सर्वदर्शनसंग्रहः/पातञ्जलदर्शनम्
अथ पातञ्जलदर्शनम् ॥15॥
सांप्रतं सेश्वरसांख्यप्रवर्तकपतञ्जलिप्रभृतिमुनिमतमनुवर्तमानानां मतमुपन्यस्यते। तत्र
सांख्यप्रवचनापरनामधेयं योगशास्त्रं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम्। तत्र प्रथमे पादे- 'अथ
योगानुशासनम्' (पात. यो सू.1/1/) इति योगशास्त्रारम्भप्रतिज्ञां विधाय 'योगश्चित्तवृत्तिनिरोधः'
(पात. यो. सू. 1/2) इत्यादिना योगलक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षद् भगवान्पतञ्जलिः-
। द्वितीये 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' (पात. यो. सू. 2/1/)
इत्यादिना व्युत्थितचित्तस्य क्रियायोगं यमादीनि च पञ्च बहिरङ्गाणि साधनानि। तृतीये
'देशबन्धश्चित्तस्य धारणा' (पात.यो.सू.3/1) इत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्गं
संयमपदावाच्यं तदवान्तरफलं विभूतिजातम्। चतुर्थे 'जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः'
(पात. यो. सू. 4/1/) इत्यादिना सिद्धिपञ्चकप्रपञ्चनपुरःसरं परमं प्रयोजनं कैवल्यम्।
प्रधानादीनि पञ्चविंशतितत्त्वानि प्राचीनान्येव संमतानि। षड्विंशस्तु परमेश्वरः
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसंप्रदायप्रवर्तकः
संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च।
ननु पुष्करपलाशवन्निर्लेपस्य तस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया
कक्षीक्रियत इति चेत्- उच्यते। तापकस्य रजसः सत्त्वमेव तप्यं बुद्ध्यात्मना परिणतमिति
सत्त्वे परितप्यमाने तदारोपवशेन तदभेदावगाहिपुरुषोऽपि तप्यत इत्युच्यते। तदुक्तमाचार्यैः -
सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावा ये वा राजसास्तापकास्ते।
तप्याभेदग्राहिणी तामसी या
वृत्तिस्तस्यां तप्य इत्युक्त आत्मा॥
इति।
पञ्चशिखेनाप्युक्तम्- 'अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव
तद्वृत्तिमनुपतति' इति। भोक्तृशक्तिरिति चिच्छक्तिरुच्यते। सा चात्मैव। परिणामिन्यर्थे बुद्धितत्त्वे
प्रतिसंक्रान्तेव प्रतिविम्बितेव तद्वृत्तिमनुपततीति बुद्धौ प्रतिबिम्बिता सा चिच्छक्तिर्बुद्धि-
च्छायापत्त्या बुद्धिवृत्त्यनुकारवतीति भावः। तथा शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति,
तमनुपश्यन्नतदात्मापि तदात्मक इव प्रतिभासत इति। इत्थं तप्यमानस्य
पुरुषस्यादरनैरन्तर्यदीर्घकालनुबन्धियमनियमाद्यष्टाङ्गयोगानुष्ठानेन परमेश्वरप्रणिधानेन च
सत्त्वपुरुषान्यताख्यातावनुपल्पवायां जातायामविद्यादयः पञ्च क्लेशाः समूलकाषं कषिता
भवन्ति। कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति। ततश्च पुरुषस्य निर्लेपस्य
कैवल्येनावस्थानं कैवल्यमिति सिद्धम्।
तत्र 'अथ योगानुशासनम्।' ( पात. यो. सू. 1/1/) इति प्रथमसूत्रेण प्रेक्षावत्प्रवृत्त्यङ्गं
विषयप्रयोजनसंबन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते।
अत्राथशब्दोऽधिकारार्थः स्वीक्रियते। अथशब्दस्यानेकार्थत्वे संभवति कथमारम्भार्थत्वपक्षे पक्षपातः
संभवेत्? अथशब्दस्य मङ्गलाद्यनेकार्थत्वं नामलिङ्गानुशासनेनानुशिष्टं
'मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।' (अम. को. 3/3/246) इति। अत्र
प्रश्नकार्त्स्न्ययोरसंभवेऽप्यानन्तर्यमङ्गलपूर्वप्रकृतापेक्षारम्भलक्षणानां चतुर्णामर्थानां संभवादारम्भा-
र्थत्वानुपपत्तिरिति चेत्-
मैवं मंस्थाः, विकल्पासहत्वात्। आनन्तर्यमथशब्दार्थ इति पक्षे यतः कुतश्चिदानन्तर्यं
पूर्ववृत्तशमाद्यसाधारणात् कारणादानन्तर्यं वा। न प्रथमः।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। (गी. 3.5)
इति न्यायेन सर्वों जन्तुरवश्यं किंचित् कृत्वा किंचित्करोत्येवेति
तस्याभिधानमन्तरेणापि प्राप्ततया तदर्थाथशब्दप्रयोगवैयर्थ्यप्रसक्तेः। न चरमः। शमाद्यनन्तरं
योगस्य प्रवृत्तावपि तस्यानुशासनप्रवृत्यनुबन्धत्वेनोपात्ततया शब्दतः प्राधान्याभावात्। न च
शब्दतः प्रधानभूतस्यानुशासनस्य शमाद्यानन्तर्यमथशब्दार्थः किं न स्यादिति वदितव्यम्।
अनुशासनमिति हि शास्त्रमाह। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलसहितो योगो येन
तदनुशासनमिति व्युत्पत्तेः। अनुशासनस्य च तत्त्वज्ञानचिख्यापयिषानन्तरभावित्वेन
शमदमाद्यानन्तर्यनियमाभावात्। जिज्ञासाज्ञानयोस्तु शमाद्यानन्तर्यमाम्नायते- 'तस्माच्छान्तो
दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्' (बृ.4/4/23) इत्यादिना। नापि
तत्त्वज्ञानचिख्यापयिषानन्तर्यमथशब्दार्थः। तस्य संभवेऽपि श्रोतृप्रतिपत्तिप्रवृत्त्योरनुपयोगे-
नानभिधेयत्वात्। तवापि निःश्रेयसहेतुतया योगानुशासनं प्रमितं न वा। आद्ये तदभावेऽप्युपादेयत्वं
भवेत्। द्वितीये तद्भावेपि हेयत्वं स्यात्। प्रमितं चास्य निःश्रेयसनिदानत्वम्।
'अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति।' (का.2.12) इति श्रुतेः, 'समाधावचला
बुद्धिस्तदा योगमवाप्स्यसि।' (गी.2/53) इति स्मृतेश्च। अत एव शिष्यप्रश्नतपश्चरणरसायनोप-
योगाद्यानन्तर्यं पराकृतम्। 'अथातो ब्रह्मजिज्ञासा' (ब्र.सू.1/1/1) इत्यत्र तु ब्रह्मजिज्ञासाया
अनधिकार्यत्वेनाधिकारार्थत्वं परित्यज्य साधनचतुष्टयसंपत्तिविशिष्टाधिकारिसमर्पणाय
शमदमादिवाक्यविहिताच्छमादेरनन्तर्यमथशब्दार्थ इति शंकराचार्यैर्निरटङ्कि।
