सरस्वतीकण्ठाभरणम्/परिच्छेदः २

विकिस्रोतः तः
← परिच्छेदः १ सरस्वतीकण्ठाभरणम्
परिच्छेदः २
भोजराजः
परिच्छेदः ३ →

शब्दार्थोभयसंज्ञाभिरलङ्कारान्कवीश्वराः ।
बाह्यानाभ्यन्तरान्बाह्याभ्यन्तरांश्चानुशासति ।। २.१ ।।

ये व्युत्पत्त्यादिना शब्दमलङ्कर्तुमिह क्षमाः ।
शब्दालङ्कारसंज्ञास्ते ज्ञेया जात्यादयो बुधैः ।। २.२ ।।

जातिर्गती रीतिवृत्तिच्छायामुद्रोक्तियुक्तयः ।
भणितिर्गुम्फना शय्या पठितिर्यमकानि च ।। २.३ ।।

श्लेषानुप्रिसचित्राणि वाकोवाक्यं प्रहेलिका ।
गूढप्रश्रोत्तराध्येयश्रव्यप्रेक्ष्याबिनीतयः ।। २.४ ।।

चतुर्विंशतिरित्युक्ताः शब्दालङ्कारजातयः ।
अथासां लक्षणं सम्यक्सोदाहरणमुच्यते ।। २.५ ।।

तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते ।
सा त्वौचित्यादिभिर्वाचामलङ्काराय जायते ।। २.६ ।।

संस्कृतेनैव केऽप्याहुः प्राकृतेनैव केचन ।
साधारण्यादिभिः केचित्केचन म्लेच्छभाषया ।। २.७ ।।

न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत् ।
संकीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् ।। २.८ ।।

देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः ।
पैशाचाद्यं पिशाचाद्या मागधं हीनजातयः ।। २.९ ।।

संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव वापरः ।
शक्यो रचयितुं कश्चिदपभ्रंशेन जायते ।। २.१० ।।

पैशाच्या शौरसेन्यान्यो मागध्यान्यो निबध्यते ।
द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन ।। २.११ ।।

नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
कथां गोष्ठीषु कथयँल्लोके बहुमतो भवेत् ।। २.१२ ।।

शृण्वन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
अपभ्रंशेन तुष्यन्ति स्वेन नान्येन गुर्जराः ।। २.१३ ।।

ब्रह्मन्विज्ञापयामि त्वां स्वाधिकाराजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती ।। २.११ ।। (२.१४)
केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः ।
काले श्रीसाहसाङ्कस्य के न संस्कृतवादिनः ।। २.१५ ।।

गिरः श्रव्या दिव्याः प्रकृतमधुराः प्राकृतधुराः
सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम् ।
विदग्धानामिष्टे मगधमथुरावासिभणिति-
र्निबद्धा यस्तेषां स इह कविराजो विजयते ।। २.१६ ।।

शुद्धा साधारणी मिश्रा सङ्कीर्णा नान्यगामिनी ।
अपभ्रष्टेति साचार्यैर्जातिः षोढा निगद्यते ।। २.१७ ।।

पद्यं गद्यं च मिश्रं च काव्यं यत्सा गतिः स्मृता ।
अर्थौचित्यादिभिः सापि वागलङ्कार इष्यते ।। २.१८ ।।

कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते ।
कवितुं कश्चन द्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः ।। २.१९ ।।

यादृग्गद्यविधौ बाणः पद्यबन्धेऽपि तादृशः ।
गत्यां गत्यामियं देवी विचित्रा हि सरस्वती ।। २.२० ।।

यथामति यथाशक्ति यथौचित्यं यथारुचि ।
कवेः पात्रस्य चैतस्याः प्रयोग उपपद्यते ।। २.२१ ।।

द्रुता विलम्बिता मध्या साथ द्रुतविलम्बिता ।
द्रुतमध्या च विज्ञेया तथा मध्यविलम्बिता ।। २.२२ ।।

सा लघूनां गुरूणां च बाहुल्याल्पत्वमिश्रणैः ।
पद्ये गद्ये च मिश्रे च षट्‌प्रकारोपजायते ।। २.२३ ।।

तत्र वृत्तं च जातिं च पद्यमाहुरथो पृथक् ।
संम चार्धसमं चैतद्विषमं च प्रचक्षते ।। २.२४ ।।

गद्यमुत्कलिकाप्रायं पद्यगन्धीति च द्विधा ।
द्विधैव गद्यपद्यादिभेदान्मिश्रमपीष्यते ।। २.२५ ।।

