सर्वदर्शनसंग्रहः/सांख्यदर्शनम्
अथ सांख्यदर्शनम् ॥14॥
अथ सांख्यैराख्याते परिणामवादे परिपन्थिनि जागरुके कथंकारं विवर्तवाद आदरणीयो
भवेत्। एष हि तेषामाघोषः। संक्षेपेण हि सांख्यशास्त्रे चतस्रो विधाः संभाव्यन्ते। कश्चिदर्थः
प्रकृतिरेव कश्चिद्विकृतिप्रकृतिश्च, कश्चिद्विकृतिरेव, कश्चिदनुभय इति।
तत्र केवला प्रकृतिः प्रधानपदेन वेदनीया मूलप्रकृतिः। नासावन्यस्य कस्यचित् विकृतिः।
प्रकरोतीति प्रकृतिरिति व्युत्पत्त्या सत्त्वरजस्तमोगुणानां साम्यावस्थाया अभिधानात्। तदुक्तम् -
'मूलप्रकृतिरविकृतिः' (सां0का03) इति। मूलं चासौ प्रकृतिश्च मूलप्रकृतिः।
महदादेः कार्यकलापस्यासौ मूलम्, न त्वस्य प्रधानस्य मूलान्तरमस्ति। अनवस्थापातात्। न च
बीजाङ्कुरवदनवस्थादोषो न भवतीति वाच्यम्, प्रमाणाभावादिति भावः।
विकृतयश्च प्रकृतयश्च महदहंकारतन्मात्राणि। तदप्युक्तम् - महदाद्याः प्रकृतिविकृतयः सप्त (सां.का.3)
इति। अस्यार्थः। प्रकृतयश्च ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि।
तत्रान्तःकरणादिपदवेदनीयं महत्तत्त्वमहंकारस्य प्रकृतिः। मूलप्रकृतेस्तु विकृतिः।
एवमहंकारतत्त्वमभिमानापरनामधेयं महतो विकृतिः। प्रकृतिश्च तदेवाहंकारतत्त्वं तामसं
सत्पञ्चतन्मात्राणां सूक्ष्माभिधानम्। तदेव सात्त्विकं सत्प्रकृतिरेकादशेन्द्रियाणां बुद्धीन्द्रियाणां
चक्षुःश्रोत्रघ्राणरसनात्वगाख्यानां कर्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य
मनसश्च। रजसस्तूभयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति न वैयर्थ्यम्। तदुक्तमीश्वरकृष्णेन-
अभिमानोऽहंकारस्तस्माद्विविधः प्रवर्तते सर्गः।
एकदशकरणगणस्तन्मात्रपञ्चकं चैव॥
सात्त्विकै
कादशकः प्रवर्तते वैकृतादहंकारात्।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्॥
बुद्धीन्द्रियाणि
चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि।
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः॥
उभयात्मकमत्र मनः
संकल्पकमिन्द्रियं च साधर्म्यात्॥ (सां. का. 24-27) इति॥
विवृतं च तत्त्वकौमुद्यामाचार्यवाचस्पतिभिः।
केवला विकृतिस्तु वियदादीनि पञ्च महाभूतानि एकादशेन्द्रियाणि च। तदुक्तम् - षोडशकस्तु
विकारः। (सां.का.3) इति। षोडशसंख्यावच्छिन्नो गणः षोडशको विकार एव न प्रकृतिरित्यर्थः।
यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः।
तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतम्। गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन
तत्त्वान्तरत्वाभावः। तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यः पूर्वपूर्वसूक्ष्मभूतसहितेभ्यः
पञ्चमहाभूतानि वियदादीनि क्रमेणैकद्वित्रिचतुष्पञ्चगुणानि जायन्ते। इन्द्रियसृष्टिस्तु प्रागेवोक्ता।
तदुक्तम् -
प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः। तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि॥
(सां.का.22) इति।
अनुभयात्मकः पुरुषः। तदुक्तम् - न प्रकृतिर्न विकृतिः पुरुषः (सां.का.3) इति। पुरुषस्तु
कूटस्थनित्योऽपरिणामी न कस्यचित्प्रकृतिर्नापि विकृतिः कस्यचिदित्यर्थः।
एतत्पञ्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतम्। तदप्युक्तम् -
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्। त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि॥
