सम्भाषणम्:ध्वनितत्वसमीक्षा

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

ध्वनितत्वसमीक्षा ध्वनितत्वसमीक्षा १. ध्वनितत्वम् ( प्रथमः परिच्छेदः) ध्वनितत्त्वम् अहमित्येव ध्वनितत्त्वम् अर्थावबोधकमनर्थकञ्च सर्वमपि शब्दजातं ध्वनिरित्यपरनाम्ना व्यवह्रियते । उक्तञ्च पातञ्जलमहाभाष्यस्य पस्पशाह्निके- ’अथवा प्रतीतपदार्थको लोके ध्वनिः शब्दः’ इति । अनेन सार्थकस्य शब्दस्य ध्वनिरूपत्वं प्रमाणतामायाति । निरर्थकोऽपि शब्दो ध्वनिरिति तु लोके प्रसिद्धमेव । किञ्च, नूतनध्वनिविज्ञानलोके सर्वविधोऽपि शब्दः ध्वनिरुच्यते । संवित्स्वरूपा मन्त्रवीर्यात्मा परा वाग, अथ च पश्यन्ती, मध्यमेति वाक्त्रयमपि ध्वनिपदेन व्यपदिश्यते । तद्यथा- एवं त्रिविधविसर्गावेशसमापत्तिधाम्नि य उदेति । संवित् परिमर्शात्मा ध्वनिस्तदेव मन्त्रवीर्य स्यात् ।। (तन्त्रालोकः २५।१७२) अत्र ’संवित् परिमर्शात्म” इति पदेन परावाग् गृह्यते । पश्यन्त्याश्च परावाङ्मूलत्वात् साऽपि ध्वनिस्वरूपा। मध्यमाया वाचो ध्वनिशब्देन व्यवहारो योग- चूड़ामण्युपनिषदि प्रोक्तः । तद्यथा- तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । प्रणवस्य ध्वनिस्तद्वत् तदनं ब्रह्म चोच्यते ॥८॥ एवं सर्वविधस्यापि शब्दस्य शास्त्रकारवनीत्यपरनाम्ना व्यवहारात सर्वोऽपि शब्दो ध्वनिनामाहः । तेन ’अकारादिवर्णा एव ध्वनिपदवाच्याः, न तु परादिवाच”’इति न स्वीकरणीयम् । ध्वनिशब्दयोरभेदव्यवहारादेव”ध्वनिरेव शब्दः’ इति वैयाकरणानां समयः । उक्तञ्च श्रीभर्तृहरिणा वाक्यपदीयस्य ब्रह्मकाण्डे- आत्मभेदस्तयोः केचिदस्तीत्याहुः पुराणगाः । बुद्धिभेदादभेदस्य भेदमेकेप्रचक्षते ॥ इति । पातञ्जलमहाभाष्यस्य पस्पशाह्निके च--- अथवा "प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते, तद्यथा शब्दं कुरु’,”मा शब्दं कार्षीः’, ’शब्दकार्ययं माणवकः’ इति ध्वनि कुर्वन्नेवमुच्यते । तस्माद् ध्वनिः शब्दः ।" अत्र ध्वनिरेव शब्दः । ध्वनिशब्दयोरभेदसम्बन्धः । ध्वनि विना शब्दस्य तत्त्वेन न प्रतीतिरतो ध्वनिरेव शब्दः।