अथ मा नाम भूदानन्तर्यार्थोऽथशब्दः। मङ्गलार्थः किं न स्यात्? न स्यात् मङ्गलस्य वाक्यार्थे
समन्वयाभावात्। अगर्हिताभीष्टावाप्तिर्मङ्गलम्। अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टम्।
योगानुशासनस्य च सुखदुःखनिवृत्त्योरन्यतरत्वाभावान्न मङ्गलता। तथा च योगानुशासनं
मङ्गलमिति न संपनीपद्यते, मृदङ्गध्वनेरिवाथशब्दश्रवणस्य कार्यतया मङ्गलस्य
वाच्यत्वलक्ष्यत्वयोरसंभवाच्च। यथार्थिकार्थों वाक्यार्थे न निविशते तथा कार्यमपि न निविशेत।
अपदार्थत्वाविशेषात्। पदार्थ एव हि वाक्यार्थे समन्वीयते। अन्यथा शब्दप्रमाणकानां 'शाब्दी
ह्याकाङ्क्षा शब्देनैव पूर्यत' इति मुद्राभङ्गः कृतो भवेत्। ननु प्रारिप्सितप्रबन्ध-
परिसमाप्तिपरिपन्थिप्रत्यूहव्यूहप्रशमनाय शिष्टाचार परिपालनाय च शास्त्रारम्भे
मङ्गलाचरणमनुष्टेयम्। 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते,
आयुष्मत्पुरुषकाणि वीरपुरुषकाणि च भवन्ति' (पात.मा.भा. 1/3/1) इत्यभियुक्तोक्तेः। भवति च
मङ्गलार्थोऽथशब्दः-
'ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ॥'
इति स्मृतिसंभवात्। तथा च 'वृद्धिरादैच्' ( पा.सू.1/1/1) इत्यादौ वृद्धयादिशब्दवदथशब्दो
मङ्गलार्थः स्यादिति चेत्- मैवं भाषिष्ठाः। अर्थान्तराभिधानाय प्रयुक्तस्याथशब्दस्य
वीणावेण्वादिध्वनिवच्छ्रवणमात्रेण मङ्गलफलत्वोपपत्तेः। अथार्थान्तरारम्भवाक्यार्थधीफलक-
स्याथशब्दस्य कथमन्यफलकतेति चेन्न। अन्यार्थं नीयमानोदकु म्भोपलम्भवत्तत्संभवात्। न च
स्मृतिव्याकोपः। माङ्गलिकाविति मङ्गलप्रयोजनत्वविवक्षया प्रवृत्तेः।
नापि पूर्वप्रकृतापेक्षोथशब्दः। फलत आनन्तर्याव्यतिरेकेण प्रागुक्तदूषणानुषङ्गात्। किमय-
मथशब्दोऽधिकारार्थोऽथानन्तर्यार्थ इत्यादिविमर्शवाक्ये पक्षान्तरोपन्यासे तत्संभवेऽपि प्रकृते
तदसंभवाच्च।
तस्मात्पारिशेष्यादधिकारपदवेदनीयप्रारम्भार्थोऽथशब्द इति विशेषो भाष्यते। यथा 'अथैष ज्योतिरथैष
विश्वज्योतिः' इत्यत्राथशब्दः क्रतविशेषप्रारम्भार्थः परिगृहीतो यथा च 'अथ शब्दानुशासनम् ( पात
म.भा. 1/1) इत्यत्राथशब्दो व्याकरणशास्त्राधिकारर्थस्तद्वत्। तदभाषि व्यासभाष्ये
योगसूत्रविवरणपरे अथेत्ययमधिकारार्थः प्रयुज्यत इति। तद्व्याचख्यौ वाचस्पतिः। तदित्थम्-
'अमुष्याथशब्दस्याधिकारार्थत्वपक्षे शास्त्रेण प्रस्तूयमानस्य योगस्योपवर्तनात्समस्तशास्त्रतात्पर्यार्थ-
व्याख्यानेन शिष्यस्य सुखावबोधप्रवृत्तिर्भवतीत्यथशब्दस्याधिकारार्थत्वमुपपन्नम्।
ननु 'हिरण्यगर्भों योगस्य वक्ता नान्यः पुरातनः'।
इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथं योगस्य शासितेति चेत्- अद्धा। अत एव तत्र तत्र
पुराणादौ विशिष्य योगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता कृपासिन्धुना
फणिपतिना सारं संजिघृक्षुणानुशासनमारब्धं न तु साक्षाच्छासनम्। यदायमथशब्दोऽधिकारार्थ-
स्तदैवं वाक्यार्थः संपद्यते - योगानुशासनं शास्त्रमधिकृतं वेदितव्यमिति। तस्मादयमथशब्दो-
धिकारद्योतको मङ्गलार्थश्चेति सिद्धम्।
तत्र शास्त्रे व्युत्पाद्यमानतया योगः ससाधनः सफलो विषयः। तद्व्युत्पादनमवान्तरफलम्।
व्युत्पादितस्य योगस्य कैवल्यं परमप्रयोजनम्। शास्त्रयोगयोः प्रतिपाद्यप्रतिपादकभावलक्षणः
संबन्धः। योगस्य कैवल्यस्य च साध्यसाधनभावलक्षणः संबन्धः। स च श्रुत्यादिप्रसिद्ध इति
प्रागेवावादिषम्। मोक्षमपेक्षमाणा एवाधिकारिण इत्यर्थसिद्धम्। न च 'अथातो ब्रह्मजिज्ञासा'
(ब्र.सू.1/1/1) इत्यादावधिकारिणोर्थतः सिद्धिराशङ्कनीया। तत्राथशब्देनानन्तर्याभिधान-
प्रणाडिकयाऽधिकारिसमर्पणसिद्धावार्थिकत्व-शङ्कानुदयात्। अत एवोक्तं 'श्रुतिप्राप्ते
प्रकरणादीनामनवकाशः' इति। अस्यार्थः - यत्र हि श्रुत्यार्थों न लभ्यते तत्रैव प्रकरणादयोऽर्थं
समर्पयन्ति, नेतरत्र। यत्र तु शब्दादेवार्थस्योपलम्भस्तत्र नेतरस्य संभवः। शीघ्रबोधिन्या श्रुत्या
विनियोगस्य बोधनेन निराकाङ्क्षतयेतरेषामनवकाशात्। किं च, श्रुत्या बोधितेऽर्थं तद्विरुद्धार्थे
प्रकरणादि समर्पयत्यविरुद्धं वा? न प्रथमः, विरुद्धार्थबोधकस्य तस्य बाधितत्वत्। न चरमः
वैयर्थ्यात्। तदाह- 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्'
(जै.सू.3/3/14) इति।
'बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा।
मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया॥' इति च।
तस्माद्विषयादिमत्त्वाद् ब्रह्मविचारकशास्त्रवद् योगानुशासनं शास्त्रमारम्भणीयमिति स्थितम्।
ननु व्युत्पाद्यमानतया योग एवात्र प्रस्तुतो न शास्त्रमिति चेत्- सत्यम्। प्रतिपाद्यतया योगः
प्रधान्येन प्रस्तुतः। स च तद्विषयेण शास्त्रेण प्रतिपाद्यत इति तत्प्रतिपादने करणं शास्त्रम्।
करणगोचरश्च कर्तृव्यापारो न कर्मगोचरतामाचरति। यथा छेत्तुर्देवदत्तस्य व्यापारभूतमुद्यमन-
निपातनादिकर्म करणभूतपरशुगोचरं न कर्मभूतवृक्षादिगोचरम्। तथा च वक्तुः पतञ्जलेः
प्रवचनव्यापारापेक्षया योगविषयस्याधिकृतता करणस्य शास्त्रस्य। अभिधानव्यापारापेक्षया तु
योगस्यैवेति विभागः। ततश्च योगशास्त्रस्यारम्भः संभावनां भजते।
अत्र चानुशासनीयो योगश्चित्तवृत्तिनिरोध इत्युच्यते। ननु युजिर्योंग इति संयोगार्थतया
परिपठिताद्युजेर्निष्पन्नो योगशब्दः संयोगवचन एव स्यान्न तु निरोधवचनः। अत एवोक्तं
याज्ञवल्क्येन -
संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः। इति।