(सा.का.4) इति।
इह कार्यकारणभावे चतुर्धा विप्रतिपत्तिः प्रसरति। असतः सज्जायत इति सौगताः संगिरन्ते।
नैयायिकादयः सतोऽसज्जायत इति। वेदान्तिनः सतो विवर्तः कार्यजातं न वस्तु
सदिति।
सांख्याः पुनः सतः सज्जायत इति।
तत्रासतः सज्जायत इति न प्रामाणिकः पक्षः, असतो निरुपाख्यस्य
शशविषाणवत् कारणत्वानुपपत्तेः, तुच्छातुच्छयोस्तादात्म्यानुपपत्तेश्च।
नापि सतोऽसज्जायते, कारकव्यापारात्प्रागसतः शशविषाणवत् सत्तासंबन्धलक्षणोत्पत्त्यनुपपत्तेः।
न हि नीलं निपुणतमेनापि पीतं कर्तुं पार्यते। ननु सत्त्वासत्त्वे घटस्य धर्माविति चेत्- तदचारु।
असति धर्मिणि तद्धर्म इति व्यपदेशानुपपत्त्या धर्मिणः सत्त्वापत्तेः।
तस्मात्कारकव्यापारात्प्रागपि कार्यं सदेव। सतश्चाभिव्यक्तिरूपपद्यते यथा पीडनेन तिलेषु तैलस्य
दोहनेन सौरभेयीषु पयसः। असतः कारणे किमपि निदर्शनं न दृश्यते। किं च कार्येण कारणं
संबद्धं तज्जनकमसंबद्धं वा। प्रथमे कार्यस्य सत्त्वमायातम्, सतोरेव संबन्ध इति नियमात्।
चरमे सर्वं कार्यजातं सर्वस्माज्जायेत, असंबद्धत्वाविशेषात्। तदाख्यायि सांख्याचार्यैः -
असत्त्वान्नास्ति संबन्धः कारणैः सत्त्वसङ्गिभिः। असंबद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः॥
इति।
अथैवमुच्येतासंबद्धमपि तत्तदेव जनयति यत्र यच्छक्तम्। शक्तिश्च कार्यदर्शनोन्नेयेति। तन्न
संगच्छते। तिलेषु तैलजननशक्तिरित्यत्र तैलस्यासत्त्वे संबद्धत्त्वासंबद्धत्वविकल्पेन तच्छक्तिरिति
निरूपणायोगात्। कार्यकारणयोरभेदाच्च कारणात्पृथक्कार्यस्य सत्त्वं न भवति। पटस्तन्तुभ्यो न
भिद्यते तद्धर्मत्वात्। न यदेवं न तदेवं यथा गौरश्वः। तद्धर्मश्च पटः। तस्मान्नार्थान्तरम्। तर्हि
प्रत्येकं त एव प्रावरणकार्यं कुर्युरिति चेन्न, संस्थानभेदेनाविर्भूतपटभावानां प्रावरणार्थक्रियाकारि-
त्वोपपत्तेः। यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्ति
चाविर्भवन्ति एवं कारणस्य तन्त्वादेः पटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त
इत्युच्यन्ते, निविशमानास्तिरोभवन्तो विनश्यन्तीत्युच्यन्ते। न पुनरसतामुत्पत्तिः सतां वा
विनाशः। यथोक्तं भगवद्गीतायाम् -
नासतो विद्यते भावो नाभावो विद्यते सतः। (गी. 2/16) इति।
ततश्च कार्यानुमानात्तत्प्रधानसिद्धिः। तदुक्तम् -
असदकरणादुपादानग्रहणात्सर्वसंभवाभावात्।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्॥
(सां.का.9) इति।
नापि सतो ब्रह्मतत्त्वस्य विवर्तः प्रपञ्चः, बाधानुपलम्भाद्; अधिष्ठानारोप्ययोश्चिज्जडयोः
कलधौतशुक्त्यादिवत् सारूप्याभावेनारोपासंभवाच्च।
ततश्च सुखदुःखमोहात्मकस्य प्रपञ्चस्य तथाविधकारणमवधारणीयम्। तथा च प्रयेगः - विमतं
भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात्। यद्येनान्वीयते तत्तत्कारणकं यथा
रूचकादिकं सुवर्णान्वितं सुवर्णकारणकम्। तथा चेदं तस्मात्तथेति। तत्र जगत्कारणे येयं
सुखात्मकता तत्सत्त्वं या दुःखात्मकता तद्रजो या च मोहात्मकता तत्तम इति
त्रिगुणात्मककारणसिद्धिः। तथा हि। प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते। यथा मैत्रदारेषु
सत्यवत्यां मैत्रस्य सुखमाविरस्ति। तं प्रति सत्त्वगुणप्रादुर्भावात्। तत्सपत्नीनां दुःखम्। ताः प्रति
रजोगुणप्रादुर्भावात्। तामलभमानस्य चैत्रस्य मोहो भवति। तं प्रति तमोगुणसमुद्भावात्।
