सर्वदर्शनसंग्रहः/अक्षपाददर्शनम्

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सर्वदर्शनसंग्रहः

अथाक्षपाददर्शनम् ॥11॥

तत्त्वज्ञानाद् दखात्यन्तोच्छे दुलक्षणं निःश्रेयस संभवतीति समानतन्त्रेपि प्रतिपादितम्।
तदाह सूत्रकारः- प्रमाणप्रमेयेत्यादितत्त्वज्ञानान्निःश्रेयसाधिगम इति। इदं न्यायशास्त्रस्यादिमं
सूत्रम्। न्यायशास्त्रं च पञ्चाध्यायात्मकम्। तत्र प्रत्यध्यायमाह्निकद्वयम्। तत्र प्रथमाध्यायस्य
प्रथमाह्निके भगवता गौतमेन प्रमाणादिपदार्थनवकलक्षणनिरुपणं विधाय द्वितीये वादादिसप्तपदार्थ-
लक्षणनिरूपणं कृतम्। द्वितीयस्य प्रथमे संशयपरीक्षणं प्रमाणचतुष्टयाप्रामाण्यशङ्कानिराकरणं च।
द्वितीयेर्थापत्त्यादेरन्तर्भावनिरूपणम्। तृतीयस्य प्रथमे आत्मशरीरेन्द्रियार्थपरीक्षणम्। द्वितीये
बुद्धिमनःपरीक्षणम्। चतुर्थस्य प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणम्। द्वितीये
दोषनिमित्तकत्वनिरूपणमवयव्यादिनिरुपणं च। पञ्चमस्य प्रथमे जातिभेदनिरूपणम्। द्वितीये
निग्रहस्थानभेदनिरूपणम्।
मानाधीना मेयसिद्धिरिति न्यायेन प्रमाणस्य प्रथममुद्देशे तदनुसारेण लक्षणस्य कथनीयतया
प्रथमोद्दिष्टस्य प्रमाणस्य प्रथमं लक्षणं कथ्यते- साधनाश्रयाव्यातिरिक्तत्वे सति प्रमाव्याप्तं
प्रमाणम्। एवं च प्रतितन्त्रसिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतं भवति। यदचकथत्सूत्रकारः-
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ( गौ0सू0 2/1/67) इति। तथा च
न्यायनयपारावारपारदृश्वा विश्वविख्यातकीर्तिरुदयनाचार्योंपि न्यायकु सुमाञ्जलौ चतुर्थे स्तबके -
मितिः सम्यक्परिच्छित्तिस्तद्वत्ता च प्रमातृता। तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते॥
(न्या.कु सु. 4/5) इति।
साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः।
लेशादृष्टिनिमित्तदुष्टिविगम - प्रभ्रष्टशङ्कातुषः। शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मेप्रमाणं शिवः।
(न्या0 कु सु. 4/6) इति॥
तच्चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्।
प्रमायां यद्धि प्रतिभासते तत्प्रेमेयम्। तच्च द्वादशप्रकारम्- आत्मशरीरेन्द्रियार्थबुद्धिमनः-
प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदात्।
अनवधारणात्मकं ज्ञानं संशयः। स त्रिविधः- साधारणधर्मासाधारणधर्मविप्रतिपत्तिलक्षणभेदात्।
यमधिकृत्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम्। तद् द्विविधम् दृष्टादृष्टभेदात्। व्याप्तिसंवेदन-
भूमिर्दृष्टान्तः। स द्विविधः साधर्म्यवैधर्म्यभेदात्।
प्रमाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः। स चतुर्विधः-सर्वतन्त्रप्रतितन्त्राधिकरणभ्युपगमभेदात्।
परार्थानुमानवाक्यैकदेशोऽवयवः। स पञ्चविधः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात्।
व्याप्यारोपेण व्यापकारोपस्तर्कः। स चैकादशविधः। व्याघातात्माश्रयेतरेतराश्रयचक्र-
काश्रयानवस्थाप्रतिबन्धिकल्पनालाघवकल्पना- गौरवोत्सर्गापवादवैजात्यभेदात्।
यथार्थानुभवपर्याया प्रमितिर्निर्णयः। स चतुर्विधः। साक्षात्कृत्यनुमित्युपमितिशाब्दभेदात्।
तत्त्वनिर्णयफलः कथाविशेषो वादः। उभयसाधनवती विजिगीषुकथा जल्पः। स्वपक्षस्थापनहीनः
कथाविशेषो वितण्डा। कथा नाम वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः। असाधको