तदेतद्वार्तम्, जीवपरयोः संयोगे कारणस्यान्यतरकर्मादेरसंभवात्, अजसंयोगस्य
कणभक्षाक्षचरणादिभिः प्रतिक्षेपाच्च। मीमांसकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्य
साध्यत्वाभावेन शास्त्रवैफल्यापत्तेश्च। धातूनामनेकार्थत्वेन युजेः समाध्यर्थत्वोपपत्तेश्च। तदुक्तम् -
'निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्॥' इति।
अत एव केचन युजिं समाधावपि पठन्ति- 'युज समाधौ'इति। नापि याज्ञवल्क्यवचनव्याकोपः।
तत्रस्थस्यापि योगशब्दस्य समाध्यर्थत्वात्।
'समाधिः समतावस्था जीवात्मपरमात्मनोः। ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः॥'
इति तेनैवोक्तत्वाच्च। तदुक्तं भगवता व्यासेन - (योगभा 1/1/) योगः समाधिरिति।
नन्वेवमष्टाङ्गयोगे चरमस्याङ्गस्य समाधित्वमुक्तं पतञ्जलिना (पात.यो.सू.2/29)-
'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्य' इति। न
चाङ्ग्येवाङ्गतां गन्तुमुत्सहते, उपकार्योपकारकभावस्य दर्शपूर्णमासप्रयाजादौ भिन्नायतन-
त्वेनात्यन्तभेदात्। अतः समाधिरपि न योगशब्दार्थों युज्यत इति चेत् तन्न युज्यते,
व्युत्पत्तिमात्राभिधित्सया 'तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः' (पात. यो. सू. 3/3)
इति निरूपितचरमाङ्गवाचके न समाधिशब्देनाङ्गिनो योगस्याभेदविवक्षया व्यपदेशोपपत्तेः। न च
व्युत्पत्तिबलादेव सर्वत्र शब्दः प्रवर्तते। तथात्वे गच्छतीति गौरिति व्युत्पत्तेस्तिष्ठन्गौर्न स्यात्।
गच्छन्देवदत्तश्च गौः स्यात्।
प्रवृत्तिनिमित्तं च प्रागुक्तमेव चित्तवृत्तिनिरोध इति। तदुक्तं 'योगश्चित्तवृत्तिनिरोधः' (पात. यो. सू.
1/2) इति।
ननु वृत्तीनां निरोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनात्माश्रयतया तन्निरोधोऽपि
प्रध्वंसपदवेदनीयस्तदाश्रयो भवेत् प्रागभावप्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात्। ततश्च -
उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्
इति न्यायेनात्मनः कौटस्थ्यं विहन्येतेति चेत्- तदपि न घटते, निरोधप्रतियोगिभूतानां
प्रमाणविपर्ययविकल्पनिद्रास्मृतिस्वरूपाणां वृत्तीनामन्तःकरणाद्यपरपर्यायचित्तधर्मत्वाङ्गीकारात्।
कूटस्थनित्या चिच्छक्तिरपरिणामिनी विज्ञानधर्माश्रयो भवितुं नार्हत्येव। न च
चितिशक्तेरपरिणामित्वमसिद्धमिति मन्तव्यम्, चितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् 'न
यदेवं न तदेवं यथा चित्तादि।' - इत्याद्यनुमानसंभवात्। तथा यद्यसौ पुरुषः परिणामी स्यात्तदा
परिणामस्य कादाचित्कत्वात् तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत। चिद्रूपस्य पुरुषस्य
सदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वं तस्यापि सदैव स्थितत्वात् येन
येनार्थेनोपरक्तं भवति तस्य दृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य निःसङ्गत्वं
संभवति। ततश्च सिद्धं तस्य सदा ज्ञातृत्वमिति न कदाचित्परिणामित्वशङ्कावतरति। चित्तं
पुनर्येन विषयेणोपरक्तं भवति स विषयो ज्ञातः, येनोपरक्तं न भवति तदज्ञातमिति
वस्तुनोऽयस्कान्तमणिकल्पस्य ज्ञानाज्ञानकारणभूतोपरागानुपरागधर्मित्वादयः सधर्मकं चित्तं
परिणामीत्युच्यते।
ननु चित्तस्येन्द्रियाणां चाहंकारिकाणां सर्वगतत्वासर्वविषयैरस्ति सदा संबन्धः। तथा च सर्वेषां
सर्वदा सवत्र ज्ञानं प्रसज्येतेति चेत् - न सर्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत् तेन शरीरेण सह
संबन्धो येषां विषयाणां तेष्वेवास्य ज्ञानं भवति, नेतरेष्वित्यतिप्रसङ्गाभावात्। अत
एवायस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमिन्द्रियप्रणालिकयाभिसंबन्ध्योप-
रञ्जयन्तीत्युक्तम्। तस्माच्चित्तस्य धर्मा वृत्तयो नात्मनः। तथा च श्रुतिः - 'कामः संकल्पो
विचिकित्सा श्रद्धाश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव' (बृ. 1/53) इति।
चिच्छक्तेरपरिणामित्वं पञ्चशिखाचार्यैराख्यायि -'अपरणामिनी भोक्तृशक्तिः' इति। पतञ्जलिनापि - 'सदा
ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्' (पात.यो.सू. 4/18) इति।
चित्तपरिणामित्वेऽनुमानमुच्यते - चित्तं परिणामि ज्ञाताज्ञातविषयत्वात् श्रोत्रादिवदिति।
परिणामश्च त्रिविधः प्रसिद्धो धर्मलक्षणावस्थाभेदात्। धर्मिणश्चित्तस्य नीलाद्यालोचनं
धर्मपरिणामः, यथा कनकस्य कटकमुकुटकेयूरादि। धर्मस्य वर्तमानत्वादिर्लक्षणपरिणामः।
नीलाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणामः। कटकादेस्तु नवपुराणत्वादिरवस्थापरिणामः।
एवमन्यत्रापि यथासंभवं परिणामत्रितयमूहनीयम्। तथा च प्रमाणदिवृत्तीनां चित्तधर्मत्वात्त-
न्निरोधोपि तदाश्रय एवेति न किंचिदनुपपन्नम्।
ननु वृत्तिनिरोधो योग इत्यङ्गीकारे सुषुप्तयादौ क्षिप्तमूढादिचित्तवृत्तीनां
निरोधसंभवाद्योगत्वप्रसङ्गः। न चैतद्युज्यते, क्षिप्ताद्यवस्थासु क्लेशप्रहाणादेरसंभवान्निः-
श्रेयसपरिपन्थित्वाच्च। तथा हि- क्षिप्तं नाम तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चित्तमुच्यते।
तमःसमुद्रे मग्नं निद्रावृत्तिभावितं मूढमिति गीयते। क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते।
विशेषो नाम
'चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्।' (गी.6/34) इति न्यायेनास्थिरस्यापि मनसः
कादाचित्कसमुद्भूतविषयस्थैर्यसंभवेन स्थैर्यम्। अस्थिरत्वं च स्वाभाविकं व्याध्याद्यनुशयजनितं