एवमन्यदपि घटादिकं लभ्यमानं सुखं करोति। परैरपह्रियमाणं दुःखाकरोति।
उदासीनस्योपेक्षाविषयत्वेनोपतिष्ठते। उपेक्षाविषयत्वं नाम मोहः। मुह वैचित्येइत्यस्माद्धातोर्मोह-
शब्दनिष्पत्तेः। उपेक्षणीयेषु चित्तवृत्त्यनुदयात्। तस्मात्सर्वं भावजातं सुखदुःखमोहात्मकं
त्रिगुणप्रधानकारणकमवगम्यते। तथा च श्वेताश्वतरोपनिषदि श्रूयते।
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः॥ (श्वे. 4/5) इति॥
अत्र लोहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधर्म्याद् रजःसत्त्वतमोगुणत्रय-
प्रतिपादनपराः।
नन्वचेतनं प्रधानं चेतनानधिष्ठितं महदादिकार्ये न व्याप्रियते। अतः केनचिच्चेतनेनाधिष्ठात्रा
भवितव्यम्। तथा च सर्वार्थदर्शी परमेश्वरः स्वीकत्तव्यः स्यादिति चेत्- तदसंगतम्।
अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः। दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थाय
प्रवर्तमानम्। यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते यथा च जलमचेतनं लोकोपकाराय प्रवर्तते
तथा प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्त्स्यति। तदुक्तम् -
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य॥
(सां. का. 57) इति।
यस्तु परमेश्वरः करुणया प्रवर्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः स गर्भस्रावेण गतः।
विकल्पानुपपत्तेः। स किं सृष्टेः प्राक्प्रवर्तते सृष्ट्युत्तरकालं वा? आद्ये शरीराद्यभावेन दुःखानुत्पत्तौ
जीवानां दुःखप्रहाणेच्छानुपपत्तिः। द्वितीये परस्पराश्रयप्रसङ्गः, करुणया सृष्टिः सृष्ट्या च
कारुण्यमिति। तस्मादचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः
पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः। यथा निर्व्यापारस्याप्ययस्कान्तस्य संनिधानेन लोहस्य
व्यापारस्तथा निर्व्यापारस्य पुरुषस्य संनिधानेन प्रधानव्यापारो युज्यते। प्रकृतिपुरुषसंबन्धश्च
पङ्ग्वन्धवत्परस्परापेक्षानिबन्धनः। प्रकृतिर्हि भोग्यतया भोक्तारं पुरुषमपेक्षते। पुरुषोऽपि
भेदाग्रहाद् बुद्धिच्छायापत्त्या तद्गतं दुःखत्रयं वारयमाणः कैवल्यमपेक्षते। तत् त्प्र प्रकृतिपुरुषविवेक-
निबन्धनं न च तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते। यथा खलु
कौचित्पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ दैवकृतादुप्लवात् परित्यक्तसार्थौ मन्दमन्दमितस्ततः
परिभ्रमन्तौ भयाकुलौ दैववशात्संयोगमुपगच्छेताम्। तत्र चान्धेन पङ्गुः स्कन्धमारोपितः। ततः
पङ्गुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति पङ्गुरपि स्कन्धाधिरुढः। तथा
परस्परापेक्षप्रधानपुरुषनिबन्धनः सर्गः। यथोक्तम् -
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धवदुभयोरपि संबन्धस्तत्कृतः सर्गः॥ (सां.
का. 21) इति।
ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः। निवृत्तिस्तु कथमुपपद्यत इति चेत्- उच्यते। यथा
भत्रा दृष्टदोषा स्वैरिणी भर्तारं पुनर्नोपैति यथा वा कृतप्रयोजना नर्तकी निवर्तते तथा प्रकृतिरपि।
यथोक्तम्-
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते
प्रकृतिः॥ (सां. का. 59) इति।
एतच्च निरीश्वरसांख्यशास्त्रप्रवर्तककपिलादिमतानुसारिणां मतमुपन्यस्तम्॥
॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे सांख्यदर्शनम् ॥