ललितं निष्ठुरं चूर्णमाविद्धं चेति योऽपरः ।
विशेषः स तु गद्यस्य रीतिवृत्त्योर्भविष्यति ।। २.२६ ।।

वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः ।
रीङ्‌गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ।। २.२७ ।।

वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा ।
लाटीया मागधी चेति षोढा रीतिर्निगद्यते ।। २.२८ ।।

तत्रासमासा निः शेषश्लेषादिगुणगुम्फिता ।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ।। २.२९ ।।

समस्तपञ्चषपदामोजः कान्तिविवर्जिताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ।। २.३० ।।

समस्तात्युद्भटपदामोजः कान्तिगुणान्विताम् ।
गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः ।। २.३१ ।।

अन्तराले तु पाञ्चालीवैदर्भ्योर्यावतिष्ठते ।
सावन्तिका समस्तैः स्याद्वित्रैस्त्रिचतुरैः पदैः ।। २.३२ ।।

समस्तरीतिर्व्यामिश्रा लाटीया रीतिरुच्यते ।
पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी ।। २.३३ ।।

या विकासेऽथ विक्षेपे सङ्कोचे विस्तरे तथा ।
चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्विधा ।। २.३४ ।।

कैशिक्यारभटी चैव भारती सात्वती परा ।
मध्यमारभटी चैव तथा मध्यमकैशिकी ।। २.३५ ।।

सुकुमारार्थसन्दर्भा कैशिकी तासु कथ्यते ।
या तु प्रौढार्थसन्दर्भा वृत्तिरारभटीति सा ।। २.३६ ।।

कोमलप्रौढसन्दर्भा कोमलार्थाथ भारती ।
प्रौढार्थां कोमलप्रौढसन्दर्भां सात्वतीं विदुः ।। २.३७ ।।

कोमले प्रौढसन्दर्भा त्वर्थे मध्यमकैशिकी ।
प्रौढार्था कोमले बन्धे मध्यमारभटीष्यते ।। २.३८ ।।

अन्योक्तीनामनुकृतिश्छाया सापीह षड्विधा ।
लोकच्छेकार्भकोन्मत्तपोटामत्तोक्तिभेदतः ।। २.३९ ।।

साभिप्रायस्य वाक्ये यद्वचसो विनिवेशनम् ।
मुद्रां तां मुत्प्रदायित्वात्काव्यमुद्राविदो विदुः ।। २.४० ।।

सास्मिन्पदस्य वाक्यस्य विभक्तेर्वचनस्य च ।
समुच्चयस्य संवृत्या षोढा न्यासेन जायते ।। २.४१ ।।

विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः ।
प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते ।। २.४२ ।।

विधेरथ निषेधात्स्यादधिकाराद्विकल्पतः ।
नियमात्परिसंख्याया उपाधेः सेह षड्विधा ।। २.४३ ।।

अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः ।
योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ।। २.४४ ।।

पदं चैव पदार्थश्च वाक्यं वाक्यार्थ एव च ।
विषयोऽस्याः प्रकरणं प्रबन्धश्चाभिधीयते ।। २.४५ ।।

योगकारणपर्यायाङ्गाङ्गिभावपरम्पराः ।
पदयुक्तेर्निमित्तं स्युर्निरूढाः पदसिद्धये ।। २.४६ ।।

विरुद्धानां पदार्थानां जात्यादीनां परस्परम् ।
योजना येह तां युक्तिं पदार्थविषयां विदुः ।। २.४७ ।।

गर्भः सह निगर्भेण संवृत्तिः ससमुच्चया ।
हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः ।। २.४८ ।।

यत्तदादेरुपादानं क्रियाभ्याससमुच्चयौ ।
क्रियासमभिहारश्च वाक्यार्थान्युज्यते मिथः ।। २.४९ ।।

यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये ।
वाक्यं सेह प्रकरणविषया युक्तिरिष्यते ।। २.५० ।।

प्रबन्धविषयाप्येवं युक्तिरुक्ता मनीषिभिः ।
उदाहरणमालासां रूपव्यक्त्यै निदर्श्यते ।। २.५१ ।।

उक्तिप्रकारो भणितिः सम्भवेऽसम्भवे च सा ।
विशेषसंवृत्त्याश्चर्यकल्पनासु च कल्प्यते ।। २.५२ ।।