वा। तदाह- 'व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्ध- भूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः' (पात. यो. सू.1/30) इति। तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादिर्व्याधिः।
चित्तस्याकर्मण्यत्वं स्त्यानम्। विरुद्धकोटिद्वयावगाहि ज्ञानं संशयः। समाधिसाधनानामभावनं
प्रमादः। शरीरवाक्चित्तगुरुत्वादप्रवृत्तिरालस्यम्। विषयाभिलाषोऽविरतिः। अतस्मिंस्तद्बुद्धि-
भ्रान्तिदर्शनम्। कुतश्चिन्निमित्तात्समाधिभूमेरलाभोऽलब्धभूमिकत्वम्। लब्धायामपि तस्यां
चित्तस्याप्रतिष्ठाऽनवस्थितत्वमित्यर्थः। तस्मान्न वृत्तिनिरोधो योगपक्षनिक्षेपमर्हतीति चेत्- मैवं
वोचः, हेयभूतक्षिप्ताद्यवस्थात्रये वृत्तिनिरोधस्य योगत्वासंभवेऽप्युपादेययोरेकाग्रनिरुद्धा-
वस्थयोर्वृत्तिनिरोधस्य योगत्वसंभवात्। एकतानं चित्तमेकाग्रमुच्यते। निरुद्धसकलवृत्तिकं
संस्कारमात्रशेषं चित्तं निरुद्धमिति भण्यते।
स च समाधिर्द्धिविधः। संप्रज्ञातासंप्रज्ञातभेदात्। तत्रैकाग्रचेतसि यः प्रमाणादिवृत्तीनां
बाह्यविषयाणां निरोधः स संप्रज्ञातः समाधिः, सम्यक्प्रज्ञायतेऽस्मिन्प्रकृतेर्विविक्ततया ध्येयमिति
व्युत्पत्तेः। स चतुर्विधः सवितर्कादिभेदात्। समाधिर्नाम भावना। सा च भाव्यस्य
विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम्। भाव्यं च द्विविधम्- ईश्वरस्तत्त्वानि च। तान्यपि
द्विविधानि जडाजडभेदात्। जडानि प्रकृतिमहदहंकारादीनि चतुर्विंशतिः। अजडः पुरुषः। तत्र तदा
पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेन च भावना प्रवर्तते
स समाधिः सवितर्कः। यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य देशाद्यवच्छेदेन
भावना प्रवर्तते तदा सविचारः। यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य
सत्त्वस्योद्रेकात्सानन्दः। यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या प्रवर्तते
भावना तदा तस्यां सत्त्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकाच्च सत्तामात्रावशेषत्वेन सास्मितः
समाधिः। तदुक्तं 'पतञ्जलिनावितर्क विचारानन्दास्मितारुपानुगमात्संप्रज्ञातः।' (पात. यो. सू.
1/17) इति। सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः। ननु सर्ववृत्तिनिरोधो योग इत्युक्ते संप्रज्ञाते
व्याप्तिर्न स्यात् तत्र सत्त्वप्रधानायाः सत्त्वपुरुषान्यताख्यातिलक्षणायां वृत्तेरनिरोधादिति चेत् -
तदेतद्वार्तम्, क्लेशकर्मविपाकाशयपरिपन्थिचित्तवृत्तिनिरोधो योग इत्यङ्गीकारात्।
क्लेशाः पुनः पञ्चधा प्रसिद्धाः अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः (पात.यो.सू.2/3)इति।
नन्वविद्येत्यत्र किमाश्रीयते पूर्वपदार्थप्राधान्यममक्षिकं वर्तत इतिवत्। उत्तरपदार्थप्राधान्यं वा
राजपुरुष इतिवत् अन्यपदार्थप्राधान्यं वा अमक्षिको देश इतिवत्। तत्र न पूर्वः
पूर्वपदार्थप्रधानत्वे अविद्यायां प्रसज्यप्रतिषेधोपपत्तौ क्लेशादिकारकत्वानुपपत्तेः,ಉ अविद्याशब्दस्य
स्त्रीलिङ्गत्वाभावापत्तेश्च। न द्वितीयः कस्यचिदभावेन विशिष्टाया विद्यायाः क्लेशादिपरिपन्थित्वेन
तद्बीजत्वानुपपत्तेः। न तृतीयः, 'नञोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्च'
इति
वृत्तिकारवचनानुसारेणाविद्यमाना विद्या यस्याः सा अविद्या बुद्धिरिति समासार्थसिद्धौ तस्या
अविद्यायाः क्लेशदिबीजत्वानुपपत्तेः; विवेकख्यातिपूर्वकसर्ववृत्तिनिरोधसंपन्नायास्तस्या-
स्तथात्वप्रसङ्गाच्च। उक्तं चास्मितादीनां क्लेशानामविद्यानिदानत्वम्- 'अविद्या क्षेत्रमुत्तारेषां
प्रसुप्ततनुविच्छिन्नोदाराणाम्' (पात.यो.सू.2/4) इति। प्रसुप्तत्वं प्रबोधसहकार्यभावेनानभिव्यक्तिः।
तनुत्वं प्रतिपक्षभावनया शिथिलीकरणम्। विच्छिन्नत्वं बलवता क्लेशेनाभिभवः। उदारत्वं
सहकारि संनिधिवशात्कार्यकारित्वम्। तदुक्तं वाचस्पतिमिश्रेण व्यासभाष्यव्याख्यायाम्-
'प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम्। विच्छिन्नोदाररुपाश्च क्लेशा विषयसङ्गिनाम्॥'
इति।
द्वन्द्ववत्स्वतन्त्रपदार्थद्वयानवगमादुभयपदार्थप्रधानत्वं नाशङ्कितम्। तस्मात्पक्षत्रयेऽपि क्लेशादि-
निदानत्वमविद्यायाः प्रसिद्धं हीयेतेति चेत् -
तदपि न शोभनं विभाति, पर्युदासशक्तिमाश्रित्याविद्याशब्देन विद्याविरुद्धस्य विपर्ययज्ञानस्याभि-
भिधानमिति वृद्धैरङ्गीकारात्। तदाह-
'नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधकः। वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ॥' इति।
'वृद्धप्रयोगगम्यो हि शब्दार्थः सर्व एव नः। तेन यत्र प्रयुक्तो यो न तस्मादपनीयते॥' इति।
वाचस्पतिमिश्रैरप्युक्तम् - 'लोकाधीनावधारणो हि शब्दार्थयोः संबन्धः। लोके चोत्तरपदार्थप्रधानस्यापि
नञ उत्तरपदाभिधेयोपमर्दकस्य तद्विरुद्धतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे प्रवृत्तिः'इति।
एतदेवाभिप्रेत्योक्तम्- 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या' (पात.सू.2/5)
इति। अतस्मिंस्तद्बुद्धिर्विपर्यय इत्युक्तं भवति। तद्यथा- अनित्ये घटादौ नित्यत्वाभिमानः।
अशुचौ कायादौ शुचित्वप्रत्ययः। -
स्थानाद्वीजादपष्टम्भान्निष्यन्दान्निधनादुपि। कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति।
'परिणामतापसंस्कारदुःखैर्गुणवृत्त्यविरोधाच्च दुःखमेव सर्वं विवेकिनः' (पात. यो. सू. 2/15) इति
