनम ।
अनर्थचिंतन चाम्या नाकागाडग्य गिने ||७||
गन्ने यदि गिलाबुदियित या मय नन ।
समीचीनवधानति नापांदयावापि ॥८॥
यथार्थदर्शन वस्तुन्यनर्थयापि चिननग ।
सकन्यस्यापि कामग्य तधोपाय टप्यते ॥६॥
धन भयनिवधन सतत बसवर्धन
प्रचडतरफहन फुटितयधुनबर्धनम् ।

विशिष्टगुणबाधनं कृपणधीसमाराधनं
न मुक्तिगतिसाधनं भवति नापि हृन्छोधनम् ॥७०॥
राज्ञो भयं चोरभय प्रमादाद्भयं तथा ज्ञातिभय च वस्तुतः ।
धन भयग्रस्तमनर्थमूल यतः सतां नैव सुखाय कल्पते ॥७१॥
अर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नृणां न धन सुखसाधनम् ॥७२॥
सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभात्तस्मिल्लुप्ते विनश्यति ।।७।।
दहत्यलाभे निःस्वत्वं लाभे लोभी दहत्यमुम् ।
तस्मात्संतापक वित्त कस्य सौख्य प्रयच्छति ॥७४||
भोगेन मत्तता जतोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्त नारत्येव गतिरन्यथा १७५||
धनेन मददृद्धिः स्यान्मदन स्मृतिनाशनम् ।
स्मृतिनाशामुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥७६॥
सुखयति धनमेवेत्यंतराशापिशान्या
दृढतरमुपगूढो मूढलोको जडात्मा ।
निवसति तदुपान्ते सतत प्रेक्षमाणो
व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ७७||
संपन्नोंऽधवदेव किंचिदपरं नो वीक्षते चक्षुपा
सद्भिर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः ।
तस्मिन्नेव मुहुः स्खलन्प्रतिपद गत्वान्धकूपे पत-
त्यस्यांधत्वनिवर्तकौपधमिदं दारिद्रयमेवांजनम् ॥७॥
लोभः क्रोधश्च दंभश्च मदो मत्सर एव च ।
वर्धते वित्तसप्राप्त्या कथ तच्चित्तशोधनम् ॥७९॥
अलाभाद्विगुणं दुःख वित्तस्य व्ययसभवे ।

ततोऽपि त्रिगुण दुःख दुर्व्यये विदुषामपि १८०॥
नित्याहितेन वित्तेन भयचितानपायिना ।
चित्तस्वास्थ्य कुतो जतोहस्थेनाहिना यथा ॥ ८१ ॥
कांतारे विजने वने जनपदे सेतौ निरीतौ च वा
चौरैपि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनै.
क्लिनात्येव धनी सदाकुलमतिर्भातश्च पुत्रादपि ॥ ८२ ॥
तस्मादनर्थस्य निदानमर्थ' पुमर्थसिद्धिर्न भवत्यनेन ।
ततो बनान्ते निवसन्ति सन्तः सन्यस्य सर्व प्रतिकूलमर्थम् ॥ ८३ 11
श्रद्धाभक्तिमती सती गुणवतीं पुत्राश्रुतान्समता-
नक्षय्य वसुधानुभोगविभवै. श्रीसुदर मदिरम् ।
सर्व नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभियुक्तिभिः
सन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ।। ८४ ॥
मुखमिति मलराशौ ये रमन्तेऽत्र गेहे
क्रिमय इव कलत्रक्षत्रपुत्रानुपक्त्या ।
सुरपद इव तेपा नैव मोक्षप्रसग-
स्त्वपि तु निरयगर्भावासदुःखप्रवाह. ॥ ८५ ॥
येषामागा निराशा स्याद्दारापत्यधनादिषु ।
तेपा सिध्यति नान्येपा मोक्षाशाभिमुखी गतिः ॥ ८६ ॥
सत्कर्मक्षयपाप्मना श्रुतिमता सिद्धात्मना धीमता
नित्यानित्यपदार्थशोधनमिद युक्त्या मुहुः कुर्वताम् ।
तस्मादुत्थमहाविरक्त्यसिमता मोक्षककाक्षावतां
धन्याना सुलभ स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७ ।।
संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके ।
कान्ता च जिह्वा कनक च तानि रुणद्धि यस्तस्य भय न मृत्योः ।।

मुक्तिश्रीनगरस्य दुर्जयतर द्वार यदस्यादिमं
 तस्य द्वे अररे धन च युवती ताभ्यां पिनद्रं दृढम् ।
कामाख्यार्गलदारुणा बलवता द्वार तदेतत्त्रय
 धीरो यस्तु भिनत्ति सोऽर्हति सुख भोक्तु विमुक्तिश्रियः॥८९॥
 आरूढस्य विवेकाश्व तीववैराग्यखगिनः ।
 तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥
 विवेकजां तीव्रविरक्तिमेव, मुक्तेनिदान निगदन्ति सन्तः |
 तस्माद्विवेकी विरतिं मुमुक्षुः सपादयेत्तां प्रथमं प्रयत्नात् ॥२१॥
 पुमानजातनिर्वेदो देहबध जिहासितुम् ।
 न हि शक्नोति निर्वेदो बधभेदो महानसौ ।। ९२ ।।
 वैराग्यरहिता एव यमालय इवालये |
 क्लिश्नन्ति त्रिविधैस्तापोहता अपि पडिताः ॥ ९३ ॥
 शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् ।
 समाधानमिति प्रोक्तं षडेवैते शमादयः ।। ९४ ।।
 एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः ।
 शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥
 उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा ।
 निरूपितो विपश्चिद्भि. तत्तल्लक्षणवेदिभिः ।। ९६ ।।
 स्वविकारं परित्य य वस्तुमात्रतया स्थितिः ।
 मनसः सोत्तमा शांतिब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥
 प्रत्यक्प्रत्ययसतानप्रवाहकरण धियः ।
 यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ।। ९८ ॥
 विषयव्यापृतिं त्यक्त्वा श्रवणैकमन स्थिति ।
 मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा || ९९ ॥
 प्रान्योदीच्यांगसद्भावे शमः सिध्यति नान्यथा ।

तीवा विरक्ति. प्राच्यागमुदीच्यांगं दमादयः ॥ १००
कामः क्रोश्च लोभश्च मदो मोहश्च मत्सरः ।
न जिताः षडिमे येन तस्य शान्तिन सिध्यति ॥ १०१ ॥
शब्दादिविषयेभ्यो यो विपवन्न निवर्तते ।
तीवमोक्षेन्छया भिक्षोस्तस्य शान्तिन सिध्यति ।। १०२ ।।
येन नाराधितो देवो यस्य नो गुर्वनुग्रहः ।
न वश्य हृदय यस्य तस्य शान्तिन सिध्यति ।। १०३ V ।
मन प्रसादसिद्ध्यर्थ साधन श्रूयता बुधैः ।
मनःप्रसादो यत्सत्त्वे,यदभावे न सिध्यति ॥ १०४ ।।
ब्रह्मचर्यमहिंसा च दया भूतेष्वकाता ।
विषयेष्वतिवैतृष्ण्य शौच दविवर्जनम् ॥ १०५ ॥
सत्य निर्ममता स्थैर्यमभिमानविसर्जनम्
ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थिति ॥ १०६ ॥
ज्ञानशास्त्रकपरता समता सुखदुःखयोः ।
मानानासक्तिरेकातशीलता च मुमुक्षुता ॥ १०७ ॥
यस्यैतद्विद्यते सर्व तस्य चित्त प्रसीदति ।
न त्वेतद्धर्मशून्यस्य प्रकारातरकोटिमि ॥ १०८ ॥
स्मरण दर्शन स्त्रीणा गुणकर्मानुकीर्तनम् ।
समीचीनत्वधीस्तासु प्रीतिः सभाषण मिथः ॥ १०९ ।।
सहवासश्च ससर्गोऽष्टधा मैथुन विदुः ।
एतद्विलक्षण ब्रह्मचर्य चित्तप्रसादकम् ॥ ११०
अहिंसा वाङ्मन कायै प्राणिमात्राप्रपीडनम् ।
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥
अनुकपा दया सैव प्रोक्ता वेदान्तवेदिभिः ।
करणत्रितयेष्वेकरूपतावाता मता ॥ ११२ ॥

ब्रह्मादिस्थावरान्तेषु वैराग्य विपयेष्वनु ।
यथैव काकविष्टायां वैराग्यं तद्धि निर्मलम् || ११३ ॥
बाह्यमाभ्यंतर चेति द्विविध शौचमुच्यते ।
मृजलाभ्यां कृतं गोचं बाह्य शारीरक स्मृतम् ॥ ११४ ।।
अज्ञानदूरीकरण मानस शौचमातरम् ।
अत गौचे स्थिते सम्यग्बाह्य नावश्यक नृणाम || ११५ ॥
ध्यानपूजादिक लोके द्रष्टर्येव करोति यः ।
पारमार्थिकधीहीन स दभाचार उन्यते ॥ ११६॥
पुंसस्तथानाचरणमदभिन्य विदुर्बुधाः ।
यत्स्वेन दृष्ट सम्यक्च श्रुत तस्यैव भाषणम् ॥ ११७ ॥
सत्यमित्युन्यते ब्रह्म सत्यमित्यभिभाषणम् ।
देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ।। ११८ ।।
निर्ममत्व स्मृत येन कैवल्य लभते बुधः ।
गुरुवेदान्तवचनैनिश्चितार्थे दृढस्थितिः ॥ ११९ ॥
तदेकवृत्त्या तस्थैर्य नैश्चल्य न तु वर्मणः ।
विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ।। १२० ।।
सजाताहकृतित्यागस्त्वभिमानविसर्जनम् ।
त्रिभिश्च करणै सम्यग्घित्वा वैपयिकी क्रियाम् || १२१ ।।
स्वात्मैकचिंतन यत्तदीश्वरध्यानमीरितम् ।
छायेव सर्वदा वासो ब्रह्मविद्भिः सहस्थितिः ।।१२२॥
यद्यदुक्त ज्ञानशास्त्रे श्रवणादिकमेषु यः ।
निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥१२३॥
धनकांतावरादीनां प्राप्तकाले सुखादिभिः ।
विकारहीनतैव स्यात्सुखदुःखसमानता ||१२४||
श्रेष्ठं पूज्य विदित्वा मां मानयन्तु जना भुवि ।

इत्यासक्त्या विहीनत्व मानानासतिरुच्यते ।।१२५||
सन्चितनस्य सबाधो. विन्नोऽय निर्जने ततः ।
स्थेयमित्येक एवास्ति चेत्सवैकान्तशीलता ॥१२६॥
ससारबधनिर्मुक्तिः कदा झटिति मे भवेत् ।
इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥१२७।।
ब्रह्मचर्यादिभिर्धमबुद्धर्दोपनिवृत्तये ।
दडन दम इत्याहुर्दमशब्दार्थकोविदाः ॥१२॥
तत्तवृत्तिनिरोधेन बाह्येद्रियविनिग्रहः ।
योगिनो दम इत्याहुर्मनस शातिसाधनम् ॥१२९॥
इद्रियेष्विद्रियार्थेषु प्रवृत्तेषु यदन्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥
इद्रियेपु निरुद्धेषु त्यक्त्वा वेग मन स्वयम् ।
सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥
प्रसने सति चित्तेऽस्य, मुक्ति सिध्यति नान्यथा ॥ १३१ ॥
मन प्रसादस्य निदानमेव निरोधन यत्सकलेद्रियाणाम् ।
बाह्येद्रिये साधु निरुध्यमाने बाह्यार्थभौगो मनसो वियुज्यते१३२
तेन स्वदौष्टय परिमुन्य चित्त शनैः शनैः शान्तिमुपाददाति ।
चित्तस्य बाह्याविमोक्षमेव मोक्ष विदुर्मोक्षणलक्षणज्ञाः।।१३३॥
दम विना साधु मन प्रसादहेतु न विझ' सुकर मुमुक्षोः ।
दमैन चित्त निजदोपजात विसृय भान्ति समुपैति शीघ्रम् ||१३४॥
प्राणायामाद्भवति मनसो निश्चलत्व प्रसादो
यस्याप्यस्य प्रतिनियतदिन्देशकालाद्यवेक्ष्य ।
सम्यादृष्टया कचिदपि तया नो दमो हन्यते त-
स्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ।। १३५ ॥
सर्वेद्रियाणा गतिनिग्रहेण भोग्येषु दोपाद्यवमर्शनेन ।

ईशप्रसादाच गुरोः प्रसादान्छान्ति समायात्यचिरेण चित्तम् ॥१३६॥
 आध्यात्मिकादि यदुःखं प्राप्त प्रारब्धवेगतः।
 अचिंतया तत्सहन तितिक्षति निगद्यते ॥ १३७ ।।
रक्षा तितिक्षासहशी मुमुक्षोर्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्नान्सीस्तृणीकृत्य जयन्ति मायाम्।।१३८॥
क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।
क्षमाविहीना निपतन्ति विश्वतिर्हताः पर्णचण इव द्वमात् ॥१३९||
 तितिक्षया तपो दान यज्ञस्तीथ व्रत श्रुतम् ।
 भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ।।
 ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् ।
 पराक्षेपादिसहन तितिक्षोरेव सिध्यति ।। १४१ ।।
 साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
 यत्र विना' पलायन्ते देविका अपि भौतिका ॥ १४२ ।।
 तितिक्षोरेव विघ्नेभ्यरत्वनिवर्तितचेतसः ।
 सिध्यन्ति सिद्धयः सर्वा अणिमाद्या' समृद्धयः ।। १४३ ।।
तस्मान्मुमुक्षोरधिका तितिक्षासपादनीयेप्सितकार्यसिद्धय
त्तीवा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षा महकारि कारणम ||१४४
 तत्तकालसमागतामयततेः शान्त्ये प्रवृत्तो यदि
  स्यात्तत्तत्परिहारकोषधरतस्तच्चिनने तत्परः ।
 तद्भिक्षु श्रवणादिधर्मरहितो मन्त्रा मृतश्चत्ततः
  किं सिद्ध फलमानुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥१४५६
 योगमभ्यस्यतो भिक्षोयोगान्चलितचेतसः ।
 प्राप्य पुण्यकृताल्लोकानियादि प्राह केशव' ।। १४६ ॥
 न तु कृत्वैव सन्यास तृष्णीमेव मृतस्य हि ।
 पुण्यलोकगतिं व्रते भगवान्यासमात्रतः ॥ १४७ ।।

न च सन्यसनादव सिद्धिं समधिगन्छति ।
इत्यनुष्टेयसत्यागासियभावमुवाच च ॥ १४८ ॥
तस्मात्तितिक्षया सोट्वा नत्तदुःस्वमुपागतम् ।
कुर्याच्छक्त्यनुरूपेण श्रवणादि मनैः शनैः ।। १४९ ।।
प्रयोजन तितिक्षाया साधिनाया प्रयत्नत' ।
प्राप्तदु खामहिष्णुत्वे न किंचिदपि दृश्यते ॥ १०॥
साधनत्वन दृष्टाना सर्वेषामपि कर्मणाम ।
विधिना य परित्यागः न भन्याम. मता मन' ॥१५१ ॥
उपरमयति कर्माणान्युपरतिगन्न कथ्यते न्यासः ।
न्यासन हि सर्वेश श्रु-या प्राको विकर्मणा त्यागः ।। १५२ ॥
कर्मणा साध्यमानम्यानित्यत्व श्रूयते यत ।
कर्मणानन कि नित्यफलप्तो परमार्थिन ॥ १५ ॥
उत्पाद्यमाप्य सरकार्य विकाय परिगण्यत ।
चतुर्विध कर्ममाध्य फल नान्यदित. परम ।। १५४।।
नैतदन्यतर अत्म कटा भवितुमर्हति ।
स्वत.सिद्ध सर्वदाप्त शुद्ध निभलमत्रियम् ।। १५५ ।।
न चास्य कथिज्ननितत्यागमन निषिध्यते ।
कारण ब्रह्म तत्तस्मादहा नोत्पाद्यमिष्यते ॥ १५६ ।।
आत्राप्ययोस्तु भेदश्चेदात्रा चाप्यमवाप्यते ।
आप्तस्वरूपमवतब्रह्म नाप्य कदाचन ॥ १५७ ।।
मलिनस्यैव सरकारी दर्पणादेरिहंप्यते ।
व्यामवन्नित्यशुद्धस्य ब्रह्मणो नैव सस्त्रिया || १५८ ॥
केन दुष्टन युयेत वस्तु निर्मलमन्नित्यम् ।
यद्योगादागत टोप सरकारी विनिवर्तयेत् ॥ १५९ ।।
निर्गुणस्य गुणाबानमपि नैवोपपद्यते ।

केवलो निर्गुणश्चेति नैगुण्यं श्रूयते यतः || १६० ॥
सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः ।
येन केन विकारित्व स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥
निष्कलं निष्क्रिय शान्त निरवद्य निरजनम् ।
इत्येव वस्तुनस्तत्त्व श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥
तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन ।
कर्मसाध्यं त्वनित्य हि ब्रह्म नित्य सनातनम् ॥ १६३ ॥
देहादिः क्षीयते लोको यथैव कर्मणा चितः ।
तथैवामुष्मिको लोको सचित. पुण्यकर्मणा ॥ १६४ ॥
कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा ।
तस्मादनित्ये स्वर्गादौ पडितः को नु मुह्यति ॥ १६५ ॥
जगद्धेतोस्तु नित्यत्व सर्वेषामपि समतम् ।
जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥
ऐतदात्म्यमिद सर्व तत्सत्यमिति च श्रुतिः ।
अस्यैव नित्यता ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥
न कर्मणा न प्रजया धनेनेति स्वय श्रुतिः ।
कर्मणो मोक्षहेतुत्व साक्षादेव निषेधति ॥ १६८ ॥
प्रत्यन्ब्रह्मविचारपूर्वमुभयोरेकत्ववोधाद्विना
कैवल्य पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् ।
न स्नानैरपि कीर्तनैरपि जपै! कृच्छ्रचांद्रायणै-
नॊ वाप्यध्वरयज्ञदाननिगमों मत्रतत्रैरपि ॥ १६९ ॥
ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते ।
ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥
विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिन ।
तद्भावेन्छोरनित्यार्थे तत्सामन्ये कुतोऽरति ॥ १७१ ॥