हेतुत्वेनाभिमतो हेत्वाभासः। स पञ्चविधः-सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीत-
कालभेदात्।
शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुश्छलम्। तत्त्रिविधम्। अभिधानतात्पर्योंपचारवृत्तिव्यत्ययभेदात्।
स्वव्याघातकमुत्तरं जातिः। सा चतुर्विंशतिधा। साधर्म्यवैधर्म्योंत्कर्षापकर्षवर्ण्यावर्ण्यविकल्प-
साध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिष्टा-
न्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदात्।
पराजयनिमित्तं निग्रहस्थानम्। तद् द्वाविंशतिप्रकारम्। प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोध-
प्रतिज्ञासंन्यासहेत्वन्तरार्थान्तर
निरर्थकाविज्ञातार्थापार्थकाप्राप्तकालन्यूनाधिकपुनरुक्ताननुभाषणाज्ञानाप्रतिभाविक्षेप
मतानुज्ञापर्यनुयोज्योपेक्षण निरनुयोज्यानु योगापसिद्धान्तहेत्वाभासभेदात्।
अत्र सर्वान्तर्गणिकस्तु विशेषस्तत्र शास्त्रे विस्पष्टोपि विस्तरभिया न प्रस्तूयते।
ननु प्रमाणादिपदार्थषोडशके प्रतिपाद्यमाने कथमिदं न्यायशास्त्रमिति व्यपदिश्यते सत्यम्।
तथाप्यसाधारण्येन व्यपदेशा भवन्तीति न्यायेन न्यायस्य परार्थानुमानापरपर्यायस्य
सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वेन तथा व्यपदेशो युज्यते।
तथाभाणि सर्वज्ञेन सोऽयं परमो न्यायो विप्रतिपन्नपुरुषं प्रति प्रतिपादकत्वात्। तथा
प्रवृत्तिहेतुत्वाच्च (गौ0सू0वार्तिक 1/1/1) इति। पक्षिलस्वामिना च- 'सेयमान्वीक्षिकी विद्या
प्रमाणादिभिः पदार्थेः प्रविभज्यमाना-
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षिता॥ (न्या0सू0 भाष्य 1/1/1)इति।
ननु तत्त्वज्ञानान्निःश्रेयसं भवतीत्युक्तम्। तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं संपद्यते
नेत्युच्यते। किन्तु तत्त्वज्ञानाद् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा-
पायादपवर्गः इति। तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्मबुद्धिः। तदनुकू लेषु रागः।
तत्प्रतिकू लेषु द्वेषः। वस्तुतस्त्वात्मनः प्रतिकू लमनुकू लं वा न किं चिद्वस्त्वस्ति।
परस्परानुबन्धित्वाच्च रागादीनां मूढो रज्यति रक्तो मुह्यति मूढः कु प्यति कु पितो मुह्यतीति।
ततस्तैर्दोंषैः प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीनि आचरति। वाचा अनृतादीनि।
मनसा परद्रोहादीनि। सेयं पापरूपा प्रवृत्तिरधर्मः। शरीरेण प्रशस्तानि दानपरपरित्राणादीनि। वाचा
हितसत्यादीनि। मनसा अजिघांसादीनि। सेयं पुण्यरूपा प्रवृत्तिर्धर्मः। सेयमुभयी प्रवृत्तिः। ततः
स्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादुर्भावः। तस्मिन्सति प्रतिकू लवेदनीयतया
बाधनात्मकं दुःखं भवति। न ह्यप्रवृत्तस्य दुःखं प्रत्यापद्यत इति कश्चित्प्रपद्यते। त इमे
मिथ्याज्ञानादयो दुःखान्ता अविच्छे देन प्रवर्तमानाः संसारशब्दार्थों घटीचक्रवन्निरवधिरनुवर्तते।
यदा कश्चित्पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्योंपदेशेन सर्वमिदं दुःखायतनं दुःखानुषक्तं
च पश्यति, तदा तत्सर्वं हेयत्वेन बुध्यते। ततस्तन्निर्वर्तकमविद्यादि निवर्तयितुमिच्छति।
तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति। कस्यचिच्चतसृभिर्विधाभिर्विभक्तं प्रमेयं भावयतः
