सामग्री पर जाएँ

सर्वदर्शनसंग्रहः/पाणिनिदर्शनम्

विकिस्रोतः तः

सर्वदर्शनसंग्रहः

अथ पाणिनिदर्शनम् ॥13॥

नन्वयं प्रकृतिभागोऽयं प्रत्ययभाग इति प्रकृतिप्रत्ययविभागः कथमवगम्यत इति चेत्-
पीतपातञ्जलजलानामेतच्चोद्यं चमत्कारं न करोति। व्याकरणशास्त्रस्य प्रकृतिप्रत्ययविभाग-
प्रतिपादनपरताया प्रसिद्धत्वात्। तथा हि पतञ्जलेर्भगवतो महाभाष्यकारस्येदमादिमं वाक्यम्-
'अथ शब्दानुशासनम्' (पात0 म0 भा0 1/1/1) इति। अस्यार्थः - अथेत्ययं शब्दोऽधिकारर्थः
प्रयुज्यते। अधिकारः प्रस्तावः। प्रारम्भ इति यावत्। शब्दानुशासनशब्देन च पाणिनिप्रणीतं
व्याकरणशास्त्रं विवक्ष्यते। शब्दानुशासनमित्येतावत्यभिधीयमाने संदेहः स्यात्। किं शब्दानुशासनं
प्रस्तूयते न वेति। तथा मा प्रसाङ्क्षीदित्यथशब्दं प्रायुङ्क्त। अथ शब्दप्रयोगबलेनार्थान्तरव्युदासेन
प्रस्तूयत इत्यस्याभिधीयमानत्वात्। अनेन हि वैदिकाः शब्दाः 'शं' नो देवीरभिष्टये' (अथर्व0
सं0 1/1/) इत्यादयस्तदुपकारिणो लौकिकाः शब्दाः 'गौरश्वः पुरुषो हस्ती
शकुनिः' इत्यादयश्चानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभागवत्तया बोध्यन्त इति
शब्दानुशासनम्।
अत्र केचित्पर्यनुयुञ्जते - अनुशासिक्रियायाः सकर्मकत्वात्कर्मभूतस्य शब्दस्य कर्तृ
भूतस्याचार्यस्य प्राप्तौ सत्याम् 'उभयप्राप्तौ कर्मणि' (पा0 सू0 2/3/66)
इत्यनुशासनबलात्कर्मण्येषा षष्ठी विधातव्या। तथा च 'कर्मणि च' (पा.सू. 2/2/14) इति
समासप्रतिषेधसंभवाच्छब्दानुशासनशब्दो न प्रमाणपथमवतरतीति। अत्रायं समाधिरभिधीयते
यस्मिन्कृत्प्रत्यये कर्तृकर्मणोरूभयोः प्राप्तिरस्ति तत्र कर्मण्येव षष्ठीविभक्तिर्भवति न कर्तरीति
बहुव्रीहिविज्ञानबलान्नियम्यते। तद्यथा - आश्चर्यों गवां दोहोऽशिक्षितेन गोपालकेनेति।
शब्दानुशासनमित्यत्र तु शब्दानामनुशासनं नार्थानामित्येतावतो विवक्षितस्यार्थस्याचार्यस्य
कर्तुरुपादानेन विनापि सुप्रतिपादत्वादाचार्योपादानमकिंचित्करम्। तस्मादुभयप्राप्तेरभावादुभयप्राप्तौ
कर्मणीत्येषा षष्ठी न भवति। किन्तु 'कर्तृकर्मणोः कृति' (पा0 सू0 2/3/65) इति कृद्योगे
कर्तरि कर्मणि च षष्ठीविभक्तिर्भवतीति कृद्योगलक्षणा षष्ठी भवष्यिति। तथा
चेध्मप्रव्रश्चनपलाशशातनादिवत्समासो भविष्यति। कर्तर्यपि षष्ठी भवतीति केचिद् ब्रुवते। अत
एवोक्तं काशिकावृत्तौ केचिदविशेषेणैव विभाषामिच्छन्ति शब्दानामनुशासनमाचार्येणाचार्यस्य वेति।
अथवा शेषलक्षणेयं षष्ठी। तत्र किमपि चोद्यं नावतरत्येव। यद्येवं तर्हि शेषलक्षणायाः षष्ठ्याः
सर्वत्र सुवचत्वात् षष्ठीसमासप्रतिषेधसूत्राणामानर्थक्यं प्राप्नुयादिति चेत् - सत्यम्। तेषां
स्वरचिन्तायामुपयोगो वाक्यपदीये हरिणा प्रादर्शि। तदाह महोपाध्यायवर्धमानः -
लौकिकव्यवहारेषु यथेष्टं चेष्टतां जनः। वैदिकेषु तु मार्गेषु विशेषोक्तिः प्रवर्तताम्॥ इति