तस्मादानित्ये स्वर्गादौ साधनविन चोदितम् ।
नित्य नैमित्तिक चापि सर्व कर्म समाधनम् ।। १७२ ।।
मुमुक्षुणा परित्याज्यं बालभावमभीप्सुना।
मुमुक्षोरपि कर्मातु श्रवणं चापि माधनम् ॥ १७३ ॥
हस्तवद्र्य तस्य स्वकार्य साधयिष्यति ।
यदा विभते दीपो भाजकरणमणा ||१७४||
तथा श्रवणजो बोधः पुसी विहितकर्मणा ।
अत सापेक्षित ज्ञानमथवापि समुत्रयम ॥१७॥
मोक्षस्य साधनमिति वदान्त बलवादिनः ।
मुमुक्षार्युल्यते त्याग' कर विहिनकर्मणः ॥१७॥
इति का न कर्तव्या मृढवन्पण्टिनोत्तमै ।
कर्मण फलमन्यत्तु श्रवणस्य फल पृथक ॥ १७७ ॥
वैलक्षण्य च सामान्योचोभयत्राधिकारिण
कामी कर्मण्यधिकृतो निष्कामी श्रवणे मत' ।। १७८ ॥
अर्थी समर्थ इन्यादि लक्षण कर्मिणो मतम् ।।
परीक्ष्य लोकानित्यादि लक्षण मोक्षकाक्षिणः | १७९ ॥
मोक्षाधिकारी संन्यासी गृहस्य किल कर्मणि ।
कर्मण. साधन भार्यास्युक्नुवादिपरिग्रहः ॥ १८०
नैवान्यसाधनापेक्षा शुरूषोस्तु गुरु बिना ! -
उपर्युपर्यहकारो वर्धते कर्मणा भृशम् ।। १८१ ॥
अहकारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् ।
प्रवर्तक कर्मशास्त्र ज्ञानशास्त्रं निवर्तकम् ||१८२॥
इत्यादिवपरीत्य तत्साधने चाधिकारिणो !
द्वयो' परस्परापेक्षा विद्यते न कदाचन ।।१८३॥
सामन्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः ।

१०

ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥१४॥
कथमन्योन्यसापेक्षा कथं वापि समुच्चयः ।
यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥
सहयोगो न घटते तथैव ज्ञानकर्मणोः ।
किमूपकुर्याज्ञानस्य कर्मस्वप्रतियोगिनः ॥
यस्य सनिधिमात्रेण स्वय न स्फूर्तिमृच्छति ॥ १८६ ॥
कोटींधनाद्रिचालितोऽपि वहिरर्कस्य नाहत्युपकर्तुमीपत् ।
यथा तथा कर्मसहस्रकोटिनिस्य किं नु स्वयमेव लीयते १९
एकक श्रयौ हस्तौ कर्मण्यधिकृतावुभौ ।
सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥
का कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते ।
न तथा वस्तुनो ज्ञान कर्तृतत्र कदाचन ॥ १८९ ॥
यथा वस्तु तथा ज्ञान प्रमाणेन विजायते ।
नापेक्षते च यत्किंचित्कर्म वा युक्तिकौशलम् ॥ १९० ॥
ज्ञानस्य वस्तुतत्रत्वे सशयाद्युदय. कथम् ।
अतो न वारतवं ज्ञानमिति नो शक्यतां बुधैः ॥ १९१ ॥
प्रमाणासौष्ठववृतं सशयादि न वास्तवम् ।
श्रुतिप्रमाणसुष्टुत्वे ज्ञान भवति वास्तवम् ॥ १९२ ॥
वस्तु तावत्पर ब्रह्म नित्यं सत्य ध्रुवं विभु ।
श्रुतिप्रमाणे तज्ञान स्यादेव निरपेक्षकम् ॥ १९३ ॥
रूपज्ञान यथा सम्यग्दृष्टौ सत्या भवेत्तथा ।
श्रुतिप्रमाणे सत्येव ज्ञान भवति वास्तवम् ॥ १९४ ॥
न कर्म यत्किंचिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः ।
ज्ञानं तथैव श्रवणादिजन्य वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ।।
कर्तृतंत्र भवेत्कर्म कर्मतंत्र शुभाशुभम् |

प्रमाणतंत्र विज्ञानं मायातत्रमिद जगत् ॥ १९६ ॥
विद्या चाविद्या चेति सहोनि रियमुपसता सहिः ।
सत्कर्मोपासनयोन वात्मज्ञानकर्मणा पापि ॥ १९७ ॥
नित्यानित्यपदार्थवावरहितो यश्चभियत्र लगा.
द्यानामनुभूतिलग्नदृढया निर्बिण्णबुद्धिजनः ।
तस्यैवास्य जटस्य कर्म विहित श्रुत्या विम्यामिती
मोक्षेन्छार्न विधीयते तु परमानदार्थिनी धीमतः ॥ १९८॥
मोक्षेन्छया यदहरेव त्रिरयतेऽनो
न्यासस्तदैव विहिती विदुषी मुमुक्षोः ।
श्रुत्या तयैव परया च तत मुधामि
प्रामाणिकोऽयमिति चेतति निधितव्यः ॥ १९५ ।।
स्वापरोक्षस्य वेढादे साधनत्य निषेति ।
नाह टैर्न तपसन्यादिना भगवानपि ॥ २०॥
प्रवृत्तिश्च निवृत्तिश्च हूँ एतं श्रुतिगोचर ।
प्रवृत्त्या वध्यते जनुनिवृत्त्या तु निमुन्यंत ॥ २०१ ॥
यन्न स्ववयोऽभिमतो मूढस्यापि धचित्ततः।
निवृत्ति कर्मसन्यास कर्तव्या मक्षिकाक्षिभिः ॥ २० ॥
न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु यस्यंत ।
तस्मात्यान्य प्रयत्नेन कर्म ज्ञानेहना ध्रुवम् ॥ २० ॥
इष्टसाधनतायुद्धया गृहीतस्यापि वस्तुन' ।
विज्ञाय फल्गुता पश्चात्क पुनस्त-प्रतीक्षेत ॥ २०४ ॥
उपरतिगव्दार्थो [परमण पूर्वदृष्टइत्तिभ्य ।
सोऽय मुख्यो गौणचेति च वृत्त्या द्विरुपता धत्ते ॥ २०५ ।
वृत्तदृश्यपरित्यागो मुग्ठ्यार्थ इति कथ्यते ।
गौणार्थ कर्मसन्यासः श्रुतेरगतया मत ॥ २०६ ।।

पुंसः प्रधानसिद्धयर्थमगस्याश्रयणं ध्रुवम् |
कर्तव्यमंगहीन चेत्प्रधान नैव सिध्यति ॥ २०७॥
सन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् ।
अविरक्तस्य सन्यासो निष्फलोऽयाव्ययागवत् ॥ २०८ ॥
सन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् |
तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥
गुरुवेदान्तवाक्येषु बुद्धिा निश्चयात्मिका ।
सत्यमित्येव सा श्रद्धा निदान मुक्तिसिद्धये ॥ २१० ॥
श्रद्धावतामेव सतां पुमर्थः समीरितः सिध्यति नेतरेषाम् ।
उक्त सुसूक्ष्म परमार्थतत्त्वं श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ।
श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धिः ।
अश्रद्धयैवाभिहताश्च सर्वे मज्जन्ति ससारमहासमुद्रे ॥ २१२ ॥
देवे च वेदे च गुरौं च मत्रे तीर्थे महात्मन्यपि भेषजे च ।
श्रद्धा भवत्यस्य यथा यथान्तस्तथा तथा सिद्धिरुदति पुंसाम् ॥२१३॥
अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् ।
सद्भावनिश्चयस्तत्र श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥
तस्मान्द्रद्धा सुसपाद्या गुरुवेदान्तवाक्ययोः ।
मुमुक्षोः श्रद्दधानस्य फल सिध्यति नान्यथा ॥ २१५ ॥
यथार्थवादिता पुंसां श्रद्धाजननकारणम् ।
वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥
मुक्तस्येश्वररूपत्वाट्ठरोवागपि तादृशी।
तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥
श्रुत्युक्तार्थावगाहाय विदुपा ज्ञेयवस्तुनि ।
चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८॥
चित्तस्य साध्यैकपरत्वमेव पुमर्थसिद्धेनियमेन कारणम् ।

नैवान्यथा सिध्यति साध्यमापनानःप्रगादे विफलः प्रयत्नः ॥१९॥
चित्त च दृष्टिं करण तथान्यठेकत्र वनाति हि लक्ष्यभत्ता ।
किंचित्प्रमाद सति लल्यभेतर्वाणप्रयोगो विकलो या तथा २२०
सिद्धश्चित्तसमाधानममाधारणकारणम् ।
ग्रतस्ततो मुगुक्षणा भवितव्य सदामुना ॥ २२१ ॥
अत्यततीववैराग्य फललिप्सा महत्तरा।
तदेतदुभय विद्यान्ममाधानम्य कारणम ॥ २ ॥
बहिरंग श्रुति प्राह नामचर्यादिमुक्तये ।
शमादिपटकमेवैतदतरग विबुधाः ॥ १५ ॥
अतरग हि वलयद्वहिरगाद्यतस्ततः ।
शमादिपदक जिज्ञासोरवध्य भाग्यमातरम् ।। २६४ ॥
अतरगविहीनस्य कनवणकोटय ।
न फलन्ति यथा यो(रधीरस्यान्तमपट. ॥ १२ ॥
ब्रह्मात्मैकन्यविज्ञानाद्यहिद्वान्मोक्नुमिन्छति ।
ससारपागवत्र तन्मुमुक्षस्य निगद्यते ।। ०२६ ॥
साधनाना तु सर्वेषा मुमुक्षा मूलकारणम् ।
अनिच्छोरप्रवृत्तस्य क शृतिः क नु तत्फलम ।। २२७ ।।
तीवमध्यममदातिमदभेटाश्चतुर्विचा. !
मुमुक्षा तत्प्रकाराऽपि कार्यते शृयता बुधै ॥ २२८ ।।
तापैत्रिभिनित्यमनकरूपै., सतप्यमानो क्षुभितातरामा ।
परिग्रह सर्वमनर्थबुद्धया, जहाति सा तीनतरा मुमुक्षा ॥ २२९ ।।
तापत्रय तीवमवेक्ष्य वस्तु दृष्ट्या कलत्र तनयान्विहातुम् ।
मध्ये इयोर्लोटनमात्मनो यत्सैपा मता माध्यमिकी मुमुक्षा ॥२३॥
मोक्षस्य कालोऽस्ति किमद्य में त्वरा भुक्त्वैव भोगान्कृतसर्वकार्यः।
मुक्त्यै यतिष्येऽहमथेति बुद्धिरेपैव मदा कथिता मुमुक्षा ॥२३१॥

मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः ।
इत्याशया मूढधियां मतिर्या सैपातिमन्दाभिमता मुमुक्षा ॥ २३ ॥
जन्मानेकसहस्रेषु तपसाऽऽराधितेश्वरः ।
तेन निःशेपनिर्धूतहृदयस्थितकल्मपः ॥ २३३ ॥
शास्त्रविद्गुणदोपज्ञो भोन्यमाने विनिस्पृहः ।
नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढवतः ॥ २३४ ॥
निष्टप्तमग्निना पात्रमुद्वास्य स्वरया यथा ।
जहाति गेहं तद्वन्च तीनमोक्षेन्छया द्विजः ॥ २३५ ॥
स एव सद्यस्तरति ससृतिं गुर्वनुग्रहात् ।
यस्तु तीवमुमुक्षुः स्यात्स जीवनेव मुन्यते ॥ २३६ ॥
जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।
चतुर्थः कल्पकोटया वा नैव बधाद्विमुच्यते ॥ २३७ ॥
नृजन्म जतोरतिदुर्लभ विदुस्ततोऽपि पुंस्त्व च ततो विवेकः ।
लब्ध्वा तदेतत्रितय महात्मा यतेत मुक्त्यै सहसा विरक्तः ॥२३८
पुत्रमित्रकलबादिमुखं जन्मनि जन्मनि ।
मर्त्यत्वं पुरुपत्वं च विवेकश्च न लभ्यते ।। २३९ ॥
 लब्ध्वा सुदुर्लभतरं नरजन्म जंतु-
  स्तत्रापि पौरुषमतः सदसद्विवेकम् ।
 सप्राप्य चैहिकसुखाभिरतो यदि स्या-
  द्विक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥
खादते मोदते नित्य शुनकः सूकरः खरः।
तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ।।
यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।
याचन्न धीविपयेति यावन्मृत्यु न पश्यति ।। २४२ ॥
तावदेव नरः स्वस्थः सारग्रहणतत्परः ।

विवेकी प्रयतताशु भवव वसतये ॥ २४३ ।।
देवर्षिपितृमर्णवधमुनाग्नु कोटिग ।
भववधविमुनस्तु य. पश्चिम वित्तमः ॥ ४४ ॥
अंतर्ववेन बगग्य कि स्विधाचनः ।
तदर्तवमुक्त्यर्थ क्रियता निशि. मृतिः ॥ ८ ॥
कृतिपर्यवसानैव मना तीवमुमाता।
अन्या न रजनामात्रा या नोस्यते कृतिः ॥
 गहादिसर्वमपहाय लयवदया
  मौल्येन्छया वतिनानलमात्रिविक्षा ।
 कान्नाजनस्य नियता मुढा बरा या
  सैपा फटान्तगमने करण पक्षी...'
नित्यानित्यविवेकश्च देहक्षणिकतामति ।
मृत्योभीनिश्च तापश्च मुमुक्षाधिकारणम् ॥ ४८ ॥
शिरो विकावन्यन बैंगन्य वपुरून्यने ।
शमाढय पड़गानि मोभेच्छा प्राण दप्यते ।।०४९ ॥
ईशांगसमायुनो जिज्ञामुनिकोचिद्ध ।
शृगे मृत्यु निहन्येव सम्पज्ञानासिना धवम ॥ ५० ॥
उत्तसाबनसपनो जिज्ञासुर्यतिरात्मनः ।
जिज्ञासाय गुरु गन्छेत्समिपाणिनया बल. ॥ २५.१ ।।
श्रोत्रियो ब्रह्मनिष्ठो य प्रशान्तः समदर्शनः ।
निर्ममो निरहकारी निद्वंद्वी निणरबह ॥ २॥२॥
अनपेक्ष' शुचिर्दक्षः करुणामृतसागर ।
एवलक्षणसपना स गुर्खत्मवित्तमः ।
उपासाद्य' प्रयत्नन जिज्ञासोः स्वार्थसिद्धये ।। २५३ ॥
जन्मानेकशतैः सदाढदरयजा भक्त्या समाराधितो

भक्तैदिकलक्षणेन विधिना सतुष्ट ईशः स्वयम् ।
साक्षाच्छीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुः
तत्त्वं साधु विबोध्य तारयति तान्ससारदुःखार्णवात् ॥ २५४ ॥
अविद्याहृदयन्नथिविमोक्षोऽपि भवेद्यतः ।
तमेव गुरुरित्यागुरुशब्दार्थवेदिनः ।। २५५ ॥
शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।
उभयोरंतर किंचिन्न द्रष्टव्य मुमुक्षुभिः ॥ २५६ ॥
बंधमुक्तं ब्रह्मनिष्ठ कृतकृत्य भजेद्गुरुम् |
यस्य प्रसादात्ससारसागरो गोष्पदायते ॥ २५७ ॥
शुश्रूषया सदा भक्त्या प्रणामविनयोतिभिः ।
प्रसन्न गुरुमासाद्य प्रष्टव्य ज्ञेयमात्मनः ॥ २५८ ॥
भगवन्करुणासिंधो भवसिंधोर्भवास्तरिः ।
यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥
जन्मांतरकृतानतपुण्यकर्मफलोदयः ।
अद्य सनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥
संप्रीतिमक्ष्णोर्वदनप्रसादमानंदमतःकरणस्य सद्यः ।
विलोकनं ब्रह्मविदस्तनोति छिनत्ति मोह सुगति व्यनक्ति ॥ २६१ ॥
हुताशनाना शशिनामिनानामप्यर्बुद वापि न यन्निहंतुम् ।
शक्नोति तद्ध्वान्तमनंतमांतरं हन्त्यात्मवेत्ता सकृदक्षिणेन।। २६२ ॥
दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे
 घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे ।
कर्मोत्तुगतरंगभगनिकरैराकृष्यमाणो मुहुः
 यातायातगतिघ्रमेण शरण किंचिन्न पक्ष्याम्यहम् ।। २६३ ॥
केन वा पुण्यशेपेण तव पादांबुजद्वयम् |
दृष्टवानास्म मामात मृत्योस्त्राहि दयादृशा || २६४ ॥