सम्यग्दर्शनपदवेदनीयतयातत्त्वज्ञानं जायते। तत्त्वज्ञानान्मिथ्याज्ञानमपैति। मिथ्याज्ञानापाये दोषा
अपयान्ति। दोषापाये प्रवृत्तिरपैति। प्रवृत्त्यपाये जन्मापैति। जन्मापाये दुःखमत्यन्तं निवर्तते।
सात्यन्तिकी दुःखनिवृत्तिरपवर्गः। निवृत्तोरात्यन्तिकत्वं नाम निवर्त्यसजातीयस्य पुनस्तत्रानुत्पाद
इति। तथा च पारमर्षं सूत्रम्- दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये
तदनन्तरापायादपवर्गः (गौ0 सू0 1/1/2) इति।
ननु दुःखात्यन्तोच्छेदोपवर्ग इत्येतदद्यापि कफोणिगुडायितं वर्तते। तत्कथं सिद्धवत्कृत्य
व्यवह्रियते इति चेत्- मैवम्। सर्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिकी
दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्वतन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात्। तथा हि- आत्मोच्छेदो
मोक्ष इति माध्यमिकमते दुःखोच्छे दोस्तीत्येतावत्तावदविवादम्। अथ मन्येथाः -
शरीरादिवदात्मापि दुःखहेतुत्वादुच्छे द्य इति तन्न संगच्छते। विकल्पानुपपत्तेः। किमात्मा
ज्ञानसंतानो विवक्षितस्तदतिरिक्तो वा ? प्रथमे न विप्रतिपत्तिः। कः खल्वनुकू लमाचरति
प्रतिकू लमाचरेत् द्वितीये तस्य नित्यत्वे निवृत्तिरशक्यविधानैव। अनित्यत्वे प्रवृत्त्यनुपपत्तिः।
व्यवहारानुपपत्तिश्चाधिकं दूषणम् । न खलु कश्चित्प्रेक्षावानात्मनस्तु कामाय सर्वं प्रियं भवतीति
सर्वतः प्रियतमस्यात्मनः समुच्छे दाय प्रयतते। सर्वों हि प्राणी सति धर्मिणि मुक्त इति
व्यवहरति ननु। धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञानवादिवादे सामग्रयभावः
सामानाधिकरण्यानुपपत्तिश्च। भावनाचतुष्टयं हि तस्य कारणमभीष्टम्। तच्च क्षणभङ्गपक्षे
स्थिरैकाधारासंभवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फु टमभिज्ञानमभिजनयितुं प्रभवति।
सोपप्लवस्य ज्ञानसंतानस्य बद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति
सामानाधिकरण्यं न संगच्छते। आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोपि मार्गों न निसर्गतो
निरर्गलः। अङ्ग, भावन्पृष्टो व्याचष्टां किमावरणम्। धर्माधर्मभ्रान्तय इति चेत्- इष्टमेव। अथ
देहमेवावरणम्। तथा च तन्निवृत्तौ पञ्जरान्मुक्तस्य शुकस्येवात्मनः सततोर्ध्वगमनं मुक्तिरिति
चेत्- तदा वक्तव्यम्। किमयमात्मा मूर्तोंऽमूर्तों ? प्रथमे निरवयवः सावयवो वा ? निरवयवत्वे
निरवयवो मूर्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्मवदात्म- धर्माणामतीन्द्रियत्वं
प्रसजेत्। सावयवत्वे यत्सावयवं तदनित्यमिति प्रतिबन्धबलेनानित्यत्वापत्तौ
कृतप्रणाशाकृताभ्यागमौ निष्प्रतिबन्धौ प्रसरेताम्। अमूर्तत्वे गमनमनुपपन्नमेव।
चलनात्मिकायाः क्रियाया मूर्तत्वप्रतिबन्धात्। पारतन्त्र्यं बन्धः, स्वातन्त्र्यं मोक्षः इति
चार्वाकपक्षेपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेत् - अविवादः। ऐश्वर्यं चेत्- सातिशयतया सदृक्षतया च
प्रेक्षावतां नाभिमतम्। प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं
मुक्तिरिति सांख्याख्यातेपि पक्षे दुःखोच्छेदोस्त्येव। विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं
वेत्येतावदवशिष्यते। तत्र पुरुषाश्रयमिति न श्लिष्यते। पुरुषस्य कौटस्थ्यावस्थाननिरोधापातात्।
नापि प्रकृत्याश्रयः। अचेतनत्वात्तस्याः। किं च प्रकृतिः प्रवृत्तिस्वभावा निवृत्तिस्वभावा वा ?