पाणिनिसूत्राणामर्थवत्त्वमसौ यतः। जनिकर्तुरिति ब्रूते तत्प्रयोजक इत्यपि॥ इति।
तथा च शब्दानुशासनापरनामधेयं व्याकरणशास्त्रमारब्धं वेदितव्यमिति वाक्यार्थः संपद्यते।
तस्यार्थस्य झटिति प्रतिपत्तये 'अथ व्याकरणम्' इत्येवाभिधीयताम्। अथ
शब्दानुशासनमित्यधिकाक्षरं मुधाभिधीयत इति। मैवम्। शब्दानुशासनमित्यन्वर्थसमाख्योपादने
तदीयवेदाङ्गत्वप्रतिपादकप्रयोजनान्वाख्यानसिद्धेः। अन्यथा प्रयोजनानभिधाने व्याकरणा-
ध्ययनेऽध्येतृणां प्रवृत्तिरेव न प्रसज्येत्। ननु 'निष्कारणो धर्मः षडङ्गो वेदोऽध्येतव्यः'
इत्यध्येतव्यत्वविधानादेव प्रवृत्तिः सेत्स्यति इति चेत्- मैवम्। तथा विधानेऽपि
तदीयवेदाङ्गत्वप्रतिपादकप्रयोजनानभिधाने तेषां प्रवृत्तेरनुपपत्तेः। तथा हि- पुरा किल
वेदमधीत्याध्येतारस्त्वरिता वक्तारो भवन्ति।
वेदान्नो वैदिकाः शब्दाः सिद्धाः, लोकाच्च लौकिकाः।
तस्मादनर्थकं व्याकरणमिति। तस्माद्वेदाङ्गत्वं मन्यमानास्तदध्ययने प्रवृत्तिमकार्षुः। ततश्च
इदानींतनानामपि तत्र प्रवृत्तिर्न सिध्येत्। सा मा प्रसाङ्क्षीदिति तदीयवेदाङ्गत्वप्रतिपादकं
प्रयोजनमन्वाख्येयमेव। यद्यन्वाख्यातेऽपि प्रयोजने न प्रवर्तेरंस्तर्हि लौकिकशब्दसंस्कार-
ज्ञानरहितास्ते याज्ञे कर्मणि प्रत्यवायभाजो भवेयुः। धर्माद्धीयेरन्। अत एव याज्ञिकाः पठन्ति-
आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति। अतस्तदीयवेदाङ्गत्व-
प्रतिपादकप्रयोजनान्वाख्यानार्थमथ शब्दानुशासनमित्येव कथ्यते नाथ व्याकरणमिति। भवति च
शब्दसंस्कारो व्याकरणशास्त्रस्य प्रयोजनम्। तस्माच्छब्दानुशिष्टिः संस्कारपदवेदनीया
शब्दानुशासनस्य प्रयोजनम्।
नन्वेवमप्यभिमतं प्रयोजनं न लभ्यते, तदुपायाभावात्। अथ प्रतिपदपाठ एवाभ्युपाय इति
मन्येथास्तर्हि स ह्यनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपादपाठो भवेत्। शब्दापशब्द-
भेदेनानन्त्याच्छब्दानाम्। एवं हि समाम्नायते - बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं
प्रतिपदपाठविहितानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम। बृहस्पतिश्च प्रवक्ता,
इन्द्रोऽध्येता, दिव्यं वर्षसहस्रमध्ययनकालः। न च पारावाप्तिरभूत्। किमुताद्य यश्चिरं जीवति स
वर्षशतं जीवति। अधीतिबोधाचरणप्रचारणैश्चतुर्भिर्ह्युपायैर्विद्योपयुक्ता भवति। तत्राध्ययनकालेनैव
सर्वमायुरुपयुक्तं स्यात्। तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठ इति प्रयोजनं न
सिध्येदिति चेत् - मैवम् शब्दप्रतिपत्तेः प्रतिपदपाठसाध्यत्वानङ्गीकारात्। प्रकृत्यादिविभाग-
कल्पनावत्सु लक्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्जन्यवत्सकृदेव प्रवृत्तौ बहूनां
शब्दानामनुशासनोपलम्भाच्च। तथा हि। 'कर्मण्यण्' (पा0सू0 3/2/1) इत्येकेन सामान्यरूपेण