वाक्ये शब्दार्थयोः सम्यग्रचना गुम्फना स्मृता ।
शब्दार्थक्रमपर्यायपदवाक्यकृता च सा ।। २.५३ ।।

शय्येत्याहुः पदार्थानां घटनायां परस्परम् ।
सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित् ।। २.५४ ।।

अतिक्रान्तेन कुत्रापि पदार्थं वर्णयोः क्वचित् ।
वाक्यार्थे वाक्ययोः क्वापि प्रकीर्णानां च दृश्यते ।। २.५५ ।।

काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः ।
पाठो योऽर्थविशेषाय पठितिः सेह षड्विधा ।। २.५६ ।।

पदपादार्धभाषाणामन्यथाकरणेन यः ।
पाठः पूर्वोक्तसूक्तस्य पठितिं तां प्रचक्षते ।। २.५७ ।।

विभिन्नार्थैकरूपाया या वृत्तिर्वर्णसंहतेः ।
अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते ।। २.५८ ।।

तदव्यपेतयमकं व्यपेतयमकं तथा ।
स्थानास्थानविभागाभ्यां पादभेदाच्च भिद्यते ।। २.५९ ।।

यत्र पादादिमध्यान्ताः स्थानं तेषूपकल्प्यते ।
यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः ।। २.६० ।।

चतुस्त्रिद्व्येकपादेषु यमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्यन्ताश्च सर्वतः ।। २.६१ ।।

अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश्चैव दर्श्यन्ते तत्र केचन ।। २.६२ ।।

नादौ न मध्ये नान्ते यत्सन्धौ वा यत्प्रकाशते ।
अव्यपेतव्यपेतं तदस्थानयमकं विदुः ।। २.६३ ।।

पादे श्लोके च तत्प्रायः पादसन्धौ च बध्यते ।
स्वभेदे चान्यभेदे च स्थूलं सूक्ष्मं च सूरिभिः ।। २.६४ ।।

स्थानास्थानविभागोऽयमव्यपेतव्यपेतयोः ।
क्रमेणोक्तस्तयोरेव पादभेदोऽथ कथ्यते ।। २.६५ ।।

अर्धाभ्यासः समुद्गः स्यात्तस्य भेदास्त्रयो मताः ।
व्यपेतश्चाव्यपेतश्च उभयात्मा च सूरिभिः ।। २.६६ ।।

एकाकारचतुष्पादं महायमकमुच्यते ।
श्लोकाभ्यासश्च तत्राद्यं पुनरभ्यासमर्हति ।। २.६७ ।।

एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः ।
तन्त्रेण यत्स शब्दज्ञैः श्लेष इत्यभिशब्दितः ।। २.६८ ।।

प्रकृतिप्रत्ययोत्थौ द्वौ विभक्तिवचनाश्रयौ ।
पदभाषोद्भवौ चेति शब्दश्लेषा भवन्ति षट् ।। २.६९ ।।

आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता ।
अलङ्कारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ।। २.७० ।।

श्रुतिभिर्वृत्तिभिर्वर्णैः पदैर्नामद्विरुक्तिभिः ।
लाटानामुक्तिभिश्चायं षट्‌प्रकारः प्रकाशते ।। २.७१ ।।

प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायकः ।
सनाथैव हि वैदर्भी भाति तेन विचित्रिता ।। २.७२ ।।

निवेशयति वाग्देवी प्रतिभानवतः कवेः ।
पुण्यैरमुमनुप्रासं ससमाधिनि चेतसि ।। २.७३ ।।

एकत्वबुद्धिर्भेदेऽपि तत्त्वेऽप्येकत्वनिह्नवः ।
यस्य वर्णस्य तं प्राहुरनुप्रासस्य जीवितम् ।। २.७४ ।।

डलयोरैक्यमित्यादिवाक्यैर्यस्यानुमीयते ।
समानश्रुतितान्योन्यं सोऽनुप्रासः प्रशस्यते ।। २.७५ ।।

यथा ज्योत्स्ना चन्द्रमसं यथा लावण्यमङ्गनाम् ।
अनुप्रासस्तथा काव्यमलङ्कर्तुमयं क्षमः ।। २.७६ ।।

अनुप्रासः कविगिरां पदवर्णमयोऽपि यः ।
सोऽप्यनेन स्तबकितः श्रियं कामपि पुष्यति ।। २.७७ ।।

मुहुरावर्त्यमानेषु यः स्ववर्ग्येषु वर्तते ।
काव्यव्यापी स सन्दर्भो वृत्तिरित्यभिधीयते ।। २.७८ ।।