न्यायेन दुःखे स्रक्चन्दनवनितादौ सुखत्वारोपः। अनात्मनि देहादावात्मबुद्धिः। तदुक्तम् -
अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम्। अविद्या तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते॥
इति।
एवमियमविद्या चतुष्पदा भवति। नन्वेतेष्वविद्याविशेषेषु किंचिदनुगतं सामान्यलक्षणं वर्णनीयम्,
अन्यथा विशेषस्यासिद्धेः। तथा चोक्तं भट्टाचार्यैः -
सामान्यलक्षणं मुक्त्वा विशेषस्यैव लक्षणम्। न शक्यं केवलं वक्तुमतोऽप्यस्य न वाच्यता॥
इति।
तदपि न वाच्यम्। अतस्मिंस्तद्बुद्धिरिति सामान्यलक्षणाभिधानेन दत्तोत्तरत्वात्।
सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मिता। तदप्युक्तं -'दृग्दर्शनशक्त्योरेकात्मतेवास्मिता'
(पात.यो.सू.2/6) इति।
सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धों रागः। दुःखाभिज्ञस्य
तदनुस्मृतिपुरस्सरं तत्साधनेषु निवृत्तिर्द्वेषः। तदुक्तं - 'सुखानुशयी रागः' (पात.यो.सू.2/7)
'दुःखानुशयी द्वेषः' (पात.यो.सू.2/8) इति।
किमत्रानुशयिशब्दे ताच्छील्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः? नाद्यः, 'सुप्यजातौ
णिनिस्ताच्छील्ये (पा.सू.3/2/78) इत्यत्र सुपीति वर्तमाने पुनः सुब्ग्रहणस्योपसर्गनिवृत्त्यर्थत्वेन
सोपसर्गाद्धातोर्णिनेरनुत्पत्तेः। यथाकथंचित्तदङ्गीकारेऽपि 'अचो ञ्णिति' (पा.सू.7/2/115) इति
वृद्धिप्रसक्तावतिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात्। न द्वितीयः
'एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ'
इति तत्प्रतिषेधात्, अत्र चानुशयशब्दस्याजन्तत्वेन कृदन्तत्वात्। तस्मादनुशयिशब्दो दरुपपाद
इति चेत्- नैतद्भद्रम्, भावानवबोधात्। प्रायिकाभिप्रायमिदं वचनम्। अत एवोक्तं वृत्तिकारेण -
'इतिकरणो विवक्षार्थः सर्वत्राभिसंबध्यते' इति। तेन क्वचिद्भवति कार्यी कार्यिकस्तण्डुली तण्डुलिकः
इति। तथा च कृदन्ताज्जातेश्चप्रतिषेधस्य प्रायिकत्वम्। अनुशयशब्दस्य कृदन्ततयेनेरुपपत्तिरिति
सिद्धम्।
पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्याकृमेरा च विदुषः संजायमानः
शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपोऽभिनिवेशः प्रञ्चमः
क्लेशः, मा न भूवं हि भूयासमिति प्रार्थनायाः प्रत्यात्ममनुभवसिद्धत्वात्। तदाह-'स्वरसवाही
विदुषोऽपि तथा रूढोऽभिनिवेशः' (पात.यो.सू.2.9) इति। ते चाविद्यादयः पञ्च
सांसारिकविविधदुःखोपहारहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः प्रसिद्धाः।
कर्माणि विहितप्रतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि। विपाकाः कर्मफलानि जात्यायुर्भोंगाः।
आ फलविपाकाच्चित्तभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः। तत्परिपन्थिचित्तावृत्तिनिरोधो
योगः। निरोधो नाभावमात्रमभिमतम्, तस्य तुच्छत्वेन भावरूपसाक्षात्कारजननक्षमत्वासंभवात्।
किं तु तदाश्रयो मधुमतीमधुप्रतीकाविशोकासंस्कारशेषाव्यपदेश्यश्चित्तस्यावस्थाविशेषः, निरुध्यन्तेऽस्मिन्
प्रमाणाद्याश्चित्तवृत्तय इति व्युत्पत्तेरूपपत्तेः।
'अभ्यासवैराग्याभ्यां वृत्तिनिरोधः। तत्र स्थितौ यत्नोऽभ्यासः'। (पात.यो.सू. 1/12/13)।
वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविरोषः स्थितिः। तं निमित्तीकृत्य
यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यासः। चर्मणि द्वीपिनं हन्ति'इतिवन्निमित्तार्थेयं
सप्तमीत्युक्तं भवति। 'दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ( पात. यो. सू. 1/15)।
ऐहिकपारत्रिकविषयादौ दोषदर्शनान्निरभिलाषस्य 'ममैते विषया वश्याः' 'नाहमेतेषां वश्यः' इति
विमर्शों वैराग्यमित्युक्तं भवति।
समाधिपरिपन्थिक्लेशतनूकरणार्थं समाधिलाभार्थं च प्रथमं क्रियायोगविधानपरेण योगिना
भवितव्यम्, क्रियायोगसंपादनेऽभ्यासवैराग्ययोः संभवात्। तदुक्तं भगवता -
'आरुरुक्षोर्मुनेर्योंगं कर्म कारणमुच्यते।
योगारुढस्य तस्यैव शमः कारणमुच्यते॥' (भ.गी.6/3)
इति।
क्रियायोगश्चोपदिष्टः पतञ्जलिना- 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' (पात. यो. सू 2/1)
इति। तपःस्वरूपं निरुपितं याज्ञवलक्येन-
'विधिनोक्ते न मार्गेण कृच्छ्रचान्द्रायणादिभिः।
शरीरशोषणं प्राहुस्तपसां तप उत्तमम्॥' इति।
प्रणवगायत्रीप्रभृतीनां मन्त्राणामध्ययनं स्वाध्यायः।
ते च मन्त्रा द्विविधाः- वैदिकास्तान्त्रिकाश्च। वैदिकाश्च द्विविधाः-प्रगीताः अप्रगीताश्च। तत्र प्रगीताः
सामानि। अप्रगीताश्च द्विविधाः- छन्दोबद्धास्तद्विलक्षणाश्च। तत्र प्रथमा ऋचो, द्वितीया यजूंषि।
तदुक्तं जैमिनिना- 'तेषामृग्यत्रार्थवशेन पादव्यवस्था। गीतिषु सामाख्या। शेषे यजुःशब्दः
(जै.सू.2/1/33-35) इति। तन्त्रेषु कामिककारणप्रपञ्चाद्यागमेषु ये ये वर्णितास्ते तान्त्रिकाः। ते
पुनर्मन्त्रास्त्रिविधाः स्त्रीपुंनपुंसकभेदात्। तदाह -
स्त्रीपुंनपुंसकत्वेन त्रिविधा मन्त्रजातयः।
'स्त्रीमन्त्रा वह्निजायान्ता नमोऽन्ताः स्युर्नपुंसकाः॥
शेषाः पुमांसस्ते शस्ताः सिद्धा वश्यादिकर्मणि।।' इति। जननादिसंस्काराभावेऽपि
निरस्तसमस्तदोषत्वेन सिद्धिहेतुत्वात्सिद्धत्वम्। स च संस्कारो दशविधः कथितः
शारदातिलके -
'मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः।
निर्दोषतां प्रयान्त्याशु ते मन्त्राः
साधु संस्कृताः॥
जननं जीवनं चैव ताडनं बोधनं तथा।
अभिषेकोऽथ विमलीकरणाप्यायने पुनः।