वदन्तमेव तं शिप्य दृष्ट्यैव दयया गुरुः ।
दद्यादभयमेतस्मै मा भैटेति मुहर्मुहुः ॥ २६५ ॥
विद्वन्मृत्युभय जहीहि भवतो नास्त्येव मृत्युः कचि-
 नित्यस्य द्वयवर्जितस्य परमानदात्मनो ब्रह्मणः ।
भ्रात्या किंचिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते
 मां त्राहीति हि सुप्तवत्प्रलपन शून्यात्मक ते मृपा || २६६ ।।
निद्रागाढतमोवृत' किल जन. स्वप्ने भुजंगादिना
 अस्त स्व समवेक्ष्य यत्प्रलपति त्रासाइतोऽस्मीत्यलम् ।
आप्तेन प्रतिबोधित करतलनाताडय पृष्ट स्वय
 किंचिन्नेति बदत्यमुप्य वचन स्यात्तकिमर्थं वद ॥ २६७ ।।
रजोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प-
 भावः पुमानयमहिर्वसतीति मोहात् ।
आक्रोगति प्रतिबिभेति च कपते त-
 न्मिध्यैव नात्र भुजगोशति विचार्यमाणे ।। २६८ ॥
तद्वत्त्वयाप्यात्मन उक्तमतज्जन्माप्ययव्याधिजरादिदुःखम्
मृषैव सर्व भ्रमकल्पित ते सम्यग्विचार्यात्मनि मुच भीतिम् ॥ २६९॥
भवाननात्मनो वर्मानात्मन्यारोप्य शोचति ।
तदज्ञानकृत सर्व भय त्यक्त्वा सुखी भव ।। २७० ॥

शिष्यः-

श्रीमद्भिरुक्तं सकल मृपेति दृष्टान्त एव युपपद्यते तत् ।
दाष्टंतिके नैव भवादिदुःख प्रत्यक्षतः सर्वजनप्रसिद्धम् ।। २७१ ।।
प्रत्यक्षेणानुभूतार्थ. कथ मिथ्यात्वमर्हति ।
चक्षुषो विषय कुम कथ मिथ्या करोम्यहम् ॥ २७२ ।।
विद्यमानस्य मिथ्यात्वं कथ नु घटत प्रभो ।
प्रत्यक्ष खलु सर्वेपा प्रमाण प्रस्फुटार्थकम् ॥ २७३ ।।

मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः ।
ब्रह्मत्वमपि नित्यत्व परमानंदता कथम् || २७४ ॥
क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।
आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥
किमज्ञान तदुत्पन्नभयत्यागोऽपि वा कथम् ।
किमु ज्ञान तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥
सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् ।
प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥

श्रीगुरु:-

धन्यः कृतार्थरत्वमहो विवेकः शिवप्रसादरतव विद्यते महान् |
विसृज्य तु प्राकृतलोकमार्ग ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७
शिवप्रसादेन विना न सिद्धि' शिवप्रसादेन विना न बुद्धिः ।
शिवप्रसादेन विना न युक्तिः शिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥
यस्य प्रसादेन विमुक्तसगा' शुकादयः ससृतिबधमुक्ताः ।
तस्य प्रसादो बहुजन्मलभ्यो भक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥
विवेको जतूनां प्रभवति जनिष्वेव बहुपु
 प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् ।
यतस्तस्मादेव त्वमपि परमार्थावगमने
 कृतारभ' पुंसामिदामह विवेकरय तु फलम् ॥ २८१ ॥
मर्त्यत्वसिद्धरपिपुरस्वसिद्धेविंगत्वसिद्धेश्च विवेकसिद्धेः ।
वदान्त मुख्य फलमेव मोक्ष व्यर्थं समस्त यदि चेन्न मोक्षः ॥२८२॥'
प्रश्न- समीचीनतरस्तवाय यदात्मतत्त्वावगमे प्रवृत्तिः ।
सतस्तवैतत्सकल समूल निवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥
मर्त्यत्व त्वयि कल्पित भ्रमवशात्तेनैव जन्मादय.
 तत्सभावितमेव दुःखमपि ते नो वस्तुतस्तन्मृपा ।

निद्रामोहवशादुपागतसुख दुःख च किं नु त्वया
 सत्यत्वेन विलोकित क्वचिदपि हि प्रबोधागमे || २८४ ॥
नाशेपलोकैरनुभूयमानः प्रत्यक्षतोऽय सकलप्रपचः ।
कथ मृपा स्यादिति शकनीय विचारशून्येन विमुह्यता त्वया ॥ २८५
दिवाधदृष्टेस्तु दिवाधकारः प्रत्यक्षसिद्धोऽपि स किं यथार्थः ।
तद्वद्धमेणावगतः पदार्थो भ्रान्तस्य सत्यः सुमतेर्मृपैव ॥ २८६ ॥
घटोऽयमित्यत्र घटाभिधान' प्रत्यक्षतः कश्चिदुदेति दृष्टेः ।
विचार्यमाणे स तु नास्ति तत्र मृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥
प्रादेशमात्रः परिदृश्यतेऽर्क शास्त्रेण संदर्शितलक्षयोजनः ।
मानातरेण कचिदेति वाधा प्रत्यक्षमप्यत्र हिन व्यवस्था ॥ २८८ ।।
तस्मात्त्वयीद भ्रमत' प्रतीत मृपैव नो सत्यमवेहि साक्षात् ।
ब्रह्म त्वमेवासि सुखस्वरूप त्वत्तो न भिन्न विचिनुष्व वुद्धौ ॥ २८९ ॥
लोकान्तरे वात्र गुहान्तरे वा तीर्थान्तरे कर्मपरपरातरे ।
शास्त्रान्तरे नास्त्यनुपश्यतामिह स्वय पर ब्रह्म विचार्यमाणे ॥ २९० ॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति ।
गोप कक्षगत छाग यथा कूपेषु दुर्मति ॥ २९१ ॥
स्वमात्मान पर मत्वा परमात्मानमन्यथा ।
विमृश्यते पुनः स्वात्मा वहि कोशेषु पडितै ॥ २९२ ।।
विस्मृत्य वस्तुनरतत्त्वमध्यारोप्य च वस्तुनि ।
अवस्तुता च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥
आत्मानात्मविवेक ते वक्ष्यामि शृणु सादरम् ।
यस्य श्रवणमात्रेण मुच्यतेऽनात्मवधनात ॥ २९४ ॥
इत्युक्त्वाभिमुखीकृत्य शिष्य करुणया गुरु' ।
अध्यारोपापवादाभ्या निष्प्रपच प्रपचयन् ॥ २९५ ॥
सम्यक्प्रबोधयत्तत्त्व शास्त्रदृष्टेन वर्त्मना ।
सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥

वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते ।
असर्पभूते रज्जादौ सर्पत्वारोपण यथा ॥ २९७ ।।
वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् ।
इदमारोपित यत्र भाति खे नीलतादिवत् ।। २९८ ॥
तत्कारण यदज्ञानं सकार्य सद्विलक्षणम् ।
अवस्त्वित्युन्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥
अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् |
न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥
शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा ।
अवस्तुसज्ञित यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥
सदसद्भयामनिर्वान्यमज्ञान त्रिगुणात्मकम् ।
वस्तु तत्त्वावबोधकबाध्य तद्भावलक्षणम् ॥ ३०२ ॥
मिथ्यासबधतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति ।
मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३ ।।
सद्भावे लिंगमेतस्य कार्यमेतञ्चराचरम् ।
मान श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च || ३०४ ॥
अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते ।
तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ।। ३०५ ।।
सतो भिन्नमभिन्न वा न दीपस्य प्रभा यथा |
न सावयवमन्यद्वा बीजस्यांकुरवत्क्वचित् ॥ ३०६ ।।
अत एतदनिर्वाच्यमित्येव कवयो विदुः ।
समष्टिव्यष्टिरूपेण द्विधाज्ञान निगद्यते ॥ ३०७ ॥
नानात्वेन प्रतीतानामज्ञानानामभेदतः ।
एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ।।
इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा ।

मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥
मायोपहितचैतन्य साभासं सत्त्ववृहितम् ।
सर्वज्ञत्वादिगुणक सृष्टिस्थित्यतकारणम् ।। ३१० ॥
अव्याकृत तदव्यतमीश इत्यपि गीयते ।
सर्वशक्तिगुणोपेत सर्वज्ञानावभासकः ॥ ३११ ॥
स्वतत्रः सत्यसंकल्पः सत्यकामः स ईश्वरः ।
तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥
सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः ।
कारण वपुरित्याहुः समष्टिं सत्त्ववृहितम् ॥ ३१३ ॥
आनदप्रचुरत्वेन साधकत्वेन कोशवत् ।
सैषानढमय कोश इतीशरय निगद्यते ॥ ३१४ ॥
सर्वोपरमहेतुत्वात्सुपुप्तिस्थानमिष्यते ।
प्राकृत प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥
अज्ञान व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते ।
अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणा ॥ ३१६ ॥
वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता।
यथा तथैवाज्ञानस्य व्यष्टित स्यादनेकता॥ ३१७ ॥
व्यष्टिर्मलिनसत्त्वैपा रजसा तमसा युता।
ततो निकृष्टा भवति योपाधि प्रत्यगात्मनः ॥ ३१८।।
चैतन्य व्यष्ट्यवच्छिन्न प्रत्यगात्मेति गीयते ।
साभास व्यष्ट्युपहित सत्तादात्म्येन तद्गुणैः ।। ३१९ ॥
अभिभूत स एवात्मा जीव इत्यभिधीयते ।
किंचिज्ज्ञत्वानीश्वरत्वससारित्वादिधर्मवान् ।। ३२० ॥
अस्य व्यष्टिरहकारकारणत्वेन कारणम् ।
वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥

प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन संमतम् ।
व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ।।
स्वरूपाच्छादकत्वेनाप्यानदप्रचुरत्वतः ।
कारण वपुरानदमयः कोश इतीर्यते ॥ ३२३ ॥
अस्यावस्था सुषुप्तिः स्याद्यत्रानदः प्रकृष्यते ।
एषोऽह सुखमस्वाप्स न तु किंचिदवेदिषम् ॥ ३२४ ॥
इत्यानदसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते ।
समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥
अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।
अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥
सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः ।
एकीभावे तरगान्ध्योः को भेदः प्रतिबिंबयोः ॥ ३२७ ॥
अज्ञानतदवच्छिन्नाभासयोरुभयोरपि ।
आधार शुद्धचैतन्य यत्तत्तुर्यमितीर्यते ॥ ३२८ ।।
एतदेवाविविक्त सदुपाधिभ्या च तद्गुणैः ।
महावाक्यस्य वान्यार्थो विविक्त लक्ष्य इष्यते ॥ ३२९ ॥
अनतशक्तिसंपन्नो मायोपाधिक ईश्वरः ।
ईक्षामात्रेण सृजति विश्वमेतञ्चराचरम् ।। ३३० ॥
अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः ।
स्वयमेव कथं सर्वं सृजतीति न शक्यताम् ॥ ३३१ ॥
निमित्तमप्युपादान स्वयमेव भवन्प्रभुः ।
चराचरात्मक विश्व सृजत्यवति लुपति || ३३२ ॥
स्वप्राधान्येन जगतो निमित्तमपि कारणम् ।
उपादान ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ।।
यथालूता निमित्त च स्वप्रधानतया भवेत् |

स्वशरीरप्रधानत्वेनोपादान तथेश्वरः ॥ ३३४॥
तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः ।
अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥
वायोरग्निस्तथैवाग्नेरापोऽद्भयः पृथिवी क्रमात् ।
शक्तेस्तम प्रधानत्व तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥
आरभन्ते कार्यगुणान्ये कारणगुणा हि ते।
एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ।। ३३७ ।।
एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि ।
स्थूलान्यपि च भूतानि चान्योन्याशाविमेलनात् ॥ ३३८॥
अपचीकृतभूतेभ्यो जात सप्तदशागकम् ।
ससारकारण लिंगमात्मनो भोगसाधनम् ।। ३३९ ॥
श्रोत्रादिपचक चैव वागादीना च पचकम् ।
प्राणादिपचक बुद्धिमनसी लिंगमुच्यते ॥ ३४० ॥
श्रोत्रत्वक्चक्षुजिह्वाघ्राणानि पच जातानि ।
आकाशादीना सत्त्वाशेभ्यो धींद्रियाण्यनुक्रमतः ॥ ३४१ ॥
आकाशादिगता पच सात्त्विकाशाः परस्परम् ।
मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥
प्रकाशकत्वादेतेपा सात्त्विकाशत्वमिष्यते ।
प्रकाशकत्व सत्त्वस्य स्वच्छत्वेन यतस्तत || ३४३ ॥
तदतःकरण वृत्तिभेदेन स्याच्चतुर्विधम् ।
मनो बुद्धिरहकारचित्त चेति तदुच्यते ॥ ३४४ ॥
सकल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् ।
अभिमानादहकारश्चित्तमर्थस्य चिंतनात् ॥ ३४५॥
मनस्यपि च बुद्धौ च चित्ताहकारयोः क्रमात् ।
अतीवोऽत्र बोद्धव्यो लिंगलक्षणसिद्धये ॥ ३४६ ॥

चिंतनं च मनोधर्मः संकल्पादिर्यथा तथा ।
अंतर्भावो मनस्यैव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥
देहादावहमित्येव भावो दृढतरो धियः ।
दृश्यतेऽहंकृतस्तस्मादतर्भावोऽत्र युज्यते ॥ ३४८ ॥
तस्मादेव तु बुद्धेः कर्तृत्व तदितरस्य करणत्वम् |
सिध्यत्यात्मन उभयाद्विद्यासंसारकारणं मोहात् ॥ ३४९ ॥
विज्ञानमयकोशः स्याद्बुद्धिर्ज्ञानेद्रियैः सह ।
विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥
विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते ।
अयं महानहंकारवृत्तिमान्कर्तृलक्षणः ।
सर्वसंसारनिर्वोढा विज्ञानमयशब्दभाक् ॥ ३५१ ॥
अहं ममेत्येव सदाभिमानं देहेंद्रियादौ कुरुते गृहादौ ।
जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च सुखी च दुःखी।।३५२
स्ववासनाप्रेरित एव नित्य करोति कर्मोभयलक्षण च ।
भुंक्ते तदुत्पन्नफल विशिष्ट सुख च दुःख च परत्र चात्र।।३५३॥
नानायोनिसहस्रेषु जायमानो मुहर्मुहुः ।
म्रियमाणो भ्रमत्येष जीवः संसारमडले || ३५४ ।।
मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह ।
प्राचुर्य मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥
चिंताविषादहर्पाद्याः कामाद्या अस्य वृत्तयः ।
मनुते मनसैवैष फल कामयते बहिः ।
यतते कुरुते भुंक्ते तन्मनः सर्वकारणम् ।। ३५६ ॥
मनो ह्यमुष्य प्रणवस्य हेतुरतर्वहिश्चार्थमलेन वेत्ति |
शृणोति जिघ्रत्यमुनैव चेक्षते वक्ति स्पृशत्यत्ति करोति सर्वम् ॥३५७।।
बंधश्च मोक्षो मनसैव पुसामर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति ।

शुद्धेन मोक्षो मलिनेन बंधो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥३५८॥

रजस्तमोभ्या मलिन त्वशुद्धमज्ञानज सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वाज्जडत्वमोहालसताप्रमादैः ।। तिरस्कृत सन्न तु वेत्ति वास्तव पदार्थतत्त्व ह्युपलभ्यमानम् ॥३५९॥ रजोदोषैर्युक्त यदि भवति विक्षेपकगुणैः प्रतीप कामाद्यैरनिशमभिभूत व्यथयति । कथचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृश मनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥ ततो मुमुक्षुर्भवबधमुक्त्यै रजस्तमोभ्या च तदीयकार्यैः । वियोज्य चित्त परिशुद्धसत्त्व प्रिय प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ।। गर्भावासजनिप्रणाशनजराव्याध्यादिपु प्राणिना यदुख परिदृश्यते च नरके तच्चितयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशा विमुच्याभित- श्चित्तप्रथिविमोचनाय सुमतिः सत्त्व समालबताम् ॥ ३६२ ।। यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्त प्रसादमधिगच्छति ।। ३६३ ॥ आसुरी सपद त्यक्त्वा भजेद्यो दैवसपदम् । मोक्षककाक्षया नित्य तस्य चित्त प्रसीदति ॥ ३६४ ।। परद्रव्यपरद्रोहपरनिदापरस्त्रियः । नालबते मनो यस्य तस्य चित्त प्रसीदति ॥ ३६५ ॥ आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति । सुख दुःख विवेकेन तस्य चित्त प्रसीदति ।। ३६६ ॥ अत्यत श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजत्यनिश क्षांतस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥

शिष्टान्नमीशार्चनमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् ।

यमानुषक्तिं नियमानुवृत्तिं चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनाम् ।
पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥
श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥
यस्य चित्त निर्विपयं हृदयं यस्य शीतलम् ।
तस्य मित्र जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥
हितपरिमितभोजी नित्यमेकान्तसेवी
सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः ।
अनुनियमनशीलो यो भजत्युक्तकाले
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ।।
चित्तप्रसादेन विनावगन्तुं बधं न शक्नोति परात्मतत्त्वम् ।
तत्त्वावगत्या तु विना विमुक्तिर्न सिध्यति ब्रह्मसहस्रकोटिषु ॥३७
मन प्रसादः पुरुषस्य बधो मनःप्रसादो भवबंधमुक्तिः ।
मनःप्रसादाधिगमाय तस्मान्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ।।
पचानामेव भूतानां रजोशेभ्योऽभवन्क्रमात् ।
वाक्पाणिपादपायूपस्थानि कर्मेद्रियाण्यनु ॥ ३७५ ॥
समस्तेभ्यो रजोशेभ्यो व्योमादीनां क्रियात्मकाः ।
प्राणादयः समुत्पन्नाः पचाप्यांतरवायवः ॥ ३७६ ॥
प्राणः प्रागमनेन स्यादपानोऽवाग्गमनेन च ।
व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ।। ३७७ ।।
अशितान्नरसादीनां समीकरणधर्मतः ।
समान इत्यभिप्रेतो वायुयस्तेषु पचमः ।। ३७८ ॥
क्रियैव दिश्यते प्रायः प्राणकमेंद्रियेष्वलम् |
ततस्तेषां रजोशेभ्यो जनिरंगीकृता बुधैः ॥ ३७९ ॥