लक्षणेन कर्मोंपपदाद्धातुमात्रादण्प्रत्यये कृते 'कुम्भकारः' 'काण्डलावः' इत्यादीनां बहूनां
शब्दानामनुशासनमुपलभ्यते। एवम् 'आतोऽनुपसर्गे कः' (पा.सू.3/2/18) इत्येकेन विशेषलक्षणेना-
कारान्ताद्धातोः कप्रत्यये कृते धान्यदो धनद इत्यादीनां वहूनां शब्दानामनुशासनमुपलभ्यते।
बृहस्पतिरिन्द्रायेति प्रतिपदपाठस्याशक्यत्वप्रतिपादनपरोऽर्थवादः।
नन्वन्येष्वप्यङ्गेषु सत्सु किमित्येतदेवाद्रियते? उच्यते - प्रधानं च षट्स्वङ्गेषु व्याकरणम्।
प्रधाने च कृतो यत्नः फलवान्भवति। तदुक्तम् -
आसन्नं ब्राह्मणस्तस्य तपसामुत्तमं तपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः॥ (वा0 प0
1/11) इति।
तस्माद् व्याकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात्प्रयोजनम्। पारंपर्येण तु वेदरक्षादीनि।
अत एवोक्तं भगवता भाष्यकारेण- रक्षोहागमलध्वसंदेहाः प्रयोजनम्। (पा0म0भा0) इति।
साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति। तथा च कथितं कात्यायनेन शास्त्रपूर्वके
प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देनेति। अन्यैरप्युक्तम् - एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः
स्वर्गे लोके कामधुग्भवतीति। तथा -
नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः। अथ पत्काषिणो यान्ति ये चिक्कमितभाषिणः॥
नन्वचेतनस्य शब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेत्- मैवं मन्येथाः। महता देवेन
साम्यश्रवणात्। तदाह श्रुतिः -
चत्वारि श्रृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो
देवो मर्त्याँ आविवेश॥ (म0 ना0 10/1) इति।
व्याचकार च भाष्यकारः - चत्वारि श्रृङ्गाणि चत्वारि पदजातानि नामख्यातोपसर्गनिपाताः।
त्रयो अस्य पादा लडादिविषयास्त्रयो भूतभविष्यद्वर्तमानकालाः। द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः
कार्यश्च। व्यङ्ग्यव्यञ्जकभेदात्। सप्त हस्तासो अस्य तिङा सह सप्त सुब्बविभक्तयः। त्रिधा बद्धः
त्रिषु स्थानेषु उरसि कण्ठे शिरसि च बद्धः। वृषभ इति प्रसिद्धवृषभत्वेन रूपणं क्रियते।
वर्षणात्। वर्षणं च ज्ञानपूर्वकानुष्ठानेन फलप्रदत्वम्। रोरवीति शब्दं करोति। रौतिः शब्दकर्मा। इह
शब्दशब्देन प्रपञ्चो विवक्षितः। महो देवो मर्त्यां आविवेश। महान्देवः शब्दो मर्त्या मरणधर्माणो
मनुष्यास्तानाविवेशेति। महता देवेन परेण ब्रह्मणा साम्यमुक्तं स्यात्। (महाभाष्यम्, पृ.3) इति।
जगन्निदानं स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मैवेति हरिणाभाणि ब्रह्मकाण्डे -
अनादिनिधनं ब्रह्म शब्दतत्त्वं तदक्षरम्। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ (वाक्यप0 1/1)
इति।