तर्पणं दीपनं गप्तिर्दशैता मन्त्रसंस्क्रियाः।
मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम्॥
प्रणवान्तरितान्कृत्वा मन्त्रवर्णाञ्जपेत्सुधीः।
मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते॥
मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा।
प्रत्येकं वायुबीजेन ताडनं तदुदाहृतम्॥
विलिख्य
मन्त्रवर्णांस्तु प्रसूनैः करवीरजैः।
मन्त्राक्षरेण संख्यातैर्हन्यात्तद्वोधनं स्मृतम्॥
स्वतन्त्रोक्तविधानेन
मन्त्री मन्त्रार्णसंख्यया। अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये॥
संचिन्त्य मनसा मन्त्रं
ज्योतिर्मन्त्रेण निर्दहेत्।
मन्त्रे मलत्रयं मन्त्री विमलीकरणं हि तत्॥
तारव्योमाग्नि-
मनुयुग्ज्योतिर्मन्त्र उदाहृतः।
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः॥
वारिवीजेन
विधिवदेतदाप्यायनं मतम्।
मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम्॥
तारमायारमायोगो
मनोर्दीपनमुच्यते।
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम्॥
संस्कारा दश मन्त्राणां
सर्वतन्त्रेषु गोपिताः।
यत्कृत्वा संप्रदायेन मन्त्री वाञ्छितमश्नुते॥
रुद्धकीलितविच्छिन्न-
सुप्तशप्तादयोपि च।
मन्त्रदोषाः प्रणश्यन्ति संस्कारैरेभिरुत्तमैः॥
इति। तदलमकाण्डताण्डवकल्पेन
मन्त्रशास्त्ररहस्योद्धोषणेन।
ईश्वरप्रणिधानं नामाभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्वरे परमगुरौ फलानपेक्षया
समर्पणम्। यत्रेदमुक्तम् -
कामतोऽकामतो वापि यत्करोमि शुभाशुभम्।
तत्सर्वं त्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहम्॥
इति।
क्रियाफलसंन्यासोऽपि भक्तिविशेषापरपर्यायं प्रणिधानमेव फलानभिसंधानेन कर्मकारणात्। तथा
च गीयते गीतासु भगवता -
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥
(भ.गी.2/47) इति।
फलाभिसंधेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभारतीश्रीचरणैः -
अपि प्रयत्नसंपन्नं कामेनोपहतं तपः। न तुष्टये महेशस्य श्वलीढमिव पायसम्॥ इति।
सा च तपःस्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगसाधनत्वाद्योग इति शुद्धसारोपलक्षणा-
वृत्त्याश्रयणेन निरुप्यते यथायुर्घृतमिति।
शुद्धसारोपलक्षणा नाम लक्षणाप्रभेदः। मुख्यार्थबाधतद्योगाभ्यामर्थान्तरप्रतिपादनं लक्षणा। सा
द्विविधा। रुढिमूला प्रयोजनमूला च। तदुक्तं काव्यप्रकाशे -
मुख्यार्थबाधे तद्योगे रुढितोऽथ प्रयोजनात्। अन्योऽर्थों लक्ष्यते यत्सा लक्षणारोपिता क्रिया॥
(का.प्र.2/9) इति।
यच्छब्देन लक्ष्यत इत्याख्याते गुणीभूतं प्रतिपादनमात्रं परामृश्यते। सा लक्षणेति
प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः। तदुक्तं कैयटैः-
'निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तत्तल्लिङ्गमुपाददते' इति।
तत्र 'कर्मणि कुशल' इत्यादि रुढिलक्षणाया उदाहरणम्। कुशाल्लाँतीति व्युत्पत्या दर्भादानकर्तरि
यौगिकं कुशलपदं विवेचकत्वसारुप्यात्प्रवीणे प्रवर्तमानमनादिवृद्धव्यवहारपरम्परानुपातित्वे-
नाभिधानवत्प्रयोजनमनपेक्ष्य प्रवर्तते। तदाह -
निरुढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत्। (त.वा.) इति।
तस्माद्रूढिलक्षणायाः प्रयोजनापेक्षा नास्ति। यद्यपि प्रयुक्तः शब्दः प्रथमं मुख्यार्थं प्रतिपादयति
तेनार्थेनार्थान्तरं लक्ष्यत इत्यर्थधर्मोंऽयं लक्षणा तथापि तत्प्रतिपादके शब्दे समारोपितः
सञ्शब्दव्यापार इति व्यपदिश्यते। एतदेवाभिप्रेत्योक्तं लक्षणारोपिता क्रियेति। प्रयोजनलक्षणा तु
षड्विधा। उपादानलक्षणा लक्षणलक्षणा गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा
शुद्धसाध्यवसाना चेति। कुन्ताः प्रविशन्ति, मञ्चाः कोशन्ति, गौर्वाहीकः, गौरयम्, आयुर्घृतम्,
आयुरेवेदम्- इति यथाक्रममुदाहरणानि द्रष्टव्यानि। तदुक्तम् -
स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्। उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा॥ सारोपान्या
तु यत्रोक्तौ विषयी विषयस्तथा। विषय्यन्तःकृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका॥ भेदाविमौ च
सादृश्यात्संबन्धान्तरतस्तथा। गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा॥ (का.प्र.2/10-12)
इति।
तदलं काव्यमीमांसामर्मनिर्मन्थनेन।
स च योगो यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः। तत्र यमा अहिंसादयः। तदाह पतञ्जलिः-
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। (पात. यो. सू. 2/30) इति। नियमाः शैचादयः।
तदप्याह-'शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (पात. यो. सू. 2/32) इति। एते च
यमनियमा विष्णुपुराणे दर्शिताः।
ब्रह्मचर्यमाहिंसां च सत्यास्तेयापरिग्रहान्। सेवेत योगी निष्कामो योग्यतां स्वं मनो नयन्॥
स्वाध्यायशौचसंतोषतपांसि नियतात्मवान्। कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः॥ एते यमाः
सनियमाः पञ्च पञ्च प्रकीर्तिताः। विशिष्टफलदाः कामे निष्कामाणां विमुक्तिदाः॥
(वि.पु.6/7/36-38) इति।
स्थिरसुखमासनं (पात.यो.सू.2/46) पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसोपाश्रय-
पर्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदाद्दशविधम्।
पादाङ्गुष्ठौ निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु। ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे॥ पद्मासनं