राजसी तु क्रियाशक्ति तमःशाक्त जडात्मिकाम् ।
 प्रकाशरूपिणी सत्त्वशक्ति प्राहुमहर्षयः ।। ३८० ॥
 एते प्राणादयः पच पंचकर्मेद्रियैः सह ।
 भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥
 यद्यन्निष्पाद्यते कर्म पुण्य वा पापमेव वा ।
 वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥
 वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।
 तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥
 प्राणकर्मेंद्रियैर्देहः प्रेर्यमाणः प्रवर्तते ।
 नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥
 कोशत्रय मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।
 अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥
 लिगमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।
 सर्व लिंगवपुर्जातमेकधीविपयत्वतः ॥ ३८६ ॥
 समष्टिः स्यात्तरुगणः सामान्येन वन यथा ।
 एतत्समष्ट्युपहित चैतन्य सफल जगुः ॥ ३८७ ।।
 हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पडिताः ।
 हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥
 हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः ।
 समस्तलिगदेहेषु सूत्रंवन्मणिपक्तिषु ।
 व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥
 नैकधीविषयत्वेन लिंग व्यष्टिर्भवत्यथ ।
 यदेतद्वयष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥
 चैतन्य तैजस इति निगदन्ति मनीषिणः ।
 तेजोमयान्तःकरणोपाधित्वेनैव तैजसः ॥ ३९१ ॥