ननु नामाख्यातभेदेन पदद्वैविध्यप्रतीतेः कथं चातुर्विध्यमुक्तमिति चेत्- मैवम्। प्रकारान्तरस्य
प्रसिद्धत्वात्। तदुक्तं प्रकीर्णके -
द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा। अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्॥
इति॥
कर्मप्रवचनीयेन वै पञ्चमेन सह पदस्य पञ्चविधत्वमिति हेलाराजो व्याख्यातवान्।
कर्मप्रवचनीयास्तु क्रियाविशेषोपजनितसंबन्धावच्छेदहेतव इति संबन्धविशेषद्योतनद्वारेण
क्रियाविशेषद्योतनादुपसर्गेष्वेवन्तर्भवन्तीत्यभिसन्धाय पदचातुर्विध्यं भाष्यकारेणोक्तं युक्तमिति
विवेक्तव्यम्।
ननु भवता स्फोटात्मा नित्यः शब्द इति निजागद्यते। तन्न मृष्यामहे। तत्र प्रमाणाभावादिति
केचित्। अत्रोच्यते- प्रत्यक्षमेवात्र प्रमाणम्। गौरीत्येकं पदमिति नानावर्णातिरिक्तैकपदावगतेः
सर्वजनीनत्वात्। न ह्यसति बाधके पदानुभवः शक्यो मिथ्येति वक्तुम्। पदार्थप्रतीत्यन्यथा-
नुपपत्त्यापि स्फोटोऽभ्युपगन्तव्यः। न च वर्णेभ्य एव तत्प्रत्ययः प्रादुर्भवतीति परीक्षाक्षमम्।
विकल्पासहत्वात्। किं वर्णाः समस्ता व्यस्ता वार्थप्रत्ययं जनयन्ति? नाद्यः, वर्णानां क्षणिकानां
समूहासंभवात्। नान्त्यः, व्यस्तवर्णेभ्योऽर्थप्रत्ययासंभवात्। न च व्याससमासाभ्यामन्यः प्रकारः
समस्तीति। तस्माद्वर्णानां वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोटः। वर्णातिरिक्तो
वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति।
अत एव स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्गयः, स्फुटति स्फुटीभवत्यस्मादर्थ
इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहुः। तथा चोक्तं भगवता पतञ्जलिना
महाभाष्ये- 'अथ गौरित्यत्र कः शब्दः येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो
भवति स शब्दः' (महाभा0 पृ0 1) इति।
विवृतं च कैयटेन- 'वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाचकत्वमिच्छन्ति। वर्णानां वाचकत्वे
द्वितीयादिवर्णोंच्चारणानर्थक्यप्रसङ्गाद्'इत्यादिना 'तद्व्यतिरिक्तः स्फोटो नादाभिव्यङ्ग्यो वाचको
विस्तरेण वाक्यपदीये व्यवस्थापितः'इत्यन्तेन प्रबन्धेन। ननु स्फोटस्याप्यर्थप्रत्यायकत्वं न
घटते। विकल्पासहत्वात्। किमभिव्यक्तः स्फोटोऽर्थं प्रत्याययत्यनभिव्यक्तो वा? न चरमः,
सर्वादार्थप्रत्ययलक्षणकार्योंत्पादप्रसङ्गात्। स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा
सत्त्वेन कार्यस्य विलम्बायोगात्। अथैतद्दोषपरिजिहीर्षयाऽभिव्यक्तः स्फोटोऽर्थं प्रत्याययतीति
कक्षीक्रियते, तथाप्यभिव्यञ्जयन्तो वर्णाः किं प्रत्येकमभिव्यञ्जयन्ति संभूय वा? पक्षद्वयेऽपि
वर्णानां वाचकत्वपक्षे भवता ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जकत्वपक्षे व्यावर्तनीयाः।
तदुक्तं भट्टाचार्येर्मीमांसाश्लोकवार्तिके -
यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः। सोऽपि पर्यंनुयोगेन नैकेनापि विमुच्यते॥ इति।
विभक्त्यन्तेष्वेव वर्णेषु 'सुप्तिङ्न्तं पदम्' (पा0सू01/4/14) इति पाणिनिना, 'ते विभक्त्यन्ताः
पदम्' (न्या0सू02/2/60) इति गौतमेन च पदसंज्ञाया विहितत्वात्संके तग्रहेणानुग्रहवशाद्वर्णेष्वेव
पदबुद्धिर्भविष्यति। तर्हि सर इत्येतस्मिन्पदे यावन्तो वर्णास्तावन्त एव रस इत्यत्रापि। एवं
'वनं नवं' 'नदी दीना' 'रामो मारो' 'राजा जारा' इत्यादिष्वर्थभेदप्रतीतिर्न स्यादिति चेन्न। क्रमभेदेन
भेदसंभवात्। तदुक्तं तौतातितैः -
यावन्तो यादृशा ये च यदर्थप्रतिपत्तये। वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः॥ इति।
तस्माद्यश्चोभयोः समो दोषो न तेनैकश्चोद्यो भवतीति न्यायाद्वर्णानामेव वाचकत्वोपपत्तौ
नातिरिक्तस्फोटकल्पनावकल्पत इति चेत्- तदेतत्काशकुशावलम्बनकल्पनम्, विकल्पानुपपत्तेः।
किं वर्णमात्रं पदप्रत्ययावलम्बनं वर्णसमूहो वा? नाद्यः। परस्परविलक्षणवर्णमालायामभिन्नं निमित्तं
पुष्पेषु विना सूत्रं मालाप्रत्ययवदित्येकं पदमिति प्रतिपत्तेरनुपपत्तेः। नापि द्वितीयः।
उच्चरितप्रध्वस्तानां वर्णानां समूहभावासंभवात्। तत्र हि समूहव्यपदेशो ये पदार्था एकस्मिन्प्रदेशे
सहावस्थिततया बहवोऽनुभूयन्ते, यथैकस्मिन्प्रदेशे सहावस्थिततयानुभूयमानेषु
धवखदिरपलाशादिषु समूहव्यपदेशो यथा वा गजनरतुरगादिषु। न च ते वर्णास्तथानुभूयन्ते,
उत्पन्नप्रध्वस्तत्वात्। अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तिः समूहासंभवात्। नापि वर्णेषु
काल्पनिकः समूहः कल्पनीयः। परस्पराश्रयप्रसङ्गा। एकार्थप्रत्यायकत्वसिद्धौ तदुपाधिना वर्णेषु
पदत्वप्रतीतिस्तत्सिद्धावेकार्थप्रत्यायकत्वसिद्धिरिति। तस्माद्वर्णानां वाचकत्वासंभवात्स्फोटो-
ऽभ्युपगन्तव्यः।
ननु स्फोटव्यञ्जकतापक्षेऽपि प्रागुक्तविकल्पप्रसरेण घट्टकुटीप्रभातायितमिति चेत्-
तदेतन्मनोराज्यविजृम्भणम्। वैषम्यसभवात्। तथा हि अभिव्यञ्जकोऽपि प्रथमो ध्वनिः
स्फोटमस्फुटमभिव्यनक्ति। उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुटं स्फुटतरं स्फुटतमम्। यथा
स्वाध्यायः सकृत्पठयमानो नावधार्यते। अभ्यासेन तु स्फुटावसायः। यथा वा रजतत्वं
प्रथमप्रतीतौ स्फुटं न चकास्ति। चरमे चेतसि यथावदभिव्यज्यते।
नादैराहितबीजायामन्त्येन ध्वनिना सह। आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते॥ (वाक्यप0
1/84)
इति प्रामाणिकोक्तेः। तस्मादस्माच्छब्दादर्थं प्रतिपद्यामह इति व्यवहारवशाद्वर्णानामर्थ-
वाचकत्वानुपपत्तेः। प्रथमे काण्डे तत्रभवद्भिर्भतृहरिभिरभिहितत्वान्निरवयवमर्थप्रत्यायकं शब्दतत्त्वं
स्फोटाख्यमभ्युपगन्तव्यमिति। एतत्सर्वं परमार्थसंविल्लक्षणसत्ताजातिरेव सर्वेषां शब्दानामर्थ