आद्येऽनिर्मोंक्षः। स्वभावस्यानपायात्। द्वितीये संप्रति संसारोस्तमियात्। नित्यनिरतिशय-
सुखाभिव्यक्तिर्मुक्तिरिति भट्टसर्वज्ञाद्यभिमतेपि दुःखनिवृत्तिरभिमतैव। परं तु नित्यसुखं न
प्रमाणपद्धतिमध्यास्ते। श्रुतिस्तत्र प्रमाणमिति चेत् न। योग्यानुपलब्धिबाधिते तदनवकाशात्।
अवकाशे वा ग्रावप्लवेपि तथाभाव प्रसङ्गात्।
ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं
विहायारोचकग्रस्तस्य सौवीररुचि- मनुभावयतीति चेत्- तदेतन्नाटकपक्षपतितं त्वद्वच
इत्युपेक्ष्यते। सुखस्य सातिशयतया सदृक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थनपरिक्लिष्टतया
च दुःखाविनाभूतत्वेन विषानुषक्तमधुवद्दुःखपक्षनिक्षेपात्। नन्वेकमनुसंधित्सतोपरं प्रच्यवत इति
न्यायेन दुःखवत्सुखमप्युच्छिद्यत इत्यकाम्योयं पक्ष इति चेत्- मैवं मंस्थाः। सुखसंपादने
दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्धया प्रवर्तमानेन साम्यापातात्। तथा
हि- न्यायोपार्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दिनानि। अन्यायोपार्जितेषु तु
यत्भविष्यति तन्मनसापि चिन्तयितुं न शक्यमिति। एतत्स्वानुभवमप्रच्छादयन्तः सन्तो
विदांकु र्वन्तु विदां वरा भवन्तः। तस्मात्परिशेषात्परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणात्म-
तत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम्।
नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा। न तावदत्र प्रत्यक्षं क्रमते। रूपादिरहित-
त्वेनातीन्द्रियत्वात्। नाप्यनुमानम्। तद्व्याप्तलिङ्गाभावात्। नागमः। विकल्पासहत्वात्। किं
नित्योवगमयत्यनित्यो वा ? आद्येपसिद्धान्तापातः। द्वितीये परस्पराश्रयापातः। उपमानादिक-
मशक्यशङ्कम्। नियतविषयत्वात्। तस्मादीश्वरः शशविषाणायत इति चेत् - तदेतन्न
चतुरचेतसां चेतसि चमत्कारमाविष्करोति। विवादास्पदं नागसागरादिकं सकर्तृकं
कार्यत्वात्कु म्भवत्। न चायमसिद्धो हेतुः। सावयवत्वेन तस्य सुसाधनत्वात्। ननु किमिदं
सावयवत्वम् अवयवसंयोगित्वमवयवसमवायित्वं वा नाद्यः। गगनादौ व्यिभिचारात्। न द्वितीयः
तन्तुत्वादावनैकान्त्यात्। तस्मादनुपपन्नमिति चेत्- मैवं वादीः। समवेतद्रव्यत्वं सावयवत्वमिति
निरुक्ते र्वक्तुं शक्यत्वात्। अवान्तरमहत्वेन वा कार्यत्वानुमानस्य सुकरत्वात्। नापि विरुद्धो हेतुः।
साध्यविपर्ययव्याप्तेरभावात्। नाप्यनैकान्तिकः। पक्षादन्यत्र वृत्तेरदर्शनात्। नापि
कालात्ययापदिष्टः। बाधकानुपलम्भात्। नापि सत्प्रतिपक्षः। प्रतिभटादर्शनात्। ननु
नागदिकमकर्तुकं शरीराजन्यत्वाद्गगनवदिति चेत्- नैतत्परीक्षाक्षममीक्ष्यते। न हि
कठोरकण्ठीरवस्य कु रङ्गशावः प्रतिभटो भवति। अजन्यत्वस्यैव समर्थतया
शरीरविशेषणवैयर्थ्यात्। तर्ह्यजन्यत्वमेव साधनमिति चेत् - न। असिद्धेः। नापि