,,१६४

सर्ववेदान्तसिद्धान्तसारसंग्रहः। स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् । अस्य जागरसंस्कारमयत्वादपुरुच्यते ॥ ३९२ ॥ स्वप्ने जागरकालीनवासनापरिकल्पितान् | तैजसो विषयान्भुक्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥ समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यो जात्यैकत्वे कुतो भिदा || ३९४ ।। द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥ एव सूक्ष्मप्रपचस्य प्रकारः शास्त्रसमतः । अथ स्थूलप्रपचस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥ तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् । पंचीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ । खादीनां भूतमेकैक सममेव द्विधा द्विधा । विभज्य भागं तत्राद्य त्यक्त्वा भागं द्वितीयकम् ।। ३९८ चतुर्धा सुविभज्याथ तमेकैक विनिक्षिपेत् । चतुर्णा प्रथमे भागे क्रमेण स्वार्धमतरा ॥ ३९९ ॥ ततो व्योमादिभूताना भागाः पंच भवन्ति ते । स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ।। संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पचीकरणस्याप्रामाण्यं न शक्यताम् ॥ ४०१ ॥ उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः । पचानामपि भूतानां श्रूयतेऽन्यत्र सभवः ॥ ४०२ ॥ ततः प्रामाणिक पंचीकरण मन्यतां बुधैः । प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥ आकाशवाय्वोर्धर्मस्तु वह्नयादावुपलभ्यते । यथा तथाकाशवाय्बोर्नान्यादेधर्म ईक्ष्यते ॥ ४०४ ।। अतोऽप्रामाणिकमिति न किचिदपि चित्यताम् । खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिपु ।। ४०५ ।। तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।। तथा नभस्वतो धर्मोऽप्यन्यादावुपलभ्यते ॥ ४०६ ॥ न तथा विद्यते व्याप्तिवह्नयादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ।। ४०७ ।। कारणस्यानुरूपेण कार्य सर्वत्र दृश्यते । तस्मात्प्रामाण्यमेष्टव्य बुधैः पचीकृतेरपि ॥ ४०८ ।। अनेनोद्भूतगुणक भूत वक्ष्येऽवधारय । शब्दैकगुणमाकाश शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ।। तेजःशब्दरपर्शरूपैर्गुणवत्कारण क्रमात् । आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥ एतैश्चतुर्भिर्गधेन सह पचगुणा मही । आकाशाशतया श्रोत्र शब्द गृह्णाति तद्गुणम् ॥ ४११ ॥ त्वङ्मारुताशकतया स्पर्श गृह्णाति तद्गुणम् । तेजोशकतया चक्षू रूप गृह्णाति तद्गुणम् ॥ ४१२ ॥ अबंशकतया जिह्वा रस गृह्णाति तद्गुणम् । भूम्यशकतया घ्राण गध गृह्णाति तद्गुणम् ॥ ४१३ ॥ करोति खाशकतया वाक्शब्दोच्चारणक्रियाम् । वाय्वशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥ तेजोशकतया पाणी वह्नयाद्यर्चनतत्परौ । जलाशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥ भूम्यशकतया पायुः कठिनं मलमुत्सृजेत् । श्रोत्रस्य दैवत दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽग्निर्हस्तयोरिंद्रः पादयोस्तु त्रिविक्रमः । ४१७ ॥ पायोर्मृत्युरुपस्थस्य त्वधिदैव प्रजापतिः । मनसो दैवत चद्रो बुद्धेर्दैवं बृहस्पतिः ।। ४१८ ॥ रुद्रस्त्वहंकृतेर्दैव क्षेत्रज्ञश्चित्तदैवतम् । दिगाद्या देवताः सर्वाः खादिसत्त्वांशसभवाः ॥ ४१९ ॥ समिता इद्रियस्थानेष्विद्रियाणां समंततः । निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ।। शरीरकरणप्रामा प्राणाहमधिदेवताः । पंचैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥ कर्मानुरूपेण गुणोदयो भवेद्गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेद्रियैर्निवर्त्य॑ते पुण्यमपुण्यमत्र ।। ४२२ । करोति विज्ञानमयोऽभिमान कर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किचि- न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥ द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहकारः । स्वयमेतद्विकृतीना साक्षी निर्लेप एवात्मा ।। ४२४ ॥ आत्मनः साक्षिमात्रत्व न कर्तृत्व न भोक्तृता । रविवत्प्राणिमिर्लोके क्रियमाणेषु कर्मसु ।। ४२५ ॥ न ह्यर्कः कुरुते कर्म न कारयति जंतवः । स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥ तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥ अज्ञात्वैव पर तत्व मायामोहितचेतसः । सर्ववेदान्तसिद्धान्तसारसंग्रहः । १६७ स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ।। ४२८ ॥ आत्मस्वरूपमविचार्य विमूढबुद्धि- रारोपयत्यखिलमेतदनात्मकार्यम् । स्वात्मन्यसगचितिनिष्ट्रिय एव चद्रे दूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९ ॥ आत्मानात्मविवेक स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वञ्जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥ पंचीकृतेभ्यः खादिभ्यो भूतेभ्यरत्वीक्षयेशितुः । समुत्पन्नमिद स्थूल ब्रह्माड सचराचरम् ॥ ४३१ ।। व्रीह्याद्योषधयः सर्वा वायुतेजोबुभूमयः । सर्वेषामप्यभूदन्न चतुर्विधशरीरिणाम् || ४३२ ।। केचिन्मारुतभोजनाः खलु परे चद्रार्कतेजोशना केचित्तोयकणाशिनोऽपरिमिता केचित्तु मृद्भक्षका । केचित्पर्णशिलातृणादनपराः केचित्तु मासाशिन केचिद्व्रिहियवान्नभोजनपरा जीवन्त्यमी जंतवः ॥ ४३३ ।। जरायुजाडजस्वेदजोद्भिज्जाद्याश्चतुर्विधा । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जतवः ॥ ४३४ ॥ यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः । अडजास्ते स्युरडेभ्यो जाता ये विहगादयः ॥ ४-५ ॥ स्वेदाज्जाता स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिजास्ते द्रुमादयः ॥ ४३६ ॥ इद स्थूलवपुर्जात भौतिक च चतुर्विधम् । सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७ ॥ एतत्समष्टयवन्छिन्न चैतन्य फलसयुतम् । प्रादुर्वैश्वानर इति विरादिति न वैदिकाः ।। ४३८ । १६८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः । विराट्स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥ चतुर्विधं भूतजात तत्तजातिविशेषतः। नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४०॥ साभास व्यष्ट्युपहित तत्तादात्म्यमुपागतम् | चैतन्य विश्व इत्याहुर्वेदान्तनयकोविदाः ।। ४४१ ।। विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ।। व्यष्टिरेपास्य विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥ देहोऽय पितृभुक्तानविकारान्छुल्लशोणितात् । जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ।। ४४४ ।। तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥ आत्मनः स्थूलभोगानामेतदायतनं विदुः । शब्दादिविषयान्भुक्ते स्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इद्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेद्रियमनोयुक्तो भोक्तेत्या मनीषिणः ॥ ४४७ ।। एकादशद्वारवतीह देहे सौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगानुपाधिसंस्थो बुभुजेऽयमात्मा ॥४४८॥ ज्ञानेद्रियाणि निजदैवतचोदितानि कर्मेद्रियाण्यपि तथा मनआदिकानि | स्वस्वप्रयोजनविधौ नियतानि सन्ति यत्नेन किंकरजना इव तं भजन्ते ॥ ४४९ ॥ यत्रोपभुक्ते विषयानथूलानेष महामतिः । अह ममेति सैपास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥ एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः । तद्विश्ववैश्वानरयोरभेद पूर्ववन्मतः ॥ ४५१ ॥ स्थूलसूक्ष्मकारणाख्याः प्रपचा ये निरूपिता । ते सर्वेऽपि मिलित्वैकः प्रपचोऽपि महान्भवेत् ॥ ४५२ ॥ महाप्रपचावच्छिन्न विश्वप्राज्ञादिलक्षणम् । विराडादीशपर्यत चैतन्य चैकमेव तत् ।। ४५३ ।। यदनाद्यतमव्यक्त चैतन्यमजमक्षरम् । महाप्रपचेन सहाविविक्त सदयोऽग्निवत् ।। ४५४ ॥ तत्सर्व खल्विद ब्रह्मोत्यस्य वाक्यस्य पडितैः । वान्यार्थ इति निर्णीत विविक्तं लक्ष्य इत्यपि ।। ४५५ ॥ स्थूलाद्यज्ञानपर्यत कार्यकारणलक्षणम् । दृश्य सर्वमनात्मेति विजानीहि विचक्षण || ४५६ ।। अतःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् । चैतन्य यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥ एष प्रत्यक्स्वप्रकाशो निरशोऽसग शुद्ध सर्वदैकस्वभावः । नित्याखडानंदरूपो निरीह साक्षी चेता केवलो निगुणश्च ॥४५८॥ नैव प्रत्यग्जायते वर्धते नो किचिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽय पुराणो नासौ हन्यो हन्यमाने शरीरे॥४५९।। जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशन दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथा दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६० ॥ अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मता पुनः । सर्ववेदान्तसिद्धान्तसारसंग्रहः । विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ) भ्रान्त्या मनुष्योऽहमहं द्विजोऽह तत्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी- त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥ अनात्मनो जन्मजरामृतिक्षुधा- तृष्णासुखक्लेशमयादिधर्मान् । विपर्ययेण ह्यतथाविधेऽस्मि- नारोपयन्त्यात्मनि बुद्धिदोषात् ।। ४६३ ॥ भ्रांत्या यत्र यदध्यासस्तत्कृतेन गुणेन वा। दोषेणाप्यणुमात्रेण स न सवध्यते क्वचित् ।। ४६४ ॥ कि मरुन्मृगतृष्णाबुपूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शखः पीतायते किमु ॥ ४६५ ॥ शिष्यः-- प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६ ॥ पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् । तदृष्टं शुक्तिरज्जादौ सादृश्याद्यनुवधतः ॥ ४६७ ॥ परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः । अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ४६८ }} नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः । सादृश्य सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥ अनात्मन्यात्मताध्यास कथमेष समागतः । निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ।। ४७० ॥ उपाधियोग उभयोः सम एवेगजीवयोः । जीवस्यैव कथं वंधी नेश्वरस्यास्ति तत्कथम् ॥ ४७१ ॥ -सर्ववेदान्तसिद्धान्तसारसंग्रहः । १७१ + . एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ।। ४७२ ॥ श्रीगुरु:- न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच सर्वशः ॥ ४७३ ॥ प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । प्रत्ययो नाहमस्मीति न ह्यास्त प्रत्यगात्मनि ।। ४७४ ॥ न कस्यापि स्वसद्भावे प्रमाणमभिकांक्ष्यते । प्रमाणाना च प्रामाण्य यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥ मायाकार्यैस्तिरोभूतो नैप आत्मानुभूयते । मेघवृदैर्यथा भानुस्तथायमहमादिभिः ।। ४७६ ॥ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतः सद्भिर्धान्तिरेवात्र कारणम् ॥ ४७७ ॥ दृगाद्यविषये व्योम्नि नीलतादि यथाऽबुधाः । अध्यस्यन्ति तथैवारिमन्नात्मन्यपि मतिभ्रमात् ।। ४७८ ।। अनामन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽय शख इत्यादौ सादृश्य किमपेक्षितम् ।। ४७९ ।। निरुपाधिभ्रमेष्वस्मिन्नेवापेक्षा प्रदृश्यते । सोपाधिष्वेव तदृष्ट रज्जुसर्पभ्रमादिषु ॥ ४८० ।। तथापि किंचिद्वक्ष्यामि सादृश्य शृणु तत्परः। अत्यतनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१ ॥ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वराऽमला । सांनिध्यादात्मवद्भाति सूर्यवत्स्फाटिको यथा ।। ४८२ ॥ आत्माभास ततो बुद्धिर्बुद्ध्याभास ततो मनः । अक्षाणि मनआभासान्यक्षाभासमिद वपुः ॥४८३।। १७२ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अत एवात्मबुद्धिर्देहाक्षादावनात्मनि । मूढानां प्रतिबिंबादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥ अनात्मन्यहमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥ सुप्तिमूर्च्छोत्थितेष्वेव दृष्टः संसारलक्षणः । अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ।। ४८६ ।। अध्यासबाधागमनस्य कारण शृणु प्रवक्ष्यामि समाहितात्मा । यस्मादिद प्राप्तमनर्थजातं जन्माप्ययव्याधिजरादिदुःखम्॥४८७ आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां ससार आत्मनः ॥ ४८८ ।। आवृतिस्तमसः शक्तिस्तद्धयावरणकारणम् | मूलाविद्येति सा प्रोक्ता यया समोहितं जगत् ।। ४८९ ॥ विवेकवानप्यतियौक्तिकोऽपि श्रुतात्मतत्त्वोऽपि च पडितोऽपि । शक्त्या यथा सवृतबोधदृष्टिरात्मानमात्मस्थमिम न वेद ।।४९०॥ विक्षेपनानी रजसस्तु शक्तिः प्रवृत्तिहेतुः पुरुषस्य नित्यम् । स्थूलादिलिंगान्तमशेपमेतद्यया सदात्मन्यसदेव सूयते ॥४९१।। निद्रा यथा पुरुषमप्रमत्त समावृणोतीयमपि प्रतीचम् । तथावृणोत्यावृतिशक्तिरतर्विक्षेपशक्तिं परिजृंभयन्ती ॥ ४९२ ।। शक्त्या महत्यावरणाभिधानया समावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवेत्यात्मत्वबुद्धिं विदधाति मोहात्॥४९३॥ यथा प्रसुप्तिप्रतिभासदेहे स्वात्मत्वधीरेप तथा ह्यनात्मनः । जन्माप्ययक्षुद्भयतृदछ्मादीनारोपयत्यात्मनि तस्य धर्मान् ॥४९४ विक्षेपशक्त्या परिचोद्यमानः करोति कर्माण्युभयात्मकानि । भुंजान एतत्फलमप्युपात्त परिभ्रमत्येव भवाबुराशौ ॥ ४९५ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः। १७३ अध्यासदोपात्समुपागतोऽय ससारबध प्रबलप्रतीचः। यद्योगतः क्लिश्यति गर्भवासजन्माप्ययक्लेशभयैरजस्त्रम् ||४९६॥ अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूल ससृतरादिकारणम् ।। ४९७ ।। सर्वानर्थस्य तद्बीज योऽन्यथाग्रह आत्मनः । ततः ससारसपात सततक्लेशलक्षणः ॥ ४९८ ॥ अध्यासादेव ससारो नष्टेऽध्यासे न दृश्यते | तदेतदुभय स्पष्ट पश्य त्व बद्धमुक्तयोः ।। ४९९ ।। बद्ध प्रवृत्तितो विद्धि मुक्त विद्धि निवृत्तितः । प्रवृत्तिरेव ससारो निवृत्तिर्मुक्तिरिष्यते ॥ ५०० ।। आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः । असत्कल्पोऽपि ससार तनुते रज्जुसर्पवत् ॥ ५०१ ।। उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बधस्तत्कार्यमपि किंचन ।। ५०२ ।। अस्योपाधिः शुद्धसत्वप्रधाना माया यत्र त्वस्य नारत्यल्पभावः । सत्त्वस्यैवोत्कृष्टता तेन बधो नो विक्षेपरतत्कृतो लेशमात्रः॥५०३ सर्वज्ञोऽप्रतिवद्धबोधविभवरतेनैव देवः स्वय माया स्वामवलव्य निश्चलतया स्वच्छदवृत्तिः प्रभुः । सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया कुर्वन्क्रीडति तद्रजस्तम उभे सस्तभ्य शक्त्या स्वया ॥५०४॥ तस्मादावृतिविक्षेपौ किंचित्कतुं न शक्नुतः । स्वयमेव स्वतत्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५ ॥ तमेव साधीकर्मेति श्रुतिर्वक्ति महेशितुः | निग्रहानुग्रहे शक्तिरावृतिक्षपयोर्यतः ॥ ५०६ ॥ राजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । 5 ११७४ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ó जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७ ।। तेन बंधोऽस्य जीवस्य संसारोऽपि च तत्कृतः । संप्राप्तः सर्वदा यत्र दुःख भूय स ईक्षते ॥ ५०८ ॥ एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः । अध्यासमूलमज्ञानमाहुरावृत्तिलक्षणम् ॥ ५०९ ॥ अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥ कर्मणा जायते जतु कर्मणैव प्रलीयते । कर्मणः कार्यमेवैपा जन्ममृत्युपरंपरा ॥ ५११ ॥ नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् । अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥ ययेन वर्धते तेन नाशस्तस्य न सिध्यति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥ नाशकत्व तदुभयो को नु कल्पयितु क्षमः । सर्व कर्माविरोध्येव सदाऽज्ञानस्य सर्वदा ॥ ५१४ ।। ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति । यस्य प्रध्वस्तजनको यत्सयोगोऽस्ति तत्क्षणे ।। ५१५ ।। तयोरेव विरोधित्व युक्त भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ।। ५१६ ॥ अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते । न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥ तस्मादज्ञानविच्छित्त्यै ज्ञान सपादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञान सिध्यति नान्यथा || ५१८ ।। युक्त्याऽऽत्मानात्मनोस्तस्मात्करणीयं विवेचनम् | अनात्मन्यात्मताबुद्धिग्रथिर्येन विदीर्यते ॥ ५१९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । १७५ आत्मानात्मविवेकार्थं विवादोऽय निरूप्यते । येनात्मानात्मनोस्तत्व विविक्त प्रस्फुटायते ॥ ५२० ॥ मूढा अश्नुतेवढान्ता. स्वय पडितमानिनः । ईशप्रसादरहिताः सहरोश्च बहिर्मुखाः ॥ ५२१ ॥ विवदन्ति प्रकारं त शृणु वक्ष्यामि सादरम् । अत्यतपामरः कश्चित्पुत्र आत्मेति मन्यते ।। ५२२ ॥ आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽह नष्टे नष्टोऽहमित्यतः ।। ५२३ ॥ अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि । आत्मा वै पुत्रनामासीत्येव च वदति श्रुतिः ।। ५२४ ॥ दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाकुरवदीक्षणात् ॥ ५२५ ॥ अतोऽय पुत्र आत्मेति मन्यते भ्रातिमत्तम । तन्मत दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥ प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ।। ५२७ ॥ पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिना प्रीतिरिष्यते । प्रदीप्ते भवने पुत्र त्यक्त्वा जतुः पलायते ॥ ५२८ ॥ तं विक्रीणाति देहार्थं प्रतिकूल निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ।। गुणरूपादिसादृश्य दीपवन्न सुते पितुः । अव्यगाज्जायते व्यगः सगुणांदपि दुर्गुणः ॥ ५३० ॥ आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च। पुत्रस्य पितृवद्रेहे सर्वकार्येषु वस्तुषु ॥ ५३१॥ स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते । . 1 १७६ सर्ववेदान्तसिद्धान्तसारसंग्रहः । श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥५३२॥ औपचारिकमात्मत्व पुत्रे तस्मान्न मुख्यतः । अहपदप्रत्ययार्थों देह एव न चेतरः ॥ ५३३ ॥ प्रत्यक्षः सर्वजतूनां देहोऽहमिति निश्चयः । एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥ पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः । आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥ तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः । देह आत्मा कथ नु स्यात्परतंत्रो ह्यचेतनः ॥ ५३६ ॥ इंद्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् | आश्रयश्चक्षुरादीनां गृहवगृहमेधिनाम् ॥ ५३७ ॥ बाल्यादिनानावस्थावाञ्शुक्लंशोणितसभवः । अतः कदापि देहस्य नात्मत्वमुपपद्यते ।। ५३८ ॥ बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः । इंद्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९ ॥ इंद्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् | एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ।। ५४० ॥ यतस्तस्मादिंद्रियाणां युक्तमात्मत्वमित्यमुम् । निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥ ५४१ इंद्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेश्चेतनत्व न हीक्ष्यते ॥ ५४२ ॥ श्रुत्याधिदेवतामेव इंद्रियेषूपचर्यते । न तु साक्षादिंद्रियाणां चेतनत्वमुदीर्यते ॥ ५४३ ॥ अचेतनस्य दीपादेरर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥ सर्ववेदान्तसिद्वान्तसारसंग्रहः। १७७ इद्रियाणा चेष्टयिता प्राणोऽय पचवृत्तिकः । सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति । अह क्षुधावास्तृष्णावानित्याद्यनुभवादपि ॥ ५४५ ॥ श्रुत्यान्योऽतर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्व युक्त नो करणसज्ञानां वापि ॥ ५४६ ॥ इति निश्चयमेतस्य दूषयत्यपरो जडः । भवत्यात्मा कथ प्राणो वायुरेवैप आंतरः ॥ ५४७ ॥ बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः । न हित वाहित वा स्वमन्यद्वा वेद किंचन ॥ ५४८ ॥ जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भान मनसि स्थित सुप्ते न दृश्यते ॥ ५४९ ॥ मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ।। ५५० ॥ सकल्पवानह चिंतावानहं च विकल्पवान् । इत्याधतुमवादन्योऽन्तर आत्मा मनोमय ॥ ५५१ ॥ इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जड़ः ।। ५५२ ।। कथ मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्य करण न स्वय तु प्रवर्तते ।। ५५३ ॥ करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति । आत्मा स्वतत्रः पुरुपो न प्रयोज्यः कदाचन ।। ५५४ ॥ अह कर्तास्म्यह भोक्ता सुखीत्यनुभवादपि ।, बुद्धिरास्मा भवत्येव बुद्धिधर्मो ह्यहकृतिः ।। ५५५ ॥ अन्योऽतर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्न विज्ञानमय कर्तृरूपमात्मानम् ।। ५५६ ।। १७८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥ प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तन्निश्चय दूषयतो बुद्धिरात्मा कथं न्विति ।। ५५८ ॥ बुद्धरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ।। ५५९ ॥ अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् | भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥ विज्ञानमयादन्य त्वानदमय पर तथात्मानम् । अन्योऽतर आत्माऽऽनदमय इति वदति वेदोऽपि ॥ ५६१ ॥ दुःखप्रत्ययशून्यत्वादानदमयता मता । अज्ञाने सकल सुप्तौ बुद्धयादि प्रविलीयते ॥ ५६२ ॥ दुःखिनोऽपि सुषुप्तौ त्वानंदमयता ततः । सुप्तौ किचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३ ॥ यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चय युक्ता दूषयन्ति स्वयुक्तिभिः ।। ५६४ ॥ कथमज्ञानमेवात्मा ज्ञान चाप्युपलभ्यते । ज्ञानाभावे कथ विद्युराज्ञोऽहमिति चाज्ञताम् । अस्वाप्स सुखमेवाह न जानाग्यत्र किंचन ॥ ५६५ ॥ इत्यज्ञानमपि ज्ञान प्रबुद्धेषु प्रदृश्यते । प्रज्ञानधन एवानंदमय इत्यपि श्रुतिः ॥ ५६६ ।। प्रब्रवीत्युभयात्मत्वमात्मन स्वयमेव सा । आत्मातश्चिज्जडतनुः खद्योत इव समतः ।। ५६७ ॥ न केवलाज्ञानमयो घटकुड्या दिवज्जडः । सर्ववेदान्तसिद्धान्नसारसंग्रहः । इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥ ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९ ॥ सामानाधिकरण्यं वा सयोगो वा समाश्रयः। त्तमः प्रकाशवज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७० ॥ अज्ञानमपि विज्ञान बुद्धिर्वापि च तद्गुणाः । सुषुप्तौ नोपलभ्यन्ते यत्किंचिदपि वापरम् ॥ ५७१ ॥ मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्त्येव नाहमण्यासमित्यनु ।। ५७२ ।। सुप्तोत्थित्तजनैः सर्वैः शून्यमेवानुस्मर्यते । यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३ ॥ वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् ।' निरुच्यते यतस्तस्मान्छून्यस्यैवात्मता मता ॥ ५७४ ॥ असन्नेव घट पूर्वं जायमानः प्रदृश्यते । न हि कुभः पुरैवातः स्थित्वोदेति बहिर्मुखः ।। ५७५ ।। यत्तस्मादसतः सर्वं सदिद समजायत । ततः सर्वात्मना शून्यस्यैवात्मत्व समर्हति ॥ ५७६ ।। इत्येव पडितमन्यै परस्परविरोधिभि । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभि ।। ५७७॥ निर्णीतमतजातानि खडितान्येव पडितैः । श्रुतिभिश्चाप्यनुभवैर्वाधकै प्रतिवादिनाम् ।। ५७८ ॥ यतरतस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः | सुसाधितमनात्मत्व श्रुतियुक्त्यनुभूतिभिः ।। ५७९ ।। न हि प्रमाणातरबाधितस्य याथार्थ्यमगीक्रियते महद्भिः। पुत्रादिशून्यान्तमनास्मतत्त्वामित्येव विस्पष्टमत सुजातम् ॥५८०॥ तत. १८० सर्ववेदान्तसिद्धान्तसारसंग्रहः । - - शिष्यः- सुषुप्तिकाले सकले विलीने शून्य विना नान्यदिहोपलभ्यते । शून्य त्वनात्मा न ततः परः कोऽध्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥५८१।। यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् | किंलक्षणोऽसौ स कथ न बाध्यते प्रबाध्यमानेष्वहमादिषु स्वयम्॥५८२।। एतत्सशयजातं मे हृदयग्रथिलक्षणम् । छिंद्धि युक्तिमहाखड्गधारया कृपया गुरो ॥ ५८३ ।। श्रीगुरु:- अतिसूक्ष्मतरः प्रश्नस्तवाय सदृशो मतः । सूक्ष्मार्थदर्शन सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४ ॥ शृणु वक्ष्यामि सकलं यद्यत्पृष्ट त्वयाधुना । रहस्य परम सूक्ष्म ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ।। बुद्धयादि सकलं सुप्तावनुलीनं स्वकारणे । अव्यक्ते वटवद्वीजे तिष्टत्यविकृतात्मना ॥ ५८६ ॥ तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । क्वचिदंकुररूपेण कचिद्बीजात्मना वटः ! कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ।। अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः । सुषुप्त्यादिषु तद्भेदं तर्ह्यव्याकृतमित्यसौ ॥ ५८८ ॥ इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः । जगतो दर्शन शून्यमिति प्राहुरतद्विदः ।। ५८९ ॥ नासतः सत उत्पत्तिः श्रूयते न च दृश्यते । उदति नरशृंगात्किं खपुष्पारिक भविष्यति ।। ५९० ।। प्रभवति न हि कुंभोऽविद्यमानो मृदश्चे- त्प्रभवतु सिकताया वाथवा वारिणो वा । " 1 सर्ववेदान्तसिद्धान्तसारमंग्रहः। न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा- द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ ५९१ ॥ अन्यथा विपरीत स्यात्कार्यकारणलक्षणम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥ कथमसत सजायतेति श्रुत्या निषिध्यते तस्मात् । असतः सज्जनन नो घटते मिथ्यैव शून्यशब्दार्थः ॥५९३॥ अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति । कथ सिध्यति शून्यत्व तस्य भ्रान्तशिरोमणे ।। ५९४ ॥ सुषुप्तौ शून्यमेवेति केन पुसा तवेरितम् ।। हेतुनानुमित केन कथं ज्ञान त्वयोच्यताम् ।। ५९५ ॥ इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपक लिंग वक्ता वा नास्ति कश्चन | सुषुप्तिस्थितशून्यस्य बोद्धा को न्वात्मनः परः ॥ ५९६ ॥ - स्वेनानुभूत स्वयमेव वक्ति स्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवेक्ष्य मूढः स्वस्यापि शून्यत्वमय ब्रवीति ॥ ५९७॥ अवेद्यमानः स्वयमन्यलोकैः सौषुप्तिक धर्ममवैति साक्षात् । बुद्ध्याद्यभावस्य च योऽत्र बोद्धा स एप आत्मा खल निर्विकारः॥ यस्येद सकल विभाति महसा तस्य स्वयज्योतिषः सूर्यस्येव किमस्ति भासकभिह प्रज्ञादि सर्वं जडम् । न ह्यर्कस्य विभासक क्षितितले दृष्ट तथैवात्मनो नान्यः कोऽप्यनुमासकोऽनुभविता नातः परः कश्चन ॥५९९॥ येनानुभूयते सर्व जाग्रत्स्वप्नसुषुप्तिपु । विज्ञातारमिम को नु कथ वेदितुमर्हति ॥ ६०० ॥ सर्वस्य दाहको वह्निबर्नान्योऽस्ति दाहकः । यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१॥ १८२ सर्ववेदान्तसिद्धान्तसारसंग्रहः। उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः। उपलब्ध्यंतराभावान्नायमात्मोपलभ्यते ॥ ६०२॥ बुद्ध्यादिवेद्यविलयादयमेक एव सुप्तौ न पश्यति शृणोति न वेत्ति किंचित् । सौषुप्तिकस्य तमसः स्वयमेव साक्षी भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥ सुषुप्तावात्मसद्भावे प्रमाण पंडितोत्तमाः । विदुः स्वप्रत्यभिज्ञानमावालवृद्धसंमतम् ॥ ६०४ ।। प्रत्यभिज्ञायमानत्वाल्लिंगमात्रानुमापकम् । स्मर्यमाणस्य सद्भावः सुखमस्वाप्सामित्ययम् ।। ६०५ ॥ पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ।। ६०६ ॥ यत्रात्मनोऽकामयितृत्वबुद्धिः स्वमानपेक्षापि च तत्सुषुप्तम् । इत्यात्मसद्भाव उदीर्यतेऽत्र श्रुत्यापि तस्माच्छुतिरत्र मानम् ।। ६०५ अकामयितृता स्वमाद्दर्शनं घटते कथम् । अविद्यमानस्य तत आत्मास्तित्व प्रतीयते ।। ६०८।। एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः । आत्मायं केवलः शुद्धः सच्चिदानंदलक्षणः ॥ ६०९ ।। सत्त्वचित्त्वानंदतादिलक्षणं प्रत्यगात्मनः । कालत्रयेऽप्यवाध्यत्वं सत्यं नित्यस्वरूपत || ६१० ।। शुद्धचैतन्यरूपत्व चित्त्व ज्ञानस्वरूपतः । अखडसुखरूपत्वादानदत्वमितीर्यते ।। ६११ ॥ अनुस्यूतात्मनः सत्ता जाग्रत्स्वानमुपुप्तिषु । अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ।। ६१२ ।। सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । सर्ववेदान्तसिद्धान्तसारसंग्रहः । कदापि नासमित्यस्मादात्मनो नित्यता मता ।। ६१३ ॥ आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखाः स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि ।। गंगाभंगपरंपरासु जलवत्सत्तानुवृत्तात्मन- स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ।। ६१४ ।। प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कलत्वा- दयमविकार्यत एव नित्य आत्मा ।। ६१५ ।। यः स्वममद्राक्षमह सुख यो- ऽस्वाप्स स एवास्म्यथ जागरूकः । इत्येवमच्छिन्नतयानुभूयते सत्तात्मनो नास्ति हि संशयोऽत्र ।। ६१६ ॥ श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ।। ६१७ ॥ जडप्रकाशकः सूर्य प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्माञ्चित्स्वरूपस्तथा मतः ।। ६१८ ॥ कुड्यादेस्तु जडस्य नैव घटते भान स्वतः सर्वदा सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा । बुद्ध्यादेरपि न स्वतोऽरत्यणुरपि स्फूर्तिविनैवात्मना सोऽय केवलचिन्मयश्रुतिमतो भानुर्यथा रुड्मयः ।। ६१९ ।। स्वभासने वान्यपदार्थभासने नार्कः प्रकाशातरमीषदिच्छति । स्वबोधने वाप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ।। ६२० ।। अन्यप्रकाश न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव । ततः स्वयज्योतिरय चिदात्मा न ह्या मभाने परदीप्त्यपेक्षा || ६२११॥ . १८४ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यं न प्रकाशयति किंचिदिनोऽपि चद्रः नो विद्युतः किमुत वह्निरयं मिताभः । यं भान्तमेतमनुभाति जगत्समरत सोऽयं स्वय-रफुरति सर्वदशासु चात्मा ।। ६२२ ॥ आत्मनः सुखरूपत्वादानदत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६९३ ॥ सुखहेतुषु सर्वेषा प्रीतिः सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४ ॥ क्षीणेंद्रियरय जीर्णस्य संप्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥ आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् | यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ।। प्रियत्वेन मत यत्तु तत्सदा नाप्रिय नृणाम् | विपत्तावपि सपत्तौ यथात्मा न तथापरः ॥ ६२८ ॥ आत्मा खलु प्रियतमोऽसुभृता यदर्था भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्पणगवाबनराजसेवा- भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ।। प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३० ॥ तस्मादात्मा केवलानदरूपो यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः । यो वा अस्मान्मन्यतेऽन्य प्रियं य सोऽय तस्मान्छोकमेवानुभुक्ते ॥६३१।। सर्ववेदान्तसिद्धान्तसारसंग्रहः । । शिष्यः- अपरः क्रियते प्रश्नो मयाय क्षम्यता प्रभो । अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥ आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता । आत्मनः सुखमाशास्य यतते सकलो जनः ॥ ६३३ ॥ आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे सशयः स्वामिन् कृपयैव निररयताम् ॥ ६३४ ॥ श्रीगुरु:- आनदरूपमात्मानमज्ञात्वैव पृथग्जनः । बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥ अज्ञात्वैव हि निक्षेप भिक्षामदति दुर्मतिः । स्ववेश्मनि निधिं ज्ञात्वा को नु भिक्षामटेत्सुधी. ।। ६३६ ।। स्थूल च सूक्ष्म च वपुः स्वभावतो दुःखात्मक स्वात्मतया गृहीत्वा । विस्मृत्य च स्व सुखरूपमात्मनः दुखप्रदेभ्य सुखमज्ञ इच्छति ॥ ६३७ ।। न हि दुःखप्रद वस्तु सुख दातु समर्हति । किं विष पिबतो जतोरमृतत्व प्रयच्छति ॥ ६३८ ॥ आत्मान्यः सुखमन्यच्चेत्येव निश्चित्य पामरः । बहिःसुखाय यतते सत्यमेव न सशयः ॥ ६३९ ।। इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । प्रतीयते य आनदः सर्वेषामिह देहिनाम् ।। ६४० ॥ स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथ स्यादुपलभनम् ॥ ६४१ ।। अन्यत्र त्वन्यधर्माणामुपलभो न दृश्यते । सर्ववेदान्तसिद्धान्तसारसंग्रहः । तस्मान्न वस्तुधर्मोऽयमानंदस्तु कदाचन ॥ ६४२ ॥ नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् । असति व्यंजके व्यंग्यं नोदेतीति न मन्यताम् ॥ ६४३ ।। सत्यर्थेऽपि च नोदेति ह्यानंदस्तूक्तलक्षणः । सत्यपि व्यंजके व्यंग्यानुदयो नैव संमतः ।। ६४४ ।। दुरदृष्टादिक नात्र प्रतिबंधः प्रकल्प्यताम् | प्रियस्य वस्तुनो लाभे दुरदृष्ट न सिध्यति ॥ ६४५ ।। तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः । किं तु पुण्यस्य सानिध्यादिष्टस्यापि च वस्तुनः ।। ६४६ -1॥ सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिंबति । आनंदलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ।। सोऽयमाभास आनंदश्चित्ते यः प्रतिबिंबितः । पुण्योत्कर्षापकर्षाभ्या भवत्युच्चावचः स्वयम् ।। ६४८ ।। सार्वभौमादिब्रह्मान्त श्रुत्या यः प्रतिपादितः । स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ।। यात्येष विषयानंदो यस्तु पुण्यैकसाधनः । ये तु वैषयिकानंदं भुजते पुण्यकारिणः ॥ ६५० ॥ दुःख च भोगकालेऽपि तेषामते महत्तरम् । सुखं विषयसंपृक्त विपसपृक्तभक्तवत् ॥ ६५१ ॥ भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ।। भोगकाले भवेन्नॄणां ब्रह्मादिपदभाजिनाम् । राजस्थानप्रविष्टानां तारतम्य मतं यथा || ६५३ ॥ तथैव दुःख जतूना ब्रह्मादिपदभाजिनाम् | न कांक्षणीय विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ।। १८७ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यो बिंबभूत आनद स आत्मानदलक्षणः । शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ६५५ ॥ लक्ष्यते प्रतिबिंबेनाभासानदेन बिंबवत् । प्रतिबिंबो बिंबमूलो विना बिंब न सिध्यति ।। ६५६ ॥ यत्ततो बिंब आनद. प्रतिबिंबेन लक्ष्यते । युक्त्यैव पडितजनैर्न कदाप्यनुभूयते ॥ ६५७ ।। अविद्याकार्यकरणसघातेषु पुरोदित । आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः॥ ६५८ ॥ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्मणः । लये सुषुप्तौ स्फुरति प्रत्यगानदलक्षण || ६५९ ॥ न ह्यत्र विषय. कश्चिन्नापि बुद्ध्यादि किंचन । आत्मैव केवलानदमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥ प्रत्यभिज्ञायते सर्वैरेष मुप्तोत्थितैर्जुनै । सुखमात्रतया नात्र संशय कर्तुमर्हसि ॥ ६६१ ॥ त्वयापि प्रत्यभिज्ञात सुखमात्रत्वमात्मनः । सुषुप्तादुस्थितवता सुखमस्वाप्समित्यनु ॥ ६६२ ।। दुःखाभावः सुखमिति यदुक्त पूर्ववादिना । अनाघ्रातोपनिपदा तदसार मृपा वचः ॥ ६६३ ॥ दुःखाभावस्तु लोप्टादौ विद्यते नानुभूयते । सुखलेशोऽपि सर्वेषां प्रत्यक्ष तदिद खलु ॥ ६६४ ॥ सदय ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ! सद्धनोऽय चिद्धनोऽयमानदघन इत्यपि ॥ ६६५ ॥ आनदघनतामस्य स्वरूप प्रत्यगात्मन । धन्यैर्महात्मभिधीरैर्ब्रह्मविद्भिः सदुत्तमैः ।। ६६६ ॥ अपरोक्षतयैवात्मा समाधावनुभूयते । १८८ सर्ववेदान्तसिद्धान्तसारसंग्रहः । ) केवलानदमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजतवः । उपजीवन्त्यमुष्येव मात्रामानदलक्षणाम् ॥ ६६८ ॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेपां माधुर्य विद्यते क्वचित् ॥ ६६९ ॥ तद्वद्विपयसांनिध्यादानदो यः प्रतीयते । बिंबानदांशविस्फूतिरेवासौ न जडात्मनाम् ॥ ६७० ॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनदः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥ यथा कुवलयोल्लासश्चद्रस्यैव प्रसादतः । तथानंदोदयोऽप्येषा स्फुरणादेव वस्तुनः ॥ ६७२ ॥ सत्त्व चित्त्वं तथानंदस्वरूप परमात्मनः । निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ ॥ विशेषण तु व्यावृत्त्यै भवेद्दव्यांतरे सति । परमात्माद्वितीयोऽय प्रपचस्य मृपात्वत ॥ ६७४ ॥ वस्त्वतरस्याभावेन न व्यावृत्त्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्व निरुच्यते ॥ ६७५ ॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते | उष्णत्व च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥ सत्त्वचित्त्वानदतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः ॥ ६७७ ॥ भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपचस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥ नेष्यते तत्प्रकार ते वक्ष्यामि शृणु सादरम् | अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः । विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् । अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥ ६८० ॥ व्युत्क्रमेण तदुत्पत्तेष्टव्यं सूक्ष्मबुद्धिभिः। प्रतीतस्यास्य जगतः सन्मानत्वं सुयुक्तिभिः ॥ ६८१ ॥ चतुर्विध स्थूलशरीरजात तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्माडमेतत्सकलं स्थविष्ठमीक्षेत पंचीकृतभूतमात्रम् ॥ ६८२ ॥ यत्कार्यरूपेण यदीक्ष्यते तत्तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूत कलशादि सम्यग्विचारित सन्न मृदो बिभिद्यते॥६८३।। अतर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किंचन । ग्रीवादिभद्यत्कलश तदित्थ न वाच्यमेतच मृदेव नान्यत् ॥ ६८४॥ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढेरभिधीयते ततः । नाम्नो हि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे।।६८५॥ तस्माद्धि कार्यं न कदापि भिन्न स्वकारणादस्ति यतस्ततोंऽग । यद्भौतिक सर्वमिद तथैव तद्भूतमात्र न ततोऽपि भिन्नम् ॥६८६॥ तच्चापि पचीकृतभूतजात शब्दादिभि स्वस्वगुणैश्च सार्धम् । वपूषि सूक्ष्माणि च सर्वमेतद्भवत्यपचीकृतभूतमात्रम् ॥ ६८७ ॥ तदप्यपचीकृतभूतजात रजस्तमःसत्त्वगुणैश्च सार्धम् । अव्यक्तमात्र भवति स्वरूपतः साभासमव्यक्तमिदं स्वय च ॥६८८॥ आधारभूत यदखंडमाद्य शुद्ध पर ब्रह्म सदैकरूपम् । सन्मात्रमेवास्त्यथ नो विकल्प सतः पर केवलमेव वस्तु ॥ ६८९ ॥ एकश्चद्रः सद्वितीयो यथा स्यादृष्टेर्दोषादेव पुसस्तथैकम् । ब्रह्मास्त्येतद्बुद्धिदोषेण नाना दोष नष्टे भाति वस्त्वेकमेव ॥६९०॥ रज्जो स्वरूपाधिगमे न सर्पधी रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगत्या तु जगत्प्रतीतिस्तत्रैव लीना तु सह भ्रमेण ॥ ६९१ ॥ भ्रात्योदितद्वैतमतिप्रशात्या सदैकमेवास्ति सदाऽद्वितीयम् । सर्ववेदान्तसिद्धान्तसारसंग्रहः । ततो विजातीयकृतोऽत्र भेदो न विद्यते ब्रह्माणि निर्विकल्पे।।६९२॥ यदास्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्नार्थतस्तस्य मृषात्मकत्वात्तदप्रतीतौ स्वयमेष आत्मा । ब्रह्मैक्यतामेति पृथड् न भाति ततः सजातीयकृतो न भेदः।।६९३॥ घटाभावे घटाकाशो महाकाशी यथा तथा । उपाध्यभावे त्वात्मेैष स्वयं ब्रह्मैव केवलम् ।। ६९४ ॥ पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५॥ अच्छिन्नश्छिन्नवद्भाति पामराणा घटादिना। ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ।। ६९६ ॥ तथैव परम ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रांत्या कल्पितवस्तुना ॥ ६९७ ॥ तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः । अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये | प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुच्यते । तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥ शिष्यः- स्यात्तत्त्वपदयोः स्वामिन्नर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः । ७०० ॥ वान्यैकत्वविवक्षाया विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथ विनिवर्तते ॥ ७०१ ॥ एकत्वकथने का वा लक्षणात्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्व प्रतिपादय ॥ ७०२ ॥ श्रीगुरु:-