भवेदेतत्सर्वेषामभिपूजितम्।
इत्यादिना याज्ञवल्क्यः पद्मासनादिस्वरूपं निरुपितवान्। तत्सर्वं तत एवावगन्तव्यम्।
तस्मिन्नासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति। स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः।
तत्र श्वासो नाम बाह्यस्य वायोरन्तरानयनम्। प्रश्वासः पुनः कोष्ठयस्य बहिर्निःसारणम्।
तयोरुभयोरपि संचरणाभावः प्राणायामः। ननु नेदं प्राणायामसामान्यलक्षणम्। तद्विशेषेषु
रेचकपूरककुम्भकप्रकारेषु तदनुगतेरयोगादिति चेत्- नैष दोषः, सर्वत्रापि श्वासप्रश्वासगति-
विच्छेदसंभवात्। तथा हि- कोष्ठ्यस्य वायोर्बहिर्निःसरणं रेचकः प्राणायामो यः प्रश्वासत्वेन
प्रागुक्तः। बाह्यस्य वायोरन्तर्धारणं पूरको यः श्वासरूपः। अन्तःस्तम्भवृत्तिः कुम्भको
यस्मिञ्जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते। तत्र सर्वत्र
श्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः। तदुक्तम् - तस्मिन्सति
श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः (पात. यो. सू. 2/49) इति।
स च वायुः सूर्योदयमारभ्य सार्धघटिकाद्वयं घटीयन्त्रस्थितघटभ्रमणन्यायेनैकैकस्यां नाडयां
भवति। एवं सत्यहर्निशं श्वासप्रश्वासयोः षट्शताधिकैकविंशतिसहस्राणि जायन्ते। अत एवोक्तं
मन्त्रसमर्पणरहस्यवेदिभिरजपामन्त्रसमर्पणे -
षट्शतानि गणेशाय षट्सहस्रं स्वयंभुवे।
विष्णवे षट्सहस्रं च षट्सहस्रं पिनाकिने॥
सहस्रमेकं
गुरवे सहस्रं परमात्मने।
सहस्रमात्मने चैवमर्पयामि कृतं जपम्॥ इति।
तथा नाडीसंचारणदशायां वायोः संचरणे पृथिव्यादीनि तत्त्वानि वर्णविशेषवशात्पुरुषार्थाभिलाषुकैः
पुरुषैरवगन्तव्यानि। तदुक्तमभियुक्तैः -
सार्धं घटीद्वयं नाड्योरेकैकार्कोदयाद्वहेत्।
अरघट्टघटीभ्रान्तिन्यायो नाड्योः पुनः पुनः॥
शतानि
तत्र जायन्ते निश्वासोच्छ्वासयोर्नव।
खखषट्कद्विकैः संख्याहोरात्रे सकले पुनः॥
षट्त्रिंशद्गुरुवर्णानां
या वेला भणने भवेत्।
सा वेला मरुतो नाड्यन्तरे संचरतो भवेत्॥
प्रत्येकं पञ्च तत्त्वानि
नाड्योश्च वहमानयोः।
वहन्त्यहर्निशं तानि ज्ञातव्यानि यतात्मभिः॥
ऊर्ध्वं वह्निरधस्तोयं
तिरश्चीनः समीरणः।
भूमिरर्धपुटे व्योम सर्वगं प्रवहेत्पुनः॥
वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्त्वं
वहेत्क्रमात्।
वहन्त्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा॥
पृथ्व्याः पलानि
पञ्चाशच्चत्वारिंशत्ताथाम्भसः।
अग्नेस्त्रिंशत्पुनर्वायोर्विंशतिर्नभसो दश॥
प्रवाहकालसंख्येयं
हेतुस्तत्र प्रदर्श्यते।
पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः॥
त्रिगुणो द्विगुणो र्वायुर्वियदेकगुणं
भवेत्।
गुणं प्रति दश पलान्युर्व्यां पञ्चाशदित्यतः॥
एकैकहानिस्तोयादेस्तथा पञ्च गुणाः
क्षितेः।
गन्धो रसश्च रूपं च स्पर्शः शब्दः क्रमादमी॥
तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्तिः कार्ये
फलोन्नतिः। दीप्तास्थिराव्यूहवृत्तिस्तेजोवाद्यम्बरेषु च॥
पृथ्व्यप्तेजोमरुद्व्योमतत्त्वानां चिह्नमुच्यते।
आद्ये स्थैर्यं स्वचित्तस्य शैत्ये कामोद्भवो भवेत्॥
तृतीये कोपसंतापौ चतुर्थे चञ्चलात्मता।
पञ्चमे
शून्यतैव स्यादथवाधर्मवासना॥
श्रुत्योरङ्गुष्ठकौ मध्याङ्गुल्यौ नासापुटद्वये।
सृक्किण्योः
प्रान्त्यकोपान्त्याङ्गुली शेषे दृगन्तयोः॥ न्यस्यान्तःस्थपृथिव्यादितत्त्वज्ञानं भवेत्क्रमात्।
पीतश्वेतारुणश्यामैर्बिन्दुर्भिर्निरुपाधि खम्॥ इत्यादिना।
यथावद्वायुतत्त्वमवगम्य तन्नियमने विधीयमाने विवेकज्ञानावरणकर्मक्षयो भवति।
'तपो न परं
प्राणायामाद्' इति।
'दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः। प्राणायामैस्तु दह्यन्ते तद्वदिन्द्रियजा मलाः॥' इति
च।
तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनः संयमाय प्रत्याहारः कर्तव्यः।
चक्षुरादीनामिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीयमोहनीयप्रवणत्वप्रहाणेनाविकृतस्वरूपप्रवण-
चित्तानुकारः प्रत्याहारः। इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति व्युत्पत्तेः। ननु तदा
चित्तमभिनिविशते नेन्द्रियाणिह तेषां बाह्यविषयत्वेन तत्र सामर्थ्याभावात्। अतः कथं
चित्तानुकारः? अद्धा। अत एव वस्तुतस्तस्यासंभवमाभिसंधाय सादृश्यार्थमिवशब्दं चकार
सूत्रकारः- 'स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः (पा. यो. सू. 2/54)
इति। सादृश्यं च चित्तानुकारनिमित्तं विषयासंप्रयोगः। यदा चित्तं निरुध्यते तदा चक्षुरादीनां
निरोधे प्रयत्नान्तरं नापेक्षणीयम्। यथा मधुकरराजं मधुमक्षिका अनुवर्तन्ते तथेन्द्रियाणि
चित्तमिति। तदुक्तं विष्णुपुराणे -
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित्।
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः॥
वश्यता
परमा तेन जायतेऽतिचलात्मनाम्।
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः॥
(वि.पु.6/7/43,44) इति।
नाभिचक्रहृदयपुण्डरीकनासाग्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृतिके बाह्ये वा देशे
चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धरणा। तदाह-'देशबन्धश्चित्तस्य धारणा'
(पात.यो.सू.3/1/) इति पौराणिकाश्च -
प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम्। वशीकृत्य ततः कु र्याच्चित्तस्थानं शुभाश्रये॥ (वि.पु.