इति प्रतिपादनपरे जातिसमुद्देशे प्रतिपादितम्।
यदि सत्तैव सर्वेषां शब्दानामर्थस्तर्हि सर्वेषां शब्दानां पर्यायता स्यात्। तथा च क्वचिदपि
युगपत्त्रिचतुरपदप्रयोगायोग इति महच्चातुर्यमायुष्मतः। तदुक्तम् -
पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते। पर्यायेणैव ते यस्माद्वदन्त्यर्थं न संहताः॥ इति।
तस्मादयं पक्षो न क्षोदक्षम इति चेत् - तदेतद् गगनरोमन्थकल्पम्। नीललोहितपीताद्युपरञ्जक-
द्रव्यभेदेन स्फटिकमणेरिव संबन्धिभेदात्सत्तायास्तदात्मना भेदेन प्रतिपत्तिसिद्धौ गोसत्तादिरूप-
गोत्वादिभेदनिबन्धनव्यवहारवैलक्षण्योपपत्तेः। तथा चाप्तवाक्यम्- स्फटिकं विमलं द्रव्यं यथा युक्तं
पृथकपृथक्। नीललोहितपीताद्यैस्तद्वर्णमुपलभ्यते॥ इति।
तथा हरिणाप्युक्तम् -
संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः। तां
प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते। सा नित्या सा महानात्मा तामाहुस्त्वतलादयः॥
आश्रयभूतैः संबन्धिभिर्भिद्यमाना कल्पितभेदा गवाश्वादिषु सत्तैव महासामान्यमेव जातिः।
गोत्वादिकमपरं सामान्यं परमार्थतस्ततो भिन्नं न भवति। गोसत्तैव गोत्वं नापरमन्वयि
प्रतिभासते। एवमश्वसत्ताऽश्वत्वमित्यादि वाच्यम्। एवं च तस्यामेव गवादिभेदभिन्नायां सत्तायां
जातौ सर्वे गोशब्दादयो वाचकत्वेन व्यवस्थिताः।
प्रातिपदिकार्थश्च सत्तेति प्रसिद्धम्। भाववचनो धातुरिति पक्षे भावः सत्तैवेति धात्वर्थः सत्ता
भवत्येव। क्रियावचनो धातुरिति पक्षेऽपि 'जातिमन्ये क्रियामाहुरनेकव्यिक्तवर्त्तिनीम्। ' इति
क्रियासमुद्देशे क्रियाया जातिरूपत्वप्रतिपादनाद्धात्वर्थः सत्ता भवत्येव। 'तस्य भावस्त्वतलौ' (पा0
सू05/1/119) इति भावार्थे त्वतलादीनां विधानात्सत्तावाचित्वं युक्तम्। सा च
सत्तोदयव्ययवैधुर्यान्नित्या। सर्वस्य प्रपञ्चस्य तद्विवर्ततया देशतः कालतो वस्तुतश्च
परिच्छेदराहित्यात्सा सत्ता महानात्मेति व्यपदिश्यत इति कारिकाद्वयार्थः। द्रव्यपदार्थवादिनोऽपि
नये संविल्लक्षणं तत्त्वमेव सर्वशब्दार्थ इति सम्बन्धसमुद्देशे समर्थितम् -
सत्यं वस्तु तदाकारैरसत्यैरवधार्यते। असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते॥ अध्रुवेण
निमित्तेन देवदत्तगृहं यथा। गृहीतं गृहशब्देन शुद्धमेवाभिधीयते॥ इति।
भाष्यकारेणापि सिद्धे शब्दार्थसंबन्धे इत्येतद्वार्तिकव्याख्यानावसरे द्रव्यं हि नित्यमित्यनेन
ग्रन्थेनासत्योपाध्यवच्छिनं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यं सर्वशब्दार्थ इति निरूपितम्।
जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवादयः शब्दा भिन्नद्रव्यसमवेतजातिमभिदधति।
तस्यामवगाह्यमानायां तत्संबन्धाद्द्रव्यमवगम्यते। शुक्लादयः शब्दाः गुणसमवेतां जातिमाचक्षते।