शृणुष्वावहितो विद्वन् अद्य ते फलित तपः ।
वाक्यार्थश्वतिमात्रेण सम्यज्ज्ञान भविष्यति ॥ ७०३ ।।
यावन्न तत्त्वपदयोरर्थः सम्यग्विचार्यते ।
तावदेव नृणा बधो मृत्युससारलक्षणः ॥ ७०४ ॥
अवस्था सच्चिदानंदाखडैकरसरूपिणी ।
मोक्ष सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥ ७०५ ॥
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोभवमुक्तये ।
तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ।। ७०६ ।।
अर्था बहुविधाः प्रोक्ता वाक्याना पडितोत्तमैः ।
वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥
वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् ।
तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ }}
शास्त्रार्थकोविदैरर्थो वान्यो लक्ष्य इति द्विधा ।
वाच्यार्थं ते प्रवक्ष्यामि पडितैर्य उदीरितः ॥ ७०९ ॥
समष्टिरूपमज्ञान साभास सत्त्वबृहितम् ।
वियदादिविराडत स्वकार्येण समन्वितम् ॥ ७१० ॥
चैतन्य तदवन्छिन्न सत्यज्ञानादिलक्षणम् ।
सर्वज्ञत्वेश्वरत्वातर्यामित्वादिगुणैर्युतम् ॥ ७११ ।।
जगत्स्रष्टुत्वपातृत्वसंहर्तृत्वादिधर्मकम् ।
सर्वात्मना भासमान यदमेय गुणैश्च तत् ॥ १२ ॥
अव्यक्तमपर ब्रह्म वाच्यार्थ इति कथ्यते ।
नीलमुत्पलमित्यत्र यथा वाक्यार्थसंगतिः ।। ७१३ ॥ .
तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसगतिः ।
पटाद्व्यावर्तते नौल उत्पलेन विशेषितः ।। ७१४ ॥

१९२ सर्ववेदान्तसिद्धान्तसारसंग्रहः ।

शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥ विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणांतरविरोधो न विद्यते ॥ ७१६ ॥ अतः संगन्छते सम्यग्वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समंजसः।। ७१७ ।। तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ ७१८ ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः । संगच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ।। ७२० ॥ सर्वेशत्वस्वतंत्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः सत्यकामः सत्यसकल्प ईश्वरः ॥ ७२१ ॥ तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥ कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥ विरुद्धधर्माक्रातत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ।। प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महास्मृतिवचनविरोधश्च ॥ ७२५ ॥ श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीत्यस्मादगीकार्यं श्रुतेर्वचः ।। ७२६ ॥ वाक्यार्थत्वे विशिष्टस्य ससर्गस्य च वा पुनः । सर्ववेदान्तसिद्धान्तसारसग्रहः । १९२ अयथार्थतया सोऽयं वाक्यार्थों न मतः श्रुतेः ।। ७२७ ॥ अखडैकरसत्वेन वाक्यार्थः श्रुतिसमतः । स्थूलसूक्ष्मप्रपचस्य सन्मात्रत्व पुनः पुनः ॥ ७२८ ॥ दयित्वा सुषुप्तौ तब्रह्माभिन्नत्वमात्मनः । उपपाद्य सदैकत्व प्रदर्शयितुमिच्छया ॥ ७२९ ॥ ऐतदात्म्यमिद सर्वमित्युक्त्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्व ब्रह्मणोऽद्वैतसिद्धये ॥ ७३० ।। सति प्रपचे जीवे वा द्वैतत्व ब्रह्मणः कुतः । अतस्तयोरखडत्वमेकत्व श्रुतिसमतम् ।। ७३१ ॥ विरुद्धाशपरित्यागात्प्रत्यक्षादिर्न बाधते । अविरुद्धाशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२ ।। लक्षणा ह्युपगतव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३ ॥ सबधानुपपत्त्या च लक्षणेति जगुर्बुधाः । गंगायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गंगाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ ७३५ ॥ सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः । गंगासंबधवत्तीरे लक्षणा सप्रवर्तते ।। ७३६ ।। तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे । विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७ ॥ विरुध्यते भागमात्रो न तु सर्वो विरुध्यते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८ ॥ वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते । नारिकेलफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥ १३

गंगापदं यथा स्वार्थ त्यक्त्वा लक्षयते तटम् |
तत्पदं त्वपद वापि त्यक्त्वा स्वार्थ यथाखिलम् || ७४० ॥
तदर्थं वा त्वमर्थ वा यदि लक्षयति स्वयम् ।
तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ।।
न शंकनीयमित्यार्यैज्ञातार्थे न हि लक्षणा ।
तत्पदं त्वंपदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥
तदर्थे च कथ तत्र सप्रवर्तेत लक्षणा ।
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥
अजहल्लक्षणा वापि सा जहल्लक्षणा यथा ।
गुणस्य गमनं लोके विरुद्ध द्रव्यमतरा ॥ ७४४ ॥
अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः ।
लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ।।
वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके ।
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ।। ७४६ ॥
एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् ।
न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥
तत्पद त्वपद चापि वकीयार्थविरोधिनम् ।
अश सम्यक्परित्यज्य स्वाविरुद्धाशसयुतम् ॥ ७४८ ॥
तदर्थं वा त्वमर्थं वा सम्यन्लक्षयतः स्वयम् ।
भागलक्षणया साध्य किमस्तीति न शक्यताम || ७४९ ॥
अविरुद्धं पदार्थान्तराश स्वाश च तत्कथम् ।
एक पद लक्षणया सलक्षयितुमर्हति ॥ ७५० ॥
पदातरेण सिद्धाया पदार्थप्रमितौ स्वतः ।
तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ।। ७५१ ॥
तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा ।

वाक्यार्थसत्त्वाखडैकरसतासिद्धये मता ॥ ७५२ ॥
भाग विरुद्ध सत्यज्याविरोधो लक्ष्यते यदा ।
सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥
सोऽय देवदत्त इति वाक्य वाक्यार्थ एव वा ।
देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥
देशकालादिवैशिष्ट्य विरुद्धाश निरस्य च ।
अविरुद्ध देवदत्तदेहमात्र स्वलक्षणम् ॥ ७५५ ॥ -
भागलक्षणया सम्यग्लक्षयत्यनया यथा ।
तथा तत्त्वमसीत्यत्र वाक्य वाक्यार्थ एव वा ॥ ७५६ ॥
परोक्षत्वापरोक्षत्वादिविशिष्टचित्तोर्द्वयोः ।
एकत्वरूपवाक्यार्थविरुद्धाशमुपस्थितम् ।। ७५७ ॥
परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् ।
बुद्ध्यादिस्थूलपर्यंतमाविद्यकमनात्मकम् ॥ ७५८ ॥
परित्यज्य विरुद्धाशं शुद्धचैतन्यलक्षणम् ।
वस्तु केवलसन्मात्र निर्विकल्प निरजनम् ॥ ७५९ ।।
लक्षयत्यनया सम्यग्भागलक्षणया ततः।
सर्वोपाधिविनिर्मुक्त सच्चिदानदमद्वयम् ।। ७६० ॥
निर्विशेष निराभासमतादशमनीदृशम् ।
आनिर्देश्यमनायत्तमनत शातमन्युतम् ।
अप्रतर्क्यमविज्ञेय निर्गुण ब्रह्म शिष्यते ॥ ७६१ ॥
पाधिवैशिष्टयकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्या।
पाधिवैशिष्टय उदस्यमाने न कश्चिदप्यस्ति विरोध एतयोः ॥७६२॥
तयोरुपाधिश्च विशिष्टता च तद्धर्मभाक्त्व च विलक्षणत्वम् ।
भ्रांत्या कृत सर्वमिद मृपैव स्वप्नार्थवज्जाग्रति नैव सत्यम् ।।७६३॥
निद्रासूतशररिधर्मसुखदुःखादिप्रपचोऽपि वा

 जीवेशादिभिदापि वा न च ऋत कर्तुं क्वचिच्छक्यते ।
मायाकल्पितदेशकालजगदीशादिभ्रमरतादृशः
 को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ||७६४
 न स्वप्नजागरणयोरुभयोर्विशेषः
  संदृश्यते क्वचिदपि भ्रमजैर्विकल्पैः ।
 यदृष्टदर्शनमुखैरत एव मिथ्या
  स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥
 आविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ ।
 दृष्टदर्शनदृश्यादिकल्पनोभयतः समा || ७६६ ॥
 अभाव उभयोः सुप्तौ सवेरप्यनुभूयते ।
 न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥
 भ्रात्या ब्रह्मणि भेदोऽय सजातीयादिलक्षणः ।
 कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥
 यत्र नान्यत्पश्यतीति श्रुतिर्द्वैत निषेधति ।
 कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥
यतस्ततो ब्रह्म सदाऽद्वितीय विकल्पशून्य निरुपाधि निर्मलम् ।
निरतरानदघन निरीहं निरारपदं केवलमेकमेव ॥ ७७० ।।
 नैवास्ति काचन भिदा न गुणप्रतीति-
  र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः ।
 यत्केवलं परमशांतमनतमाद्य-
  मानंदमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥
  यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।
  अजरामरण नित्य सत्यमेतद्वचो मम ॥ ७७२ ॥
 न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो
  मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि ।