कार्णाटी कौन्तली कौङ्की कौङ्कणी बाणवासिका ।
द्राविडी माथुरी मात्सी मागधी ताम्रलिप्तिका ।। २.७९ ।।

औण्ड्री पौण्ड्रीति विद्वद्भिः सा द्वादशविधेष्यते ।
अथ लक्षणमेतासां सोदाहरणमुच्यते ।। २.८० ।।

अकठोराक्षरादानं नातिनिर्वहणैषिणः ।
अशैथिल्यं च सत्कर्तुं वृत्त्यनुप्रासमीशते ।। २.८१ ।।

क्वचिदस्ति क्वचिन्नास्ति क्वचिदस्ति न चास्ति च ।
वर्णानुप्रास एषा तु सर्वतोऽस्तीति भिद्यते ।। २.८२ ।।

स्पर्शादीनामसम्बन्धः सम्बन्धो वापि यो मिथः ।
स्फुटादिबन्धसंसिध्द्यै सेह वृत्तिर्निगद्यते ।। २.८३ ।।

काव्यव्यापी च सन्दर्भो वृत्तिरित्यभिधीयते ।
सौकुमार्यमथ प्रौढिर्मध्यमत्वं च तद्गुणाः ।। २.८४ ।।

गम्भीरौजस्विनी प्रौढा मधुरा निष्ठुरा श्लथा ।
कठोरा कोमला मिश्रा परुषा ललितामिता ।। २.८५ ।।

इति द्वादशधा भिन्ना कविभिः परिपठ्यते ।
कारणं पुनरुत्पत्तेस्त एवासां विजानते ।। २.८६ ।।

इति द्वादशधा वृत्तिः कैश्चिद्या कथितेह सा ।
न गुणेभ्यो न वृत्तिभ्यः पृथक्त्वेनावभासते ।। २.८७ ।।

श्रुत्यनुप्रासवर्णानुप्रासयोरपि दुष्कराः ।
क्वचिद्भेदाः पृथक्कर्तुमस्यास्तेनेह नेष्यते ।। २.८८ ।।

यथाम्रातकपुष्पादिस्त्रगादेर्वर्ण उच्यते ।
वर्णावृत्तिस्तथा वाचां वर्णानुप्रास उच्यते ।। २.८९ ।।

स तु स्तबकवान्स्थानी गर्भो विवृतसंवृतः ।
गृहीतमुक्तः क्रमवान्विपर्यस्तोऽथ सम्पुटः ।। २.९० ।।

मिथुनं वेणिका चित्रो विचित्रश्चेति वर्ण्यते ।
वर्णावृत्तिप्रयोगेभ्यस्तेभ्यस्तेभ्यो मनीषिभिः ।। २.९१ ।।

वर्णावृत्तिरनुप्रास इति यः कृतलक्षणः ।
सोऽयं द्वादशधा भेदैः प्रविभज्य प्रदर्शितः ।। २.९२ ।।

समग्रमसमग्रं वा यस्मिन्नावर्तते पदम् ।
पदाश्रयेण स प्रायः पदानुप्रास उच्यते ।। २.९३ ।।

विसर्गबिन्दुसंयोगस्वरस्थानाविवक्षया ।
अनिर्वाहाच्च स प्रायो यमकेभ्यो विभिद्यते ।। २.९४ ।।

मसृणो दन्तुरः श्लक्ष्णः संपुटं संपुटावली ।
खिन्नः स्तबकवान्स्थानी मिथुनं मिथुनावली ।। २.९५ ।।

गृहीतमुक्तनामान्यस्ततोऽन्यः पुनरुक्तिमान् ।
इति द्वादशभेदोऽयं मनीषिभिरिहेष्यते ।। २.९६ ।।

वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कारबोधिनी पद्यदूरता ।। २.९७ ।।

लाटानुप्रासवर्गस्य यावद्वा लक्ष्यते गतिः ।
पदानुप्रासवर्गेऽपि तावदेव प्रपञ्च्यते ।। २.९८ ।।

स्वभावतश्च गौण्या च वीप्साभीक्ष्ण्यादिभिश्च सा ।
नाम्ना द्विरुक्तिभिर्वाक्ये तदनुप्रास उच्यते ।। २.९९ ।।

क्रियासमभिहारश्च क्रियाभ्यासश्च यः पुरा ।
युक्तावुदाहृतः सोऽपि नामानुप्रास इष्यते ।। २.१०० ।।