सोपाधिकत्वशङ्काकलङ्काङ्कु रः संभवी। अनुकू लतर्क संभवात्। यद्ययमकर्तृकः स्यात्कार्यमपि न
स्यात्। इह जगति नास्त्येव तत्कार्यं नाम यत्कारकचक्रमवधीर्यात्मानमासादयेदित्येतदविवादम्।
तच्च सर्वं कर्तृविशेषोपहितमर्यादम्। कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति
सकलकारकप्रयोक्तृत्वलक्षणं ज्ञानचिकीर्षाप्रयत्नाधारत्वम्। एवं च कर्तृव्यावृत्तेस्तदुपहितसमस्तकार -
कव्यावृत्तावकारणककार्योंत्पादप्रसङ्ग इति स्थूलः प्रमादः। तथा निरटङ्कि शङ्करकिङ्करेण -
अनुकू लेन तर्के ण सनाथे सति साधने। साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः॥ इति।
यदीश्वरः कर्ता स्यात्तर्हि शरीरी स्यादित्यादिप्रतिकू लतर्क जातं जागर्तीति चेत्-
ईश्वरसिद्धयसिद्धिम्यां व्याघातः। तददितमुदुयनेन -
आगमादेः प्रमाणत्वे बाधनादनिषेधनम्। आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता॥ (न्या0
कु 0 3/5) इति।
न च विशेषविरोधः शक्यशङ्कः। ज्ञातत्वाज्ञातत्वविकल्पपराहतत्वात्।
स्यादेतत्। परमेश्वरस्य जगन्निर्माणे प्रवृत्तिः किमर्था स्वार्था परार्था वा? आद्येपीष्टप्राप्त्यर्था-
निष्टपरिहारार्था वा नाद्यः। आवाप्तसकलकामस्य तदनुपपत्तेः। अत एव न द्वितीयः। द्वितीये
प्रवृत्त्यनुपपत्तिः। कः खलु परार्थं प्रवर्तमानं प्रेक्षावानित्याचक्षीत ? अथ करुणाया
प्रवृत्त्युपपत्तिरित्याचक्षीत कश्चित् तं प्रत्याचक्षीत। तर्हि सर्वान्प्राणिनः सुखिन एव सृजेदीश्वरः। न
दुःखशबलान्। करुणाविरोधात्। स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा हि कारुण्यम्। तस्मादीश्वरस्य
जगत्सर्जनं न युज्यते। तदुक्तं भट्टाचार्यैः -
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते। जगच्च सृजतस्तस्य किं नाम न कृतं भवेत्॥ इति।
अत्रोच्यते। नास्तिकशिरोमणे तावदीष्याकषायिते चक्षुषी निमील्य परिभावयतु भवान्। करुणया
प्रवृत्तिरस्त्येव। न च निसर्गतः सुखमयसर्गप्रसङ्गः। सृज्यप्राणिकृतसुकृतदुस्कृत -
परिपाकविशेषाद्वैषम्योपपत्तेः। न च स्वातन्त्र्यभङ्गः शङ्कनीयः। स्वाङ्गं स्वव्यवधायकं न
भवतीति न्यायेन प्रत्युत तन्निर्वाहात्। 'एक एव रुद्रो न द्वितीयोवतस्थे (तै.सं.1/8/6)
इत्यादिरागमस्तत्र प्रमाणम्। यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाधत्स्वेति चेत्-
तस्यानुत्थानात्। किमुत्पत्तौ परस्पराश्रयः शङ्क्यते ज्ञप्तौ वा। नाद्यः। आगमस्ये-
श्वराधीनोत्पत्तिकत्वेपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः। नापि ज्ञाप्तौ। परमेश्वरस्यागमाधीन-
ज्ञप्तिकत्वेपि तस्यान्यतोवगमात्। नापि तदनित्यत्वज्ञप्तौ। आगमानित्यत्वस्य तीव्रादिधर्मोंपेत-
त्वादिना सुगमत्त्वात्। तस्मान्निवर्तकधर्मानुष्ठानवशादीश्वरप्रसादसिद्धावभिमतेष्टसिद्धिरिति
सर्वमवदातम्।

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहेक्षपाददर्शनम् ॥