 न चैषां सघातस्त्वमु भवति विद्वन् शृणु पर
  यदेतेपां साक्षी स्फुरणममल तत्त्वमसि हि ॥ ७७३ ॥
यज्जायते वस्तु तदेव वर्धते तदेव मृत्यु समुपैति काले ।
जम्मैव तेनास्ति तथैव मृत्यु स्त्येव नित्यस्य विभोरजस्य ।। ७७४ ॥
य एष देहो जनितः स एव समेधते नश्यति कर्मयोगात् ।
त्वमेतदीयास्वखिलास्ववस्थास्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥
 यत्स्वप्रकाशमखिलात्मकमासुषुप्ते-
  रेकात्मनाहमहमित्यवभाति नित्यम् ।
 बुद्धेः समस्तविकृतेरविकारि बोद्धृ
  यद्ब्रह्म तत्त्वमसि केवलबोवमात्रम् || ७७६ ॥
 स्वात्मन्यनस्तमयसविदि कल्पितस्य
  व्योमादिसर्वजगतः प्रददाति सत्ताम् ।
 स्फूर्ति स्वकीयमहसा वितनोति साक्षा-
  द्यब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७ ॥
 सम्यक्समाविनिरतैर्विमलातरगैः
  साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् ।
 सतुष्यते परमहसकुलैरजस्त्र
  यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ।। ७७८ ।।
 अतर्बहिः स्वयमखडितमेकरूप-
  मारोपितार्थवदुदचति मूढबुद्धेः ।
 मृत्स्नादिवद्विगतविक्रियमात्मवेद्य
  यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ।।
 श्रुत्युक्तमव्ययमनतमनादिमध्य-
  मव्यक्तमक्षरमनाश्रयमप्रमेयम् ।
 आनदसद्धनमनामयमद्वितीयं

 यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥
शरीरतद्योगतदीयधर्माद्यारोपणं भ्रान्तिवशात्त्वयीदम् ।
न वस्तुतः किंचिदतस्त्वजस्त्वं मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥७८१॥
 यद्यपृष्टं भ्रान्तिमत्या स्वदृष्ट्या
  तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव ।
 त्वत्तो नान्यद्वस्तु किंचित्तु लोके
  कस्माद्भीतिस्ते भवेदद्वयरय ॥ ७८२ ॥
पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् |
भय स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥
तस्मात्त्वमभयं नित्य केवलानंदलक्षणम् ।
निष्कलं निष्क्रिय शांत ब्रह्मैवासि सदाऽद्वयम् ॥ ७८४ ॥
ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्न ज्ञानमखंडम् |
ज्ञेयाज्ञेयत्वादिविमुक्त शुद्धं बुद्ध तत्त्वमसि त्वम् || ७८५ ।।
अतःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तदृशिमात्रम् ।
सत्तामात्रं समरसमेक शुद्ध बुद्धं तत्त्वमसि त्वम् ॥ ७८६ ॥
सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूत यत् ।
सत्य शाश्वतमेकमनत शुद्ध बुद्धं तत्त्वमसि त्वम् ।। ७८७ ॥
नित्यानदाखंडैकरसं निष्कलमक्रियमस्तविकारम् ।
प्रत्यगभिन्नं परमव्यक्त शुद्धं बुद्ध तत्त्वमसि त्वम् ॥ ७८८ ॥
त्वं प्रत्यस्ताशेपविशेष व्योमेवांतर्बहिरपि पूर्णम् ।
ब्रह्मानंद परमद्वैतं शुद्धं बुद्ध तत्त्वमसि त्वम् ॥ ७८९ ॥
ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् |
इत्येवाखडया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥
अखंडामेवैतां घटितपरमानंदलहरीं
 परिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् ।

अमुचानः स्वात्मन्यनुपमसुखे ब्रह्माणि परे
 रमस्व प्रारब्ध क्षपय सुखवृत्त्या त्वमनया ।। ७९१ ।।
ब्रह्मानदरसास्वादतत्परेणैव चेतसा ।
समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥
अखडाख्या वृत्तिरेषा वाक्यार्थश्रृतिमात्रतः ।
श्रोतुः सजायते किं वा क्रियातरमपेक्षते ।। ७९३ ॥
समाधिः कः कतिविधस्तत्सिद्धे किमु साधनम् ।
समाधेरतरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥
मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः ।
तेषा प्रज्ञानुसारेणाखडा वृत्तिरुदेष्यते ॥ ७९५ ॥
श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वर कर्मणा
सतोष्यार्जिततत्प्रसादमहिमा जन्मातरेष्वेव यः ।
नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै-
र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ ७९६ ॥
अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्त्रा
वाक्याथै बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य ।
नित्यानदाद्वितीय निरुपमममल यत्पर तत्त्वमेक
तौवाहमस्मीत्युदयति परमाखडताकारवृत्तिः ॥ ७९७ ।।
अखडाकारवृत्तिः सा चिदाभामसमन्विता ।
आत्माभिन्न पर ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ।।
बाधते तद्गताज्ञान यदावरणलक्षणम् ।
अखडाकारया वृत्त्या त्वज्ञाने बाधिते सति ।। ७९९ ॥
तत्कार्यं सकल तेन सम भवति बाधितम् ।

तंतुदाहे तु तत्कार्यपटदाहो यथा तथा ।। ८०० ॥
तस्य कार्यतया जीववृत्तिर्भवति बाधिता।
उपप्रभा यथा सूर्य प्रकाशयितुमक्षमा ॥ ८०१ ।।
तद्वदेव चिदाभासचैतन्य वृत्तिसस्थितम् ।
स्वप्रकाशं पर ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥
प्रचंडातपमध्यस्थदीपवन्नष्टदाधितिः ।
तत्तेजसाभिभूत सल्लीनोपाधितया ततः ॥ ८०३ ॥
बिंबभूतपरब्रह्ममात्र भवति केवलम् ।
यथापनीते त्वादर्शे प्रतिबिंबमुख रवयम् ॥ ८०४ ॥
मुखमात्र भवेत्तद्वदेतोपाधिसक्षयात् ।
घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ।।
घटं विस्फुरयत्येष चिदाभासः स्वतेजसा ।
न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥
अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् |
न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७ ॥
श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया ।
प्रज्ञामाद्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥
स्यादखडाकारवृत्तिर्विना तु मननादिना ।
श्रवणान्मननाद्ध्यानात्तात्पर्येण निरतरम् ॥ ८०९ ॥
बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते ।
मंदप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥
श्रवण मनन ध्यान सम्यग्वस्तूपलब्धये ।
सर्ववेदान्तवाक्यानां पड्भिलिंगैः सदद्वये ॥ ८११ ।।
परे ब्रह्मणि तात्पर्यनिश्चय श्रवण विदुः ।
श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥

वेदान्तवाक्यानुगुणयुक्तिभिस्स्वनुचिंतनम् ।
मनन तच्छ्रुतार्थस्य साक्षात्करणकारणम् ॥ ८१३ ॥
विजातीयशरीरादिप्रत्ययत्यागपूर्वकम ।
सजातीयात्मवृत्तीना प्रवाहकरण यथा ॥
तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिप्यते ॥ ८१४ ॥
तावत्काल प्रयत्नेन कर्तव्य श्रवण सदा ।
प्रमाणसशयो यावत्स्वबुद्धेर्न निवर्तते ॥ ८१५ ॥
प्रमेयसशयो यावत्तावत्तु श्रुतियुक्तिभि ।
आत्मयाथार्थ्यनिश्चित्त्यै कर्तव्य मनन मुद्रः ॥ ८१६ ॥
विपरीतात्मधीर्यावन्न विनश्यति चेतसि ।
तावन्निरतर ध्यान कर्तव्य मोक्षमिच्छता ॥ ८१७ ॥
यावन्न तर्केण निरासितोऽपि दृश्यप्रपचस्वपरोक्षयोधात् ।
विलीयते तावदमुष्य भिक्षार्थ्यानादि सम्यक्करणीयमेव ॥ ८१८॥
सविकल्पो निर्विकल्प इति देवा निगद्यते ।
समाधि सविकल्पस्य लक्षण वच्मि तच्छृणु ॥ ८१९ ।।
ज्ञानाद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।
तदाकाराकारितया चित्तवृत्तरवस्थिति ॥ ८२० ।।
सद्भिः स एव विज्ञेय समाधिः सविकल्पकः ।
मृद एवावभानेऽपि मृण्मयाद्विपभानवत् ॥ ८२१ ।।
सन्मात्रवस्तुभानेऽपि त्रिपुटी माति सन्मयी ।
समाधिरत एवाय सविकल्प इतीर्यते ॥ ८२२ ॥
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।
मनसो निर्विकल्पः स्यात्समावियोगसज्ञितः ॥ ८२३ ॥
जले निक्षिप्तलवण जलमात्रतया स्थितम् |
'पृथड् न भाति किं न्वभ एकमेवावभासते ॥ ८२४ ॥

यथा तथैव सा वृत्तिब्रह्ममात्रतया स्थिता |
पृथड् न भाति ब्रह्मैवाद्वितीयमत्रभासते ॥ ८२५ ॥
ज्ञात्रादिकल्पनाभावान्मतोऽय निर्विकल्पकः ।
वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥
समाधिसुप्त्योर्ज्ञानं चाज्ञान सुक्यात्र नेष्यते ।
सविकल्पो निर्विकल्पः समाधिविमौ हृदि ॥ ८२७ ॥
मुमुक्षार्यत्नतः कार्यौ विपरीतनिवृत्तये ।
कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ।। ८२८ ॥
ज्ञानस्याप्रतिवद्धत्वं सदानंदश्च सिध्यति ।
दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ।।
सविकल्पस्तयोर्यत्तल्लक्षण वन्मि तन्छृणु ।
कामादिप्रत्ययैदृश्यैः ससर्गो यत्र दृश्यते ।। ८३० ॥
सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः ।
अहंममेदमित्यादिकामकोधादिवृत्तयः ।। ८३१ ॥
दृश्यन्ते येन सदृष्टा दृश्याः स्युरहमादयः।
कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ।। ८३२ ॥
साक्षिण स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः ।
कामादीनामह साक्षी दृश्यन्ते ते मया ततः ।। ८३३ ॥
इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् ।
दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥
नाह देहो नाप्यसुर्नाक्षवर्गों
 नाहकारो नो मनो नापि बुद्भिः ।
अंतस्तेषां चापि तद्विक्रियाणां
 साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥
वाचः साक्षी प्राणवृत्तेश्च साक्षी

बुद्धेः साक्षी बुद्भिवृत्तेश्च साक्षी ।
चक्षुःश्रोत्रादीद्रियाणां च साक्षी
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६॥
 नाह स्थूलो नापि सूक्ष्मो न दीर्घो
नाह बालो नो युवा नापि वृद्धः ।
नाह काणो नापि मूको न षढ
साक्षी नित्यः प्रत्यगेवाहमास्मि ।। ८३७ ।।
नास्म्यागता नापि गता न हता
नाह कर्ता न प्रयोक्ता न वक्ता ।
नाह भोक्ता नो सुखी नैव दुःखी
साक्षी नित्यः प्रत्यगेवाहमस्मि ।। ८३८ ।।
नाह योगी नो वियोगी न रागी
नाह क्रोधी नैव कामी न लोभी ।
नाह बद्धो नापि युक्तो न मुक्त
साक्षी नित्य प्रत्यगेवाहमस्मि ॥ ८३९ ॥
नांतःप्रज्ञो नो बहिःप्रज्ञको वा
नैव प्रज्ञो नापि चाप्रज्ञ एषः ।
नाह श्रोता नापि मता न बोद्धा
साक्षी नित्यः प्रत्यगेवाहमस्मि ।। ८४० ॥
न मेऽस्ति देहेद्रियबुद्धियोगो
न पुण्यलेशोऽपि न पापलेशः ।
क्षुधापिपासादिषडूर्मिदूरः
सदा विमुक्तोऽस्मि चिदेव केवलः ।। ८४१ ।।
अपाणिपादोऽहमवागचक्षुषी
अप्राण एवास्म्यमना ह्यबुद्धिः ।

व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि
सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ।।
इति स्वमात्मानमवेक्षमाणः
प्रतीतदृश्य प्रविलापयन्सदा ।
जहाति विद्वान्विपरीतभावं
स्वाभाविक भ्रांतिक्शात्प्रतीतम् ।। ८४३ ॥
विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते ।
सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४ ॥
न वेषभाषाभिरमुष्य मुक्तिर्या केवलाखडचिदात्मना स्थितिः ।
तत्सिद्धये स्वात्मनि सर्वदा स्थितो जह्यादहतां ममतामुपाधौ ॥८४५
स्वात्मतत्त्व समालब्य कुर्यात्प्रकृतिनाशनम् ।
तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ।। ८४६ ।।
ज्ञात्वा देव सर्वपाशापहानिः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
इत्येवैषा वैदिकी वाग्ब्रवीति
क्लेशक्षत्यां जन्ममृत्युप्रहाणिम् ॥ ८४७ ॥
भूयो जन्माद्यप्रसक्तिर्विमुक्तिः
क्लेशक्षत्यां भाति जन्माद्यभावः |
क्लैशक्षत्या हेतुरात्मैकनिष्ठा
तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥
क्लेशाः स्युर्वासना एव जंतोर्जन्मादिकारणम् ।
ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥
बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सपद्यते पुनः ॥ ८५० ॥
तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः ।

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।

निःशेषवामनानाय पिगैननिहराये ॥ ८.१ ॥ जाननिष्ठातपराय नेर गपियुयते । कर्मणो नाननिहायान निष्पनि माथिनिः ।। ८५६ ॥ परस्परविरुद्धवारमोमिनस्वभावः। कर्तृत्वभावनापूर्व कर्ग सान रिक्षगग ॥ दहान्ममुद्धेविन्रित्य नानं करिये । अज्ञानमूलकं कर्म ान नभवनागरम ॥ ८५४ ॥ जानेन कर्मणो योग, कार्य मिति नरिणा। महयोगो न घटने गया निगिरतेजनाः ॥ ८५.॥ निमपोन्मेषयोपि नथैव जानकर्मणी । प्रतीची पथ्यत धना धुन नानाविकानम् । प्रन्यप्रवणचित्तप्य कुनः कर्मणि योग्यता ॥ .. || जानकनिष्ठानिन्तस्य मिशीनचारकामोऽग्निहि कमरे । तदेव कास्य नदेव मच्या तंदर नव नानाध्यदलि८५७॥ बुद्धिकल्पितमानिन्यभाग्न ग्नानमात्मनः । तेनैव शुद्धिरंतस्य न मुदा न जलन च ॥ ८५८ ॥ स्वम्बरूपे मन स्थानमनुष्टान तदियो । करणत्रयमाप्य यत्तामृषा तदसन्यतः ।। ८५९ ॥ विनिपिझ्याखिल दृश्य स्वम्वल्पेण या स्थितिः । मा सध्या नदनुष्ठान तान तनि भोजनम् ॥ ८६०॥ विज्ञातपरमार्थाना शुद्धसत्त्वान्मना सताम् । यतीना किमनुष्ठान स्वानुसधि विना परम् ॥ ८६१ ॥ तस्मानियान्तर त्यक्त्या ज्ञाननिष्टापरो यतिः । मदात्मनिष्टया तिष्टेन्निश्चलस्तत्परायणः ॥ ८६२ ।। कर्तव्य स्त्रोचित कर्म योगमारोदुमिन्छता ।

आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ।।
योगं समारोहति यो मुमुक्षुः
 क्रियान्तरं तस्य न युक्तमीषत् ।
क्रियान्तरासक्तमनाः पतत्यसौ
 तालद्रुमारोहणकर्तृवद् ध्रुवम् ।। ८६४ ॥
योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः ।
नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् ।
दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ।। ८६५ ।।
शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।
शान्तोऽहमन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ ८६६ ॥
आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् ।
निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥ ८६७ ॥
विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् ।
केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ।। ८६८
अपरोऽहमनपरोऽहं बहिरंतश्चापि पूर्ण एवाहम् ।
अजरोऽहमक्षरोऽहं नित्यानदोऽहमद्वितीयोऽहम् ॥ ८६९
प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम् |
श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ।।
एवं सन्मात्रगाहिण्या वृत्त्या तन्मात्रगाहकैः ।
शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ।। ८७१ ॥
कामादिदृश्यप्रविलापपूर्वकं शुद्धोऽहमित्यादिकशब्दमिश्रः ।
दृश्येव निष्ठस्य य एष भावः शब्दानुविद्धः कथितः समाधिः ।।८७२
दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि ।
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३ ॥
सविकल्पसमाधिं यो दीर्घकालं निरतरम् ।