6/7/45) इति।
तस्मिन्देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन प्रवाहो ध्यानम्। तदुक्तं - 'तत्र
प्रत्ययैकतानता ध्यानम्' (पात. यो. सू. 3/2) इति। अन्यैरप्युक्तम् -
तद्रूपप्रत्ययैकाग्रया संततिश्चान्यनिःस्पृहा। तद्धयानं प्रथमैरङ्गैः षङ्भिर्निष्पाद्यते नृप॥ (वि.पु.
6/7/89) इति।
प्रसङ्गाच्चरममङ्गं प्रागेव (द.15. पं. 147) प्रत्यपीपदाम।
तदनेन योगाङ्गानुष्ठानेनादरनैरन्तर्यदीर्घकालसेवितेन समाधिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्य-
वशान्मधुमत्यादिसिद्धिलाभो भवति।
अथ किमेवमकस्मादस्मानतिविकटाभिरत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भवान्।
न हि वयं भवन्तं भीषयामहे। किं तु मधुमत्यादिपदार्थव्युत्पादनेन तोषयामः। ततश्चाकुतोभयेन
भवता श्रूयतामवधानेन। तत्र मधुमती नामाभ्यासवैराग्यादिवशादपास्तरजस्तमालशसुखप्रकाश-
मयसत्त्वभावनयानवद्यवैशारद्यविद्योतनरूपऋतंभरप्रज्ञाख्या समाधिसिद्धिः। तदुक्तम् - 'ऋतंभरा तत्र
प्रज्ञा' (पात. यो. सू. 1/48) इति।
ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययेणाच्छाद्यते। तत्र स्थितौ दार्ढ्ये सति द्वितीयस्य
योगिनः सा प्रज्ञा भवतीत्यर्थः। चत्वारः खलु योगिनः प्रसिद्धाः प्राथमकल्पिको मधुभूमिकः
प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। न त्वनेन
परचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृतमित्युक्तं भवति। ऋतंभरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी
तृतीयः। परवैराग्यसंपन्नश्चतुर्थः। मनोजवित्वादयो मधुप्रतीकसिद्धयः। तदुक्तं -'मनोजवित्वं
विकरणभावः प्रधानजयश्च (पात.यो.सू.3/48) इति। मनोजवित्वं नाम कायस्य मनोवदनुत्तमो
गतिलाभः। विकरणभावः कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षवृत्तिलाभः।
प्रधानजयः प्रकृतिविकारेषु सर्वेषु वशित्वम्। एताश्च सिद्धयः करणपञ्चकरूपजयात्तृतीयस्य
योगिनः प्रादुर्भवन्ति। यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त
इति मधुप्रतीकाः। सर्वभावाधिष्ठातृत्वादिरूपा विशोका सिद्धिः। तदाह 'सत्त्वपुरुषान्यता-
ख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं च' (पात.यो.सू.3/49) इति। सर्वेषां
व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम्।
तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञातृत्वम्। तदुक्तं -'विशोका वा
ज्योतिष्मती' (पात.यो.सू. 1/36) इति। सर्ववृत्तिप्रत्यस्तमये परं वैराग्यमाश्रितस्य
जात्यादिबीजानां क्लेशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञातपदवेदनीयः
संस्कारशेषताव्यपदेश्यश्चित्तस्यावस्थाविशेषः। तदुक्तं - 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
(पात. यो. सू. 1/18) इति। एवं च सर्वतो विरज्यमानस्य तस्य पुरुषधौरेयस्य क्लेशबीजानि
निर्दग्धशालिबीजकल्पानि प्रसवसामर्थ्यविधुराणि मनसा सार्धं प्रत्यस्तं गच्छन्ति।
तदेतेषु प्रलीनेषु निरुपप्लवविवेकख्यातिपरिपाकवशात कार्यकारणात्मकानां प्रधाने लयः,
चितिशक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वाभिसंबन्धविधुरा वा कैवल्यं लभत इति सिद्धम्। द्वयी च
मुक्तिरुक्ता पतञ्जलिना-'पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिः'।
(पात.यो.सू.4/34) इति। न चास्मिन् सत्यपि कस्मान्न जायते जन्तुरिति वदितव्यम्।
कारणाभावात्कार्याभाव इति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात्। अपरथा कारणाभावेऽपि
कार्यसंभवे मणिवेधादयोऽन्धादिभ्यो भवेयुः। तथा चानुपपन्नार्थतायामाभाणको लौकिक
उपपन्नार्थों भवेत्। तथा च श्रुतिः-'अन्धो मणिमविन्दत्। तमनङ्गुलिरावयत्। अग्रीवः
प्रत्यमुञ्चत्। तमजिह्वा असश्चत' (तै.आ.1/11/5)। अविन्ददविध्यत। आवथद्गृहीतवान्।
प्रत्यमुञ्जत्पिनद्धवान्। असश्चताभ्यपूजयत्। स्तुतवानिति यावत्। एवं च चिकित्साशास्त्रवद्योगशास्त्रं
चतुर्व्यूहम्। यथा चिकित्साशास्त्रं रोगो रोगहेतुरारोग्यं भेषजमिति तथेदमपि संसारः
संसारहेतुर्मोंक्षो मोक्षोपाय इति। तत्र दुःखमयः संसारो हेयः। प्रधानपुरुषयोः संयोगो हेयभोगहेतुः।
तस्यात्यन्तिकी निवृत्तिर्हानम्। तदुपायः सम्यग्दर्शनम्। एवमन्यदपि शास्त्रं यथासंभवं
चतुर्व्यूहमूहनीयमिति सर्वमवदातम्।
- ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पातञ्जलदर्शनम्॥