जायते न च दोषाय काव्येऽलङ्करसङ्करः ।
विभूषयति हारोऽपि स्तनौ ग्रीवां मृगीदृशाम् ।। २.१०१ ।।

अर्थाभेदे पदावृत्तिः प्रवृत्त्या भिन्नयेह या ।
स सूरिभिरनुप्रासो लाटीय इति गीयते ।। २.१०२ ।।

सा चाव्यवहितो व्यस्तः समस्त उभयः पुनः ।
उभयं चक्रवालं च गर्भश्चैवाभिधीयते ।। २.१०३ ।।

यस्तु व्यवहितो नाम नेयता तस्य शक्यते ।
कर्तुमेकादिगणना पदवृत्त्यादिभङ्गिभिः ।। २.१०४ ।।

यमकानां हि यावन्त्यो वर्ण्यन्ते भेदभक्तयः ।
अनुप्रासस्य लाटानां भिदास्तावन्त्य एव हि ।। २.१०५ ।।

उपमादिवियुक्तापि राजते काव्यपद्धतिः ।
यद्यनुप्रासलेशोऽपि हन्त तत्र निवेश्यते ।। २.१०६ ।।

कुण्डलादिवियुक्तापि कान्ता किमपि शोभते ।
कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रयुज्यते ।। २.१०७ ।।

श्रुतिवर्णानुप्रासावेकविधौ कुन्तलेषु गौडेषु ।
पदयोर्निरनुप्रासो द्वधा त्रेधा च लाटेषु ।। २.१०८ ।।

`वर्णस्थानस्वराकारगतिबन्धान्प्रतीहयः ।
नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते ।। २.१०९ ।।'
आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तदिदं सर्वतोभद्रं सर्वतो भ्रमणं यदि ।। २.११० ।।

अष्टादशशिखरचरीं गोमूत्रिकया चतुष्पदीं पश्येत् ।
यत्राद्यन्तैर्दृष्टां स ज्ञेयो व्योमबन्ध इति ।। २.१११ ।।

अत्र पादचतुष्केऽपि क्रमशः परिलेखिते ।
श्लोकपादक्रमेण स्याद्रेखासु मुरजत्रयी ।। २.११२ ।।

श्लोकस्यैतस्य पादेषु लिखितेषु चतुर्ष्वपि ।
त्रिमृदङ्गकरीह स्याच्चतुरेकाक्षरावली ।। २.११३ ।।

क्रमेणैवास्य पादेषु प्रसृतेषु चतुर्ष्वपि ।
तुर्यान्मुरजमार्गेण श्लोकोऽयमुपजायते ।। २.११४ ।।

गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव ।
गोमूत्रिकेति तत्प्राहुर्दुष्करं चित्रवेदिनः ।। २.११५ ।।

चतुर्णामपि पादानां क्रमेण व्युत्क्रमेण च ।
इयं गोमूत्रिकाधेनुर्वैपरीत्यवशेन च ।। २.११६ ।।

यतिविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा ।
छन्दोभेदाच्छतमियं प्रसूते श्लोकतर्णकान् ।। २.११७ ।।

पदविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा ।
छन्दोभेदाद्दशशतं प्रसूते श्लोकतर्णकान् ।। २.११८ ।।

एषा तु पदविच्छेदिन्येव धेनुः क्रियापदैः ।
सम्बोधनाग्रगैर्दृष्टास्माभिः श्लोकायुतप्रसूः ।। २.११९ ।।

सम्बोधनैरियं धेनुः क्लृप्ता सैकक्रियापदैः ।
लक्षत्रयं सहस्त्राणि षष्टिश्लोकान्प्रसूयते ।। २.१२० ।।

एषान्त्यपदभेदेन सम्भ्रमादिद्विरुक्तिभिः ।
यावद्वोधं पुनः सूते प्रयतश्लोकतर्णकान् ।। २.१२१ ।।

सम्बोधनैर्द्वितीयान्तैः सप्तम्यन्तैः क्रियापदैः ।
श्लोककोटिरियं तिस्त्रः सार्धा धेनुः प्रसूयते ।। २.१२२ ।।

यदा तु सम्भ्रमादिभ्यो भवन्त्यस्या द्विरुक्तयः ।
स्थूलादिना तदा चैषा दशकोटीः प्रसूयते ।। २.१२३ ।।

पदग्राहाद्यथाकामं कामधेनुरियं तु नः ।
परार्धानां परार्धानि प्रसूते श्लोकतर्णकान् ।। २.१२४ ।।