 सस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ८७४ ॥
निर्विकल्पकसमाधिनिष्टया तिष्टतो भवति नित्या ध्रुवम् ।
उद्भवाद्यपगतिर्निरर्गला नित्यनश्चलनिरस्तनिर्वृत्तिः ॥ ८७. ॥
विद्वानहमिदमिति वा किञ्चिद् बाह्याभ्यन्तरवेदनशून्यः ।
स्वानन्दामृतसिन्धुनिमग्नस्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥
 निर्विकल्पं पर ब्रह्म यत्तस्मिन्नेव निष्टिताः ।
 एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशम् ॥ ८७७ ।।
 यथा समाधित्रितयं यत्नेन क्रियते हृदि।
 तथैव बाहृयदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८॥
 तत्प्रकारं प्रवक्षामि निशामय समासतः ।
 अधिष्टानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ८७९ ॥
 तत्राध्यस्तमिदं भाति नानारूपात्मकं जगत् ।
 सत्त्वं चित्त्वं तथाऽऽन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८ ॥
 अध्यस्तजगतो रुपं नानारूपमिदं द्वयम् ।
 एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ ८८५।।
 एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् ।
 शैत्यं श्वेतं रसं द्रव्यं तुरङ्ग इति नाम च ॥ ८८२ ॥
 एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा ।
 आरोपिते नामरूपे उपेक्ष्य ब्रह्मणः सतः ॥ ८८३ ॥
 स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः ।
 सच्चिदानन्दरूपस्य सकाशात् ब्रह्मणो यतिः ॥ ८८४ ॥
 नामरूपे पृथकृत्य ब्रह्मण्येव विलापयन् ।
 अधिष्टानं परं ब्रह्म सच्चिदानन्दमद्वयम् ।
 यत्तदेवाहमित्येव निश्चितात्मा भवेऋद् ध्रुवम् ॥ ८८५ ॥
 इदं भूर्न सन्नापि तोयं न तेजो

 न वायुर्न खं नापि तत्कार्यजातम् ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥
न शब्दो न रूपं न च स्पर्शको वा
 तथा नो रसो नापि गन्धो न चान्यः ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ।। ८८७ ॥
न सद्द्रव्यजातं गुणा न क्रिया वा
 न जातिर्विशेषो न चान्यः कदापि ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥
न देहो न चाक्षाणि न प्राणवायु-
 र्मनो नापि बुद्धिर्न चित्तं ह्यहंधीः ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ।। ८८९ ॥
न देशो न कालो न दिग्वापि सत्स्या-
 न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।
यदेषामधिष्ठानभूतं विशुद्धं
 सदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥
एतद्दृश्यं नामरूपात्मकं यो-
 ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं
 कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ।।
अध्यस्तनामरूपादिप्रविलापेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥

निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पुर्णं ब्रह्मैवाहं न संशयः ॥ ८९३ ॥
निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥
निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं नित्यं ब्रह्मैवास्मीति भावयेत् ।। ८९५ ॥
शुद्धं बुद्धं तत्वसिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ।। ८९७ ॥
इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् ।
ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ।। ८९८॥
ब्रह्मानन्दरसावेशादेकीभूय तदात्मना ।
बुद्धेर्वा निश्चलावस्था स समाधिरकल्पकः ॥ ८९९ ।।
उत्त्थाने वाप्यनुत्त्थानेऽप्यप्रमत्तो जितेन्द्रियः ।
समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥
विपरीतार्थधीर्यावान्न निःशेषं निवर्तते ।
स्वरूपस्फुरणं यावन्न प्रसिद्ध्यत्यनर्गलम् ।
तावत्समाधिषट्केन नयेत कालं निरन्तरम् ॥ ९०१ ॥
न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ।
प्रमादे जृम्भते माया सूर्यापाये तमो यथा ।। ९०२ ।।
स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः ।
स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ।। ९०३ ॥
अस्मिन्समाधौ कुरुते प्रयासं
 यस्तस्य नैवास्ति पुनर्विकल्पः ।

सर्वात्मभावोऽप्यमुनैव सिध्ये-
 त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥
सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः ।
जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५ ॥
योऽहममेत्याद्यसदात्मगाहको
 ग्रन्थिर्लयं याति स वासनामयः ।
समाधिना नश्यति कर्मबन्धो
 ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ।।
एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः ।
शुद्धात्मना मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥
तस्मात्त्वञ्चाप्यप्रमत्तः समाधी-
 न्कृत्वा ग्रन्थिं साधु निर्दाह्य युक्तः ।
नित्यं ब्रह्मानन्दपीयूषसिन्धौ
 मज्जन्क्रीडन्मोदमानो रमस्व || ९०८ ॥
निर्विकल्पसमाधिर्यो वृत्तिनैश्चल्यलक्षणा ।
तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ।।
अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९१०॥
ध्यानं समाधिरित्येव निगदन्ति मनीषिणः ।
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥
यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ।।
नियमो हि परानन्दो नियमात्क्रियते बुधैः ।
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिंतनम् ॥ ९१३ ॥
आसनं तद्विजानीयादितरत्सुखनाशनम् ।

चित्तादिसर्वभावेषु  ब्रह्मत्वेनैव भावनात् ॥९१४॥
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।
निषेधनं प्रपञ्चस्य रेचकाक्यः समीरणः ॥९१५॥
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ।
ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥९१६॥
अयञ्चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ।
विषयेष्वात्मता त्यक्त्वा मनसश्चिति मज्जनम् ॥९१७॥
प्रत्याहार स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ।
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥९१८॥
मनसा वारणञ्चैव धारणा सा परामता ।
ब्रह्मैवास्मीति सद्वृत्या निगलम्बतया स्थितिः ॥९१९॥
ध्यानशब्देन विख्याता परमानन्ददायिनी ।
निर्विकारतया वृत्या ब्रह्माकारतया पुनः ॥९२०॥
वृत्तिविस्मरणं सम्यग् समाधिर्ध्यानसंयकः ।
समाधौ क्रियमाणे तु विद्या आयान्ति वै बलात् ॥९२१॥
अनुसन्धानराहित्यमालस्यं भोगलालसम् ।
भयं तमश्च विक्षेपस्तेजः स्पन्दश्च शून्यता ॥ १२२ ॥
एवं यद्विघ्नबाहुल्यं त्याज्यं तत् ब्रह्मविज्जनैः ।
विघ्नानेतान्परित्यज्य प्रमादरहितो वशी ।
समाधिनिष्टया ब्रह्म साक्षाद्भवितुमर्हसि ॥९२३॥
इति गुरुवचनात् श्रुतिप्रमाणात् -
 परमवगम्य स्वतत्त्वमात्मबुद्ध्या ।
प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिमात्मनिष्ठतोऽभूत् ॥९२४॥
बहुकालं समाध्याय स्वस्वरूपे तु मानसम् ।

उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥
प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह ।।९२५||
नमो नमस्ते गुरवे नित्यान्दस्वरूपिणे ।
मुक्तसङ्गाय शांताय त्यक्ताहन्त्वाय ते नमः ।। ९२६ ॥
'दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते ।
नैवास्ति यत्कटाक्षेण ब्रह्मैवाऽभवमद्वयम् ।। ९२७ ।।
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ।। ९२८ ॥
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९ ॥
नित्यान्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् ।
पूर्णोऽहमनवद्योऽहं केवलोऽहञ्च सद्गुरो ॥ ९३० ॥
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।
आनन्दघन एवाहमसंगोऽहं सदाशिवः ।। ९३१ ॥
त्वत्कटाक्षवरचांद्रचंद्रिकापातधूतभवतापजः श्रमः ।
प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ।। ९३२ ।
छायया स्पृष्टमुष्णं वा शीतं वा दुष्ट सुष्ठ वा ।
न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥
न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् |
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥
रवेर्यथा कर्मणि साक्षिभावो
 वह्नेर्यथा वायसि दाहकत्वम् ।
रज्जोर्यथारोपितवस्तुसङ्ग-
 स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५ ॥
इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः।

मुमुक्षीरुपकाराय पाटव्यांगमयुग्मन ॥ ६
जीवन्मुनग्य भगवन्ननुमान दाणा !
विदेहभाग्य में रूपमा चित' ॥ १.३७ ॥
वश्ये तुभ्य ज्ञानगिफाया रक्षणादिन।
जाने यस्मिन्बया सर्व मा स्या पृष्टगा या ॥ १८॥
ज्ञानभूमिः शुभेन्छा या प्रथमा सारिका ।
विचारणा द्वितीया नुतनीया ननुमाननी 11 १३ ॥
सत्त्वापत्तिचतुर्थी स्यात्तताऽसमनिनामिका ।
पदार्थाभावना पष्टी मतमी तुर्वगा मला ।। ५.४४ ॥
स्थित कि मुद एवास्मि प्रेन्योडर शासनन ।
धरान्यपूर्वमिन्छेनि शुभेन्या चौन्यते चुः ॥ ४ ॥
शास्त्रमजनसपरविशन्याभ्यानपूर्वकाम् ।
सदाचारप्रवृत्ति प्रान्यते मा विचारणा 11 ९४२ ॥
विचारणागुभेन्याभ्यामिठियार्थप्वरनना ।
यत्र सा तनुनामति प्रन्यते तनुमानती ॥ ४ ॥
भूमिकात्रितयान्यानावितेऽविग्तर्वशारा ।
लत्वात्मनि स्थित गुरे सत्यापत्तिग्दाहता ॥ ९४४ ||
दयाचतुष्टयाभ्यासादसतर्गफल्य तु या ।
सृढसवचमत्कारा प्रोगा ससक्तिनामिका ॥ ९४५ ॥
भूमिकापचकाभ्यासान्स्वात्मारामतया भृशम् ।
आभ्यतराणा बाह्याना पदार्थानामभावनात् ॥ ९४६ ॥
परप्रयुक्तेन चिरप्रयत्नेनावबोधनम |
पदार्थाभावना नाम पष्ठी भवति भूगिका || ९४७ ।।
पहभूमिकाचिराभ्यासाझेदस्यानुपलभनात् ।

यस्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ।। ९४८ ।।
इदं ममेति सर्वेषु दृश्यभावेष्वभावना ।
जाग्रजाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥
विदित्वा सच्चिदानंदे मयि दृश्यपरंपराम् ।
नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५० ॥
परिपूर्णचिदाकाशे मयि बोधात्मतां विना ।
न किंचिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ।। ९५१ ।।
मूलाज्ञानविनाशेन कारणाभासचेष्टितैः ।
बंधो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥ ९५२ ।।
कारणाज्ञाननाशाद्यद्दष्टदर्शनदृश्यता ।
न कार्यमस्ति तज्ञान स्वप्नस्वप्नः समीर्यते ॥ ९५३ ।।
अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचंचला ।
विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५१ ॥
चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः ।
आनदानुभवो विद्वन् सुप्तिजाप्रदितीर्यते ॥ ९५५ ॥
वृत्तौ चिरानुभूतांतरानदानुभवस्थितौ ।
समात्मतां यो यात्येष सुप्तिरवप्न इतीर्यते ॥ ९५६ ॥
दृश्यधीवृत्तिरेतरय केवलीभावभावना |
पर बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥
परब्रह्मवदाभाति निर्विकारेकरूपिणी ।
सर्वावस्थासु धारका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥
इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी |
शुभेच्छादित्रय भूमिभेदाभेदयुत स्मृतम् ।। ९५९ ।।
यथावद्भेदबुद्धयेद जगज्जाग्रदितीर्यते ।
अद्वैते स्थैर्यमायाते द्वैते च प्रशम गते ॥ ९६० ॥

पश्यन्ति वनकटोक नु:गियांगना ।
पंचमी भूमिमानशा मुनिपटनामिम ॥ ९ ॥
शानागेपविशेषागनिहतमान।
अंतर्मुग्यतया निन्य पटीं भभिगुपाधिन ॥ ९६२
परिधाननया गादनिहाय गायन ।
कुर्वनभ्यानमेनस्यां भम्यां रम्गन्धियागन॥ १६ ॥
तुर्यावस्या माभरि कामामामोति योगिगर ।
विमुनिगाव तुर्यानानदीयो ॥ ४ ॥
यत्र नाला ममापि नाह नायनातिः ।
केवल सीणगनन आग्नतऽनिनिर्भय' ।। ९६.५ ॥
अनन्या चहि शून्यः अन्यम उवाच ।
अन पूर्णो यहि पूर्ण पूर्णकुम वाणरे ॥ १६ ॥
यथास्थिमिदं नव व्यवहारयताप-1
अम्न गत स्थित न्योम म जायज न्यने । ९६७ ॥
नोति नान्तमायाति मुरबन मन प्रभा ।
यथानामधितिर्यस्य न जायन्मुग उन्यने ।। ९६८ ॥
श्री जागर्ति मुगुप्तिम्यो यग्य जानन वियते ।
यम्य निर्वासनो बोध. म जीवन्मुना उन्यते ॥ ९६९ ॥
गगपभयादीनामनुग्म्प चरन्नपि ।
योऽतोमवढत्यन्छ स जीवन्मुन उन्यते ॥ ९७० ॥
यस्य नाहतो भावा वुद्धियम्य न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुन उन्यते ॥ ९७१ ।।
य. समस्तार्थजालेषु व्यवहार्यपि शीतल 1
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥
द्वैतवर्जितचिन्माने पदे परमपावने ।

अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥
इद जगदयं सोऽय दृश्यजात्मवास्तवम् ।
यस्य चित्ते न फुरति स जीवन्मुक्त उच्यते ॥ ९७४ ॥
चिदात्माह परात्माह निर्गुणोऽह परात्परः ।
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ।। ९७५ ।।
देहत्रयातिरिक्तोऽह शुद्धचैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ।।
यस्य देहादिकं नास्ति यस्य ब्रह्मेति, निश्चयः ।
परमानदपूर्णो यः स जीवन्मुक्त उन्यते ।। ९७७ ॥
अहं ब्रह्मास्म्यह ब्रह्मास्म्यह ब्रहोति निश्चयः ।
चिदह चिदह चेति स जीवन्मुक्त उन्यते ॥ ९७८ ॥
जीवन्मुक्तिपद त्यक्त्वा स्वदेहे कालासात्कृते ।
विशत्यदेहमुक्तित्व पवनोऽस्पंदतामिव ॥ ९७९ ॥
ततस्तत्संबभूवासौ यगिरामप्यगोचरम् ।
यच्छ्न्यवादिनां शून्य ब्रह्म ब्रह्मविदा च यत् ॥ ९८० ॥
विज्ञान विज्ञानविदां मलानां च मलात्मकम् ।
पुरुपः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ।। ९८१ ॥
शिवः शैवागमस्थाना काल. कालैकवादिनाम् ।
यत्सर्वशास्त्र सिद्धान्त यत्सर्वहृदयानुगम् ।
यत्सर्वं सर्वगं वस्तु तत्तत्त्व तदसौ स्थितः ।। ९८२ ॥
ब्रह्मैवाहं चिदेवाहमेव वापि न चिंत्यते ।
चिन्मात्रेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३ ।।
यस्य प्रपचभान न ब्रह्माकारमपीह न ।
अतीतातीतभावो यो विदेहो मुक्त एव सः ।। ९८४ ॥
चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः ।

चित्तनिरिहानी यो दिवसीमन प्या... ||
जीवाग्मति पगति सचिताविति ।
मर्वतरपहानामा विदी गुगएर AH८॥
ओंकारवान्यहानामा सर्वशन्यविजित ।
अवस्थात्रयहीनामा विदेही मुन एवमः || ९.८७ ॥
अहिनियामपनिका जीयाजिनः ।
वल्मकि पतितस्तिष्टत नो नाभिमायने ॥१८
व स्थल व मुम चमगर नागिन्यन ।
प्रत्यज्ञानगिनिन्यांन मिथ्याज्ञान महत}
नति नतीयाप वाटसर्गग भगवा ।
विश्वश्च नेजमथैव प्रासयनिन त प्रगम ॥५०॥
विराड हिरण्यगर्भधारति च में नयम।
ब्रदाट चव पिंडाइ लोकत मृगदयः सामाग ॥१॥
स्वस्त्रोपाधिटयोदय लीयन्ते प्रत्यगामान।
तृणीमेव ततस्तुणी तृष्णीं मन्य न किचन ॥१९॥
कालभेट वस्तुमेर देशभेट स्यभटकाम ।
किचिद्भेद न तस्यानि किंचिद्वापि न विद्यते ॥५
जीचश्वरति वाक्य च दगावह विति ।
इस चैतन्यमवन्यह चैतन्यमिन्यपि ।।९९४||
इति निश्चयशुन्या यो विदेहो मुन्न एव म ।
ब्रह्मैव विद्यत सानाद्वस्तुतोऽवस्तुतोऽपि च ॥९९५||
तद्विद्या विषय ब्रह्म सत्यज्ञानमुखात्मकम् ।
शान्त च तदतीत च पर ब्रह्म तदुच्यते ॥९९६॥
सिद्धान्तोऽध्यात्मशास्त्राणा सर्वापालन एव हि ।
नाविद्यास्तीह नो माया शांत ब्रव तद्विना ॥९९७||

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्मा यति सनातनम् ।।९९८॥
यावद्यावच्च सद्बुद्धे स्वय संत्यज्यतेऽखिलम् ।
तावत्तावत्परानंदः परमात्मैव शिष्यते ॥९९९।।
', यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।
परे ब्रह्मणि लीयेते न तस्योत्क्रातिरिष्यते ॥१००० ॥
यद्यस्वाभिमतं वस्तु तत्त्वजन्मोक्षमश्नुते ।
असकल्पेन शस्त्रेण छिन्न चित्तमिद यदा ॥१००१॥
सर्व सर्वगतं शांत ब्रह्मा सपद्यते तदा ।
इति श्रुत्वा गुरोर्वाक्य शिष्यस्तु छिन्नसंशयः ॥१००२।।
ज्ञातज्ञेयः सप्रणम्य सडरोश्चरणांबुजम् ।
स तेन समनुज्ञातो ययौ निर्मुक्तबधनः ॥१००३।।
गुरुरेष सदानदसिंधौ निर्मनमानसः ।
पावयन्वसुधां सर्वा विचचार निरुत्तरः ॥१००४।।
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपित मुमुक्षूणां सुखबाधोपपत्तये ||१००५।।
सर्ववेदांतसिद्धांतसारसग्रहनामकः ।
ग्रथोऽयं हृदयग्राथिविच्छित्त्यै रचितः सताम् ||१००६||


इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृती सर्ववेदान्तसिद्वान्तसारसग्रहः संपूर्णः ।।