गुणे तत्संबन्धाप्रत्ययः। द्रव्ये सम्बन्धिसम्बन्धात्। संज्ञाशब्दानामुत्पत्तिप्रभृत्या
विनाशाच्छैशवकौमारयौवनाद्यवस्थादिभेदेऽपि स एवायमित्यभिन्नप्रत्ययबलात्सिद्धा देवदत्त-
त्वादिजातिरभ्युपगन्तव्या। क्रियास्वपि जातिरालक्ष्यते। सैव धातुवाच्या। पचतीत्यादावनु-
वृत्तप्रत्ययस्य प्रादुर्भावात्। द्रव्यपदार्थवादिव्याडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते।
जातिस्तूप- लक्षणतयेति नानन्त्यादिदोषावकाशः। पाणिन्याचार्यस्योभयं संमतम्। यतो
जातिपदार्थमभ्युपगम्य 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ' (पा0 सू0 1/2/58)
इत्यादिव्यवहारः। द्रव्यपदार्थमङ्गीकृत्य 'सरूपाणामेकशेष एकविभक्तौ' (पा0सू0 1/2/64)
इत्यादिः। व्याकरणस्य सर्वपार्षदत्वान्मतद्वयाभ्युपगमे न कश्चिद्विरोधः। तस्मादद्वयं सत्यं परं
ब्रह्मतत्त्वं सर्वशब्दार्थ इति स्थितम्। तदुक्तम्
तस्माच्छक्तिविभागेन सत्यः सर्वः सदात्मकः। एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते॥ इति।
सत्यस्वरूपमपि हरिणोक्तं सम्बन्धसमुद्देशे-
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम्। तस्यैवार्थस्य सत्यत्वमाहुस्त्रय्यन्तवेदिनः॥ इति।
द्रव्यसमुद्देशेऽपि
विकारापगमे सत्यं सुवर्णं कुण्डले यथा। विकारापगमो यत्र तमाहुः प्रकृतिं पराम्॥ इति।
अभ्युपगताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शितः - वाच्या सा सर्वशब्दानां शब्दाच्च
न पृथक्ततः। अपृथक्त्वेऽपि संबन्धस्तयोर्जीवात्मनोरिव॥ इति।
तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्याविद्यामात्रकल्पितत्वेन प्रतिनियताकारोपधीय-
मानरूपभेदं ब्रह्मतत्त्वं सर्वशब्दविषयः। अभेदे च पारमार्थिके संवृत्तिवशाद् व्यवहारदशायां
स्वप्नावस्थावदुच्चावचः प्रपञ्चो विवर्तत इति कारिकार्थः।
तदाहर्वेदान्तवादुनिपुणाः -
यथा स्पप्नप्रपञ्चोऽयं मयि मायाविजृम्भितः। एवं जाग्रत्प्रपञ्चोऽपि मयि मायाविजृम्भितः॥
इति।
तदित्थं कूटस्थे परस्मिन्ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्नेऽवगतेऽनाद्याविद्यानिवृत्तौ
तादृग्ब्रह्मात्मनावस्थानलक्षणं निःश्रेयसं सेत्स्यति।
'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' (महाभारत, शा0पा0अ0 270) इत्यभियुक्तोक्तेः। तथा
च शब्दानुशासनशास्त्रस्य निःश्रेयससाधनत्वं सिद्धम्।
तदुक्तम् -
तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्। पवित्रं सर्वविद्यानामधिविद्यं प्रचक्षते॥ वाक्यपदीयम्
1/14) इति।
तथा -
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्। इयं सा मोक्षमाणानामजिह्ना राजपद्धतिः॥ (वाक्य0
1/16) इति।
तस्माद् व्याकरणशास्त्रं परमुरुषार्थसाधनतयाऽध्येतव्यमिति सिद्धम्।

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पणिनिदर्शनम् ॥