एकाक्षरादिच्छन्दोभिर्गतिबन्धादिभेदतः ।
उक्तानुक्तानि चित्राणि सर्वाण्येषा प्रसूयते ।। २.१२५ ।।

सकृदुच्चारणे चास्या गच्छत्येका विनाडिका ।
तत्षष्ट्या नाडिका ताभिः षष्ट्याहोरात्रमृच्छति ।। २.१२६ ।।

प्रणवादिनमोन्तानि पदान्यस्या जपन्ति ये ।
सर्वभाषासु वाक्तेषामविच्छिन्ना प्रवर्तते ।। २.१२७ ।।

सिद्धैर्मन्त्रपदैः सेयं शास्त्राण्यालोच्य निर्मिता ।
जपतां जुह्वतां देवी सर्वान्कामान्प्रयच्छति ।। २.१२८ ।।

स्थितेनागन्तुकं इत्यादीप्सितेन विभाजयेत् ।
तद्भेदास्ते भवन्त्येवमन्येष्वपि हि योजयेत् ।। २.१२९ ।।

दुष्करत्वात्कठोरत्वाद्दुर्बोधत्वाद्विनावधेः ।
दिङ्मात्रं दर्शितं चित्रे शेषमूह्यं महात्मभिः ।। २.१३० ।।

उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्बुधाः ।
द्वयोर्वक्रोस्तदिच्छन्ति बहूनामपि सङ्गमे ।। २.१३१ ।।

ऋजूक्तिरथ वक्रोक्तिर्वैयात्योक्तिस्तथैव च ।
गूढं प्रश्रोत्तरोक्ती च चित्रोक्तिश्चेति तद्भिदा ।। २.१३२ ।।

प्रहेलिका सकृत्प्रश्रः सापि षोढा च्युताक्षरा ।
दत्ताक्षरोभयं मुष्टिर्बिन्दुमत्यर्थवत्यपि ।। २.१३३ ।।

क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगा प्रहेलिका ।। २.१३४ ।।

क्रियाकारकसम्बन्धे पदाभिप्रायवस्तुभिः ।
गोपितैः षड्विधं प्राहुर्गूढं गूढार्थवेदिनः ।। २.१३५ ।।

यस्तु पर्यनुयोगस्य निर्भेदः क्रियते पदैः ।
विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः ।। २.१३६ ।।

अन्तः प्रश्नबहिः प्रश्नबहिरन्तः समाह्वयैः ।
जातिपृष्टोत्तराभिख्यैः प्रश्नैस्तदपि षड्विधम् ।। २.१३७ ।।

यद्विधौ च निषेधे च व्युत्पत्तेरेव कारणम् ।
तदध्येयं विदुस्तेन लोकयात्रा प्रवर्तते ।। २.१३८ ।।

काव्यं शास्त्रेतिहासौ च काव्यशास्त्रं तथैव च ।
काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम् ।। २.१३९ ।।

श्रव्यं तत्काव्यमाहुर्यन्नेक्ष्यते नाभिधीयते ।
श्रोत्रयोरेव सुखदं भवेत्तदपि षड्विधम् ।। २.१४० ।।

आशीर्नान्दी नमस्कारो वस्तुनिर्देश इत्यपि ।
आक्षिप्तिका ध्रुवा चेति शेषो ध्येयं भविष्यति ।। २.१४१ ।।

यदाङ्गिकैकनिर्वर्त्यमुज्झितं वाचिकादिभिः ।
नर्तकैरभिधीयेत प्रेक्षणाक्ष्वेडिकादि तत् ।। २.१४२ ।।

तल्लास्यं ताण्डवं चैव छलिकं संपया सह ।
हल्लीसकं च रासं च षट्‌प्रकारं प्रचक्षते ।। २.१४३ ।।

मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् ।
तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा ।। २.१५६ ।। (२.१४४)

अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी ।
षट् चित्राभिनयास्तद्वदभिनेयं वचो विदुः ।। २.१५७ ।। (२.१४५)

चतस्त्रो विंशतिश्चैताः शब्दालङ्कारजातयः ।
शब्दसन्दर्भमात्रेण हृदयं हर्तुमीशते ।। २.१५८ ।। (२.१४६)

इति श्रीराजाधिराजभोजदेवेनविरचिते सरस्वतीकण्ठाभरणनाम्नि अलङ्कारशास्त्रेऽलङ्कारनिरूपणं नाम द्वितीयः परिच्छेदः ।